२३

अन्न-याच्ञा-मिषेण यज्ञपत्नीष्व् अनुग्रहः ।

॥ १०.२३.१ ॥

गोपा ऊचुः—

राम राम महावीर्य कृष्ण दुष्ट-निबर्हण ।
एषा वै बाधते क्षुन् नस् तच्-छान्तिं कर्तुम् अर्हथः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्रयो-विंशे ततो गोपैर् अन्न-याच्ञापदेशतः ।

तत् पत्न्य्-अनुग्रहात् कृष्णो दीक्षितान् अन्वतापयत् ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः जल-पानोत्तरम् । तत्-पत्नीनां दीक्षित-भार्याणाम् अनुग्रहात्अपदेशः छद्म ।*। दुष्टान् निबर्हति हतीति तथा बर्ह-हिंसायाम् अतो तुल्य-प्रत्ययः । क्षुत् भोक्तुम् इच्छा । तस्याः क्षुधः शान्तिं प्रशमं, शान्तिः प्रशम-मङ्गले इति यादवः । क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः इति श्रुतेर् अस्माकं महा-शत्रुम् । अधुना क्षुद् रूपं चेद् धन्तुं शक्नुथ, तदैव युवयोर् महा-बल-दुष्ट-हन्तृत्वे सार्थके ज्ञास्येते इति नर्म व्यञ्जितम् ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रमयति सर्वान् एव सुखयतीति रामः, तत्-सम्बोधनम्, अस्मान् अपि सुखयेति भावः । वीप्सा क्षुधार्त्या, हे महा-बाहो ! इति सामर्थ्य-विशेषं तत्र सूचयन्ति, महा-वीर्येति पाठे\ऽपि स एवार्थः । कृष्ण ! हे परमानन्द-घन-मूर्ते ! अतस् त्वदीयाणां क्षुद्-दूःखम् अयुक्तम् इति भावः । विशेषतश् च, हे दुष्ट-निबर्हणेति क्षुत् कहलु वै मनुष्यस्य भातृव्य-शत्रुः इति श्रुतेः । अस्माकं दुःख-प्रदं क्षुद् अरिम् अपि नाशयेति भावः । एषा अधुना साक्षात् । किं वा, मुख-शोषादि-लक्षणैः प्रत्यक्षं, वै निश्चितम्, अर्हथ इति विनयोक्त्या अवश्य-कृत्यता बोध्यते


यद् वा, योग्यौ भवथः, योग्यता चान्वर्थ-सम्बोधनैर् एव सूचिता । स्नेह-विशेषेण तयोर् अभेदाद् द्वौ प्रत्य् एव प्रार्थनम्, तत्र लोक-व्यवहाराद्य् अपेक्षयादौ जेष्ठस्य सम्बोधनम्,

यद् वा, रामस्यानादरेण कृष्ण-प्रीत्य् असम्पत्तेः, अत एव तं प्रति द्विसम्बोधनं च ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ ते क्षुधार्ता सख्य-स्वभावान् नर्म-विशेषम् अवलम्ब्य तेन प्रस्तुतां वृक्षाणां सर्वार्थदताम् अमन्यमानाः सर्वार्थ-दानार्थं मनुष्याणां प्रचारं परित्यज्य यस्मान् इहानीतम् एव प्रार्थयन्ते—रामेति । अस्मान् अपि रमयेति भावः । वीप्सा क्षुधार्त्यां हे महा-बाहो इति सामर्थ्यम् उक्तं महा-वीर्येति पाठे\ऽपि स एवर्थः कृष्ण ! परमानन्द-घन-मूर्ते ! अतस् त्वदीयानां क्षुद्-दुःखम् अयुक्तम् इति भावः । विशेषतश् च हे दुष्ट-निबर्हणेति क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः इति श्रुतेः । न अस्माकं दुःख-प्रदम् एतं क्षुद् अरिम् अपि नाशयेति भावः । स्नेह-विशेषेण तयोर् अभेदात् द्वौ प्रत्य् एव तत्रादौ राम-सम्बोधनं तत्रैवाम्रेडितं च लोक-मर्यादानुरूपेण तद्-गौरवेणैव श्री-कृष्णस्य सुखात् स्वयं च वक्ष्यते कीर्तयन्तः इत्य्-आदि एषा दुस्सहत्वेनानुभूयमाना अर्हथः योग्यौ इत्य् आवश्यकत्वम् अपि सूचितं वस्तुत इयम् अप्य् एका क्रीडैव ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ यञ्ज-पत्नी-जनानुकम्पा-लीलाम् अवतारयितुं क्षुत्-पीडित-गोप-वालोक्तिं प्रपञ्चयति—राम रामेतित्य्-आदि । एषेति दुःसहेत्य् अर्थः । यद्य् अपि भ्रातराव् एव विज्ञापितौ गोपार्भकैः, तथापि रामस् तत्-समाधानं चिन्तयितुं नाशकन् । समर्थोऽपि भागवतः समीपे सामर्थ्यं न प्रकटयतीति । भगवांस् तु तत् समाधत्त इत्य् आह—इतीत्य् आदि । इति गोपैर् विज्ञापितो भगवान् इदम् अब्रवीत् । जगदीश्वरोऽपि भक्ताया विप्र-भार्यायाः प्रसीदन्, सर्व-समोऽपि भक्त-प्रिय इत्य् अर्थः । भक्ताया इति जाताव् एक-वचनम् । अथवा, त्यक्ष्यमाण-देहां प्रति । यदपि तद्-अन्याः साक्षाद् ददृशुः, तथापि तस्याः प्राकृत-देह-त्यागेनाप्राकृत-देहम् आसाद्य गोपाङ्गनाभिः सह तत्-कालाङ्ग-सङ्ग-भागनत्वात् । तास्तु विलम्बेनैव प्राप्स्यन्तीति ताभ्योऽस्याः सौभाग्यातिशय इत्य् अर्थः ॥१.२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

त्रयोविंशे ऽन्न-याच्ञा नादृतैर् गोपैः पुनश् च सा ।

पत्नीनां प्रेम विप्राणाम् अनुतापश् च वर्ण्यते ॥

क्षुन् न इति क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः इति श्रुतेर् अस्माकं क्षुन् महा शत्रुम्, अधुना हन्तुं चेत् शक्नुथस् तदैव युवयोर् महाबल-दुष्ट-हन्तृत्वे सार्थके ज्ञास्येते इति नर्म-व्यञ्जितम् ॥१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) :

त्रयोविंशे त्व् अन्न-याच्ञा गोपैर् विप्रान् प्रति प्रभोः ।

तत्-पत्नीनां परां भक्तिस् तेषां तापश् च वर्ण्यते ॥

एषा क्षुन् नो बाधत इति अस्या विनाशे कृते युवयोस् तादृशत्वं विद्म इति नर्म व्यज्यते ॥१


॥ १०.२३.२ ॥

श्री-शुक उवाच—

इति विज्ञापितो गोपैर् भगवान् देवकी-सुतः ।
भक्ताया विप्र-भार्यायाः प्रसीदन्न् इदम् अब्रवीत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ताया इत्य् एक-वचनं सद्यः सायुज्याभिप्रायेण ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यासां कालान्तरे मोक्षाद् एकत्वम् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यद्य् अपि उभाव् एव गोपैर् विज्ञापितौ, तथापि भगवान् श्री-कृष्ण एवोवाच । कुतः ? तत्राह—भक्ताया इत्य्-आदि । भक्ताया विप्र-भर्यायाः प्रसीदन् ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् अनेन प्रकारेणेदं वा पूर्वोक्तं विशेषेण स्तुत्य्-आदिना क्षुधार्ति-व्यञ्जनेन च ज्ञापितः सन्, जगदीश्वरः सर्व-शक्तिमान् अपि इदं वक्ष्यमाणम् अब्रवीत् । कुतः? विप्र-भार्याया इति जातव् एकत्वम्, ताः प्रति प्रसीदन् अनुग्रहं कर्तुम् इच्छन् । तत्र हेतुः—भक्तायाश् चिरं भगवति श्रद्धादरादि-युक्तायाः कृत-भजनाया वा । तथाप्य् आदौ विप्रेषु याचनं तासाम् एव माहात्म्य-प्रदर्शनाय, तच् चाग्रे व्यक्तं भावि । ननु तासां भक्तत्वं कथत्वं कथं जातम् ? तत्राह—भगवन् तस्य भगवत्ता-विशेष-प्रकटनेनेत्य् अर्थः ।

यद् वा, भक्त-वत्सल इत्य् अनुयाचनादि-द्वारेण प्रसाद-विशेषे हेतुः । अतो द्वौ प्रति प्रार्थने\ऽपि तेनेवोत्तरितम्, सर्वार्था तत्र तस्यैव योग्यत्वात् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् सर्व-शक्तिमान् अपि इदं वक्ष्यमाणम् अब्रवीत् । कुतः ? विप्र-भार्याया इति । जाताव् एकत्वं सर्वासां तासाम् अविशेषेणोपादानार्थं ताः प्रति प्रसीदन् अनुग्रहं कर्तुम् । तत्र हेतुः—भक्तायाः चिरं भगवति जात-रतेः । तथाप्य् आदौ विप्रेषु वशनं तासाम् एव माहात्म्य-प्रदर्शनाय तच् चाग्रे व्यक्तं भावि ।

ननु, तासां भक्तत्वं कथं जातम् ? तत्राह—जगदीश्वरः, तदानीं जगत्य् अपि मधुरम् ऐश्वर्यं प्रकाशयति तस्मिन् तस्मिन् परम-सुकोमल-हृदयानां तासां भक्तिः कथं न जायताम् इति भावः । देवकी-सुत इति पाठे स एव भावः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्ताया इति जाताव् एक-वचने स्वभावतः कृष्ण-प्रधान-चेतस्त्येन्-आहुः ॥२.५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विप्र-भार्याया इति जाताव् एकत्वं भक्ताया इति तासां भक्तिम् अनुस्मृत्य सद्य एव प्रसीदन् । किं च, तास्व् एकस्यां तु भविष्यन्तीं दशमीं दशाम् अनुस्मृत्य प्रकर्षेण सीदन् शोचमानश् चेत्य् अर्थ-द्वय-लाभार्थम् एकत्वम् इति केचित् ॥२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : विप्र-भार्याया इति जात्यैकत्वं सर्वासु तत्-प्रसादात् ॥२॥


॥ १०.२३.३ ॥

प्रयात देव-यजनं ब्राह्मणा ब्रह्म-वादिनः ।
सत्रम् आन्गिरसं नाम ह्य् आसते स्वर्ग-काम्यया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आङ्गिरसम् अङ्गिरसा बृहस्पतिनोक्तं बृहस्पती-सवम् इति वा । आसते कुर्वते, आसत इति प्रथमे (१.१.४) व्याख्यातम् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देव-यजनं यज्ञ-वाटम् । ब्रह्म-वादिनो वेद-घोषण-शीलाः, न तु वेदार्थ-विद इत्य् अर्थः । यद् वा, ब्रह्मणि वेदे ते न वाद-शीलाः, न तु तत्-सारं विदन्तीत्य् अर्थः । अत एव स्वर्ग-काम्यया सत्रं यज्ञम् आसते अनुतिष्ठन्तीत्य् अर्थः । हि निश्चितम् । कीर्तयन्त [१०.२३.४] इत्य्-आद्य्-उक्तिर् यद्य् अपि सर्व-सद्-गुण-निधेस् तस्य विनयादि-स्वभावत एव, तथापि तेषां स्वर्ग-काम्ययात्मन्य् अनादरम् अभिप्रेताः । मम चेति गौणतया निर्दिष्टम् । अन्यत् तैर् व्याख्यातम् ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देव-यजनं यज्ञ-वाटम् । ब्रह्म-वादिनः वेद-घोषण-शीलाः, न तु वेदार्थ-विद इति गूढोऽभिप्रायः । अत एव स्वर्ग-काम्यया सत्रं यज्ञम् आसते अनुतिष्ठन्तीत्य् उक्तम् । हि निश्चितम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं तत् ? इत्य् आह—प्रयातेत्य्-आदि द्वाभ्याम् । भगवत आर्यस्याग्रजस्य मम चाभिधां कीर्तयऽन्त इति द्वयोर् अभिधानं स-तात्पर्यकम् । तद् यथा, ममाभिधाम् इत्य् उक्ते ज्यायसो गौरव-हानिः, आर्यस्येत्य् उक्तेः कदाचिन् न प्रयच्छऽन्तीति यद्य् अपि ते न दास्यन्तीति स्वयम् एव सार्वज्ञज्जानाति, तथापि कर्म-निष्ठाः प्रायो बहिर्मुखा इति लोकान् प्रत्याययितुं तथा । अत एवोक्तं स्वर्ग-कामायेति ॥३.४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तपो-विद्या-धर्मादिमत्स्व् अपि विप्रेषु भक्त्य्-अभावान् न मे प्रसादस् तप-आदि-रहितास्व् अपि तत्-पत्नीषु भक्ति-सद्भावान् मत्-प्रसाद इत्य् अर्थ-द्वयम् एकस्यां ब्राह्मण-जाताव् एव क्रमेण ज्ञापयितुं प्रथमं गोपान् ब्राह्मण-सन्निधौ प्रस्थापयन्न् आह—प्रयातेति ॥३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : उपवीत-संस्काराद्यैः केवलैर् धर्मैः प्रसादो न भवेत् किन्तु भक्तैवेत्य् एकस्याम् एव ब्राह्मण-जातौ क्रमाद् बोधनायादौ तद्-विशिष्टान् विप्रान् प्रति गोपान् प्रेषयन्न् आह—प्रयातेति । देव-यजनं यज्ञ-स्थानं ब्रह्म वेदस् तद्-वादिनः ॥३॥


॥ १०.२३.४ ॥

तत्र गत्वौदनं गोपा याचतास्मद्-विसर्जिताः ।
कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्मद्-विसर्जिता आवाभ्यां प्रहिताः सन्तो याचध्वम् । युष्माकं का तत्र लज्जा । ननु तथाप्य् अपात्रत्वाद् अस्मभ्यं कम् इति दास्यान्तीति चेत् तत्राह—कीर्तयन्त इति ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र यज्ञशालायाम् । युष्माकं गोपानाम् । तत्र याचने । आर्यस्य श्री-रामस्य । आर्यस्य बलदेवस्य प्रथमाम् अभिधां कीर्तयन्त इति मत्तो वैश्य-जातेः सकाशादार्यं क्षत्रिय-जातिं किञ्चिद् अर्भ्यहितत्वेन दान-पात्रं मत्वापि यदि ते बहिर् दर्शितो वः किञ्चिद्-दास्यन्ति तद् अपि भद्रम् इति भावः । अभिधां नाम अभिधानं च नाम च इत्य् अर्थः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि वैष्णवानाम् अस्माकं तदोदन-याच्ञ्यालम्, तत्राह—अस्मद्-विसर्जिता आवयोः प्रेरकत्वान् न तद्-दोषो युष्मासु प्रसज्जेतेत्य् अर्थः । ननु अनुगेष्व् अपि दोष प्रसक्तः स्याद् एव, तत्राह—कीर्तयन्त इति । अस्मन्-नाम-कीर्तनेन तद्-दोषो नङ्क्ष्यतीति भावः । कुतः ? भगवतः सर्व-शक्तिमतः । एवं याचकान् प्रति भगवन्-नाम-कीर्तन-पूर्वक-याचन-प्रकारश् च शिक्षितः ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदि तु सङ्कोचं मन्यध्वे, तर्ह्य् यावयोर् एव निदेश-कारित्वेनात्मानं रूपापयत, न तु पित्रादि-नाम्नेत्य् अभिप्रेत्य् आह—अस्मद्-विसर्जिता इति । तत्र च विशेषम् आह—कीर्तयन्त इति । भगवतो महा-प्रभावस्येति तत्र युक्ति-शोक्ता मम च तत्-सम्बन्धेनेत्य् अर्थः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : याचत याचध्वम् । कीर्तयन्त इति आवाभ्याम् अपि स्व-नाम्नापि प्रबोधयितुम् अशक्या ईदृशी तेषां विदुषां निद्रेति ज्ञापयितुम् उक्तं आर्यस्य बलदेवस्य प्रथमम् अभिधाः कीर्तयन्त इति मत्तो वैश्य-जातेः सकाशाद् आर्यं क्षत्रिय-जातिं किञ्चिद् अभ्यर्हितत्वेन दान-पात्रं मत्वापि यदि ते बहिर्-दर्शिणो वः किञ्चिद् दास्यन्ति, तद् अपि भद्रम् इत्य् अभिप्रायेण ॥४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : आवाभ्यां विसर्जिताः प्रेषिताः सन्तो याचध्वं ननु, गोपेभ्यः कथं ब्रह्मणा दद्युर्दत्तं वा कथं ग्रहीष्यामः प्रतिग्रहापात्रत्वात् तत्राह—आर्यस्य बलदेवस्य मम चाभिधां कीर्तयन्त इत्य् आवयोः पात्रत्वात्—

अतः पात्रतरः कोऽन्यस् त्रिषु लोकेषु विद्यते । > कृष्णात् कमल-पत्राक्षात् देव-देवाज् जनार्दनात् ॥ इति स्मृतेः > ॥४॥


॥ १०.२३.५ ॥

इत्य् आदिष्टा भगवता गत्वायाचन्त ते तथा ।
कृताञ्जलि-पुटा विप्रान् दण्डवत् पतिता भुवि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते गोपाः । यथा भगवतोक्तं, तथा तेन प्रकारेण ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति भगवतादिष्टा इति तद्-आज्ञा-पालनस्यावश्यकत्वाद् इत्य् अर्थः । तथेति यथा तेनादिष्टं, तेनैव प्रकारेणेति गोपानां तेष्व् अनादरम् आलक्ष्य ब्रह्मणान् प्रति भक्त्या प्रणामादिकम् अपि तेनैवादिष्टम् इति बोधयति । यद् वा, श्री-वैष्णव-प्रवराणां तेषां स्वभावतो विप्रेषु भक्तिर् अस्त्य् एव, ततश् च तथा तेन नाम-कीर्तनादि-प्रकारेण अयाचन्तेति ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् आदिष्टा इति तद्-आदेश-गौरवेणैवेत्य् अर्थः । याज्ञिकानां दौःशील्यं विशेषयितुं तेषां सौशील्यम् आह—कृतेति ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं विश्वस्ताः सन्तो व्रज-बालास् त्वरितम् एव तत्र जग्मुर् इत्य् आह—इत्य् आदिष्टा इति द्वाभ्याम् । कृष्णस्यादेश-कारिणस् तत्रापि राम-प्रेरितान् नोऽस्मान् प्राप्तान् जानीत, स्वतो वयं प्राप्ता इति न जानीतेति भावः ॥५.१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृताञ्जलि-पुटा इति स्वीयां सौशील्यम् अभिव्यञ्जयितुम् । तच् च तदानीं भिक्षा-प्राप्त्य्-अर्थकम् एव । दण्डवत् पतिता इति स्वीय व्रज-स्थ-विप्रेभ्योऽपि सकाशात् तान् अतितेजस्विनो मत्वा इत्य् अर्थः ॥५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : भुवि दण्डवत् पतिता इति सौशील्यात् तेषु तेषां भक्ति-भरः ॥५॥


॥ १०.२३.६ ॥

हे भूमि-देवाः शृणुत कृष्णस्यादेश-कारिणः ।
प्राप्तान् जानीत भद्रं वो गोपान् नो राम-चोदितान् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भूमि-देवो द्विजोत्तमः इति हलायुधः । आदेश आज्ञा ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यद्य् अपि आर्यस्य मम चाभिधाम् [१०.२३.४] इति द्वयोर् नाम्ना याचतेति भगवतोक्तम्, तथापि हे भूमिदेवाः ! शृणुत कृष्णस्यादेश-कारिणः इति प्राधान्येन कृष्णस्यैव नामाभिदधुः । रामेण चोदितान् प्रेरितान् रामेण च उदितान् इति वा रामस्य नाम पश्चाद् एवाभिदधुः—तेषां तं प्रति सिद्ध-सङ्कल्पतया शतशो\ऽनुभवात् ॥६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाह—हे भूमीति ! हे भूमि-देवा इति भक्त्या विप्राणां सम्बोधनम्, यद्य् अपि आर्यस्येति श्री-कृष्णेनादौ निर्दिष्टं तथापि तेषां स्वभावतः कृष्णे भक्ति-विशेषेण कृष्णस्यादेशकारिणः सेवकान् इति प्राग् उक्तिः, प्राप्तान् आगतान् तच् छ्रवणे आदरम् अनालक्ष्य तेषां महापराधं मत्वा कृपया क्षेमम् आशासते—वो भद्रम् अस्त्विति । यद् वा, भक्त्य् उक्तिस्वभाव एव याचकरीत्य् अनुसाराद् वा ।

ननु कृष्ण-सेवका यूयं कथम् अत्रागताः ? तत्राहुः—रामेति । कृष्णाज्ञाया रामेण प्रेषणाद् इत्य् अर्थः । एवम् आत्मनां श्री-कृष्ण-रामानुगत्वं तथा कृष्णे भक्त्याधिक्यं तथा कृष्णस्य माहात्म्यं च रामतो\ऽधिकं बोधितम् ।

यद् वा, कृष्णस्यादेश-कारिण इति कृष्णादेशेन रामेण चोदिता इति राम-प्रेरणया च प्राप्तान् इत्य् अर्थः । एवं द्वाभ्याम् एव प्रेषणं ज्ञापितम्, तथापि कृष्णाद् इष्ट-क्रमातिक्रमस् तेषां कृष्णे भक्ति-स्वभावाद् एव कृष्ण-राम-नाम्नोर् अन्वर्थतया । किं वा, तत् तत्-सञ्ज्ञयैव माहात्म्य-भरेण सर्वत्र सुप्रसिद्ध्या तयोर् ऐश्वर्यं सूचितम् । अतस् तत्-सेवका वयं तद् आज्ञयैवागताः स्मः, न तु स्वयम् इत्य् अर्थः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे भूमि-देवाः ! इति भक्त्या सम्बोधनं स्वभावतः कृष्ण-प्रधान-चेतस् त्वेनाहुः—कृष्णस्येति । श्री-कृष्णोक्ति-क्रम-विस्मृतिम् अभिनीयाहुः—रामेति । तत्र प्रेषणे तु रामादेश एव मुख्य इत्य् अर्थः । अत एव तत्-सम्वरणार्थं मध्यं भद्रं व इति स सम्भ्रमादरोक्तिः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्णस्येति श्री-कृष्णोक्तिः क्रम-विस्मृतिम् अभिनीय तत्-सस्मरणार्थं सादरं किञ्चिद् आहुर् भद्रम् इति श्री-कृष्णादेशवद् आहुः—रामेति ॥६.७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णस्यादेश-कारिण इति तस्य नन्द-राज-पुत्रत्वेन रामतः सकाशाद् ऐश्वर्यात्; राम-चोदितान् इत्य् अस्मद्-द्वारा राम एवान्नं प्रथमं भिक्षते इत्य् अभिप्रायेण ॥६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : हे भूमिदेवा ! विप्रा ! रामेण प्रेषितान् कृष्णस्याज्ञावहान् अस्मान् जानीत ॥६॥


॥ १०.२३.७ ॥

गाश् चारयन्ताव् अविदूर ओदनं

रामाच्युतौ वो लषतो बुभुक्षितौ ।

तयोर् द्विजा ओदनम् अर्थिनोर् यदि

श्रद्धा च वो यच्छत धर्म-वित्तमाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अविदूरे वर्तमानौ सन्तौ वो यद् अन्नं तल्-लषतोऽभिलषतः । वः ओदनं श्रद्धा च यद्य् अस्ति, तर्हि यच्छत इति ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु, तौ न ब्राह्मणौ कथं ब्रह्मण-भोजनात् पूर्वं ताभ्यां दास्यामः? तत्राहुः—बुभुक्षितौ । अन्नस्य क्षुक्षितः पात्रम् इति स्मृतिं [जानीथैवेति]{।मर्क्} भावः । मिम् अप्य् अवदतस् तान् पुनर् आहुः—हे द्विजास् तयोर् अर्थिनोर् वो यदि श्रद्धा, तर्हि यच्छत नी चेन् नेति ब्रूत, वयं परावृत्य याम इति भावः । धर्म-वित्तमा अत्रान्वय-व्यतिरेकयोर् धर्माधर्मौ वयं पुनः किं ब्रूम इति भावः । श्लेषेण ययोर् नाम्नैव सर्व-जगद् अप्य् अतिद्रुतीभूयानुरज्यति तौ राम-कृष्णाव् अतिक्षुधार्ताव् आदिनाव् अपि श्रुत्वा यत् तु तूष्णीं भवथ अतो यूयं द्विजाः पितृ-द्वय-जाता एवेत्य् आक्षेपश् च । धर्म-वित्तमा इति विपरीत-लक्षणया ।

यद् वा, धर्मो धर्म-विदुत्तमाः इति सहस्र-नामसु धर्म-विद्वरिस्तस्य तमोऽज्ञानं येषां ते तथा । सान्तानाम् [अदन्तत्वादाषत्वाद्]{।मर्क्} वा रूप-सिद्धैः हरि-विमुखा इत्य् अर्थः । श्रद्धास्तिक्याभिलाषयोः इति यादवः ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किम् अर्थं प्राप्ताः स्थः ? तत्राहुः—गा इति । ननु कथम् अविदूरे तौ ? तत्राहुः—गाश् चारयन्ताव् इति । इति मान-राक्षायै तत्रान्नार्थागमनं परिहृतम्, अन्नम् इत्य् अत्र ओदनम् इति पाठः । क्वचित् । तथापि यद् अन्नम् इति तेषां व्याख्यापि सङ्गच्छेतैव, अन्न-मात्रानुसारात्, ओदन-शब्देन प्रायो भक्तम् एवोच्यते, तस्यैव सुख-भोज्यत्वात् ।

यद् वा, कुतो बुभुक्षितौ ? तत्राहुः—गाश् चारयन्तौ गोचारणेन तत्र च दूरागमनेन श्रमाद् इत्य् अर्थः । यद्य् अपि त एव बुभुक्षिताः न च तौ क्षुधार्तौ इत्य् उक्तेः, तथापि बुभुक्षिताव् इति तयोर् बुभुक्षयैवान्न् अप्राप्ति-सिद्धेः । किं वा, स्नेह-विशेषेण निज-क्षुधया तयोर् अपि क्षुद्-अनुमानाद् एव,

यद् वा, तौ कुतो\ऽत्र नायातौ ? तत्राहुः—गा इति । तौ विना गवां रक्षा न भवेद् इति भावः ।

ननु स्म्प्रति कुत्र तौ तिष्टतः ? तत्राह—अविदूरे प्रायो निकट एवेत्य् अर्थः । रामाच्युताव् इति द्वन्द्व-समासतो ब्रह्मणेभ्यो भयेन ज्ञेष्ठ-क्रमेण निर्दिष्टः, लोक रकणाद् रामः, सर्व-गुणात् च्युति-रहितो\ऽक्युत\ऽच्युत इति माहात्म्यमन्नलब्धये ध्वनितम् । भो युष्माकम् एवान्नम् इति तद् इतरान्नं रिरस्तम् ।

ननु तथापि सत्रं परित्यज्य गन्तुं न शक्यते, तत्राहुः—यच्छत अस्मास्व् एव समर्पयतेति । चकारादोनश् च यद्य् अस्ति, सतो\ऽधिभ्यो\ऽप्रदानम् अधर्म इति भावः । अत एवाहुः—हे धर्म-वित्तमा इति ।

यद् वा, ननु दानस्य पात्रं विप्र एव, न त्वन्यः ? तत्राहुः—अन्नस्य क्षधितः पात्रम् इति धर्मो धर्म-शस्त्रं वा भवद्भिर् नितरां ज्ञायत एव, अन्यथा त्व् अधर्म एवेत्य् अर्थः । तम-प्रत्यतः स्तुत्य् अर्थम् एव, न तु तत्त्वतः, धर्म-तत्त्वाज्ञानात् । एवम् अग्रे सत्तमा इति च ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किम् अर्थं प्राप्ताः स्थ तत्राह—गा इति । ननु, कथम् अविदूरे तौ तद्वाहुः गाश् चारयन्ताव् इति । मान-रक्षायै तत्रान्नार्थागमनं परिहृतं अन्नम् इति स्वामि-पाठः ओदनम् इति पाठो बहुत्र अर्थस् तु समानः भिस् सास्त्री भक्तम् अन्धोन्न-मोदनो स्त्री स दीदिविः इत्य् अमरः । यद् वा, कुतो बुभुक्षितौ ? तत्राहुः—गाश् चारयन्तौ गोचारणेन । तत्र च दूरागमनेन परिश्रमाद् इत्य् अर्थः । बुभुक्षिताव् इति तयोर् एव बुभुक्षयान्न-प्राप्ति-सिद्धेः । यद् वा, तौ कुतोऽत्र नायातौ ? तत्राहुः—गा इति । तौ विना गवां रक्षा न भवेद् इति भावः ।

ननु, सम्प्रति कुत्र तौ तिष्ठतः ? तत्राहुः—अविदूरे प्रायो निकट एवेत्य् अर्थः । इदं निज-वचन-प्रामाण्याय तेषां सङ्कोचनाय च रामाच्युताव् इति ब्राह्मणेभ्यो भयेन ज्येष्ठ-क्रमेण निर्दिष्टं लोक-रमणात् रामः सर्व-गुणात् च्युति-रहित इति माहात्म्यन्न-लब्धये ध्वनितं वो युष्माकम् एवान्नम् इति तद् इतरान्नं निरस्तम् ।

ननु, तथापि सत्रं परित्यज्य गन्तुं न शक्यते तत्राहुः यच्छत अस्मास्व् एव समर्पयतेति यद्य् अस्तीति विनयः अथ च सतोऽर्थिभ्योऽप्रदानम् अधर्म इति गूढो भावः अत एवाहुः धर्म-वित्तमा इति तमप्प्रत्ययः स्तुत्य् अर्थम् एव न तु तत्त्वतः धर्मतत्वाज्ञानात् एवम् अग्रे सत्तमा इति च ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वो युष्मान् । लषतः भिक्षते । ओदनं अन्नं चेति पाठ-द्वयं तुल्यार्थम् । ननु, तौ ब्राह्मणौ न भवत इति ब्राह्मण-भोजनात् पूर्वं कथं दास्यामः ? तत्राहुः— बुभूक्षितौ । “अन्नस्य क्षुधितः पात्रम्” इति प्रमाणं जानीथैवेति भावः । किम् अप्य् अप्रतिवदतस् तान् आलक्ष्य पुनर् आहुः—हे द्विजाः ! तयोर् अर्थिनोर् वो यदि श्रद्धा अस्ति, तर्हि यच्छत, नो चेन् नेति ब्रूत, वयं परावृत्य याम इति भावः । धर्म-वित्तमा इति अत्र खल्व् अन्वय-व्यतिरेकयोर् धर्माधर्मौ वयं पुनः किं ब्रुम इति भावः । श्लेषेण ययोर् नाम्नैव सर्व-जगद् अप्य् अतिद्रुती भूयानुरज्यति, तौ राम-कृष्णाव् अतिक्षुधार्ताव् अर्थिनाव् अपि श्रुत्वा यत् तुष्णीं भवथ, अतो यूयं द्विजाः पितृ-द्वय-जाता एवेत्याक्षेपश् च । धर्म-वित्तमा इति विपरीत-लक्षणया ॥७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : वो युष्माकम् ओदनं लषतो वाञ्छतः भिक्षेते इत्य् अर्थः । यतो बुभुक्षितौ ब्रह्मण-भोजनात् पूर्वं ताभ्याम् ओदनः कथं देय इति न वाच्यम् अन्नस्य क्षुधितः पात्रम् इति वक्याद् इति भावः । श्लेषेण हे द्विजाः निखिलानन्दकरौ तौ क्षुधार्तावर्थिनाव् अपि निशम्य तूष्णीं भवाद् भवन्ती द्विपितृकाः प्रतीयन्ते इति व्यञ्जते धर्मवित्तमा इति जहत्स्वार्थया ॥७॥


॥ १०.२३.८ ॥

दीक्षायाः पशु-संस्थायाः सौत्रामण्याश् च सत्तमाः ।
अन्यत्र दीक्षितस्यापि नान्नम् अश्नन् हि दुष्यति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दीक्षिता वयम् अभोज्यान्ना इति वदिष्यन्तीति स्वयम् एवाशङ्क्याहुः--दीक्षाया आरभ्य अग्नीषोमीय-पश्व्-आलम्भनात् पूर्वं दोषः, न ततोऽन्यत्र । तथा सौत्रामण्याश्अन्यत्र अन्यदा ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दीक्षितान्नं न भोक्तव्यम् इति शास्त्राद् अभोज्यान्नाः । आरभ्य प्रारभ्य । ततो\ऽन्यत्र पश्व्-आलम्भात् परत्र कर्मान्तरे । आग्नीषोमीयं पशुम् आलभेत इति विहिता पशु-संस्था, सौत्रामण्यां सुराग्रहान् गृह्नाति इति विहिता सौत्रामणिः, ताभ्याम् अन्यत्र इत्य् अर्थः । दीक्षानन्तरं पशु-संस्थायाः आग्नीषोमीय-पश्व्-आलम्भनात् पूर्वम् एव दोषः, ततो\ऽन्यत्र, कर्मान्तरे प्रवृत्तस्य अन्नम् अश्नन् न दुष्यति इति । पशु-संस्था चेदानीं जातैवेति भावः । सौत्रामण्यां तु सर्वदैव दुष्यतीत्य् अर्थः ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दीक्षाया इत्य्-आद्य्-उक्तिः, तेषां स्वतः-पाण्डित्याद् एव । तत्र सौत्रामण्याश् चेति दृष्टान्तत्वेनोक्तम् । हि इति शास्त्र-प्रसिद्धया निश्चिन्वन्ति स्म ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दीक्षाया इत्य्-आद्य्-उक्तिः तेषां स्वाभाविक-पण्डित्यं व्यनक्ति । अतः पशु-संस्था च जातेति अनुष्ठान-विशेषेण परिचितं । हि इति शास्त्र-प्रसिद्ध्या निश्चिन्वन्ति स्म । दीक्षाम् आरभ्य पशु-संस्थातः पूर्वं दुष्यति, ततोऽन्यत्र ततः परं न दुष्यतिसौत्रामण्याश् चान्यत्र न दुष्यति, सौत्रामण्यां तु दुष्यतीत्य् अर्थः । तद् एवम् अपरम् अपि समयासमयादि-विचारं जानन्तं एव याचामह इति भावः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दीक्षाम् आरभ्य पशु-संस्थानतः पूर्वं दुष्यति सौत्रामण्याश् च सर्वदैव दुष्यति ततो ऽन्यत्र न दुष्यतीत्य् अर्थः ॥८.१०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : “दीक्षितान्नं न भुञ्जीत” इति वचनात् दीक्षिता वयम् अभोज्यान्ना इति । वदिष्यन्तीति स्वयम् एवाशङ्क्याहुः, दीक्षाया दीक्सानन्तरं पशु-संस्थायाः अग्नीयोमीय पश्वालम्भनात् पूर्वं दोषः न ततो ऽन्यत्र, ततः परन्तु अन्नम् अश्नन् न दुष्यति इति पशुसंस्था चेदानीं जातैवेति भावः । तथा सौत्रामण्या अन्यत्र न दुष्यति सौत्रामण्यान्तु सर्वदैव दुष्यतीत्य् अर्थः ॥८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु, दीक्षिता वयम् अभोज्यान्ना दीक्षितान्नं न भुञ्जीत इति वाक्याद् इति वदिस्यतो विभाव्याहुः—दीक्षाया इति । दीक्षानारभ्य पशु-संस्थाया अग्नीषोमीयपश्वालम्भात् पूर्वं दोषो ततोऽन्यत्र ततः परं तु अन्नम् अश्नन् न दूष्यतीति पशु-संस्था त्व् अभूद् एवेति भावः । तथा सौत्रामण्याश्अन्यत्र न दूष्यति । तस्यां तु सर्वदैव दूष्यतीत्य् अर्थः । अत्रैषाम् अनधीत-शास्त्राणम् अपि भगवत्-पार्षदत्वात् स्वयं प्रमातः शस्त्रत्वं सूच्यते ॥८॥


॥ १०.२३.९ ॥

इति ते भगवद्-याच्ञां शृण्वन्तो \ऽपि न शुश्रुवुः ।
क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षुद्रे स्वर्गादाव् आशा-मात्रं येषाम् । भूरीणि क्लेशाधिकानि कर्माणि येषाम् । अतोऽज्ञा वृथा ज्ञान-वृद्धा इति मानवन्तः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते विप्राः । इति गोपोक्ति-प्रकारेण । बालिशाः मूर्खाः बालिशो बाल-मूर्खयोः इति ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगतः षडैश्वर्य-परि-पूर्णस्यापि कृपया याच्यां तेनैवान्नार्थं प्रेषीतत्वात्, न शुश्रुवुः—महाभिमानेन तं नादृतवन्त इत्य् अर्थः । श्री-भगवत्य् अनादरेण तान् विप्रान् सक्रोधं निन्दन्ति—क्षुद्रेति सार्ध-द्वयेन । क्षुद्राशा अपि भूरि-कर्माणः, तथा वालिशा अल्प-बुद्धयः, तथापि वृद्धमानिनः ।

यद् वा, स्वल्प-प्रमेणापि भगवद् भक्त्या महार्थः सिध्येत्, तद् अजानाद्-बालिशा एवेति ।

ननु स्वर्गाद्य् अर्थं भावात् कर्म श्रुत्या विधीयत एव, तत्राह—वृद्धेति । आत्मानं जान-वृद्धं मन्यन्ते, न तु तादृशा इत्य् अर्थः, तत्त्वार्थाज्ञानात् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इतीति श्री-शुकोक्तिः भगवतः सर्वैश्वर्य-परिपूर्णस्यापि कृपया याञ्चां तेनैवान्नार्थं प्रेषितत्वात् न शुश्रुवुः महाभिमानेन तां नादृतवन्त इत्य् अर्थः । तत्र श्री-भगवत्य् अनादरेण तान् विप्रान् सक्रोधं निन्दति, क्षुद्रेति सार्ध-द्वयेन । क्षुद्राशा अपि भूरि-कर्माणः यतो बालिशाः अल्प-बुद्धयः तथापि वृद्धमानिनः यद् वा, स्वल्प-श्रमेणापि भगवद् भक्त्या महार्थः सिद्ध्येत् तद् अज्ञानाद् बालिशा एवेति ।

ननु, कथं तत्त्वं नान्विष्यन्ति तत्राह—वृद्धेति आत्मानं ज्ञान-वृद्धं मन्यन्त इति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, ते शास्त्रज्ञा अपि कथं न शुश्रुवुस् तत्र न वस्तुतः शास्त्रज्ञाः, प्रत्युत शास्त्रम् अधीत्याध्याप्य च मूर्खा एवेति सक्रोधं तान् आक्षिपति, सार्ध-द्वयेन । क्षुद्रे स्वर्गादाव् आशा-मात्रं येषां ते वृद्धमानिन एव, न तु ते ज्ञानवृद्धाः ॥९॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु, ते वेदज्ञा अपि भगवद्-याञ्चां कुतो न शुश्रुवुस् तत्राह—अधीताध्यापितवेदा अपि मूर्खास्ते इति सक्रोधं तानाक्षिपति क्षुद्रेति । क्षुद्रे स्वर्गादावेवाशा येषां ते वृद्धमानिनी न तु ज्ञान-वृद्धाः ॥९॥


॥ १०.२३.१० ॥

देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्र-र्त्विजो\ऽग्नयः ।
देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कर्म-क्रमम् उल्लङ्घ्य आदेश-कालेऽन्यार्थम् अन्नम् अन्यस्मै कथं देयम् ? तत्राह—देश इति । पृथक् चरु-पुरोडाशादि-द्रव्यम् । तन्त्रं प्रयोगः । धर्मोऽपूर्वम् ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देशः कृष्ण-सार-सञ्चार-विषयः । कालो वसन्तादिः । मन्त्रो देवता-प्रसाद-जनक-प्रणवादिः । ऋत्विजः षोडश । तथा हि—ब्रह्मा उद्गाता होता अध्वर्युः ब्राह्मणाच्छंसी, प्रस्तोता, मैत्रावरुणः, प्रतिप्रस्थाता, प्रतिहर्ता, पोता, अच्छावाकः, नेष्टा, आग्नीध्रः, सुब्रह्मण्यः, ग्रावस्तोता, उन्नेता । एतेषां कर्माणि तु यज्ञ-विद्यातो\ऽवसेयानि । अग्नयः आहवनीय-गार्हपत्य-दाक्षिणात्य-सभ्यावसथ्यादयः । देवता इन्द्रादयः । यजमानः यज्ञ-कर्ता । क्रतुर् यज्ञोगी ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्। न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्त्वार्थम् एवोपदिशन्न् इव तेसाम् अज्ञत्वं प्रदर्शयन् तान् शोचन्न् इवाह—देश इति द्वाभ्याम् । पृथक् बहु-विधम् ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तत्त्व-दृष्ट्या तेषाम् अज्ञत्वं ज्ञापयन्न् आह—देश इति युग्मकेन । पृथग् बहु-विधम् ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, शास्त्र-विदित-देश-काल-पात्रादि-क्रमम् उल्लङ्घ्य कथम् अन्यार्थम् अन्नम् अन्यस्मै देयम् ? तत्राह—देश इति । पृथग् बहु-विधम् चरु-पुरोडशादि-द्रव्यम्तन्त्रं प्रयोगः । धर्मो\ऽपूर्वम् । यन्-मयः यद् अंशांश-विभूति-रूपः ॥१०॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु, वेद-विहित-देश-काल-पात्रादि-क्रमम् उल्लङ्घ्य कथम् अन्यार्थम् अन्नम् अन्यस्मै दातव्यम् ? तत्राह—पृथग् बहु-विधं द्रव्यं चरु पुरोडशादिः, तन्त्रं प्रयोगः, धर्मो\ऽपूर्वम्, यन्-मयो यद् विभूत्य्-अंशांशः ॥१०॥


॥ १०.२३.११ ॥

तं ब्रह्म परमं साक्षाद् भगवन्तम् अधोक्षजम् ।
मनुष्य-दृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मनुष्योऽयम् इति दृष्ट्या मर्त्यात्मानो ब्राह्मणा वयं महान्त इति मन्यमानाः ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् श्री-कृष्णम् ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तं ब्रह्म परमं साक्षाद् अपरोक्षम् अनुपहितं भगवन्तं सर्वैश्वर्यशालिनन् अधोक्षज अधःकृतम् अक्षजम् इन्द्रिय-ज्ञानं यत्र, सानुकम्पास्यवद्-रूपं मर्त्यात्मानो मर्त्य-धर्माणो मनुष्य-दृष्ट्या अज्ञानेन न मेनिरे ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्त्वार्थम् एवोपदिशन्न् इव तेषाम् अज्ञत्वं प्रदर्शयन् तान् शोचन्न् इवाह—देश इति द्वाभ्याम् । पृथक् बहुविधम् । [११] भवतो द्वेषादिमयत्वे हेतुः—परमं ब्रह्मेति । अतो भगवन्तं सर्वैश्वर्य-पूर्णम्, अतो\ऽधोक्षजम् इन्द्रिया-गोचरम् इत्य् अर्थः । तत्रापि कृपया साक्षाद्-भुतम्,

यद् वा, ब्रह्मेत्य् अनेनैव द्वेषादिमयता दर्शिता, तत्र च परमम् इति सच् चिद् आनन्द-घन-मूर्तिं श्री-नारायणम्, तत्र च साक्षात् स्वयम् एव न त्व् अवतारादि-रूपेण, तत्रापि भगवन्तं निजाशेष-भगवत्ता-प्रकटनपरं श्री-मथुरानाथम् इत्य् अर्थः । तत्राप्य् अधोक्षजं शकटाधस् तात् पतन-शङ्कटात् पुनर् जातम् इव, एतन् निरुक्ति-विस्तरच् चतुर्दशाध्याये तन् निरूपणे—गर्भ-गतस्य [भा।पु। १०.१४.१२] इत्य् अत्र प्रोक्त एव, श्री-गोकुल-महोत्सवम् इत्य् अर्थः ।

तम् अपि मनुष्य-दृष्ट्या न मेनिरे नादृतवन्तः, कुतः दुष्प्रज्ञा विचार-हीनाः, तद् अपि कुतः ? मर्त्यात्मनः, तैर् व्याख्यातम् एव ।

यद् वा, मर्त्यानुभविष्यमाण-मरण-लक्षण-संसारक आत्मा स्वरूपं येषां ते, अन्यथा संसार-महा-घोर-दुःख-भयापत्तिः । एतैर् एव विप्रैर् अग्रे वक्ष्यमाणस्य पद्यस्यैव तथा प्रायस् तद् अग्रापद्यार्थस्य चात्रोक्तिस् तेषाम् एवोक्तानुवादेन प्रमाण-विशेष-सिद्धेः । यद् वा, यज्ञैक-पराणां तेषां तत् तद् अपेक्षयैक-वाक्यतापत्तेः ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवतो देशादिमयत्वे हेतुः परमं ब्रह्मेति अतो भगवन्तं सर्वैश्वर्य-परिपूर्णम् अतोऽधोक्षजम् इन्द्रियागोचरम् इत्य् अर्थः । तथापि कृपया साक्षाद् भूतं तम् अपि मनुष्य-दृष्ट्या मनुष्य-बुद्ध्या न मेनिरे नादृतवन्त इत्य् अर्थः । कुतो दुष्प्रज्ञाः ? विचार-हीनाः तद् अपि कुतः मर्त्यात्मानः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्राज्ञम् इत्य् एक-देश-दृष्टान्तः ॥११.३०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं परमं ब्रह्म अधोक्षजम् इन्द्रियागोचरम् अपि कृपया प्रत्यक्षीभूतम् इत्य् अर्थः । मनुष्यो जीव-विशेष्यो\ऽयम् इति दृष्ट्या मर्त्यात्मानो देहाभिमानिनः ॥११॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : भगवतो देशादिमयत्वे हेतुः परमं ब्रह्मेति शक्तिमतस् तस्य तत्-तद्-रूपत्वात् तदायत्तवृत्तिकत्वतद्व्याप्य्सत्वाभ्यां वा देशादीनां भगवन्तं पूर्णषडैश्वर्यं अधोक्षाजम् इन्द्रियागम्यम् अपि कृपया प्रत्यक्षम् इत्य् अर्थः । मनुष्य-दृष्ट्या जीव-विशेष-बुद्ध्या मर्त्यात्मानो देहाभिमानिनः ॥११॥


॥ १०.२३.१२ ॥

न ते यद् ॐ इति प्रोचुर् न नेति च परन्तप ।

गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते विप्राः । ॐ इति अङ्गीकृतम् इति ॐ इत्य् अङ्गीकारे ब्रह्मणि च नेति न दास्याम इति च । प्रत्येत्य प्रत्यागत्य । तथोभयम् ॐ इति नेति चते न ब्रूवन्तीत्य् ऊचुः । ॐ इति न प्रोचुर् इति—सम्प्रति ब्राह्माण-भोजनात् पूर्वम् एव गोपालकेभ्यः कथं दास्याम इति भावः । नेति च नप्रोचुर् इति—ब्रह्मण-भोजनोत्तरं यद्य् अन्नान्युर्वरितानि भविष्यन्ति तर्हि दास्याम इति भावः । क्षुदाधाया अपि प्राण-प्रहारी क्षुधा इत्य् उक्तेः शत्रु-कार्य-प्राण-हरण-कर्त्रीत्वेन शत्रुत्वम् । त्वं तु परन्तपोसीति क्षुद्-व्याकुलो न भवसीति सम्बुद्ध्य् अभिप्रायः ।

यद् वा, राज्ञः क्रोधाविर्भाम् आलक्ष्य श्री-शुकः—हे परन्तपेति । तदानीं यदि त्वं राजा भविष्यस् तदा ब्रह्मण्य-चूडा-मणिर् अपि तान् ब्राह्मणान् शत्रू-निवावश्यमदण्डयिष्य इति भावः ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ॐ इति स्वीकारे, दास्याम इति न प्रोचुः, न प्रत्युत्तरं ददुः, न दास्याम इति च न प्रोचुः, दुमान-ग्रस्ततयात्यन्तावज्ञानां । हे परन्तपेति परं मद् अलक्षणं शत्रुं भवद् दृग् एव नियन्तुं शक्नोति, न त्व् अन्य इति भावः । यद् वा, तदृशम् अवैष्णव-रूप-शत्रुं राज्यान् निःसारय दण्डय चेत्य् अर्थः ।

यद् वा, तान् प्रति राज्ञो\ऽन्तःक्रोधम् आलक्ष्य तद् उपशमनार्थं सम्बोधयति—परम् इति । क्रोधं संहरेत्य् अर्थः । प्रत्य् एत्य निवृत्त्य, तथेति निजोक्तादिकं विप्र-चेष्टितं चोचुः । कृष्ण-रामयोर् इति कृष्णेन प्रेषितत्वाद् आदौ कृष्णं प्रति पश्चाद् रामं प्रति ।

यद् वा, कृषाणादरेण रामस्य क्रोध-शङ्कया तं प्रति गौणत्वेनोक्त्या तस्य पश्चान् निर्देशः । यद् वा, सर्वथा श्री-कृष्णस्यैव प्राधान्यात् ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ॐ इति स्वीकारे दास्याम इति न प्रोचुः न दास्याम इति च न प्रोचुः दुरभिमानग्रस्ततया अत्यन्तावज्ञानात् हे परन्तपेति परं मद् अलक्षणं शत्रुं भवाद् दृग् एव नियन्तुं शक्नोति न त्व् अन्य इति भावः तथेति निजोक्तादिकं विप्र-चेष्टितं चोचुः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तेषां निवेदितं श्रुत्वापि ते न शुश्रुवुर् इतितान् निन्दन्न् आह—तं ब्रह्मेत्य्-आदि । तं श्री-कृष्णं साक्षाद् अपरोक्षं परमं ब्रह्म परमम् इति साकारपरम्, अन्यथा सर्वं ब्रह्मेति न सङ्गच्छते । ते मर्त्यात्मानो मर्त्या विप्रा न मेनिरे परम-ब्रह्मत्वेन न विदुः । कुतः ? मनुष्य-दृष्ट्या मनुष्याकारदृष्ट्या, अत्र-एव दुष्प्रज्ञा मूर्खाः, नराकृति परं ब्रह्मेत्य् विद्वांसः । वस्तुतस् तु भगवद् अनुग्रहाभावान् न तत्-तत्त्वज्ञाः-तत्तत्त्व-ज्ञाने तद् अनुग्रहजन्य-ज्ञानस्यैव प्रमाणत्वे निर्णीतत्वात् तथापि ते देव पदाम्बुजद्वय-प्रसाद-लेशानुगृहीत एव [भा।पु १०.१४.२९] इत्य् आदेर् उक्तत्वात् ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ॐ इति न प्रोचुर् इति सम्प्रति ब्राह्मण-भोजन-निष्पत्तेः पूर्वम् एव गोपालकेभ्यः कथं दास्याम इति भावः । नेति च नप्रोचुर् इति यदि ब्राह्मणादिभोजन-निष्पत्त्य् अनन्तरम् अन्नान् युर्वरितानि भविष्यन्ति, तदा दास्यामो ऽपीति भावः तदा राज्ञो ऽपि क्रोधम् उद्भूतमा-लक्ष्य सम्बोधयति, हे परन्तप इति । तदानीं यदि त्वं राजाभविष्यः तदा ब्रह्मण्य-चुडामणिर् अपि तान् ब्राह्मणान् शत्रूनिव अवश्यम् अदण्डयिष्य इति भावः ॥१२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ॐ इति स्वीकारे, ॐ इत्य् अनुमतौ प्रोक्तम् इति विश्वः । दास्याम इति न प्रोचुः न दास्याम इति च न प्रोचुः दुरभिमान-ग्रस्ततया अत्यन्तावज्ञानात् तथेति निजोक्त्य्-आदिकं विप्र-चेष्टां प्रोचुः ॥१२॥


॥ १०.२३.१३ ॥

तद् उपाकर्ण्य भगवान् प्रहस्य जगदीश्वर ।

व्याजहार पुनर् गोपान् दर्शयल् लौकिकीं गतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लौकिकीं गतिं नहि कार्यार्थिनो निर्विद्यन्ते को वा याचको न पराभूयत इत्य्-आदि लोक-स्थितिं दर्शयन् ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् गोप-वचः । निर्विद्यन्ते विरज्यन्ते । पराभूयते तिरस्क्रियतेऽपि तु सर्व एवेति भावः । प्रहस्येति । अज्ञ-विर्पेषु कोपानौचित्याद् इति भावः । लौकिकीं गतिम् इति । यत्र पुरुषेषु याचितं न सिध्येत् तत्र तत्-पत्न्यो याच्ञा इति शिक्षयन्न् इति भावः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद्य् अपि द्ववेव प्रति-गौपैर् उक्तम्, तथापि कृष्ण-ज्ञानादरेण रामः क्रोधान् नैवावदत्, श्री-कृष्ण एव प्रत्य् आहेत्य् आह—तद् इति । उपसमीप एवाकर्ण्य तद् अनादर-दुःखेन गोपैः शनैर् एवोक्तेः ।

यद् वा, सहचराणां दुःखानुत्पत्तये उपहासतया श्रुत्वा प्रहस्य उच्चैर् हसित्वा तेषां दुष्प्रज्ञत्वं-दुरभिमानत्वादि-महिम्ना गोपानां दुःख-निवृत्तये वा, जगदीश्वरो\ऽपीति तेषां विप्राणां नियन्तापि नापराधम् अमन्यतेत्य् अर्थः, यतो भगवान् सर्वज्ञः, मम मायया मोहितानां तेषां को नाम दोष इति भावः ।

यद् वा, परमदया-गुण-युक्त इति । अन्यत् तैर् व्याख्यातम् ।

यद् वा, यत्र पुरुषेषु याचितं न सिध्येत् तत्र तत्-पत्नीषु याचितव्यम् इति याचकान् शिक्षयन्न् इत्य् अर्थः,

यद् वा, निज-भक्तेष्ट-सिद्ध्य् अर्थं कथञ्चिद् अपि न निर्विण्णेन भाव्यम् अवश्यं च यतितव्यम् इति लोकान् शिक्षयन्न् इत्य् अर्थः । अत एव पूर्वं गोपानां क्षुधार्त्य् उक्ति-श्रवण-मात्रेणैव व्यग्रतया दुष्प्रज्ञेषु तेषु तेष्व् अपि सर्वज्ञ-शिरोमणिनाप्य् अनुगानां प्रस्थापनं पश्चाच् च विचारोदयाग्निज-भक्त-जनेषु ।

यद् वा, कामिनां वेद-पाठ-यागैकपरत्वादिकं दुरभिमानादि-दोषाय दुःखायैव च कल्पते, न च क्षेमाय, अतस् तद्-रहिता एव परमोत्तमा इति तद् विप्र-पत्नी-व्यवहारेण लोके दर्शयित्वम् इत्य् अर्थः ।

यद् वा, प्रायो मयि योषितां तादृश-भाववतां च जनानां यथा भावो न तथा पुंसाम् इति लौकिक-तत्त्वं दर्शतितुम्, अत एव पूर्वं तेषु प्रस्तापनम् इति ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्य् अपि द्वाव् एव प्रति गोपैर् उक्तं तथापि श्री-रामः श्री-कृष्णाज्ञानादर-जात-क्रोधात् श्री-कृष्णाभिप्राय-ज्ञानाद् वा नैवावदत् श्री-कृष्ण एव-प्रत्याहेत्य् आह तद् इति । उप-समिप एवाकर्ण्य तद् अनादर-दुःखेन गोपैः शनकैर् एवोक्तेः प्रहस्य उच्चैर् हसित्वा तत्र हेतुः जगदीश्वरः सर्व-नियन्ता भगवान् सर्वैश्वर्य-पूर्णश् च अतः कौतुक-मात्रार्थं तथा याचनं तन् निराशे च हास एवोचित इति भावः । अन्यत् तैः ।

यद् वा, यत्र पुरुषेषु याचितं न सिद्ध्येत् तत्र तत् पत्नीषु याचितव्यम् इति याचकान् शिक्षयन्न् इत्य् अर्थः सेयम् अप्य् एका कौतुकमयी लीलैव वस्तुतस् तु पूर्व-निजोक्तरीत्या वक्षेभ्यो मनुष्याणां निकर्षे ज्ञापिते विशेषो\ऽप्य् अत्रास्तीत्य् अभिप्रेत्य स्वस्मिन्न् अभक्तानां वेद-पाठया-गौकपरत्वादिकं दुरभिमानादि-दोषाय दुःखायैव च कल्पते न च क्षेमाय अतस् तद् रहिता अपि मद् भक्ताः परमोत्तमा इति तद् विप्र-तत् पत्नी-व्यवहारेण लोके दर्शयितुम् इत्य् अर्थः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रहस्येति अज्ञ-विप्रेषु कोपानौचित्याद् इति भावः लौकिकी गतिम् इति न हि कार्यार्थिनो निर्विद्यन्ते, को वा याचको न पराभूयते इति लोकस्थितिं दर्शयन् ॥१३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : प्रहस्येति । अज्ञेषु विप्रेषु क्रोधायोग्याद् इति भावः । दर्शयन्न् इति कार्यार्थिनां निर्वेदो न युक्तः याचकस्य क्वचित् पराभवः स्याद् एवेति लोक-स्थितिं शिक्षयन्न् इत्य् अर्थः ॥१३॥


॥ १०.२३.१४ ॥

मां ज्ञाप्यत पत्नीभ्यः ससन्कर्षणम् आगतम् ।

दास्यन्ति कामम् अन्नं वः स्निग्धा मय्य् उषिता धिया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : केवलं देहेन गृहे वसन्ति धिया च मय्य् एवोषिताः । यतो मयि स्निग्धा अतो दास्यन्तीति ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उषिताः कृत-निवासाः । मां चिन्तयन्त्यः सदेत्य् अर्थः । माम् आगतम् एव ज्ञापयत न तु विवक्षितं, बुभूक्षा लक्षण-मद् दुःख-श्रवणस्य सद्य एव तद् अतिसन्तापकत्वात् ।

ननु, त्वद्-बुभुक्षाज्ञापनं विना कथम् अन्नं ता दास्यन्ति, तत्राह—वो युष्मभ्यं मत्-सम्बन्धेनैव युष्मद्-बुभुक्षादर्शनेनैव दास्यन्ति ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मां ज्ञापयतेत्य् अत्र प्राधान्येनात्मनं निर्दिशति—तासां तत्रैवानुरक्तत्वात् ॥१४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : माम् आगतम् एव जायपयत, न च बुभुक्षितम्, नापि अन्न-याचनादिकम् अपि कुरुत, यतो मद् आगमन-ज्ञापनाद् एव दास्यन्तीत्य् अर्थः । पत्नीभ्यः, तेषां यज्ञस्य चेति च न निर्दिष्टम्, तेषां तासु तत् सम्बन्धायोग्यत्वा । किम् च, स्वस्मिन् तासां भाव-विशेषेण तत्र श्री-बलरामस्य गौणतया सङ्कर्षण-सहितम् इत्य् उक्तम्, सङ्कर्षण-शब्देन तासां तस्मिन् भक्त्य् अर्थम् आत्मना सह तस्यापृथग्भावो\ऽपि सूचितः ।

ननु, पतीनाम् अनुज्ञां विना ता अपि ददुः, कथञ्चिद् ददाना अपि पतिभिर् वारयितव्या एव, तत्राह—स्निग्धा इति । मद् अपेक्षया तासां तेषू नादरः, विशेषतश् चाधना तेषां दुर्व्यवहारेन तान् उपेक्ष्य देहेनापि मयि समागमिष्यन्त्य् एवेति भावः । स्निग्धा इति यज्ञ-पत्नीनां मधुर-रति-युक्तत्वे\ऽपि सामान्यतयोक्तिः, श्री-रामादि-लज्जातस् तासां स्वस्मिस् तादृश-भावाप्रकाशनात् । किं वा, स्वस्य तासु तादृशभावाभावात् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ममागतम् एव ज्ञापयत न च बुभुक्षितं नापि अन्न-याचनादिकम् अपि कुरुत यतो मद् आगमन-ज्ञापनाद् एव दास्यन्तीत्य् अर्थः । पत्नीभ्यः तेषां यज्ञ-सम्बन्धिनीभ्यो भार्याभ्यः पत्युर् नो यज्ञ-संयोग इति स्मरणात् अनेन धर्म-सम्बन्ध एव तैः सह तासाम् अवशिष्टोस्ति न तु काम-सम्बन्धः मयि गाध-भावत्वाद् इति मतम् किं च, स्वस्मिन् तासां भाव-विशेषेण तत्र श्री-बलदेवस्य गौणतया सङ्कर्षण-सहितम् इत्य् उक्तं सङ्क-कर्षणेति तस्य महिमनामत्वात् साक्षात् ग्रहणम् ।

ननु, पतीनाम् अनुज्ञां विना कथं ता अपि दद्युः कथञ्चिद् ददाना अपि पतिभिर् वारयितव्या एव तत्राह—स्निग्धा इति । मद्-अपेक्षया तासां तेषू नादर इति भावः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मामागतम् एव ज्ञापयत, नतु बुभुक्षितम्, बुभुक्षा-लक्षण-मद्-दुःख-श्रवणस्य सद्य एव तद्-अतिसन्तापकत्वात् । ननु, तद्-बुभुक्षा-ज्ञापनं विना कथम् अन्नं ता दास्यन्ति तत्राह—वो युष्मभ्यं मत्-सम्बन्धेनैव युष्मद्-बुभुक्षा-दर्शनेनैव दास्यन्ति । ननु, तत्-पतयो वारयिष्यन्ति? तत्राह—मयि स्निग्धाः स्नेहवत्यः पति-वारणं न मानयिष्यन्ति, यतो मय्य् एव धिया उषिताः केवलं देहेनैव पति-गृहे वसन्तीत्य् अर्थः ॥१४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : माम् आगतम् एव ज्ञापयत, न तु क्षुधित तच्-छ्रवणे तासाम् अतिसन्ताप-प्रसङ्गात् ।

ननु, तद् विना कथं दद्युस् तत्राह—मयि स्निग्धा मत्-सम्बन्धेनैव वः कामं यथेष्टम् अन्नं दास्यन्ति । ननु, पतयो निवारयेयुः ? तत्राह—धिया मय्य् एवोषिताः केवलेन देहेनैव पति-गृहेषु निवसन्तीति तन् निवारणं न मन्येरन्न् इति भावः ॥१४॥


॥ १०.२३.१५ ॥

गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्वलन्कृताः ।

नत्वा द्विजसतीर् गोपाः प्रश्रिता इदम् अब्रुवन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ भगवत् प्रेषणोत्तरम् । द्विजसतीः ब्राह्मण-पत्नीः प्रशिताः नम्राः सन्तः इदं वक्ष्यमाणम् ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ श्री-भगवद् वचनानन्तरम् एव, आसीना इति न पतिवत् कर्म-व्यग्राः, किन्तु श्री-भगवद्-भक्तेः सुखेन सुस्थतया वर्तमाना इत्य् अर्थः । स्वलङ्कृता इति तासां यज्ञ-पत्नीत्व-लक्षणं सूचितम्,

यद् वा, भगवन् मुद्रादि-सद् अलङ्कार-भूशिताः, द्विजानां विप्राणां तेषां सतीः पत्नीः, सती-शब्देन तेषां पत्नीत्वे\ऽप्य् आसां स्वाध्वीत्वम् एव सूचितम्, भगवद् भक्तेः । किं वा, द्विजेभ्यो\ऽपि तेभ्यः सर्वथा साध्वीर् इति भावः । विनीताः स्वभावत एव । किं वा, तासां श्री-कृष्ण-विषय-स्नेह-विशेष-श्रवणेन, प्रश्रिता इति पाठे\ऽपि न एवार्थः ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ स्निग्धा इत्य्-आदि श्री-भगवद् वचनानन्तरम् एव अन्यथा पुनर् याचनार्थं यानम् अयुक्तं स्यात् तासां सद् अवसर एव च तेषां गमनं जातम् इत्य् आह—आसीना इति । सम्भाष्यत्वं खलु त्रिधा सुखाय स्यात् अव्यग्रचित्तत्वेन सुवेषत्वेन सद् व्यवहारवत्वेन च तत्रासीना इति पतिपारवश्येनावश्यकं पाकादि-वैयग्र्यम् उत्तीर्य स्नानादि-पूर्वकं परस्परं श्री-भगवत् कथावेशेन निश्चलतया कृतोपवेशा इत्य् अर्थः । स्वलङ्कृता इति सधवार्ह-व्यवहारात् तावद् अलकृता एव श्री-भगवत् प्रेमावेशमय-पुलकादिभिष् तु सुष्ठ्वेवालङ्कृता इत्य् अर्थः । परम-सत्तमायां द्विज-जाताव् अपि सतीर् इति भगवद् भक्त्या जातेन सर्व-गुणोदयेन परम-सद् व्यवहार-गुण-युक्ताश् चेत्य् अर्थः । प्रश्रितास् ते स्वभाव एव किं वा तासां श्री-कृष्ण-विषयक-स्नेह-विशेष-श्रवणेन ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माम् आगतम् एव ज्ञापयत न तु बुभूक्षितं बुभुक्षालक्षणमद्-दुःख-श्रवणस्य सद्य एव तद् अपि सन्तापकत्वात् ।

ननु, त्वद्-बुभुक्षाज्ञापनं विना कथम् अन्नं ता दास्यन्ति तत्राह-वो युष्मभ्यं मत् सम्बन्धेनैव युष्मद्-बुभुक्षा दर्शनेनैव दास्यन्ति ।

ननु, तत् पतयो वारयिष्यन्ति तत्राह—मयि स्मिग्धा स्नेहवत्यः पति-वारणं न मानयिष्यन्ति यतो मय्य् एव धिया उषिताः केवलं देहेनैव पति-गृहे वसन्तीत्य् अर्थः ॥१५.१६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : प्रश्रिता विनीताः ॥१५॥


॥ १०.२३.१६ ॥

नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः ।

इतो \ऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईषिताः प्रेषिताः ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईष—प्रेरणेऽपि भौवादिक आत्मनेपदी ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नमो वो यूष्मभ्यम् इति वाचा प्रणामः, तासां भाव-परीक्षाणार्थं स्व-वाक्य-श्रवणे\ऽभिमुखीकरणार्थं वा । विप्र-पत्नीभ्य इति नमस्कार-योग्यतोक्ता, पुनर् नमस्कारो भक्त्य् अतिशयेन निवेदनार्थं वा वचांसीति बहुत्वं गौरवेण, निबोधत शृणुतेति विनयभर-स्वभावतः । किं वा, सादर-श्रवणार्थं प्रियवार्ताश्रवण-हर्षेण वा अविदूरे निकट एव-कृष्णेन युष्मच् चित्ताकर्षकेणेति भावः ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्निग्धा मय्य् उषिता धिया इति श्री-कृष्ण-वचनवद् एव वीक्ष्य ताः समवधापयन्ति नमो वो युष्मभ्यम् इति विप्र-पत्नीभ्य इति नमस्कार-योग्यतोक्ता तथापि पूर्ववद् एव नाति-बहिश्चित्ताः प्रत्य् आहुः निबोधतेति वचांसीति बहुत्वम् अर्थ-गौरवेण अविदूरे निकट एव कृष्णेन युष्मच् चित्ताकर्षकेणेति भावः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इमम् एवार्थं व्यतिरेकेण दर्शयितुं निराशतया शुष्यन् मुखान् प्रत्यागतान् बालान् पुनर्भगवान् आह तद् उपाकर्ण्येत्य्-आदि द्वाभ्याम् । प्रहस्येति तेषां द्विजानाम् अज्ञत्वम् आज्ञाया हास एवोचितः, भिक्षुकाणाम् इयम् एव रीतिः—सकृद्-सिद्धे कामे न हि निरध्यवसायैर् भवितव्यं पुनर् अप्य् अध्यवसायः कार्य इति लौकिक-रीति-शिक्षा ।

ननु, ते न दास्यन्त्य् एव, पुनः क्व गन्तव्यम् इत्य् आज्ञापयेत्य् आशङ्क्याह मां ज्ञापयेत्य्-आदि । पत्नीभ्यो द्विज-पत्नीभ्यः । अत्र प्रादान्येनात्मानम् एव ख्यापयामास । कदाचित् समुचितम् अन्नं न ददतीत्य् आशङ्क्याह स सङ्कर्षणम् आगतम् इति । सङ्कर्षण-भोग्ययोग्यं च यथानयन्तीत्य् अर्थः । अथ वा, सङ्कर्षणेन सह मयागतम्, अत्रागत्य समुचितम् एव वक्तव्यम् इति व तात्पर्य-द्वयम् एव ।

ननु, ता एव दास्यतीति किं प्रमाणम् ? तत्राह स्निग्धा मयीति । तथैव कुतः ? धिया उषिता मयीति काकाक्षि-न्यायेन ॥१६.२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : उषिताः प्रेषिताः ॥१६॥


॥ १०.२३.१७ ॥

गाश् चारयन् स गोपालैः सरामो दूरम् आगतः ।

बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स कृष्णो गोपालैः सह ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य श्री-कृष्णस्य ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सदा कृष्णं रमयतीति राम इति तस्मात् सङ्कोचो निरस्तः, दूरं गृहाद् इति ततो\ऽन्नमानेतुं न शक्यत इति भावः ।

यद् वा, अदूरम् इति पुनर् उक्तिर् अतिनैकट्येन तासाम् आगमनार्थम्, सानुगस्य श्री-राम-गोप-वर्ग-सहितस्य प्रकर्षेण सरसम् इष्णान्न् अपान् अभूतगत्रादि-द्वारा दीयताम्, पूर्वं केवलं द्वयोर् एवान्न् अप्रार्थनम् अधुना च सानुगस्य, तत्रापि प्रकर्षेणेति तासां श्री-भगवति भक्ति-विशेष-श्रवणात्, श्री-भगवद् अनादिष्टम् अप्य् अन्न-याचनं निजक्षधार्त्या अनुगानाम् अपि भक्ष्य-प्राप्त्य् अर्थं वा, अन्न-लब्ध्यर्थम् एव वा, अन्यथा तद् आगमन-श्रवण-मात्रेण त्वरयान् न परित्यागेनाप्य् आगमन-सम्भवात् ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सदा श्री-कृष्णं रमयतीति तस्मात् सङ्कोचो निओरस्तः स्वयं भगवता माहात्म्य-ख्यापनाय पूर्वं सङ्कर्षण-नाम्नोक्तम् एभिस्त्वे-तन् नाम्ना तद् अभिरुचितत्वख्यापनायेति यत् तद् उक्तम् एव पूर्वत्र गौरवाधिक्यस्यैवोचित्यात् उत्तरत्र तु तथैव पत्नीनाम् अभिरुचेः दूरं गृहाद् इति ततोऽन्नमाश्वानयितुं न शकुर् इति भावः ।

यद् वा, अदूरम् इतः पुनर् उक्तिः अति-नैकट्येन तासाम् आगमनार्थं सानुगस्य श्री-राम-गोप-वर्गं-सहितस्य प्रकर्षेण सरस-मिष्टान्न-पानभृत-पात्रादि-द्वारा दीयतां पूर्वं तद् आदेशेन केवलं द्वयोर् एवान्न-प्रार्थनम् अधुना तु तद् आदेशं विनापि तत्रापि सानुगस्येति । तत्रापि प्रकर्षेणेति तासां भगवति भक्ति-विशेष-श्रवणादिः सनर्मैव त्वया अन्न-त्यागेनाप्य् आगमन-सम्भावन-पूर्वकं च ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो हन्तैताः कृष्ण-नाम्नैवानन्द मुर्च्छिता अभूवंस् तद् इमाः प्रबोधयितुं तद्-वृत्तान्तम् उक्तम् एव, तं किञ्चिद् विशिष्य पुनर् उच्चैर् उच्चारयाम इत्य् आभिप्रेत्याहुः—गो इति । अदूरं निकटम् एवायातः तद् अपि सम्यक् प्रबुद्धा आलक्ष्य तस्यान्नाकाङ्खां श्रावयित्वा अति स्नेहवतिस् ता विह्वलयामासुर् इत्य् आह—बुभुक्षितस्येति ॥१७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : श्री-कृष्ण-नामैव श्रुत्वानन्द-मूर्च्छितास् ताः प्रबोधयितुं विशिष्याह—गा इति । अदूरं युष्मन्-निकटम् ॥१७॥


॥ १०.२३.१८ ॥

श्रुत्वाच्युतम् उपायातं नित्यं तद्-दर्शनोत्सुकाः ।

तत्-कथाक्षिप्त-मनसो बभूवुर् जात-सम्भ्रमाः1

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्-कथाक्षिप्त-मनस्त्वात् तद्-दर्शनोत्सुकाः । अत एव तम् उपागतं श्रुत्वा जात-संश्रमा बभूवुर् इति ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच्-छब्दोऽत्र कृष्ण-परामर्शी ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हृदयात् कदाचिद् अपि न च्युतो भवतीत्य् अच्युतः, तम् उपायातं समीप एव साक्षाद् आगतम् । अन्यत् तैर् व्यञ्जितम् । यद् वा, विशेषतश् च तत्-कथया तद्-बुभुक्षा-वार्तया आक्षिप्त-मनसः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हृदयात् कदाचिद् अपि न च्युतो भवतीत्य् अच्युतः, तम् उपायातं समीप एव साक्षाद् आगतम् । अन्यत् तैः । यद् वा, विशेषतश् च तत्-कथया तस्य बुभुक्षा-वार्तया आक्षिप्त-मनसः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य कथया बुभुक्षा-वार्तया आक्षिप्तानि । "अरे पामर मनः ! कथं प्रियतमस्य बुभुक्षा-श्रवणेनापि न मूर्च्छितं जागर्षि ? धिक् त्वाम्!" इत्य् एवं तिरस्कृतानि स्व-स्व-मनांसि याभिस् ताः । यतस् तद्-दर्शनोत्सुकाः । अत एव हेतोस् तं कृष्णं जात-सम्भ्रमा जातादराः । सम्भ्रमः साध्वसेऽपि स्यात् संवेदादरयोर् अपि इति मेदिनी ॥१८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तत्-कथया तत्-क्षुद्-वार्तया क्षिप्तुं प्रभोः क्षुधं श्रुत्वापि कथं मूर्च्छातो न जागर्षि ? इति तिरस्कृतं मनो याभिस् ताः ॥१८॥


॥ १०.२३.१९ ॥

चतुर्-विधं बहु-गुणम् अन्नम् आदाय भाजनैः ।

अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ष्य-भोज्य-लेह्य-चोष्य-मेदैश् चतुर्-विधम्बहुगुणं संस्कार-विशेषैर् बहवो गुणा रस-सौरभ्य्-आदयो यस्मिंस् तत् । भाजनैर् अमत्रैर् भाण्डैर् वा । पत्य्-आदिभिर् वार्यमाणा अपि प्रियं श्री-कृष्णम् अभिसस्रुर् अभिजग्मुः । अप्रतिबन्धे दृष्टान्तः—समुद्रं निम्नगा नद्य इव इति ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अमत्रैः पात्रैः, भाजनं योग्य-पात्रयोः इति मेदिनी । भाण्डैस् तूदादि-शाखा-वंशत्वगादि-निर्मितैर् वा । भक्ष्यादयः पूर्वं व्याख्याताः । संस्कारो जीरक-तैलादिभिर् घृतादिना क्रियत इति ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भाजनैः भोजन-पात्रैः पाक-पात्रैर् वा कृत्वा, सहितम् इति वा, अभिसस्रुर् इत्य्-आदिना तासां श्री-कृष्णे भाव-विशेषः श्लेषेणोक्तः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चतुर् इति युग्मकं । भाजनैः भोजन-पात्रैः पाक-पात्रैर् वा कृत्वा अन्नोष्णतादि-स्थित्य्-अर्थं सम्भ्रमाद् एव वा । अभिसस्रुर् इत्य्-आदिना तद्-एकाभिमुख्यं सूचितं टीकायां भक्ष्यं चर्व्यं चोष्यं चूष्यम् इति । पतिभिर् इत्य्-आदिकं यथा निकटं ज्ञेयं निषिध्यमाना इति, "तस्मै देयं चेद् अन्नं प्रस्थाप्यतां, स्वयं तु मा यात" इति तासां गमनम् एव वर्ज्यते स्मेत्य् अर्थः । श्री-भगवता तद्-अन्न-स्वीकारात् ॥१९-२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्ष्य-चर्व्य-चूष्य-लेह्य-भेदैश् चतुर्-विधं, संस्कार-विशेषैर् बहवो गुणा रस-सौरभ्य्-आदयो यस्मिंस् तत् । अभिसस्रुर् इति तासां तदानीं कृष्णं प्रति सर्वासां नायिकात्वाभिमानम् आलक्ष्योक्तम् तत्र प्रतिबन्धका-गणने दृष्टान्तः—समुद्रं निम्नगा नद्य इव । तत्र हेतुः ॥१९॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : चतुर्विधं भक्ष्य-चर्व्य-चूष्य-लेह्य-रूपं रसमयं बहवो गुणाः उष्ण्य-शैत्य-मार्दव-सौरभ्यादयो यत्र तत्**-प्रियम् अभिसस्रुर्** इति कान्त-भावोदयात् प्रतिबन्धका-गणने दृष्टान्तः—समुद्रं निम्नगा नद्य इव इति ॥१९॥


॥ १०.२३.२० ॥

निषिद्ध्यमानाः पतिभिर् भ्रातृभिर् बन्धुभिः सुतैः ।

भगवत्य् उत्तम-श्लोके दीर्घ-श्रुत-धृताशयाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र हेतुः—भगवति इति । दीर्घं बहु-कालं श्रुतेन श्रवणेन धृत आशयो याभिस् ताः ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आशयः कदा श्री-कृष्णं द्रक्ष्याम इत्य् अभिप्रायः ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्राक् पतिभिस् तासां तद्-वश्यत्वात्, पश्चात् तेषां वचो\ऽनादरेण त्याज्यत्व-शङ्कया पितृभिः, ततो\ऽप्य् अधिक-स्निग्धत्वाद् भ्रातृभिः, ततो\ऽपि स्नेहादिनाधिकापेक्षकैः सुतैर् इति विवेकः । मातॄणाम् अनिर्देशः साहचर्येण पितृष्व् एवान्तर्भावात् । किं वा, श्री-भगवति तादृश-भावेनानिषेधनात् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, दीर्घं बहु-कालं श्रुतं श्रवणं शास्त्रं वा यस्येति श्री-परीक्षित्-सम्बोधनम्, दीर्घ-श्रुतत्वस्यायम् एव व्यवहारो युक्त इति भावः ।

यद् वा, दीर्घ-श्रुतेन अपि भवता ईदृशी भक्तिः कुतो\ऽपि किं श्रुतास्ति ? अपि तु नैवेति भावः । धृताशया न्यस्त-चित्ताः । किं वा, भाव-विशेषेण सदा कृत-दृढ-मनोरथाः ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवति दीर्घं बहु-कालं श्रुतेन श्रवणेन धृत आशयो याभिस् ताः ॥२०॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : भगवति दीर्घं बहु-कालं श्रुतेन श्रवणेन धृत आशयो याभिस् ताः ॥२०॥


॥ १०.२३.२१ ॥

यमुनोपवने\ऽशोक-नव-पल्लव-मण्डिते ।

विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथागताः सत्यो ददृशुः ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अशोको वृक्ष-विशेषः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च ददृशुः, कृष्णम् इति शेषः । न तिष्ठति शोको यस्माद् इति, श्लेषेण तत्-तरु-दर्शणाद् अपि तासां तद्-विरह-शोको\ऽपगत इत्य् अर्थः । विचरन्तं परिभ्रमन्तं क्रीडन्तं वा गोपैर् इति तेषाम् आनन्त्येन केषाम् आनन्त्येन केशाञ्चित् प्रथमतस् तत्-सङ्ग एव सम्भवात्


यद् वा, तासाम् आगमन-विज्ञापनाय पूर्वं वेगेन तैर् एव तत्र गतैर् एव वृतम् इति शोभा-विशेषः सूचित । किं वा, वृतम् अपि ददृशुः, तस्यैव स्व-शोभा-विशेषेण सर्वतो\ऽधिकं प्रकाशमानत्वात्, यथा नक्षत्र-गणैर् वृतं चन्द्रम् इति । साग्रजम् इति तत्-साहित्येन शोभा-भरोदयात् । किं वा, तासाम् आगमनेन तस्य सङ्कोचावस्थित्या तासाम् एव तस्मिन् भाव-विशेषाभावेन वा गौणत्वात् । स्त्रिय इति स्वभाव-दर्शनं सूचितम् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यमुना इति युग्मकम् । ददृशुः कृष्णम् इति शेषः । न तिष्ठति शोको यस्मात् इति श्लेषेण, तस्य वनस्य तासां तद्-अप्राप्ति-शोक-हारित्वं च ध्वनितं विचरन्तं क्रीडन्तं गोपैस् तत्रैव स्थितैर् अन्यैः वृतम् इति शोभा-विशेषः सूचितः । किं वा, वृतम् अपि ददृशुः, तस्यैवाधिकं प्रकाशमानत्वात् । साग्रजम् इति सर्व-सुन्दरात् । ततो\ऽपि तस्य सौन्दर्य-विशेषं ज्ञापयति, अग्रजेन सहेति । विग्रहे सहार्थ-योगे तृतीयाया अप्रधाने विहितत्वात् स्त्रिय इति तत्-पतीनाम् अभाग्यं सूचितम् ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : आगतास् ताः कृष्णं सद्यो ददृशुः ॥२१॥


॥ १०.२३.२२ ॥

श्यामं हिरण्य-परिधिं वन-माल्य-बर्ह-

धातु-प्रवाल-नट-वेषम् अनुव्रतांसे ।

विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं

कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हिरण्यवत् परिधिः परिधानं यस्य, तं पीताम्बरम् इत्य् अर्थः । वन-माल्यैर् बर्हैर् धातुभिः प्रवालैश्नटवद् वेषो यस्य तम् । अनुव्रतस्य सख्युर् अंसे विन्यस्तो निहितो हस्तो येन तम् । इतरेण हस्तेन लीलया अब्जं धुनानं भ्रामयन्तम् । कर्णयोर् उत्पले यस्य, अलकाः कपोलयोर् यस्य, मुखाब्जे हासो यस्य, तं च तं च तं च ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [वैष्णव-तोषणी] : हिरण्य-परिधिं नट-वेशम् इति वक्ष्यमाणत्वात् सुवर्ण-रस-रञ्जित-भक्ति-च्छेद-कुञ्चित-कटि-वेष्टन-वस्त्रं नटोचितम् एव । वन-माल्यं वन्य-विविध-पुष्पै रचितं दक्षिण-वाम-स्कन्धाद् आरभ्य वैकक्षिक-द्वयम् । बर्हाणि प्रवालश् च मौलि-भूषणानि । धातवः सौगन्धिक-नाम्नः काम्यक-वन-पर्वत-विशेषाल् लब्धाश् चित्राङ्गतया रचिताः, तैर् नट-वेश-धरं कमलं धुनानं लीला-कमल-घूर्णन-मिषेण स्व-हृद-घूर्णीम् एव दर्शयामीति निश्चिनुत इति भावः।

परिधिः परिधाने स्यात् काञ्ची-परिखयोस् तथा । > मण्डले द्रुम-शाखायां भूषायां वाहनेऽपि च ॥ इति धरणिः > ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हिरण्य-शब्देन ईषद्-रक्त-पीत-पट्टाम्बरं लक्ष्यते, तत्र चाच्छादन-वाचकेन परिधि-शब्देन परिधानोत्तरीय-संवरणात्, परिधाम् एवैकं वन-माल्यादीनां सन्निवेशो यथा-शोभम् ऊह्यः । तत्र वन-माल्यं वन-माला वक्षसि, बर्हं केश-पाशे रत्न-खचित-सौवर्ण-मुकुटोपरि वा, तन्मयं वा मुकुटं शिरसि, गैरिकादि-धातुस् तिलकादौ, प्रवालः केश-पाशाग्रे मुकुटाग्रे च, यद् वा—

एकेनामल-पत्रेण कण्ठ-सूत्रावलम्बिना । > रराज बर्हि-पत्रेण मन्द-मारुत-कम्पिना ॥ [ह।वं। २.११.१०]

इति श्री-हरि-वंशोक्तानुषारेण बर्हं कण्ठाधो ज्ञेयम्, मुकुटं च तन्मयं सदास्त्येव । किं वा, पट्ट-पीत-वस्त्रोष्णीषोपरि प्रवाल इत्य् एवं नटवद् वेषम्, अनुव्रतांसे विन्यस्त-हस्तम् इति लीला-विशेषेण स्वतो\ऽवस्थानात्,

यद् वा, गोपैः सहात्मनो\ऽत्यन्त-स्नेह-भरतात्, इतरेण दक्षिण-हस्तेन अब्जं लीला-कमलं भ्रमयन्तम् इति वैदग्धी-विशेष-स्वभावात् । किं वा, तासाम् अशेष-तापापनोद-बोधनम्, विशेषणानाम् एषां सौन्दर्ये यथोत्तरम् आधिक्यम् ऊह्यम् । वेणोः परम-मोहनत्वेन ब्रह्मणीषु तद्-अयोग्यात् तद्-अग्रहणम् ऊह्यम् । अन्यत् तैर् व्याख्यातम् ।

तत्रालक-कपोल- इति केनचिद् अभिप्रायेण, कयापि लीलया क्रीडा-श्रमेण वा, अलकानां ललाटोपरि वर्तमानानाम् अपि कपोलयोः पाताद् इति ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हिरण्य-परिधिं नट-वेषम् इति वक्ष्यमाणात् सुवर्ण-रस-रञ्जित-भक्ति-च्छेद-कुञ्चित-कटि-वेष्टन-वस्त्रं नटोचितम् एव वन-माल्यं वन-सम्बन्धि-माल्यं वन्य-विविध-पुष्पै रचितं दक्षिण-वाम-स्कन्धाव् आरभ्य वैकक्षिक-द्वयं । बर्हाणि प्रवालाश् च मौलि-भूषणानि धातवः सौगन्धिक-नाम्नः काम्यक-वन-पर्वत-विशेषाल् लब्धाश् चित्राङ्ग-रागतया रचिताः, तैर् नट-वेष-धरम् अनुव्रतस्य निरन्तर-पार्श्वस्थ-स्निग्ध-सखि-विशेषस्य स्कन्धे विन्यस्त-हस्तम्इतरेण दक्षिण-हस्तेन लीला-कमलं भ्रामयन्तं । कर्णोत्पलयोर् अलकानां कपोलयोर् मुखाब्जस्यहासः प्रकाशो यत्र तम् इति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हिरण्यं हिरण्य-रसाक्तं वस्त्रं परिधिः परिधानं यस्य तम् । वन-माल्येन पत्र-पुष्प-मयेन चरण-पर्यन्त-लम्बितेन बर्हेण चूडोपरिस्थेन धातुभिर् अङ्ग-रागत्वेन कल्पितैः प्रवालैः श्रवण-चूडा तुन्द-बन्धान्तरस्थैर् नटस्य इव वेशो यस्य । किं च, स्वाभियोगम् अपि ता अनुभावयामासेत्य् आह—अनुव्रतस्य प्रिय-सखस्य अंसे स्कन्धे विन्यस्त आश्लेष-परिपाट्या अर्पितो वाम-हस्तो येन तम् । इतरेण दक्षिण-हस्तेन अब्जं लीला-कमलं धुनानं घूर्णयन्तम् एतादृश-दर्शन-प्रदानेन भाववतीनां भवतीनां हृदय-कमलं स्व-हस्त-गतं कृत्वा औत्सुक्येन घूर्णयामीति जानितेति द्योतयन्तम् ।

यद् वा, भवतीर् भाववतीः पश्यतो मम हृदय-कमलम् औत्सुक्येन घूर्ण्यते इति लीला-कमल-घूर्णन-मिषेण स्व-हृदय-घूर्णाम् एव निश्चिनुतेति व्यञ्जयन्तम् । कर्णोत्पलयोश् चञ्चला अलका यस्य कपोलयोः प्रसृतो मुखाब्जस्य हासो यस्य तं च तं च तं च तम् ॥२२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : हिरण्य-रसाक्तः परिधिः परिधानं यस्य तत् वन-माल्येन पत्र-पुष्प-मयेन पादलम्बिना बर्हेण चूडोर्ध्व-गते धातुभिर् अतिसुगन्धिभिर् अङ्ग-रागत्वेन कल्पितैः प्रवालैश् च श्रवण-गतैर् नव-पल्लवैर् नटस्य इव वेषो यस्य तं । अनुव्रतस्य प्रिय-सरवस्य अंशे स्कन्धे विन्यस्तः परिरम्भ-परिपाट्यार्पितो वाम-हस्तो येन तम् इत्य् अनुभाव-विशेषं ताः प्रत्यवबोधयन्तम् इत्य् अर्थः । इतरेण दक्षिण-हस्तेन अब्जं लीला-कमलं धुनानं भवद्-भावेन मेऽपि घूर्णत इति ताः प्रति ज्ञापयन्तम् इत्य् अर्थः । कर्णोत्पलयाश् चपला अलका यस्य कपोलयोः प्रसृतो मुखाब्जस्य हासो यस्य तं च तम् ॥२२॥


॥ १०.२३.२३ ॥

प्रायः श्रुत-प्रियतमोदय-कर्ण-पूरैर्

यस्मिन् निमग्न-मनसस् तम् अथाक्षि-रन्ध्रैः ।

अन्तः प्रवेश्य सुचिरं परिरभ्य तापं

प्राज्ञं यथाभिमतयो विजहुर् नरेन्द्र ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वृत्तेर् अपि लयेन साम-रस्यम् आह—प्राय इति । बहुशः श्रुता ये प्रियतमस्य उदया उत्कर्षास्त एव कर्ण-पूराः कर्णौ पूरयन्ति कृतार्थौ कुर्वन्तीति तथा तैः, कर्ण-भरणैर् इति वा । यस्मिन् कृष्णे निमग्न-मनस आविष्ट-चेतसस् तं लोचन-द्वारैर् अन्तः प्रवेश्य सुचिरम् उपगुह्य तापं जहुःअभिमतयोऽहं-वृत्तयः प्राज्ञं सुषुप्ति-साक्षिणं परिरभ्य तस्मिन् लयं प्राप्य यथेति ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वृत्तिश् चेतो-वृतिस् [तसत्वे]{।मर्क्} समक्ष-दर्शने यथा ताप-हानिस् तथा । तल्-लयेऽपि ध्यानावस्थायाम् अपि ताप-हानिर् इति । सम-रसस्य भावः सामरस्यं सादृश्यम् । उत्कर्षा दुष्ट-दलनादि-रूप-यशः-पुञ्जाः । यद् वा, प्रायः श्रुत-प्रियतमोदयाश्कर्ण-पूराः कर्ण-भूषाः ताश् च तैः । यद् वा, अभितो मतिर् येषां तेऽभिमतयो निपुणाः । प्राज्ञम् विद्वांसम् ।

रिक्तम् आपूर्णताम् एति मृत्युर् अत्यमृतायते । > [आत्]{।मर्क्} सम्पद् इवाभाति विद्वज्-जन-समागमात् ॥ इत्य् उक्तेः > ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तम् अथाक्षि-रन्ध्रैर् इत्य्-आदि । यथा भियम् अतिक्रम्य अभीता एव सत्यो मतयो मनन-शिला अक्षि-रन्ध्रैर् अन्तः प्रवेश्य सुचिरं परिरभ्य तापं जहुः । तं कीदृशम् ? प्राज्ञं सर्वज्ञम् आलिङ्गितो\ऽहम् अमूभिर् मनसेति तदा तद्-आलिङ्गन-सुखज्ञम् इति यावत् ॥२३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ अनन्तरं सद्य एवेत्य् अर्थः । अस्य परेणान्वयः, वि-शब्देन पुनस् तापोदयो निरस्तः । दृष्टान्तश् चैक-देशे अक्षि-रन्ध्रैर् अन्तः प्रवेश्य आसक्त्या साक्षान् निरीक्ष्य सुचिरं परिरभ्य प्रेम्णा तस्मिन् निलीयेत्य् अर्थः, मनसैव वा साक्षाद् इव आलिङ्ग्य तापं सांसारिकं तद्-विरहजं वा, विशेषेण सम्यक्तया जहुः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अभिमतयो मूर्तिमद् अभिमानाः, विद्यादिना महा-गर्ववन्त इत्य् अर्थः । ते यथा प्राज्ञं परम-भागवतं तत्-कृपया परिरभ्य एव तापं विजहति । हे नरेन्द्र ! इति नर-श्रेष्ठत्वात् त्वया तद् विज्ञायत एवेति भावः ।

यद् वा, तद्-वार्तया प्रेम-क्षुभित-चित्तम् आलक्ष्य तम् अवधापयति । यद् वा, तासां तादृश-भावेन विस्मयात् सम्बोधनम् ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ अनन्तरं सद्य एव अक्षि-रन्ध्रैः रूप-ग्रहणे साधकतम-नेत्र-रन्ध्रेन्द्रियैर् द्वार-भूतैर् अन्तर् मनसि प्रवेश्य तेनैव मनसा सुचिरं परिरभ्य लज्जया नेत्राणि तानि द्वाराणि इवावृण्वानाः स्वाच्छन्द्येन तस्मिन् निलियेत्य् अर्थः । तापं तद्- अस्पर्शजं क्लेशं विजहुः वि-शब्देन पुनस् तद्-आपातो निरस्तः । हा न स्पष्टोऽसाव् इत्य् अंशस्य ध्वंसात् । अन्यत् तैः । तत्र सामरस्यं यथा-पूर्व-रसत्वम् इत्य् अर्थः । वृत्तेर् अपीति बहिर्-वृत्तेर् अपीत्य् अर्थः ।

यद् वा, अभिमानाभिमुखी मतिर् येषां ते यथा प्राज्ञं परम-भागवतं परिरभ्य नेत्रादिभिर् आश्लिष्य तापं सर्वं जहति, तद्वत् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्राज्ञम् इत्य् एक-देश-दृष्टान्तः ॥२३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तथैव तैस् तत्र गत्वा निवेदिते सति तासां कृतिम् आह—प्राय इत्य्-आदि । प्रायो निरन्तरं श्रुत्वा ये प्रियतया उदया विहारास् त एव कर्ण-पूराः कर्णालङ्कारवत् कर्ण-संयुक्तत्वात् । तैर् यस्मिन् श्री-कृष्णे निमग्न-मनस आसन् ।

अथ तम् एव श्री-कृष्णम् अक्षि-रन्द्रैर् अन्तः प्रवेश्य प्रविष्टं कारयित्वा परिरभ्य आलिङ्ग्य तापं विजहुः । पुनः पुनः श्रवणेन कर्णयोः सौभाग्यम् आलोक्य तासाम् अक्षिणी दुःखिनी एव स्थिते तयोर् दुखम् अपनेतुं ताभ्याम् एव तं प्रवेशयामासुर् एव । भगवान् अपि एकोऽपि सर्वासां नयन-रन्ध्रैर् एव प्रविश्य चित्तेष्व् अपि बहिर् इव प्रकट आसीत् । अतोऽन्तः स्फुरन्तम् आन्तरेणैवात्मना परिरेभिरे, बहिः स्फुरन्तं नयनैर् एवेत्य् अन्तर् बहिर् एक-रूपम् आसीद् इति भावः ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रायो बहुशः श्रुता ये प्रियतमस्य उदया उत्कर्षा एव कर्ण-पूराः कर्णालङ्काराः कर्णौ पूरयन्ति कृतार्थयन्तीति । तथा तैर् यस्मिन् श्री-कृष्णे निमग्न-मनस एव एतावद्-दिन-पर्यन्तं आसन्, तं सम्प्रति नेत्र-द्वारैर् अन्तः अन्तःकरण-कमल-तल्पे प्रवेश्य सुचिरं स्वच्छन्देनैव दृढं परिरभ्य परिरम्भ-दार्ढ्येनैवानन्द-मूर्छितास् तास् तेन सहैक्ये सति तापं तद्-अङ्ग-स्पर्शाभाव-जनितं क्लेशं विजहुः । तत्र दृष्टान्तः—अभिमतयोऽहं-वृत्तयः प्राज्ञं सुषुप्ति-साक्षिणं परिरभ्य तस्मिन् लयं प्राप्य यथा ॥२३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : प्रायो बहुधा श्रुता ये प्रियतमस्य नन्द-सूनोर् उदया महोत्कर्षास् त एव कर्ण-पूराः श्रोत्र-भूषाः, तैर् यस्मिन् निमग्न-मनसोऽभूवन् तम् अथ सम्प्रत्य् अक्षि-रन्ध्रैर् अन्तर् हृत्-कमले प्रवेश्य सुचिरं गाढतया परिरभ्य तापं तद्-विरह-जातं जहुः । तत्र दृष्टान्तः—प्राज्ञम् इति यथाभिमतयो देह-गेहादिष्व् अहं-ममेत्य् अभिमानाः सुषुप्तौ प्राज्ञं परमात्मनं प्राप्य [जागत]{।मर्क्}-तापं जहति तद्वत् ॥२३॥


॥ १०.२३.२४ ॥

तास् तथा त्यक्त-सर्वाशाः प्राप्ता आत्म-दिदृक्षया ।

विज्ञायाखिल-दृग्-द्रष्टा प्राह प्रहसिताननः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अखिल-दृग्-द्रष्टा सर्व-बुद्धि-साक्षी । तास् तथा प्राप्ता विज्ञायापि । तथेत्य् एतद् विवृणोति—त्यक्त-सर्वाशास् त्यक्ताः सर्वा आशा याभिस् ताः । केवलम् आत्मनः स्वस्यैव दिदृक्षया इति ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता विप्र-पत्नीः । तथा कथम् ? इत्य् आकाङ्क्षायां—तथा इति । तथा-भूताः पुरो\ऽन्न-स्थालीः स्थापयित्वैव मूर्छिता दृष्ट्वा । आशा अभिलाषाः आशा दिग्-अभिलाषयोः इति यावदः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एतम् एवार्थम् उत्तर-श्लोकेन प्रपञ्चयति—तास् तथा इत्य्-आदि । अखिल-दृक् तत् तन्-मानसालिङ्गनादि-वेत्ता, यतो द्रष्टा उदासीनश् च, अतः प्रहसिताननः प्राह ॥२४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अखिल-दृशां सर्व-बुद्धीनां द्रष्टा साक्षीति विज्ञाय इत्य् अत्र हेतुः । यद् वा, विज्ञायापि प्रकर्षेण युक्ति-प्रदर्शनादिना प्राह इत्य् अत्र सर्व-ज्ञानाभिज्ञः, ब्राह्मणीनाम् आसां दास्यादि-स्वीकारो न मे युक्त इति ।

यद् वा, व्रजे वसतो ममान्य-परिग्रहो नैव युक्त इति विचारयन्न् इत्य् अर्थः । अतस् तासां परित्यागेनान्तस् तासां दुःख-चिन्तया केवलं मुख एव हासात् प्रहसिताननः

यद् वा, वक्ष्यमाण-प्रकारेणैवासाम् एतत्-पतीनां च क्षेमं स्याद् इति विचारयन् इत्य् अर्थः । ततश् च प्रहसिताननत्वं श्री-मुख-प्रसक्ति-स्वाभाविकम् एवेति ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मा-दिदृक्षया इति प्रथमं तन्-मात्राभिलाषात् अखिल-दृशां सर्व-बद्धानां द्रष्टा साक्षीति विज्ञायेत्य् अत्र हेतुः । यद् वा, अखिल-दृशां बुद्ध्य्-आदि-द्रष्टृणां जीवानाम् अपि द्रष्टा प्रहसितानन इति माधुर्य-मय-वञ्चन-चातुर्यम् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद्-अनन्तरं भगवान् आह यत् तद् अवधारयति—तास् तथा इत्य्-आदि । अखिल-दृक् सर्व-साक्षी स श्री-कृष्णस् तास् तथा विज्ञाय अन्तर् गतं स्वं परिरभमाणा विज्ञाय प्रहसिताननः सन् प्राह । कीदृशीः ? आत्म-दिदृक्षया प्राप्ता अपि हृदये तथा आत्मानं परिरभन्त्य इति हास उचित एव । पुनः कीदृशीः ? कृष्णातिरिक्तेषु त्यक्ताशा इत्य् अर्थः ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तास् तथा भूता अन्न-स्थालीः पुरा स्थापयित्वैव मूर्छिता भवन्तीर् दृष्ट्वा अखिलानाम् अपि दृशां बुद्धीनां दृष्टा ॥२४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तास् तथा-भूताः पुरोऽन्न-स्थालीर् निधाय मूर्च्छन्तीर् विज्ञाय अखिलानां दृशां धियां द्रष्टा साक्षी प्रहसिता इति माधुर्य-मय-वञ्चन-चातुरी ॥२४॥


॥ १०.२३.२५ ॥

स्वागतं वो महा-भागा आस्यतां करवाम किम् ।

यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे महा-भागाः, वः स्वागतं शुभम् आगमनम् । तद् एवाह—यद् यस्मात् प्रतिबन्ध-तिरस्कारेणास्माकं दिदृक्षयाप्राप्ता इति । इदं व उपपन्नं संपन्नं युक्तम् इति वा ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्पन्नं शोभनम् । स्व-रुच्य्-अनुरोधाद् अशोभनम् अपि कामुकस्य व्यभिचारवच् छोभनं प्रतीयतेऽत आह—युक्तं वा इति । यद् यतः प्रतिबन्ध-कोटीर् अपि तिरस्कृत्य मद्-दर्शनार्थम् आगताः । अतो हे महा-भागाः ! एतद् व उपपन्नं, मम तु प्रत्युपकारासमर्थत्वान् न किम् अप्य् उपपन्नम्किं करवाम ऋणी भवाम इति भावः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्वागतं सुष्ठु आगतम्, आगतं यत् तत् साधु, आस्यताम् उपविश्यताम् इत्य् अर्थः । आस उपवेशने इति प्रणयोक्तिः । किं करवाम ? युष्माकम् अभीष्टं । किम् अपि कर्तुं न शक्नुम इत्य् अर्थः । यद् यस्मात् नो\ऽस्मान् आत्मानं प्रति परम-दुर्लभत्वेन बहु-वचनं प्राप्ताः, दिदृक्षया दर्शनेच्छयैव हेतु-भूतया, न तु साधनान्तरैः । त्यक्त-सर्वाशाः इति पूर्व-श्लोक-श्रुतत्वात् सर्व-त्यागेनैव मां प्राप्ता इत्य् अर्थः। किं करवाम इति यद् उक्तम्, तस्यायं भावः—समुचित-करणाय शक्नुमः, यद् इदानीं कर्तुम् उचितं, तन् नाभूद् इति युष्माकम् एव इदम् उपपन्नं विदितम् । यद् वा, वो युष्माकम् इदम् उपपन्नम् इदं शरीरं ब्रह्मण-वंशे उपपन्नम् उत्पन्नम्, उपपन्नम् उपपत्तिर् इति वा भावे क्तः ॥२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आस्यतां मद्-अन्तिके विश्रम्यताम् । ततश् च किं करवाम इति आदिश्यताम् इत्य् अर्थः । एतच् च कृपालुतयैवेति ज्ञेयम्, तथा करवामेति नो\ऽस्माकम् इति च बहुत्व-निर्देशः, स्वस्य साधारण्यापादनेन लज्जया स्वैक-निष्ठताच्छादनार्थम् औदासीन्यार्थं वा । यद्य् अपि ता दास्यार्थम् एवागताः, तच् चाग्रे व्यक्तम् एव । तथापि दिदृक्षया इति ब्राह्मणीनां भाव-विशेषस्य सदसि लज्जया संवरणार्थम् ।

यद् वा, सदा तस्यैव दर्शनेच्छयेति स एव सूचितः । दिदृक्षया इति इच्छान्तरं निरस्यति, ब्रह्मणीत्वेन उपेक्ष्यत्वात् । यद् वा, दिदृक्षयापि, किं पुनः सर्व-परित्यागेन मद्-एकापेक्षया ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैव सादरम् आह—स्वागतम् इति । आस्यतां विश्राम्यतं । ततश् च किं करवाम इत्य् आदिश्यताम् इत्य् अर्थः । तथा च करवामेति नोऽस्माकम् इति च बहुत्व-निर्देशः साधारण्यापादनेन स्वैक-निष्ठताच्छादनार्थम् औदासीन्यार्थं च दिदृक्षयेति दर्शनाज् जातम् इच्छान्तरं निरस्यति ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं तद् ? इत्य् आह—स्वागतम् इत्य्-आदि बहुभिः । सुखेनागतम् । यद् वा, सुष्ठु आगतं यत्, तत् साधु । ममापि दिदृक्षासीत्, सान्यथा न घटत इति सु-शब्दस्यार्थः । आस्यताम् उपविश्यतां भवतीभिर् इत्य् अर्थः । किं करवाम, करवाणित्य् अर्थे आत्मानं प्रति गौरवाद् एकत्वेऽपि बहु-वचनम् । भवतीनाम् अनुरागानुरूपं कर्तुं न शक्यत इत्य् अर्थः । यद् यस्मात् नो मम, पूर्ववत् बहु-वचनम्, बहिर्-अवहित्थया सामान्यवन् निर्देशः । उपपन्नम् इदं हि वः, युष्माकं तद् उपपन्नम् एव, सम्यग् दृष्ट एवाहम् ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रासाभिसारिणीर् गोपीर् इव महा-प्रेमवतीस् ता अप्य् आह—स्वागतम् इति वः शुभम् एवागमनम् यत् यस्मात् प्रतिबन्ध-कोटीर् अपि तिरस्कृतवत्यो दिदृक्षया नः प्राप्ता इदं व उपपन्नं उपपद्यते स्मैवेत्य् अर्थः । मम तु एतत् प्रत्युप्रकरणासामर्थ्यात् न किम् अपि उपपन्नम् इति भावः । अतो वः किं करवाम ? केवलं ऋणीभवामेत्य् अर्थः । अत एव महाभागाः ! मत्तो ऽपि महा-भाग्यवत्यः आस्यतां क्षणम् इहोपविश्यतां मद्-दर्शनार्थम् एवेत्य् अर्थः ॥२५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : गोपीर् इव महा-प्रेमवतीस् ता अप्य् आह—स्वागतम् इति । हे महा-भागाः ! वः स्वागतं शुभम् आगमनं यत् सुदुस्त्यज-पत्यादि-तिरस्कारेण नो दिदृक्षया अत्र प्राप्तास् तद् इदं व उपपन्नं युक्तं । इह आस्यताम् अस्मद्-दर्शनार्थं क्षणम् उपविश्यताम् । वयं किं करवाम ? तद् आदिश्यताम् । इह करवामेति न इति च बहुत्वेन निर्देशः स्वैक-निष्ठाच्छादनार्थम् औदासीन्यार्थं च । दिदृक्षयेति दर्शनजाम् अन्येच्छां निवारयितुम् ॥२५॥


॥ १०.२३.२६ ॥

नन्व् अद्धा मयि कुर्वन्ति कुशलाः स्वार्थ-दर्शनाः ।

अहैतुक्य्-अव्यवहितां भक्तिम् आत्म-प्रिये यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : युक्तत्वम् आह—नन्व् इति । आत्म-प्रिये आत्मा च प्रियश् च तस्मिन् मयि कुशला विवेकिनोऽत एव स्वस्य आत्मनोऽर्थं पुरुषार्थं पश्यन्ति ये, ते यथा यथावद् भक्तिं कुर्वन्ति । यथावत्त्वम् आह—अद्धा साक्षात् । अत्र हेतुः—अहैतुक्य्-अव्यवहितां फलाभिसन्धि-रहिताम् । अत एवाव्यवहितां निरन्तराम् ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु निश्चये । अर्थं पर-लोक-हितम् । अत्र साक्षाद् भक्तौ । अत एव फलाभिसन्धि-रहितत्वाद् एव । फलाभिसन्धौ तु यावत् फलं क्रियते न निरन्तरम् इति भावः । अहम् आत्मा गुडाकेश [गीता १०.२०] इति स्मृतेः, आत्मा तद् एतत् प्रेयः2 इत्य्-आदि-श्रुतेः प्रियश् चाहम् एवेति ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भवतीभिर् यथा सर्वाशां परित्यज्य अहं प्राप्तः, तथा वयं वः प्राप्तुं न शक्नुमः, अतो मनसा यन् मां परिरब्धवत्यस् तद् एव करणीयम् इत्य् आशयेनाह—नन्व् अद्धा इत्य्-आदि । ननु भोः कुशलाः स्त्रियः ! आत्म-प्रिये प्राण-नाथे मयि भक्तिं रतिं कुर्वन्ति, अद्धा साक्षात्, अपरोक्षे\ऽपि मयि यथा स्वार्थ-दर्शिनो जनाः परमार्थिनो भागवताः । भक्तिं विशिनष्टि—अहैतुक्य- इत्य्-आदि । हैतुक्ये सोपाधिकत्वे व्यवहिता, सा न तथेति अहैतुक्य-व्यवहिता, ताम् । एतेन भवत्यः कुशला अभिज्ञा मयि भक्तिम् एव कुरुत, अङ्ग-सङ्गस् तु मनसैव कार्य इत्य् अर्थः ॥२६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु भू-देव्यः ! निश्चितम् इति वा, अद्धा साक्षाद् एव विशुद्धाम् इत्य् अर्थः, यतः अहैतुकी । यद् वा, साक्षान् मयि न च गुणावतारादिषु । भक्तेर् यथावत्त्वम् एवाह—अहैतुकी आत्मनः सकाशाद् अपि प्रिये परमात्मत्वात् ।

यद् वा, स्वार्थं दर्शयितुं शीलम् अस्येति स्वार्थ-दर्शी गुरुः, तस्मात् तद्-उपदेशाद् धेतोर् इत्य् अर्थः । अत एव अहैतुकी इति । यद् वा, स्वार्थ-दर्शिनो जना यथा कुशलाः पतिव्रताः स्त्रिय आत्म-प्रिये । अन्यत् समानम् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तासां निज-सङ्गति-प्राप्तीच्छां सम्प्रति वञ्चयन्न् आह—नन्व् अद्धा इति । अद्धा साक्षाद् एव विशुद्धाम् इत्य् अर्थः । यतः अहैतुकी इत्य्-आदिना । तत्र भक्तेर् यथावत्त्वम् एवाह—अहैतुकी इति । आत्मनः सकाशाद् अपि प्रिये परमात्मत्वात् परमात्मत्वेन च मम निरन्तरं युष्मत्-सङ्गित्वान् न सर्व-प्रत्यक्ष-सङ्गायाग्रहः कर्तव्य इति भावः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यद् दर्शनं तु भवतीनाम् उचितम् एवेत्य् आह—नन्व् इत्य्-आदि । ननु, भो विप्र-भार्याः ! कुशलाः साध्व्यः स्त्रियः स्वात्म-दर्शनाः पुरुषाश् च मय्य् अहैतुक्य्-अव्यवहितां भक्तिं कुर्वन्ति । कीदृशे ? आत्म-प्रिये यथा यथावत् । अहैतुकी च सा अव्यवहिता चेति कर्मधारयः पुंवद् भावाभाव आर्षः । अथवा, हैतुक्यां हेतु-भावः, न तथा तत् तत्र व्यवहिता विशेषणावहिता, तद् उचितैवेयं मयि वो भक्तिर् इति भावः ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परम-प्रेमवतीनाम् अपि तासां तदानीम् एव मनोरथ-पूर्तिर् न रस-पूष्टिं वहति । रस-पुष्ट्या च विना लीला चमत्करोत्य् अतो भगवतस् तत्-प्रेम-वश्यस्यापि तद्-दर्शनोत्थया रत्या स्वाभियोगं कृतवतोऽपि मनस्य् अकस्माद् एव लीला-शक्त्यैव स्फारितम् ऐश्वर्यं तासां स्व-गृहं प्रति परावर्तने कारणम् अभूत् । यद्यपि प्रायः प्रेमवज्-जन-सन्निधाव् ऐश्वर्यं नाविर्भविष्णु भवेत्, तद् अपि लीला-सौष्ठवार्थं विरहौत्कण्ठ्य-वर्धनया तासां प्रेम-वर्धनार्थं चाविर्भवेद् एव, तद् भगवतो रत्य्-आख्यं भावं शमयित्वा विवेकम् उत्पादयामासेत्य् अतो भगवांस् तद् अनुकूलम् एवाह—नन्व् इति द्वाभ्याम् । न केवलं मयि भवत्य एवासज्जन्ते किन्तु बहवोऽन्येऽपि मयि परमेश्वरे भक्तिं प्रीतिं कुर्वन्ति । के ते? कुशलाश् चतुराः । चातुर्यम् एवाह—स्वार्थ-दर्शिनः लोके हि स्वार्थ-साधका एव चतुरा उच्यन्त इति भावः । अहैतुकी स्वीय-फलाभिसन्धि-रहिता च अव्यवहिता प्रीति-व्यवधायक-ज्ञान-कर्मादि-वस्त्व्-अन्तर-शून्या च ताम् अत्र दृष्टान्तः आत्म-प्रिये देहापत्य्-आदौ यथा ॥२६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : युक्तत्वं स्फुटयति—नन्व् इति । कुशला विवेकिनोऽत एव स्वार्थज्ञा मय्य् एव अद्धा साक्षाद् भक्तिं कुर्वन्ति अहैतुकीं फलानुसन्धि-रहिताम् अत एव अव्यवहितां निरन्तरां यथा रागिण आत्म-प्रिये स्वातिवल्लभे विषयानन्दे प्रीतिं कुर्वन्ति, तद्वत् ॥२६॥


॥ १०.२३.२७ ॥

प्राण-बुद्धि-मनः-स्वात्म-दारापत्य-धनादयः ।

यत्-सम्पर्कात् प्रिया आसंस् ततः को न्व् अपरः प्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनः सर्वतः प्रेष्ठत्वम् उपपादयति—प्राण- इति । स्वा ज्ञातयः । आत्मा देहः । एते सर्वे यत्-संपर्काद् यस्य अध्यासेनोपकरणत्वेन वा ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्य आत्मनः । अनात्मन्य् आत्मत्वारोप आत्माध्यासः । विचारेण अध्यास-निवृत्ताव् अप्य् उपकरणत्व-निवृत्तिः, न देहापत्य-कलत्रादिष्व् आत्म-सैन्येषु [भा।पु। २.१.५] इत्य्-उक्तेर् देहादेर् उपकरणत्वम् । आत्मनस् तु कामाय सर्वं प्रियं भवति [बृ।आ।उ। २.४.५] इति श्रुतिर् अत्रानुसन्धेया ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आत्मन आत्म-प्रियत्वं दर्शयति—प्राण-बुद्धि- इत्य् आदि । अतो मत्तो प्रियो नास्त्य् एव, युष्माभिः साधु कृतम् आयातम्, दृष्टश् चाहं मनसा परिरब्धः, अतः परं कृतार्था एव यूयम् ॥२७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परमात्मत्वेन परम-प्रियत्वं साधयितुं प्रथमम् आत्मन एव प्रियत्वम् आह—प्राण- इति । अन्यत् तैर् व्याख्यातम् । यद् वा, परमात्मन एवात्मनः सकाशात् प्रियत्वं साधयति—प्राण- इति । यस्य मम सम्पर्कात् समर्पणादि-सम्बन्धेनैव आसन् भवन्तीत्य् अर्थः । यद् वा, पूर्वेषां बभूवुः, आदि-शब्दात् ज्ञाति-बान्धवादयो गृह-क्षेत्र-पश्व्-आदयश् च गृहीता एव ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परमात्मन एवात्मनः सकाशात् प्रियत्वं साधयति— प्राण- इति । आत्मात्र जीवः यस्य मम परमात्मनः सम्पर्कात् आत्मनो\ऽपि मद्-अंशत्वेनैव तथात्वाद् इति भावः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इमम् एवार्थं विशदयति—प्राण-बुद्धित्य्-आदि । यस्य मम सम्पर्काद् धेतोः प्राणादयः प्रिया आसन्, भवन्तीत्य् अर्थः । मत्-सेवार्थम् एव प्राणाः प्रिया बचन्ते । एवं बुद्ध्या, एवं मनांसि, एवं स्वात्मानो देहाः, इति पुंसयोर् एव दारापत्यादयः । पुंसां मत्-सेवार्थम् अमी दारा यदि बचन्ते, तदैव प्रियाः । अतो भवन्तीर् भर्तारो नाभ्यसूचयन्तीति भावः । एवम् अपत्यानि धनानि च । ततो मत्तः कोऽपरः स्त्रीणां वा पुंसां वा प्रियोऽस्ति ? न कोऽपि । प्राणादयो येऽमी सन्तीति वक्तव्यम्, ते मत्-सम्पर्काद् एवेत्य् उक्तम् एव, तद् यद् आगतं तच् छोभनम् एवेति पूर्वानुवादः ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बुद्धि-प्रवेशार्थम् एव दृष्टान्तो दर्शितः । वस्तुतस् तु दृष्टान्ताद् देहादेः सकाशाद् अपि दार्ष्टान्तिकः परमात्माहम् अतिप्रिय एवेति युक्त्या प्रबोधयति—प्राण इति । स्वं देहः आत्मा जीवः यस्य परमात्मनः सम्पर्कात् सम्बन्धात्, ततः परमात्मनः ॥२७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : धी-प्रवेशाय दृष्टान्तः स्थूलो दर्शितः, वस्तुतस् तु ततो\ऽपि विशुद्धत्वाद् अमितत्वाच् चानन्दमयोऽहम् अतिप्रिय इति बोधयति—प्राण- इति । स्वः देह आत्मा जीवः यस्य मे सम्पर्काद् आनुकूल्येनोपस्थापनात् सम्बन्धाद् इत्य् अर्थः । प्राणादिषु प्रियत्व-हेत्व्-आनुकूल्य-सम्पादकोऽहम् एवातिप्रिय इति भावः ॥२७॥


॥ १०.२३.२८ ॥

तद् यात देव-यजनं3 पतयो वो द्विजातयः ।

स्व-सत्रं पारयिष्यन्ति युष्माभिर् गृह-मेधिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्मात् कृतार्था यूयं देव-यजनं यज्ञ-वाटं यात गच्छत । ननु कृतार्थाः किम् इति यास्याम इति चेद् अत आह—पतय इति । पारयिष्यन्ति समापयिष्यन्ति । पतीनाम् अनुग्रहायेत्य् अर्थः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो मद्-भक्तास् तत् तस्माद् धेतोः । विप्र-पत्न्यः शङ्कन्ते—नन्व् इति । इत्य् अर्थ इति । अग्नि-साध्ये कर्मणि सपत्नीकस्यैवावाधिकाराद् अन्यथा कृतम् अप्य् अकृतं स्याद् इति भावः । सत्रादि-कर्मापि वेद-रूपेण मयैवोक्तम् अतो मत्-कार्यानुरोधाद् एव यात, तत्रैव स्फुरन्तं मां द्रक्ष्यथेति भावः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतः परम् अत्र स्थित्वा प्रयोजनाभाव इत्य् आह—तद् यात इत्य्-आदि । वो युष्माकं पतयः, न तु प्रियाः प्रियस् त्व् अहम् एवेति भावः । स्व-सत्रं पारयिष्यन्ति समापयिष्यन्ति, पार-तीर समाप्तौ, इदम् अपि मयैवाम्नातम्, स्वाज्ञा-भङ्गो मया न कार्यते ॥२८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वकीयं सत्रं यज्ञं पारयिष्यन्ति, आरब्धं समापयिष्यन्ति । स्व-शब्देन कथञ्चित् परकीयम् एव कारयितुम् अर्हन्ति, न त्व् आत्मन इत्य् अर्थः । यतो गृह-मेधिनः, युष्माभिर् विना गार्हस्थ्याभावेन यज्ञानुपपत्तेः । अत एव तद्-अपेक्षया देव-यजनं यात इत्य् उक्तम्, न च गृहम् इति । "तद् यात देव-यजनम्" इति पाठस् तेषां सम्मतो लक्ष्यते, तथैव पाठ-धारणात् । ननु ते त्वद्-अनादराद् उपेक्ष्या एव, तत्राह—द्विजातयो ब्राह्मणा मद्-भक्त्या ते\ऽवश्यं-मान्या इत्य् अर्थः । अत एव नृगोपाख्याने स्वयम् एव वक्ष्यति—

विप्रं कृतागसम् अपि मैव दुह्यत मामकाः । > घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ॥ > [भा।पु।१०.६४.४१] इत्य्-आदि ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् यात देव-यजनम् इति पाठः, तेषां सम्मतो लक्ष्यते । तथैव पाठ-धारणात् "तद् यात साध्व्यो यजनम्" इति तु पाठः प्रायः सर्वत्र । स्व-सत्रं स्वीयत्वात् अवश्य-समापनीयं स्वीयं सत्रं यज्ञं पारयिष्यति आरब्धं समापयिष्यन्ति । स्व-शब्देन अन्यथा कथञ्चित् परकीयम् एव कारयितुम् अर्हन्ति, न त्व् आत्मन इत्य् अर्थः । यतो गृह-मेधिनः युष्माभिर् विना गार्हस्थ्याभावेन यज्ञानुपपत्तेः । अत एव तद्-अपेक्षया देव-यजनं यात इत्य् उक्तं, न च गृहान् इति । अतः श्री-भगवद्-आज्ञयैव तासां बहिर्-मुख-पति-पार्श्वे गमनं । तथा च तद्-आज्ञा च सर्व-सुहृत्त्वात् गो-ब्राह्मण-हितत्वात् तासां सम्बन्धेनानुजिघृक्षुत्वाच् चेति ज्ञेयम् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्माद् यद् आगतं तत् साध्व् एव यद् अहं च दृष्टस् तद् अतिसाधुतरम्, योऽयं मय्य् अनुरागः स च साधुतमम् एव । अतः परं यातेत्य् आह—तद् एव यजनम् इत्य्-आदि । हे द्विजातयः ! द्विजाति-स्त्रीत्वात् पुं-योगेऽपि प्रकृतिर् एव, ब्राह्मण्य इति स्वाभिप्रायं सम्बोधनम् । वो युष्माकं पतयः स्व-सत्रं युष्माभिर् एव पारयिष्यन्ति समापयिष्यन्ति, यतो गृह-मेधिनः ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्मात् स च परमात्मा तद् अहम् एव युष्माभिर् गर्गादि-मुखात् श्रुत एव युष्मद्-अङ्गान्य् आश्लिष्य सदा [वर्तु]{।मर्क्} एव तत् तस्मात् देव-यजनं यज्ञ-वाटं यात । ननु, तद् अपि साक्षान् [मंर्तू]{।मर्क्} परमात्मानं त्वां हित्वा कथं गृहं यामः ? तत्राह—पतय इति पारयिष्यन्ति युष्माभिः सहैव समापयिष्यन्ति सत्रादि-कर्मापि वेद-रूपेण मयैवोक्तम् इति मत्-कार्यानुरोधाद् एव यात तत्रैव स्फूरन्तं मूर्तं मां द्रक्षथेति भावः ॥२८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तत् तस्मान् मद्-अनुरागात् कृतार्था यूयं देव-यजनं यज्ञ-स्थानं यात । ननु, कृतार्थाः किम् इति यामः ? तत्राह—वः पतयो गृह-मेधिनो युष्माभिर् गार्हस्थ्य-हेतुभिः सहैव सत्रं पारयिष्यन्ति समापयिष्यन्तीति पतीन् उपकुरुत सत्रादीनां कर्मणां वेद-वपुषा मयैवाम्नातत्वान् मत्-कार्यानुरोधात् यात तत्रैव स्फुरन्तं मां द्रक्ष्य्सथेति भावः ॥२८॥


॥ १०.२३.२९ ॥

मैवं विभो\ऽर्हति गदितुं नृशंसं

सत्यं कुरुष्व निगमं तव पाद-मूलम् ।

प्राप्ता वयं तुलसि-दाम पदावसृष्टं

केशैर् निवोढुम् अतिलङ्घ्य समस्त-बन्धून् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नृशंसं परुषम् । निगमं प्रतिज्ञां, न मे भक्तः प्रणश्यति [गीता ९.३४] इति । वेदं वा, न स पुनर् आवर्तते [छा।उ। ८.१५.१] इति । पदावसृष्टम् अवज्ञयापि दत्तम् । बहु-मानेन केशैर् निवोढुं दासी-भवितुम् ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृशंसः कठिने क्रूरे हिंसके नर-शंसके इति निरुक्ति-कारः । निगमो वेद-वैश्ययोः । प्रतिज्ञाने नागरे च इति धरणि-देवः । न प्रणश्यति अदृश्यो न भवतीत्य् अर्थः । यः परमेशं प्राप्तः स पुनः संसारे नायातीत्य् अर्थः । दास्यो हि यथा-कथञ्चिद् दत्तम् अप्य् आदरेण गृह्नन्तीति भावः


ननु, भवतीभिर् विप्र-जात्य्-अभिमानो दुस्त्यजः ? तत्राहुः—तव गोप-रूपस्यापि पादम् अलं वयं प्राप्ताः, न हि विप्र-जात्य्-अभिमाने सत्य् एवं वक्तुं शक्यते । अस्मद्-वाक्येनैव निश्चिनु, सत्यं तद् अपि गोपस्य मम गोप्य एव दास्यो योग्याः । यूयं ब्राह्मण्यो वन्द्या एव ? तत्राहुः—यदि ब्राह्मणी-दासीकर्तुं जिह्रेषि कथं तर्हि त्वां ह्रेपयामस् त्वत्-पुरो नैव यावः, वृन्दावन एव वनदेवता इव वर्तिष्यामहे त्वत्-सम्बन्ध-गन्धेनैव कृतार्थी-भविष्याम इत्य् आहुः—वयं तु दूरे स्थितास् त्वत्-पदावसृष्टं त्वत्-प्रेयसी-पद-संसर्गात् त्रुटितं शय्याधः-स्थितं त्वद्-दासी-दत्तं तुलसी-दाम केशैर् धर्तुं प्राप्ताः, नास्माकं दुर्लभ-दास्ये\ऽपीच्छेति भावः । निवोढुं धर्तुम् । अतिलङ्घ्य त्यक्त्वा ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मैवम् इत्य्-आदि । तद् देव-यजनं यातेति नृशंसं क्रुरं गदितुं भवान् मार्हति, इदं नोक्त्वा किं वक्तव्यम् ? तत्राह—सत्यं कुरुष्व निगमं प्रतिज्ञां सत्यं कुरुष्व । स्व-निगमं स्व-प्रतिज्ञाम् इति वा । तर्हि न सत्याभावः—

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते । > अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥ इति ।

या ते प्रतिज्ञा तां सत्यां सर्व-भूत-भय-रूपे गृहे गन्तुं कथम् उपदिशसि ? गृहे न गत्वा किं कर्तव्यम् ? तत्राह—पदावसृष्टं तुलसी-दाम केशैर् निवोढुं समस्त-बन्धुन् अतिविलङ्घ्य तव पाद-मूलं प्राप्ताः, तव पाद-मूल एव स्थास्याम इत्य् अर्थः ॥२९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मा-शब्दस्यादौ निर्देशः, परम-व्यग्रतया निषेधनात् । एवम् ईदृशं पतीनां यज्ञ-समापनार्थं यज्ञ-स्थानं यातेति लक्षणम्, विभो हे बहिर्-अन्तर्-व्यापक ! इति । अस्माकं बाह्यम् आन्तरं च सर्वं त्वया विज्ञायत एवेति भावः । "वच" इति पाठः सुगम एव । भवान् इति अन्यो वदतु नाम, कृपा-कोमल-चित्तो भवांस् तु वक्तुम् अपि योग्यो न भवतीत्य् अर्थः । यतो नृशंसं क्रूरम् ।

यद् वा, भवान् रसार्णव-चन्द्रः कठिनं नीरसं वक्तुं नार्हत्य् एवेत्य् अर्थः । न च केवलम् एव तव वचसो नृशंसता, मिथ्यात्वम् अपि स्याद् इत्य् आशयेनाहुः—सत्यम् इति । प्राक् भवान् इति भक्त्या अनुनयार्थं पश्चात् कुरुष्व त्वम् इति प्रेम्णेति ज्ञेयम् । यद्य् अपि तासां स्वी-कारेण मर्यादोल्लङ्घनात् वेद-सत्यता न सिध्येत्, तथापि न स पुनर् आवर्तते [छा।उ। ८.१५.१] इत्य्-आदि श्रुतेः—देवर्षि-भूताप्त-नृणाम् [भा।पु। ११.५.४१] इत्य्-आदि-स्मृतेश् च, भक्तानां विधि-निषेधातीतत्वात् तस्य च साक्षाद्-भगवत्त्वात् सा सम्पद्येतैव ।

ननु युष्माकं गोकुलान्तर्-नयनाद् गोप्यो माम् अवज्ञास्यन्ति, युष्मासु च सापत्न्यम् इव धास्यन्ति, तत्राहुः—भवेति । तुलसि- इति ह्रस्वत्वम् अर्मस्, तूलस्या दाम- इति प्रियत्वेन सदा त्वच्-चरणाब्जयोः संलग्नत्वात् सापत्न्येन लक्ष्म्य्-आदीनाम् अपेक्ष्यत्वाच् च । तद् एव नितरां भक्ति-विशेषेण नित्यं वोढुं तद्-एक-निवहन-मात्र-दास्येन तास् त्वां नावज्ञास्यन्ति, न चास्मासु सापत्न्यं धास्यन्तीति भावः । यद् वा, त्वद्-दास्येन तासाम् अपि दास्यं करिष्याम इति भावः । समस्त-बन्धून् पति-पुत्रादीन् अतिलङ्घ्य इति वान्ताशित्वम्, तेषां पुनः स्वीकारो न युक्तम् इति भावः ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् ईदृशं विभो ! हे बहिर्-अन्तर्-व्यापक ! इति अस्माकं बाह्यम् आन्तरं च सर्वं त्वम् एव वेत्सीति भावः । भवान् इति अन्यो वदतु नाम कृपा-कोमल-चित्तो भवांस् तु वक्तुम् अपि योग्यो न भवतीत्य् अर्थः । यतो नृशंसं क्रूरम् ।

यद् वा, रसार्णव-चन्द्रो भवान् नृशंसं कठिनं नीरसं वक्तुं नार्हत्य् एवेत्य् अर्थः । न च केवलम् एवं तव वचसो नृणांसता-मिथ्यात्वम् अपि स्याद् इत्य् आशयेनाहुः—सत्यम् इति । करवाम किम् इत्य् एव वा निगमो ज्ञेयः । प्राग् भवान् इति भक्त्यानुनयार्थं पश्चात् कुरुष्व त्वम् इति प्रेम्णेति ज्ञेयम् । अत्र ताभिर् भगवतो ब्राह्मणान् अतिक्रम-रूपा निगम-मर्यादा तूत्कण्ठया नावहितेति ज्ञेयम् ।

ननु, मद्-अर्थं कथम् इव कुटुम्बानि त्यक्ष्यन्ते ? तत्राहुः—अतिलङ्घ्य इति । तत् तु जातम् एवेति भावः ।

ननु, ब्राह्मणीनां युष्माकं पत्य्-आदि-परित्यागो न युक्त इत्य् अत आहुः—प्राप्ता इति । अत्यन्त-तिरस्कृत-वाच्य-ध्वनिर् अयं वाच्यार्थं परित्यज्य व्यङ्ग्यार्थम् एव बोधयति । ततश् च सर्वं त्यक्त्वा दास्यम् एवाङ्गीकृतवत्य इत्य् अर्थः । तत्रस् तुलसी-दाम्नः पदावसृष्टत्वं तस्मिन्न् ऐश्वर्यं निश्चित्य सर्व-धर्मान् परित्यज्य इत्य् एतद् [विधत]{।मर्क्}-व्याख्य-रीत्या स्व-दोषः प्रत्याख्यातः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ततस् तद् आकर्ण्य द्विज-पत्न्यो यद् ऊचुस् तद् आह—मैवं विभोऽर्हति इत्य्-आदि । हे विभो ! ईश्वर ! भवान् सत्य-प्रतिज्ञ एवं गदितुं नार्हति, न योग्यो भवति । यतः,

ये दारागार-पुत्राप्त-प्राणान् वित्तम् इमं परम् । > हित्वा मां शरणं याताः कथं तांस् त्यक्तुम् उत्सहे ॥ [भा।पु। > ९.४.६५]

श्री-रामयणे—

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते । > अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥

इति तव प्रतिज्ञा । वयं सर्वं त्यक्त्वैव त्वां शरणं गताः, तत् कथम् एवं वदसि ? एवम् इति किं नृशंसं क्रूरं कठिनम् इत्य् अर्थः । अथवा, नृवत् शंसः कथं मनुष्यवत् कथनम् ? भवान् ईश्वर एव, अतः स्व-निगमं स्व-प्रतिज्ञां सत्यं कुरु, निगमं सत्यं कुरुष्व इति वा । वयं तव पाद-मूलं प्राप्ताः । किं कृत्वा ? समस्त-बन्धून् उल्लङ्घ्य । किं-अर्थं ? पादावसृष्टं तुलसि-दाम केशैर् निवोढुम्, दासी-भवितुम् इत्य् अर्थः ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रासारम्भे महा-प्रेमवत्यो गोप्य इवाहुः—मैवम् इति । नृशंसं परुषम् । निगमं न स पुनर् आवर्तते [छा।उ। ८.१५.१] इति वेद वाक्यम्। ये यथा मां प्रापद्यते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति निगम-रूपं स्व-वाक्यं च सत्यं कुरुष्व । ननु, भवतीभिर् विप्र-जात्य्-अभिमानो दुस्त्यजः, तत्राहुः—तव गोपस्यापि पाद-मूलं वयं दास्यार्थं प्राप्ताः । न हि विप्र-जात्य्-अभिमाने सत्य् एवं कोऽपि जनो वक्तुं शक्नोति, अतोऽस्मद्-वाक्येनैव निश्चीयतां नास्त्य् अस्माकं जात्य्-अभिमान इति भावः ।

ननु, गोपस्य मम गोप्य एव दास्यः प्रेयस्यश् च समुचित्य बचन्ते, ताश् च बह्व्यो वर्तन्तेतमाम् । सत्यं, वर्तन्तां विराजन्तां नाम । यदि त्वं ब्राह्मणीर् दासीः कर्तुं बन्धुभ्यो [जिह्रेषि]{।मर्क्}, तर्हि कथं तां ह्रेपयामस् त्वत्-पुरं नैव यामो, वृन्दावन एव वन-देवता इव वर्तिष्यामहे, त्वत्-सम्बन्ध-गन्धेनैव कृतार्थी-भविष्णवो वयम् इत्य् आहुः, वयं तु दूरे स्थित्वा पदावसृष्टं त्वत्-पदात् त्वद्-आश्लिष्ट-प्रेयसीनां पद-संसर्गाद् वा क्रटितीभूय अवसृष्टं पर्यङ्काधो विसृष्टं तुलसी-दाम त्वद्-दासीभिर् एव कृपया दत्तं केशैर् निवोढुं प्राप्ताः, न तु तव प्रेयसी-भावाय दासी-भावाय वा दुर्लभायास्माकम् आकाङ्क्षेति भावः ।

ननु, तर्हि भवद्-बन्धवः किं वदिष्यन्ति? तत्राहुः—अतिलङ्घ्य इति ॥२९॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : गोप्य इवाहुर्—मैवम् इति । हे विभो ! भवान् एवं नृशंसं कठोरं वचो गदितुं नार्हति स्व-निगमं ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति स्व-वाक्यं सत्यं प्रमाणं कुरु

ननु, भवत्यो ब्राह्मण्यः कथं मयि स्थास्यन्ति ? तत्राहुः—वयं समस्त-बन्धून् अतिलङ्घ्य तव पाद-मूलं प्राप्ताः, न हि अस्माकं कुलाभिमानोऽस्तीति भावः ।

ननु, वः क्वोपयोगः ? तत्राह—पदावसृष्टं त्वत्-पदा त्वद्-आश्लिष्ट-कान्ता-पद-संसर्गाद् वा त्रुटितं मद्-अवसृष्टं त्वत्-पर्यङ्क-तले निक्षिप्तं तुलसि-दाम ताभिः कृपया दत्तं केशैर् निवोढुम् इति तद्-धारणम् एवास्माकं सेवा इति । तथा च माभूत् तवाङ्ग-सङ्गो वन-देवताभिः सह वृन्डरण्ये निवसन्तीनां नस् तावन्-मात्रम् अस्तु पुलिन्दीनाम् इव श्री-कुङ्कुम-धारणम् इति भावः । इह पदावसृष्टं तुलसि-दामेति तस्मिन् पारमैश्वर्यं व्यज्य त्वद्-दास्यम् एव नोऽभीप्सितम् इति सूच्यते । जीव-स्वरूपं च त्वद्-दास्यवद् एव दास-भूतो हरेर् एव [प।पु। ६.२२६.३७]4 इति पाद्मे तल्-लक्षणात्, न च गार्हस्थ्य-धर्म-त्यागो नोचितः, सर्व-धर्मान् परित्यज्य [भा।पु। १८.६६] इत्य्-आदित्वद् उक्तेर् एव ॥२९॥


॥ १०.२३.३० ॥

गृह्णन्ति नो न पतयः पितरौ सुता वा

न भ्रातृ-बन्धु-सुहृदः कुत एव चान्ये ।

तस्माद् भवत्-प्रपदयोः पतितात्मनां नो

नान्या भवेद् गतिर् अरिन्दम तद् विधेहि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, न गृह्णन्ति नोऽस्मान् । हे अरिन्दम ! काम-लोभ-पापादि-दमन ! भवतः प्रपदयोः पादाग्रयोः पतित-देहानाम् अन्या स्वर्गादि-गतिर् अपि न भवेत्, मा भूत् । तत् तस्माद् दास्यम् एव विधेहि इति ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् अनादृत्येहागतास् ते पुनर् न स्वीकुर्वन्तीत्य् आहुः—किं च इति । अन्ये सम्बन्धीतरे । सम्बन्धि-त्यक्तम् इतरे स्वत एव त्यजन्तीति तात्पर्यम् । यतोऽस्माकम् अन्या गतिर् नाक्षाङ्क्षिता, तस्मात् । तद् दास्यम् । किं च, त्वन्-नरस्थ-मालिकत्वाम्बूलिकादि-वनिता-जना स्याच् छ्रुतत्वाद् रूप-गुण-माधुर्या यद्-अवधि वयं वयः-सन्धिम् आरभ्यैवाभूम, तद्-दिनत एव त्वत्-प्रेमवतीर् गृह-कर्मस्व् अप्य् उदासीना अस्मान् व्यभिचारिणीर् इव दृष्ट्वा सन्दिहानाः पत्य्-आदयो नैव प्रायो व्यवहरन्तीत्य् आहुः—गृह्नन्ति इति । सुताः सपत्नी-पुत्राः । अन्ये प्रतिवेश्य्-आदयः ।

ततश् चातिवैयग्र्येण रुदत्यः पदाग्रे मूर्ध्ना प्रणमत्यस् सगद्गदम् आहुः—तस्माद् इति । अस्माकं यथा अन्या गतिर् न भवेत् तथा विधेहि । हे अरिन्दम ! त्वत्-प्राप्ति-प्रतिबन्धकी-भूता दुरितादय एवारयस् [तान्]{।मर्क्} आनन्दमय-कृपया त्वम् एवेति भावः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अधुना चेद् भवतीभिर् देव-यजनं न गम्यते, तदा विलम्बे सति पतयो नाङ्गीकरिष्यन्ति, एवं चेद् भवत्व् एवम् एवेत्य् आहुः—गृह्नन्ति नो न पतय इत्य्-आदि । नो\ऽस्मान् पतयो न गृह्नन्त्व् इत्य् अर्थः, पञ्चम्यां वर्तमाना ।

यद् वा, पतयो नो न गृह्नन्ति, अपि तु गृह्नन्त्य् एव, भविष्यति वर्तमानः । त्वद्-अनुरक्तत्वाद् अधिकम् एवास्मासु आदरं करिष्यन्ति, तथापि तस्मात् पति-पुत्रादेर् बहिर्भूय भवत्-प्रपदयोः पतितात्मनां नो\ऽस्माकं नान्या गतिर् भवेत्, भवत्व् इत्य् अर्थः । नो न गृह्नन्तीति द्वौ नञौ प्रकृतार्थं गमयतः । एवं न भ्रातृ-बन्धु-सुहृद् इत्य् आदाव् अपि नो इत्य् अनुवर्तनीयम् । अतस् तेषां ग्रहणाग्रहणयोः कापेक्षा ? ॥३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु साधवो दीन-वत्सलाः [भा।पु। १०.४.२३] इति तेषां हितार्थं यात । यद् वा, मद्-आज्ञया अकृताम् अपि कर्तुम् उपयुज्यते, तत्राहुः—गृह्नन्ति इति। तत्र गता अप्य् अस्मान् त एव न स्वीकरिष्यन्तीत्य् अर्थः ।

यद् वा, त्वय्य् अस्माकं भाव-दर्शनात् प्रथमत एव न ते स्वीकुर्वन्त्य् एवेत्य् अर्थः । पितराव् इति कासाञ्चिन् मातुर् वृद्धत्वेन गमनाशक्त्या गृहे\ऽवस्थानां श्री-भगवति भाव-विशेषेण सङ्गे\ऽगताया अपि तथा पूर्वम् अकृत-निषेधाया अप्य् अत्र मातुर् उक्तिः, पित्रा अगृह्यमाणानां तद्-भयेन मात्राप्य् अग्राह्यत्वात् ।

यद् वा, निजानन्य-गतिकता-बोधनाय तत्र धर्माद्य्-अपेक्षया पतिभिर् अस्वीकृताः, स्नेहेन पित्रोर् गृहं याताः, ताव् अपि न गृह्नीतः, लोकादि-भयात् । ततो\ऽपि स्नेहाधिक्येन पुत्रान् प्रति गतास् ते\ऽपि न गृह्नन्त्य् एव, लोक-लज्जादिना, अतो न भ्रात्रादयो\ऽपि गृह्णन्त्य् एव । अन्ये च प्रतिवेष्य्-आदयः कुतो गृह्नन्तु ? इति विवेचनीयम् । तस्मात् पत्य्-आदिभिर् अग्रहणात् प्रपदयोः श्री-चरणाब्जयोर् अग्रतो\ऽदूरत इत्य् अर्थः । इति परम-दैन्यात् पतितात्मनाम् अनन्य-गतिकत्वेन तद्-एकाश्रितानाम् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् एव ।

यद् वा, तस्माद् इति तद्-विधाने हेतुर् उक्तः—तस्य दीननाथैक-शरणतया सर्व-त्यक्तानां तद्-एक-शरणत्वात् । किं च, पतित-देहानां दण्डवत् प्रणम्य पतित्वा प्रार्थयमानानाम् इत्य् अर्थः,

यद् वा, पतितानाम् इव आत्मा स्वभावो यासां तासाम् अपीति दैन्योक्तिः । भवत्-प्रपदयोस् तत्-पूर्वोक्तं केशैस् तुलसीदाम-निवहनम्, तस्य च दुर्लभत्वात्, सुगोप्यत्वाच् च व्यक्तम् अनिर्देशः । यद् वा, तत् तथा, यत्-तदोर् नित्य-सम्बन्धात् । यथान्या त्वद्-दास्येतरा गतिः फलं न भवेत्, तथा विधेहि

ननु तथापि श्री-गोपिकानां सापत्न्याद् अहं शङ्के, तत्राहुः—हे अरिन्दम ! तासाम् ईर्ष्यादि-लक्षणं शत्रुं त्वम् एव नाशयिष्यसीत्य् अर्थः ।

यद् वा, कंसाद्य्-अरिम् एव दमयसि, भक्तानां तु दमनं कर्तुं नार्हसीति परित्यागेन मास्मान् मारयेत्य् अर्थः । यद् वा, पतितात्मनां मृतानां सतीनाम्, तयोर् अग्रे म्रियामहे, गतिश् चान्या न भवेद् इति विधेहि इत्य् अर्थः ।

ननु कामः संवारितुम् एव युज्यते, तत्राहुः—हे अरिन्दम इति, काम-लक्षण-शत्रुम् इमं त्वम् एव नियन्तुं शक्तो\ऽसि, न तु वयं त्वत्-काम-मोहिता इत्य् अर्थः ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, साधवो दीन-वत्सलाः [भा।पु। १०.४.२३] इति तेषां हितार्थं यात । यद् वा, मद्-आज्ञातोऽकृत्यम् अपि कर्तुम् उपयुज्यते, तत्राहुः—गृह्नन्ति इति । निज-निषेधोल्लङ्घनात् तत्र गता अप्य् अस्मान् त एव न स्वीकरिष्यन्तीत्य् अर्थः । अन्ये तु प्रतिवेश्य्-आदयः सम्भाषाम् अपि न करिष्यन्तीत्य् अर्थः । तस्मात् पत्य्-आदिभिर् गृहणात् प्रपदयोः पदाग्र-समीपे पतितात्मनाम् अनन्य-गतित्वेन त्वद्-एकाश्रितानाम् इत्य् अर्थः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं चेत् तदा युष्माकं पत्यादयो युष्मान् न ग्रहीष्यन्तीति चेत् न तावद्-गृह्नन्तु इत्य् आहुः—गृह्नन्ति नो न पतय इत्य्-आदि । पतयो नोऽस्मान् न गृह्नन्ति, न गृह्नन्त्व् इत्य् अर्थः । एरुः [पा ३.४.८६] इति उत्वाभाव आर्षः, विभक्ति-व्यत्ययो वा लोड्-अर्थे लड् एव । एवं पितरौ सुता वा, एवं भ्रातृ-बन्धु-सुहृदश् च, अस्माभिर् एव सर्वे त्यक्तास् ते, कथं तेषां ग्रहणोपेक्षा अस्माकम् ? ततः किं कर्तव्यम् इत्य् आह—तस्माद् इत्य्-आदि। तस्माद् भवत्-प्रपदयोः पतितात्मनां नो नान्या गतिर् भवेत्, हे अरिन्दम ! विपक्ष-क्षय-कारिन् ! तद् विधेहि, तद् इति तुलसि-दाम पदावसृष्टं केशैर् निवोढुं [भा।पु। १०.२३.२९] इति यद् उक्तं, तद् एव विधेहि इत्य् अर्थः ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तन्-नगरस्थ-मालिक-ताम्बुलिकादि-वनिता-जन-मुखाद् [आकर्णितत्वद् रूपण्डण]{।मर्क्}-माधुर्या यद्-अवधि वयं वयः-सन्धिम् आरभ्यैवाभूम तद्-दिनत एव त्वयि भाववतीर् गृह-कर्मण्य् अप्य् उदासीना अस्मान् व्यभिचारिणीर् इव दृष्ट्वा सन्दिहानाः पत्य्-आदयो नैव व्यवहरन्तीत्य् आहुः—गृह्नन्ति इति । सुताः सपत्नी-पुत्राः अन्ये प्रतिवेश्य्-आदयः । ततश् चातिवैयग्र्येण रुदत्यः पदाग्रे मूर्ध्ना प्रणमन्त्यः स-गद्गदम् आहुः—तस्माद् इति अस्माकं अन्या गतिर् यथा न भवेत् तथा विधेहि । हे अरिन्दम ! त्वत्-प्राप्ति-प्रतिबन्धकी-भूता दुरितादय एवारयः, तान् त्वम् एव कृपया दमय ॥३०॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : किं च, वयः-सन्धितस् त्वद्-अतिरम्य-गुण-श्रवणेन त्वन्-मनस्का वयम् अभूम त्वत्ताद् एव पतयोऽस्मान् उपभोगाय न गृह्नन्ति इति वयं यज्ञ-सिद्ध्य्-अर्थास् तत्-पत्न्यः । आह यथा पाणिनिः पत्युर् नो यज्ञ-संयोगे [पा। ४.१.३३] इति तत्-कर्तृकस्य यज्ञस्य फलस्य फलं तु न भोक्ष्यामहे तत्रानभिलाषात् पित्रादयोऽपि सम्भासाणेऽपि न गृह्नन्ति । वातूला इमा इत्य् आक्षिपन्ति सुताः सपत्नी-पुत्राः, अन्ये तटस्थाः कुतः तद् यात देव-यजनम् [भा।पु। १०.२३.२८] इत्य् अनुस्मृत्य व्यग्रा प्राहुः । तस्मात् पत्य्-आदि-परित्यागात् तं विधाय भवतः प्रपदयोश् चरणाग्रयोः पतितात्मनां साष्टाङ्ग-प्रणमन्तीनां नो यथा त्वत्तोऽन्या गतिः श्रवणं न भवेत्, तथा विधेहि अरिन्दम ! हे स्व-प्राप्ति-प्रतिकूल-निवासिन् ! कारुणिक ! ॥३०॥


॥ १०.२३.३१ ॥

श्री-शुक उवाच—

पतयो नाभ्यसूयेरन् पितृ-भ्रातृ-सुतादयः ।

लोकाश् च वो मयोपेता देवा अप्य् अनुमन्वते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मयोपेता अनुज्ञाताः । प्रत्यक्षं देवान् प्रदर्श्याह—देवा अपि इति ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोकाः सम्बन्धि-भिन्नाः । निज-योगेन प्रदर्श्य दर्शयित्वा । अनुमन्वते आदरं कुर्वन्तीति ॥३१॥ [अत्र विश्वनाथः]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नाभ्यसूयेरन् दोष-दृष्टिम् अपि करिष्यन्ति, किम् उत न ग्रहीष्यन्तीत्य् अर्थः । अन्ये सर्वे लोकाश् च नाभ्यसूयेरन्, मद्-भक्ति-प्रभावात्, मया उपेता अनुज्ञाता अन्तर्यामि-रूपेण साक्षाद् वाधुनादिष्टा इति सात्त्विकानां मद्-भक्तिमतां देवानां मद्-भक्तासु युष्मास्व् असूया न भवेद् एव । विशेषतश् च मद्-भक्तिम् एव इमे साक्षाद् अभिश्लाघन्ते, तत्रापि मयादिष्टा इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अहो किं वक्तव्यं पत्य्-आदय इति, देवा अपि पुण्य-देहाः पुण्यापेक्षका यज्ञ-भाग-भुजः, पति-यज्ञादि-त्यागेनापि नाभ्यसूयेरन् । अहो बत किं वाच्यं ? पत्य्-आदयो नाभ्यसूयेरन्न् इति, अथ च अनुमन्वते, विशेषतो\ऽधुना आदरं करिष्यन्तीत्य् अर्थः । यद् वा, मया उपेताः सङ्गता युष्मान् देवा अप्य् अनुमन्वते, किं पुनः पत्य्-आदयो\ऽभ्यसूयेरन्न् ? इति ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भो ! युष्मान् इति युष्मभ्यम् इत्य् अर्थः । नाभ्यसूयेरन् दोष-दृष्टिम् अपि न कुर्युः कथं न गृह्नीयुर् इत्य् अर्थः । अन्ये सर्वे लोकाश् च नाभ्यसूयेरन् किम् उत स्निग्धास् ते\ऽपीत्य् अर्थः । कीदृशीः ? मया उपेता अनुज्ञाताः ममानुज्ञा-प्रभावेनैवेति भावः । अन्यत् तैः ।

तत्रानुज्ञाता इति सङ्गे दोषस्यैव भगवता स्वीकारात् तादृशस्यैव चार्थस्य युक्तेः प्रत्यक्षम् अपि सम्भावनामय-प्रकृति-लिङ्-परित्यागेन वर्तमानमय-लट्-प्रयोगात् प्रत्यक्षम् इवेत्य् अर्थः ।

यद् वा, मया सह उपेताः समीपं सङ्गता वो युष्मान् पत्यादयो नाभ्यसूयेरन् अहम् ईश्वर इति तैर् अपि ज्ञास्यमानत्वाद् इति भावः । यतो यज्ञ-कर्मणि तैः प्रत्यक्षीकृता देवा अपि अनुमन्वते पृष्टाः सन्तो माम् ईश्वरत्वेन मन्यन्त इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मयोपेता अनुज्ञाताः सङ्गता वा । वो युष्मान् । अहम् ईश्वर इति तैर् अपि ज्ञातत्वाद् इति भावः । यतो यज्ञ-कर्मणि तैः प्रत्यक्षीकृत्;अ देवा अप्य् अनुमन्वते—पृष्टाः सन्तो माम् ईश्वरत्वेन मन्यन्त इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सत्यं कुरुष्व निगमम् [२९] इति यद् उक्तं भवतीभिस् तद् एव कर्तव्यम्, किन्तु मद्-वच एव निगमस् तस्मात् तद् यात देव-यजनम् [२८] इति यद् उक्तं तद् अपि मद्-वच एव, तच् चापि सत्यं कर्तुम् अर्हम् । तस्मान् ममाज्ञा-प्रतिपालनम् अपि भवतु । मम वचः सत्यं भवतु । भवत्योऽधुना देव-यजनम् एव यात । पतयोऽपि नासूयां करिष्यन्तीत्य् आह—पतयो नाभ्यसूयेरन्, न च पितृ-भ्रातृ-सुतादयः । कुतः ? इत्य् आह—लोकाश् चेत्य्-आदि । मयोपेता मया सह कृत-सम्भाषा भवतीर् लोका देवाश्अनुमन्वतेऽनुमोदयिष्यन्ति श्लाघिष्यन्त एव, किं पुनः पत्य्-आदयः । अतो गृहं त्यक्त्वा स्वातन्त्र्येण समागताः, पुनर् गृहं गताः सतीर् अस्मान् अवमंस्यन्ते, इत्य् आशङ्का न कार्येति साम्प्रतं गृहम् एव यातेति वाक्यार्थः ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मयि प्रेमवत्यो यूयं मत्-सुख-परा एवातो मद्-अनभिप्रेतं चेष्टितं नार्हथ, स्व-हठं मा कृढ्वं, गृहान् गच्छतेत्य् उक्ते । भो अभिज्ञ-शिरोमणे! असूर्यं-पश्याः कुलवत्यो वयं वचनोल्लङ्घनात् यांस् तृणीकृत्य पुराद् बहिर्भूय एतावद् दूरे स्थितस्य सम्पटत्वेन व्रजे ख्यातस्य भवतः समीपम् आगच्छामः स्म । पुनस् तत्रैव गच्छन्तीर् अस्मांस् ते पत्य्-आदयः पुरेषु प्रवेष्टुम् अप्य् अददानाः कोपाद् अद्य वधिष्यन्त्य् एवेति जानीमः, तत्राह—पतय इति । वो युष्मभ्यं नाभ्यसूयेरन् दोष-दृष्टिम् अपि न कुर्युः, किम् इत्य् अनिष्टं शङ्कध्वे इति भावः । किम् उत पित्र्-आदयः अन्ये च लोकाः । कीदृशीः ? मया सह उपेताः सङ्गता अपि, किम् उत सम्प्रत्य् असङ्गता एवेत्य् अर्थः । अहम् ईश्वर इति तैर् अपि ज्ञातत्वाद् इति भावः । यतो देवा अपि यज्ञ-कर्मणि तैः प्रत्यक्षीकृताः । अत्रार्थे पृष्टा भवतीर् अनुमन्वते अनुमंस्यन्त एव मां सर्वेश्वरं विदुषां देवानाम् अप्य् अत्रार्थे अनुमतिर् एव, न त्व् अननुमतिर् इत्य् अर्थः ॥३१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अथ पत्य्-आदीन् अवज्ञाय त्वाम् आगता नस् ते न स्वीकुर्युः, अपि तु क्रुद्धास् तिरस्कुर्युर् एवेति वदिष्यन्तीर् आलक्ष्याह—पतय इति । पत्य्-आदयस् ते नाभ्यसूयेरन् मद्-दर्शन-सम्भाषण-भोजनार्पणेषु गुणेषु दोषारोपं न कुर्वीरन् । मयोपेता अनुज्ञाता युष्मान् देवाश् च यज्ञे तैः प्रत्यक्षीकृता अनुमन्वते साधु कृतम् आभिर् इत्य् अनुमोदिष्यन्त इत्य् अर्थः । मद्-उक्ता व इन्द्रादयोऽपि सत् करिष्यन्ति का कथान्येषाम् इत्य् अर्थः ॥३१॥


॥ १०.२३.३२ ॥

न प्रीतये\ऽनुरागाय ह्य् अन्ग-सन्गो नृणाम् इह ।

तन् मनो मयि युञ्जाना अचिरान् माम् अवाप्स्यथ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि त्वां त्यक्तुं न शक्नुम इति चेत्, तत्राह— इति । प्रीतये सुखाय अनुरागाय स्नेह-वृद्धये । अङ्ग-सङ्गोऽङ्गाभ्यां सङ्गः ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यपि तस्मान् अङ्गीकरिष्यन्ति तथापीति । अङ्गाभ्यां शरीराभ्याम् । मे प्रीतये नेति मे इति शेषः । भक्त्यैवाहं तुष्यामि, न त्व् अन्योपायेनेति भावः । नन्व् अङ्ग-सङ्गोऽप्य् अस्तु, तत्राहुः—अहो ब्राह्मण-जन्मनि भवतीनां मया अङ्ग-सङ्गो नृणां प्रीतये सुखाय न भवति। अनुरागादयस् तु सुतरां नेत्य् अर्थः । धर्म-संस्थापनार्थाय सम्भवामि युगे युगे [गीता ४.६] इति-उक्तेर् भवतीनां मयि यशोदादिवद् अनुराग एवोचित इति ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु भवतीभिर् उक्तम् गृह्नन्ति नो न पतयः [३०श-श्लो] इत्य्-आदिना मयैव समाधा कृता, तथापि भवत्यो न गच्छन्ति चेत् तच् छ्रूयताम् इत्य् आह—न प्रीतये इत्य्-आदि । तत्र स्थितानां वो मद्-अङ्ग-सङ्ग एवाभिलषितः, स तु नोचित एवेति वदति—इह देहे विप्र-भार्या-रूपे इति भावः, अङ्ग-सङ्गो नृणां श्रोष्यतां पश्यतां च न प्रीतये नानुरागाय च । अथवा, नृणाम् इह देहे नर-भूतानां भवतीनां देहे\ऽङ्ग-सङ्गो\ऽङ्गैः सङ्गः, मनसा सङ्गस् तु प्रीतये\ऽनुरागाय च । स च भवतीभिः कृतः करिष्यते च । यच् छ्रूयते गोपी-सङ्गस् तास् तु नर-भूता न बचन्ते, मया सह ता ह्य् अवतीर्णा इति इह-शब्द-द्योत्यं वस्तु किन्तु देहान्तरे भवत्यो\ऽपि माम् अवाप्स्यथ इत्य् आह—अचिराद् इत्य्-आदि ॥३२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि यतः । अङ्ग-सङ्गो मैथुन-लक्षणः सदैकत्रावस्थितिर् वा । नृणाम् इति श्लेषेण मर्त्य-देहस्य जरा-मरणादि-बाधया सम्यक् प्रीत्य्-अनुरागासिद्धेः । तथापि इह कर्म-क्षेत्रे भारत-वर्षे कर्माधीनत्वाद् अल्पायुष्काच् च तद्-असंसिद्धेः, श्री-वैकुण्ठ-लोके सच्-चिद्-आनन्द-विग्रहतस् तत्-सुसिद्धेस् तत्रैव युष्मान् मनोरथः सम्पत्स्यत इत्य् अर्थः। एतं च तासां वञ्चनार्थम् उक्तम्, न च तत्त्वतः, यथा कथञ्चिद् अपि तेन सह सम्बन्धतो\ऽपि कृतार्थता-सिद्धेः ।

यद् वा, इह गोकुले नृणां गोकुल-वासीतर-मनुष्याणां युष्मद्-आदीनां प्रीतये आनन्दानुभवाय यो\ऽनुरागो मयि प्रेमा तस्मै न भवति, गोप-गोप्य्-आदिष्व् एव ममासक्तेः ।

यद् वा, इह एषु ब्रह्मणी-देहेषु युष्माभिः सह मम अङ्ग-सङ्गो नृणां गोप-गोप्य्-आदीनां प्रीतये सुखाय, मयि युष्मासु वा अनुरागाय भविष्यति । इदम् अपि वञ्चनम् एव । तत् तस्मात् मनो युञ्जाना मनसैव मया सह सङ्गं कुर्वाणा इत्य् अर्थः । अवाप्स्यथ देहान्तर इति शेषः ।

यद् वा, अव अवसाने देहान्ते प्राप्स्यथ इत्य् अर्थः । स्पष्टतया तथानुक्तिस् तासां दुःखानुत्पत्तये । अत एवाचिराद् इति तच् चाश्वासनार्थम् एव, वस्तुतः कालस्य महा-दीर्घत्वात् तज्-जन्म-मात्रानन्तर-प्राप्त्य्-अविलम्बता-सिद्धेः । एवं श्री-गोपीनाम् इव देह-भावयोः सम्पत्त्या तास्व् इवानुग्रह-विशेष-सिद्ध्य्-अर्थम् आसां गृहेषु प्रस्थापनम्, न तु ब्रह्मणीत्वेनोपेक्षणम् इति तत्त्वार्थः । अन्यथा लोक-धर्मोपेक्षया प्रेम्णा प्रपन्नेषु तस्य केवलं लोक-धर्मापेक्षया उपेक्षणायोगात् ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् अस्मत्-प्रर्थितस्य का वार्ता ? इत्य् आशङ्क्य समाधत्ते—इह ब्राह्मण-जन्मनि युष्माभिर् मम अङ्ग-सङ्गो युष्मद्-उद्दिष्टाद् दास्य-मय-सान्निध्यं नृणां जीव-मात्राणां प्रीतये सुख-मात्राय न भवेत्, नतराम् अनुरागाय इत्य् अर्थः । तत् तस्मात् लोक-विद्विष्टत्वात् मयि निज-भावेन मन एव युञ्जानाः अचिराद् देहान्त एवेति ।

अत्रेदं तु विवेक्तव्यं श्री-कृष्णस्य भक्ताः खलु द्विविधाः—तटस्थाः लिलान्तः-पातिनश् च । तत्र तटस्थाः परोक्षस्यापि तस्य पारमैश्वर्यम् आलम्ब्य अष्ट-विधासु तत्-प्रतिमास्व् एकतरां सेवमाना जानन्तो वा जानन्तो वा च ते ब्राह्मणाद्यास् ते चरण-सेवा-चरणोदक-ग्रहणादि-निज-भक्तिषु परोक्षम् अनुमोद्यन्ते । लीलान्तः-पातिनश् च द्विविधाः—तत्र प्रथमास् तस्य पारमैश्वर्यम् आलम्बमाना देवाद्याः, तेन पारमैश्वर्येणैव व्यवह्रियन्ते । अथ पारमैश्वर्यानुभवेऽपि तस्य नर-लीलाम् अवलम्बमाना ब्राह्मणाद्या नराः पित्राद्याश् च नर-लीला यथा स्व-स्व-मर्यादां व्यवहरन्तस् तेन च तद् व्यवह्रियन्ते । तस्मात् नर-लीलाकृष्ट-चित्तानां ब्राह्मणीनाम् आसां स्व-योग्यम् एव तत्-परिचरणं कर्तुं तत्-सङ्गं प्राप्तुम् इच्छूनां सम्प्रत्य् उपेक्षा युक्तैवेति ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु तर्ह्य् अङ्ग-सङ्गोऽपि भवतु ? तत्राह—इह ब्राह्मण-जन्मनि भवतीनां मया अङ्ग-सङ्गो नृणां प्रीतये सुखाय न भवति । अनुरागाय तु सुतरां नेत्य् अर्थः ॥३२.३३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तथापि न गच्छन्तीः प्रति पुनर् आह न प्रतय इत्य्-आदि । यदि वा यद् अङ्ग-सङ्ग्आर्थं कामयध्वे, स तु इह जन्मनि न भवति, प्रीतयेअनुरागाय नेत्य् अर्थः । नृणां मानुषीणां भवतीनां हि जानीत । नृणाम् इति सामन्यत्वाज् जाति-पर-निर्देशः, नृ-जातीनाम् इति भावः । तर्हि किम् अस्माकं भवतु ? तत्राह—तद् इति । तस्मान् मयि मनो युञ्जानाः सत्योऽचिराद् एव माम् अवाप्स्यथ । नृ-शरीरं त्यक्त्वा अप्राकृत-शरीरम् आसाद्य मां प्राप्स्यथेत्य् अर्थः ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मन्-मनो-वाञ्छितं कदापि सेत्स्यति न वेति सास्रैर् अपाङ्गैर् यत् पृच्छथ तत्रोत्तरं शृणुतेत्य् आह—नेति, प्रीतये प्रीतिं सम्पादयितुं अनुरागं च सम्वर्धयितुम् इत्य् अर्थः, किन्तु मद्-विरहौत्कण्ठ्यम् एवानुरागातिशय-वर्धकम् इति भावः । तत् तस्मात् ॥३२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु, त्वां विहातुं न शक्नुम इति चेत् तत्राह—इह अस्मिन् ब्राह्मणी-जन्मनि भवतीनां मम अङ्ग-सङ्गो नृणां प्रीतये सुखाय अनुरागाय च न भवेत् । तत् तस्मान् मयि मनो युञ्जाना गृहान् यात अचिराद् एव देहान्तरैर् माम् अवाप्स्यथ इति मर्यादा-सेतुर् अहं मर्यादां नातिवर्ते । यूयं च मद्-उक्ता मत्-प्रतीपं नाचरत मत्-प्राप्तिस् तु शीघ्रम् एव गोपी-रूपेण भाविनीति ॥३२॥


॥ १०.२३.३३ ॥

इत्य् उक्ता निज-पत्न्यस् ता यज्ञ-वाटं पुनर् गताः ।

ते चानुसूयवः स्वाभिः स्त्रीभिः सत्रम् अपारयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनसूयवः अदोष-दृष्टयः ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : या समागतास् ताःइति इत्थम् । अपारयन् समापयामासुः । पार् कर्म-समाप्तौ चुर्-आदि ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ताभिः श्री-भगवद्-अनुगृहीताभिः । इति सत्रस्य साद्गुण्य-विशेषो\ऽभिप्रेतः । "स्वाभिर्" इति पाठे निजाभिः, अन्यथा यज्ञ-समापनासिद्धेः । अनसूयव इति नाभ्यसूयेरन्न् इति श्री-भगवद्-उक्ति-प्रसादेन । किं वा, श्री-भगवद्-अनुगृहीतानां तासां समागम-प्रभावा एव ज्ञेयम् ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ताभिः श्री-भगवद्-अनुगृहीताभिः इति सत्रस्य श्री-भगवद्-उपेक्षया दोषः परिहृतः, साद्गुण्य-विशेषश् चाभिप्रेतः । "स्वाभिर्" इति पाठे निज-निजाभिः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्य् उक्तास् ताः कृष्णस्याभिप्रायं ज्ञात्वैव गताः । रासारम्भे गोप्यस् तु तद्-अभिप्रायं ज्ञात्वैव स्थिता इति प्रेम्णि न क्वापि कापि हानिर् इति ज्ञेयम् ॥३३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : इत्य् उक्तास् ता भगवद्-भावं ज्ञात्वैव यज्ञ-वाटं याग-स्थलं गताः । वाटो मार्ग-वृद्धि-स्थाने इति मेदिनी । गोप्यस् तु तद्-भावं ज्ञात्वैव स्थास्यन्तीति प्रिय-चित्तानुवृत्तिर् एव प्रेम्णः पद्धतिः ॥३३॥


॥ १०.२३.३४ ॥

तत्रैका विधृता भर्त्रा भगवन्तं यथा-श्रुतम् ।

हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देहम् इति । तदीयं देहं तत्र विहाय चैतन्येन भगवन्तं प्राप इत्य् अर्थः ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तासु विधृता रज्ज्वादिना आबध्य स्थापिता । तदीयम् भर्ता ममत्वेन स्वीकृतम् । तत्र तत्-पार्श्वे । इत्य् अर्थ इति । देहे एव तस्य स्वत्वं, न त्व् आत्मनीति तस्य गोचरत्वेन स्वत्वाविषयत्वात् । अतस् तत्-स्वत्वाधिकरणं तत्रैव त्यक्त्वा तीव्राभिलाषेण भगवन्तं प्राप्तेति । भगवद्-ध्यानादिना कर्मणां क्षीणत्वाद् इति भावः ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : देहं कर्मानुबन्धनम् इति । तस्य ध्यान-लब्धालिङ्गनेनैव सर्व-कर्म-नाशो जात इति भावः । नन्व् एवं चेत् साक्षाद्-भूतानां मनसा कृतालिङ्गनानां कथं कर्म-नाशो नाजनि ? इति नाशङ्कनीयम्—अचिरान् माम् अवाप्स्यथ [भा।पु। १०.२३.३२] इति स्वयम् एवोक्तत्वात् । कर्म-नाशे कथं तत्-प्राप्तिः ? किन्तु दग्ध-पटवत् तासां देहः कियन्तम् एव कालं स्थितः ? इति भावः ॥३४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्वम् एव तासां श्री-भगवति भक्ति-विशेष-दर्शनेन तेषां तासु भक्तिर् एव जातास्तीत्य् आशयेन तासां ताम् उपलक्षणेन दर्शयति । यद् वा, अचिरान् माम् अवाप्स्यथ [भा।पु। १०.२३.३२] इत्य् उक्तम् । तच् च केवलं नाश्वासनायैव, किन्तु तत्त्वतो\ऽपि साक्षाद् एकस्यास् तथा-सिद्धेर् इत्य् आह—तत्र इति यज्ञ-वाटे, तासु मध्ये इति वा । विशेषेण बलाद् हस्त-ग्रहण-पाद-वन्दनाद्य्-आग्रहेण धृता सती देहं विशेषेण पुनस् तादृश-जन्माभाव-प्रकारेण जहौ। कुतः ? कर्मभिर् अनुबध्यत इति तथा तत्, कर्माधीन-देहेन भगवद्-अप्राप्तेः । अतो गुणातीतं सर्वात्म-देहं तदानीम् एव गोकुले प्रापेत्य् अर्थः । एतद्-अभिप्रायेणैव तैर् व्याख्यातम् । भक्ताया इत्य् एक-वचनं सद्यः सायुज्याभिप्रायेणेति, सायुज्यं च श्री-भगवता सह सर्वात्म-देहेन नित्य-संयोगः, अत्रापि तदीयम् इत्य्-आदि, तत्र तदीयम् इति भर्तृ-सम्बन्धिनम् । चैतन्येनेति चिद्-रूपेणेत्य् अर्थः । इत्थं तासां भक्ति-विशेषो\ऽभिव्यञ्जितः ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अचिरान् माम् अवाप्स्यथ [भा।पु। १०.२३.३२] इत्य् उक्तं तच् च केवलं नाश्वासनायैव किन्तु बाढम् अङ्गीकारायेति दृष्टान्तेनाह—तत्र इति । तत्र यज्ञ-वाटे एका सर्वासाम् इति पश्चात् स्थिता । विशेषेण बालाद् धृताभगवन्तम् इति सर्वातिशय-गुण-रूपादिकं सूचितं यथा-श्रुतम् इति । तत्रापि श्री-कृष्ण-रूपत्वं हृदा प्रेम-मय-सङ्कल्प-सिद्धेन देहान्तरेण उपगुह्य भयार्ततया सङ्कोच-परित्यागेन शरणागतां "मां रक्ष रक्ष" इति गृहीत्वेत्य् अर्थः । तस्य च देहस्य भगवत्-प्रेम-मयत्वेन भगवत्-सम्बन्धि-सिद्धेस् तद्-अनुयायित्वात् सिद्धत्वम् अपि । ततः कर्मानुबन्धनम् एवेमं देहं विजहाव् इति स-विशेषणोक्तेर् न तु तद्-आलिङ्गन-साधनं प्रेमानुबन्धनम् अपीत्य् अर्थः । वि-शब्दः पुनर्-आवृत्तिं निषेधयति—अतः पति-सम्बन्धिनं देहं पत्य एव दत्त्वा श्री-भगवत्-प्रेम-सिद्धेन देहेन न प्राप्तेति विवक्षितम् । यं यं वापि स्मरन् भावम् [गीता ८.६] इत्य्-आदेः, ये यथा मां प्रपद्यन्ते [गीता ४.११] इत्य्-आदेश् च श्री-गीतातः । प्राप्तिश् चेयं गोलोकाख्ये गोकुलस्यैव प्रकाश-विशेषे ज्ञेया पूतना-मोक्षे निरूपितत्वात्, अग्रे च निरूपयितव्यत्वाच् चेति ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा-श्रुतं तादृशम् एव तं प्राप इत्य् अर्थः । तच् चाप्रकट-लीलायाम् एवेति ज्ञेयम् ॥३४.३६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवम् आसां साक्षाद् आगत्यं पश्यन्तीनां कथाम् उपसंहृत्य पत्या धृतायाः कस्याचित् कथां प्रथयति—तत्रैका इत्य्-आदि । तत्र देव-यजने भर्त्रा पत्या विधृता अवरुद्धा निर्गन्तुम् असमर्था यथा-श्रुतम् लोक-मुखेन यथाकर्णितं भगवन्तं हृदोपगुह्य कर्मानुबन्धनं देहं जहौ । कर्म शुभाशुभं कर्म प्रारब्धं, तद् एवानुबन्धनं यस्य तथा-भूतं देहं जहौ । अतथा-भूतं देहम् आसाद्य तद्-अङ्ग-सङ्ग-मङ्गल-योग्या बभूव । सद्य एव शुभाशुभ-कर्म-क्षयाद् अविलम्बाभावः । गोपाङ्गनानां मध्ये काचिद् भूत्वा तद्-अङ्ग-सङ्गिनी बभूवेत्य् अर्थः ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र यज्ञ-वाटे एका सर्वासाम् अपि पश्चात् स्थिता, अत एव विशेषेण बलात् धृता कर्मानुबन्धनम् एव देहं जहौ, न तु प्रेमानुबन्धनं देहं तदानीम् एव महा-विरहौत्कण्ठ्य-प्रवृद्ध-मनोरथेनोद्भावित भगवता स्फूर्ति-प्राप्तेनोपगृहीतं च तस्मात् तेन देहेन चिन्मयेन सर्व-जनालक्षितेन युक्ता सती सा शीघ्रम् एव ततः स्थानाद् अभिसृत्य श्री-भगवन्तं प्रापेति कर्मानुबन्धनम् इति पदस्य वैयर्थ्याद् एवं । यद् वा, तम् । किं च, ममतास्पदान् पत्य्-आदींस् त्यक्त्वेति किं चित्रम् ? अहन्तास्पदं देहम् अपि त्यक्त्वा काचित् स्वं प्रियं कृष्णम् अभिससारेति प्रेम्णः प्रभाव-ज्ञापनार्थं । भगवत्-कृपा ताम् एकाम् अभिसार-समये कर्मानुबन्धं देहं त्याजयित्वैव प्रेमानुबन्धं चिन्मय-देहं ग्राहयामास । तद् अन्यासां सर्वासां तु कर्मानुबन्धान् एव देहान् स्पर्श-मणि-न्यायेन प्रेमानुबन्धांच् चिन्मयान् एव चकारेति तद्-दिनतस् तासां न स्व-स्व-पत्य्-आश्लेष इति किम् अशक्यं भगवत्-कृपायाः तस्याम् एकांशेनोत्कर्षस् तद्-अन्यास्व् अप्य् अन्येनांशेनोत्कर्ष इति तासां तारतम्यं तु भक्ति-शास्त्रेष्व् अनिर्णीतत्वान् न शक्यते वक्तुं । सर्वासाम् एव तासां भगवत्-कृपा-सिद्धम् एव यद् उक्तं कृपा-सिद्धा यज्ञपत्नी-वैरोचनि-शुकादयः इति ॥३४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तच् चाश्वासन-मात्रं [हरिणां]{।मर्क्} तासां कृतम् अधि तु स्वो\ऽर्पयिष्य तु इत्य् अत्र दृष्टान्तत्वेनाह—तत्र इति । तत्र यज्ञ-वाटे एका सर्वासां पश्चान् निर्गता, तत एव भर्त्रा विधृता यथा-श्रुतं भगवन्तं नन्द-सूनुं हृदोपगुह्य आलिङ्ग्य तद्-विरह-वह्निना दग्धं कर्मानुबन्धनं प्रारब्ध-हेतुकं देहं जहौ सद्य एव गोप-किशोरी भूत्वा तं प्राप, ये यथा माम् [गीता ४.११] इति तद्-उक्तेः ॥३४॥


॥ १०.२३.३५ ॥

भगवान् अपि गोविन्दस् तेनैवान्नेन गोपकान् ।

चतुर्-विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेनैव विप्राभिर् आनीतेन । आशयित्वा भोजयित्वा ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तासु च श्री-भगवद्-अनुग्रह-विशेषम् आह—भगवान् इति । प्रकट-सर्वैश्वर्य-सम्पूर्णो\ऽपि इति तस्यान्नाभावस् तथा तस्य तदीयानां च क्षुद्-बाधो निरस्तः । तथापि तेन यज्ञ-पत्न्यानीतेनैव, एवं तस्य चातुर्यम् अप्य् उक्तम् । गोपकान् इति क-प्रत्ययः, स्नेहाभिप्रायेण । आशयित्वा स्वयम् एव परिवेषण-पूर्वकं भोजयित्वा, पश्चाद् बुभुजे तत् यतो गोविन्दो गोप-चूडामणिर् गोपेषु परम-वत्सल इत्य् अर्थः । -कारात् श्री-बलरामो\ऽपि, श्री-कृष्णेक्षया तस्यादाव् अभोजनात् । यद् वा, गोपेष्व् इव श्री-बलदेवस्यान्तर्-भावः । ततः श्री-कृष्ण-प्रीत्या पूर्ववत् पद्म-पत्रालिवन् [मण्डलिकया]{।मर्क्} उपविष्टानां मध्ये कर्णिकावन् निविष्टस्य तस्यादौ तैः सह भोजनं ज्ञेयम् । अप्य्-अर्थे -कारः । प्रभुः सर्वथा परिपूर्णो\ऽपि स्वयम् अपि बुभुजे, तास्व् अनुग्रह-विशेषात् ।

यद् वा, ननु बहूनां भोजनम् एकेनैव युगपद् अचिरात् कथं सिध्येत् ? तत्राह—प्रभुः सर्व-शक्तिमान् इत्य् अर्थः । अतस् तासु कृपया बहुलम् अप्य् अभुङ्क्तेति ज्ञेयम् ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं तासां भक्ति-विशेषो व्यञ्जितः, तासु श्री-भगवद्-अनुग्रह-विशेषं चाह—भगवान् इति । तत्रैवं वृत्तं जातं श्री-भगवान् अप्य् एवम् अकरोद् इत्य् अपि शब्दार्थः । गोविन्दः श्री-गोकुलेन्द्र इति गोप-पालने युक्तता तेनैवेति गोपापेक्षया अन्नस्याल्पत्वं बोध्यते, तथापि पूर्तौ हेतुर् भगवान् सर्व-सम्पत्त्य्-आश्रयः गोपकान् इति तद्-अनुकम्पितत्वं बोधयति । तेषु श्री-रामो\ऽपि गृहीतः । तेष्व् इव तस्मिन्न् अपि तद्-आग्रह-सम्भवात् यतः प्रभुर् अलङ्घ्येच्छ इत्य् अर्थः । स्वयं तान् प्रति परिवेष्य स्वयम् अपीति तासु तादृश-प्रसादे श्री-मुनीन्द्रस्य चमत्कारः । अत्र अप्य्-अर्थे हेतुः प्रभुः निरर्गलानुग्रह इत्य् अर्थः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवान् अपि इति । अपि-कारात् सा देहं जहौ । भगवान् अपि गोविन्दः तस्या गाः सर्वेन्द्रियाणि रमणार्थम् अलक्षितं तदैव विन्दति स्म इत्य् अर्थो व्याख्येयः । ततश् च तेनैव इत्य् एव-कारेण गोपापेक्षया अन्यस्याल्पत्वं बोधितं । प्रभुर् इति तद् अपि तेनैव सर्वेषाम् उदराणि पूरयामासेत्य् अर्थः । गोपकान् इत्य् अनुकम्पायां [कन्]{।मर्क्} -कारेण स्वयं भोक्तुम् अनिच्छन्न् अपि बुभुजे इति लभ्यते । अनिच्छा च प्रेमवतीनां तासां स्व-कृतेन सङ्कल्प-भङ्गेन पश्चात् तापोदयात् ॥३५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : भगवान् अपि स्वयं बुभुजे इति अहो भाग्यं तासाम् ॥३५॥


॥ १०.२३.३६ ॥

एवं लीला-नर5-वपुर् नृ-लोकम् अनुशीलयन् ।

रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुशीलयन्न् अनुकुर्वन् । गो-गोप-गोपीनाम् इति कर्मणि षष्ठी । रूप-वाक्-कृतैः रूपेण वाचा कृतैश् चरित्रैश् च रमयन् । तान् रमयितुं रेम इत्य् अर्थः ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-प्रकारेण । लीला-नर-वपुर् इति ब्राह्मणी-गमने तु लीला-वैगुण्यं स्याद् इति भावः । तान् गोपादीन् । रमयन्न् इति तुम्-अर्थे शतृ-प्रत्ययः । इत्य् अर्थ इति—तद्-अर्थम् एव भगवतो रमणं न स्वार्थम् आप्त-कामत्वाद् इति ध्वनितम् ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं लीला-नर-वपुः—लीलानाम् आननम् आनः प्राणनम् इत्य् अर्थः, तम् रातीति आ-नरः प्राण-प्रदस् तथा-विधं वपुर् यस्य ॥३६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतच् च यज्ञ-पत्न्य्-अनुग्रहादिकं तस्याखिल-चेष्टितं सौन्दर्यादिकं च श्री-व्रज-जन-प्रमोदायैवेत्य् उपसंहरति—एवम् इति । अनेनेदृशं बहुलं लीलान्तरम् अप्य् अस्तीति सूचितम् । लीला-मय-नराकार-वपुर् अनुशीलयन् अनुशिक्षयन् मनुष्य-लोके निज-भक्तिं प्रवर्तयन्न् इत्य् अर्थः । यद् वा, नृ-लोक-व्यवहारम् अनु निरन्तरं शीलयन् स्वाभाविकत्वेनाचरन्न् इत्य् अर्थः, लौकिक-लीलयैव प्रायो निज-प्रेम-सम्पत्तेः ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतच् च यज्ञ-पत्न्य्-अनुग्रहादिकं तस्याखिल-चेष्टितं सौन्दर्यादिकं च श्री-व्रज-जन-प्रमोदनायैवेत्य् उपसंहरति—एवम् इति । अनेनेदृश-बहुल-लीलान्तरम् अप्य् अस्तीति सूचितं लीला-मय-नराकार-वपुः अनुशीलयन् अनुशिक्षयन् मनुष्य-लोके निज-भक्तिं प्रवर्तयन् इत्य् अर्थः । यद् वा, नृ-लोके तद् व्यवहारम् अनुशीलयन् सदाचरन्न् इत्य् अर्थः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपसंहरति—एवम् इत्य्-आदि । एवम् अनेन प्रकारेण सर्व-प्रेमास्पदेन विलासेन नृ-लोकम् अनुशीलयन्न् अनुकुर्वन् रेमे । गो-गोप-गोपीनां रूप-वाक्-कृतै रमयन्न् आत्मानम् इति शेषः । गवां रूपैर् गोपानां वाचा गोपीनां कृतैश् चरितैर् लीला-नर-वपुर् लीला-प्रधानं नरवद् वपुर् यस्य, लीलाया आननम् आनः प्राण इति यावत् । अन प्राणने इत्य् अतो लीला-नरं रातीति लीला-नरं वपुर् यस्येति वा ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं याज्ञिक-पत्नीर् न रमयामास गोप-पत्नीस् तु रमयामासेत्य् आह—एवम् इति लीलामय-नर-वपुर् इति सर्वाभ्यो\ऽपि सत्य-सङ्कल्पतादि-शक्तिभ्यो लीला-शक्तेर् अभ्यर्हितत्वाद् ब्राह्मणी-जन-रमणे लीला-सौष्ठवाभाव एव हेतुर् इति भावः । अनुशीलयन् अनुसरन् गो-गोप-गोपीनाम् इति कर्मणि षष्ठी वत्सला-गोपीनाम् अप्रासङ्गिकत्वाद् असामयिकत्वाच् च गोप्यो\ऽत्र युवतय एव लभ्यन्ते । रूपेण वाचा कृतैश् चेष्टितैश् च रमयन् रेमे इति रासात् पूर्वं व्रज-देवीभिः सह न रमणम् इति मतं परास्तम् इति । एवं-विधा बह्व्यो\ऽन्या अपि व्रज-लीला-मयानुक्ता वर्तन्ते इति भावः ॥३६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : लीला-प्रधानो नराकार-वपुर् भगवान् गो-गोप-गोपीनाम् इति कर्मणि षष्ठी गोप्यो\ऽत्र तरुण्यः ता एव रमयन् रेमे, न तु ब्राह्मणीः तद्-रमणे लीला-सौष्ठवाभावाद् इति भावः । रूपेण नट-वर-वेषेण वाचा मधुरया कृतैश् च लौकिकैश् चरितैः नृ-लोकम् अनुशीलयन्न् अनुसारयन् [तदर्]{।मर्क्} इत्य् एवेत्य् अर्थः ॥३६॥


॥ १०.२३.३७ ॥

अथानुस्मृत्य विप्रास् ते अन्वतप्यन् कृतागसः ।

यद् विश्वेश्वरयोर् याच्ञाम् अहन्म नृ-विडम्बयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुस्मृति-प्रकारम् आह—नरानुकरणवतोर् विश्वेश्वरयोर् याच्ञां यद् अहन्म हतवन्तस् तत् कृतागसो वयम् इत्य् अनुस्मृत्य इति ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्व् एते विप्राः समीचीना न वा । अनुभवासत्त्वान् नाद्यः, हरि-भक्त-स्त्री-सम्बन्धान् न द्वितीय इति राज्ञो मानसाक्षेपं परिहरन्न् आह—अथ इति । ते विप्राः । अथ कोऽर्थो मङ्गलाः । कुतः ? यतोऽन्वतप्यन् । तद् अपि कुतः ? यतः कृतागसः । तत्र किं मानम् इति चेद् आह—अनुस्मृत्य इति । [तिर]{।मर्क्} स्मृतवन्त इत्य् अर्थः । स्वामि-व्याख्याने अनुकरण-शब्दार्थः तद्-भिन्नत्वे सति तत्-तुल्यत्वम् इति ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पत्नीनां सङ्ग-प्रभावेण तत्-पतीनाम् अपि सद्-बुद्धिर् जातेति तासां माहात्म्यम् एव दर्शयितुम् आह—अथेत्य्-आदिना यावत्-समाप्ति । अथ तद् अनन्तरं तत्-प्रघट्तकानन्तरम् एव, पत्नीनां सङ्गतो दुर्वासनाक्षयात्,

यद् वा, यज्ञ-समापनानन्तरं श्री-भगवद्-भुक्त-शेषेण यज्ञ-समापनतो यज्ञस्य सत्-प्रलोत्पत्त्या चित्त-शुद्धि-सम्पत्तेः ।

यद् वा, श्री-भगवतो भोजनानन्तरं तेन तद् अन्न-स्वीकारतस् तद् भक्त्य् उतपत्तेः । किं वा, तासां यज्ञ-स्थान-गमनानन्तरम् एव तासां सन्दर्शन-प्रभावाद् इति दिक् । अनुस्मृत्य अनुसन्धाय, ते दुरभिमानग्रस्ताः, अन्वतप्यन् अशोचन्, विश्वेश्वरयोर् इति न केवलं भगवद् अवतारस्य श्री-सङ्कर्षणस्य, अवतारिणः श्री-कृष्णस्यापीत्य् अर्थः ।

ननु तर्हि तयोर् याच्ञा कथं भवेत् ? तत्राहुः—नृ-विडम्बयोर् लौकिक-लीलां विस्तारयतोर् इत्य् अर्थः । यद् वा, नॄन् तद्-भक्ति-हीनान् अस्मान् विडम्बयत उपहसत इति तथा तयोः, अस्माच् छब्दाप्रयोगस् तदानीम् अपि दुरभिमान-गन्धानुवृत्तेः, लज्जातो वा । किं वा, ब्राह्मणाभिमानत्यागेन केवलम् आत्मनो नृत्व-मात्र-दृष्टितः ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पतयो नाभ्यसूयेरन्न् इत्य्-आदिना लब्ध-तादृश-भगवत् प्रसादानां पत्नीनां सङ्ग-प्रभावेन तत् पतीनाम् अपि सद्-बुद्धिर् जातेति तासां माहात्म्यम् एव दर्शयितुम् आह—अथेत्य्-आदिना यावत् सप्राप्ति । अथ तत् प्रवट्टकानन्तरं ते दुरभिमान-ग्रस्ता अपि अन्वतप्यन् ।

ननु, विश्वेश्वरयोर् याच्ञा कथं सम्भवेत् ? तत्राहुः—नृ-विडम्बयोर् लौकिक-लीलां विस्तारयतोर् इत्य् अर्थः । यद् वा, नॄन् अस्मान् तद् भक्ति-हीनान् विडम्बयत उपहसत इति तथायोः अस्मद् वाच्य-प्रयोगरतदानीम् अपि दुरभिमान-गन्धानुवृत्तेर् लज्जातो वा ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं तस्य सर्वम् अपि श्री-गोकुल-सौख्ययिवेत्य् आह—एवम् इति ॥३७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपसंहरति—एवम् इत्य्-आदि । एवम् अनेन प्रकारेण सर्व-प्रेमास्पदेन विलासेन नृलोकम् अनुशीलयन्ननुकुर्वन् रेमे । गो-गोप-गोपीनां रूपवाक्कृतै रमयन्न् आत्मानम् इति शेषः । गवां रूपैर् गोपानां वाचा गोपीनां कृतैश्चरितैर् लीला-नर-वपुर् लीला-प्रधानं नरवद्-वपुर् यस्य, लीलाया आननं आनः प्राण इति यावत् । अन प्राणने इत्य् अतो लीलानरं रातीति लीलानरं वपुर् यस्येति वा ॥३७.४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथानुस्मृत्येति तेषाम् अनुस्मरणनिर्वेदादिकं तासां दर्शनभाग्याद् इति ज्ञेयम् तेषाम् अनुतापप्रकारम् आह—यद्यस्माद्विश्वेश्वरयोर् अपि याच्ञां अहन्म हतवन्तो वयं, तस्मात् कृतागसो ऽभूमः । कीदृशयोः? नृन् अस्मान् विडम्बेते इति तयोः अन्नप्रार्थनेनैवास्मान् वञ्चितवतोर् इत्य् अर्थः ॥३७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : पत्नीनां दर्शनाद्-विप्राणां निर्वेदोऽभूद् इत्य् आह—अथेति । यस्मात् विश्वेश्वरेऽपि याञ्चामहन्म अतः कृतागसोऽपराधिनो वयं कीदृशयोर् इत्य् आह नॄन् अस्मान् विडम्येते अन्न-प्रार्थनेन प्रतारयत इति तयोर् इत्य् अनुस्मृत्य तेऽन्वतप्यन् पश्चात् तापम् अभजन् ॥३७॥


॥ १०.२३.३८ ॥

अथानुस्मृत्य विप्रास् ते अन्वतप्यम् कृतागसः ।

यद् विश्वेश्वरयोर् याच्ञाम् अहन्म नृ-विडम्बयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा च भार्या गुरून् इव मानयन्तो भगवद्-भक्ति-रहितम् आत्मानं व्यनिन्दन्न् इत्य् आह । दृष्ट्वेति । अलौकिकीं लोकातीताम् ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा चानुस्मरणावसरे । अलौकिकीं लोक-मर्यादाम् अपाकृत्य कृताम् । तया भक्त्या ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवति साक्षात् परमेश्वरे, तत्रापि कृष्णे निजाशेषैश्वर्य-प्रकटनेन सर्व-चित्ताकर्षके, विशेषेण निजाशेषाभिमानत्यागादिना गर्हयन्, अन्यत् तैर् व्याञ्जितम् । यद् वा, न केवलम् अन्वतप्यन् आत्मानम् अनिन्दंशेत्य् आह—दृष्ट्वेति । अलौकिकीं लोक-द्वयापेक्षात्यागात् कृष्णाप्राप्त्या सद्यो देह-त्यागाच् च, यद् वा—हसत्य् अथो रोदिति [भा।पु।११.२.४०] इत्य् आद्य् उक्त-लोकातीत-प्रेम-सम्पत्ति-लक्षणेदयात् ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवति साक्षात् परमेश्वरे तत्रापि श्री-कृष्णे निजाशेषैश्वर्य-प्रकटनेन सर्व-चित्ताकर्षके न केवलम् अन्वतप्यन् किन्त्व् अनुतप्ताः सन्तो विशेषेण निजाशेषाभिमानत्य् आगादिना अगर्हयंशेत्य् अर्थः अलौकिकीं लोक-द्वयापेक्ष्यात्यागात् कृष्णाप्राप्त्या सद्यो देह-त्यागाच् च ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च स्व-भार्या अपि गुरूनिव मानयन्तो भक्ति-रहितम् आत्मानं व्यनिन्दन्न् इत्य् आह—दृष्ट्वेति । अलौकिकीं लोकेष्व् असम्भवाम् ॥३८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अतः स्वपत्नीः गुरून् इव सत्कुर्वन्तो भक्त्या हीनम् आत्मानं व्यनिन्दन् इत्य् आह—दृष्टेति । अलौकिकीं लोकेष्व् असम्भवाम् ॥३८॥


॥ १०.२३.३९ ॥

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् ।

आत्मानं च तया हीनम् अनुतप्ता व्यगर्हयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तृवृत् शौक्रं सावित्रं दैक्षम् इति त्रिगुणितं जन्म । व्रतं ब्रह्मचर्यम् । क्रियाः कर्माणि दाक्ष्यं च क्रिया-दाक्ष्यम् इत्य् एकं वा पदम् । धिग् इत्य् अधिक्षेपे । ये वयः त्व् अधोक्षजे विमुखास् तेषां जन्मादि तत् सर्वं धिग् इति व्यगर्हन्न् इत्य् अर्थः ॥३९-४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शौक्लं शुद्ध-माता-पितृतः, सावित्रम् उपनेतुः, दैक्ष्यं देवदीक्षारूपं । पृथक् कृत्य व्याख्याने हरि-सेवारूप-कर्मणां तत्रैव दाक्ष्यस्य च बोधादशोभनतो मत्वाह—एक-पदम् इति । क्रियादाक्ष्यं व्यावहारिक-कर्म-कौशलं यागादि-क्रिया-कौशलं वा। इत्य् अर्थ इति । तत् कर्म हरि-तोषं यत् सा विद्या तन्-मतिर् यया [भा।पु। ४.२९.४९], आयासायापरं कर्म विद्यान्या शिल्प-नैपुणम् ॥ इत्य्-उक्तेः ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जन्मादीनाम् उत्तरोत्तरम् उत्तमताम् अभिप्रेत्य क्रमेणाधिक्षिपन्ति—धिग् इति । जन्म धिक् तत्र विशुद्ध-माता-पितृभ्यां शौक्ल्यं जन्म, सावित्रम् उपनयनाख्यम्, दैक्ष्यं यज्ञादि-दीक्षा-सम्बन्धि, अधोक्षजे श्री-यशोदानन्दने\ऽपीत्य् अर्थः । एतन् निरुक्तिः पूर्वम् एव लिखितास्ति ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ये अधोक्षजे प्रत्यावृत्तौ प्रादुर् भाविनि परमात्मन्य् अपि विमुखास् तेषां जन्मादीनि धिग् इति शैक्लस्य जन्मनः किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा इति तद् भक्तौ उपयुक्ततमत्वेऽप्य् अनुयोजनात् सावित्रस्य तद् अभिधायित्वेन गायत्र्य् अज्ञानात् गायत्र्यास् तत् परत्वं च तद् अर्थ-विस्तर-रूपस्य श्री-मद् भागवतस्य तत् परत्वात् तद् उक्तं गायत्रीं भगवत्-परत्वेन व्याख्यायाग्नि-पुराणे यत्राधिकृत्य गायत्रीं कीर्त्यते धर्म-विस्तरः इत्य्-आदि दैक्षस्यापि—

अहं हि सर्व-यज्ञानां भोक्ता च प्रभूर् एव च । > न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ [गीता ९.२४] इति > ।

तत्त्वाज्ञानात् एवं व्रतादीनाम् अपि कुलं वंश-परम्परां अहो कष्टं माया-मोहितानाम् अयम् एवेत्य् आहुः नूनम् इति निश्चितं योगिनां कर्माष्टाङ्ग-ज्ञान-योग-निष्ठानाम् अपि इत्य् आत्मनो योगित्वाभिमानात् यद् वा, योगिनाम् अपि किम् उत कर्मिणाम् अस्माकम् इति नृणां योग-त्रय-जिज्ञासूनां सर्वेषाम् अपीत्य् अर्थः । तद् उक्तं तानुद्दिश्य श्री-शुकेन बालिशा वृद्धमानिनः इति गुरवः श्रेष्ठा अपीत्य् अर्थः वर्णानां ब्राह्मणो गुरुः इति न्यायात् उपदेष्टारोपीति वा मुह्याम मोहं प्राप्नुम हे द्विजा इत्य् अनुतापेनान्योन्यं सम्बोधयन्ते यद् वा, द्विजा वयं मुह्यामहे इत्य् आत्मनेपदम् अर्मस् ॥३९.४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च स्वभार्या अपि गुरूनिव मानयस्तो भक्तिरहितमात्मानं व्यनिन्दन्नित्य् आह—दृष्टेति । अलौकिकीं लोकेष्वसम्भवाम् ॥३९॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : त्रिवृत् श्लोकं सावित्रं दैक्षञ्चेति त्रिगुणितं नो जन्म धिक् व्रतं ब्रह्मचर्यादि बहुज्ञतां वेदार्थ-व्युत्पत्तिं कुलं मातृतः पितृतश् च विशुद्धं क्रियायां नित्यनैमित्तिक-लक्षणायां दाक्ष्यं तद् अनुष्ठानं चातुर्यम् इत्य् एतत् सर्वं शोच्यम् अभूत् ये वयम् अधोक्षजे विमुखाः येन हरिस्तुष्वेत् तद्-एव सफलमन्यत् तु विफलम् इति भावः ॥३९॥


॥ १०.२३.४०-४१ ॥

धिग् जन्म नस् त्रिवृद्-विद्यां धिग् व्रतं धिग् बहुज्ञताम् ।

धिक् कुलं धिक् क्रिया-दीक्षां विमुखा ये त्व् अधोक्षजे ॥

नूनं भगवतो माया योगिनाम् अपि मोहिनी ।

यद् वयं गुरवो नॄणां स्वार्थे मुह्यामहे द्विजाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शास्त्र-जानम् अपि फलावसरे फलावसरे फलाकरणाद् अकिञ्चित् करम् एव । भगवद् अनुग्रह एव ज्यायानित्याशयवन्त आहुः—नूनम् इति । योगिनां ज्ञानिनाम् । यद्यतः । द्विजा द्विजोत्तमाः । गुरु-पद-सान्निध्या-द्विज-पदैन ब्राह्माण-ग्रहः । गुरवः वर्णानाम् आश्रमाणां च मुख्योऽभूद्-ब्रह्मणो गुरुः इत्य् उक्तेः, आचार्यत्व गुरुत्वं च विप्रस्यैव वरानने इति स्कान्दोक्तेः । स्वार्थे भगवत् प्राप्ति-रूपे स्वार्थः सर्वात्मना ज्ञेयो यद् धरेर् दर्शनादिकम् इत्य् उक्तेः ॥४०॥

अहो अद्भुतम् । कृष्णे दुरन्त-भावम् अव्यवहित-भक्तिम् । यः दुरन्त-भावः । अविध्यत् व्यध ताडने छेदनम् अपि यथा-कथञ्चित् ताडने पर्यवस्यति ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अहो ! पश्यत नारीणाम् इत्य् आरभ्य अथापि ह्य् उत्तमः-श्लोके भक्तिर् न चास्माकम् इत्य् आद्य् अन्तं सतात्पर्यकं च । तथा हि स्त्रियस् तु तत्-कालम् एव भाव-मात्रेणैव तं यथा लभन्ते, न तथा शमदादि-शीला मुनयो विवेकिनो\ऽन्ये चेति बहुत्रैव दृष्यते इत्य्-आदि ॥४१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो कष्टं माया-मोहिता नाम वयम् एवेत्य् आहुः । नूनम् इति निश्चितम्, योगिनां ज्ञान-योगवताम् इत्य् आत्मनो योगित्वाभिमानात् । यद् वा, योगिनाम् अपि किम् उत कर्मिणाम् अस्माकं गुरवः श्रेष्ठा अपीत्य् अर्थः । वर्णानां ब्राह्मणो गुरुः इति न्यायात् उपदेष्टारो\ऽपीति वा, मुह्याम मोहं प्राप्नुम, हे द्विजा इत्य् अनुतापेनान्यो\ऽन्यं सम्बोधयन्ति । यद् वा, द्विजा वयं मुह्यामह इत्य् आत्मनेपदत्वम् अर्मस् ॥४०॥

अहो वत स्त्रीभ्यो\ऽपि वयं पुरुषा निकृष्टा इति शोचन्ति—अहो इति त्रिभिः खेदे । ननु स्त्रीणां पत्युरितरस्मिन् भावो\ऽनुचितः ? तत्राहुः—जगद्-गुरौ पतिभ्यो\ऽप्य् असौ परमापेक्ष्य इति भावः । दुरन्तम् अपरिच्छन्नं ह्रास-शून्यं वा, भावं रति प्रम वा, अविध्यद् इति अतीत-निर्देशस् तासां सद्य एव गृहाद्य् आसक्त्यपगमाद्य् अभिप्रायेण । एवम् अचिरान् माम अवाप्स्यथ इति भगवद्-उक्तं च सिद्धम् इति सूचितम्, तत्-साधनापत्तेः ! तथा गृहस्थिति-प्रकारश् च दर्शित इति ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो बत स्त्रीभ्योऽपि वयं निकृष्टा इति शोचन्ति अहो इति त्रिभिः । अहो आश्चर्ये । ननु, स्त्रीणां पत्य्रितर् अस्मिन् भावोऽनुचितः तत्राहुः जगद् गुरौ पतिभ्योऽप्य् असौ परमापेक्ष्य इति भावः । दुरन्तं सर्व-बाधकं भावं प्रेम अविध्याद् इति अतीत-निर्देशस् तासां सद्य एव गृहाद्य् आसक्त्य् अपगमाभिप्रायेण ॥४१॥


जीव-गोस्वामी (भक्ति-सन्दर्भ १०१) : अत एवाहुः—धिग् जन्म इति । टीका च— त्रिवृत् शौक्रं सावित्रं दैक्षम् इति त्रिगुणितं जन्म । व्रतं ब्रह्मचर्यम् । क्रियाः कर्माणि दाक्ष्यं च इत्य्-आदिका । तथोक्तं किं जन्मभिस् त्रिभिः [भा।पु। ४.३१.८] इत्य्-आदि ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ त्यक्त-देहाया द्विजपत्न्याः सौभाग्यम् आलोक्य द्विजानां विस्मयम् आह—अहो इत्य्-आदि बहुभिः । जगद्-गुरौ कृष्णे नारीणां दुरन्तभावं पश्यतेत्यन्योन्यपरामर्शः । अपिशब्दः शास्त्राद्य् अनुशीलन-रहितानाम्, बहुवचनं सर्वजनाभिप्रायेण । तस्या यथा देह-त्यागो विस्मयकरस् तथान्यासाञ्ज गुरु-गौरवादि-त्यागः । यो दुरन्तभावो गृहाभिमान् मृत्यु-पापाशानविध्यत् चिच्छेद् तस्मादेता एव कृष्णानुग्रयोग्या इत्य् अर्थः । यतः स्त्रियः खलु भाव-मात्रेणैव सद्य एव श्री-कृष्णं लभन्ते । अन्ये तु शमदम-तितिक्षोपरतिभिश् चरेणापि ज्ञातुम् अपि न समर्थाः भवन्तीत्य् अर्थः ॥४१.४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रिवृत् शौक्रं सावित्रं दैक्ष्यम् इति त्रिगुणितं जन्म, नोऽस्माकं यत् तद् धिक्। व्रतं ब्रह्मचर्यं, त्रिधा नित्य-नैमित्तिकादि कर्माणि । ये वयम् अधोक्षजे श्री-कृष्णे तु विमुखा एव ॥४०॥

योगिनाम् अष्टाङ्ग-योगवताम् अपि किं पुनर् अस्माकं कर्मणाम् । गुरवः परेषां नृणाम् अर्थोपदेष्टारोऽपि स्वार्थे मायया मुह्यामहे ॥४१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : नूनं निश्चितं हरेर् मायैवात्र-हेतुः यतो वयं ब्राह्मणा नृपं गुरवस्तत्वोपदेष्टारोऽपि स्वयं स्वार्थ न विद्मः ॥४०॥

अहो इत्य् आश्चर्ये नारीणाम् अयोग्यानाम् अपि हरौ दुरन्तं दुर्गमम् अस्मद्-दुर्बोधं भावं कृष्णेति-गदगदाक्षराश्रु-पुलकादि-लक्षितं भावं पश्यत ननु, नारीणां पत्युर् अन्यत्र भावोऽनुचितस् तत्राह—जगद्-गुराव् इति यदादेशात् तासां पतौ गुरुत्वं तस्मिन् साक्षाद्-भूते को विमर्श इति भावः ॥४१॥


॥ १०.२३.४२ ॥

अहो पश्यत नारीणाम् अपि कृष्णे जगद्-गुरौ ।

दुरन्त-भावं योऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्विजाति-संस्कार उपनयनम् । क्रियाः सन्ध्योपासनादयः ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुराव् इति । सामीपिकाधारे सप्तमी, वटे गाव इति वत् । विद्यावाप्तये गुरु-कुलवासो न कृत इत्य् अर्थः । तपः ब्रह्मचर्यादि । आत्म-मीमांसा ब्रह्म-विचारः । शौचं बाह्याभ्यान्तर-शुद्धिः । शुभाः क्रिया यागादि-लक्षणाः ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नारीणाम् अपीत्य् अपि शब्देन सूचितं पुरुषेभ्यो न्यूनत्वम् अभिव्यञ्जयन्ति तासाम् इति द्विजाति-संस्कारः सामान्यतो द्विजत्व-मात्र-विप्षयको धर्मः, तथा शौचं सामान्य-धर्मः, गुरु-निवासादयश् च क्रमेण ब्रह्मचारि-वानप्रस्थ-यति-गृहि-धर्माः । तत्र च शोकावेशेन क्रमातिक्रमः किं वा, गार्हस्थ्य-धर्मस्य बहुमानेन पश्चान् निर्देशः, अत एव शुभा इत्य् उक्तिः । यद् वा, द्विजातेः संस्कार-विशेषो विशु-दीक्षादिः, तपः श्री-विष्णु-स्मृतिः तत् तपो यद् धरि-स्मृतिः इति वचनात्, शौचं विशुद्ध-चित्तता, क्रियाः शुभा यज्ञेश्वर-पूजाद्याः स्थण्डिलादौ वा हरि-पूजादयः आत्म-मीमांसा आत्मनो हरेर् विचारः ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आश्चर्यत्वम् एव व्यनक्ति—तासाम् इति युग्मकेन । द्विजाति-संस्कार उपनयनादिस् तद् धर्म-द्वारं तथा शौचं सामण्य-धर्मः गुरु-निवासादयश् च क्रमेण ब्रह्मचारि-वान-प्रस्थ-यति-गृह-धर्माः तत्र च शोकावेशेन क्रमाति-क्रमः किं वा, गार्हस्थ्य-धर्मस्य बहुमानेन पश्चात् निर्देशः । अत एव शुभा इत्य् उक्तिः अथापि तत् तद् रहितत्वेऽपि कृष्णे दृढा भक्ति-रासां जाता तस्य माहात्म्येन तद् भक्तेर् अपि माहात्म्यं बोधयितुं तं विशिषन्ति उत्तम-श्लोके वैरिणाम् अपि मोक्षादि-दानात् परम-सत् ख्यातिम् इति योगानाम् ईश्वराः भक्ति-योगम् अन्तस् तेषाम् ईश्वरे सेव्यत्वेन लभ्ये भक्तिर् दृढा कृत-विरोधैर् अस्माभिर् अपि परिच्छेत्तुम् अशक्त्या पुनर् आश्चर्यम् एव व्यतिरेकेण दृढयन्ति, न चेति अत्र । द्विजाति-संस्कारादयः स्वयं भक्तेः कारणानि म भवन्त्य् एव तद् गुणकस् सङ्गस् त्वासां तत् कारणतया नामीभिर् अनुमातुं शक्त इति श्री-शुक-देवाभिप्रायः ॥४२.४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**त्रिवृत् शौक्रं सावित्रं दैक्ष्यम् इति त्रिगुणितं जन्म, नो ऽस्माकं यत्तद्धिक् व्रतं ब्रह्मचर्यं क्रियाः नित्यनैमित्तिकादिकर्माणि । ये वयमधोक्षजे श्री-कृष्णेतु विमुखा एव ॥४२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न त्रासां कृष्णानुरागे हेतुर् ज्ञातुं शक्यते इत्य् आह—नासाम् इति । द्विजाति-संस्कार उपनयनं गुरौ निवासस् तत्-सेवा तपः शास्त्रालोचनम् आस्त्समीमांसा त्व् आत्म-याथात्म्य-विचारः शौचं त्रिषवणस्नानादि क्रियाः सन्ध्योपसनादयः ॥४२॥


॥ १०.२३.४३ ॥

नासां द्विजाति-संस्कारो न निवासो गुराव् अपि ।

न तपो नात्म-मीमांसा न शौचं न क्रियाः शुभाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्य् अप्य् आसां संस्कारादयो न सन्ति तथापि कृष्णे भक्तिर् दृढा सत्य् अपि वारण-कारणेऽवर्येत्य् अर्थः ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि तत्द्-रहितानासपि कृष्णे दृढा भक्तिर् जाता, आसां तस्य माहात्म्येन तद् भक्तेर् अपि माहात्म्यं बोधयितुं तं विशिषन्ति—उत्तमः सर्वतः श्रेष्ठः श्लोकः कीर्तिर् यस्य, अवतारित्वान् निजाशेष-भगवत्ताप्रकटनाच् च ।

यद् वा, उद्गतं तमो\ऽज्ञानं संसार-लक्षणं वा यस्मात् स श्लोको यस्य तस्मिन्, यतः कृष्णे किं वा, तत्रापि कृष्णे उक्तार्थम् एवेदम् । अत एव योगेश्वराणां सनकादीनाम् अपि किम् उतास्माकं ईश्वरसेव्ये । निश्चयार्थेन हि-शब्देन तत्र शास्त्र-प्रामाण्यादिकं बोधयति दृढेति । अस्माकं चपलापि भक्तिर् नास्तीति सूचयति ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न त्वासां कृष्णानुरागे हेतुरस्मद्गम्य इत्याहृर्नासाम् इति । योगेश्वरेश्वर इति सएव स्वभक्तेर्हेतुं जानात्युपपादयतीति च नान्य इति भावः । तेन कृष्णरूपगुणप्रख्यापि व्रजस्थमालिकादिवनिताजन सत्सङ्गरूपो मूलहेतुस्तैरज्ञातत्वान्नोक्त इति शुकदेवाभिप्रायः ॥४३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : संसाकादिमताम् उपनयनादि-विशिष्टानाम् अपीति संस्कारादीनां तद् उक्ति-हेतुत्वम् अन्वयव्यतिरेकाभ्यां निराकृतं तासां तद्-धेतुश् च नन्दीरान्-मधुरां प्रयान्तीनां मालिकादियोषितां तद्-गृह-बहिः प्रकोष्ठेषु विश्राम्यन्तीनां कृष्ण-गुणान् कीर्तयन्तीनां प्रसङ्ग एव दीर्घ-श्रुतेत्याद्य् उक्तेः स च तैर् अज्ञातत्वान्नोक्त इति बोध्यम् ॥४३॥


॥ १०.२३.४४ ॥

अथापि ह्य् उत्तमः-श्लोके कृष्णे योगेश्वरेश्वरे ।

भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्मारयामास अहो यूयं विद्वांसोऽपि किम् इति मां न स्मरतेति विज्ञापयामास । तत्र हेतुः सतां गतिः ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तर्हि कथम् अन्न-याचनादिकम् अस्मासु ? तत्राहुः नन्व् इति वितर्के ! यद् वा, उत्तम-श्लोकत्वम् एव दर्शयन्ति, ननु निश्चितं स्वार्थे तद् भक्ति-लक्षणे विमूढानाम् अत्यन्ताज्ञानाम्, यतो गृह-कृत्येन प्रमत्तानाम् अनवहितानाम्,

यद् वा, गार्हस्थ्येन प्रकऋषेण मत्तानां महा-गर्ववताम् अपि नो\ऽस्मान् स्मारयामासात्मानम्, यतः सतां धार्मिकाणां गतिः इत्य् आत्मनो यज्ञपरतया धार्मिकाभिमानाद्य् उक्तम् । यद् वा, सतां भक्तानां गतिर् अपि, अहो आश्वर्यम्, उत्तम-श्लोकत्वात् तेन बोधिता अपि वयम् अविवेकान् न बुद्धवन्त इति भावः ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उत्तम-श्लोकत्वम् एव दर्शयन्ति । नूनं, निश्चितं सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् [भा।पु। १०.८१.१९] इति न्यायेन तद् भक्तिं विना सर्वस्याप्य् अर्थस्यासिद्धेः स्वार्थे विमूढानाम् अत्यन्ताज्ञानां यतो गृहेहया गृह-कृत्येन प्रमत्तानाम् बहितानां नः अस्मान् स्मारयामास आत्मानं यतः स्व-स्वाधिकार-प्राप्त-वेदोक्त-तत् पराणां गतिः यद् वा, सतां भक्तानां गतिर् अपि केवल- कारुण्येनैवेत्य् अर्थः । यद् वा, सन्त एव तावत् परम-दयालवः स तु तेषाम् अपि गतिर् आश्रय इति अहो आश्चर्यम् उत्तम-श्लोकत्वात् तेन बोधिता अपि वयम् अविवेकान् न बुद्धवन्त इति भावः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथेति । पतयो नाभ्यसूयेरन् [भा।पु। १०.२३.३१] इत्य्-आदिना लब्ध भगवत्-प्रसादेनानुस्मरणं ज्ञेयम् ॥४४.५२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इमम् अर्थं स्वाचरितेन निर्णयन्ति अथापीत्य् आदि । अथापि एतद्-दृष्ट्वापि संस्कारादिमताम् अपि अस्माकं कृष्णे भक्तिश् च न अस्तु भक्ति-कार्यम्, यदि वा ईषद् अङ्कुरिताभूत् सापि न दृढा ॥४४.५२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्व भगवतः कारुण्यं क्व वास्माकं दौरात्म्यम् इत्य् आहुः नन्व् इति ॥४४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : क्व हरेः कारुण्यं, क्व च नो दौरात्म्यम् इत्य् आह—नन्व् इति गोप-वाक्यैर् निज-रूपं स्मारयामास ॥४४॥


॥ १०.२३.४५ ॥

ननु स्वार्थ-विमूठानां प्रमत्तानां गृहेहया ।

अहो नः स्मारयाम् आस गोप-वाक्यैः सतां गतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यथा सतां गतित्वानङ्गीकारे । ईशितव्यैः अनीशैः, प्रेष्यैर् इति यावत् । सहार्थे तृतीया । किं स्मरणे । किं प्रयोजनं न किम् अपीत्य् अर्थः । प्रयोजनाभावे किम् अर्थं स्मारणं कृतं तथाह—ईशस्य एतत् स्मारणम् अस्मत्-श्रीष्व् अनुकम्पनं च विडम्बनं कृपैव विडम्बनम् अतर्क्ये चानुकारकृपयोर् हसे इति धरणिदेवः ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, गोप-वाक्यैर् अन्नम् एवास्मास्वायाचत, न च स्मारयामास, तत्राहुः—अन्यथेति । ननु पूर्न-कामत्वे तस्यान्नेन प्रयोजनं मास्तु, क्षुधार्त-गोप-निमित्तं युज्यत एव, तत्राहुः—कैवल्येति । मोक्षः प्रेमा वा, फलान्तराद्य् असम्बन्धात्, तद् आदीनाम् आशियाम् अर्थानां पतेः पत्युरीश्वरस्य तत् तत्-प्रदान-समर्थस्य ईशितव्यैर् नियम्यैः किञ्चित् कर्तुम् अप्य् अशक्तैर् इत्य् अर्थः ।

ननु, तर्हि कथम् अयाचत ? तत्राहुः—एतद् याचनादिकं विडम्बनं लौकिक-लीला-प्रदर्शनम् इत्य् अर्थः । यद् वा, डलयोर् एकत्वात् विलम्बनं लोकानां संसारतरणावलम्बनम् इत्य् अर्थः । यद् वा, अस्माकं विडम्बनम् उपहसनम् ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, गोप-वाक्यैर् अन्नम् एवास्मास्वायाचत न च स्मारयामास तत्राहुः—अन्यथा अनुग्रहमयात्म-स्मारणम् अन्तरेण ।

ननु, पूर्ण-कामत्वेन तस्यान्ने प्रयोजनं मास्तु क्षुधार्त-गोप-निमित्तं युज्यत एव तत्राहुः—कैवल्येति । कैवल्यं मोक्षः प्रेम वा फलान्तरान्य-सम्बन्धेन शुद्ध-भाव-रूपत्वात् तदादीनाम् आशिषाम् अर्थानां पते पत्युर् ईश्वरस्य तत् तत् प्रदाने समर्थस्येत्य् अर्थः । ईशितव्यैः नियम्यैः किञ्चित् कर्तुम् अप्य् अशक्तैः किं न किञ्चिद् अपि प्रयोजनम् इत्य् अर्थः । किन्त्वीशस्यापि एतत् विडम्बनं दया-मात्रेणानुकरणम् एव भवति ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्व भगवतः कारुण्यं क्व वास्माकं दौरात्म्यमित्याहुः, नन्विति ॥४५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अन्यथा कारुण्यं च चेत् पूर्णकामस्य तस्यास्माभिः किं न किञ्चित् प्रयोजनं तस्माद् ईशस्यैतद् अन्न-प्रार्थनं विडम्बनम् अस्मत् तिरस्करणम् एव ॥४५॥


॥ १०.२३.४६ ॥

अन्यथा पूर्ण-कामस्य कैवल्याद्य्-आशिषां पतेः ।

ईशितव्यैः किम् अस्माभिर् ईशस्यैतद् विडम्बनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनो दोषापवर्गेण चाञ्चल्य-गर्वादि-त्यागेन ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यम् श्री-कृष्णम् । श्रियाः भगवति त्यागकारणानां शौर्यौदार्यविद्वत्तानां सत्त्वे वासकारणस्य मौढ्यस्य चासत्त्वे\ऽपि न त्यजतीति भावः ।

शूरं त्यजामि वैधव्याद् उदारं मय्य् अनादरात् । > विद्यावन्तं च सापत्न्यान् मूढो मेऽतिप्रियस् ततः ॥ इति शिष्टोक्तेः ।

तस्य याञ्चा जन-मोहिनी जनेषु निजैश्वर्याच्छादनकरीत्य् अर्थः ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, इच्छा-मात्रेण संसारात् तारयितुं शक्तेन तेन किम् अर्थम् अनीश्वरवद्-याचनादिकं क्रियते ? तत्राहुः—हित्वेति । सकृद् अपि पादयोः पादस्यैकस्यापि वा स्पर्शाशया,

यद् वा, असकृद् भजते सेवते, एवं कथम् अपि तद्-याचना न घटेतैवेति बोधितम्, तथापि तस्य याच्ञ्या जनानां सर्वेषाम् एव जीवानां मोहिनी मोहम् उत्पादयतीत्य् अर्थः । को नाम तच् चेष्टितं बोद्धुं शक्नुयाद् इति भावः ।

यद् वा, अभक्तानां मोहार्थं भक्तानां च भक्ति-वृद्ध्यर्थम् एवेत्य् आहुः—जना अभक्ता ये जीवा इत्य् अर्थः । किं वा, अकार-प्रश्लेषेण अजनाः तद्-भक्तेतरा अभक्ता इत्य् अर्थः, तेषां मोहिनी, भक्तानान्तु तया मोहो न स्याद् एव, प्रत्युत भक्तिर् एव विवर्धत इत्य् अर्थः, परमेश्वरस्य लौकिक-लीलया भक्ति-विशेषोत्पत्तेः ।

यद् वा, जनानां तद् दासानां मोहिनी चित्ताकर्षिकेत्य् अर्थः । अत एव श्री-मद् उद्धवेन श्री-विदुराग्रे उदितम्—

मां खेदयतो तद् अजस्य जन्म, > विडम्बनं यद्-वसुदेव-गेहे । > व्रजे च वासो\ऽरि-भयाद् इव स्वयं > पुराद् वावात्सीद् यद् अनन्त-वीर्यः ॥ [भा।पु। ३.२.१६]

इति, अस्यार्थः—जन्मनो विडम्बनं स्वीकारः, वसुदेवस्य बन्धनागारे अरेः, कंसस्य भयाद् इव व्रजे वासश् च, स्वयम् अनन्त-वीर्यो\ऽपि पुरात् मथुरातः पलायतेति । अत एव तत् मां खेदयति, ईदृश्या लौकिक-लीलयैव भक्ति-विशेष-वर्धनेन मादृशां हृदि पीडां जनयति, अन्यथा श्री-नृसिंहादिवत् साक्षान् निजैश्वर्य-दर्शनेन भक्ति-विशेषानुदयान् मादृशाम् एतादृशं दुःखं नाभविष्यद् इत्य् अर्थः । एवं—दुनोति चेतः स्मरतो ममैतत् [भा।पु।३.२.१७] इति, तत् तस्य कैङ्कर्यम् अलं भृतान् नो, विग्लापयत्य् एव यद् उग्रसेनम् [भा।पु।३.२.२२] इत्य्-आदिकम् अपि तत्रैव तद् उक्तं बोद्धव्यम् इति ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु यद्य् असौ स्मारयामास तर्हि भवन्तः कथं न स्मस्रुः तत्राहुः हित्वेति । अन्यात् हित्वेति क्षीरोद-मथनान्ते तस्यानवम् इवाविर्भूतायाः स्वयम्बर-लीलानुकरण-दृष्ट्या प्रोक्तम् असंकृत् भजते स्म स्वं स्वयम् एवात्मा यस्यास् तस्यास् तद् अंशाभासभूताया जगल् लक्ष्म्या ये दोषास् तद् अस्पर्शेनेत्य् अर्थः । एवं कथम् अपि तद् याञ्चा न घटेतैवेति बोधितं तथापि तस्य याञ्चाजनानाम् अस्मद् विधानां सर्वेषाम् एव जीवानां मोहिनी नायम् ईश्वर इति मोहम् उत्पादयतीत्य् अर्थः ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यथा, निरुपाधिकारुण्यं विना पूर्णकामस्य अस्माभिः किं प्रयोजनम्, न किमपीत्य् अर्थः । ईशस्यैतदन्न प्रार्थनं खलु विडम्बनं लाघवम् एव यस्माद् इत्य् अर्थः । यद् वा, तस्मादेतत् ईशस्य ईशकर्तृकं अस्मत्कर्मकं विडम्बनं तिरस्कारः ॥ ४६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न च क्षुधार्ततयान्नयाचनं न तु कारुण्यं गोचरणादि सत्त्वात् पूर्ण-कामत्वं च नेति वाच्यम् इति आह—हित्वेति । श्रीः सम्पद-रूपा यमसकृत् सर्वदा भजते अन्यान् इन्द्रादीन् हित्वा स्वात्म-दोषश्चापल्यं तस्यापवर्गण त्यागेन स्थिता सतीत्य् अर्थः । जन्मोत्सवादिषु धेनुऽनियुतद्वयादि-दानाद् इति भावङ् । तस्य याञ्चा जनानस्मद्विधान् मोहयति नायं सर्वेष इति प्रत्याययतीत्य् अर्थः ॥४६॥


॥ १०.२३.४७ ॥

हित्वान्यान् भजते यं श्रीः पाद-स्पर्शाशयासकृत् ।

स्वात्म-दोषापवर्गेण तद्-याच्ञा जन-मोहिनी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वोक्तं स्मारयति—देशेति ॥४७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जनमोहीनीत्वम् एव दर्शयन्ति—देश इति द्वाभ्याम् । स एव साक्षात् भगवान् श्री-नारायणः, तस्य देशादिमयत्वे हेतुः—विष्णुः सर्व-व्यापक इति । तस्य च सर्वैर् एवोपास्यत्वम् आहुः—योगेश्वराणां मुक्तानाम् अपीश्वरः, अतो यज्ञादिनास्माकम् अपि स एव सेव्य इति भावः ।

यद् वा, स एव साक्षाद्-भूतः, एव शब्देनांशत्वादिकं निरस्तम्, अत एव भगवान् सर्वैश्वर्य-पूर्णः, तत्राप्य् अशेषैश्वर्य-प्रकटनेन विश्व-व्यापकत्वाद् विष्णुः, अतो योगेश्वराणाम् अपीश्वरः सेव्य इत्य् अर्थः । एष इति पाठे एष प्रत्यक्षतां प्राप्तः साक्षात् स्वयं किं वा, एषो\ऽधुनैव जात इति कालाव्यवधानम् उक्तम्,

यद् वा, किम् अर्थःं जातः ? तत्राह—योगेश्वराः सुसिद्ध-भक्ति-योगास् तेषाम् ईश्वरः, निज-भक्त-सुखार्थम् इत्य् अर्थः, हि-शब्देन तत्र शास्त्रादि-प्रामाण्यं सूचयन्ति, तच् च प्रसिद्धम् एव, मद्-भक्तानां विनोदार्थम् इत्य्-आदि-वचनेभ्यः, मूढाः शास्त्रार्थान् अभिज्ञाः ॥४७,४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वतोऽपि मोहं दर्शयन्ति देश इति, युग्मकेन । स एव साक्षात् भगवान् यज्ञादिना अस्माकम् अपि स एव सेव्य इति भावः । यद् वा, स एव साक्षाद्-भूत एव अत एव भगवान् सर्वैश्वर्य-पूर्णः तत्राप्य् अशेषैश्वर्य-प्रकटनेन विश्व-व्यापकत्वाद् विष्णुः अतो योगेश्वराणाम् अपीश्वरः सेव्य इत्य् अर्थः ।

यद् वा, किम् अर्थं जातस् तत्राहुः योगेश्वराः सुसिद्ध-भक्ति-योगाः तेषाम् ईश्वरः निज-भक्त-सुखार्थम् इत्य् अर्थः । हि-शब्देन तत्र शास्त्रादि-प्रामाण्यं सूचयन्ति—तच् च प्रसिद्धम् एव मद् भक्तानां विनोदार्थम् इत्य्-आदि-वचनेभ्यः मूढाः शास्त्रार्थान् अभिज्ञाः आभ्यां वाक्याभ्यां यथा पूर्वम् अस्माभिर् निरूपितं तथा तैर् अपि विचारितम् इति श्रुक-देवाभिप्रायः ॥४७.४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु क्षुधार्तत्वादेवेदमन्नप्रार्थनम्, नतु कारुण्यं नापि पूर्णकामत्वादिगोचाराणाद्यनुपपत्तेस्तत्राहुः, हित्वेति असकृत् मुहुः श्रीः सम्पल्लक्ष्मीः स्वात्मनो दोषस्य चाञ्चल्यस्य अपवर्गेण त्यागेन विशिष्टचाञ्चल्यं परित्यज्येत्य् अर्थः । तस्यापि यत् याच्ञादिकं जनान् अस्मद्विधान् मोहयति नायमीश्वर इति प्रत्याययति ॥४७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : मोहं विवृण्वन्ति—देश इति । यन्मयो यद्व्याप्यो यद् अधीनवृत्तिको वा ॥४७॥


॥ १०.२३.४८ ॥

देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्रर्त्विजो \ऽग्नयः ।

देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् अशृणुम एवं सर्वत्र श्रुतवन्तो वयं हि तथापीति ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स एष कृष्णो यन्मयो देशादिर् इत्य् अर्थः ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मोहम् एव विवृण्वन्ति देश इति ॥४८.४९॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अशृण्म श्रुत्वापि मूढाः सन्तो न विद्मः ॥४८.४९॥


॥ १०.२३.४९ ॥

स एव भगवान् साक्षाद् विष्णुर् योगेश्वरेश्वरः ।

जातो यदुष्व् इत्य् आशृण्म ह्य् अपि मूठा न विद्महे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्त्री-भाग्य-महिम्नात्मानं श्लाघयन्त ऊचुः—अहो इति । तादृशीस् तादृश्यः श्री-कृष्णानुरागिण्यः । यासां स्त्रीणाम् ॥४९॥


अन्यैर् न व्याख्यातम्।


॥ १०.२३.५० ॥

तस्मै नमो भगवते कृष्णायाकुण्ठ-मेधसे ।

यन्-माया-मोहित-धियो भ्रमामः कर्म-वर्त्मसु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुतप्ता नमस्कुर्वन्तीत्य् आह—नम इति । कर्मवर्त्मसु यजनयाजनादि-मार्गेषु ॥५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मूढत्वम् एव दर्शयन्तस् तत्-कारण-माया-प्रभावेण विस्मिताः सन्तरतद् अपगमाय भक्त्या तद् ईश्वरम् एव प्रणमन्ति—नम इति । भगवते\ऽचिन्त्यानन्तैश्वर्याय, इत्य् आत्मनस् तज्-ज्ञानं दुर्घटम् इत्य् अभिप्रेतम्, निजाशेष-भगवताप्रकटनपरायेति वा । यतः कृष्णाय, अन्यथा गोपालनाद्य् असम्भवात् । यद् वा, अन्यथा अस्मास्वन्न-याचनाद्य् अनुग्रहासम्भवात्,

यद् वा, कृष्णायेति पत्नीनां चिताकर्षणाभिप्रायेण, अकुण्ठा अनवच्चिन्ना मेधा स्मृतिर् यस्मात् तस्मै, पत्नीनां गृह-कृत्यादाव् अपि सदैव तत्-संस्मरणात् ।

यद् वा, अलुप्त-ज्ञानाय, अतो\ऽन्येषाम् अस्माद् दृशानां मूढत्वं च युक्तम् एवेति, अतो निज-माया-वैभवम् अस्माकं निज-कारुण्य-महिमादिकं च स्वयं जानात्येवेति भावः । भ्रमामः पुनः पुनस् तत्रैवाभिनिवेषं प्राप्नुमः, जल-वेग-भ्रमरिकाया इव कदाचिद् अपि ततो निर्गन्तुं न शक्नुम इत्य् अर्थः ।

यद् वा, तद् अर्पणं तस्मिन् विश्वासेन निश्चित्य कर्तुं न शक्नुम इत्य् अर्थः ॥५०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मूढत्वम् एव दर्शयन्तस् तत्-कारण-माया-प्रभावेन विस्मताः सन्तः तद् अपगमाय सर्वज्ञं तद् ईश्वरम् एव प्रणमन्ति—नम इति । भगवते अचिन्त्यानन्तैश्वर्याय अकुण्ठम् एधसे अलुप्त-ज्ञानाय स्वेषां तद् वैरीत्याम् आहुः—यन् माययेति । भ्रमामः पुनः पुनस् तत्रैवाभिनिवेषं प्राप्नुम जलावर्तादिवत् कदाचिद् अपि ततो निर्गन्तुं न शक्नुम इत्य् अर्थः ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपराधाद् अतिव्यग्राः प्रणमन्ति नम इति ॥५०॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अपराधाद् अतिव्यग्रास्तं प्रणमन्ति नम इति ॥५०॥


॥ १०.२३.५१ ॥

स वै न आद्यः पुरुषः स्व-माया-मोहितात्मनाम् ।

अविज्ञातानुभावानां क्षन्तुम् अर्हत्य् अतिक्रमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वापराधं क्षमापयन्तः । प्रोतुः—स इति सः कृष्णः । अज्ञेषु महतां क्षमैर् वा चितेति भावः ॥५१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं परमं दैन्यं गताः श्री-भगवन्तं क्षमापयन्ति—स इति, स श्री-कृष्णो नोऽस्माकम् अतिक्रमम् अपराधं क्षण्तुम् अर्हतीति योग्यो भवति । तत्र हेतुः-स्वस्य तस्यैव मायया मोहित-चित्तानाम्, अत एव न विज्ञातोऽनुभावस् तन् माहात्यं यैस् तेषाम् ।

ननु, महापराधोऽयं क्षम्यो न स्यात्, तत्राहुः—आद्यः पुरुषः सहस्र-शीर्षादि-रूपः, तन्-मुखाद् एवोत्पन्नानां विप्राणां पितृवद् अपराध-क्षमा युक्तेति भावः ।

यद् वा, आद्यः सर्व-श्रेष्ठः, अतो निकृष्टानाम् अस्माकम् अपराधं क्षन्तुम् अर्हत्य् एव, किं च, पुरि शयनात् पुरुषोऽन्तर्यामी, अतस् तेन तथा नियुक्ताः स्मस् तथैव कृतवन्तो वयम् इति । यद् वा, आस्द्यः पुरुषोत्तम इत्य् अर्थः । दीनवात्सल्य-ब्रह्मण्य-देवत्वादि-निज-स्वाभाविक-माहात्म्यात् क्षन्तुम् अर्हत्य् एवेति भावः ॥५१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं परम-दैन्य गताः श्री-भगवन्तं क्षमापयन्ति—स इति स कृषानो नोऽस्माकम् अतिक्रमम् अपराधं क्षन्तुम् अर्हति योग्यो भवति तत्र हेतुः स्वस्य तस्यैव मायया मोहित-चित्तानाम् अत एव न विज्ञातोऽनुभावः तन् माहात्म्यं यैस् तेषां यदि चास्माकम् अपराधः तथापि स आद्यः पुरुषः सहस्र-शीर्षादि-रूपः तन् मुखाद् एवोत्पन्नानां विप्राणां पितृवद् अपराध-क्षमा-युक्तेति भावः ।

यद् वा, आद्यः सर्व-श्रेष्ठः अतो निकृष्टानाम् अस्माकम् अपराधं क्षन्तुम् अर्हत्य् एव । किं च, पुरि शयानात् पुरुषोऽन्तर्यामी अतस् तेन यथा नियुक्ताः स्मः तथैव कृतवन्तो वयम् इति । यद् वा, आद्यः पुरुषः पुरुषोत्तम इत्य् अर्थः । दीन-वात्सल्य-ब्रह्मण्य-देवत्वादि-निज-स्वाभविक-माहात्म्यात् क्षन्तुम् अर्हत्य् एवेति भावः ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिदैन्यग्रस्ता भगवन्तं क्षमापयन्ति, स वै इति । अतिक्रमं अपराधम् ॥५१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अपराधं क्षमापयन्ति—स इति । अतिक्रमम् अपराधम् ॥५१॥


॥ १०.२३.५२ ॥

इति स्वाघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः ।

दिदृक्षवो व्रजम् अथ कंसाद् भीता न चाचलन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न चाचलन् तयोर् दर्शनाय न जग्मुः ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वाधं गोप-द्वारान्नार्थनापराकरण-रूपम् । ते विप्राः । अच्युतयोः सर्वदैकरसयो राम-कृष्णयोः । अस्माकं तत्र गमने कंसो ज्ञास्यत्ययम् एव कृष्णो रामश् चेति, ततश् च तन्मारणे यत्नं करिष्यति । यद् वा, कुबुद्धित्वात् कंसस्य यूयं किम् अर्थं मच्-छत्रु पार्श्वे गता अतो वध्या यूयम् इति भीता वा । यद् वा, श्रुतास्माद् गमनवृत्तान्तः कंसोऽस्माकं वृत्त्यादिकं हरिष्यतीति भीताः । यद् वा, ऐकमत्याभावेन न गता इति भावः ॥५२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वमसाधारणम् अघम् अपराधम्, तद् दर्शयति—कृतं हेलनम् आज्ञा-भङ्गः । किं वा, मनुष्य-दृष्ट्यावज्ञा यैस् ते । यद् वा, अकार-प्रश्लेषेण न कृतं श्री-कृष्णेनावहेलनं येषां ते, यज्ञ-समापन-व्याजेन पत्नीनां प्रस्थापनात्, अत एव दिदृक्षवो\ऽपि, अप्य् अर्थे\ऽथ-शब्दः, व्रजं न जग्मुः । तत्र हेतुः—कंसाद्-भीताः, श्री-भगवति दृढ-विश्वासानुत्पत्त्या निजानिष्ट-शङ्कयेत्य् अर्थः ॥५२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वम् असाधारणम् अघम् अपराधं तद् एव दर्शयति—कृतं हेलनं मनुष्य-दृष्ट्यावक्षा यैस् ते अत एव दिदृक्षवोऽपि स्वाघक्षमापनाय मिलितुम् इच्छवोऽपि व्रजं प्रति न चाचलन् सकृद् अपि पाद-विक्षेपं न कृतवन्त इत्य् अर्थः । तत्र हेतुः अथ कार्त्न्ये कंसात् भीताः श्री-भगवति दृढ-विश्वासानुत्पत्त्या निजानिष्ट-शङ्कयेत्य् अर्थः ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तर्हि तदानीम् एव तत्राशोकवने गत्वा विलम्व्य व्रजं वा गत्वा कथं भगवन्तं शरणं न गताः तत्राह—दिदृक्षव इति । तदानीं शोकानुतापादिमत्त्वात् सर्वैकमत्याभावाच्चाशोकवनं न गता, विलम्बे सति सायाह्ने व्रजं प्रति गता, वैकमत्ये सति नचाचलन्निति चकाराच्चलन्तो ऽपीत्याक्षेपलब्धम् । तत्र हेतुः सर्वेषाम् अपि मनस्येकः सहसैवोद्भूत इत्य् आह—कंसाद्भीता इति । सूचकैरुक्तास्मद्वृत्तान्तः कंसो ऽद्यैवास्माकं जीविका हरिष्यतीति भयव्याकुला इत्य् अर्थः । अतः पत्यादिकर्तृकबधत्यागादिलक्षणं भयं ब्राह्मणीनां कृष्णदर्शने किल न प्रतिबध्नाति स्मेत्यत्र प्रेमैव हेतुः । ब्राह्मणानान्तु मनःकल्पितो भयाभास एव तत्र प्रतिबध्नाति स्मेत्यत्र भगवन्मायैव हेतुर्ज्ञेयः ॥५२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु, कृष्णं द्रष्टुं ते कथं न जग्मुस्तत्राह—इतीति कृष्णे कृत-हेलनान्ते विप्राः स्वापराधम् अनुस्मरन्तः पत्नी-दर्शनाज् जातश्रद्धा-भक्तयोऽच्युतयोर् दिदृक्षवोऽपि प्रेमानुदयान्न चाचलन्नागच्छन् तत्र हेतुः कंसाद् इति चारसूचितास्मत् कृष्णानुवृत्तिकः कंसोऽस्मद्वृत्तिं छिन्द्याद् इति भीतिमन्तो गृह एव तिष्ठन्तः कृष्णम् अभजन्न् इत्य् अर्थः । पत्नीनां जात-प्रेमत्वात् प्रतिबन्धागणनं पत्नीनान्तु तद् अभावात् तद्-गणम् इति ॥५२॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं

संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्धे याज्ञ-पत्न्य्

उद्धरणं नाम त्रयोविंशोऽध्यायः ।

॥ १०.२३ ॥


(१०.२४)


  1. संश्रमाः इति स्वामि-सम्मत-पाठः । सम्भ्रमोऽत्र आवेगार्थे इति रसामृते २.४.६५ पद्यं द्रष्टव्यम् । ↩︎

  2. तद् एतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयो\ऽन्यस्मात् सर्वस्माद् अन्तरतरम् यद् अयम् आत्मा [बृ।आ।उ। १.४.८] ↩︎

  3. तद् यात साध्व्यो यजनम् ↩︎

  4. दास-भूतो हरेर् एव नान्यस्यैव कदाचन ॥ इति परमात्म-सन्दर्भ १९-अनुच्छेदो द्रष्टव्यः । ↩︎

  5. वर- ↩︎