चीर-हरण-लीला ।
॥ १०.२२.१-२ ॥
श्री-शुक उवाच—
हेमन्ते प्रथमे मासि नन्द-व्रज-कुमारिकाः ।
चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् ॥
आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे ।
कृत्वा प्रतिकृतिं देवीम् आनर्चुर् नृप सैकतीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
गोपीनां कामतः कृष्णे निःसीम-प्रेम-सङ्गमः ।
कात्यायन्य्-अर्चनोद्भूत- तत्-प्रसाद-महोदयः ॥
द्वा-विंशे गोप-कन्यणां वस्त्राहरण-लीलया ।
वरं दत्त्वा गतः कृष्णो यज्ञ-शालाम् इतीर्यते ॥
प्रथमे मासि मार्ग-शीर्षे ॥१-२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वस्त्राणाम् आहरणं स्वीकारः स एव लीला तया । मार्ग-शीर्षे—
हेमन्तः शिशिरश् चैव वसन्तो ग्रीष्म एव च ।
वर्षा शरच् च ऋतवो मार्गाद्याः स्युर् द्वि-मासकाः ॥ इति पञ्चाङ्ग-दर्शने ।
षड् अमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् इत्य् अमरोऽपि । कुर्मार्य एव कुमारिकाः । स्वार्थे कस् ततष् टाप् । केऽणः इति ह्रस्वः । कुमारी कन्यकानार्योः इति धरणिः । अत्र कुमारिका-शब्देन प्राप्त-यौवना नार्यो ज्ञेयाः । अन्यथा, याताबला व्रजं सिद्धा मयेमा रंस्यते क्षपाः इति वक्ष्यमाण-विरोधः स्यात् । न हि कन्यानां रमण-सङ्कल्पोऽस्ति, तासां सङ्कल्पानुसारेणैव भगवता ताभ्यो वर-दानं कृतम् । सङ्कल्पो विदितः साध्व्यो भवतीनां इति वक्ष्यमाणत्वात् । स्वामि-चरणा अपि श्यामसुन्दर ते दास्यः इत्य् अत्र तथैव व्याख्यास्यन्तीति । हविष्यं यवाद्य्-अन्नम् । हविष्यं तु सनत्-कुमार-संहितायाम् उक्तम्—
हैमन्तिकं सितास्विन्नं धान्यं मुद्गा यवास् तिलाः ।
कलाय-कङ्गुनी-वारा वास्तूकं हिल-मोचिका ॥
षष्ठिका काल-शाकं च मूलकं केमुकेतरत् ।
कन्दं सैन्धव-सामुद्रे गव्ये च दधि-सर्पिषी ॥
पयोऽनुद्धृत-सारं च पनसाम्रे हरीतकी ।
पिप्पली जीरकं चैव नागरङ्गं च तिन्तिडी ॥
कदली लवली धात्री फलान्य् अगुडम् ऐक्षवम् ।
अतैल-पक्वं मुनयो हैव्ष्याणि प्रचक्षते ॥ [ह।भ।वि। १३.१०-१३] इति ।
सितम् अस्विन्नम् अनूष्म-पक्वम् । धान्यं ताण्डूल । प्राच्ये केमुआ इति केमुकस्य नाम । कलायः मटरीति । हेमाद्रौ तु—
हविष्येषु यवा मुख्यास् तद्-अनु ब्रीहयः स्मृताः ।
माषकोद्रवगौरादीन् सर्वाभावे विसर्जयेत् ॥
आग्नेये तु—
ब्रीहि-षाष्ठिक-मुद्गाश् च कलायः सलिलं पयः ।
श्यामाकाश् चैव नीवारो गोधूमाद्या व्रते हिताः ॥
कूष्माण्डालावुवार्ताक-पालक्य-ज्योत्स्निकास् त्यजेत् ॥ इत्य् उक्तम् ।
कात्यायन्य्-अर्चनम् एव व्रतं नियमम् । व्रतं तु नियमे कृच्छ्रादौ सङ्कल्पापवासयोः इति धरणिः । चेरुः चक्रुः । धातूनाम् एकार्थत्वात् करणेऽपि चरिर् अस्तीति ॥१॥
जलान्ते जल-समीपे । अरुण उदिते, उदयात् प्राक् चतस्रस् तु घटिका अरुणोदयः इति माधवः । सैकतीं मृण्मयीम् । प्रतिकृतिम् प्रतिमां, प्रतिकृतिर् अथार्चायां प्रतिनिधि-प्रतिकारयोश् च स्त्री इति मेदिनी ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इदानीम् ऊढानां अनुरागम् उक्त्वा अनूढानाम् अनुरागम् आह—हेमन्त इति । हेमन्ते प्रथमे मासि मार्गशीर्षे । अनया लीलयैव मासोऽप्य् असौ तत्-प्रिया बभूव । अत एव वक्ष्यति—मासानां मार्गशीर्षोऽस्मि [भा।पु। ११.१६.२७] इति ॥१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं वर्षा-शरत्-क्रीडाम् उक्त्वाधुना क्रम-प्राप्तां हेमन्त-काल-क्रीडाम् आह—हेमन्त इत्य्-आदिना व्रजम् [भा।पु। १०.२२.२८] इत्य् अन्तेन । नन्दस्य गोप-राजस्य व्रजे याः कुमारिकास् ता इति तेन साक्षात् सम्बन्ध-रहितास् ता गृहीताः श्री-कृष्ण-पतित्वायोग्यास् तत्-पितृव्य-कन्यादयस् तु परिहृताः । यद् वा, नन्दति हृष्यतीति नन्दो व्रजो याभ्यस् ताः कुमारिका इति सर्वथा श्री-भगवत्-परिग्रह-योग्या इत्य् अर्थः । क-प्रत्ययः प्रायो बाल्य-विवक्षया अल्पार्थे ।
यद् वा, स्वार्थे श्री-भगवद्-विवाहापेक्षयापि अन्यत्र विवाह-सम्मत्या । स्वयं च व्रजेशं प्रति लज्जया तत्-प्रसङ्गाकरणात्, तास् तु कासांचित् प्रौढतापत्तेः कुत्सितो मारः कामदेवः सौन्दर्येण याभ्य इति । श्लेषार्थेनापि श्री-भगवद्-योग्यतैवोक्ता । हविष्यं हैमान्तिक-सित-धान्यादि-सहितं गव्य-दधि-दुग्धादिकं कात्यायनी परम-वैष्णवी श्री-शिव-प्रिया पार्वती, तस्या अर्चन-व्रतं नियमम् अर्चन-रूपं वा व्रतम् । तच् च मास-मात्र-समाप्यम् इति केचिद् आहुः ॥१॥
तत्-प्रकारम् एवाह—आप्लुत्येति सार्धैस् त्रिभिः । अम्भस्य् आप्लुत्येति । परम-पावन-शीतल-जले विवस्त्रतया निमज्ज्य स्नात्वेत्य् अर्थः । अनेन जलान्त इत्य्-आदिनापि व्रते कृच्छ्रं दर्शितम् । कालिन्द्या इत्य् अस्य पूर्वापराभ्याम् एवान्वयः । अरुणे सूर्य-सारथौ सूर्ये वा उदिते सतीति व्रजापेक्षया । ततः प्राग् एवाप्लवनं ज्ञेयम् । सैकतीं बालुकामयीं, प्रतिकृतिं प्रतिमां कृत्वेति । अचिरात् कामित-विशेष-संसिद्धये । हे नृपेति जगत्-पूज्याभिर् अपि ताभिः श्री-कृष्णार्थं सापि तथार्च्यत इति वैयग्र्य-माहात्म्यम् अहो पश्येति भावः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं प्रायो व्रजान्तराद् आगतानां व्यूढानां पूर्वानुरागं शरत्-प्रसङ्गे वर्णयित्वा हेमन्त-प्रसङ्गे कुमारीणां पूर्वानुराग-प्रतिक्रियाम् आह—हेमन्त इत्य्-आदिना । तद् इदं वर्ग-द्वयं श्री-हरि-वंशे विविक्तं—युवतीर् गोप-कन्याश् च रात्रौ सङ्काल्य काल-वित् [ह।वं। ६३.१८] इत्य् अनेन ।
ननु, तत आरभ्य नन्दस्य [भा।पु। १०.५.१८] इत्य्-आदिना श्री-राधिकादीनां परम-रमात्वं स्थापितं, यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इत्य् अनेन च श्री-व्रजेन्द्रनन्दनस्य तद्-एक-प्रेयसीत्वं दर्शितं, नायं श्रियोऽङ्ग [भा।पु। १०.४७.६१] इत्य्-आदिना दर्शयिष्यते च, दामोदराधर-सुधाम् अपि गोपिकानां [भा।पु। १०.२१.८] इत्य् अनेअ च तद् एव दृढीकृतं रास-प्रसङ्गे कृष्ण-वध्व इति वक्ष्यते आगमे चान्यास्पृष्ट-तन्-नित्य-प्रेयसीत्वेन च तद्-उपासना विधीयते, श्रीमद्-दशाक्षरस्य तन्-नाम-व्याख्यासु गौतमीये श्री-नारदेन गोपिकानां पतिर् एवेति पर्यापनं कृतम् । ब्रह्म-संहितायां श्रियः कान्ताः कान्तः परम-पुरुषः इत्य्-आदिना तथैव निश्चीयते तापनी-श्रुतौ च, स वो हि स्वामी भवति इति तद् एव साक्षात् श्रूयते । तथा, यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३४] इत्य्-आदिना तत्-पितृभिः श्री-कृष्णाद् अन्यत्र तद्-एक-योग्यानां तासां दानं न श्रद्धीयते, दाने च सति, जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् इत्य्-आदि-श्री-रुक्मिणी-वचनवत् तद्-एकालम्बनं जीवनम् अपि न सम्भाव्यते, अन्य-पुरुष-सम्बन्धेन तु सुतराम् । तर्हि कथम् उच्यते व्यूढानाम् इति ? अत्र समाधीयते—तत्-तच्-छ्रुतार्थानुपपत्त्य्-अर्थापत्ति-प्रमाणेण लीला-शक्त्यैवमायादि-द्वारा मिथ्यैव तत्-प्रपञ्चितं यत्र तत्-पितरश् च ताश् च सर्वे व्रज-वासिनश् च तथाभूता भ्रान्ता तथापि स्वाभाविक-वासना-मय्या श्री-कृष्णैक-प्रत्याशया ता अपि जीवनं ररक्षुः पुरुषान्तर-सम्बन्धश् च तासां सदृक्-कल्पनया माययैव बभूवुः निवारित इति लभ्यते । तथा च—
नासूयन् खलु कृष्णाय मोहितास् तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भा।पु। १०.३३.३७]
इत्य् उपलक्षणीकरिष्यते । तद् एतद् अपि, यथाधनो लब्ध-धने विनष्टे तच् चिन्तयान्यन् निभृतो न वेद [भा।पु। १०.३२.२०] इतिवत् तासाम् उत्कण्ठा-वर्धनार्थम् एव । अत्र च व्यूढा-कुमारी-भेदेन द्विधा स्थितिस् तु वैचित्री पोषार्थम् एवेति दिक् रास-प्रसङ्गे तु विशेषतः स्थापयिष्यते ।
अथ प्रस्तुतम् अनुसरामः । श्री-नन्दस्य व्रजे याः कुमारिका इत्य् औदासीन्येनैव निर्देशात् स-गोत्र-सपिण्डत्वादि-सम्बन्ध-रहिता गृहीताः पाठान्तरे च श्रीमन्-नन्दस्य ये गोपास् तेषां कुमारिका इति स एवार्थः । तद् उक्तं, युवतीर् गोप-कन्याश् च इति कन्-प्रत्ययो वाल्प-विवक्षार्थे कात्यायनी वैष्णवी शक्तिः, तस्या अर्चन-रूपं व्रतम् ॥१॥
तासां तादृशीं तद्-अनुराग-चेष्टां दर्शयन् तच्-चिकीर्षु-जनान् अपि बोधयन् तत्-प्रकारम् एवाहुः—आप्लुत्येति सार्धैस् त्रिभिः । तत्राप्लुत्येति युग्मकम्—अम्भसीत्य् आदिना हेमन्त-व्रते कृच्छ्रं दर्शितम् । कालिन्द्या एव जलान्ते अद्यापि घट्ट-वासिनी-देवी-नाम्ना प्रसिद्धं व्रज-घट्टे । अरुणे सूर्य-सारथौ देवीं कात्यायनीं सैकतीं प्रतिकृतिं कृत्वा तद्-अभिन्नत्वेन प्रतिष्ठाप्येत्य् अर्थः । सैकतीम् इत्य् अचिरात् साध्य-साधनत्वेन । हे नृपेति अप्राप्त-यौवना अपीदृशेन रागेण भजन्तीति विचारय श्री-कृष्ण-मोहनताम् इति भावः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं व्यूढानां पूर्वानुरागं शरत्-प्रसङ्गे वर्णयित्वा हेमन्त-प्रसङ्गे तद्-व्रज-कुमारीणां वर्णयति—हेमन्त इत्य्-आदिना व्रजम् इत्य् अन्तेन ॥१.३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथोढानाम् अनुरागं वर्णयित्वा अनूढानाम् अनुराग-चेष्टाम् आह हेमन्ते प्रथमे मासीत्य् आदि । हेमन्ते ऋतौ प्रथमे मासि मार्गशीर्षे । अनयैव लीलया मासोऽप्य् असौ तस्य प्रिय आसीत् । अत एव वक्ष्यति मासानां मार्गशीर्षोऽहम् [भा।पु। ११.१६.२७] इत्य्-आदि । कात्यायन्य्-अर्चन-व्रतम् इत्य् अस्यायं भावः ।
वयं कन्यकाः पितृ-मातृ-सङ्कोचाद् दूत्य्-अन्तरं कर्तुं न शक्यते । तादृश्यः प्रौढा वयस्या अपि न सन्ति । सन्तु वा तासु वानुरागं प्रकटयितुं न शक्यते । ताश् च कन्यानाम् अस्माकम् अनुरागः कृष्ण-विषयो जात इति च न विदन्ति । तद् अस्माकम् अनुरागः कात्यायन्यै एव दूती-भावेन चेत् सफलीक्रियते, तदैव स्याद् इति दूतीत्वेन त्वाम् आराधयितुं तद् व्रतम् आरब्धं, न तु तत्-प्रसाद-लिप्सया, स्वतः-सिद्धत्वात् । सिद्धत्वेनावतीर्णा अप्य् अग्रिम-वयस्य-तादृश-स्वभावतया स्वतः-प्राकट्ये ग्राम्यतापत्तेः । पर-कृत-साहाय्यम् औचित्येनैवोपरुन्धन्ति ॥१.३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
द्वाविंशे चण्डिका-पूजा गोपीभिर् वाससां हृतिः ।
संलापो वर-दानं तु स्तुतिः कृष्णेन कीर्त्यते ॥
व्यूढानां शरदि कृष्णानुरागं वर्णयित्वा अनूढानाम् अपि गोपीनां तम् अनुवर्णयंस् तासां नित्य-सिद्ध-कृत-कृष्ण-प्रेयसी-भावानाम् अपि कृष्ण-प्राप्ति-कामनया लोक-रीत्यैव हेमन्ते देवी-पूजाम् आह—हेमन्ते इति । प्रथमे मार्गशीर्षे तासां कृष्ण-कान्तानां भेद-द्वयम् इदं श्री-हरि-वंश-विष्णु-पुराण-ब्रह्म-पुराणादाव् अपि दृष्टम्—युवतीर् गोप-कन्याश् च रात्रौ सङ्काल्य कालवित् [ह।वं। २.२०.१८] इत्य्-आदिभिः ॥१-२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) :
द्वाविंशेऽभ्यर्चिता दुर्गा कन्याभिर् वाससां हृतिः ।
कृष्णेन वर-दानं च तरु-स्तोत्रं च कथ्यते ॥
ऊढानां व्रज-सुभ्रुवां शरदि कृष्णानुरागम् उपवर्ण्यनूढानां तम् आह—हेमन्त इति । प्रथमे मार्ग-शीर्षे मासि यद्यप्य् एतास् तन् नित्य-प्रियास् तथापि लोक-रीत्यैव कात्यायनी-पूजेयं नारद-पञ्चरात्रे जानात्य् एका परा कान्तम् इत्य्-आदिना या परा शक्तिर् उक्ता सैवेह कात्यायनी बोध्या ॥१॥ सैकतीं प्रतिकृतिं प्रतिमां कृत्वा देवीम् आनर्चुः ॥२॥
॥ १०.२२.३ ॥
गन्धैर् माल्यैः सुरभिभिर् बलिभिर् धूप-दीपकैः ।
उच्चावचैश् चोपहारैः प्रवाल-फल-तण्डुलैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बलिभिः परिवार-देवता-पूजाभिः सह,
बलिर् दैत्ये परीवार-देवता-पूजने करे ।
जठरावयवे गेह-दारुणि पूजने तथा ।
उपहारे समर्थे च जरया श्लथ-चर्मणि ॥ इति मेदिनी-शाश्वतौ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुरभिभिर् इति यथापेक्षं सर्वैर् अपि योज्यम् । बहुत्वं गन्धादि-बाहुल्यात् । बलिभिः वस्त्र-भूषण-नैवेद्याद्य्-उपचारैः । तान् एवाह—प्रबालेति । अत्र क्रम-भङ्गः श्री-कृष्ण-हृत-मनस्त्वेन तासां क्रम-विस्मृतेः । श्री-बादरायणेर् एव वा तद्-व्रत-कथने परमौत्सुक्येन क्रमातिक्रमात् । यद् वा, बलिभिः पूजोपकरणैर् गन्धादिभिर् इति तत्-तत्-संस्कारादि-साद्गुण्यम् अभिप्रेतम् । ततश् च उपहारैर् नैवेद्यादिभिः । अन्ते नीराजनार्थं प्रवालादिभिर् इति । उच्चावचैर् इति सर्वेषाम् एव विशेषणम् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुरभिर् इति यथापेक्षं सर्वैर् अपि योज्यं । बहुत्वं तत्-तद्-बाहुल्यात् बलिभिः वस्त्र-भूषण-नैवेद्याद्य्-उपचारैः उच्चावचैर् अन्यैश् च बहु-विधैस् तैः तान् एवाह—प्रबालेति । अत्र क्रम-भङ्गः श्री-कृष्ण-हृत-मनस्त्वात् तासां तद्-विस्मृतेः श्री-बादरायणेर् एव वा तद्-वृत्त-कथने सम्मोहात् ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बलिभिर् वस्त्र-भूषण-नैवेद्याद्य्-उपचारैः ॥३॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : उच्चावचैः नाना-विधैर् वस्त्रादिभिः उपहारैर् नैवेद्यैः प्रवालैर् विद्रुमैः पल्लवैश् च । प्रवालोऽस्त्री किसलये वीणा-दण्डे च विद्रुमे इति मेदिनी । एभिर् अनूचुर् इति पूर्वेण सम्बन्धः ॥३॥
॥ १०.२२.४ ॥
कात्यायनि महामाये महा-योगिन्य् अधीश्वरि ।
नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः ।
इति मन्त्रं जपन्त्यस् ताः पूजां चक्रुः कुमारिकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महा-माये इत्य्-आदि-सम्बोधनैस् तव न किञ्चिद् अशक्यम् इति सूचयन्त्यः प्रत्य्-एकं प्रार्थयन्ते ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देव्याः सर्व-सामर्थ्यं समर्थ्यन्त्य आहुः—महामायेत्य्-आदि । कं सुखं तन्वत इति कतानि मङ्गलानि तेषां समूहः कात्यं तस्यायनं स्थानं यस्यां सा तथा । ईश्वरैः शङ्कराद्यैर् अधिष्ठितेत्य् अधीश्वरीति । देवि देवयति द्योतयति सर्वं जगद् इति देवीति । अत्र विश्वनाथः (यद् द्रष्टव्यः) \॥। इति मन्त्रं पूर्वोक्तं कात्यायनीत्य् आदि-सम्बोधनात्मकं मन्त्रम् ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कात्यायनीत्य् आदि । ते नमः । कति कति अयनानीति वा तेषां निवासः इत्य् अर्थेऽण् सार्वभौमादिवत् उभय-पद-वृद्धिः । कात्यायनि सर्वत्र सुलभे व्यापकत्वाद् इति भावः । ननु किम्-अर्थोऽयं नमस्कारः ? तत्राह—नन्द-गोप-सुतं देवि पतिं मे कुरु इत्य् एक-वचनं समान-वासनत्वाद् ऐक्य-प्रतिपादनार्थम् ।
ननु, दुर्घटोऽयम् अर्थः । कथम् अस्मद्-आराधनेन सम्पद्यताम् ? तत्राह—महा-माये दुर्घट-घटना पटीयसी माया, महती माया यस्या सा त्वम् । नायं ते दुर्घटोऽर्थः । ननु माया-बलेन किम् अयम् अर्थः सम्भावयितुं शक्यते विना तस्य वा तज्-जनस्य वा प्रसादम् ? तत्राह—महायोगिनि ! महा-योगो भक्ति-योगो, स विद्यते यस्यां सा त्वं परम-वैष्णवी । त्वत्-प्रसादेनैवायम् अर्थः घटते । एवं चेद् अनयैवोपासनया परितुष्टोऽहम् इमं दुर्घटम् अर्थं सम्पादयिष्ये ? तत्राह—हे अधीश्वरि ! त्वं सर्वेश्वरि तवकिम् अस्मद्-दत्तैर् बहुभिर् उपचारैः ॥४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे महामाये ! श्री-भगवतः सच्-चिद्-आनन्द-शक्ति-रूप इत्य् श्री-कृष्ण-प्राप्ति-योग्यानाम् अस्माकम् अपि सर्व-शक्तिं दातुं समर्थासीत्य् अर्थः ।
ननु, असाव् अत्र पत्न्य्-अनपेक्षश् चेत्, तत्राहुः—हे महायोगिनि ! दुर्घटम् अपि त्वया सुघटयितुं शक्यत इत्य् अर्थः ।
ननु, महा-लक्ष्मीतो बिभेमि, तत्राहुः—हे अधीश्वरि ! अशेषैश्वर्य-सम्पन्नत्वात् । त्वं ततोऽप्य् अधिकतरा निर्भयासीत्य् अर्थः
ननु तर्हि यूयं तम् एवाराधायतेति चेत् तत्राहुः—हे देवि ! तद्-एक-भक्त्या द्योतमान इत्य् अर्थः । तत्-साक्षाद्-अर्चनाद् अपि तत्-प्रियतम-जनाराधनम् एव वरम् इति भावः । इति सर्वथास्मन्-मनोरथस् त्वया परिपूरयितुं शक्यत इति तात्पर्यम् । नन्दश् चासौ गोपश् चेति तस्य सुतं कुमारम् इति गोप-कन्यानाम् अस्माकं तत्-पत्नीत्व-योग्यतास्तीति सूचितम् । यद् वा, गोपो भूपोऽस्माकं राजेत्य् अर्थ इति तस्य सुदुर्लभता सूचिता । तथापि पतिं स्वामिनं कुरु, तत्र शक्तिर् उद्दिष्टैव ।
यद् वा, नन्द-गोप-सुतम् इति तस्य गोप-वेश-क्रीडादीनां मनो-हरतया पतित्वेन प्रार्थनायाः कारणम् । तथा सदैव तादृशत्व-प्रकटनम् अप्य् अभीष्टम् । मे ममेति सापत्न्य-भयेन तत्-परिहारार्थं प्रत्येकं सर्वा एव स्व-चित्तान्तः प्रार्थयन्त इत्य् ऊह्यम् ।
यद् वा, महामुनि-श्री-नारदादि-दृष्टोऽयं प्राचीनो मन्त्रस् तादृश एवेति तद्-अर्थ-कल्पना-विशेषेणालम्। ताभिर् एवायं मन्त्रो दृष्टोऽस्तीति केचिद् आहुः—पद्म-पुराणोक्तानुसारेण पूर्व-जन्मनि श्री-रघुनाथावतारे तासाम् एव ऋषित्वाद् इति । एतं मन्त्रं, ताः श्री-नन्दव्रज-वर्तिन्यः श्री-कृष्णैकापेक्षिका वा पूजां चक्रुर् इत्य् अनुवादेन तत्रान्य-मन्त्राद्य्-अभावेनान्य-कामादिकं निरस्तम्। एवम् अग्रेऽपि ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कात्येति सार्धकम् । कात्यायनीति तन्-मुनि-वंश-प्रकाशकत्वात् महा-धर्म-दातृत्वं सूचितम् । हे महामाये ! हे भगवतो महा-शक्ति-रूपे इत्य् अभीष्ट-प्राप्ति-योग्यां शक्तिम् अस्मभ्यम् अपि दातुं समर्थासीत्य् अर्थः । अत्र कापि दुर्घटता चेत् तत्राप्य् आहुः—हे महायोगिनि दुर्घट-घटना-समर्थे ! नन्व् अन्यां काञ्चिद् देवतां भजध्वम् इति स्व-निष्ठां परीक्षमाणां प्रत्य् आहुः हे अधीश्वरि ! न त्वत्त ऊर्ध्वं काचिद् देवता इत्य् अर्थः । नन्द-गोप-सुतं श्रीमन्-नन्द-राज-कुमारम् इति निज-भावानुरूपालम्बन-निर्देशस् तेन तस्यैव सर्वोपादेयत्वेन स्फुरणम् अपि सूचितम् । अत्र नन्देति साक्षान्-महा-गुरु-नाम-ग्रहणं गोपेति विशेषणं च तत्-तच्-छब्दस्यान्य-गतित्व-शङ्कया ।
ननु तत्-प्राप्तये तम् एवाराधयत, तत्राहुः—हे देवि ! क्रीडा-रसाभिज्ञे तद्-अर्थं साक्षात् तत्-प्रार्थनं न रसावहम् इति जानास्य् एवेत्य् अर्थः । मे इत्य् एकत्वं प्रतिस्वं पृथग् जपात् । इति एतं मन्त्रम् अतः प्राक्-सिद्ध एवासौ श्री-कृष्ण-लक्षण-पति-प्रदो मन्त्रः ।
ततश् चास्या देव्याः स्वरूप-शक्तित्वम् एव मन्तव्यं न बहिरङ्ग-जगत्-कारण-शक्तित्वं, पूर्वस्याः, न विष्णुना विना लक्ष्मीर् न हरिं पद्मजां विना इति भगवद्-ऐक्यात् । उत्तरस्याः, यस्यांशांशांश-भागेन विश्व-स्थित्य्-अप्ययोदया [भा।पु। १०.८५.३१] इत्य्-आदिना तद्-अपेक्षयातितुच्छत्वात् ।
यातीत-गोचरा वाचां मनसां चाविशेषणा ।
ज्ञानि-ज्ञान-परिच्छेद्या वन्दे ताम् ईश्वरीं पराम् ॥
सर्व-भूतेषु सर्वात्मा या शक्तिर् अपरा तव ।
गुणाश्रया नमस् तस्यै शाश्वतायै सुरेश्वर ॥ [वि।पु। १.१९.७७-७८]
इति विष्णु-पुराण-पद्याभ्यां तादृश-भेद-प्राप्ते । तथा च नारद-पञ्चरात्रे श्रुति-विद्या-संवादे—
जानात्य् एका परा कान्तं सैव दुर्गा तद्-आत्मिका ।
या परा परया शक्तिर् महाविष्णु-स्वरूपिणी ।
यस्या विज्ञान-मात्रेण पराणां परमात्मनः ।
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा ॥
एकेयं प्रेम-सर्वस्व-स्वभावा श्री-गोकुलेश्वरी ।
अनया सुलभो ज्ञेय आदि-देवोऽखिलेश्वरः ॥
भक्तिर् भजन-सम्पत्तिर् भजते प्रकृतिः प्रियम् ।
ज्ञायतेऽत्यन्त-दुःखेन सेयं प्रकृतिर् आत्मनः ।
दुर्गेति गीयते सर्वैर् अखण्ड-रस-वल्लभा ॥
अस्या आवरिका शक्तिर् महामायाऽखिलेश्वरी ।
यया मुग्धं जगत् सर्वं सर्व-देहाभिमानिनः ॥ इति ।
अतः प्रथमैवाष्टादशाक्षरीत्य् अधिष्ठात्रीति गम्यते दुर्गा महामायेत्य्-आदि-नामादि-साम्येनैव तु भ्रमो भवतीति ज्ञेयम् ।
अथवा मन्त्रेऽस्मिंस् तृतीयः पादो निजाभीष्ट-नाम्ना योज्य इत्य् एव विधिः स्यात् । ततो व्रजस्य लोकवल्-लीलत्वात् । मायोपासनम् एव लभ्यते, तासां च परम-प्रेमोल्लास-विलसितम् एव तथोपासनं प्रेम्नैव च तथा तत्-प्राप्तिर् न तथोपासनेन इति विवेक्तव्यम् । अत्र केचिद् अनन्यं-मन्या यद् अन्यथा मन्यन्ते तेन तदीय-प्रेम-गन्ध-सम्बन्ध-गन्धवाहम् अपि स्पृशन्ति सर्वत्र शुद्ध-भगवत्-प्रेमैव हि पुरुषार्थः । सर्वम् अनन्य-दैवतोपासनादिकं तु तत्-साधनम् एवेति श्रीमद्-भागवत-सिद्धान्तः । स च तासां सिद्ध-सर्व-समुद्रिक्तश् चेति किं साधन-विचारेण परम-साध्य-स्वरूप-प्रेम-विचारे तु स च प्रेमा केवल-माधुर्यानुभावाविर्भावी । अनन्य-भक्ति-प्रवृत्ति-कारणेन पारमैश्वर्यानुभवेन न तु सम्भ्रमात् सङ्कीर्यत एव प्रेम्नैव च भगवान् अपि वशीक्रियते । न तु तेन तथैव नेमं विरिञ्च [भा।पु। १०.९.२०] इत्य् आदौ, इत्थं सताम् [भा।पु। १०.१२.११] इत्य् आदौ, नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य् आदौ श्री-व्रज-वासिन एव सर्वोपरि प्रशंस्यन्ते तथैवात्रोक्तं नन्द-गोप-सुतम् इति, न तु श्री-भगवन्तम् इति । तस्मात् तासां शुद्ध-मधुर-प्रेम्न एव किल विलासोऽयं नान्यद् इति सर्वोपर्य् एव स्थितम् इदम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कात्यायनी वैष्णवी शक्तिः । इत्य् एवं मन्त्रोऽतः प्राक्-सिद्धः एवासौ । तत्र यदि तृतीय-पादोऽभीष्ट-नाम्नो योजनीय इत्य् एव विधिः स्यात् तदा लोकवल् लीलया मायोपासनम् एव । यदि तु सोऽपि पूर्व-सिद्धस् तदा स्वरूप-शक्त्य्-उपासनम् एवेदम् ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : व्रताचरणे स्व-कृतम् एव मन्त्रं जपन्तः प्रार्थयन्ते कात्यायनीत्य् आदि । हे देवि कात्यायनि ! ते तुभ्यं नमः । ननु, किम्-अर्थोऽयं नमस्कारः ? तत्राह—नन्द-गोप-सुतं पतिं मे कुरु कारय । प्रत्येक-मन्त्र-पाठाद् एक-वचनम् । अथवा, प्रीति-वशाद् अभिन्नता वा
ननु, दुर्घटोऽयम् अर्थः । कथम् अस्मच्-छक्त्या भवितुम् अर्हति ? तत्राह—महा-योगिनि महा-योगो भक्ति-योगः स विद्यत यस्या इति तथा सा त्वं परम-वैष्णवी । तथा च, धन्यासि कृत-पुण्यासि विष्णु-भक्तासि पार्वति इति श्री-रुद्र-वाक्यम् । तेन तत्-प्रसादाद् एवायम् अर्थः सुघटः । एवं चेद् अनयैवोपासनया किम् अहं परितुष्टा भवानि ? इत्य् आशङ्क्याह—हे अधीश्वरि ! ईश्वराणाम् अधिके ! त्वं सर्वेश्वरी । तव किम् अस्मद्-वृत्त-बहु-वित्त-साध्योपचारैः ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे कात्यायनि! नन्द-गोप-सुतं मे पतिं कुरु । ननु कुर्व् इत्य् अनेन मय्य् एव किम् इति तत्र स्वातन्त्र्यम् अर्प्यते ? अहं तु तद्-अर्थं त्वत्-पितरौ प्रेरयिष्यामि मात्रम्। तस्मात् कारयेति देहीति वा प्रयुज्यताम् इत्य् आशङ्क्य स-वैकल्प्यम् आह—हे महा-योगिनि ! इति । तेन संयोगस् त्वयैव शीघ्रं सम्पाद्यः । न तु पित्रादि-व्यवधानोपद्रवेण परमोत्कण्ठावतीभिर् अस्माभिः काल-विलम्बस्यासह्यत्वात् कृष्णस्य सम्प्रत्य् अनुपनीतत्वेन विवाहायोग्यत्वात् । हे देवि ! मुख्यं विवाहं विनैव केवल-गान्धर्व-विवाहेनैव मे पतिं कुर्व् इत्य् अर्थः । अधीश्वरीति तत्र तव किम् अप्य् अशक्यं नास्तीति भावः ।
ननु, तव कृष्णे पति-भावस्य त्वत्-पितृभ्याम् अज्ञातत्वे त्वद्-अभीष्टः कृष्णाङ्ग-सङ्गः कथं साधु सेत्स्यतीत्य् अत आह—महामाये ! इति । मायया मत्-पितरौ तथा मोहय यथा कदाचिद् अपि गोपान्तरेण मद्-विवाहस् ताभ्यां न भाव्यते । कृष्णाङ्ग-सङ्ग-रहस्यं च न च ज्ञातुं न शक्यते इति ।
यद् वा, दीव्यति क्रीडति देवयति क्रीडयतीति वा देवी । स चासौ पतिश् चेति तं तादृश-पतित्वं विवाहं विनैव सिद्ध्यतीति मम गोपान्तर-व्यूढत्वेऽपि न कापि क्षतिर् इति भावः । इत्य् एवं प्रत्येकं मन्त्रार्थं पृथक् पृथक् विचिन्त्येत्य् अर्थः ।
इयं ताभिर् उपासिता चिच्-छक्ति-वृत्ति-स्वरूप-भूता योग-मायैव, न तु बहिरङ्गा माया । यद् उक्तं नारद-पञ्चरात्रे श्रुति-विद्या-संवादे—
जानात्य् एका परा कान्तं सैव दुर्गा तद्-आत्मिका ।
या परा परया शक्तिर् महाविष्णु-स्वरूपिणी ।
यस्या विज्ञान-मात्रेण पराणां परमात्मनः ।
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा ॥
एकेयं प्रेम-सर्वस्व-स्वभावा श्री-गोकुलेश्वरी ।
अनया सुलभो ज्ञेय आदि-देवोऽखिलेश्वरः ॥
भक्तिर् भजन-सम्पत्तिर् भजते प्रकृतिः प्रियम् ।
ज्ञायतेऽत्यन्त-दुःखेन सेयं प्रकृतिर् आत्मनः ।
दुर्गेति गीयते सर्वैर् अखण्ड-रस-वल्लभा ॥
अस्या आवरिका शक्तिर् महामायाऽखिलेश्वरी ।
यया मुग्धं जगत् सर्वं सर्व-देहाभिमानिनः ॥ इति ।
अतः सर्वेषु कृष्ण-मन्त्रेषु दुर्गाधिष्ठातृ-देवता इत्य् आगमे शुद्ध-सत्त्व-स्वरूपा चिच्-छक्ति-वृत्तिः कृष्ण-भगिन्य् एकानंशाभिधाना योगमायैव मन्त्राधिष्ठात्री सैव खल्व् आभिर् उपासिता दुर्गा महामायेत्य्-आदि नामादि-साम्येनैव लोकानां भ्रमो भवतीति ज्ञेयम् । व्रजस्य लोकवल्-लीलत्वान् मायोपासनेऽपि न दोषः । अत्र केचिद् अनन्यं-मन्या यद् अन्यथा मन्यन्ते न ते तदीय-प्रेम-गन्ध-सम्बन्ध-गन्धवाहम् अपि स्पृशन्ति इति श्री-वैष्णव-तोषणी ॥४॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : व्रतिनीनां तासां जप्यं मन्त्रम् आह—कात्यायनीति सार्धकम् । हे कात्यायनि ! तन्-मुनिर् अंश-प्रकाशिके ! परम-धर्म-दात्रि ! नन्द-गोपस्य नन्द-नाम्नो राज्ञः सुतं मे पतिं पाणि-ग्राहकं कुरु । ननु मत्-प्रेरितौ तव पितरौ तथा कऋइष्यतस् तत्राह—हे महा-योगिनीति । स योगस् त्वयैव त्वरया विधेयो न तु पित्रादि-व्यवधानेन काल-विलम्बस्य दुःसहत्वात्, ततो गन्धर्वेणैव विधिना तं मे पतिं कुर्व् इति भावः । न च तद्-विधानेन तवासामर्थ्यम् अस्तीत्य् आह—अधीश्वरीति । ननु गुरु-विप्राग्नि-साक्षिकत्वेन विना तस्मिन् पति-भावः स्वच्छन्द-तत्-सङ्गाय न स्यात्, तत्राह—हे महामाये इति । तथा मायां विस्ताराय, यथा गोप-कुमारेणान्येन सह मद्-विवाहं मत्-पित्रादयो न भावयेयुः, मे नन्द-सुतेन सह सङ्गं च विधेयुर् इति भावः । हे देवीति इयम् एका क्रीडा सम्पाद्यताम् इत्य् अर्थः ॥४॥
॥ १०.२२.५ ॥
एवं मासं व्रतं चेरुः कुमार्यः कृष्ण-चेतसः ।
भद्रकालीं समानर्चुर् भूयान् नन्द-सुतः पतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण-चेतस्त्वम् आह—भूयान् नन्द-सुतः पतिर् इत्य् आनर्चुर् इति ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वल्पेनैव कालेन तासां तत् फलं सुसिद्धम् इत्य् अभिप्रायेणाह—एवम् इति । मासम् एकं मार्ग-शीर्षं व्याप्या, मासानां मार्गशीर्षोऽहम् [गीता १०.३५] इति भगवद्-विभूतित्वेन व्रते कालस्य साद्गुण्यं दर्शितम् । भद्रकालीं मङ्गला-चण्डीति प्रसिद्धां कात्यायनीम् एव, श्लेषेण भद्रम् उत्तमं कं सुखं तस्यालिः पङ्क्तिर् यस्याः सकाशाद् इत्य् अर्च्य-देवता-साद्गुण्यं दर्शितम् । सम्यक् नित्यं नियम-रक्षा-पूर्वकं यथा-विधि आनर्चुः, कृष्णे साक्षात् । सर्वेश्वरे चेतो यासाम् इति, तस्याः समर्चनेऽपि कृष्णार्चनम् एवाभिप्रेतम् । अत एवाग्रे वर-दानाय श्री-कृष्णस्यैवागमनं वक्ष्यति ।
यद् वा, कृष्ण-चेतस्त्वेन परम-शुद्ध्य्-उक्त्या । किं वा, स्वत एव कृष्ण-चेतस् तस्याः, विशेषतश् च, भूयान् नन्द-सुतः पतिः इति भद्रकालीं समानर्चुः इत्य् एवं व्रतस्य परम-साद्गुण्योक्त्या अचिरात् सम्यक् फल-सिद्धिर् अभिप्रेता ।
यद् वा, नन्व् ईदृशे परम-दुर्लभेऽर्थे अतिलालसा सुबुद्धीनाम् अयुक्ता ? तत्राह—कृष्णे सर्व-चित्ताकर्षके चेतो बुद्धिर् यासाम् इति चेतसस् तद्-गतत्वेन विचारानुदयाद् इति भावः । एषा प्रेमार्त्य्-उक्तिस् तत्-तद्-आर्च्येन व्रत-सन्निष्ठता-बोधनार्थम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मासेति । स्वल्पेनैव कालेन तासां तादृश्य् अपि सिद्धिर् इति भावः । कृष्णे चेतो यासाम् इति तस्याः समर्चनम् अपि कृष्णार्चनम् एवेत्य् अभिप्रेतम् । अत एवाग्रे च वर-दानाय श्री-कृष्णस्यैवागमनं वक्ष्यति भूयाद् इति पूजादौ सङ्कल्पः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्द-सुतः पतिर् भूयाद् इति सङ्कल्प्येति शेषः ॥५॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : एवम् इति नन्द-सुतः पतिर् भूयाद् इति सङ्कल्प्य ॥५॥
॥ १०.२२.६-७ ॥
उषस्य् उत्थाय गोत्रैः स्वैर् अन्योन्याबद्ध-बाहवः ।
कृष्णम् उच्चैर् जगुर् यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥
नद्यां कदाचिद् आगत्य तीरे निक्षिप्य पूर्ववत् ।
वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्रतस्य पूर्वाङ्गम् आह—उषसीति । गोत्रैर् नामभिः । अन्योन्याबद्ध-बाहवः परस्परं गृहीत-पाणयः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उषसि घटिका-चतुष्कावशिष्ट-रात्रौ । क्वचित् तु उषः कालोऽष्ट-पञ्चाशत् इत्य् उक्तम्। तद् अत्र उदितेऽरुणे इति पूर्वोक्त-विरोधाद् उपेक्ष्यम् । गोत्रं कुलाख्ययोः इति मेदिनी । गोत्रैर् नामभिर् धन्ये कुत्रासि किम् इति विलम्बस इत्य् एवम् आहूता इत्य् अर्थः ॥६॥
पूर्ववत् नित्यवत् । वासांसि निक्षिप्य संस्थाप्येति साधेनान्वयः । कदाचिद् इति व्रत-पूर्ण-दिने पूर्णिमायाम् एव, एवं मास-व्रतं चेरुः इत्य् उक्तत्वात् । अत एवोत्सवार्थं कुमारीभिस् ताभिः समान-वासनत्वेन प्रणयास्पदीभूता वृषाभानु-नन्दिन्य्-आद्या अपि निमन्त्र्यानीताः, पूजा-समाप्त्य्-अनन्तरं कृष्णं मुदा गायन्त्यस् तद्-गानानन्देन हेमन्त-जलेऽपि शीताद्य्-अस्फूर्तेः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : व्रत-प्रकारम् आह—उषस्य् उत्थायेत्य्-आदि । स्व-गोत्रैः सह स्व-स्व-गोत्रोद्भवैः कनीयोभिर् भ्रातृभिः स्तोक-वयोभिः लोकेऽप्य् अधुना तथा तथा दर्शनात् । यतस् तेषां देशाचारतो विवसना भूत्वा जलावगाहने ह्री-ह्रासः । उच्चैर् इति सङ्कोचाभावात् कृष्णं जगुः ॥६-७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न केवलं कृष्ण-चेतस एव, किन्तु तत्-सङ्कीर्तन-परा अपीति अर्चन-परम-साद्गुण्यम् एवाह । यद् वा, तद्-अर्चनस्य समग्र-प्रकारे विज्ञाते अन्यैर् अपि कैश्चिज् जनैस् तद्-व्रतं क्रियेतेति निज-कृपया श्री-परीक्षिद्-अभिप्रायं चालक्ष्य तद्-व्रतस्य मुख्याङ्गम् आह—उषसीति । प्रत्युष एवोत्थायेति दूरे श्री-यमुनायां सूर्योदयात् प्राग् एव स्नानार्थं स्वैर् गोत्रैर् अन्योन्यं तत्-तन्-नामभिर् आहूयेत्य् अर्थः । अन्योन्यम् आ सम्यक् बद्धा दृढं गृहीता बाहवो याभिस् ताः, रात्रि-शेषेऽन्धकारे पथि स्खलन-भयात् । कृष्ण-सङ्कीर्तन-प्रेम-मोह-निपात-शङ्कया वा, अन्योन्य-स्नेह-विशेषाद् वा । एवम् अन्योन्य-स्नेहेन व्रत-सम्यक्त्वम् एव दर्शितम् । उच्चैर् इति सर्वासाम् एकत्र सम्मेलनार्थं गानावेश-विशेषेण वा । नित्यं कालिन्द्यां स्नातुम् इति पुनर् अनुवादः, तत्-स्नानस्य तत्र प्राशस्त्य-बोधनार्थम् ॥६॥
नद्यां कालिन्द्याम् एवेति नदी-शब्देन प्रवाहोऽभिप्रेतः । कदाचित् मासान्ते द्वादश्यां पौर्णमास्यां वा । पूर्ववद् इत्य् अनेन सदैव नग्नतया स्नानादिकं बोध्यते । मुदा विजह्रुः । तत्र हेतुः—कृष्णं परमानन्द-घन-मूर्तिं परम-चित्ताकर्षकं वा गायन्त्य इति तद्-गानेन हेमन्त-मध्ये सुशीतलोदके श्री-कालिन्दी-प्रवाहेऽपि शीतादि-बाधा-भावात् । यद् वा, मुदेति समग्र-मासं निर्विघ्नतया व्रताचरणात् । अत एव कृष्णं गायन्त्यो विजह्रुः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रेम्णा विस्मृतम् अपि पुनस् तासाम् अनुराग-परिपाटी-मयं व्रत-पूर्वाङ्गं स्मरन्न् आह—उषसीति । उषस्य् उत्थायेति तासाम् उत्कण्ठा गोत्रैर् नामभिः स्वैर् इति परस्पर-कार्य-साधकत्वं हेतौ तृतीया मिथस् तत्-तन्-नामभिर् आहूता इत्य् अर्थः । स्वर्गैर् वर्गैः सहेति वा अन्योन्या इति श्री-कृष्ण-रागमयैकमत्येन मिथः स्नेह-विशेषः कृष्णम् इति चेतोवद् वचनस्यापि तद्-एक-निष्ठता तत्राप्य् उच्चैर् इति तद्-आवेशः कालिन्द्यां स्नातुम् अन्वहम् इति दूर-गमनं नित्यम् एक-रसत्वं च दर्शितम् एवम् अनुराग-वैशिष्ट्यम् एव सर्वथापि वर्णितम् इति ॥६॥
कदाचित् तन्-मासान्ते पौर्णमास्यां पूर्ववद् इति सदैव नग्नतया स्नानम् इत्य्-आदिकं बोध्यते तच् च बाल्य-भावाद् एव मुदा विहारे हेतुः कृष्णं गायन्त्य इति तद्-गानानन्देन हेमन्त-जलेऽपि शीतोद्य्-अस्फूर्तेः ।
यद् वा, मुदेति व्रतस्य तद्-दिने पूर्णत्वात् । अत एव कृष्णं गायन्त्यो विजह्रुः इति देहाननुसन्धानेन च कृष्ण-चेतस्त्वम् एव विशेषितम् एवं मानस-वाचिक-कायिकैकतानत्वं दर्शितम् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वैर् गोत्रैर् वर्गैः ॥६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : व्रत-क्रियायाम् आनुपूर्व्येणाह—उषसीत्य् आदि । स्व-गोत्रैः सह यान्त्यः स्वकीयैर् गोत्रैः स्व-गोत्रोद्भवैः कनीयोभिर् बालकैः सह, लोकेऽधुनापि तथा दर्शनात् । अतस् तेषां साक्षाद् देशाचारतो विवसनी-भूय जलम् अवगाहमानानां ह्री-ह्रासः । उच्चैर् इति बालकात्वेनास्माकं गुरु-जन-सङ्कोचो नास्तीति । स्फुटम् एव कृष्णं गायन्त्यः । अन्वहं प्रतिदिवसम् ॥६.७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आप्लुत्याम्भसीत्य् उक्तं तत्-पूर्व-क्रमम् अनुस्मृत्याह—उषसीति । स्वैः स्वैर् गोत्रैर् नामभिर् अपि धन्ये कुत्रासि ? किम् इति विलम्बसे ? त्वरयागच्छेत्य् एवम् आहूता इत्य् अर्थः ॥६॥
कदाचिद् इति व्रत-पूर्ण-दिने पौर्णमास्याम् एव एवं मासं व्रतं चेरुर् [भा।पु। १०.२२.५] इत्य् अनन्तरोक्तत्वात् । अत एवोत्सवार्थं कुमारीभिस् ताभिः समान-वासनत्वेन प्रणयास्पदीभूताः वृषभानु-नन्दिन्या अपि निमन्त्र्यानीताः पूजा-समाप्त्य्-अनन्तरं ताभिः सहैवावभृत-स्नान-देशोऽयं जल-विहारो ज्ञेयः ॥७॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : आप्लुत्याम्भसीत्य् उक्तं तत्-पूर्व-क्रमम् अनुस्मृत्याह—उषसीति । स्वैर् गोत्रैर् नामभिर् आहूय हे धन्य ! किं विलम्बसे ? त्वरयागच्छेत्य् एवम् आदि-विधम् आकार्य अन्योन्यम् आबद्धाः स्कन्धेष्व् अर्पिता बाहवो याभिस् ताः कालिन्द्यां स्नातुं यान्त्यस् त्रपां विहायोच्चैः कृष्णं जगुः ॥६॥
कदाचिद् इति । एवं मास-व्रतं चेरुर् इत्य् उक्ते पूर्णिमायाम् इत्य् अर्थः । तदानीं निमन्त्र्यानीताभिः स्व-तुल्य-वासनाभिः श्रीमत्य्-आदिभिः सह दुर्गार्चा-पूर्त्य्-अनन्तरम् अवभृथ-स्नान-देश्योऽयं जल-विहारो बोध्यः ॥७॥
॥ १०.२२.८ ॥
भगवांस् तद् अभिप्रेत्य कृष्णो योगेश्वरेश्वरः ।
वयस्यैर् आवृतस् तत्र गतस् तत्-कर्म-सिद्धये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : योगेश्वराणाम् ईश्वर इति प्रत्येकं तादृङ्-मनोरथ-पूरण-सामर्थ्यं दर्शयति, तासां कर्मणः सिद्धये फल-दानायेति ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् भूयान् नन्दसुतः पतिः [भा।पु। १०.२२.५] इत्य् एवं-रूपं मतम् । अभिप्रेत्य ज्ञात्वा । तत्र कालिन्दी-तटे ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भगवान् इत्य्-आदि । तद् व्रतं भगवान् श्री-कृष्णो योगेश्वराणाम् अपि ईश्वरः, तस्य विशेषण-द्वयस्य तात्पर्यं वयस्यैर् आगत्यापि तत्र तस्मिन् देशे वृतः संवृतो बभूवेत्य् अर्थः । कथम् ? तत्-कर्म-सिद्धये ।
यद् वा, वयस्यैर् वयसि भवैः कैशोर-चेष्टितैर् विशिष्टैः, विशेषणे तृतीया तत्-कर्म-सिद्धये वृतः । यद् वा, वयस्यैः कैशोर-चापलैर् वृतः ।
यद् वा, तत्र वयसि कौमारे अर्थात् तासां यत् तत् कर्म तत्-सिद्धये । अस्यापत्यम् इः कामः, आङ् मार्यादाभिविध्योः [पा। २.१.१३], आ एः एर् इति पञ्चम्य्-एक-वचनं आ पाटलिपुत्राद् वृष्टो देवः इतिवत् । आकामात् कामं त्यक्त्वा तत्-कर्म-सिद्धये वृत इत्य् अर्थः । कुमारीणां कामाभावात् प्रेमैव, तेन तत्-कर्म-सिद्धये वृतः । अथवा वयस्यैः सहचरैः सह आ सम्यक् अवृत एकापि वयस्यः सङ्गे नानीत इत्य् अर्थः । अ-कारः केवलो नञ्-अर्थोऽपि वर्तते । अभावे ह्य् अ नो ना इति । अथवा वयसि भवैर् लावण्यैर् विशिष्टः रागतोऽनुरागतो हेतोस् तत्र वृतः । वयस्यैः सहागमने रसाभासो भवति, अनौचित्याद् ऋते नान्यद्रस-भङ्गस्य कारणम् [ध्वन्यालोक ३.१०-१४अ] इति ॥८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-पतित्वेनात्म-प्राप्तये तासां कात्यायन्य्-अर्चन-व्रतम् अभिप्रेत्येति परम-विदग्धा-वर्ग-पूज्य-पादानां तासां भावस्य साक्षाद् अनभिव्यक्तेः, कथञ्चित् कार्य-द्वारानुमानेन ज्ञात्वेत्य् अर्थः । तथापि दुर्ज्ञेयस्य विज्ञाने तत्रैव हेतुः—भगवान् सर्वज्ञः सर्वैश्वर्य-युक्तो वेति, तत्रैवागतः । यतः कृष्णः रसिक-शिरोमणिर् जगच्-चित्ताकर्षक-लील इति । वयस्यैर् वृत इति तासां बह्वीनां बहुल-वस्त्र-जातस्य सद्यः युगपद्-धरणार्थं येषां तासु मध्ये भगिन्य्-आदयः स्युस् तद्-व्यतिरिक्तैर् इति ज्ञेयम् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : योगेश्वरानां लब्ध-सार्वज्ञ्यादि-सिद्धीनाम् आराध्यः । अत एव भगवान् नित्य-स्वाभाविक-सार्वज्ञ्यादि-शक्ति-युक्तोऽपि तत् तस्य व्रतस्यात्मैकार्थत्वम् अभिप्रेत्य निज-गानादि-रीति-विशेषेणानुमीयैवेति तस्य तादृश-तत्-प्रेम-मय-लीला-माधुर्यावेशो दर्शितः । तथापि देवतान्तरोपासकेभ्योऽपि स्वयं फल-दाने युगपद्-अखिल-वस्त्र-हरणे च शक्तिर् दर्शिता । तत्र हेतुः—कृष्णः तादृशत्वेनैव प्रसिद्ध इत्य् अर्थः । बालैर् इति वक्ष्यमानाट् वयस्यैर् इति बालकैर् एव सखिभिर् इति ज्ञेयं, तैर् आवृतः सन्न् आगत इति । ते च परमान्तरङ्गा दाम-सुदाम-वसुदाम-किङ्किणयो ज्ञेयाः । यथोक्तं गौतमीय-तन्त्रे—
दाम-सुदाम-वसुदाम-किङ्किणीर् गन्ध-पुष्पकैः ।
अन्तःकरण-रूपास् ते कृष्णस्य परिकीर्तिताः ।
आत्माभेदेन ते पूज्या यथा कृष्णस् तथैव ते ॥ इति ।
अन्तःकरण-रूपा इति क्रमेण बुद्ध्य्-अहङ्कार-चित्त-मनो-रूपा इत्य् अर्थः । तैर् वृत इति हासादि-विलासार्थं ज्ञेयम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सिद्धानां तासां व्रताद्य्-अपेक्षाभावाद् अविलम्बेनैव मनोरथ-सिद्धिर् आसीत्, व्रतं तूपलक्षणम् इति दर्शयति—भगवान् इत्य्-आदि । योगेश्वरेश्वरत्वेन भगवत्त्वेन च हेतुना कथितेनापि तत् तासां व्रतम् अभिप्रेत्य तत्-कर्म-सिद्धये वृत आसीद् इति शेषः । वयस्यैर् गोप-बालकैः आ सम्यक् अवगतः एकोऽपि वयस्यः सङ्गे नानीत इत्य् अर्थः । समान-लक्षण-दीर्घः । तथा सति अनौचित्यापत्तेः । अनौचित्याद् ऋते नान्यद् रस-भङ्गस्य कारणम् [ध्वन्यालोक ३.१०-१४अ] इति । अथवा वयस्यैर् वयसि भवैश् चापल्य-कौतुक-चिकीर्षादिभी रागतो हेतो रागाद् इत्य् अर्थः । तत्-कर्म-सिद्धये वृतः भगवान् अपि योगेश्वरेश्वरोऽपीति शेषः ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगेश्वराणाम् अपीश्वरश् इत्य् अनेन सार्वज्ञम्, तासां प्रत्येकं तादृङ्-मनोरथ-पूर्ण-सामर्थ्यं ताभिः स्वेक्षण-पथ एव स्थापितानाम् अखिलानाम् अपि वस्त्राणां चौर्य-सामर्थ्यं प्राण-त्यागाद् अपि तादृश-लज्जा-त्यागम् अधिकं निश्चिन्वतीनां तासां कुल-कुमारीणां जलाद् उत्थापन-स्व-प्रणमनादि-सामर्थ्यं दृष्ट-सर्वाङ्गानां रहः-प्राप्तानां स्व-वश्यानाम् अपि तासां तादात्मिक-सम्भोगाभाव-सामर्थ्यं च द्योतितम् ।
वयस्यैर् वृत इति बालैर् [भा।पु। १०.२२.९] इति वक्ष्यमाणत्वात् द्वि-त्री-वर्षीयाः स्त्री-पुंस-भेद-विवेक-शून्या दिग्-वाससः पृथुकाः एव, सखित्वेनाभिमताः गोचारणादाव् अपि कृष्ण-सङ्गम् अत्यजन्तो ज्ञेयाः । यद् उक्तं क्रम-दीपिकायाम्—
जङ्घान्त-पीवर-कटीर-तटी-निबद्ध-
व्यालोल-किङ्किणि-घटा-घटितैर् अटद्भिः ।
मुग्धैस् तरक्षु-नख-कल्पित-कण्ठ-भूषैर्
अव्यक्त-मञ्जु-वचनैः पृथुकैः परीतम् ॥ [क्र।दी। ३.२१] इति ।
वैष्णव-तोषिण्यां तु दाम-सुदाम-वसुदाम-किङ्किण्यः कृष्णान्तः-करण-रूपास् ते गौतमीय-तन्त्र-दृष्ट्या इत्य् उक्तम् ॥८॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : भगवान् ऐश्वर्यादिभिर् वैराग्यान्तैः षड्भिः समग्रैर् भगैर् विशिष्टः । नित्य-योगे मतुप् । तत् स्व-फलकं तासां व्रताचरणम् अभिप्रेत्य विज्ञाय वयस्यस् त्रिचतुर-वर्षीयैः स्त्री-पुंस-भेद-धी-शून्यैर् दिग्-वसनैर् इति बोध्यं बालैर् [भा।पु। १०.२२.९]—
जङ्घान्त-पीवर-कटीर-तटी-निबद्ध-
व्यालोल-किङ्किणि-घटा-घटितैर् अटद्भिः ।
मुग्धैस् तरक्षु-नख-कल्पित-कण्ठ-भूषैर्
अव्यक्त-मञ्जु-वचनैः पृथुकैः परीतम् ॥ [क्र।दी। ३.२१]
इति क्रम-दीपिकोक्तेः अन्यथा रसाभावात् तैर् आवृतस् तत्रागतः तस्य कर्मणः सिद्धिः फलं तस्यैतत् प्रदातुम् इत्य् अर्थः । भगवत्त्वाद् एव योगेश्वराणाम् अपीश्वरः तासां सर्वासां हृद्-वृत्ति-ज्ञाने वाञ्छित-पूर्त्यै दृष्टि-पथ-स्थापितानां वाससां हरणे कुलवतीनां त्रपापनयने जल-निर्गम-स्व-प्रणामादि-विधाने दृष्ट-सर्वावयवानां रहः प्राप्तानां स्व-वश्यानां तदानीन्तनालिङ्गन-विहाने च समर्थ इत्य् अर्थः ॥८॥
॥ १०.२२.९ ॥
तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः ।
हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नीपं कदम्बम् । बालैः सह ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णः परिहास-वाक्यं वक्ष्यमाणम् उवाच ह इति । (अतः परं विश्वनाथस्य टीका सम्पूर्ण-रूपेण उद्धृता ) ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तासां वासांस्य् उपादाय इत्य्-आदि । वासांसीति प्रत्येकं वाससां बहुत्वम्, अन्तरीय-कूर्पासकोत्तरीयादि-भेदात् । सर्वेषां ग्रहणे स-त्वरः । हसद्भिर् इति वासो-रक्षकैः स्वैर् गोत्र-बालकैर् वासोऽपहारं दृष्ट्वा ते नाचचक्षुः, किन्तु जहसुर् एव । अतः स्वयं च प्रहसन् अमी बालकाश् च नोचुः । अहं च नाभिर् दृष्टः, किन्तु वासांस्य् अदृष्ट्वा शङ्कां लप्स्यन्ते । किम् अनयासां शङ्कया ? अविलम्बतरम् एवाहं निगदाम् इत्य् आह—परिहासम् उवाच च, परिहास-युक्तं यथा स्यात् ॥९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपादाय समीपत एव गृहीत्वा । हसद्भिस् तच्-चेष्टयोच्चैर् हासं तन्वद्भिर् बालैः सह त्वरया अन्वितः सन् नीपम् आरुह्य चौर्येण ताभ्यो भयात् । तत्र तासाम् अदर्शनं तद्-उच्छ्रायत्वाच् च । बालैर् इति तत्-क्ष्वेल्य्-अर्थं पुरैव प्रौढानां त्यागेन बालकैर् एव वयस्यैर् वृत इति ज्ञेयम् ।
यद् वा, सप्तमाब्द-वयोऽन्ते कृत-श्री-गोवर्धन-धारणात् प्राग् अस्या लीलायाः कथनेनाधुना प्रकटित-षड्-अब्द-वयसः श्री-भगवतः सवयस्त्वेन सर्वेऽपि ते बाला एव । तथापि प्रौढवल् लीलेयं श्री-भगवतो बाल्येऽपि तादृशत्व-सम्भवात् । तच् च सर्वत्र प्रसिद्धं प्राग् उक्तम् एव । एवम् अग्रेऽपि श्री-यज्ञपत्न्य्-अनुग्रह-लीलापि ज्ञेया । ततश् च तेषां बाल्ये सर्वम् अनवद्यम् एव ।
यद् वा, लीला-द्वयम् इदं कैशोर एव । ततश् च श्री-गोवर्धन-धारणात् प्राग् एतद् उक्तिः । शारद-वेणु-गीत-वर्णनाभिव्यञ्जित-श्री-गोपी-भाव-विशेष-प्रसङ्गेऽस्या लीलायास् तथा तत्-प्रसङ्गे श्री-यज्ञपत्न्य्-अनुग्रह-लीलाया अप्य् अनुषक्तत्वात् लीला-क्रमश् च श्री-बादरायणिना प्रायो नोपेक्षित एव। कुत्रापि प्रसङ्गानुसारात्, कुत्रापि स्वस्मात् क्वचिद् रस-विशेषोदयात् । एतच् च प्राक् अग्रेऽपि व्यक्तम् एव । परिहासं नर्मैवोवाच । तासां कर्षणार्थम् । अत एव प्रकर्षेण हसन् । ह हर्षे, स्फुटम् इति वा ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बालैः सह सत्वरं भीत इव त्वरा-युक्तं परस्परं तूष्णीम् आसाद्य तासां वासांसि प्रयोजन-विशेषाय उपादेयत्वेन गृहीत्वा नीपम् आरुह्य च स्वैरः सन् तैर् एव हसद्भिः सह स्वयं च प्रहसन्, तेन च हासेन कृतानुसन्धानाः स-प्रणयेर्ष्यं ज्ञात्वैवाज्ञात्वेव चाब्रुवाणाः प्रति परिहासम् इति "कथं शीतल-जले चिरं व्रत-कम्पमानास् तिष्ठथ ? उत्थायार्द्रं परित्यज्य शुष्कम् एव वासः परिधीयताम्" इति । तद् एवं कर्म तर्हि भवान् एव भवान् इवेति न्यायेन नायुक्तम् इत्य्-आदि मिथः संवाद-पुरःसरं स-नर्म-वाक्यम् इत्य् अर्थः । ह स्फुटम् एव उवाच इत्य् अर्थः । बालैर् इति तत्-क्ष्वेलनार्थं पुरैव प्रौढानां तन्-निकट-सम्बन्धिनां च परित्यागेन बालकैर् एव सखिभिः ततो नावद्यम् ॥९॥
जीव-गोस्वामी (प्रीति-सन्दर्भ १५९) : उत्प्रासात्मको हास इति ॥९॥
जीव-गोस्वामी (प्रीति-सन्दर्भ ३७६) : अथ व्रज-कुमारीणां सन्दर्शन-संजल्पो, यथा—तासां वासांसि इति । अत्रैवं विवेचनीयम् । तेन यद्यपि तासां स्व-विषय-प्रेमोत्कर्षो जायत एव, तथापि तद्-अभिव्यञ्जक-चेष्टा-विशेष-द्वारा साक्षात् तद्-आस्वादाय तादृशी लीला स-लज्जा विस्तारिता । विदग्धानां च यथा वनितानुरागास्वादने वाञ्छा, न तथा तत्-स्पर्शादाव् अपि । तत्र लज्जा-च्छेदो नाम पूर्वानुराग-व्यञ्जको दशा-विशेषो वर्तते । तथोक्तम्—
नयन-प्रीतिः प्रथमं चिन्ता-सङ्गस् तथा सङ्कल्पः ।
निद्रा-च्छेदस् तनुता विषय-निवृत्तिस् त्रपा-नाशः ।
उन्मादो मूर्च्छा मृतिर् इत्य् एताः स्मर-दशा दशैव स्युः ॥ [उ।नी। १५.७१]
तेषु च व्यञ्जकेषु कुल-कुमारीणां लज्जा-च्छेद एव पराकाष्ठा । ता हि दशमीम् अप्य् अङ्गीकुर्वन्ति, न तु वैजात्यम् । ततोऽनुरागातिशय-स्वादनार्थं तथा परिहसितम् । सखायश् च ते—न मयोदित-पूर्वं वा अनृतं तद् इमे विदुः [भा।पु। १०.२२.११] सन्तत-तद्-अविनाभाव-व्यक्त्या हसद्भिः [भा।पु। १०.२२.९] इत्य् आदौ बाल-शब्द-प्रयुक्त्या च तदीय-सख्य-व्यतिरिक्त-भावान्तरास्पर्शिनस् तद्-अङ्ग-निर्विशेषा अत्र बाला एव च । ये चोक्ता गौतमीय-तन्त्रे प्रथमावरण-पूजायाम्—
दाम-सुदाम-वसुदाम-किङ्किणीर् गन्ध-पुर्ष्पकैः ।
अन्तः-करण-रूपास् ते कृष्णस्य परिकीर्तिताः ।
आत्माभेदेन ते पूज्या यथा कृष्णस् तथैव ते ॥ इति ।
ततो रहस्यत्वात् तादृशानुरागास्वाद-कौतुक-प्रयोजनक-नर्म-परिपाटीमयत्वात् तस्यां लीलायां न रसवत्त्व-व्याघातः प्रत्युत उल्लास एव ॥९॥ [प्रीति-सन्दर्भ ३७६]1
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्रागत्य यद् अकार्षीत् तद् आह—तासां वासांसि इत्य्-आदि । पूर्व-पूर्व-दिनवत् तीरे निक्षिप्तानि वासांसि सत्वरः सन् उपादाय द्रक्ष्यन्तीति भिया त्वरया सर्वाणि वासांसि युगपद् आदायेत्य् अत्रापि योगैश्वर्यं प्रकटितम् । हसद्भिर् वासो-रक्षकैः स्वैर् गोत्रैर् इत्य्-उक्त-प्रकारैः शिशुभिः सह हसन्, ते च बालका जहसुर् एव, न तु "कृष्णो वासांसि उपहरति" इति वदन्ति स्म । प्रहसन्न् इति तेषां हास्येन स्वयम् अपि हसन्न् एवासीत् । तत्रायं भावः—एतेऽतिशिशवोऽपि मय्य् एवं विश्वस्ता यतोऽस्मिन् वासो-हरणे कौतुकम् एव ज्ञातवन्तः, न तु चौर्यम्, यतो जहसुर् एव । न गदितवन्त इति स्वस्य च प्रहासः । नीपम् आरुह्य परिहासं परिहास-पूर्वम् उवाच । ह स्फुटम् ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हसद्भिर् बालैर् इत्य् अतिबाल्यान् निष्कारण-हासवद्भिस् तैः सह प्रकर्षेण हसन्न् इति हास्य-शब्देनैव ताः स्वम् अवधापयन्न् इति भावः । परिहासम् आह—"भो व्रज-बालिकाः ! अत्र कदम्ब-शाखास्व् एतावन्ति वस्त्राणि केन निबद्ध्य स्थापितानि, यूयं किं जानीथन वा ? मया तु गाश् चारयता दूराद् एव दृष्ट्वा किम् अयं अस्माकीनः कदम्बोऽद्य विचित्र-वासांस्य् एव पुष्प-फलानि दधारेत्य् आश्चर्य-दर्शनोल्लसितेन द्रुतम् आगत्यारुह्यत" इति।
ननु, भो अस्मदीयान्य् एवैतानि वासांसि । मैवं । तर्हि कथम् एतावद् उच्च-कदम्ब-शाखास्व् आरूढानि ?
ननु, भो त्वयैव चोरयित्वारोहितानि ? सत्यम् । सत्यम् एतावन्तम् अपि परिवादं दातुं बलं दध्वे । नन्दस्य राज्ञः पुत्रोऽहं चोरः । तद् अद्य यूयं मथुरास्थ-कंस-राजस्य पार्श्वं यियासथेत्य् अनुमीयते ।
ननु, भो मा क्रुध्य वस्त्राण्य् एव निभाल्य विचारय । किम् एतानि स्त्री-वस्त्राणि पुं-वस्त्राणि वा। सत्यम् । अयि धीमत्यो ! निभालितान्य् एतानि स्त्री-वस्त्राण्य् एव । तत् किं जगत्य् अस्मिन् यूयम् एव स्त्रियः स्थ, अन्या न सन्ति ?
ननु, भो सन्त्य् एव, किन्त्व् अस्मिन् निर्जने वनेऽस्मान् व्रज-बाला विना काः खल्व् अन्या आयान्ति ? अयि रहः-सञ्चारिण्यः किं भवत्य एव खेलन्ति, नान्याः ?
ननु, भो अन्यथा विद्वन् वयम् अत्र खेलितुं नैवागच्छामः, किन्तु कदम्ब-देवतां दुर्गां पूजयितुम् । किं भो दुर्गा-पूजिका यूयम् एव, नान्याः ? सत्यम्, नान्या एव । अयि मुग्धाः ! प्रति निशीथम् अत्रागत्य वैमानिकीभिर् देवीभिर् दुर्गा पूज्यते ।
ननु, भो पूजयन्तु नाम देवीम् । ता वस्त्राणि त्यक्त्वा कथं गताः ? अयि बालास्, तत्त्वं न जानीथ । अत्र रजन्यां पुनः पूजयिष्यन्तीभिर् वन-देवता-द्वारोच्च-शाखोपरि वस्त्राणि रक्षितानीति ॥९॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सत्वरस् तद्-दृष्टि-वञ्चनाय शीघ्रं सन् हसद्भिर् इत्य् अतिबाल्यान् निर्निमित्तं हास्यवद्भिस् तैर् बालैः सह प्रहसन्न् इति हास-शब्देन तैः स्वयम् अवबोधयन्न् इत्य् अर्थः । परिहासम् उवाच हेति—भो भोः व्रज-कुमारिकाः ! आसु नीप-शाखास्व् अमूनि वासांसि केन निबद्धानि ? किं यूयं वेत्थ, न वा ? मयि तु विदूराद् एव विलोक्य किम् अयम् अस्माकं नीप-तरुर् विचित्राणि वासांस्य् एव पुष्प-फलानि दधानोऽस्तीत्य् आश्चर्य-दर्शन-प्रहृष्टेन शीघ्रम् आसाद्यारुह्यतेति ।
नन्व्, अस्मदीयान्य् अमूनि वासांसि इति चेत्, कथम् अत्युच्चासु शाखास्व् अरूढानि ?
ननु, भोः क्रोधस् ते माभूत् । अमूनि स्त्री-वासांस्य् एव किं न परिचिनोषि चेत्, किम् इह विश्वस्मिन् यूयम् एव स्त्रियः स्थः, न त्व् अपराः सन्ति ?
ननु, व्रज-कुमारीर् अस्मान् विनास्मिन् निर्जने काः स्त्रियो विहर्तुम् आगच्छेयुर् इति चेत्, युष्मान् विना किम् अन्या निर्जन-विहारिण्यो न भवेयुः ?
नन्व्, अत्र विहर्तुं वयं नागच्छामः, किन्तु नीप-देवतां दुर्गाम् अर्चितुम् इति चेत्, किं तद्-अर्चिका नान्याः सन्ति ? इति तस्माद् अप्सरोभिः प्रति-निशीथं दुर्गार्चनीभिर् अद्यतने निशीथे ताम् अर्चिष्यन्तीभिः स्नात्वा परिधातुम् अमून् आसु शाखासु स्थापितानीति ॥९॥
॥ १०.२२.१० ॥
अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् ।
सत्यं ब्रुवाणि नो नर्म यद् यूयं व्रत-कर्शिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे अबलाः ! नो नर्म न परिहासः यस्माद् यूयं व्रत-कर्शिताः व्रत-श्रान्ताः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र कदम्बाधो-भागे । कामं निश्चितम् । कामो निश्चय-वाञ्छयोः इति शाश्वतः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : परिहासम् एवाह—यद् यूयं व्रत-कर्शिताः इति । व्रत-पराभिः सह परिहासो न युज्यते इत्य् एव परिहासः ॥१०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परिहासोक्तिम् एवाह—अत्र इति द्वाभ्याम् । अस्मिन् मन्-निकटे नीप-तले । हे अबलाः ! इत्य् अधुना युष्माकं शक्त्या किञ्चिद् अपि न स्याद् इति भावः । कामं यथेष्टं प्रकर्षेण गृह्यताम् । पुनर् मया तत्र कश्चिद् अन्तरायो न कार्य इत्य् अर्थः । स्वं स्वम् इति सर्वाभिर् एवागत्य निज-निजं प्रत्येकं गृह्यताम्, न त्व् एकया द्वित्राभिः कतिभिश्चिद् वा आगत्य सर्वासाम् एव गृहीतव्यं ।
ननु, स्त्रीषु मिथ्योक्तेर् दोषत्वाद् विशेषतश् च परिहास-शीलत्वात् तवोक्तौ न प्रतीतिः । तत्राह—सत्यम् इति । ब्रुवाणि इत्य् आर्षं ब्रवाणीत्य् अर्थः । "करवाणि" इत्य्2 एव क्वचित् पाठः । न चैतद् अपि नर्म एवेत्य् आशङ्कनीयम् इत्य् आह—यद् यूयम् इति । व्रत-कृशासु तपस्विनीषु नर्मणोऽयोग्यत्वाद् इति भावः । एषा परम-परिहासोक्तेर् एव भक्ति-विशेष-स्वभावेन । सदा परम-हृष्टानां तासां व्रत-कृशत्वाद्य्-अदर्शनात् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परिहासोक्तिम् एवाह—अत्र इति द्वाभ्याम् । अत्रागत्य इति निर्भर-स्व-दृष्टि-विषयं दर्शयति । अत्रैव वस्त्र-पक्षे पर्याप्तिर् इति व्याजेन कामं यथेष्टं प्रकर्षेण गृह्यताम् इति । झटित्य् आगमनाय ताः प्रोत्साहयति तथा स्वस्यौदासीन्येन चौर्येऽप्य् औदासीन्यम् अत्र चेमानि केनचित् चोरेणापहृत्यापहृत्य कदम्बेऽस्मिन् गोप्यमानानि मया दूरात् दृष्ट्वा समागतम् इति सूचयति—स्वं स्वम् इति । सर्वाभिर् एवागत्य निजं निजं गृह्यतां, न त्व् एकया द्वित्रभिः कतिभिश्चिद् वा सर्वासाम् एव गृहीतव्यं । कदाचिद् युष्मासु कपट-युवतीभिः परिवर्तितापीति भावः
गूढो भावस् त्व् अस्य एवोह्यः । ननु, तवोक्तौ न प्रतीमस् । तत्राह—सत्यम् इति । ब्रुवाणि इत्य् आर्षं ब्रवाणीत्य् अर्थः । "ब्रवाणि" इत्य् एव क्वचित् पाठः ।
ननु, नर्मणा मिथ्यापि ब्रूयाः ? तत्राह—न नर्म इति । नन्व् एतद् अपि तव नर्मैवेत्य् आशङ्क्याह—हे अबलाः ! यद् यूयम् इति अबलासु तारुण्याद्य्-अप्राप्त्या बलम् अप्राप्तासु तत्रापि व्रत-कृशासु तपस्विनीषु नर्मणोऽत्ययोग्यत्वाद् इति भावः । अनेन च स्वयं न चोरितं, किं त्व् अन्येनैवेति व्यज्य पुनर् औदसीन्य-व्यञ्जक-नर्मणा तासां मनः क्षोभयति । अधुना किं कर्तुं शक्नुथेति भीति-दर्शन-नर्मणा सान्त्वयति च ।
यद् वा, यदि नर्म न भवति, तर्ह्य् अम्बराणि कथं गृह्णीयात् ? इति चेत्, तत्राह—अबलाः । यूयम् अबलाः । तत्रापि व्रत-कृशाः अतो यद्य् अत्र दुष्टो नरो वानरो वा आगत्य क्रीडा-रस-पराणाम् अनवहितानाम् अंशुकान्य् आदद्यात्, तदा मम राज-पुत्रत्वात् महती लज्जा स्याद् इत्य् अभिप्रेत्य गृहीतानि तानि, न तु नर्मणार्थम् इति भावः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं तद् इत्य् आह—अत्रागत्य इत्य्-आदि । हे अबलाः ! मया कौतुकेन वो वासांस्य् अपहृतानि । अत्रागत्य स्वं स्वं वासः प्रगृह्यताम् ।
ननु, अपहृतानि चेत् कथं दास्यसि ? मृषैव भाषसे, तद् वयं न यास्याम इत्य् आह—सत्यं ब्रवाणि, न नर्म परिहासः । परिहासो नायम् इति कथम् अवगन्तव्यम् ? तत्राह—यद् इति । यद् यस्माद् यूयं व्रत-कर्षिता व्रत-स्थाः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ह-शब्दोक्तं स्पष्टं परिहासम् आह—अत्रेति । सत्यं युष्माकम् एवैतानि वस्त्राणि चेत्, कामं यथेष्टम् एव अत्रागत्य स्वं स्वं परिचित्य मत्-प्रत्ययार्थं शपथं कृत्वा, धन-रक्षकाय मह्यं पारितोषिकम् एकैकं हारं दत्त्वा, वासो गृह्यताम् । स्वं स्वम् इति सर्वाभिर् एवागत्य, न त्व् एकया द्वित्राभिर् वा आगत्य वस्त्र-लोभवतीनां स्त्रीणाम् अधिक-ग्रहणस्यापि सम्भविष्णुत्वात् ।
ननु, गन्तुं न शक्नुमः, तत्र सहासम् आह—हे अबलाः ! मन्ये व्रत-कार्श्याद् एवात्रागन्तुं न शक्नुथेति भावः । यद् वा, तर्हि न दास्यामि प्रबलस्य मम किं कर्तुं शक्नुथ ? इति भावः ।
ननु, कपटिनस् तवोक्तौ न प्रतीमः, तत्राह—सत्यं, तथ्यम् एव । ब्रुवाणि इत्य् आर्षं ब्रवाणीत्य् अपि क्वचित् पाठः ।
यद् वा, सत्यं शपथे कृत्वा ब्रवीमि, सत्यं शपथ-तथ्ययोः इत्य् अमरः । न तु नर्म, यतो व्रतेन कृशीकृता यूयम् । तपस्विनीषु युष्मासु दया भक्तिश् च धर्म-भयं चोत्पद्यत इति भावः ॥१०॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु, रसिक-मौले ! अमून्य् अस्माकम् एव वासांसि अस्मद्-अभीष्टया दुर्गया सङ्कल्पेनैव नीप-शाखास्व् आरोहितानि । दिवसे तद्-अर्चनीभिर् अस्माभिः पुनः परिधेयानीति चेत्, तत्राह—अत्र इति । चेद् अमूनि तावकानि, तर्हि अत्रागत्य स्वं स्वं वासः परिचित्य प्रगृह्यताम् । ननु मुद्रित-नेत्रश् चेत् तानि दद्याः, तर्ह्य् आगच्छामः, किन्तु कपटिनस् तवोक्तौ न प्रतीतिर् इति चेत्, तत्राह—सत्यं शपथं कृत्वा ब्रुवाणि, नो नर्म करोमि, तथैव दद्याम् इति भावः । यद् यूयं व्रतेऽतितपस्विनीषु युष्मासु मे दया-भक्तिर् धर्म-भयं चोत्पद्यते इति भावः ॥१०॥
॥ १०.२२.११ ॥
न मयोदित-पूर्वं वा अनृतं तद् इमे विदुः ।
एकैकशः प्रतीच्छध्वं सहैवोत3 सुमध्यमाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रास्माकम् आग्रह इत्य् अर्थः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वस्मिन् काले उदितम् उदित-पूर्वम् । आहिताग्न्य्-आदिवत् समासः । तत् मत्-कर्तृक-सत्य-भाषण-रूपं वृत्तम् । इमे गोपाः । आग्रहो हठः । इत्य् अर्थ इति—मम तु भवतीनां शुद्ध-भाव-दर्शन एवाग्रह इति तात्पर्यम् । प्रतीच्छध्वम् इत्य् अत्रात्मने-पदम् अर्मस्, स्वीकारार्थश् चानेकार्थत्वात् ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न मयोदित-पूर्वम् इत्य्-आदि । मयोदित-पूर्वं वै, न अनृतं मृषा। तद् इमे तावका एव विदुः ॥११॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु स-परिहासोक्तेर् असत्यतैवावगम्यते ? तत्राह—नेति । उदित-पूर्वं पूर्वं पूर्वम् उक्तं यत् तद् अनृतं मिथ्या नैव भवति । यद् वा, अनृतं न मया उदित-पूर्वम् । कदाप्य् अनृतं पूर्वं नोदितम् इत्य् अर्थः । वै प्रसिद्धौ । तच् च इमे मत्-सहचरा विदुः, सर्वत्र सदैकत्र चोरित्वेनैषाम् एव मदीयाशेष-वृत्ताभिज्ञानात् ।
ननु, त्वद्-वयस्या अपि त्वत्-सदृशा एवेति चेत्, तत्राह—एकैकश आगत्य स्वकीय-वस्त्रं गृह्णीत, यद्य् एकयात्रागतया स्व-वस्त्रं न प्राप्यते, तदा मद्-वचनं मिथ्यैवेति मन्तव्यम् इति भावः । अहो किम् एव विलम्बाचरणेन वा, मम वचसः सत्यता हृदि च कलुषता काचिन् नास्त्य् एवेति बोधयन् पक्षान्तरम् आह—सह इति । उत वा-शब्दार्थे । हे सुमध्यमाः ! इति युष्माकं मध्य-भागादि-सौन्दर्यम् एव द्रष्टुम् इष्यते, न च वस्त्रैर् एतैर् मत्-प्रयोजनम् इति गूढोऽभिप्रायः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु स-परिहासोक्तेर् असत्यतैवावगम्यते । तत्राह—नेति । उदित-पूर्वं पूर्व-पूर्वम् उक्तं यत् तद् अनृतं मिथ्या नैव भवति । यद् वा, अनृतं न मया उदित-पूर्वम् । कदाचिद् अप्य् अनृतं पूर्वं नोदितम् इत्य् अर्थः । तच् च इमे मत्-सहचरा विदुः । एषाम् एव मदीयाशेष-वृत्ति-ज्ञानात् ।
ननु, त्वद्-वयस्या अपि त्वत्-सदृशा एवेति चेत्, तत्राह—एकैकश आगत्य स्वीयं वस्त्रं गृह्णीत,
यदि पूर्व-पूर्वस्याम् अन्यथा स्यात्, तदैव उत्तरोत्तराभिर् मद्-वचनं मिथ्या मत्वा नागन्तव्यम् इति भावः । अहो प्रथमोत्थाने सर्वासाम् असम्मतिः स्यात्, उत्थितायां च कस्याञ्चिद् अन्यासां क्रम-घटना दुर्घटा स्याद् इति किम् एवं विलम्बाचरणेन वा मम वचसि मनसि च कापि वक्रता नास्त्य् एवेति बोधयन् पक्षान्तरम् आह—सह इति । उत वा-शब्दार्थे । हे सुमध्यमाः ! इति कृश-मध्यानां युष्माकं शीताम्भसि चिरम् ऊर्ध्व-स्थितिर् मां कृपयतीति भावः । युष्माकं मध्य-भागादि-सौन्दर्यम् एव द्रष्टुम् इष्यते, न च वस्त्रैर् एतैर् मत्-प्रयोजनम् इति तु निगूढो भावः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रति परिहासो न क्रियते । यद्य् एवं, तर्हि यत्रासन् वासांसि, तत्रैव स्थापयित्वा भगवान् गच्छतु ? नेत्य् आह—न मया इति । अहं तु सत्य-वाक् मयोदित-पूर्वं अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् [१०.२२.१०] इति यत् तन् नानृतं, तत् सत्यम् एव । तद् अन्यथा कर्तुं न शक्यते । सत्य-वाग् इति स्व-मर्यादां कथं स्वयम् एव दूरीकरिष्यते ? तन् मम सत्य-वाक्त्वं इमे सर्वे लोका विदुर् जानन्ति । अन्यथा सत्यं ब्रुवाणि नो नर्म [१०.२२.१०] इत्य् अनेनैव सिद्धः । पुनर् न मयोदित-पूर्वम् इत्य्-आदिना पौनरुक्त्या वक्तृ-दोष-प्रसङ्गः । अतोऽयम् एव पक्षः साधीयान् रसश् च । तत् तस्माद् एकैकश एव वा प्रतीच्छध्वम् उत सहैव वा ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, मिथ्या-वादिनस् तव शपथेऽपि न विश्वसिम इति तत्र स-रसना-दंशम् आह—नेति । उदित-पूर्वम् इति सुप्-असुपेति समासः अनृतं न पूर्वम् उदितम् इति । एतज्-जन्मनि एतावद्-वयः-पर्यन्तं त्व् अनृतं न परिचिनोमि । अत्र किं प्रमाणम् ? इति चेद्, इमे बाला एव बालानां यथा-दृष्ट-ग्राहित्व-स्वभावाद् आर्जवां चेति भावः ।
ननु, दूरतोऽत्र जले वस्त्राणि क्षिप्यन्तां, बाल-द्वारा वा दीयन्तां, तत्र—हन्त हन्त ! एतानि युष्मदीयान्य् अन्यदीयानि वा मया ज्ञातुम् अशक्यानि कथं दीयन्ताम् ? अस्मद्-विधैर् धार्मिकैः पर-द्रव्याणि नखाग्रेणापि न स्पृश्यन्ते, तस्मात् यूयम् अत्रागत्य प्रतीच्छत स्वं स्वं परिचित्य गृह्णीत, यतः पारक्यं वस्तु न गृह्णामि, न ददामि, नापि स्पृशामीति मम नियमः ।
ननु, त्वया धृष्टेन करिष्यमाणाद् विडम्बनाद् भीत्यैव कुल-कुमार्यो वयं त्वत्-समीपं न यामः, तत्राह—एकैकश इति । प्रथमं युष्माकम् अवरा काचिद् इहागच्छतु । तस्याम् अविडम्बतायां सत्याम् अन्या अन्या अप्य् आयान्तु सह एव उत इति युगपद् बह्वीनाम् आगमने स्त्रीणां विडम्बनासम्भवाच् चेति भावः । हे सुमध्यमाः ! इति शिरांसि खलूत्तमाङ्ग-शब्देनोच्यन्ते, तान्य् अतिसुन्दराणि भवत्यः कृपया मां यदि दर्शयन्त्य् एव, तदा मध्यमाङ्गान्य् अपि सुन्दराणि मां दर्शयितुं का लज्जेति भावः ॥११॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु मिथ्याभिशंसिनस् तवोक्तौ न विस्रम्भ इति चेत्, तत्र स-रसना-दंशम् आह—न मया इति । वै निश्चयेन मया अनृतं नोदित-पूर्वं सुप्सुपेति समासः । अनृतं न पूर्वम् उदितम् अत्र किं मानम् ? इति चेत्, तत्राह—हे बालाः ! यथा-दृष्ट-ग्राहिणस् तद् विदुर् जानन्ति । एवम् अपि विवसनानां नस् त्वद्-अन्तिके गमनं न युक्तं, ततो दूराद् एवास्मद्-वासांसि प्रक्षेप्याणि, बालैर् वा देयानीति चेत्, तत्राह—एकैकश इति । कस्याः कानीति मया परिचेतुं न शक्यन्ते, ततो यूयम् एवेहागत्य तानि प्रतीच्छध्वं नयत मया मुद्रित-नेत्रतयैव देयानीति भावः । मद्-वचस्य् अनास्था चेद् एकस्यां वस्त्राणि नीत्वा निर्वाह्य गतायां सञ्जातास्थाः सर्वाः सहैव्अ आगत्य नयन्त्व् इत्य् अर्थः । सुमध्यमा इति तन्-मध्य-वीक्षाभिलाषः ॥११॥
॥ १०.२२.१२ ॥
तस्य तत् क्ष्वेलितं श्रुत्वा4 गोप्यः5 प्रेम-परिप्लुताः ।
व्रीडिताः प्रेक्ष्य चान्योऽन्यं जात-हासा न निर्ययुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्ष्वेलितं परिहासम् । प्रेम-परिप्लुताः प्रेम-रस-निमग्नाः ॥१२.१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कृष्णस्य । तद् वचः । क्ष्वेलितं, क्ष्वेलितं सिंह-नादे च परिहासे विष-प्लुते इति पद-रत्नाकरे । न निर्ययुः बहिर् नायाताः । जलाद् इति शेषः ॥१२॥
कैवल्य-दीपिका : मध्यम-हास्यम् आह—तस्य इति । तस्य श्री-कृष्णस्य । तद् वस्त्रादान-रूपं क्ष्वेलनं परिहास-चेष्टा । व्रीडिता नग्नत्वात् । न निर्ययुर् जलाशयात् । अत्र दैव आलम्बनम् । क्ष्वेलनं विभावः । अन्योन्य-प्रेम-लक्षणम् अनुभावः । व्रीडा सञ्चारी । न चात्र शृङ्गार एव हास्याङ्ग-भूतो वेति वाच्यम् । अद्यापि तासां कौमारानपगमात् । शृङ्गारो हि युव-प्रकृतिः । अत एवाचार्येण गोप-कन्या इत्य् उक्तम् । तासां च यशोदापेक्षया मध्यमत्वेन हास्य-मध्यमत्वं तृतीयं स्वयं स्व-संज्ञेयम् ॥१२॥ [मु।फ। ११.६]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्य तद् इत्य्-आदि । क्ष्वेलितं खेलां दृष्ट्वा [बालाः] गोप्यो गोप-कुमार्यः प्रेम-परिप्लुताः सत्यो न निर्ययुः, सलिलान् नोत्तेरुः । अयं हि प्रेमाख्यो दशमो रसः । तथा हि मम-कारोऽत्र स्थायी भावः । अवलम्बनं श्री-कृष्णः । उद्दीपनं तत्-क्ष्वेलितादि। अनुभावः अन्योन्यं प्रेक्षणादि । व्यभिचारी व्रीडिता इति व्रीडा । एभिः परिपुष्टो मम-कारः स्थायी रसताम् आपन्न इति प्रेमाख्यो रसः । अतः कुमारीणां प्रेमाख्य एव रसः, न शृङ्गारः । यत् तु गोप्यः कामाद् [भा।पु। ७.१.३०] तद् अन्य-परम् । केवलेन हि भावेन [भा।पु। ११.१२.८] इति यत्, तद् एव कुमारिका-परम् ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्ष्वेलितं परिहासोक्तिम् । प्रेम-परिप्लुता इति गोपीत्वेन स्वभावत एव तस्मिन् प्रेमवत्यः, विशेषतश् च तत्-क्ष्वेलितं श्रुत्वा अधिकं प्रेम-रसे निमग्ना इत्य् अर्थः । जात-हासाश् च सत्यो न निर्ययुः । यतोऽन्योन्यं प्रेक्ष्य व्रीडिताः । यद् वा, प्रेम-परिप्लुतत्वाद् एव व्रीडिता जात-हासाश् च जात-स्मिताः । अनिर्याणे ऐकमत्यार्थम् अन्योन्यं प्रेक्ष्य । यद् वा, निर्यातु-कामा अपि अन्योन्यं प्रेक्ष्य नग्नत्वेन व्रीडिताः । तेनैव अन्योन्यं प्रेक्ष्य जात-हासाश् च न निर्ययुः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रेम-परिप्लुता इति गोपी-विशेषत्वेन स्वभावत एव प्रेम-विशेषवत्यः, सम्प्रति तु तत् क्ष्वेलितं परिहासोक्तिं दृष्ट्वा ज्ञात्वा अधिक-प्रेम-रसे निमग्ना इत्य् अर्थः । तत्र च जाति-स्वभावेन व्रीडिताः व्रीडया हर्षेण चान्योन्यं प्रेक्ष्य जात-हासाश् च सत्यो न निर्ययुः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् आकर्ण्य तास् तदा यथासन् तद् दर्शयति—तस्य इत्य्-आदि । तस्य भगवतस् ततः क्ष्वेलितं क्ष्वेलां लीलाम् इति यावत् । गोप्यो गोप-कुमार्यः प्रेम-परिप्लुताः सत्यो न निर्ययुः । अन्योन्यं प्रेक्ष्य जात-हासा इति हासः, व्रीडिता इति व्रीडा च व्यभिचारिणी प्रेमाख्योऽयं रसः । तेन प्रेम-रस-भक्ताः कुमारिका इत्य् आयातम् ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्ष्वेलितं रहस्य-परिहासं दृष्ट्वा प्रेम-परिप्लुता इति “मन्यामहे इमम् एव6 कान्तं सुखयितुम् अस्माकम् अहंतास्पदान्य् अनुरूपाणि किं भविष्यन्ति ?” इति मनोऽनु-लापानन्देन मग्नाः । बहिस् त्व् अन्योन्यं प्रेक्ष्य7 व्रीडिता इति “अयि कमलेक्षणे ! त्वाम् आह्वयत्य् अयम्” । तथा हि—“अयि सुधा-मुखि ! त्वम् एव याहि सुधां पाययन्ती” इत्य् अन्योन्यं जात-हासाः परिजहसुर् एव, न तु निर्ययुः ॥१२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तस्य नन्द-सूनोः स्व-नाथस्य तत् क्ष्वेलितं रहस्य-परिहासं दृष्ट्वा, तत्-प्रेम्णा परिप्लुता दिग्धास् तद्-अर्थम् [अनसस्था]{।मर्क्} **गोप्योऽन्योन्यं प्रेक्ष्य "**त्वम् आदौ याहि । त्वय्य् एव निहित-चित्तोऽसौ त्वम् एवादौ याहि" इत्य् अन्योन्यं जात-हासा एव तस्थुः, न तु जलान् निर्ययुः ॥१२॥
॥ १०.२२.१३ ॥
एवं ब्रुवति गोविन्दे नर्मणाक्षिप्त-चेतसः ।
आकण्ठ-मग्नाः शीतोदे वेपमानास् तम् अब्रुवन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या । वेपमानाः कम्पमानः । तं श्री-कृष्णम् ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं ब्रुवति इत्य्-आदि । एवं पूर्वोक्त-प्रकारम् । आकण्ठ-मग्ना इति पूर्वं वक्षो-दध्न-जलस्था एवासन् श्री-कृष्ण-स्वरं श्रुत्वा आकण्ठ-मग्ना बभूवुर् इति भावः । वेपमानाः शीतेन भावेन वा ॥१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं ब्रुवति इति । पुनः पुनस् तथैव नाना-प्रकारं वदतीत्य् अर्थः । गां वाचं निज-वश्यतया विन्दन्तीति गोविन्दः । तस्मिन्न् इति परम-वाग्मिताभिप्रेता । नर्मणाक्षिप्तानि आकृष्टानि चेतांसि यासां ताः । अतोऽब्रुवन्, अन्यथा व्रीडया नावदिष्यन्न् इत्य् अर्थः । किं च, वेपमानाः । तत्र हेतुः—शीतोदे शीतल-जले आकण्ठ-मग्ना, लज्जया वक्षः-स्थलाच्छादनाय कण्ठ-पर्यन्तं चिरं प्रविष्टाः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं ब्रुवति इति । पुनः पुनस् तथैव नाना-प्रकारं वदतीत्य् अर्थः । गां वाचं निज-वश्यतया विन्दन्तीति गोविन्दः, तस्मिन्न् इति परम-वाग्मिता अभिप्रेता । नर्मणाकृष्ट-चेतस्त्वेनैव अब्रुवन्, अन्यथा नावदिष्यन्न् इत्य् अर्थः । किं च, वेपमानाः । तत्र हेतुः--लज्जया शीतोदकेऽप्य् आकण्ठ-मग्नाः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न निर्ययुः [भा।पु। १०.२२.१२] इति यद् उक्तं तत्-पश्चात् किं चक्रुः ? इत्य् आशङ्क्याह—एवं ब्रुवति इत्य्-आदि । एवं पुरा यद् भणितं—अत्रागत्य [भा।पु। १०.२२.१०] इत्य्-आदि, तद् एव पुनर् वदति सति गोविन्दे आकण्ठ-मग्नाः सत्य एव तम् अब्रुवन् ऊचुः । पूर्वं नाभि-दध्ने जले आसन्, अत्रागत्येति तस्य वचः श्रुत्वा पुनः कण्ठ-दध्नः जलं गता इति भावः । शीतोदे इति वेपमाना इत्य् अस्य हेतुः । वेपमानत्वम् आलोक्य करुणया वसनानि शीघ्रं दास्यतीत्य् आशयेन नोपात्तम्, स्वभावोक्तिर् वा । नर्मणा तत्-परिहासोक्त्या आक्षिप्तम् आन्दोलितं चेतो यासाम् ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं नाना-प्रकारं नर्म ब्रुवति सति गोविन्दे, गा नर्म-मधुर-वाचो विन्दन्तीति तस्मिन् । तच् चेदं नर्म—
—भोः खञ्जनाक्ष्यः ! यदि यूयं नागच्छत तदा एतैर् एव वासोभिः शाखा-निबद्धैर् हिन्दोलिकाम् उपधानादिकं च विरचय्य मया शय्यते रात्राव् अद्य कृत-जागरं माम् निद्रा सम्प्रत्य् आयाति ।
—भो गोपाल ! तव गावः तृण-लोभेन गह्वरं प्रविष्टाः, ततस् ताः परावर्तयितुं द्रुतम् इतो याहि ।
—भो भो गोप-बालाः ! द्रुतम् इतो गृह-कृत्यार्थं व्रजं व्रजत । पित्रादि-गुरु-जनान् मा समञ्जसम् अभ्यूहयथ ।
—भो पिञ्छ-चूड ! वयम् इतो मासं व्याप्य गृहं न यामः । पित्रादि-गुरु-जनादेशेनैव कात्यायनी-व्रतं समाप्य मास-मात्रम् उदवास-व्रतं कुर्मः ।
—भोस् तपस्विन्यः ! अहम् अपि युष्मद्-दर्शन-प्रभावाद् उद्भूत-गृह-वास-वैराग्यः सम्प्रति मासं व्याप्य अत्रैव नभो-वास-व्रतं चिकीर्षामि । यदि चानुकम्पध्वे, तदा त्व् इतोऽवरुह्य युष्माभिः समम् उदवास-व्रतम् एव कर्तुं प्रयामि ।
इति नर्मणा आक्षिप्त-चेतसः शङ्कया, ततोऽप्य् अधिक-जले आकण्ठ-मग्नाः वेपमानाः शीतेन शङ्का-हर्षोत्सुक्यादिभिश् च ॥१३॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : गा रुचिर-नर्म-वाचो विन्दतीति तस्मिन् गोविन्दे एवम् ईदृशं विविधं नर्म ब्रुवति, तेन नर्मणा—भोश् चन्द्रमुख्यः ! यदि भवत्यो नायान्ति, तर्हि एतैर् वासोभिर् नीप-शाखानि बद्धैः हिन्दोलां निर्माय तैर् एव निर्मित-शय्योपधानेन मया निशि जागरितेन सम्प्रति जात-निद्रेण सुप्यते ।
—भो गोपाल चूडामणे ! गावस् ते तृण-लोभाद् गह्वरं प्रविविशुः । ताः सम्भालय ।
—भो गोप-कुमार्यः ! स्व-गृहं व्रजत, अतिविलम्बे पित्रादिभिर् विपरीतं सम्भाव्येत ।
—भो रसिक-मौले ! पित्राद्य्-अनुशासनारब्ध-व्रताभिर् अस्माभिर् मासम् एकम् उदवासः करिष्यते ।
—भो व्रतिन्यः ! युष्मद्-दर्शन-प्रभावात् सञ्जात-स्व-गृह-विरागो निवृत्त-क्षुत्-पिपासो मासम् एकम् इहैव नभो-वास-व्रतं चिकीर्षामि । कृपा चेद् इतोऽवरुह्य साकं भवतीभिर् उदवासम् इत्य् एवं-विधेन आक्षिप्तानि चेतांसि यासां, तादृश्यः सत्यस् ततोऽधिके आकण्ठ-मग्नाः शीतोदे तस्मिन् वेपमानाः शङ्का-हर्षौत्सुक्यादिभिश् च स-कम्पा इत्य् अर्थः ॥१३॥
॥ १०.२२.१४ ॥
मानयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् ।
जानीमोऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र मुग्धा ऊचुः । अङ्ग ! भोः श्री-कृष्ण अनयम् अन्याय्यं मा कृथाः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तासां मध्ये । मुग्धाः अङ्कुरित-यौवना मुग्धाः । अङ्कुरादेर् वृक्ष-धर्मत्वेन यावनबाधात् प्रत्ययत्वं लक्ष्यते । तेन शोभातिशयो व्यज्यते । एवं च पति-मात्रानुरागवत्त्वे सति प्रत्यग्र-यौवनत्वम् इति फलितं मुग्धा लक्षणं, तेन सामान्य-वनिता-प्रतिपालितास्व् अङ्कुरित-यौवनासु नातिव्याप्तिः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : प्रथमतः पूर्व-सिद्धाः साम-पूर्वक साम-पूर्वकम् आहुः—मानयं भोः कृथा इत्य्-आदि । त्वां जानीमः । अद्य ज्ञातव्य इति न हि । अङ्ग सादर-सम्बोधनेऽङ्ग-शब्दः । व्रज-श्लाघ्यम् अङ्ग व्रजे श्लाघ्यम् इति वा सर्वाङ्ग-सुन्दरम् इति भावः । प्रियं प्रियाकारं प्रीणातीति प्रीतं वा । तस्माद् वासांसि देहि । प्रियत्वेनास्माकं दुःखदः कथं भवसि ? पश्य वयं वेपिताः । अतः परं हि मोदे स्थतुं न शक्यते ॥१४॥
मानयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् ।
जानीमोऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदौ साम्नाहुः—मा इति । प्राग् एव मा-शब्द-निर्देशो व्यग्रतया अनयाकरं दार्ढ्यार्थं वा भो इति । अङ्गेति च स-प्रेम-सम्बोधने, अत एव द्विरुक्तिः । नन्द-गोपस्य सुतं जानीम इति त्वं गोप-कुमारः, वयं च गोप-कन्यका इति अस्मान् प्रत्य् एतादृशम् अन्याय्यं कर्तुं नार्हसीति । किं वा, नन्दयति व्रजम् इति नन्दो यो गोपः व्रज-राजस् तस्य सुतम् इति प्रजास्व् अस्मासु युव-राजसय तव कृपैवोचिता, न तु स्व-पितृ-प्रतिकूलं दुःख-दानादि-कर्मेति ।
यद् वा, नन्द-गोपस्य सुतम् इति सर्व-व्रज-जनाजीव्य-रक्षकस्य तव विरुद्धाचरणं न युक्तम् इति भावः । तत्र च प्रियं प्रिय इति जानीमः । अतोऽस्माकम् अप्रियाचरणम् अन्याय्यम् एवेति भावः । किं च, व्रजे व्रज-मध्ये व्रजेन वा श्लाघ्यं च जानीमः । अतो व्रज-निन्द्यैतत्-कर्माचरणम् अयुक्तम् एवेति भावः । यतो वेपिताः वयम् ।
यद् वा, वेपिताः प्रति इति कृपां जनयन्ति। यद् वा, त्वां प्रियं व्रज-श्लाघ्यं च जानीमः, यत् त्वया वस्त्र-हरणाच् छीतोदे आकण्ठ-मग्ना वेपिताः कम्पं प्रापिता इति सोत्प्रास-नर्मोक्तिः॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आदौ साम्ना आहुः—मा इति । प्राग् एव मा-शब्द-निर्देशो व्यग्रतया अनयाकरण-दार्ढ्यार्थं वा भो इति । अङ्ग इति च स-प्रेमार्ति-सम्बोधने । अत एव द्विरुक्तिः । नन्द-गोपस्य सुतं जानीम इति त्वं गोप-कुमारः, वयं च गोप-कन्यका इति अस्मान् प्रत्य् एतादृशम् अन्याय्यं कर्तुं नार्हसि । श्लेषेण नन्दयति व्रजम् इति नन्दो यो गोपः व्रज-राजस् तस्य सुतम् इति प्रजास्व् अस्मासु युवराजसय तव न्याय एवोचितः, न तु स्व-पितृ-प्रतिकूलं दुःख-दानादि-कर्मेति ।
यद् वा, नन्दस्य गोपं सुतम् इति सर्व-व्रज-जनाजीव्य-रक्षकस्य तव विरुद्धाचरणं न युक्तम् इति भावः । अत एव तन् नाम-न्याय्यम् एवेति भावः । किं च, व्रजे व्रज-मध्ये व्रजेन वा श्लाघ्यं च जानीमः । अतो व्रज-निन्द्यैतत्-कर्माचरणम् अयुक्तम् एवेति भावः । दाने हेतुः वेपिताः वयम् । यद् वा, वेपिताः प्रति इति कृपां जनयन्ति॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यद् अब्रुवंस् तद् आह—मानयं भो इत्य्-आदि । प्रथमतः साम-पूर्वकम् एव वक्तुम् उचितम् इति वचन-परिपाटी । तद् यथा—भो श्री-कृष्ण ! मा अनयं कृथाः, त्वां तु जानीमः अनीति-कारी न भवसीति, यतो नन्द-गोप-सुतः व्रज-राज-सुतम् इति ताभिर् उक्तस्य तत् प्रतिशब्देन कवेर् एवेयम् उक्तिः । व्रज-राज-कुमारस्य त्व् अनयो मास्त्य् एव, परन्तु अनय-कारिणां निवारण-कर्तृत्वम् एव । तत्रापि प्रियं सर्वोत्तमम्, यतो व्रज-श्लाघ्यम् । अनय-कारिणं हि न कोऽपि श्लाघते, तस्माद् अनयं मा कृथाः । किं करिष्यामि ? तद् उच्यताम् इत्य् आशङ्क्याह—देहि वासांसि । क्षण तिष्ठत, विलम्बेन दास्यामीत्य् आशङ्क्याह—वेपिताः, कम्पिताः स्म इत्य् अर्थः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं साम्ना आहुः—अनयम् अन्याय्यं मा कृथाः । ननु मुग्धाः यूयं मां नैव परिचिनुथ, यतो मय्य् अप्य् अनीति-कलङ्कं दातुं न शङ्कध्वे ? तत्राहुः—त्वां तु इति । अन्यान् व्रज-स्थान् अपि न जानीम एव, त्वां त्व् अतिप्रसिद्धं नन्द-राजस्य सुतं जानीम एव, गोपो भूपेऽपि दृश्यते इत्य् अभिधानात् । तत्रापि **व्रज-**स्थ-मात्रस्यापि श्लाघ्यम्, तत्रापि प्रियम् । ननु, भो निर्बुद्धयः ! यद्य् अहं राज्ञः पुत्रस्, तर्हि कथं मय्य् अनीतिः ? राज-पुत्रा अपि क्वचिद् अनीतिमन्तः ? इति चेत् कथम् अहं व्रज-श्लाघ्यः प्रियश् च नह्य् अनीतिमत्सु श्लाघा प्रीतिर् वा सम्भवेद् इति भावः ।
ननु, सत्यं स्त्रियो वयं वक्तुम् अनभिज्ञास् तस्मात् कृपयैवापराधं क्षान्त्वा वासांसि देहि वेपिता वयम् इति कृपां जनयन्ति॥१४॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : आदौ साम्नाहुः—भोः अनयम् अनीतिं मा कृथाः ! ननु मय्य् अनीति-कलङ्कम् अर्पयथ ? तत्राहुः—त्वां नन्दाभिधानस्य गोपस्य राज्ञः सुतं व्रज-मात्रस्यापि श्लाघ्यं तत्रापि प्रियं जानीमः । नन्व् ईदृशश् चेद् अहं तर्ह्य् अनीतिर् मयि कथम् उक्ता ? तत्राहुः—वेपिता वयम् अस्मद्-अपराधं क्षान्त्वा वासांसि देहि इति दयाम् अजनयन् स्त्री-प्रज्ञयानयं मा कुर्व् इत्य् उक्तिर् इति भावः ॥१४॥
॥ १०.२२.१५ ॥
स्याम8 सुन्दर ते दास्यः करवाम तवोदितम् ।
देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रौढा ऊचुः । नो चेद् राज्ञे नन्दाय कंसाय वा ब्रुवाम । ब्रुवाम हे कृष्णेति॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रौढाः पति-मात्र-विषय-केलि-कलाप-कोविदाः प्रौढाः । पत्य्-अतिरिक्त-केलि-कलाभाववत्त्वे सति केलि-कला-प्रावीण्यम् इत्य् अर्थः । वेश्यायां कुलटायां च पति-मात्र-विषयत्वाभावान् नातिव्याप्तिर् इति । “नन्दस्य पितृत्वात् ततो न मे भयम्” इत्य् अस्वारस्याद् आह—कंसाय वा इति । केचित् त्व् अत्र वर्ण-चतुष्टयजास् ता इत्य् ऊचुः । दास्य इत्य् उक्तवन्त्यः शूद्रजाः । करवाम इत्य्-आदि-वचना वैश्यजाः । देहि इत्य्-आदि-वचना विप्रजाः । नो चेद् इत्य्-आदि-वचनाः क्षत्रियजा इति ।
न जार-जातस्य ललाट-शृङ्गं
कुल-प्रसूतस्य न पाणि-पद्मम् ।
यथा यथा मुञ्चति वाक्य-जालं
तथा तथा तस्य कुले प्रमाणम् ॥ इत्य् अभियुक्तोक्तेः परीक्षा सुलभैव ।
अत्र च जाति-निर्णयार्थं राजान्तर-प्रेषित-तुल्य-रूप-विद्यादि-गुणाः चतस्रः कन्यका यथा कालिदासेन तद्-वचनानुसारेण भोज-सभायां पृथक् पृथग् जात्या निर्णीताः सापि कथानुसन्धेया । लोक-रञ्जनार्थं तद्-वाक्य-पद्यं च—
अभूत् प्राची पिङ्गा रस-पतिर् इव प्राश्य कनकं
गत-च्छायश् चन्द्रो बुध-जन इव ग्राम्य-सदसि ।
क्षणात् क्षीणास् तारा नृपतय इवानुद्यम-परा
न दीपा राजन्ते द्रविण-रहितानाम् इव गुणाः ॥ [सुभाषितावली २२१८] इति ।
अत्र क्रमेण शूद्र-विप्र-क्षत्र-वैश्यजास् ता इति ध्येयम् । ब्रुवाम इति भिन्नम् । हे इत्य् अनेन कृष्ण आक्षिपते, यद् येन विनानुपपन्नं, तत् तेनाक्षिप्यते इत्य् न्यायेन । कथन-फलस्य दण्डादेः कृष्ण-गामित्वात् परस्मैपदम् एव युक्तम् इति मत्वाह—ब्रुवाम इति ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्या ऊचुः—हे सुन्दर ! सुन्दर इति निजाभिलाष-सम्बोधनम् । ते दास्यः स्याम । तवोदितं च करवाम । तस्माद् वासांसि देहि । यस्माद् धर्मज्ञोऽसि । दासीनां वासांसि नापह्रियन्ते, अपि तु दीयन्ते एव । इयं हि धर्मस्य रीतिः । धर्मज्ञ इति काकूक्तिर् वा। अन्यास् तत्र मुखरा ऊचुः—नो चेद् इत्य्-आदि । यदि वासांसि न ददासि, तदा राज्ञे नन्दाय ब्रुवामहे । आशयस्य कोमलाकोमलादेः कुमारिका एव विविधाः तेनैवं काश्चिद् ऊचुः । विवस्त्रतया जलेभ्य उत्थान-शक्तेः कथं राज्ञे निवेदनम् ? तर्हि भय-प्रदर्शनम् एतत् । अथवा, ब्रुवामहे इत्य् अन्तर्भूत-ण्य्-अर्थः राज्ञेऽभीतिः स्व-गोत्र-बालकैर् ज्ञापयिष्याम इति॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना दानं प्रदर्शयन्ति—श्याम इति । श्यामश् चासौ सुन्दरश् चेति । यद् वा, श्यामेषु सुन्दरस् तस्य सम्बोधनम् । अत एव तव दास्यो वयम् । विशेषतश् चैतत्-प्रभृति तव उदितं त्वद्-उक्तं करवाम । यद् वा, उदितं उदयम् उत्कर्षं ख्यापयामेत्य् अर्थः । दास्यः सत्यः इत्य् अत्रैव वा योज्यम् । दास्यः स्याम भवेमेति श्री-चित्सुख-सम्मतः पाठः । एवं दास्येन आत्म-समर्पणादिकम् एव दानम् ऊह्यम् ।
अधुना भेदं प्रयुञ्ज्यते धर्मज्ञ इत्य्-आदिना । अन्यथा नग्न-स्त्री-सन्दर्शनेन परस्व-हरणादिना चाधर्मतो भयम् इति भावः । अदृष्टात् तस्य भयम् अनालोच्य दृष्ट-भयम् उत्पादयन्ति—नो चेद् इति । इति द्विविधो भेदः । इदं च सर्वं पूर्वं श्लाघनीय-गुण इत्य् अत्र विवृतम् अस्ति । राज्ञे गोप-राजाय, श्लेषेण नन्द-गोपस्य सुतं प्रियम् इति प्रियत्वेन न त्वं किञ्चिद् बलाच् छिक्षितोऽसि । युवराज-पक्षे तवेदृशी मत्ततोचितैवेति गोप-सुतम् इति । पक्षे, गोपत्वेन गो-सङ्गत्या तादृश एवेति । तथा अङ्ग-व्रजैः सर्वावयवैर् एव ।
किं वा, अङ्गैर् एव व्रजे श्लाघ्यम्, न तु गुणैः । धर्मज्ञेति च सोल्लुण्ठोक्त्या, धर्म-परित्याग इति तत्त्वतश् चायं गूढाभिप्रायः । नन्द-गोप-सुतम् इति विशेषण-त्रयेण पतित्व-योग्यतया आत्मनः पतित्वेन कामनायां हेतुः । तथा श्याम-सुन्दर इति च । दास्य इति वयम् अपि तव पत्नीत्व-योग्याः । तत्र च दासी-शब्देन करवाम तवोदितम् इत्य् अनेन च भक्ति-विशेषः । धर्मज्ञ इति ईदृशाश्रित-जनानाम् उपकेषा अनुपयुक्ता । अन्यथा राज्ञे धर्म-राजाय ब्रुवाम मरिष्याम इत्य् अर्थ इति ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना दानं प्रदर्शयन्ति—स्याम इति । दास्यः स्याम भवेमेति चित्सुख-सम्मतः पाठः । एवं दास्येन आत्म-समर्पणादिकम् एव दानम् ऊह्यम् । तत्रापि तवोदितं करवामेति विशेषोक्तिर् भाव-विशेषं व्यञ्जयति । श्यामेति तालव्यादिः क्वचित् । तत्र दास्यः सत्य इति योज्यं किन्तु भगवान् पृथग् एवानुवादं करिष्यति । अधुना भेदं प्रयुञ्जते धर्मज्ञ इत्य्-आदिना । अन्यथा नग्न-स्त्री-सन्दर्शनेन परस्व-हरणादिना चाधर्मतो भयम् इति भावः । अदृष्टात् तस्य भयम् अनालोच्य दृष्ट-भयम् उत्पादयन्ति नो चेद् इति द्विविधो भेदः राज्ञे गोप-राजाय, श्लेषेण नन्द-गोप-सुतम्, अर्थात् तस्यैव प्रियम् इति प्रियत्वेन न त्वं किञ्चिद् बलाच् छिक्षितोऽसि, तथा अङ्गैर् एव व्रजे श्लाघ्यं, न तु गुणैः धर्मज्ञ इति सोल्लुण्ठोक्त्या धर्म-परित्याग इति । अत्र तस्य तत् क्ष्वेलितम् [भा।पु। १०.२२.१२] इत्य् आरभ्यैतत् पर्यन्तेन किलकिञ्चिद् आख्योऽनुभावोऽनुसन्धेयः । यथोक्तं—
गर्वाभिलाष-रुदित-स्मितासूयाभय-क्रुधाम् ।
सङ्करी-करणं हर्षाद् उच्यते किल-किञ्चितम् ॥ [उ।नी। ११.४४] इति ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्रैवान्यः स-दैन्यम् ऊचुः—स्याम इत्य्-आदि । हे सुन्दर ! ते दास्यः स्याम भवाम । वाससैव किं वा चरितेनेत्य् आशङ्क्याहुः—करवाम तवोदितम् । करिष्याम इत्य् एवास्माकम् अभिप्रायम् इत्य् अर्धोक्ते काश्चिद् अन्याः साम-मुद्रां परित्यज्य भय-प्रदर्शनेन मुद्रान्तरम् उद्भाव्याहुः—नो चेत् । एवं साम्ना विनयेनापि यदि वासांसि न ददासि, तदा राज्ञे व्रज-राजाय ब्रुवामहे ज्ञापयिष्यामः । इत्य् आसां त्रैविध्यम् उक्तं भवति—मध्या मृद्वी मुखरा चेति । तत्र मानयं भो [भा।पु। १०.२२.१४] इति मध्याः । स्याम सुन्दर इत्य् अत्र मृद्व्यः । नो चेद् इत्य्-आदौ मुखराः । धर्मज्ञ इति विपरीत-लक्षणया परिहासश् च व्यङ्ग्यः । नहि धर्मज्ञो दासीनां वस्त्रम् अपहरन्ति, वरं तु ददात्य् एव, तेन त्वम् अधर्मज्ञ एवेति चतुरा वा, न तु मृद्व्यः ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि साम्नैवाहुः—स्याम दास्यो भवाम इति दन्त्य-स-कार-पाठश् चित्सुख-सम्मतः । श्याम इति तालव्य-श-कार-पाठे दास्यः सत्यस् तवोक्तं करवाम इति । राज्ञि त्वयि प्रजानाम् अस्माकं दास्यं समुचितम् एवेति भावः । वस्तुतस् तु तन्-मिषेणैव स्वात्मानम् अर्पयामासुः । सुन्दरस्य तव अस्माभिर् यद् दास्यं सम्भवेत्, तत्र तवोक्तं करवाम इति । काश्चित् प्रखरा-भेदं प्रयुञ्जते—हे धर्मज्ञ इति । स्त्री-धन-हरणात् तवाधर्मो भावीति भावः । तस्याधर्माद् भयम् अनालोच्य दृष्टं भयं दर्शयति--नो चेद् राज्ञे इति द्विविधो भेदः, राज्ञे नन्दाय कंसाय वा ॥१५॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : दानं दर्शयन्ति—श्याम इति । हे सुन्दर ! वयं ते दास्यः स्याम भवेम । क्वचित् तालव्यादि-पाठः । राज-पुत्रे त्वत्-प्रजानां नो दास्यम् एव युक्तम् इति भावः । वस्तुतस् तु ते दास्यस् त्वयि निवेदितात्मानः स्याम, वयं सुन्दरस्य नोऽस्माकं यद् दास्यं स्यात्, तत्र तवोक्तं करवाम इति ।
तासु प्रखराः काश्चिद् भेदं प्रयुञ्जानाः प्राहुः—हे धर्मज्ञ इति । स्त्री-स्वापहराद् अधर्मस् त्वयि भवेद् इति भावः । यदि न बिभेष्य् अधर्मात्, तर्हि दृष्टं भयं भावीत्य् आहुः—चेद् वासांसि नो दीयन्ते तदा राज्ञे त्वत्-पित्रे नन्दाय ब्रुवामहे इति द्विविधो भेदः, प्रियेऽयुक्तत्वाद् दण्डो नोद्दिष्टः । इह तस्य तत्-क्ष्वेलितम् [भ।पु। १०.२२.१२] इत्य् आरभ्यैतत् पर्यन्तेन किलकिञ्चिताख्यो ऽनुभावो ऽनुचिन्त्यः—
गर्वाभिलाष-रुदित-स्मितासूयाभय-क्रुधाम् ।
सङ्करी-करणं हर्षाद् उच्यते किल-किञ्चितम् ॥ [उ।नी। ११.४४] इति ॥१५॥
॥ १०.२२.१६ ॥
श्री-भगवान् उवाच—
भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ ।
अत्रागत्य स्व-वासांसि प्रतीच्छन्तु शुचि-स्मिताः ।
नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति ॥9
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे शुचि-स्मिताः शोभनेषद् धासवत्यः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अहं हि सत्य-दृक् । तत् तु न मयोदित-पूर्वं वा [भा।पु। १०.२२.११] इत्य्-आदिना पूर्वम् एवोक्तम् । भवत्योऽसत्य-वाचः, यतः श्याम सुन्दर ते दास्यः करवाम तवोदितम् इत्य् उक्तम् यत्, तद् अधुनैव न सङ्गच्छते । कथं न सङ्गच्छते ? इत्य् आह—भवत्यो यदि मे इत्य्-आदि । नो चेद् अत्रागता वासांसि चेन् नयथ, तदाहं दास्ये । अहम् इति स्वातन्त्र्य-सूचकम् । धर्मज्ञ इति यद् भवतीभिर् उक्तोऽस्मि । तन् ममायम् इति धर्मः । मद्-आज्ञां ये न प्रतिपालयन्ति तद् अभीष्टम् अहं न करोमि । यद् वा, भवतीभिर् उक्तम्—राज्ञे ब्रुवामहे इति। तत्रापि नाहं बिभेमि । अतो भवतीभिर् गत्वा स्वच्छन्दम् उच्यताम् इत्य् आह—किं क्रुद्ध इय् आदि ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भवत्य इत्य् आदौ भक्ताद्य्-अपेक्षयादरात् । अत्रागत्येति, न तु मया प्रक्षिप्यमानानि जलान्तः स्थित्वा ग्राह्याणीत्य् अर्थः । स्व-शब्देन निज-परिधानम् अवश्यम् आशु ग्रहीतुम् उपयुज्यत इति भावः । हे शुचि-स्मिताः ! इति ईदृशेन शुद्ध-स्मितेनावगम्यते शीतादि-दुःखं नास्ति, वेपनं कपटेनैवेति । किं च, मद्-उक्तम् अङ्गीकृत्यात्रागत्य युष्माभिर् वस्त्राणीमान्य् अधुनैव ग्राह्याणीति चातुर्य-विशेषेण जलाद् आकर्षति ।
यद् वा, शुचि-स्मिताः सत्यः प्रतीच्छत । मुख-म्लानौ च सत्यां न दास्य इति भावः । एष रसिकता-विशेषः। न प्रदास्ये प्रकर्षेण न दास्य इति प्र-शब्देन । यदि वा कथञ्चिद् दद्यां, तदा खण्डशो विदार्य किञ्चित्, किञ्चिद् एव काञ्चित् प्रत्य् एव दास्यामीति सूच्यते । राजा गोप-राजः क्रुद्धोऽपि सन् किं करिष्यति ? अपि तु, न किञ्चिद् एवेत्य् अर्थः, पुत्रे मयि स्नेह-विशेषात् । अत्र च प्रत्युत्तरत्वेन श्लेषार्थोऽयं ज्ञेयः । शुचि-स्मिता इति परम-सौन्दर्योक्त्या तासां निज-परिग्रह-योग्यता सूचिता । अतो विवाहं विनापि स्वीकारेण मयि युष्मासु च क्रुद्धोऽपि सन् धर्म-राजः किं कर्तुं शक्नुयात् ? इत्य् उक्त्वा कानिचित् तासां वस्त्राणि स्वस्यासनानि कृत्वा कानिचिच् छायां रचयित्वा कानिचिद् ध्वज-पताका-वितानादितया नीप-शाखोपशाखादिषु बद्ध्वा, कानिचिद् दोलां रचयित्वा आन्दोलयन्, कानिचिद् इतस् ततस् तद्-उपरि चिक्षेपेत्य् ऊह्यम् । स्कन्धे निधाय [भा।पु। १०.२२.१८] इति वक्ष्यमाणत्वात् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तासां तथाङ्गीकारेणैव पराजयं करोति भवत्य इति आदर-व्यञ्जक-भवच्-छब्द-प्रयोगश् चायं प्रोत्साहनार्थं स्व-शब्देन च निज-परिधानम् अवश्यम् आशु ग्रहीतुम् उपयुज्यत इति भावः । हे शुचि-स्मिताः ! इति ईदृशेन शुद्ध-स्मितेनावगम्यते शीतादि-दुःखं नास्ति, वेपनं च कपटेनैवेति
यद् वा, शुचि-स्मिताः सत्यः प्रतीच्छत मुख-म्लानौ च सत्यो न दास्याम इति भावः । नो चेद् इत्य् अर्धं क्वाचित्कं न प्रदास्ये प्रकर्षेण न दास्यामीति यदि वा किञ्चिद् दद्यां तदा खण्डशो विदार्य किञ्चित् किञ्चिद् एव काञ्चित् प्रत्य् एव दास्यामीति सूच्यते । राजा गोप-राजः क्रुद्धोऽपि सन् किं करिष्यति ।
अपि तु, न किञ्चिद् एवेत्य् अर्थः । पुत्रे मयि स्नेह-विशेषात् इत्य् उक्त्वा कानिचित् तासां वस्त्राणि स्वस्यासनानि कृत्वा कानिचित् शय्यां रचयित्वा कानिचिद् ध्वज-पताका-वितानादितयानीय शाखोपशाखादिषु बद्ध्वा कानिचिद् दोलां रचयित्वा दोलयन् कानिचिद् इतस् ततो रक्षितवान् इत्य् ऊह्यं स्कन्धे निधायेति विचित्यैकत्र निधानस्य वक्ष्यमाणत्वात् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ ते दास्यः कर्वाम तवोदितम् इति तासां वचनेनैव ता जिगीषुर् भगवान् आह—भवत्य इत्य्-आदि सार्धेन । भवत्यो यदि मे मम दास्यः, मयोक्तम् अवश्यं करिष्यथ । तत् कथं न क्रियते ? तत् किम् इत्य् आह—अत्रागत्येत्य्-आदि । हे सुमध्यमाः ! इदं तु अस्माकम् अशक्यम् इति चेद्, भवतु । मयापि तर्हि न दातव्यम् इत्य् आह—नो चेद् इत्य्-आदि । यद्य् अत्रागत्य न नयथ, तदाहं न दास्ये । तदा वयं राज्ञे निवेदयिष्याम इत्य् आशङ्क्याह—किम् इत्य्-आदि । यदि राज्ञे निवेदयथ, तदासौ क्रुद्धो भविष्यति, क्रुद्धः सन् किं करिष्यति ? ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां वचोभिर् एव ताः पराजित्य निर्वचनीकुर्वन्न् आह—भवत्य इति । प्रथमम् एतेनैव भवतीनां सत्यं परीक्षा, सत्यात् प्रच्युताभ्यस् तु भवतीभ्यो नैव प्रदास्ये इति भावः । शुचि-स्मिताः सत्य इति यद्य् अत्र धर्म-परीक्षायां मुख-म्लानिः स्यात् तद् अपि नैव दास्ये इति भावः । वस्तुतस् तु शुचिः शृङ्गारस् तन्-मय-स्मिता इति स्वस्मिन्न् उद्भूतं भावं ज्ञापयति । किं च, मयि प्रबले सामैव वः कार्य-साधकं, न तु भेद इत्य् आह नो चेद् इति ॥१६॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तास् तद्-वाचैव निर्जित्य निरुत्तराः कुर्वन्न् आह—भवत्य इति । इयम् एव भवतीनां धर्म-परीक्षा यदि सत्याद् विच्युतिर् न स्यात् शुचि-स्मिता इति तत्-परीक्षायां यदि मुख-म्लानिश् च न स्यात् सत्याद् विच्युताभ्यो म्लान-मुखीभ्यश् च न देयानीति भावः । वस्तुतस् तु शृङ्गारः शुचिर् उज्ज्वलः इत्य् अभिधानात् शृङ्गार-मय-स्मिता इति स्वस्मिन्न् उदितोभाः सूच्यते ॥१६॥
॥ १०.२२.१७ ॥
ततो जलाशयात् सर्वा दारिकाः शीत-वेपिताः ।
पाणिभ्यां योनिम् आच्छाद्य प्रोत्तेरुः शीत-कर्शिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रोत्तेरुः निर्गताः ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः कृष्णोक्ति-श्रवणोत्तरम् । दारिका दारा एव दारिकाः स्त्रियो दाराः पुम्-भूम्नि च स्त्रियाम् इत्य् उक्तेर् दार-शब्दात्वार्थिक-कान्ताट्टाप् । योनिं स्मर-मन्दिरम् । योनिर् द्वयोः स्मरागारे जाता वा कर-जन्मनोः इति धरणिः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : शीत-वेपिताः शीतेन कम्पिताः शीत-कर्शिताः । शीता अलसा अत एव कर्शितास् तनूभूता आनन्द-जनित-भाव-विशेषेणालसाः कर्शिताः । शीतोऽलसः इति पर्यायात् ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तद्-अनन्तरं तद्-आग्रहं दृष्ट्वेत्य् अर्थः । जलाशयात् जल-मध्यतः । दारिका बालाः, प्रायः श्री-कृष्णेन समवयस्कत्वात् । शीतेनैव वेपिताः कम्पित-देहा अपि पाणिभ्यां योनिम् आच्छाद्य । वेपनं च सात्त्विकम् एव प्रेम-स्वभावजम् । प्रकर्षेण उत्तेरुर् निःसृताः । तत्र हेतुः—शीतेन कर्शिताः बहिर् अन्तश् च व्याप्ता इत्य् अर्थः॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तं तद्-आग्रहं दृष्ट्वेत्य् अर्थः । दारिका बालाः शीतेनैव वेपिताः कम्पित-देहा अपि पाणिभ्याम् आच्छाद्य वेपनं च सात्त्विकम् एव प्रेम-स्वभावजं प्रोत्तरणे हेतुः शीतेन कृशी-कृताहीन-बलत्वम् आपादिता इत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इति निर्बन्धं तस्य ज्ञात्वा अकर्तव्यम् अपि भगवद्-आज्ञया तत्-प्रीति-हेतोश् च तथा कृतवत्य इत्य् आह—तत इत्य्-आदि । ततस् तस्य तथा निर्बन्ध-ज्ञानानन्तरं दारिकाः कन्यका जलाशयाद् उत्तेरुः । शीतेन वेपिताः कम्पिताः । शीता अलसाश् च कर्शिताः स्तब्धीभूताः । पाणिभ्याम् इति लज्जाधिक्येन द्विवचनम् ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च अयि सख्यः ! स्व-वाचैव पराभूता वयम् अभूमैव । यदि पुनर् अथापि विलम्बिष्यामहे एतन्-मध्य एव कश्चिद् अन्यो मनुष्यश् चेद् आयाति, तदा स्फुटम् इतोऽपि महा-विडम्बनाम्बुधौ पतिष्यामः । किं च, एतद्-अङ्ग-स्पर्श-प्राप्त्य्-आशा महा-बलवती दुर्वारा बभूव, या खल्व् अत्रैव निमज्ज्य मर्तुम् अपि न ददाति, तद् एतद् विधात्रास्माकं ललाटे लिखितम् अन्यथा न भवेद् इत्य् अतोऽस्य प्रियतमस्यैव हठं पुरस्कृत्य स्व-हठं रसातले प्रस्थाप्य लज्जायै जलाञ्जलीर् दत्त्वा नेत्राणि मुद्रयित्वा प्राप्तैर् अन्धकारैर् एव स्व-स्व-शरीराण्य् आच्छाद्य जलाद् अस्मात् तटं गच्छाम इति मन्त्रणां मिथो दृढीकृत्य ताः कृष्ण-समीपं जग्मुर् इत्य् आह—तत इति । प्रोत्तेरुर् निर्जग्मुः ॥१७॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु सख्यः ! स्व-वाचैव वयं निर्जिताः । किं कुर्मः ? इह कस्मिञ्चित् पुंसि समागते त्रपा-सिन्धौ निर्मक्ष्यामः किं च यद्-अर्थं व्रतम् आचरितं तस्य प्रेष्ठस्यैव हठम् अभिरक्षन्त्यस् त्रपायै जलाञ्जलिं प्रदाय निमीलित-नेत्रतयैव लब्धैस् तिमिर-प्रच्छदैर् देहान् आवृत्य जलात् तीरम् आसादयाम इति मिथो निश्चित्य प्रियान्तिकम् आगता इत्य् आह—तत इति । प्रोत्तेरुर् निर्जग्मुः ॥१७॥
॥ १०.२२.१८ ॥
भगवान् आहता वीक्ष्य शुद्ध-भाव-प्रसादितः ।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच स-स्मितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आहताः ईषद्-अक्षत-योनीर् वीक्ष्य ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अक्षत-योनीः कृताल्प-निधुवनाः । शुद्ध-भावः परम-प्रेमा तेन जात-प्रसादः । आहता आगताः । यद् वा, आहताः शीत-पीडिताः । तथा च विश्वः—आहतं गुणितेऽपि स्यात् ताडितेऽप्य् आनकेऽपि च इति सन्दर्भः । (अतः परं पूर्णतया विश्वनाथस्य टीकोद्धृता।) ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भगवान् इति । आहता आनन्द-वेगेन सम्यग् हताः शीतादिना ग्लान्य्-आदिना लज्जया वा ।
यद् वा, आहता आगता, हन् हिंसागत्योः इति गत्य्-अर्थात् ।
यद् वा, आ अहतः सम्यग् अक्षुण्णः । अत एव आ सम्यक् वीक्ष्य प्रेक्षणीयः । अत एव शुद्ध उपाधि-शून्यो यो भावस् तेन प्रसादितः । स-स्मितं, यथा भवति तथा प्रोवाच । किं कृत्वा ? स्कन्धे वासांसि निधाय । स्कन्धे स्वांसे । अयम् अभिप्रायः—सम्प्रति साक्षात् स्पर्शो न जातः । परम्परा10-स्पर्शो भवत्व् इति स्कन्धे निधापनम् आलिङ्गनं सुखाभिव्यञ्जकम् ॥१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शुद्धेन भावेन प्रेम्णा पतित्व-कामनया वा । प्रसादितः पूर्वत एव, अधुना च आहताः, हन्तेर् गत्य्-अर्थत्वाद् आगता वीक्ष्य प्रीतः सन् वासांसि सर्वाण्य् एवावचित्य स्व-स्कन्धे निधाय तासां सर्वासां प्रत्येकं प्रीति-सम्पत्तये प्रकर्षेण शिक्षणार्थम् एव न्याय-प्रदर्शनेनोवाच स-स्मितम् इति । वक्ष्यमाणेऽपि नर्म-संस्पर्शात् ।
यद् वा, स्कन्धे निधायेत्य् अत्र हेतुः—शुद्धेति । स-स्मितं प्रोवाचेत्य् अत्र हेतुः—प्रीत इति । प्रीत इत्य् अनेन नर्मोक्तिः सूचितैव, प्रीत्यैव तस्या अवश्यम् उदयात् । एवम् एकस्मिन्न् एव स्कन्धे बहुतराणां तावतां वाससां निधानाल् लौकिक-लीलायाम् अपि पूर्ववद् ऐश्वर्यं प्रदर्शितम् । अत एवादाव् उक्तम्—योगेश्वरेश्वरः इति ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शुद्धेन भावेन प्रेम्णा प्रसादितः पूर्वत एव अधुना च आहताः हन्तेर् गत्य्-अर्थत्वाद् आगता वीक्ष्य प्रीतः सन् वासांसि सर्वाण्य् एवावचित्य वृक्षस्य स्कन्धे निधाय प्रकर्षेण शिक्षणार्थम् इव न्याय-प्रदर्शनेनोवाच स-स्मितम् इति तासां चिरं तथा स्थापने वक्ष्यमाणेऽपि नर्म-संस्पर्शात् । नन्व् आहता इत्य् अत्रागता इत्य् अर्थो न युक्तः, अप्रयुक्तत्वात् । उच्यते काव्य-कूप-वर्तिनाम् इदं मतं, न तु वेदादि-शब्द-महोदधि-वर्तिनाम् । यथाह महा-भाष्ये—सप्त-द्वीपा वसुमती त्रयो लोकाश् चत्वारो वेदाः साङ्गाः सरहस्या अनेकधा भिन्ना एकशतम् अध्वर्य-शाखाः सहस्र-वर्त्मा सामवेद एकविंशतिर् बाहुवृच्यं नवधाथर्वणो वेदा वाकोवाक्यम् इतिहास-पुराणानि वैद्यकम् इत्य् एतावन्तं शब्द-प्रयोगम् अनिशम्याप्रयुक्ताः शब्दाः इति वचने केवलं साहसम् इत्य्-आदि कोषकार-मतेऽप्य् आह—ता इत्य् अस्यान्यार्थो घटते, यथा विश्व-प्रकाशे—आहतं गुणितेऽपि स्यात् ताडितेऽप्य् आनकेऽपि च इति गुणित्वं चात्र द्वित्रादि-गुणतया पूर्वस्याङ्कस्य डोरिकादेर् वा सङ्करी-करणं तद्वद् अत्रापि लज्जातः स्वयम् आत्मसु तादृशी करणम् इति । किं च, आहत-शब्दस्य व्याख्यायां क्षीर-स्वामी आहतम् उद्घोषितम् इति प्राह । अत्र च तासां विख्यातत्वं गम्यते तच् च तासां तथा वीक्षणे चमत्कारातिशय-द्योतकम् इत्य् अलम् एतया कल्पनया ॥१८॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३७७) : तथैव तस्यां लीलायां श्री-कृष्णस्याभिप्रायं मुनीन्द्र एव व्याचष्टे—भगवान् इति । आहता आगताः । लज्जा-त्यागेऽपि स्त्री-जाति-स्वभावेन लज्जांशावशेषात् नम्रतयेषद्-भग्न-देहा वा। एवम् उत्कण्ठाभिव्यक्त्या तद्-भाव-मुग्धत्वाभिव्यक्त्या च शुद्धः परमौज्ज्वल्येनावगतो यो भावस् तेन तद्-आस्वादनेन जनित-चित्त-प्रसक्तिः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आहता आगताः । यद् वा, आहता शीत-पीडिताः । तथा च विश्वः—आहतं गुणितेऽपि स्यात् ताडितेऽप्य् आनकेऽपि च इति ॥१८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तथाभूतास् ता आगता वीक्ष्य यद् उवाच तद् आह—भगवान् इत्य्-आदि । आहतास् तथा-प्रकारेणागता वीक्ष्य, हन् हिंसागत्योर् इत्य् अत्रायं गत्य्-अर्थम् एव । अप्रयुक्त-दोषस् तु काव्यादाव् एव, नात्रार्ष-वाक्ये ।
यद् वा, आहताः त्रपयोपहताः । यद् वा, आ सम्यग् अहतः11 । अत एव आ सम्यग् वीक्ष्यो दर्शनीयः । अत एव शुद्धो निरुपाधिर् यो भावस् तेन प्रसादितः । प्रसादितः प्रसादं प्रापितः । किं वा, भगवान् ता वीक्ष्याह—किं तत् ? इत्य् आह—शुद्ध-भाव-प्रसादितः । शुद्ध-भावेन यः प्रसादितोऽहम् इति पुनः स्कन्धे वासांसि निधाय प्रकर्षेणोवाच वक्ष्यमानम् इति शेषः । स्कन्धे निधाय अंशे कृत्वा प्रथमं त्वरया सर्वाणि वासांसि चोरयित्वा नीप-शाखास्व् एव स्थापितानि । सम्प्रति प्रेम्णो महिम्ना तासाम् अङ्ग-सौरभ-सुरभीणि तानि स्कन्ध एव निहितानि । तत्-स्पर्शात् तासाम् अङ्ग-स्पर्श-सुखानुभूतेः । अतः स्कन्धे निधाय प्रीत इति प्रीतेः पूर्व-काले लाप् । स-स्मितं यथा स्यात् तथा प्रकर्षेणोवाच । स्वामि-व्याख्या तु चिन्त्या त्रपाकरत्वात् पाणि-द्वय-च्छादनेन दर्शनाभावाच् च ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आ सम्यक् प्रकारेणैव हता मृता इव वीक्ष्य कुलजानां मरणाद् अप्य् अधिक ईदृशो लज्जा-त्यागः सोऽपि मद्-अनुरोधेनैवाभिः क्र्ट इति मनसैवाधिगतो यः शुद्धो निरुपाधिर् भावः । प्रेम्ना तेन प्रसादितः स्कन्धे निधायेति तासाम् अङ्ग-सौरभ्य-प्राप्ति-लोभाद् एव । अथ च भवतीनाम् अधो-वस्त्राण्य् अपि मया स्व-स्कन्धे धार्यते इति तासु स्व-प्रणय आदरश् च दर्शितः प्रकर्षेणोवाच सपरामर्शम् उवाचेत्य् अर्थः । तत्रायं परामर्शः स्त्री-जाति-मात्रेणापि दुष्करं कृत्यम् आभिर् मत्-प्रेमोपरोधेन कृतम् । किं चेतोऽप्य् अन्यद् आत्यन्तिकं दुष्करं कृत्यम् अस्ति तद् एताभिः शक्यम् अशक्यं वेति मद्-विषयक-प्रेम्णः शक्तेर् इत्य् अत्तां दिदृक्षे इति स-स्मितम् इति भोः स्व-मुखेनैवाङ्गीकृत-मद्-दास्यं करवाम तवोदितं इति युष्मद्-वचनस्य परीक्षाम् अधुनाहं करिष्ये । ततो यद्-यत्-तीर्णा भवितुं शक्नुथ तदैव युष्मद्-वसनानि मदीयात्म-मनः-प्राण-शरीरैः सहितान्य् एव कृत्वा दास्यामीति भावः ॥१८॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : आहता आगतास् ता वीक्ष्य । यद् वा, लज्जा-त्यागेनाहताः सम्यक् ताडिता इत्य् अर्थः । शुद्धेन स्व-मात्र-फलकेन भावेन प्रसादितो भगवान् वासांसि स्कन्धे निधायेति तद्-अङ्गैः स्वाङ्गानाम् अद्वैतं बोधयितुम् इत्य् अर्थः । तद्-अङ्ग-सौरभ्य-लाभेन इमा मद्-एक-जीवातवो भवन्तीत्य् अवगमेन च प्रीतः सन् प्रोवाच—स-स्मितम् इति । स्व-मुख-स्वीकृत-मद्-दास्यानां करवाम तवोदितं इत्य् उक्तवतीनाम् अहं परीक्षां कुर्वे तद्-उत्तीर्णाभ्यस् तु स्व-मनसा सहैव वासांसि दास्यामीति भावः ॥१८॥
॥ १०.२२.१९ ॥
यूयं विवस्त्रा यद् अपो धृत-व्रता
व्यगाहतैतत् तद् उ देव-हेलनम् ।
बद्ध्वाञ्जलिं मूर्ध्न्य् अपनुत्तयेऽंहसः
नमो वो12 वसनं प्रगृह्यताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धृत-व्रताः सत्यो विवस्त्रा अपो व्यगाहताप्सु स्नाता इति यत् तद् एतत् उ एव देव-हेलनम् अपराध एवेत्य् अर्थः । व्रत-वैगुण्य-भीतानां प्रायश्चित्तम् इवाह—अस्यांहसः पापस्य निवृत्तये मूर्धन्य् अञ्जलिं बद्ध्वाधो नमः प्रणामं कृत्वेति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देव-हेलनं देवस्य वरुणस्य हेलनम् अपराध एव । उ-शब्दोऽत्रैवार्थक इति ध्येयम् इति । यादवे तु उ तापेऽव्ययम् ईशे च इत्य् उक्तम् । तथा च उ कोऽर्थः ताप-करं देव-हेलनम् इति योज्यम् । प्रायः पापं समाख्यातं चित्तं तस्य विसर्जनम् इति तत्त्व-बोधिन्याम् । क्वचित् त्व् एतच् छ्लोक-द्वयं ग्रन्थान्तरीयम् अपि लिखितं दृश्यते । तथा हि—
एकेन पाणिना नेमुर् एकेनाच्छाद्य चाङ्गनाः ।
ता वीक्ष्योवाच भगवान् भूयो धर्म्यम् इदं वचः ॥
एकेन पाणिना यो वै प्रणमेद् देवम् अच्युतम् ।
तस्य दण्डः कर-च्छेद इति वेदविदो विदुः ॥ इति ।13
शातातपस् तु—
जन्म-प्रभृति यत् किञ्चिच् चेतसा धर्मम् आचरेत् ।
तत् सर्वं निष्फलं याति एक-हस्ताभिवादनात् ॥ इति ।14
एतच् चापयागत्वाद् अत्रानुसन्धेयम् अव ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यूयम् इत्य्-आदि । यूयं समाज-कुमारिकाः तत्रापि व्रजस्थाः सत्यो विवस्त्रा यत् अपो व्यगाहत तत् । उ सम्बोधने देव-हेलनम् । उ इति एवार्थे वा । देव-हेलनम् एवैतत् तत् तस्माद् अंहसः पापस्य नुत्तये मूर्ध्नि अञ्जलिं बद्ध्वा नमस्कृत्वा अधो-वसनं प्रगृह्यताम् । अथवा आदौ मूर्ध्नि अञ्जलिं बद्ध्वा दण्डवन् नत्वा । अधो-वसनम् इत्य् अस्यायं भावः—एवं चेन् नमस्कारं करोषि, तथाप्य् अधो-वसनम् एव दास्यामि, न तूत्तरीयादीनीति परिहासः । अधो नमस्कृत्वेति अधो भूमि-तल इति वा । यन् नमस्कारेणैव देवतान्तर-हेलनम् अपि यास्यतीति । वस्तुतस् तु अधिष्ठातृ-वरुण-देवतायाम् एव वा हेलनम् अभूत् । तेन तत्रैवापराधोऽपि जातः । यन् नमस्कारात् मयि प्रीते सति सोऽप्य् अपयातीति भावः॥१९.२०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु न बाल्ये दोष इति चेत् तत्राह—धृत-व्रता इति । यद् एतद् इति । साक्षान् मयानुभूतत्वाद् अत्र प्रतारणं न किञ्चित् सम्भवेद् इति भावः । देवेति देव्य्-अर्चनेऽपि पुंस्त्वेन निर्देशः । सर्व-देवतास्व् अपि तद्-अवहेलनस्य सामान्य-विवक्षया दाढ्यापादनाय ।
यद् वा, देवस्य जलाधिष्ठातुर् वरुणस्य हेलनम् अवज्ञा । यद् वा, देव-हेलन-शब्देन पारिभाषिकतया व्रत-च्छिद्र-रूपोऽपराध एवाभिहितः । अञ्जलिं बद्ध्वेति तं च मूर्ध्नि, न त्व् अन्यत्रेति रसिक-शिरोमणेस् तस्येष्ट-विशेष-परिपूर्तये, तत्र च नमः कृत्वेत्य् उक्ते एक-पाणिना नमनोद्यमम् आलोक्य एक-हस्त-प्रणामश् [ह।भ।वि। ८.४०६] चेत्य्-आदि-वचन-पाठेनाञ्जलिं बद्ध्वेति तत्राप्य् अधोऽञ्जलि-बन्धनम् अभिप्रेत्य मूर्ध्नीत्य् उक्तम् इत्य् ऊह्यम् । अधो नीप-तले स्थिताभिः सतीभिर् इति निकटागमनेन सम्यग्-दर्शन-सिद्धेः । अस्य च नमस्कृत्वेत्य् अनेन प्रगृह्यताम् इत्य् अनेन वान्वयः ।
यद् वा, अधो-वसनं परिधान-वस्त्रम् एव उत्तरीय-वस्त्रं च तथापि न प्राप्तव्यम् एवेत्य् अर्थः । अत एव वसनम् इति उत्तरीयाभावेन प्रत्येकम् एकैक-ग्रहण-विवक्षयैकत्वम् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु बाल्ये न दोष इति चेत् तत्राह—धृत-व्रता इति । यद् एतद् इति । साक्षान् मयानुभूतत्वाद् अत्र प्रतारणं न किञ्चित् सम्भवेद् इति भावः । देवस्य जलाधिष्ठातुर् वरुणस्य नारायणस्य वा हेलनम् अवज्ञा अञ्जलिं बद्ध्वा तं च मूर्ध्नि न त्व् अन्यत्रेति भिन्नाभिप्रायं ततश् च नमः कृत्वेत्य् उक्ते एक-पाणिना नमनोद्यमम् आलक्ष्य एक-हस्त-प्रणामश् च [ह।भ।वि। ८.४०६] इत्य्-आदि-वचन-पाठेनाञ्जलिं बद्ध्वेति तत्राप्य् अधोऽञ्जलि-बन्धनम् अभिप्रेत्य मूर्ध्नीत्य् उक्तम् इत्य् ऊह्यम् अधो वसनं परिधान-वस्त्रम् एव उत्तरीय-वस्त्रं च तथापि न प्राप्तव्यम् एवेत्य् अर्थः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अधो-वसनं परिधान-वस्त्रम् एव न त्व् अन्यद् इति काठिन्यम् इव ॥१९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं तद् इत्य् आह—यूयम् इति । महा-कुल-प्रसूता इत्य् अर्थः । युष्माकम् इदं नोचितम् । किं तद् इत्य् आह—यद् इत्य्-आदि । यद् धृत-व्रता भूत्वा विवस्त्राः सत्योऽपो जलानि व्यवगाहत । नन्व् अस्माकं देशाचारोऽयम् अत्र किं दूषणम् इत्य् आशङ्क्याह—एतद् इत्य्-आदि । भोः कुमार्यः । एतद् देव-हेलनम् । देवस्याधिष्ठातुर् वरुणस्य । अथवा देव्या यमुनाया मयूराण्डम् इत्य्-आदिवत् पुंवद्-भावः । तर्ह्य् अस्य पापस्य किं प्रायश्चित्तम् ? प्रायश्चित्तम् अनायास-साध्यं, तद् एव क्रियताम् । नो चेद् देव-हेलनेन व्रत-फल-सिद्धिर् अपि दुर्लभेति प्रायश्चित्तं दर्शयन् स्मार्तत्वं प्रकटयति—बद्धाञ्जलिम् इत्य्-आदि । नमः कृत्वा मां नमस्कृत्य वो युष्माकं वसनं प्रगृह्यताम् । एवं चेत्—नमो नमस् ते इति वाचनिकम् एव नमस्कारं कुर्मः ? नैवम् । प्रायश्चित्तादौ मुख्य एव कल्पः क्रियते, न तु गौणः । एवं चेच् छिरो-नमनेनैव कायिकः कर्तव्यः । स्वापकर्ष-बोधानुकूलो व्यापार-विशेष एव नमस्कार इत्य् अस्य नियमान् नैवं कर-शिरः-संयोगो हि मुख्यो नमस्कार इत्य् आह—मूर्ध्नि अञ्जलिं बद्ध्वा । अधो-वसनम् इति पाठे तथापि अधो-वसनान्य् एव दातव्यानि न तूत्तरीयाणीति प्रहास-विशेषः ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त गूढोऽयम् अपराधो युष्माकं व्यक्तोऽभूद् इत्य् आह । यूयं विवस्त्राः सत्यो यद् अपो व्यगाहत व्यगाहध्वं तद् एतत् उ एवार्थे देवस्य जलाधिष्ठातुर् वरुणस्य नारायणस्य वा हेलनम् अपराधः ।
ननु, देशाचारोऽयं विशेषतो बालानां नापराधस् तत्राह—धृत-व्रता इति । अनुष्ठितस्यास्य व्रतस्य फलाभावस् त्व् अवश्यम्भावीति भीषयते । हन्त हन्तैतादृशं विडम्बनम् अभूत् । व्रत-फलं च न भविष्यति । अतो मृता अपि वयं विशेषतः सुष्ठु मृताः । तद् अलं प्राण-त्याग-विलम्बेनेति मनोऽनुतापवतीः विशीर्ण-सर्वाङ्गीर् विवर्णा अतिविह्वला वीक्ष्य हन्तासां मा प्राणाः प्रयान्त्व् इति सद्य एवातिकृपया स्वयम् एव तस्य प्रायश्चित्तम् वदन्—भोः कृशाङ्ग्यः! मा भैष्ट इत्य् आश्वासयति—बद्ध्वेति । स्त्रियो हि यस्य दास्यो बचन्ते स एव तासां सर्व-देव-मयो नारायण इति शास्त्रादेशात् । नारायण-समो गुणैः [भा।पु। १०.८.९] इति गर्गादेशाच् च सम्प्रत्य् अहम् एव युष्माकं नारायणः । तन् मद्-अभिमुखे एव स्थिताः अंहसोऽपराधस्यापनुत्तये निवृत्तये नमः कृत्वाधो-वसनम् अन्तरीय-वस्त्रं गृह्यताम्, स्त्रीणाम् अन्तरीय-वासोभिः पुंसो मम प्रयोजनाभावात्, तान्य् एव दास्यामि । उत्तरीयाणि तु स्वस्यैवोत्तरीयाणि करिष्यामीति भावः । ततश् च शिरोभिर् एव प्रणामे क्रियमाणे हंहो केवल-शिरः-प्रणामो गौण एवेत्य् उक्तं एक-पाणिना नमनोद्यमम् आलक्ष्य एक-हस्त-प्रणामश् च [ह।भ।वि। ८.४०६] इति वचन-पाठेन प्रत्यवायं दर्शयित्वा अञ्जलिं ताः कारयामासिरे । तत्राप्य् अधोऽञ्जलिम् अभिप्रेत्य मूर्ध्नीत्य् उक्तम् इत्य् आद्य् ऊह्यम् ॥१९॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु स्वामिन् सापि परीक्षा क्रियताम् इति चेत् तत्राह—यूयम् इति । विवस्त्रा यूयं यद् अपो व्यगाहत व्यगाहध्वं तद् एतत् उ निश्चये देवस्य जलेशस्य वरुणस्य हेलनम् अपराधः।
ननु देशाचार इति चेत् तत्राह—धृतेति । व्रत-फलं न स्याद् इति भावः । अतिविमनस्का वीक्ष्य कारुणिकस् तस्य सद्य एव लघु प्रायश्चित्तं दर्शयति—अंहसा जलदेवतापराधस्य अपनुत्तये निवृत्तये नमः कृत्वाधो-वसनं अन्तरीयं प्रगृह्यताम् । तेन पुंसो मे प्रयोजनाभावात् तद् एव देयम् उत्तरीयस् तु मयैवावधार्यम् इति भावः । तत्र मूर्ध्न्य् एक-हस्तेन वा प्रणामम् आलक्ष्याद्यस्य गौणत्वात् द्वितीयस्य प्रत्यवायकरत्वान् मूर्ध अञ्जलिम् इत्य् उक्तं अधोऽञ्जलि-विधानं तु मूर्ध्नि इत्य् अनेन निरस्तम् ॥१९॥
॥ १०.२२.२० ॥
इत्य् अच्युतेनाभिहिता व्रजाबला
मत्वा विवस्त्राप्लवनं व्रत-च्युतिम् ।
तत्-पूर्ति-कामास् तद्-अशेष-कर्मणां
साक्षात्-कृतं नेमुर् अवद्य-मृग् यतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इति दोषत्वेनाच्युतेनाभिहितं विवस्त्राप्लवनं व्रतस्य च्युति-हेतुं मत्वा तस्य पूर्ति-कामास् तद्-अशेष-कर्मणां तस्य व्रतस्यण्येषाम् अशेष-कर्मणां च साक्षात्-कृतं फल-भूतं तम् एव नेमुः । स एवावद्य-मृक् पाप-मार्जकः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विवस्त्राप्लवनं नग्नीभूय स्नानम् ।
स्नानं दानं तथा होमं शयनं गमनं भुजिम् ।
विवस्त्रो न प्रकुर्वीत कुर्वाणः पापकृद् भवेत् ॥ इति स्मृतेः ।
सर्व-फल-स्वरूपे तस्मिन्न् एव तुष्टे किं फलम् अवशिष्टं स्याद् इति भावेन नेमुः । न हि प्रसाद-विषयीभूतानां प्रत्यवायादि-लक्षणः कोऽपि दोष इत्य् आह—अवद्य-मृग् इति । अवद्या निर्माष्टीति तथा अवद्यं पाप-दोषयोः इति शाश्वतः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अच्युतेनेति कदाचित् कथञ्चिद् अपि तद्-वाक्यस्य सद्-अर्थाच् च्युतिर् नास्तीति तासाम् अभिप्रायः सूचितः । स्त्रियस् तत्र च अबला-शब्देन कथञ्चिद् अपि तद्-वाक्यम् अत्येतुम् अशक्ता इत्य् अर्थः । अभिहितम् उक्तं श्रुत्वेति शेषः । व्रतस्याच्युतिम् अपि च्युतिं छिद्रं मत्वेत्य् अर्थः । अच्युतिश् च तत्त्वतो बाल्ये विवस्त्रतया व्रत-स्थानाम् अपि स्थाने दोषाभावात् । एतच् च श्री-स्वामि-पादैर् अग्रे व्यञ्जितम् एव—दृढम् अत्यर्थं प्रलब्धा वञ्चिताः “यूयं विवस्त्राः” इत्य्-आदिना [भा।पु। १०.२२.२२] इति । अन्यत् तैर् व्याख्यातम् । यद् वा, तद् इत्य् अस्य विवस्त्राप्लवनम् इत्य् अनेन परेण वान्वयः । तेषां स्व-कृतानां देव्य्-आराधन-लक्षणानाम् अशेष-कर्मणां पूर्तिकामाः सत्यो नेमुः, यतोऽशेष-कर्मणां स एवावद्य-मृक् छिद्र-पूर्ति-कारकः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अच्युतेनेति कदाचित् कथञ्चिद् अपि तद् वाक्यस्य सद् अर्थाच्युतिर् नास्तीति तासाम् अभिप्रायः सूचितः यतो व्रजस्य अबलाः स्त्रियः तत्र च अबला-शब्देन कथञ्चिद् अपि तद् वाक्यम् अत्येतुम् अशक्ता इत्य् अर्थः ! प्रेमवशत्वाद् इति भावः । मत्वेति वस्तुतो देशाचार-बाल्याचऋअ-प्राप्तत्वेनादोषात् अत एव प्रलब्धा इति वक्ष्यते साक्षात् कृतं पति-रूपं फलं तद् रूपत्वाद् एवावद्यमृग् इति तु तासाम् अभिप्रायः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : साक्षात्कृतं पति-रूपं फलम् । तद्-रूपत्वाद् एव । अवद्य-मृग् इति तु तासाम् अभिप्रायः ॥२०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इति व्रत-फल-च्युति-भिया तथैव कर्तुम् आरब्धवत्य इत्य् आह—इत्य् अच्युतेनेत्य्-आदि ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च व्रत-वैगुण्यं मा भवतु, भवत्व् अस्माकं जाति-कुल-धर्म-लज्जादि-सर्व-नाशोऽपीति निश्चयवतीभिस् ताभिर् यथा यथैव प्रेयान् प्राह तथैव कृतम् इत्य् आह—इति दोषत्वेन अच्युतेनाभिहितं विवस्त्राप्लवनं व्रतस्य च्युति-हेतुं मत्वा तस्य व्रतस्य पूर्ति-कामास् तास् तद्-अशेष-कर्मणां तस्य व्रतस्यान्येषाम् अशेष-कर्मणां च साक्षात्कृतं साध्य-फल-स्वरूपम् एव तं नेमुः सर्व-फल-स्वरूपे तस्मिन्न् एव सन्तुष्टे किं फलम् अवशिष्टं स्याद् इति भावः । ननु, फल-प्राप्तिर् अप्य् अस्तु दोषोऽपि भविष्यतीत्य् अत आह—यतोऽच्युताद् एव अवद्य-मृक् सर्व-दोष-निवृत्तिर् इत्य् अर्थः । नहि तत् प्रसाद-विषयीभूतानां प्रत्यवायादि-लक्षणः कोऽपि दोष इति भावः ॥२०॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अपयातु त्रपा व्रत-वैगुण्यं तु माभूद् इति निश्चित्य स्व-नाथस्याज्ञा ताभिः पालितेत्य् आह—इतीति । इति प्रयवायत्वेनाच्युतेनाभिहितं कर्मणां साक्षात् कृतं फल-स्वरूपं तं स्व-नाथम् एव नेमुः, न तु वरुणं तत्त्व-विद्-वरेण्यत्वात् तासां, किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतने [भा।पु। १०.३९.२] इत्य्-आदि स्मृतिभ्यः । न च नमस्कार-मात्रान् निःशेष-निवृत्तिर् न भवेद् इति वाच्यं, यतोऽच्युत-नमस्काराद् अपराधानां सर्वेषां दोषाणां मृग् निवृत्तिर् इत्य् अर्थः ॥२०॥
॥ १०.२२.२१ ॥
तास् तथावनता दृष्ट्वा भगवान् देवकी-सुतः ।
वासांसि ताभ्यः प्रायच्छत् करुणस् तेन तोषितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता व्रत-पूर्ति-कामाः । तथावनता हस्त-द्वय-सम्पुटं मूर्ध्नि धृत्वा कृत-प्रणामाः । करुणः दयालुः । तेन मूर्ध-कृताञ्जलि-प्रणामेन ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तास् तथावनता इत्य्-आदि । तथा तद्-उक्त-प्रकारेणावनताः कृत-नमस्काराः पूर्वं मूर्ध्नि अञ्जलिं बद्ध्वा पश्चाद् भूमौ निपत्य नमस्कृत्वेति भावः । करुणः करुणावान् तेन तोषितः । करुणश् च स्तेनश् च तोषितश् चेत्य् एकम् एव वा पदम् स्तेनश् चौरः ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा तेन स्वोक्तेन प्रकारेणावनताः कृताञ्जलित्वेन प्रणताः वासांसि सर्वाण्य् एव परिधानोत्तरीयादीनि, प्रकर्षेण यथायथं स-प्रेम-सम्बोधनादि-पूर्वकम् ।
यद् वा, कौतुकेन तासां प्रीत्य्-अर्थम् अन्योन्य-वस्त्र-परिवर्तन-विनोदेनायच्छत्, नीपाग्रात् अवरूढ सन्न् इति ज्ञेयं, यतः करुणः । स्वत एव प्रीतः । तत्रापि भगवान् निजाशेष-गुणादि-प्रकटन-परः, यतो देवक्याः सुतस् तद्-अर्थम् एव तस्यां जात इत्य् अर्थः । देवकी-शब्दार्थः पूर्वम् एवोक्तोऽस्ति । विशेषतश् च तेन तासां व्रतेन निज-वचन-प्रतिपालनेन वा तोषितः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा तेन स्वोक्तेन प्रकारेण वासांसि सर्वाण्य् एव परिधानीयोत्तरीयादीनि प्रकर्षेण प्रेम-सम्बोधनादिना नीपाग्राद् अवरूढः सन्न् इति ज्ञेयं, यतः करुणः, स्वत एव सर्वत्र दयालुः विशेषतश् च तेन तोषितः । यद्-दर्शनोत्कण्ठ्या नागर-जनोचित15-भावाविर्भावेऽपि प्रकृत-बाल्य-चाञ्चल्यम् इवेदम् आविष्कृतं तेन तासाम् अभिमान-लज्जा-च्छेदक-रूपेण पूर्वानुरागजेन परमार्ति-भयेन दशा-विशेषेण लब्ध-मनोरथ इत्य् अर्थः । देवकी-सुत इति श्री-परीक्षितं प्रति मुनीन्द्रोक्तिः। सा हि तत्रोचिता श्री-कुन्ती-प्रपौत्रस्य श्री-सुभद्रा-पौत्रस्य तस्य तद्-रूपालम्बनत्वेनैव सुख-विशेषात् तथैव भवतां प्रपितामहीति श्री-शुकोक्तिः, तथैव च दशमारम्भे तत्-प्रश्न इति तस्मात् योऽसौ भवताम् आलम्बनीभूतः सोऽपि यासां प्रेम्णैवं चपलीकृतस् तासां महिमा विचार्यताम् इति भावः । एवम् अन्यत्रापि ज्ञेयम् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : देवकी-सुत इति श्री-परीक्षितं प्रति मुनीन्द्रोक्तिः । तद्-आलम्बनानुरूप्येण । एवम् अन्यत्रापि ॥२१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ यथोपदेशं कृत-नमस्कारासु तासु स्वाज्ञा-प्रतिपालन-प्रीतः सन् भगवान् प्रससादेत्य् आह—तास् तथेत्य्-आदि । तथा, यथा स्वयम् उपदिष्टम् इत्य् अर्थः । तेन प्रणामेन तोषितः स्वभावत एव करुणः करुणावान् भगवान् अप्रतर्क्यैश्वर्यः । देवकी-सुत इति पूर्ववत् ।
यद् वा, करुणश् च स्तेनश् चौरश् च तोषितश् च । स्वार्थे णिच् । तुष्ट इति यावत् । यद् वा, स्तेनता चौरता तयोषितः पश्चाद् बद्धः । वस्त्रापहारकत्वेन स्थितः । तथा च गोपी-वस्त्रापहारक इति । भगवान् अपि देवकी-सुतोऽपि करुणोऽपि स्तेन-तोषितः वैकल्पिको विसर्ग-लोपः ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वासांसि सर्वाण्य् एव यतस् तेन प्रणामेन स्व-वाञ्छितार्थ-साधकेन तोषितः॥२१॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : देवकी-सुतो यशोदात्मजस् तास् तथा स्वोक्त-विधयैवावनता दृष्ट्वा ताभ्यः सर्वाणि वासांसि प्रायच्छत् शीतेन कम्पं वीक्ष्य करुणः तेन प्रणयेनैकान्तिकेन तोषितः॥२१॥
॥ १०.२२.२२ ॥
दृढं प्रलब्धास् त्रपया च हापिताः
प्रस्तोभिताः कृईडनवच् च कारिताः ।
वस्त्राणि चैवापहृतान्य् अथाप्य् अमुं
ता नाभ्यसूयन् प्रिय-सङ्ग-निर्वृताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दृढम् अत्यर्थं प्रलब्धा वञ्चिताः, यूयं विवस्त्राः [भा।पु। १०.२२.१९] इत्य्-आदिना । त्रपया लज्जय हापितास् त्याजिताः, अत्रागत्य स्व-वासांसि [भा।पु। १०.२२.१६] इत्य् आग्रहेण । प्रस्तोभिता उपहसिताः, सत्यं ब्रवाणि नो नर्म [भा।पु। १०.२२.१०] इत्य्-आदिना । क्रीडनवत् कारिताश् च, बद्धाञ्जलिं [भा।पु। १०.२२.१९] इत्य्-आदि-प्रायश्चित्त-च्छलेन । ता नाभ्यसूयन् दोष-दृष्ट्या नापश्यन् ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथापि तथापि अमुं कृष्णम् । नाभ्यसूयन् प्रियत्वाद् एव । प्रिय-कृतं दुःख-प्रदानम् अपि सुखत्वेनैवानुभवन्त्य इति भावः । क्रीडनवत् दारु-यन्त्रवत् । प्रियस्य श्री-कृष्णस्य सङ्गेन सम्भाषण-रूपेण निर्वृताः प्राप्तानन्दाः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : क्रीडनवच् च क्रीडनं दारु-पुत्रिकादिः । दारु-पुत्रिकाः सूत्र-ग्रथिता यथा नर्त्यन्ते, तथा कारिताः, यतः प्रिय-सङ्ग-निर्वृताः प्रिय-सङ्ग-मात्रं निर्वृति-हेतुर् यासां ताः ॥२२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो राजन् ! पश्य गाढ-प्रेम-माहात्म्यम् । किं वा, श्री-कृष्णस्य मोहनत्वम् इति वदन् ताः प्रति साभ्यसूयम् इवाह—दृढम् इति । क्रीडनं क्रीडोपकरणं यन्त्र-पुत्रिकादि । यतः प्रियस्य तस्य सङ्गेन सङ्गत्यैव निर्वृताः । यद् वा, प्रिय-सङ्गेन निवृताश् च बभूवुः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेनेत्य् उक्तम् एव विवृणोति—दृढम् इति । क्रीडनं क्रीडोपकरणं यन्त्र-पुत्रिकादि प्रियस्य तस्य सङ्गेन सङ्गत्यैव निर्वृताः । यद् वा, प्रियस्य सङ्गेन प्रत्युत निर्वृता बभूवुः—अहो पश्य गाढ-प्रेम-माहात्म्यम् इति भावः ॥२२॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३७८) : अथ पुनर् अपि यूयं विवस्त्रा यद् अपि धृत-व्रता [भा।पु। १०.२२.१९] इत्य्-आदिकं तल्-लज्जांशावशेष-निःशेषता-दर्शन-कौतुकार्थं श्री-कृष्ण-नर्म-वाक्यम् । तद्-अनन्तरं इत्य् अच्युतेन [भा।पु। १०.२२.२०] इत्य्-आदिकं तासाम् अपि तथैव तद्-अनन्तरम् अपि स्वयं तथैव व्याचष्टे—दृढम् इति । दृढम् अत्यर्थं प्रलब्धा वञ्चिताः, यूयं विवस्त्रा इत्य्-आदिना । त्रपया लज्जया च हापिताः, अत्रागत्य स्व-वासांसि [भा।पु। १०.२२.१६] इत्य् आग्रहेण । प्रस्तोभिताः उपहसिता, सत्यं ब्रुवाणि नो नर्म [भा।पु। १०.२२.१०] इत्य्-आदिना। कृईडनवत् कारिताश् च, बद्धाञ्जलिं [भा।पु। १०.२२.१९] इत्य्-आदि-प्रायश्चित्त-च्छलेन । न च तासां तत्र दोषोऽस्ति, येन वञ्चनादिकं कृतं, प्रत्युत तस्यैवेत्य् आह स्वयं तेनैव—वस्त्राणि च हृतानीति । तथापि तं प्रति ता नाभ्यसूयन्, प्रत्युत प्रियस्य तस्य सङ्गेन निर्वृताः परमानन्द-मग्ना बभूवुर् इति ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दृढम् इति ॥२२.२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं भगवता अकार्यम् अपि कृतं कारितं च, तथापि तस्मै नासूयन्तीत्य् आह—दृढं प्रलब्धा इत्य्-आदि । दृढं गाढं प्रलब्धा उपहसिताः । त्रपयावहापितास् त्याजिताः । प्रस्तोभिता अपराधी-कृता । क्रीडनवद् दारु-पुत्रिकावत् कारिता नर्तिताः । वस्त्राणि चैवापहृतानि इति प्राग् एवान्वेतव्यम् । न केवलं वस्त्राण्य् एवापहृतानि, दृढं प्रलब्धाश् चैवम् एव योजना । तथापि ताः कुमारिका नाभ्यसूयन् । कुतः ? प्रिय-सङ्ग-निर्वृताः प्रियोऽयं यया तथा करोतु, अस्य सङ्ग एव नः काम्यः स तु भवन्न् आस्ते, किम् एतस्याकार्य-कल्पनयेति निर्वृताः सुखिताः ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तिरस्कुर्वतोऽपि स्व-प्रियस्यानुकूल्यं ताभिः कृतम् अन्यैर् दुष्करत्वाद् विस्मयेनाभिनन्दति—दृढम् इति । दृढम् अत्यर्थं प्रलब्धा वञ्चिता, यूयं विवस्त्रा [भा।पु। १०.२२.१९] इत्य्-आदिना । त्रपया चावहापितास् त्याजिताः, अत्रागत्य स्व-वासांसि [भा।पु। १०.२२.१६] इत्य् आग्रहेण । प्रस्तोभिता उपहसिताः, सत्यं ब्रुवाणि नो नर्म [भा।पु। १०.२२.१०] इत्य्-आदिना । क्रीडनं क्रीडोपकरणं यन्त्र-पुत्रिकादि तद्वत् कारिताः कृताः, बद्धाञ्जलिं [भा।पु। १०.२२.१९] इत्य्-आदि प्रायश्चित्त-च्छलेन । नाभ्यसूयन् दोष-दृष्ट्या नापश्यन् प्रियस्य तथा कृतवतोऽपि सङ्गेन निर्वृताः प्रियत्वाद् एव प्रिय-कृतं दुःख-प्रदानम् अपि सुखत्वेनैवानुभवन्त्य इति भावः ॥२२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : विडम्बतोऽपि प्रियस्यान्यैर् दुष्करां ताभिः कृताम् अनुवृत्तिम् अभिनन्दति—दृढम् इति । दृढम् अत्यर्थं प्रलब्धाः प्रस्ताविता यूयं विवस्त्रा [भा।पु। १०.२२.१९] इत्य्-आदिना । त्रपया च हापितास् त्याजिताः, अत्रागत्य स्व-वासांसि [भा।पु। १०.२२.१६] इति हठेन । प्रस्तोभिताः परिहसिताः, सत्यं ब्रुवाणि नो नर्म [भा।पु। १०.२२.१०] इत्य्-आदिना । क्रीडनवत् यन्त्र-प्रतिभावत् कारिताः कृताः, स्वार्थे णिच्, बद्धाञ्जलिं [भा।पु। १०.२२.१९] इत्य्-आदि प्रायश्चित्त-च्छद्मेना । तथाप्य् अमुं कृष्णं ता नाभ्यसूयन् दोष-दृष्ट्या नापश्यन्, किन्तु तथा कृतवतोऽपि तस्य प्रियस्य सङ्गेन निर्वृताः प्रहृष्टाः प्रियत्वाद् एव तत्-कृतं सर्वं पुमर्थत्वेन मेनिरे इति भावः । इह पूर्णानन्दस्य हरेः स्त्री-रूपादि-विषयानन्दापेक्षा जीववन् न सम्भवेद् इति स्थूल-धियां शङ्का तत्-स्त्रीणां तत्-स्वरूप-शक्तित्वात् परास्ता । तच् च आनन्द-चिन्-मय-रस-प्रतिभाविताभिस् ताभिर् य एव निज-रूपतया कलाभिः इति ब्रह्म-संहितोक्तेः, कलाभिर् विधोः मूर्तिर् हि भवेत् ॥२२॥
॥ १०.२२.२३ ॥
परिधाय स्व-वासांसि प्रेष्ठ-सङ्गम-सज्जिताः ।
गृहीत-चित्ता नो चेलुस् तस्मिन् लज्जायितेक्षणाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेष्ठ-सङ्गमेन सज्जिता वशी-कृता अतो गृहीत-चित्ताः सत्यो नो चेलुः । गृहीत-चित्तत्वम् आह—तस्मिन् कृष्णे लज्जायितेक्षणाः, लज्जा-विलसितम् ईक्षणं यासां ता इत्य् अर्थः ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति लज्जितेक्षणानां चलनादिकम् अतिहठेनापि कर्तुम् अशक्यं भवतीति भावः ॥ (अतः परं विश्वनाथस्य टीका पुनर् आवृत्ता ) ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्व-वासांसि निज-निज-वस्त्राणि यथा स्वयम् एव तेन परिवर्त्य दत्तान्य् अपि परिचितान्य् अन्योन्यं परिवर्तनेन स्वीय-स्वीयान्य् एव परिधायेत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, प्रेष्ठस्य श्री-कृष्णस्य सङ्गमेन आसज्जिताः, तस्मिन्न् एवासक्तीकृताः । अत आकृष्ट-भगवच्-चित्ताः । अत एव मिथो भाव-विशेषोदयेनाश्वास-वाक्-प्रसाद-लाभेन वा सलज्ज-दृष्टयः सत्यः, तस्मिन् स्थाने कृष्णे वावस्थिता नो चेलुस् तत एवेत्य् अर्थः । पञ्चम्य्-अर्थे वा सप्तमी ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्व-वासांसि निज-वस्त्राणि तेन परिवर्त्य दत्तान्य् अपि परिचित्यान्योन्य-स्वीय-स्वीयान्य् एव परिधायेत्य् अर्थः । अन्यत् तैः ।
यद् वा, प्रेष्ठस्य श्री-कृष्णस्य सङ्गमेन सज्जिताः, तस्मिन्न् एवासक्तीकृताः । अत आकृष्ट-भगवच्-चित्ताः । अत एव मिथो भाव-विशेषोदयेनाश्वास-वाक्य-प्रसादेन च सलज्ज-दृष्टयः सत्यस् तस्मिन् स्थाने कृष्णे वा स्थिरा न चेलुस् तत एवेत्य् अर्थः । पञ्चम्य्-अर्थे वा सप्तमी । यद् वा, वासः परिधानानन्तरं लज्जातिशयापगमे सति, गृहीत-चित्ताः उदित-भावाः । अत एव प्रेष्ठ-सङ्गमाय तदैव रहः पाणि-ग्रहणाय सज्जिताः । सज्जा इव वर्तमाना, अत एव तस्मिन् लज्जायितेक्षणाः सत्यो न चेलुः । लज्जते लज्ज इति पचाद्यजन्तं लज्जयितेति क्यन्तान् निष्ठायां रूपं विकृताख्योऽयम् अनुभावो ज्ञेयः । यथोक्तम्—
ह्री-मानेर्ष्यादिभिर् यत्र नोच्यते स्व-विवक्षितम् ।
व्यज्यते चेष्टयैवेदं विकृतं तद् विदुर् बुधाः ॥ [उ।नी। ११.५८] इति ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भगवतैव सर्वज्ञ-शिरोमणिना परिचीय परिचीय प्रत्येकम् उन्नीय कर-तलेन दत्तानि वासांसि ताः परिदधुर् इत्य् आह—परिधाय स्व-वासांसीत्य् आदि स्व-स्व-वासांसीत्य् अर्थः । नो चेलुः, वसन-प्राप्तिर् एव न पुरुषार्थः । तस्मिन् सति तदैव चलनं शोभते । न केवलं तेन वासांस्य् एवापहृतानि, अपि तु चित्तान्य् अपि । अत आह—गृहीत-चित्ताः । गृहीत-चेतत्वं दर्शयति—प्रेष्ठ-सङ्गम-सज्जिताः, प्रेष्ठ-सङ्गमे धृताशाः । अत एव तस्मिन् श्री-कृष्णे लज्जायितेक्षणा जाताभिलाषतया व्रीडित-लोचनाः लज्जयायिते प्राप्ते ईक्षणे यासाम् ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेष्ठस्य सङ्गमेन सज्जितास् तस्मिन्न् एवात्यधिकम् आसक्तीकृताः । यथा कृष्णेन तासां वसनानि गृहीतानि तथा गृहीतं तस्यापि चित्तं याभिस् ता इति परस्पर-प्रेमाश्रयत्वम् उक्तम् । तत्र मय्य् एताः परम-सक्ताः इति कृष्णेन यथा ज्ञातं तथैव कात्यायनी-प्रसादाद् अस्मास्व् अपि अयम् आसक्त इति ताभिर् अप्य् अवगम्य तस्मिन् श्री-कृष्णे लज्जायितं प्राप्तं ईक्षणं यासां तथाभूताः सत्यो भावोत्थ जाड्याद् एव न चेलुः । या खलु कृष्णेन निष्काषिता ताभिर् अपि तिरस्कृता तद्-अङ्गेभ्यो निसृत्य दूरं गताभूत्, सा लज्जा पुनः परावृत्त्यायान्ती नयनेन कृत-तत्-साहाय्येन कृष्ण-समीपं नीयमाना, कृष्णाल् लब्धातिप्रसादा पुनस् तासाम् अङ्गेषु पूर्वतोऽप्य् अधिकम् अधिकारं प्राप्तेत्य् उत्प्रेक्षा ध्वनिता ॥२३॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : प्रेष्ठस्य सङ्गमेन सज्जिता आसक्तिं प्रापिताः गृहीतं तस्य चित्तं याभिस् ता इति मिथः प्रेमा सूचितः । तस्मिन् प्रेष्ठे लज्जाम् आपितानि प्राप्तानीत्क्षणानि यासां तादृश्यः सत्यो नो चेलुः स्तम्भोदयाच् चलितुं न शेकुः हरिर् अस्मास्व् आसक्तिमान् इति प्रतीतेर् निर्गमितापि लज्जा पुनस् तद्-अङ्गेष्व् अत्यर्थं प्रविष्टेति भावः ॥२३॥
॥ १०.२२.२४ ॥
तासां विज्ञाय भगवान् स्व-पाद-स्पर्श-काम्यया ।
धृत-व्रतानां सङ्कल्पम् आह दामोदरोऽबलाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दामोदर इति भक्त-वात्सल्यं दर्शयति, अबलाः प्रति ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां व्रज-कुमारिकाणाम् । अबला इति । निर्बलानां कार्यं सबलेभ्यः श्रेष्ठं करोमीति सम्बुद्ध्य्-अभिप्रायः । यद् वा, अः वसुदेवोऽहं मे बलं यासां तास् तथा भक्ता इत्य् अर्थः । बलम् अत्र सामर्थ्यम् आच्छादनं वा । वासुदेव-वस्त्रवतां न हि प्राकृत-वस्त्रे इच्छोदयतीति । अत एव यूयं मद्-वाक्यात् त्यक्त-वस्त्रा जाता इति भावः । दामोदर इति । भक्तोऽत्र नारदो नलकुवराव् अपि भविष्यद्-भक्तौ यशोदादिर् गोपी-जनोऽप्य् अत्र भक्त-पदेन ग्राह्याः, तद्-अनुग्रहार्थम् उदरे दाम-बन्धं स्वीचकारेति भावः । नारदे तु तद्-वचः सत्य-करणम् अनुग्रहः । नल-कुबरयोर् भक्ति-दानम् अनुग्रहः । प्रसादं लेभिरे गोपी यत् [भा।पु। १०.९.२०] इत्य् आद्य् उक्तेः ।
विजयध्वजस् तु—पाद-स्पर्शः शरीर-स्पर्शं इत्य् आचष्ट, उत्तमानां शरीरं तु पाद-शब्देन भण्यते इति शिष्टोक्तैः । अत एव भगवत्-पूज्यपाद-विष्णु-पाद इति व्यवहारो लोके शास्त्रे च दृश्यते । पाद-शब्देन पाद-पर्यायस् तेन स्वामि-चरण-तात-चरण इत्य् आदयः प्रयोगाः श्रूयन्ते । अङ्गेनाङ्गि-ग्रहणम् इति न्यायो वानुसन्धेयः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सङ्कल्पं विज्ञाय भाव-विशेष-दृष्ट्या साक्षाद् अनुभूय सङ्कल्पम् एव दर्शयति । स्वस्य पादयोः स्पर्शः पत्नीत्वेन भक्त्यात्यन्त-सान्निध्यम् इत्य् अर्थः । यद् वा, स्पर्शः स्पर्शनं पतित्वेन तासु समर्पणं तत्-स्वत्वोपपादनं तस्य काम्यया धृतं नियमेन यन् नतोऽनुष्ठितं वा व्रतं याभिस् तासां स्व-पाद-स्पर्श-रूपम् एव सङ्कल्पम् इत्य् अर्थः । तत्र पाद-स्पर्श-शब्देन प्रेम-विशेषेण पतित्व-विशेषः सूचितः । अबलाः कन्यात्वादिना स्वातन्त्र्य-हीनाः । प्रीत इति तासु तस्य तादृशी कृपा युक्तैवेति भावः । किं वा, अनुत्तमादिवत् न बलम् अन्येषां याभ्यस् ता महाबलिष्ठा इत्य् अर्थः, श्री-भगवद्-वशीकरणात् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्कल्पं विज्ञाय पूर्वोक्त-भावाभिव्यक्त्या साक्षाद् अनुभूय सङ्कल्पम् एव दर्शयति, स्वस्य पादयोः स्पर्शः पत्नीत्वेन भक्त्यात्यन्त-सान्निध्यम् इत्य् अर्थः । यद् वा, स्पर्शः स्पर्शनं पतित्वेन तासु स्व-समर्पणं तत् सत्त्वोपपादनं तस्य काम्यया धृतं नियमेनानुष्ठितं रक्षितं वा व्रतं याभिस् तासां स्व-पाद-स्पर्शेच्छा-मयं सङ्कल्पं तत्र पाद-स्पर्श-शब्देन प्रेम-विशेषेण पतित्वं सूचितं दामोदर इति दामोदरत्वम् आरभ्यैव तासु प्रेमवान् इत्य् अर्थः । अबलाः कन्यात्वादिना स्वातन्त्र्य-हीनाः प्रति इत्य् आत्मैक-साध्याभीष्टत्वं वितर्क्य तासु तस्य तादृशी कृपा युक्तैवेति भावः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तासां तादृशम् आशयं ज्ञात्वा भगवान् वदति—सङ्कल्प इत्य्-आदि ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो रसिक-शेखर ! अस्माभिर् व्रत-फलं प्राप्तम् एव यद् असाधारणं विडम्बनं त्वया कृतं, तेनापि प्राणा न निर्यापितः, प्रत्युत त्वद्-अनुरोधेन सन्तोषिता एव । किं च, जलाद् अस्मान् उत्थाप्य नाना-चातुर्य-सृष्ट्या अस्मत्-सर्वाङ्गानीक्षित्वा अस्मत्-परिधानीय-वासांसि स्वीय-स्कन्ध-धृतानि कृत्वास्मभ्यः स्व-मनो-रत्नेन सार्धं दत्तवता त्वया यत् किञ्चिद् उक्तम्, तस्य च प्रत्युत्तरतया अस्माभिः सलज्जावलोकनम् एव तुभ्यं दत्तम् । अनेनास्माकं त्वय्य् अपराधो वा त्वत्-प्रीणनम् वेत्य् अजानतीर् अस्मान् मुग्धाः प्रति यत् ते विवक्षितं, तत् खलु देश-काल-पात्राभिज्ञत्वं ब्रूहि, तत् श्रुत्वैव गृहं याम इति । तत्र प्रत्युत्तरयिष्यतो भगवतः सर्वाभिज्ञत्वम् एकेन ततस् तां प्रत्युत्तरं चाह त्रिभिस्—तासाम् इति ॥२४॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अत्र दासिकाभ्योऽस्मभ्यं दास्यम् आदिशयन् निशम्य गृहान् प्रयाम इति तासां वाचम् आलक्ष्य तत्-सङ्कल्पं प्रकाशयामासेत्य् आह—तासाम् इति । स्व-पाद-स्पर्श-काम्यया पत्नी-भाव-स्पृहया सङ्कल्पं विज्ञायेति सम्बन्धः दामोदर इति तल्-लीलात आरभ्य प्रेमवान् इत्य् अर्थः ॥२४॥
॥ १०.२२.२५ ॥
सङ्कल्पो विदितः साध्व्यो भवतीनां मद्-अर्चनम् ।
मयानुमोदितः सोऽसौ सत्यो भवितुम् अर्हति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भोः साध्व्यः ! भवतीनां मद्-अर्चनं सङ्कल्पो मनोरथः स च लज्जया युष्माभिर् अकथितोऽपि मया विदितः । स मयानुमोदितश् चातः सत्यो भवितुम् अर्हति । अर्हतीति सम्भावना-मात्रोक्त्या आत्यन्तिको न भविष्यतीति सूचितम् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भवतीनां युष्माकम् । मद्-अर्चनं पति-रूपेण पूजनम् । अनुमोदितः अनुज्ञातः । यतोऽनुमोदितोऽतो हेतोः । सम्भावना-कल्पनायात्यन्तिक-सम्भवे इति निरुक्ति-कारः ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सङ्कल्पो विदित इत्य्-आदि । हे साध्व्यः ! खलु भवत्य एव । यतः पतित्वेनाहं वृतः । अन्य-पतित्वं हि व्यभिचारित्वम् । स्त्रीणां मद्-अर्चनम् अङ्गम् अङ्गेन पूजनम् । स सङ्कल्पो मयानुमोदितः स्वीकृतः । कुतः ? सत्यः सत्ये मयि कृतत्वात् सत्यम् एव महानुमोदनार्हं भवति । यतः सत्य एव भवितुम् अर्हति । आरम्भ एव फलवान् भवितुम् अर्हति ॥२५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तासां तादृशम् आशयं ज्ञात्वा भगवान् वदति—सङ्कल्प इत्यादि । हे साध्व्यः ! इति योग्य-सम्बोधनम् । यतो यूयं नित्य-प्रियाः इत्य् आन्तरीणानां भवतीनां मद्-अर्चनं मद्-अर्चन-रूपः सङ्कल्पो विदितो मया ज्ञातः । अथवा, भवतीनां सङ्कल्पो विदितः, यद्-अर्थं मद्-अर्चनं, स च मयानुमोदितः स्वीकृतः । अतः सत्यो भवितुम् अर्हति, नित्य एवेत्य् अर्थः, सत्यीकृतत्वात् । किं वा भवतीनां सङ्कल्पो विदितः मयाननुमोदितो भवितुम् अर्हति, यतः मद्-अर्चन-रूपत्वात् । मद्-अर्चनं प्रतित्वेन मत्-पूजा ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तद्-अभीष्ट-प्राप्तिं तथाप्य् अन्य-वैलक्षण्यं च प्रतिपादयति—हे साध्व्यः ! परम-प्रेम-व्यवसाय-गुण-रूपवत्यस् तेन च मद्-एकापेक्षिता इत्य् अर्थः । यद् वा, साध्व्यो मद्-एकापेक्षिका भवतीनां मद्-अर्चनं मद्-विषयक-पति-भावमय-प्रेम-सेवात्मक-सङ्कल्पो मया विदितः ज्ञातः सर्वार्थः स चानुमोदितः भद्रं कृतम् इति स्वाभिलाष-सिद्ध्या समास्वादितः । अतो भवतीनां कामनान्तराभावात् मयानुमोदितत्वाच् च स चासौ सत्यः सदाप्य् अव्यभिचार्य् एव भवितुं युज्यत एव, किं तत्र ममान्यस्य वा वरादि-प्रयासेनेत्य् अर्थः । सम्भावनं योग्यताध्यवसानम् अर्हत्वं योग्यत्वम् इति काशिकायां सम्भावनेऽलम् इतीति अर्हे कृत्येति सूत्रयोर् भेदो विविक्तोऽस्ति अभ्यवसानम् आरोपणं रूपकालङ्कारादौ प्रसिद्धम् एवेति सम्भावनार्थत्वे च कल्पिते महतां सम्भावितं सत्यम् एवेति तथा व्याख्यातम् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सङ्कल्प इति द्वयम् ॥२५॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ५१) : तथैव ताः प्रति स्वयम् अभ्युपगच्छति—सङ्कल्प इति । मद्-अर्चनं पति-भाव-मय-मद्-आराधनात्मको भवतीनां सङ्कल्पो विदितोऽनुमोदितश् च सन् सत्यः सर्वदा तादृश-मद्-अर्चनाव्यभिचारी भवितुम् अर्हति युज्यते एव ॥२५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे साध्व्यः ! इति योग्य-सम्बोधनम् । यतो यूयं नित्य-प्रियाः इत्य् आन्तरीणानां भवतीनां मद्-अर्चनं मद्-अर्चन-रूपः सङ्कल्पो विदितो मया ज्ञातः । अथवा, भवतीनां सङ्कल्पो विदितः यद्-अर्थं मद्-अर्चनं, स च मयानुमोदितः स्वीकृतः । अतः सत्यो भवितुम् अर्हति, नित्य एवेत्य् अर्थः । किं वा, भवतीनां सङ्कल्पो विदितः मयानुमोदितः भवितुम् अर्हति, यतः मद्-अर्चन-रूपत्वात् । मद्-अर्चनं प्रतित्वेन मत्-पूजा ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे साध्व्यः ! भवतिनां मद्-अर्चनं मदीय-सुखोत्पादकं च मद्-विषयकाराधनम् एव सङ्कल्पो मनोरथः, स च लज्जया युष्माभिर् अकथितोऽपि मया विदितोऽनुमोदितश् च, निष्कैतवत्वात् सत्यश् च, अत एव भवितुम् अर्हत्य् एव, भवतीनां मत्-सुख-तात्पर्यात् ममापि प्रेम-वश्यत्वात् कात्र खल्व् असम्भावनेति भावः । अत्र कृपा-शक्तिर् एव तास्व् अधिक-समुद्भावितम् तत्-प्रेम-वशम् एव तत्-तल्-लीलाविष्टम् अपि भगवन्तम् ऐश्वर्यं स्फोरयित्वा तत्-प्राप्त्य्-अर्थक-कात्यायन्य्-अर्चन-कृच्छ्रं ज्ञापयामास, तत्-फलं च प्रदापयामास । तास् तु नारायण-सम [भा।पु। १०.८.९] इति गर्गोक्त्यैवायं स्वं नारायणं मन्यन्ते स्मेति जानन्ति स्मेति ज्ञेयम् ॥२५॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : हे साध्व्यः ! भवतीनां मद्-अर्चनं मत्-सुखार्थकात्मार्पण-लक्षणं सङ्कल्पो मनोरथस् त्रपयानुक्तोऽपि मया विदितोऽनुमोदितश् च कैतवाभावात् सत्यश् चातो भवितुम् अर्हति भवतीनां मत्-सुख-तात्पर्यान् मम भवत्-प्रेमाधीनत्वाच् च नात्र सन्देह-गन्ध इति भावः ॥२५॥
॥ १०.२२.२६ ॥
न मय्य् आवेशित-धियां कामः कामाय कल्पते ।
भर्जिताः क्वथिता धाना प्रायो बीजाय नेशते16 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् कुतः ? इत्य् अत आह—न मयीति । कामाय पुनः काम-भोगाय । विषय-महिम्ना कामस्यापि शान्ति-हेतुत्वाद् इति भावः । कामाप्ररोहे दृष्टान्तः । भर्जिता दग्धा क्वथिता पक्वा धाना यवादि । बीजाय अङ्कुरोद्गमाय । प्राय इति स्वेच्छया पुनः प्ररोहम् अपि सूचयति, ध्रुवादीनां तथा दर्शनात् ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् अनात्यन्तिकम् । इत्य् अत इत्य् अत्र । विषय-महिम्ना आत्यन्तिक-विषय**-**सङ्गेन । इति भाव इति—विरज्येत तथा चित्तं कामानाम् अतिसेवया इत्य् उक्तेः । अप्ररोहः अनाविर्भावः । तथा-दर्शनात् प्ररोह-दर्शनात् । प्राय इति यथार्थे, प्रायश् चानशने मृतौ प्रायो बाहुल्य-तुल्ययोः इति । धाना भ्रष्ट-यवे प्रोक्ता धान्याकेऽभिनवाङ्कुरे इति विश्वः । यवाः खलु पङ्किल-भुव्य् उप्ताः प्ररोहन्ति, त एव सूर्यकान्त-रत्न-भुव्य् उप्तास् तापेन भर्जिता बचन्ते । ततो वृष्ट्य्-अम्बु-सिक्ताः क्वथिता रन्धिता, बीजायाङ्कुरोद्गमाय इति विश्वनाथः ॥ (अतः परं तोषणीतः उद्धृतम्।) ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कुतः ? तत्राह—मय्य् आवेशित-धियाम् इत्य्-आदि । कामः सङ्कल्पः कामाय पुनः कामाय कल्पते, स-कृतक17-करणेनैव सिद्धत्वात् । सिद्धत्वं हि पुनः पुनः प्ररोहाभाववत्त्वम् । तत्र दृष्टान्तः—भर्जिता क्वथिता इति प्रायो बाहुल्येन बीजाय बीजत्वाय । मयि कृतो हि कामः पुनः प्ररोहाय न भवतीत्य् अर्थः ॥२६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नेति च व्याख्यातं तत्र । वक्ष्यमाणानुसारेण वाक्य-शेषोऽयं ज्ञेयः । यद्यप्य् एवं, तथापि भवतीनाम् असौ सत्यो भविष्यति, तद् अतीत-फलं च भाव्य् एव, व्रत-विशेषात् ॥२६॥18
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : युक्तत्वम् एवाह—न मयीति । मय्य् आवेशित-धियां मनसापि तथा मां सेवमानानां तन्-मात्राणां कामो राज्य-स्वाराज्यादि-विषयः कामाय कामत्वाय न कल्पते, किन्तु निष्काम-मद्-भक्तय एव कल्पते पर्यवस्यति, सत्यं दिशत्य् अर्थितम् अर्थितो नृणाम् [भा।पु। ५.१९.२७] इत्य्-आदौ श्री-कर्दमादौ च श्री-विष्णूपासनावत्, किं पुनर् मत्-प्रेम-सेवैक-पुरुषार्थानां भवतीनाम् इत्य् अर्थः । कामत्वाकल्पने दृष्टान्तः—भर्जिता इति प्रायो वितर्के धानाः भ्रष्ट-यवाः, धाना भ्रष्ट-यवे प्रोक्ता धन्याकेऽभिनवाङ्कुरे इति विश्वः । ताः स्वरूपत एव भर्जिताः पुनः क्वथिता रन्धिताश् चेत्य् अतिशय-विवक्षया बीजाय बीजत्वाय नेशते न कल्पते ।
अथवा, मय्य् आवेशित-धियां मद्-एक-पुरुषार्थ-मात्राणाम् इत्य् अर्थः । तेषां यः कामः मत्-प्रेम-सेवैक-विषयः, स कामाय कामानान्तराय न कल्पते, किन्तु स्वयम् एवास्वाद्यो भवतीत्य् अर्थः । किं पुनर् भवतीनाम् इति भावः । तत्र योग्यो दृष्टान्तः—धानाः स्वत एव भ्रष्टाः पुनः स्वाद-विशेषाय घृतादिना भर्जिता गुडादिना क्वथिता निष्पक्वाश् च बीजाय नेशते फलान्तरोत्पादनाय न सम्पादनीया बचन्ते, किन्तु स्वयम् एवास्वाद्या बचन्ते, तथा भवतीनाम् अपि कामनान्तर-रहित-भाव-विशेष-संस्कृत-मत्-प्रेम-सेवा-कामोऽपीत्य् अर्थः । एतादृशी मम कापि माधुरीति भावः । तथा च, ताभिर् एवानुभूय वक्ष्यते—
सुरत-वर्धनं शोक-नाशनं
स्वरित-वेणुना सुष्ठु चुम्बितम् ।
इतर-राग-विस्मारणं नृणां
वितर वीर नस् तेऽधरामृतम् ॥ [भा।पु। १०.३१.१४] इति ।
एतासां भावस्य परम-पुरुषार्थ-शिरोमणित्वं श्री-भागवतामृते विवृतम् अस्ति, श्री-भागवत-सन्दर्भे च । किं च, वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भा।पु। १०.४७.५८] इति न्यायेन परम-शान्तानां तेषां वाञ्छा-विषयस्यास्य कथं शान्त्य्-अन्तरापेक्षया स्यात् ? तस्मात् सत्यो भवितुम् अर्हत्य् एवेति निर्गमितम् । एषा स्व-गुण-विख्यापन-मयी मोहनी-नागर-चर्यापि भगवत्-सम्बन्धित्वेन पारमार्थिक्य् एव गम्या । क्वचित् भर्जितेत्य् आदय एक-वचनान्ता नेष्यत इति च स च चित्सुख-सम्मतः स्पष्टार्थश् च ॥२६॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ५१) : स च परम-प्रेमवतीनां नान्यवत् फलान्तरापेक्षः, किन्तु स्वयम् एवास्वाद्यः । यतः न मय्य् आवेशित-धियाम् इति । मय्य् आवेशित-धियाम् एकान्त-भक्त-मात्राणां कामो मद्-अर्चनात्मकः सङ्कल्पः कामाय फलान्तराभिलाषाय न कल्पते, किन्तु स्वयम् एवास्वाद्यो भवतीत्य् अर्थः । तत्रार्थान्तर-न्यासः—भर्जिता इति । प्राय इति वितर्के । धाना भृष्ट-यवाः ताः स्वरूपत एव भर्जिताः पुनः स्वाद-विशेषार्थं घृतेन वा भर्जिता गुडादिभिः क्वथिताश् च सत्यो बीजाय बीजत्वाय नेशते न कल्पन्ते । यववत् ताभिर् अन्य-यव-फलनं नेष्यते किन्तु ता एवास्वाद्यन्त इत्य् अर्थः । तस्मात् तादृश-मद्-अर्चनम् एव भवतीनां परम-फलम् इति भावः । यच् च विषय-महिम्ना शान्तिर् एवासां भविष्यतीति शान्तानाम् उत्प्रेक्षितम् । तच् च ताभिः स्वयम् एवानुभूयान्य-विषयत्वेनैव इतर-राग-विस्मारणम् [भा।पु। १०.३१.१४] इत्य् अनेन । श्री-कृष्ण-विषयत्वे तु तद्-अशान्तिर् एव दर्शिता सुरत-वर्धनम् [भा।पु। १०.३१.१४] इत्य् अनेन ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् अङ्ग-सङ्ग-रूपः सङ्कल्पः कथं भवतु ? तत्राह—न मयीत्य्-आदि । मय्य् आवेशित-धियां मयि निवेशित-चित्तानां कामः सङ्कल्पः कामाय सङ्कल्पाय न कल्पते सङ्कल्पो न भवतीत्य् अर्थः । सङ्कल्पस्य मनो-धर्मत्वाद् अनित्यत्वम् एव । स च मयि चेद् भवति, तदास्य नित्यत्वम् एवेत्य् अर्थः । तथा मय्य् आवेशित-धियां सङ्कल्पो भ्रष्टाः, क्वथिताः स्विन्ना वा धाना यवादयः प्रायो बीजाय बीजत्वाय न कल्पते, पुनर् न प्ररोहन्तीत्य् अर्थः । तथा मय्य् आवेशित-धियां सङ्कल्पो मयि भवन्, मय्य् एव विश्रान्तो भवति, न ततः पुनः प्ररोहति, अत एव नित्या भवति, अनित्यस्य हि विकारापत्तिः ।
अथवा, कामः कामाय न कल्पते, पुनः सङ्कल्पाय न भवति । कामः कृत एव सफलो भवतीत्य् अर्थः ।
अथवा, कामाय पुनर् न भवति मय्य् आवेशित-धीत्वेन परिपूर्ण-भावाद् इच्छान्तर-प्ररोहो न भवति, नित्य-तृप्तत्वात् । तेषां हृदये सङ्कल्पान्तरं न भवतीत्य् अस्मिन्न् अर्थे दृष्टान्तः ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यच् च क्वाचित्कं मद्-अर्चनं स-कैतवकत्वाद् असत्यम् अयथार्थं, तद् अपि मया स्व-साद्गुण्यात् सत्यम् एव भवितुम् अर्हम् एवं कर्तुं शक्यते, किं पुनः परम-शुद्ध-महोत्तम-प्रेम-मयो भवतीनां मद्-आराधन-मनोरथ इत्य् आह—नेति । कामः स-कामत्व-लक्षणं कैतवं कामाय तत्-फलाय अयथार्थाय काम-भोगाय न कल्पते, किन्तु विषय-महिम्ना काम-शान्तय एव । अत्र दृष्टान्तः—भर्जिता इति । अत्र धाना-शब्देन यवा एवोच्यन्ते, ते च यवाः खलु पङ्किले भूमाव् उप्ताः प्ररोहन्ति । अत एव सूर्य-कान्त-रत्न-भूमाव् उप्तास् तापेन भर्जीता बचन्ते । ततो वृष्टि-जलेन सिक्ताः क्वथिता रन्धिता बीजाय अङ्कुरोद्गमाय नेशते, न समर्थाः स्युः । प्राय इति—यथेत्य् अर्थः यथाह विश्व-प्रकाशः—प्रायश् चानशने मृत्यौ प्रायो बाहुल्य-तुल्ययोः इति प्रायो बाहुल्य-तुल्ययोः इति मेदिनी च । नेष्यत इति च पाठश् चित्सुख-सम्मतस् तत्रैकत्वम् अर्मस् ॥२६॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : भवद्-उक्तिर् एव फलं, न तु तस्याः फलम् अन्यद् अस्तीत्य् आह—नेति मय्य् आवेशिता माम् एव पुरुषार्थं विज्ञाय प्रसज्जिता धीर् यैस् तेषां कामो मत्-प्रेम-सेवैक-विषयः स-कामाय फलान्तराभिलाषाय न कल्पते, किन्तु स्वयम् एवास्वाद्यो भवतीत्य् अर्थः । किं पुनर् भवतीनाम् इति भावः । तत्र दृष्टान्तः—भर्जिता इत्य्-आदि । धाना भ्रष्ट-यवे प्रोक्ता धन्याकेऽभिनवाङ्कुरे इति विश्वः । ताः स्वरूपत एव भ्रष्टः पुनर् घृतादिना भर्जिताः क्वथिताः सिता-क्वाथेन निष्पक्वास् ताः प्रायो यथा बीजाय फलान्तरोत्पादनाय नेष्यते एक-वचनम् अर्मस् । प्रायो बाहुल्य-तुल्ययोः इति विश्वः ॥२६॥
॥ १०.२२.२७ ॥
याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः ।
यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सतीः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सिद्धाः पूर्ण-मनोरथाः । तद् आह—इमा आगमिनी रात्रीर् मया रंस्यथेति । आर्या कात्यायिनी । सतीः सत्यः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् पूर्ण-मनोरथत्वम् । आगामिनीः शरत्-सम्बन्धिनीः । तदानीं हेम्नन्तत्वासंवत्सर-पूर्तेः प्राग् इत्य् अर्थः । भगवान् अपि ता रात्रीः शरदोत्फुल्ल-मल्लिकाः [भा।पु। १०.२९.१] इति वक्ष्यमाणत्वात् । यत् मत्-सङ्गमम् । उद्दिश्य सङ्कल्प्य भूयान् नन्द-सुतः पतिः इत्य् उक्तेः । आर्यार्चनं व्रतम् इति योज्यम् । यातेति युष्मद्-अभीष्टम् अङ्गीकृतम् इति भावः । तच् च मयैव सम्पाद्यम् इत्य् आह—अबला इति । कुत्र यामेत्य् आह—व्रजम् इति । एवं चेत् कथम् अबलासु कारुण्यं, तत् स्फुटम् एव सम्पादयति—मयेति । इमाः सन्निहिता एव तादृश-प्राप्त्यावश्यक-प्रत्यायनार्थं साधन-साधु-वादेनैवोपसंहरति, यन् मे तत्-पत्नीत्वं चेरुर् भवत्य इति शेषः । सतीः हे सत्यः ! अत एव ता अप्य् आग्रहेण पत्य्-अन्तरं नाङ्गीकृतवत्य एवेति । तथापि रहो-व्यूढात्वेनान्य-व्यूढावद् गूढम् एवावमन्तेति च बुध्यते । एतद्-अन्या एव हि परकीयायमाणा इति तद् एवम् उक्तं युवतीर् गोप-कन्याश् चेति (लघु-तोषणीत उद्धृतम्) ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तदा कथं तत्-कालम् एव सङ्कल्प-सिद्धिर् नाभूद् इति । तत्राह—याताबला इत्य्-आदि । कुमार्यश् च द्वेधा—पूर्व-सिद्धा व्रत-सिद्धाश् च । पूर्व-सिद्धा अपि कौतुक-वशाद् अपराभिः सह व्रतं चेरुः । हे अबला हे सिद्धा हे इत्य् उभय-सम्बोधनम्। व्रजं यात । सङ्कल्प-सिद्धिं विना कथं यास्याम इति मानसं ज्ञात्वाह—मयेमा इत्य्-आदि । इमा अद्यतनीं रात्रिम् आरभ्य यावती रात्रिर् इत्य् अर्थः । इदानीं तु यौष्माकीणां वाससां सङ्गे एवाङ्ग-सङ्ग इति मन्तव्यम् ॥२७.२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एवाह—यातेति । क्सपा व्याप्य रंस्यथ रास-क्रीडादिना क्रीडिष्यथ, सुख-विशेषं वा प्राप्स्यथ इति स्व-प्रयोजनं । तथा—नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य् उद्धव-वचन-प्रामाण्यतो लक्ष्मीतोऽपि प्रसाद-विशेष-लब्ध्या तद्-अधिकम् अपि दर्शितम् । तत्र च इमाः क्षपा इत्य् अनेनाचिरात् तत्-सिद्धिश् च सूचितेति । अथवा अर्हतीति मयासौ किं साधयितव्यः ? तस्यैव तत्राखण्ड-परमानन्द-प्राप्तौ स्वत एव योग्यतेति परम-सद्-गुण-निधेर् विनयोक्तिः ।
ननु काम-सुखस्य कथम् एवम्भूतत्वं तस्यानैकान्तिकत्वात्19 ? इत्य् आशङ्क्याह—नेति । (१) मय्य् आवेशित-धियाम् इत्य् अन्य-विषयकः कामस् तथा तस्मिन्न् एव रसान्तर-कामश् च निरस्तः। कामाय ग्राम्य-काम-सुखाय न योग्यो भवति, तस्य परम-प्रेम-सुखात्मकत्वेन सर्व-पुरुषार्थ-शिरोमणित्वात् ।
(२) यद् वा, काम्यत इति कामाय सम्भोगाय न कल्पते किम् ? काक्वा, कल्पत एवेत्य् अर्थः । तत्र हेतुः—मय्य् आवेशित-धियाम् इत्य् एव मद्-आवेशित-धीत्वेन तस्य कामस्यापि परम-प्रेम-परिपाक-विलास-रूपत्वात् । तच् च श्री-भागवतामृते बहुधा विवृतम् अस्त्य् एव ।
(३) यद् वा, प्राकृतः कामोऽपि तावत् कामाय न कल्पते, मद्-विषयकत्वेन तस्यापि नैर्गुण्य-सारत्वात्, किम् उत भवादृशीनां प्रेमेति प्रकार-महिम्ना । तथा-सम्पत्तौ दृष्टान्तः—प्रायो भर्जिताः सूर्य-तापेन दग्धवच् छुष्कतां नीताः, पश्चात् क्वथिताश् च जलेन रन्धितवत् क्लेदितां, बीजाय अङ्कुरोद्गमाय नेशते किं ? अपि तु समर्था भवन्त्य् एव ।
(४) यद् वा, किं वक्तव्यम् ? कामित-फल-मात्रं भवतीति मत्-कामोऽधिक-फलम् अपि ददातीत्य् आह—कामाय कामित-फल-मात्राय न कल्पते, किन्तु तद्-अतिरिक्त-फलयापि कल्पत इत्य् अर्थः, वाञ्छातीत-फल-प्रदत्वात् । अतः पतित्वाद् अप्य् अधिकेनौपपत्य-सुखेन मां प्राप्स्यथेति भावः । यतः प्रायो बाहुल्येन भर्जिता दग्धा क्वथिता रन्धिताश् चैव बीजाय नेशते, किन्तु सूर्यातपेन शुष्कीकृताः पश्चाद् वपन-समये जलेनार्द्रीकृता अङ्कुरोद्गमाय अधिकं समर्था भवन्त्य् एवेत्य् अर्थः ।
(५) यद् वा, कामाय विविध-फल-भोगायापि मय्य् आवेशित-धियां कामो न कल्पते, कामिताकामिताखिल-प्रदानाय समर्थो न भवति किम् ? काक्वा भवत्य् एवेत्य् अर्थः । किं वा, योग्यो भवत्य् एव, यथा कथञ्चिद् अपि मद्-भजनेन मत्तो वाञ्छित-तद्-अतीत-फल-सिद्धेः । अत एवाग्रे वक्ष्यते—
कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च ।
नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥ [भा।पु। १०.२९.१५] इति ।
सप्तम स्कन्धे तस्माच् चोक्तं—तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् [भा।पु। ७.१.३१] इति । यच् च श्री-भगवता श्री-रुक्मिणी-देवीं प्रति वक्ष्यते—
ये मां भजन्ति दाम्पत्ये तपसा व्रत-चर्यया ।
कामात्मानोऽपवर्गेशं मोहिता मम मायया ॥ [भा।पु। १०.६०.५२] इति ।
अस्यार्थः—दाम्पत्ये दम्पत्य्-उपभोग-सुखार्थम् । स्त्री तु पत्य्-उपभोग-सुखार्थम्, पुरुषश् च जायोपभोग-सुखार्थम् इति कामात्मानोऽपवर्गेशम्, पञ्चम-स्कन्धोक्तानुसारेण20 अपवर्गः प्रेम-भक्तिस् तस्य दातारम् अपि मां ये भजन्ति, ते मम मायया मोहिता एव । यच् च क्वचित् सकाम-निन्दनं तत् कृष्ण-विषयक-व्यतिरिक्तस्य कामस्यान्तराय-रूपत्वेन मुख्य-फलासिद्ध्या भक्ति-रसिकैः क्रियत इति इदम् अपि तत्रैव विवृतम् अस्ति । युष्माकं तु मत्-पतित्व-कामः सर्वथा कल्पत एवेति भावः ।
(६) अथवा, यः कोऽपि कामः कामान्तर-भोगाय न कल्पते, किन्तु स्वयम् एव मत्-प्रेम-रूपेण परिणमन् परमानन्दाय कल्पत इत्य् अर्थः । तथा च तां प्रत्य् एवायं वक्ष्यति—
यान् यान् कामयसे कामान् मय्य् अकामाय भामिनि ।
सन्ति ह्य् एकान्त-भक्तायास् तव कल्याणि नित्यदा ॥ [भा।पु। १०.६०.५०] इति ।
अस्यार्थः—न विद्यते कामः फलान्तर-वाञ्छा यस्मिन् सोऽकामः प्रेमा तस्मै, तव ते, कामाः सन्त्य् एव, तं विस्तारयिष्यन्तीति, यतः भर्जिता दग्धाः पुनः क्वथिताश् च रन्धिताः । किं वा, भर्जिताः क्वथिता वा बीजाय फलान्तरोत्पादनाय नेशते । किन्तु स्वयं भोग्यतापत्त्या सद्य एव परम-सुखाय समर्था भवतीत्य् अर्थः ।
इति पतित्वेन प्रेम-विशेषासिद्धेर् उपपतित्वेनैव तत्-संसिद्धेस् तथैव मां प्राप्स्यथेति भावः । तद् एवाह—यातेति । हे अबलाः ! इत्य् अतिबाल्यं सूचयति, अतोऽधुना रत्य्-अयोग्या इति भावः । यद् वा, पूर्वोक्त-न्यायेन सर्वतोऽधिक-शक्तिमता इत्य् अर्थः । प्रकार-विशेषेण मद्-वशीकरण-विशेषात्, यतः सिद्धाः सम्पन्न-कामित-तद्-अतीत-फला इत्य् अर्थः । इमा निकट एवैव्यच् छरत्-कालीना इति तासां विदुर-वर्तित्वेऽपि इमा इति सन्निहिततयोक्तिः सान्त्वनार्था । अन्यत् समानम् । इमा हेमन्तस्योत्तर-मास-विवर्धिनीर् आगामिनीः क्षपा मया सह रमणं प्राप्स्यथ ।
ननु, अस्मत्-सङ्कल्पितं त्वयोद्वहन-सुखं सिध्यतु, तेन रास-क्रीदादि-सुखं च घटतां, तत्राह—यद् इति । यद् उद्दिश्य आर्याया अर्चनं व्रतं चेरुर् भवत्यः, तद् इदं मयोक्तिम् औपपत्येन रास-क्रीडादि-सुखम् एवेत्य् अर्थः । विवाहेन पतित्वे रास-क्रीडादि-सुख-विशेषो न सम्पद्येतेति भावः । सतीः हे सत्य इति औपपत्येऽपि यूयं सर्वथा साध्व्य एवेति भावः । तत्त्वतोऽनौपपत्यात् । विवाहिताभ्योऽप्य् अधिक-प्रियत्वात् ।
यद् वा, सतीर् इति क्षपा-विशेषणं उत्तमाः, रासानन्दाविर्भाविकाः, शारदाः शीतोष्णत्वादि-रहिता ज्योत्स्नीश् चेत्य् अर्थः ।
यद् वा, तत्-क्रीडा-माहात्म्यम् एवाह—यद् यस्मात् सत्यो लक्ष्मी-धरण्य्-आदय इदं रास-क्रीडा-सुखम् उद्दिश्यैव आर्यार्चनम् आर्यायाश् चिच्-छक्तेर् अर्चनं व्रतं चेरुर् एव, न तु तत् सुखं प्रापुर् इत्य् अर्थः । यद् वा, मद्-रमणम् इति इदं व्रतम् । अन्यत् समानम् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभीष्टं सम्पादयति—यातेति । युष्मद्-अभीष्टम् अङ्गीकृतम् इति भावः । तच् च मयैव सम्पाद्यम् इत्य् अभिप्रायेणाह—हे अबलाः ! इति पूर्ववत् तर्हि कुत्र यामेत्य् अपेक्षायाम् आह—व्रजम् इति । एवं चेत् तर्हि कथम् अबलास्व् अस्मासु कारुण्यम् इत्य् आशङ्क्य स्फुटम् एव तत् सम्पादयति सिद्धा इति यथा सङ्कल्पं मयाङ्गीकृता एवेत्य् अर्थः । एवम् अङ्गीकार-मयं विवाहम् एव सम्पाद्य तद्-अङ्ग-भूतं फल-विशेषम् अपि सम्पादयति मयेति इमाः सन्निहिता एव तादृश-प्राप्त्यावश्यक-प्रत्यापनार्थं साधन-साधु-वादेनैवोपसंहरति, यन् मत्-पत्नीत्वं चेरुर् भवत्य इति शेषः । सतीः हे सत्यः ! अत एव ता अप्य् आग्रहेण पत्य्-अन्तरं नाङ्गीकृतवत्य एवेति तथापि रहो-व्यूढात्वेनान्य-व्यूढावद् गूढम् एवावमन्तेति च बुध्यते एतद्-अन्या एव हि परकीयायमाणां इति तद् एवम् उक्तं युवतीर् गोप-कन्याश् चेति ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अभीष्टं सम्पादयति—यातेति । सिद्धाः पत्नीत्वेनैव मयाङ्गीकृताः । किं च, मयेति समानं प्रसङ्गम् आरभते ॥२७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् अत्र सन्देहो न कार्यः, सफल एव वो मनोरथः । तद् अधुना व्रजतेत्य् आह—याताबला इत्य्-आदि । हे सिद्धाः ! व्रजं यात । अद्य व्रतादिना सिद्धा इति न पूर्वम् एव स्वतः सिद्धा एव यूयम् इत्य् अर्थः । तथा न चलन्तीर् वीक्ष्य स्पष्टम् आह—हे अबलाः कुमार्यः ! इमा अद्यतनीं क्षपाम् आरभ्य यावतीः क्षपा मया रंस्यथ, यन् मया सह रमणम् उद्दिश्येदं व्रतम् आर्यार्चन-रूपं चेरुर् भवत्य इत्य् अर्थः । हे सतीः हे सत्यः ! अथवा तीरणं तीः समाप्तिः, तया सह वर्तमानं स-समाप्तम् इति यावत् इति व्रत-विशेषणम् । पार-तीर-समाप्ताव् इति तीरेः क्विप्, अतः परं दीक्षातो बभूव ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राथमिकस्य रमणस्य शुभः समयो रात्रिर् एवेत्य् अभिप्रेत्याह—यातेति । सिद्धा एव यूयं माधुर्य-पोषकेन नर-लीलत्वेनैव साधकत्वाभिमान इति भावः । इमाः सन्निहिताः । रंस्यथ रंस्यध्वे । यत् रमणम् । आर्या दुर्गा । सतीः सत्यो भवत्यः ॥२७॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : वाञ्छितं सम्पादयति—याता इति । हे अबलाः ! यूयं व्रजं यात यूयं सिद्धा एव व्रताचरणं तु लोक-रीत्या लीला-रूपं सिद्धिम् आह—इमाः सन्निहिताः क्षपा रात्रीर् मया सह रंस्यथ रंस्यध्वे, यत् पत्नीभावेन रमणम् उद्दिश्य, हे सत्यः आसां गन्धर्व-विधिना विवाहो भूद् इति बोध्यम् ॥२७॥
॥ १०.२२.२८ ॥
इत्य्-आदिष्टा भगवता लब्ध-कामाः कुमारिकाः ।
ध्यायत्यस् तत्-पदाम्भोजं कृच्छ्रान् निर्विविशुर् व्रजम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
भक्त्यानुकम्प्य कन्यास् तास् तद्-विवर्जित-यज्वनाम् ।
पत्न्य्-अनुग्रहतस् तेषाम् अहन् कर्म-महामदम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु नग्नां नेक्षेत् पर-स्त्रियम् इति स्मृतेर् भगवताप्य् अन्याय्यं कुतः कृतम्? इति चेत् शृणु, न हि ताः पर-स्त्रियस् ताभिर् भगवते समर्पित-देहत्वात् पूर्वावतारेषु तथैव भगवान् अपि प्रतिज्ञातत्वाच् च । ताः कात्यायन्य्-अर्चिकाः । तद्-विवर्जिताः भक्ति-विवर्जिताः । ये यज्वानः विधिना यज्ञ-कर्तारः, यज्वा तु विधिनेष्टवान् इत्य् अमरः । तेषाम् विप्राणाम् । कर्मसु महा-मदः नास्मत्-सदृशाः कर्मठा लोके सन्तीत्य् एवं-रूपस् तम् ॥
इत्य्-आदिष्टाः पूर्वोक्त-रीत्य्-आज्ञप्ताः । तत्-पदाम्भोजं कृष्ण-चरणारविन्दं । इति व्रजं यातेत्य्-आदिष्टाः । लब्धः कामो निज-वाञ्छितं याभिस् ताः । अत एव देवीं तद्-व्रतोद्यापनादिकम् अपि परमानन्दाद् विस्मृत्येति भावः । लब्ध-कामत्वेऽपि कृच्छ्राद् दुःखेनैव व्रजम् आविशन् । कुतः ? तत्-पदाम्भोजं ध्यायन्त्य एव, न तु साक्षात् पश्यन्त्यः, तद्-विच्छेदाद् इत्य् अर्थः । पदाम्भोजम् इति विशेष-निर्देशः पति-भावेन गौरवात् तदानीं लज्जया नम्रीभूय स्थितानां तन्-मात्र-दर्शनेन तद्-अनुस्मृतेर् एव प्रकृतत्वाद् वा । निःशब्दः पुनर् व्रतार्थं व्रजाद् यमुना-गमनाभिप्रायेण इति तोषणी ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति व्रजं यातेत्य्-आदिष्टाः, भगवतेति रास-क्रीडा-सम्पत्त्य्-आदेशेन भगवत्ता-सार-सर्वस्वाभिव्यक्तेः । लब्धः कामो निज-वाञ्छितं याभिस् ताः, प्रायस् तासां तादृशाद् एव भावात् । तत्र च सत्य-प्रतिज्ञस्य तथादेश-प्राप्तेः, तथापि कृच्छ्रात् दुःखेनैव व्रजं प्राविशन् । कुतः ? तस्य प्रादाम्भोजं ध्यायन्त एव, न तु साक्षात् पश्यन्त्यः, तद्-विच्छेदाद् इत्य् अर्थः । निःशब्दात् पुनर् व्रतार्थं व्रजाद् यमुना-गमनाभावाद्य्-अभिप्रायेण यद्यप्य् अर्चितायाः श्री-कात्यायन्याः साक्षाद्-भूतायाः सत्या वरणैव निज-कामित-सिद्धितां मन्तुम् अर्हन्ति, न तु तस्य विचित्र-प्रभावानुभवेन तत्र तासां प्रतीतिर् जाता । अत एवोक्तं भगवतेति, तथापि तस्याः समाराधनं तस्माद् अपि तत्-प्रिय-जनस्याराधनोत्कर्षाद् एवेति दिक् ।
यद् वा, अ-कार-प्रश्लेषेण न लब्धः कामः सद्य एव तेन सह क्रीडा-विशेषो याभिः, अत एव कृच्छ्रात् । अलब्ध-कामत्वे हेतुः—कुमारिका अत्यन्त-बाल्येन तदानीं तत्-क्रीडायाम् अयोग्या इत्य् अर्थः । श्री-भगवत्-कृतानुग्रह-प्रभावेन व्रज-स्त्री-स्वभावेन बाल्य-कालेनैव तद्-योग्या भविष्यन्त्य् एवेति दिक् ।
ननु, तर्हि कथं निरिविविशुः ? तत्राह—ध्यायन्त इति सर्व-तापोपशमन-परमानन्द-रस-स्रावि-तच्-छ्री-चरण-द्वय-ध्यानेनैव हृत्-तापोपशान्तेर् इत्य् अर्थः । यद् वा, तत्-पदाम्भोजं तत्-कार्य-क्रीडादिकं प्राप्यं चिन्तयन्त्यः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति व्रजं गातेत्य्-आदिष्टाः लब्धः कामो निज-वाञ्छितं याभिस् ताः । अत एव देवीं तद्-व्रतोद्यापनादिकम् अपि परमानन्दाद् विस्मृतवत्य इति भावः । लब्ध-कामत्वेऽपि कृच्छ्रात् दुःखेनैव व्रजं प्राविशन् । कुतः ? तस्य पादाम्भोजं ध्यायन्त्य एव न तु साक्षात् पश्यन्त्यः तद्-विच्छेदाद् इत्य् अर्थः । पदाम्भोजम् इति विशेष-निर्देशः पति-भावेन गौरवात् तदानीं लज्जया नम्रीभूय स्थितानां तन्-मात्र-दर्शनेन तद्-अनुस्मृतेर् एव प्रकृतत्वाद् वा निःशब्दः पुनर् व्रतार्थं व्रजात् यमुना-गमनाभावाभिप्रायेण ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृच्छ्राद् इति तेन तासां मनो-नेत्राद्य्-आहरणात् ॥२८॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : कृच्छ्राद् इति । तेन तासां मनो-नयनाद्य्-आहरणाद् इति भावः ॥२८॥
॥ १०.२२.२९ ॥
अथ गोपैः परिवृतो भगवान् देवकी-सुतः ।
वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः
श्रीधर-स्वामी (भावार्थ-दीपिका) : अथ तासां गमनानन्तरम् । श्रीतोषिण्यां तु गोप-कन्यासु प्रसादम् उक्त्वा तत्-प्रस्ताव-सादृश्याद्य् अज्ञपत्नीषु प्रसादं वक्तुम् आरभते । अथ लीलान्तरारम्भे । स च निदाघ-समय एवेति ज्ञेयम् निदाघार्कातपः इति वक्ष्यमाणत्वात् । अत एव सहाग्रजः श्री-बलदेव-सहितः । वस्त्राहरण-दिने तत्-साहित्याभावात् । गोपैः परिवृत इति प्राग् उक्तिर् वक्ष्यमाण-लीलायां तेषाम् अपेक्षा-विशेषात् । देस्वकीसुत इति । पूर्वस्माद् एव हेतोः वृन्दावनाद्-गतो दूरम् इति प्रथमं तावदिग्रिव्रजमयं काम्यकवनं गतः तत एवास्य धातुर् आगमयवेशो वर्णयिष्यते, पश्चान् निदाघ-तृष्णागमितधेनु-जल-पायनार्थं व्रजं दक्षिणे विधाय यमुनाम् आगतः । तच् च व्रजाद् आगच्छन्-मध्याह्नं भोज्य-वञ्चनार्थम्, तच् च श्री-यज्ञ-पत्नीष्व् अन्न-प्रार्थना-रूप-कृपार्थम् इति ज्ञेयम् ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ तासां गमनान्तरम् । [अत्र श्री-वैष्णव तोषिण्यां दृष्ट] ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथ गोपैर् इत्य्-आदि । अथानन्तरं वृन्दावनात् दूरं गतः सन् गोपैः सह परिवृतः सहाग्रजो गाश् चारयन् द्रुमान् वीक्ष्य आहेति परेणान्वयः । एतेन गोप-परिवृतत्वं सहाग्रजत्वं च वस्त्राहरणात् पश्चात्तनम् एव । ननु गोपैः परिवृतो भगवान्, अथ गाश् चारयन्न् इत्य्-आदिर् अन्वयः कार्य-ह् ? नैवं, सहाग्रज इत्य् आसङ्गः । तेन हि पूर्वं भवन्-मतेऽप्य् अग्रज आसीत्, नाप्य् अधुना क्व आगतः । अतोऽग्रजेन वयस्य-बालका गाश् चारयितुं गताः । भगवान् एक एव तत्-कर्म-सिद्धये गत इति मन्तव्यम् । अत एव वयस्यैर् आगतस् तत्र वृतस् तत्-कर्म-सिद्धये [भा।पु। १०.२२.८] इति पूर्वं तथा व्याख्यातम् ॥२९.३८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना श्री-गोप-कन्यासु प्रसादम् इव यज्ञ-पत्नीषु प्रसादं प्रस्तावाद् वक्तुं तत्-प्रसङ्गम् आरभते—अथेति । कालान्तरे कदाचित् ग्रीष्म-समय इत्य् अर्थः । निदाघार्कापते तिग्म [भा।पु। १०.२२.३०] इति वक्ष्यमाणत्वात् । अत एव सहाग्रजः श्री-बलदेवेन सहितः, गोप-कन्या-वस्त्र-हरण-दिने तत्र तेन साहित्याभावात् । गोपैः परितो वृत इति प्राग्-उक्तिर् वक्ष्यमाण-लीलायां तेषाम् अपेक्षा-विशेषात् । देवक्याः सुत इति यज्ञपत्नीषु माथुरिषु तथैव प्रतीतेः । अतस् तासां भावेनाकर्षणात् । तद्-गृहान्तिके यातुं वृन्दावनाद् दूरं गत इत्य् अर्थः । यतो भगवान् परम-दयालुः । यद् वा, देवकी श्री-यशोदेति व्याख्यातम् एव । ततश् च दूरे गमनं श्री-यज्ञपत्न्य्-अनुग्रहार्थम् एव । श्री-स्वामि-पाद-व्याख्याने च तदानीं श्री-बलदेवस्य तत्रागमनस्यायोग्यत्वाद् असौ पश्चाद् आगत्य मिलित इति पोषे कदाचिद् वृष्टीच्छया निदाघार्कस्येव तप इति ज्ञेयम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना श्री-गोप-कन्यासु प्रसादम् उक्त्वा ततः तत्-प्रस्ताव-सादृश्याद् यज्ञ-पत्नीषु प्रसादं वक्तुं आरभते । अथ लीलान्तरारम्भे स च निदाघ-समय इति विज्ञेयं निदाघार्कापते तिग्म [भा।पु। १०.२२.३०] इति वक्ष्यमाणात् । अत एव सहाग्रजः श्री-बलदेवेन सहितः, गोप-कन्या-वस्त्र-हरण-दिने तत्र तेन साहित्याभावात् । गोपैः परितो वृत इति प्राग्-उक्तिर् वक्ष्यमाण-लीलायां तेषाम् अपेक्षा-विशेषात् । देवक्यी-सुत इति पूर्वस्माद् एव हेतोः वृन्दावनाद् गतो दूरम् इति प्रथमं तावद् गिरि-व्रज-मयं काम्यक-वनं गतः । तत एवास्य धातु-रागम् अनवेशो वर्णयिष्यते पश्चात् निदाघ-तृष्णागमित-धेनु-जल-पायनार्थं व्रजं दक्षिणे विधाय यमुनाम् आगतः । तच् च व्रजाद् आगच्छत् मध्याह्न भोज्य-वञ्चनार्थम् । तच् च श्री-यज्ञपत्नीष्व् अन्न-प्रार्थना-रूप-कृपार्थम् इति ज्ञेयम्॥२९॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३७९) : अथ यज्ञ-पत्नीनां ब्राह्मणीत्वेन योग्यत्वाभावात् श्री-कृष्णस्य तासु भावेऽनुदिते सति पूर्व-राग इव प्रतीयमानो यो भावः, तद्-अनन्तरं च सन्दर्शन-सञ्जल्प-रूप-सम्भोग इव प्रतीयमानो यः, स तु सम्भोगाभासस् तस्य हेमन्तस्यानन्तरे निदाघे द्रष्टव्यः । यथाह—अथेति ।
अथ व्रज-कुमार्य्-अनुग्रहानन्तरं क्वचिन् निदाघ-दिन इत्य् अर्थः । आनन्तर्यम् इह आगामि-निदाघान्तरं व्यवच्छिनत्ति । तस्मिंश् च दिने श्री-बलदेवोऽपि सङ्ग आसीद् इत्य् आह—सहाग्रज इति । वृन्दावनाद् गतो दूरम् इति पर्वतमय-काम्यक-वन-गमनात् । ततश् च धातु-राग-वेशत्वेन—तरूणां नम्रशाखानां मध्येन यमुनां गतः [भा।पु। १०.२२.३६] इत्य् अनेन च लब्धत्वात् । तद् एतच् च व्रजं दक्षिणीकृत्य गतत्वात् सङ्गतम् । यमुनोपकण्ठ-गत्या पश्चाद् एव भक्त-क्रीडनाख्यं कुट्टिमं च गत इति ज्ञेयम् । यस्य च दक्षिणतो मधु-पुराद् उत्तरतो याज्ञिक-ब्राह्मणा ऊषुर् इति च । अतः कंस-समीप-वासत्वात् कंसाद् भीता न चाचलन् [भा।पु। १०.२३.५२] इत्य् अनेन तेषां ब्राह्मणानां श्री-भगवन्-मिलनं न जातम् इति क्रमोऽत्र कर्तव्यः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथेति । अथ लीलान्तरारम्भे । स च निदाघ-समय एव निदाघार्कातपे [भा।पु। १०.२२.३०] इति वक्ष्यमाणात् ॥२९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ वस्त्र-हरण-लीलया कुमारीभ्यः प्रसादं कृत्वा पश्चाद् वयस्यैः सह सङ्गतो बभूवेति दर्शयति—अत्र गोपैः परिवृत इत्यादि । अथ वस्त्राहरण-लीलानन्तरं वृन्दावनाद् दूरं गतः सन् गोपैः परिवृतः सहाग्रजश् च सन् गाश् चारयन् द्रुमान् वीक्ष्याहेति परेणान्वयः । अतो वयस्यैर् अगतस् तत्र इत्य् अत्र यथा-श्रुतं व्यख्यानम् असङ्गतम् । ननु गोपैः परिवृतो भगवान्, अतो वस्त्राहरणान्तरं गाश् चारयन्न् इत्य् एवान्वयः कार्यः ? मैवम् । तदा सहाग्रज इत्य् असङ्गतम् । एकयो विनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति न्यायात् । तथा सत्य् अतीवानौचित्यम् । अत एकाकी सन् तत्रागत इत्य् एव मन्तव्यम् ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोप-कन्या-प्रसादस्य प्रस्तुत्या रोहितः स्मृतौ । यज्ञ-पत्नी-प्रसादोऽतस् तं विवक्षुर् अभून् मुनिः । अथेति समयान्तर-व्यञ्जकं कदाचित् निदाघार्ताव् इत्य् अर्थः ॥२९॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : व्रज-कन्या प्रसाद-प्रसङ्गेन हृद्य् आरोपितं यज्ञपत्नी-प्रसादं विवक्षुर् मुनिर् आह—अथेति समयान्तरे ग्रीष्मर्ताव् इत्य् अर्थः ॥२९.३०॥
॥ १०.२२.३० ॥
निदाघार्क-तपे तिग्मे छायाभिः स्वाभिर् आत्मनः ।
आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रजौकसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निदाघ उष्णोपगमः इत्य् अमरान् निदाघो ग्रीष्म-र्तुः, तत्-स्वीकारे हेमन्ते प्रथमे मासि [भा।पु। १०.२२.१] इत्य् उपक्रमो विरुध्येतातो\ऽत्र निदाघ-पदेन स्वेदाम्बु ज्ञेयम् । निदाघ ऋतु-भेदे स्याद् उष्ण-स्वेदाम्बुनोर् अपि इति मेदिनी । निदाघः स्वेदाम्बु तत्-करोऽर्को निदाघार्कः । मध्यपदलोपी समासः । तस्यातापो निदाघ-तपस् तस्मिन् तीव्रे मध्याह्ने सति । द्रुमान्वीक्ष्येत्य् अन्वयस् ततो न विरोध इति । आनपत्रम् इवाचरन्तीत्य् आपत्रायन्ते, आतपत्रायितास्तान् । आचारार्थक्यङ्तात्कर्तरिक्तः । व्रजौकस इति द्रुम-विशेषणम् । आत्मन इत्य् उपलक्षणं स्वस्य स्वेषां च ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निदाघः उष्णोपगमः इत्य् अमरान् निदाघो ग्रीष्मर्तुः तत्-स्वीकारे हेमन्ते प्रथमे मासि [भा।पु। १०.२२.१] इत्य् उपक्रमो विरुध्येतातोत्र निदाघ-पदेन स्वेदाबु ज्ञेयम् । निदाघ ऋतु-भेदे स्याद् उष्ण-स्वेदाम्बुनोर् अपि इति मेदिनी । निदाघ स्वेदाम्बु तत्करोऽर्को निदाघार्कः । मध्य-पद-लोपी समासः । तस्यातापो निदाघातपस् तस्मिन् तीव्रे मध्याह्ने सति । द्रुमान् वीक्ष्येत्यन्वयस् ततो न विरोध इति । आनपत्रम् इवाचन्तीत्य् आपत्रायन्ते, आतपत्रायितास् तान् । आचारार्थक्यङ्न्तात् कर्तरिक्तः । व्रजौकस इति द्रुम-विशेषणम् । आत्मन इत्य् उपलक्षणं स्वस्य स्वेषां च ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथं दूरं गतस् तद् आह—निदाघेति सप्तभिः । आत्मनः श्री-भगवतो व्रजौकसो गोपान् आह—प्रायो वन्यानां गोपनां एव वृक्षैर् हिताचरणात्, तथा सख्येन तेश्व् एव प्रिया-प्रिय-वृत्तस्य वर्णत्वाच् च,
यद् वा, आत्मनो ये व्रजौकसो गोप-गवादयस् तान् प्रति आतपत्रायितान् । यद् वा, आत्मनः प्रति बहुत्वं परम-प्रियतया भेदाभावेन स्वीकृतानां गोपानाम् आत्म-रूपत्वात् ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र वृन्दावन-क्रमण-प्रकारम् आह-निदाधेति सप्तभिः आत्मन इत्य् उपलक्षणं स्वस्य स्वेषां च छत्रायितान् व्रजौकसो व्रज-जन-वर्तिनो द्रुमान् वीक्ष्याह वक्ति स्म ॥३०॥
जीव-गोस्वामी (प्रीति-सन्दर्भ ३८१) : तस्य दिनस्य गुणेन शब्देन च निदाघ-सम्बन्धित्वम् आह—निदाघेति । निदाघस्य अर्कातपे तिग्मे सति ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : व्रजौकसो निज-सह-वासिन इत्य् अर्थः ॥३०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरम् उदार-वृक्ष-योनाव् अपि जन्म सद्भिः प्रार्थ्यं, न तु कृपण-कर्मि-विप्र-जाताव् इतीमम् अर्थं ज्ञापयितुं वृक्षान् स्तौति—सखीन् सम्बोध्य पश्यतेति चतुर्भिः ॥३०॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.२२.३१ ॥
हे स्तोक-कृष्ण हे अंशो श्री-दामन् सुबलार्जुन ।
विशालर्षभ तेजस्विन् देवप्रस्थ वरूथप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सम्बुद्ध्य्-आत्मक-पद्यम्—हे स्तोकोऽल्पः कृष्णः कृष्ण-वर्णो यस्येति तथा सर्वेषां सम्बोधनानाम् अग्रिमेण पश्यतेति क्रिया-पदेन सम्बन्धः । गोप-गणना-क्रमो\ऽयं यथा-दृष्टि-प्राप्तम् एव ज्ञेयः । एते दश श्री-कृष्णस्य दश-दिक्षु रक्षणार्थं प्रेम्णा वर्तन्त इति केचित् सम्भावयन्ति दश-सङ्ख्याकत्वात् । तत्र स्तोक-कृष्णादयोऽष्टाव् अष्ट-दिक्षु देवप्रस्थ-वरूथौ छत्र-धारण-वर्त्म-शोधनादिनोर्ध्वाधो-देशयोर् ज्ञेयो एकादशो भद्रसेनस् तु गोपसेनाध्यक्षः । रामश् च सर्वापेक्षकस् तदानीं दूरे स्थित इति लभ्यते ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्बुद्ध्य्-आत्मक-पद्यं हे स्तोको\ऽल्पः कृष्णः कृष्ण-वर्णो यस्येति तथा सर्वेषां सम्बोधनानाम् अग्रिमे पश्यतेति क्रिया-पदेन सम्बन्धः । गोप-गणना-क्रमो\ऽयं यथा-दृष्टि-प्राप्तम् एव ज्ञेयः । एते दश श्री-कृष्णस्य दश-दिक्षु रक्षणार्थं प्रेम्णा वर्तत इति केचित् सम्भावयन्ति दश-सङ्ख्याकत्वात्, तत्र स्तोक-कृष्णादयोऽष्टाव् अष्टदिक्षु देवप्रस्थ-वरूथौ छत्र-धारण-वर्त्म-शोधनादिनोर्ध्वाधो-देशयोर् ज्ञेयो । एकादशो भद्रसेनस् तु गोप-सेनाध्यक्षः । रामश् च सर्वापेक्षकस् तदानीं दूरे स्थित इति लभ्यते ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ प्रार्थयितव्यान् याज्ञिकान् अप्य् अनादरणीयतयावज्ञय सखि-मुख्यान् अभिमुखीकृत्य तान् द्रुमान् अस्तुवद् इत्य् आह—हे स्तोकेति युग्मकेन । सम्बोधन-क्रमोयं यथा दृष्टि-प्राप्तम् एव ज्ञेयः एते दश श्री-कृष्णस्य दश-दिक्ष्ववेक्षणार्थं प्रेम्णा वर्तन्त इति केचित् सम्भावयन्ति दश-सङ्ख्याकत्वात् तत्र स्तोक-कृष्णादयोऽष्टावष्ट-दिक्षु देव-प्रस्थवरूथपौ छत्र-धारणवर्त्म-शोधनादिनोद्ध्वार्धोदेशयोः एकादशो भद्र-सेनस्तु गोप-सेनाक्ध्यक्ष्यः सर्वावेक्षकस् तदानीं दूरे स्थित इति लक्ष्यते ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ प्रार्थयितव्यान् याज्ञिकान् अप्य् अनादरणीयतयावज्ञय सखि-मुख्यान् अभिमुखीकृत्य तान् द्रुमान् अस्तुवद् इत्य् आह—हे स्तोकेति युग्मकेन । सम्बोधन-क्रमोयं यथा दृष्टि-प्राप्तम् एव ज्ञेयः एते दश श्री-कृष्णस्य दश-दिक्ष्ववेक्षणार्थं प्रेम्णा वर्तन्त इति केचित् सम्भावयन्ति दश-सङ्ख्याकत्वात् तत्र स्तोक-कृष्णादयोऽष्टावष्ट-दिक्षु देव-प्रस्थवरूथपौ छत्र-धारणवर्त्म-शोधनादिनोद्ध्वार्धोदेशयोः एकादशो भद्र-सेनस्तु गोप-सेनाक्ध्यक्ष्यः सर्वावेक्षकस् तदानीं दूरे स्थित इति लक्ष्यते ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ पूर्ववद् विनोद-वाक्यम् एवेदम् । श्री-भगवदीयत्वेन परमार्थताम् अपि वहतीति भावाह् । अतो विनोदेनैव प्रत्येकं मुख्यान् सम्बोधयति—हे स्तोकेति ॥३१.३२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्तोककृष्णादयोऽष्टाव् अष्ट-दिक्षु कृष्णस्य रक्षणं कर्मसु स्थिताः । देवप्रस्थ-वरूथपौ छत्र-धारक-वर्त्म-शोधकाव् इत्य् ऊर्ध्वाधो-देश-कृत्ययोः स्थितौ । एकादशो भद्रसेनस् तु गोपसेनाध्यक्षः सर्वापेक्षकः तदानीं दूर-स्थित इति लक्ष्यते ये वातवर्षादीन् स्वयं सहमानास्माकं वारयन्ति ॥३१-३२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : पशुघ्न कर्मठ विप्रेभ्यो अमी वृक्षाः परोपकारित्वाच्छ्रेष्ठा इति भावेन तान् स्तोतुं हे स्तोक कृष्णेत्य्-आदिना सखीन् सम्बोधअति अष्टावमी महावीरा राज-पुत्रस्य कृष्णस्य रक्षणायाष्टासु दिक्षु तिष्ठन्ति देव-प्रस्थवरूथपौ तु छत्रधारण-मार्गशोधनादिनोर्ध्वाधोदिशोः भद्रसेनस्त्वेकादशः सर्व-गोपसेनापतिः सर्वावेक्षी विदूरे स्थित इति बोध्यम् ॥३१॥
॥ १०.२२.३२ ॥
पश्यैतान् महाभागान् परार्थैकान्त-जीवितान् ।
वात-वर्षातप-हिमान् सहन्तो वारयन्ति नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विप्र-भार्यानुग्रहाय यज्ञ-वाटं गच्छन् विप्राणां काठिन्यम् अभिप्रेत्य तेभ्योऽपि द्रुमाः श्रेष्ठा इति तान् अभिनन्दति चतुर्भिः, पश्यतेति । हे स्तोक-कृष्णा दयो गोपाः, एतान् द्रुमान् पश्यत् । परार्थम् एवैकान्तेन जीवितं येषां तान् । तद् आह—वात-वर्षादीन् स्वयं सहन्तः सहमाना अस्माकं वारयन्ति ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकान्तेन निश्चयेन निश्चये च रहःस्थाने एकान्तम् एकनाशने इति नैरुक्तः । वारयन्ति अपाकुर्वन्ति । महान् भागो भाग्यं येषां तान् तल् लक्षणम् आह—परेति । नोऽस्माकं केचिद् वातादीन् स्वयं सहन्ते तपस्विनो न त्व् अन्येषां वारयन्ति स्निग्धाशया दयालवो वा केचित्-परेषां वारयन्ति स्वयं तु न सहन्ते किं तु तत्-प्रतीकारं कुर्वते, एते च स्वयं महमानाः परेषां वारयन्तीति महा-भागत्वम् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महान् भागो भाग्यम्, यद् वा, सर्व-जीव-प्रप्तेषु त्वंशो येषां तान्, तल् लक्षणम् आह—परेति । नो\ऽस्माकं गोपानां सर्व-प्राणिणां वा, केचित् वातादीन् स्वयं सहन्ते तपस्विनः, न त्वन्य् एषां वारयन्ति, स्निग्धाश् च दयालवो वा, केचित् परेषां वारयन्ति, स्वयन्तु न सहन्ते किन्तु तत्-प्रतीकारं कुर्वन्ति, एते च स्वयं सहमानाः परेषां वारयन्तीति महा-भागत्वम् ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महान् भागो भाग्यं येषां तान् तल् लक्षणम् आह-परेति । नोऽस्माकं केचिद् वातादीन् स्वयं सहन्ते तपस्विनः नत्व् अन्येषां वारयन्ति स्निग्धाश् च दयालवो वा केचित् परेषां वारयन्ति स्वयन्तु न सहन्ते किन्तु तत् प्रतीकारं कुर्वते एते च स्वयं सहमानाः परेषां वारयन्तीति महा-भागत्वम् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदानीं दूर-स्थित इति लक्ष्यते ये वातवर्षादीन् स्वयं सहमानास्माकं वारयन्ति ॥३२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ये वातादीन् स्वअं सहन्तोऽस्माकं तान् वारयन्ति ॥३२॥
॥ १०.२२.३३ ॥
अहो एषां वरं जन्म सर्व-प्राण्य्-उपजीवनम् ।
सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुजनस्य कृपालोर् अर्थिन इव ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्थिनः कार्यार्थिनः ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च केवलं वटादि-दुःखाद्-रक्षन्ति, सर्वार्थं च स्म्पादयन्तीत्य् आह—अहो इति द्वाभ्याम् । विस्मये हर्षे वा । वरं सर्वतः श्रेष्ठम् । कुतः ? सर्वेषां प्राणिनाम् उपजीवनं जीविका यस्मात् तत् । यद् वा, अत्यन्ताभेद-विवक्षया उपजीवनम् एव तद् रूपम् इत्य् अर्थः, जीविनाम् इति पाठे\ऽपि स एवार्थः । तद् एवाह—येषां येभ्यो विमुखा न यान्ति जनाः, वै प्रसिद्धौ, सुजनस्य कृपालोर् अर्थिन इवेति याचकानाम् एवासौ कामं पूरयेत्, एते च अयाचकानाम् अपीति ध्वनितम् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न च केवलं वातादि-दुःखात् रक्षन्ति सर्वार्थं च सम्पादयन्तीत्य् आह—अहो इति द्वाभ्याम् । अहो इति विस्मये हर्षे वा वरं सर्वतः श्रेष्ठं कुतः सर्वेषां प्राणिनाम् उपजीवनं जीविकाक्-हेतुः जीविनाम् इति पाठे स एवार्थः हेतु-णिजन्ताण् णिनिः तद् एवाह—येषां येभ्यो विमुखा न यान्ति जनाः वै प्रसिद्धौ ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुजनस्य आतिथेयस्य अर्थिनो याचकाः ॥३३॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सुजनस्यातिथि-भक्तस्य येषां येभ्यः अर्त्स्हिनो याचकाः ॥३३॥
॥ १०.२२.३४ ॥
पत्र-पुष्प-फल-च्छाया-मूल-वल्कल-दारुभिः ।
गन्ध-निर्यास-भस्मास्थि-तोक्मैः कामान् वितन्वते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्यासो घन-रसः । तोक्माः पल्लवाद्य्-अङ्कुराः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तोक्मं कर्णमले पुंसि हरिते च यवे हये । स्वरेङ्कुरे इति धरणिः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाह—पत्रेति । कामान् इच्छाः, वितन्वते विस्तरेण परिपूरयन्तीत्य् अर्थः । मूलम् औषधाद्य् अर्थं जटा, न तु वृक्षाधारः, तं विना नाशापत्तेः, गन्धः रसादिभवः, भस्म दार्वादि-जमङ्गारादि, अस्थि सारांश, यद् वा, दारु इन्धनं स्वयं-शुष्ञद् उपशाखादिभवं बाह्यम्, अस्थि च विदार्यमान्तरं काष्ठम् । किं वा, स्तम्भाद्य् अर्थं वृहच्छाखादिकम् इति भेदः । तत्र केषाञ्चित् पत्रैः, केषाञ्चित् पुष्पैः, केषाञ्चिद् उभयैः केषाञ्चन तैस्त्रिभिः, केषाम् अपि बहुभिः, केषाञ्चिच् च सर्वैर् एवेति विविचनीयम् । यद् वा, पत्रादीनाम् एकतमेनैव कामान् सर्वान् वितन्वते, तेषां कस्मिश्चित् प्राप्ते सति तत एव सर्वभीष्ट-सिद्धेः । एवं कल्प-द्रुमवन् माहात्म्यं दर्शितम् ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाह—पत्रेति । गन्धः रसादि-भवः अस्थि-सारांशः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्थि सारांशः ॥३४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्यासो निविड-रसः । अस्थि सारांशः । तोक्माः पल्लवाद्य्-अङ्कुराः ॥३४॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : निर्यासः सान्द्रो रसः अस्थिसारांशः तोक्मा पल्लवाद्य् अङ्कुराः ॥३४.३५॥
॥ १०.२२.३५ ॥
एतावज् जन्म-साफल्यं देहिनाम् इह देहिषु ।
प्राणैर् अर्थैर् धिया वाचा श्रेय एवाचरेत् सदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्-सदा देहिषु श्रेय-आचरणम् एतावद् इति सम्बन्धः । श्रेयः शुभं तस्याचरणम् श्रेयो मुक्तौ शुभे धर्मेति-प्रशस्ते तु वाच्यवत् इति मेदिनी । प्राणैर् इति । प्राणानादरेण कर्मभिर् इत्य् अर्थः । धिया सद् उपायचिञ्तनादिना, वाचा उपदेशादि-रूपया एषां समुच्चय-शक्त्य् अभावे परपरोपादानं च ज्ञेयम् ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : फलिताम् आह—एतावद् इति । एहिनां विचित्र-बहुल-देह-भूतां प्राणादिभिः कृत्वा देहिषु जीवेषु सदा श्रेयस आचरणं यत्, तत्र प्राणैर् इति प्राणानादरेण कर्मभिर् इत्य् अर्थः । यद् वा, दधीच्यादिवत् प्राणार्पणैर् अपीत्य् अर्थः । ततश् च कर्मभिर् इति स्वत एव सिध्येत्, धिया सद् उपाय-चिन्तनादिना, वाच उपदेशादि-रूपया, एषां समुच्चयेन । किं वा, पूर्व-पूर्वत्राशक्त्या परपरेणेति ज्ञेयम् ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : फलितम् आह-एतावद् इति । देहिनां विचित्र-बहुल-देह-भृतां कर्तृभूतानां प्राणादिभिः कृत्वा देहिषु जीवेषु श्रेय आचरणं यत् पाठान्तरे श्रेय एवाचरेति सदेति यत् एतावत् जन्म-साफल्यम् इति तत्र प्राणैर् इति प्राणानादरेण कर्मभिर् इत्य् अर्थः । धिया सद् उपाय-चिन्तादिना वाच उपदेशादि-रूपया एषां समुच्चयः शक्त्य् अभावे परपरोपादानं च ज्ञेयम् ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन्मनः साफल्यम् एतावद् एव ॥३५॥
॥ १०.२२.३६ ॥
इति प्रवाल-स्तवक-फल-पुष्प-दलोत्करैः ।
तरूणां नम्र-शाखानां मध्येन यमुनां गतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् अभिनन्दन् प्रवालादि-समूहैर् नत-शाखानां तरूणां मध्येन यमुनां प्राप्तः ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्करः समूहः ।
समूहे ऊर्ध्व-हस्ते च देशे कर-विवर्जिते ।
उत्करः शौर्य-सम्पन्न उदारे ॥ इति धरणिः ।
स्तवकाः पुष्प-गुच्छाः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्तवकाः पुष्पाणां पत्राणां च गुच्छाः, पुष्पाणि दलानि च केवलानि, मध्येति मध्य-वर्ति-वर्त्मनेत्य् अर्थः । एवं तिग्म-ताप-प्राप्तिस् तादृश-वृक्ष-वर्गतो दूरगतिश् च सूचिता, अत एव इति वक्ष्यति, अन्यथा तेषां फलादिनैव क्षुच्-छान्ति-सम्भवात्, अत एवानुपभोज्य-फलादिकैर् अशोक-तरुभिर् मण्डित इति ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्तवकाः पुष्पाणां गुच्छकाः मध्येन मध्य-वर्ति-वर्त्मनेत्य् अर्थः । एवं तिग्म-तापा-प्राप्तिः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रवालादिभिर् नत-शाखानाम् ॥३६-३८॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : जन्मनः साफल्यम् एतावद् एव प्राणादिभिः कृत्वा देहिषु जीवेषु श्रेय आचरणं यत् स्यात् प्रवालादिभिर् नर्तशाखानाम् ॥३६.३७॥
॥ १०.२२.३७ ॥
तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः ।
ततो नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र यमुनायाम् । ततः गो-जल-पानानन्तरम् ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वभावेन यमुनाया आपो मधुरा एव, तत्र च वृन्दावन-सम्बन्धेन परम-मधुरा इत्य् अर्थः । शिवाः सुखकरीः मङ्गल-रूपा वा, ततस् तद् अनन्तरम् एव, यतो गोपाः स्वयम् इति स्व-सुखाद् अपि तैर् गोसुखस्याधिक-मनन्तात् । यद् वा, स्वयं भगवन् गोपाश् च । यद् वा, स्वयम् इति पात्रादि-व्यवधानं विना अञ्जलिभिर् इत्य् अर्थः ।
ननु अपो नाञ्जलिना पिबेत् इति निषेधः श्रूयते ? तत्राह—गोपा इति, तेषां तद्-युज्यत एवेति भावः, विधि-निषेधान् अधीनत्वात् । हे नृपेति यथा तव प्रजा-पालनम् एव मुख्यम्, तथा तेषां गोपालनम् एव मुख्यम् इति निज-सुखान् अपेक्षया, पश्चात् तत्-पानं युक्तम् एवेति भावः । सुमृष्टा इत्य् आद्य् उक्त्या स्वादुत्वादौ सर्वस्मिन् गुणे सिद्धे\ऽपि पुनः स्वादुजलम् इत्य् उक्तिः । कामं यथेष्टं पपुर् इत्य् अत्र हेतुत्वेन । यद् वा, श्री-यमुनायां विदूरतो बहुल-प्रदेशं व्याप्यादौ गवाम् अन्तानां चिरं क्रमशो जल-पानेन जलक्षोभाच् छीतलत्व-स्वच्छत्वयोस् तथा सुमृष्टत्वस्य चापगमन-सम्भवे\ऽपि स्वाद्व् एव पपुर् इति जल-माहात्म्यम् उक्तम् ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तस्यां सुमृष्टा अति-स्वच्छाः शिवाः आरोग्यकरत्वेन पुण्य-प्रदत्वेन च मङ्गलकराः ततस् तद् अनन्तरम् एव यतो गोपाः तादृश-धर्मा एव हे नृपति तव प्रजा-पालनवत् तेषाम् अपि गो-पालनं धर्म इति भावः स्वासु बहु पशु-सङ्घैस् तत् क्षोभेऽपि सुमृष्टत्वादि-गुण-युण-युक्तम् एवेत्य् अर्थः । इति जल-माहात्म्यम् उक्तम् । अतः कामं यथेष्टम् । अत एव पुनर् जल-पदं सार्थकम् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सुमृष्टाः अतिस्वच्छाः स्वादु पशु-सङ्घैस् तल्-लोभेऽपि सुमृष्टत्वादि-गुण-युक्तम् एवेत्य् अर्थः । अथ कामं यथेष्टम् । अत एव पुनर् जलपदं सार्थकम् ॥३७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.२२.३८ ॥
तस्या उपवने कामं चारयन्तः पशून् नृप ।
कृष्ण-रामाव् उपागम्य क्षुधार्ता इदम् अब्रुवन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुमारिकाभ्यः पूर्वम् एव तन् नर्माकुलतया अगृहीत-भोज्यानाम् एव निर्गमात् क्षुधार्ता इत्य् उक्तम् ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र केचिद् इत्य्-आदि-श्लोकः क्वचिद् अधिकः । तस्याः कालिन्द्याः । नित्यं तु गृहीत-भोज्या एव वनम् आयान्ति तद् दिने कुमारिका-हास्यकरणार्थं विस्मृत-भोज्या एवागता इति क्षुधार्ता इत्य् अस्य तात्पर्यम् ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपवने प्रायो\ऽशोक-तरु-मण्डित इति ज्ञेयम्, अग्रे तथोक्तेः । कामं पशूनाम् इच्छानुसारेणेत्य् अर्थः । अतः परि-भ्रमणेन क्षुद् उद्बोधयन् यामुन-जल-पानेन च तद् उपवने च फलाद्य् अभावेन क्षुधा च, बुभुक्षया आर्ता दुःखिता व्यग्रा वा सन्तः, यद्य् अपि तया तत्र च श्री-भगवत् साक्षात् तेषाम् आर्तता न सम्भवेत्, तथापि ओदन-याचनादि-द्वारा यज्ञ-पत्न्य् अनुग्रहाय श्री-भगवतैव तथाचरितम् इति ज्ञेयम् । तत्वतस् तु श्री-भगवत एव काले क्षुधाम् अनुमाय तद्भोगार्थं व्याजेन तैर् एव तथा कृतम् इति । उप समीपे आगत्य, दूरोक्तौ लज्जापत्तेः । किं वा, वक्ष्यमानार्थस्य गौरवाय इदं वक्ष्यमाणम् । अत्र मध्ये\ऽध्यायापातो वक्ष्यमाण-लीला-विशेष-स्मृत्या पूर्ववत् क्षणं श्री-बादरायणेः स्तब्धतया तत्-कथा-विच्छेदात् । यद् वा, तस्य सुग्प्यता-बोधनाय क्षणं मौनात् । एवम् अन्त्यत्राप्य् उह्यम् । हे नृपेति, वक्ष्यमाणाश् चर्य-लीला-श्रवणाभ्यन्तावधानार्थम् । यद् वा, सद्यो वारम्बारं सम्बोधनस्य कारणम् इति श्लोके पूर्वं विवृतम् एव ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपवने प्रायोऽशोकतरु-मण्डित इति ज्ञेयम् । अग्रे तथोक्तेः अतः फलाद्य् अभावो\ऽपि सूचितः कामं पशूनाम् इच्छानुसारेणेत्य् अर्थः । क्षुधार्ता इति श्री-राम-कृष्णयोर् अपि क्षुदनुमानेन विशेषार्तिर् ज्ञेया निज-तद् दुल्लेखस् तु प्रेम-परिपाटी याज्ञिकान् प्रति तु वक्ष्यते रामाच्युतौ वो लषतो बुभूक्षितौ इति दिनान्तरवत् तद् दिने दध्योदनाद्य् अनानयनं च केनचिन् मिषेण यज्ञ-पत्नीनाम् अनुग्रहाय श्री-भगवतैव घटितं यासाम् उत्कर्षार्थम् एव याज्ञिकानां निकर्षो दर्शयिष्यते तेषां तद् दर्शनार्थम् एव वृक्षाः श्लाघिता इति ज्ञेयम् । उप-समीपे आगत्य वक्ष्यमाणार्थस्य गौरवाय इदं वक्ष्यमाणाम् अत्रानवसरे ध्यायापातो वक्ष्माण-लीला-विशेष-स्मृत्या पूर्ववत् क्षणं श्री-बादरायणेः स्तब्धतया तत् कथा-विच्चेदात् एवम् अन्यत्राप्य् ऊह्यं हे नृपेति ! वक्ष्यमाणाश्चर्य-लीला-श्रवणेऽप्य् आवधानार्थम् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्षधार्त्ता इति श्री-कृष्ण-रामयोर् अपि क्षुद्-अनुमानेन विशेषार्तिर् ज्ञेया निज-तद्-उल्लेखस् तत्-प्रेम-घटित इति ज्ञेयम् ॥३८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्या यमुनाया उपवने प्रायोऽशोकतरु-मण्डित इति बोध्यम् अग्रे तथैवोक्तेः अतः फलाद्य् अभावः क्षुधार्ता इति श्री-कृष्ण-रामयोर् अपि क्षुदनुमानेन विशेषार्तिर्ज्ञेया निजतदुक्तिस्तु प्रेमपरिपाटी याज्ञिकान् प्रति तु वक्ष्यते रामाच्युतौ वो लषतो बुभुक्षिताव् इति एषां हरेस् तन्मित्राणां च क्षुदभक्त ब्राह्मणीच्छोदिता तद् अन्नरुचिरूपैव नान्या विजिघत् सोपिपास इति प्रतिषेधात् तद्-दिने गृहाद्दध्योदनाद्यानयनं केनचिन्मिषेण भगवतैव घटितं तद् इच्छयैव वृन्दाश्रयि फलादिनार्पितं तच् च यज्ञ-पत्नी-प्रसाद-फलकम् इति बोध्यम् ॥३८॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वाविंशो दशमेऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्धे श्री-गोपी-
वस्त्रापहारो नाम द्वादशोऽध्यायः ।
॥ १०.२२ ॥
(१०.२३)
-
सेए अल्सो वेर्से २२। ↩︎
-
थिस् इस् प्रोबब्ल्य् अन् एर्रोर् फ़ोर् “ब्रवाणीत्य्” अस् इन् थे ओथेर् चोम्मेन्तरिएस्। करवाणि wओउल्द् बे मेत्रिचल्ल्य् इन्चोर्रेच्त्। ↩︎
-
सहैवेति । ↩︎
-
दृष्ट्वा इति श्रीनाथः, द्वितीया तोषणी, विश्वनाथः, बलदेवः ↩︎
-
बालाः इति श्रीनाथः ↩︎
-
इयम् एकं (स्हस्त्रि एदितिओन्। अप्पेअर्स् wरोन्ग् तो मे)। ↩︎
-
प्रेक्ष्या ओर् प्रेक्ष्याव्रीडिता। ↩︎
-
श्याम। ↩︎
-
थिस् लिने इस् नोत् फ़ोउन्द् इन् अल्ल् एदितिओन्स्, बुत् इस् दिस्चुस्सेद् इन् अल्ल् थे गौदिय चोम्मेन्तरिएस्। ↩︎
-
परस्परा इन् थे तेxत्, बुत् थिस् सेएम्स् मोरे चोर्रेच्त्। ↩︎
-
थे तेxत् हस् आहताः, बुत् बृहत्-क्रम-सन्दर्भ गेनेरल्ल्य् फ़ोल्लोwस् श्रीनाथ, सो अहताः इस् मोरे प्रोबब्ले। ↩︎
-
ऽधो। थिस् इस् स्रिधर्ऽस् रेअदिन्ग्। ↩︎
-
थेसे वेर्सेस् अरे फ़ोउन्द् ओन्ल्य् इन् विरराघवाचार्यऽस् वेर्सिओन् ओफ़् थे भगवतम्। थेरे इस् अ थिर्द् वेर्से नोत् नोतेद् ब्य् वंशीधर, wइथोउत् wहिछ् थे ओथेर् त्wओ मके लित्त्ले सेन्से—
तस्माद् उभाभ्यां पाणिभ्यां प्रणमेत् स्वामिनं नरः ।
तथा च यूयं कुरुत तन् मे प्रियतरं भवेत् ॥
-
थिस् वेर्से इस् क़ुओतेद् इन् हरि-भक्ति-विलास अत् ८.३८९। इत् इस् थेरे च्रेदितेद् तो विष्णु-स्मृति। ↩︎
-
थे रेअदिन्ग् नागराजनोचित सेएम्स् इन्चोर्रेच्त्। ↩︎
-
नेष्यते ↩︎
-
कर्तृ (?) ↩︎
-
सनतन् सेएम्स् तो बे सयिन्ग् थत् थे चोम्मेन्तर्य् तो थिस् वेर्से इस् गिवेन् इन् थे फ़ोल्लोwइन्ग् बेचौसे थिस् वेर्से स्होउल्द् बे रेअद् अफ़्तेर् थत्। अ लित्त्ले ओद्द्। ↩︎
-
तस्याम् ऐकान्तिकत्वात् (?) ↩︎
-
५.१८.१९-२१ द्रष्टव्यः । ↩︎