२१

वेणु-गीतम्—भगवतो मधुरं वेणु-नादम् आकर्ण्य गोपीभिस् तद्-गुण-गानम् ।

॥ १०.२१.१ ॥

श्री-शुक उवाच—

इत्थं शरत्-स्वच्छ-जलं पद्माकर-सुगन्धिना ।

न्यविशद् वायुना वातं स-गो-गोपालकोऽच्युतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

एकविंशे शरद्-रम्य-वृन्दावन-गते हरौ ।

तद्-वेणु-स्वनम् आकर्ण्य गोपीभिर् गीतम् ईर्यते ॥

इत्थम् एवं-भूतं वनम् । तद् एवाह—शरदा स्वच्छानि जलानि यस्मिंस् तत् । वायुना वतम् अनुगतं तद्-एक-व्याप्तम् इत्य् अर्थः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरदा रम्यं शरद्-रम्यम्तद्-वेणु-स्वरं कृष्ण-वेणु-नादम् ॥ तद् एव इत्थं-भूतत्वम् एव । इत्य् अर्थ इति—मन्द-सुगन्धि-शीतलम् इति भावः । "नेर् विशः" इत्य् आत्मने-पदम् तु नार्षत्वात् । अच्युत इति । विनापि वनादि-क्रीडां सुख-स्थितिं वक्ति ॥१॥


कैवल्य-दीपिका : पूर्वानुरागेण भजतः फलम् आह—इत्थम् इति । अयं च पूर्वानुराग एव अद्यापि तासां भगवता साकम् अङ्ग-सङ्गाभावात् । स हि दर्शितोऽष्टाविंशोऽध्याये । अत एवात्र,

तद् व्रज-स्त्रिय आकर्ण्य वेणु-गीतं स्मरोदयम् ।

काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्योऽन्ववर्णयन् ॥ [भा।पु। १०.२१.३]

इत्य् उक्तम् ॥३॥ [मु।फ। १२.१४]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं शरदं वर्णयित्वा वर्षावत् तत्र श्री-भगवत्-क्रीडा-विशेषम् आह—इत्थम् इत्य्-आदिना यावत्-समाप्ति । तत्र तद्-उपकरणत्वेनादौ मनोहर-जल-वायु-समाश्रयत्वेन, स्वतश् च मनोहरतया वनम् अनुवदति सार्धेन । तत्र जलस्य मनोहरत्वं स्वच्छत्वेन स्पष्टम् एव । निर्मलत्वेनैव सहज-गुणाभिव्यक्तेः । वायोश् च—पद्मानां आकरः प्रस्फुटत्-पद्म-मयः सरोवरादिः, तेन सुगन्धिना इति शैत्येन सौरभ्येण च । वातम् इति च मान्द्येन वनस्य च ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं शरदं वर्णयित्वा वर्षावत् तत्र श्री-भगवत्-क्रीडा-विशेषम् आह—इत्थम् इत्य्-आदिना यावत्-समाप्ति । तत्र तद्-उपकरणत्वेनादौ मनोहर-जल-वायु-समाश्रयत्वेन, स्वतश् च मनोहरतया वनम् अनुवदति सार्धेन । तत्र इत्थम् इति यथाहं वर्णितवान् प्रायस् तथा वर्णन-प्रकारेणेत्य् अर्थः । स-गो-गोपालको मधुपतिर् इत्य् अन्वयः । यद् वा, हृत्-प्राप्त-वर्णनीय-रूप-लीलादिना भाव-विशेषाविर्भावतो विशेष्यस्यानुच्चारणाद् उच्चारणाशक्तेर् वा श्री-कृष्ण इति वाक्य-शेषो ज्ञेयः । एवम् अग्रे बर्हापीडम् [भा।पु। १०.२१.५] इत्य् आदाव् अपि । अच्युत इति पाठः चित्सुखस्य सम्मतः । अत्र तु वनम् इति शेषः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रवेशे सर्वापि वन-शोभा समाधिकैव दर्शिता—इत्थम् इत्य्-आदि ॥१.२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

एकविंशे वेणु-गीत-स्मरार्ता गोपिका मुहुः ।

वेणु-वृन्दावन-मृगी-देव्य्-आदीनां यशो जगुः ॥

यद् यद् वनं गतः कृष्णश् चरितं मधुरं व्याधात् ।

प्रेम-नेत्रेक्षितं गोप्यो गोष्ठस्थास् तद् अवर्णयन् ॥

शरदं वर्णयित्वा तादात्मिकीं वेणु-गान-लीलां वर्णयिष्यंस् तन्-मधुरिम-मण्डिते वृन्दावने प्रथमं कृष्णस्य प्रवेशम् आह—इत्थम् इति । पद्माकर-सुगन्धिना इति पद्माकर-सम्बन्धात् सौगन्ध्यं शैत्यं च ज्ञेयम् । वायुभिर् इत्य् अनुक्तेर् वायुना इत्य् एक-वचनेन वातस्य मान्द्यं च गो-गोपालक-सहितः । अत्र मधु-पतिर् इति विशेष्य-पदेनोत्तर-श्लोक-स्थेनान्वयः ॥१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) :

एकविंशे वेणु-नाद-मत्ता गोप्यः स्मरार्दिताः ।

वृन्दाटव्यां जगुः कीर्तिं मृग्य्-आदीनां मुहुर् मुहुः ॥

शरदं निर्वर्ण्य तत्रत्यां वेणु-नाद-लीलां वर्णयिष्यंस् तद्-विभूषितायां वृन्दाटव्यां हरेः प्रवेशस् तावद् आह—इत्थम् इति । **पद्मा-**इति सौगन्ध्य-शैत्ये वायुना इत्य् एक-वचनात् मान्द्यं च वातम् अनुगतं वनं वनं न्यविशन् मधुपतिर् इत्य् उत्तर-पद्यस्थेन अनुषङ्गः ॥१॥


॥ १०.२१.२ ॥

कुसुमित-वन-राजि-शुष्मि-भृङ्ग-

द्विज-कुल-घुष्ट-सरः-सरिन्-महीध्रम् ।

मधुपतिर् अवगाह्य चारयन् गाः

सह-पशुपाल-बलश् चुकूज वेणुम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् च कुसुमित-वन-राजिषु शुष्मिणो मत्ता भृङ्गा द्विजाः खगाश् च, तेषां कुलानि, तैर् घुष्टाः सरांसि सरितो महीध्राश् च यस्मिन्, तद् वनं कृष्णोऽवगाह्य प्रविश्य वेणुम् अवादयत् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : घुष्टा घोषिणः । सरांसि कासाराः । सरितः स्यन्दमाना यमुनाद्याः । महीध्रा गोवर्धनाद्याः । वेणु-कूजनस्य कामोद्दीपकत्वेन गोप्य्-आकर्षणार्थत्वम् अत्र ज्ञेयम् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुसुमित- इति । इदं च सर्वं कामोद्दीपनत्वेनोक्तम् । वनं न्यविशद् इति प्रविशन्न् आसीद् इति पूर्ववद् एव नित्यम् ईदृशी क्रीडा ज्ञेया । एवं चुकूज इति अन्ववर्णयन्न् [भा।पु। १०.२१.३] इत्य्-आदिकम् अग्रेऽप्य् ऊह्यम् । स-गो-गोपालको मधुपतिर् इत्य् अन्वयः । यद् वा, हृत्-प्राप्त-वर्णनीय-रूप-लीलादिना भाव-विशेषाविर्भावतो विशेषस्योच्चारणाशक्तेर् वा श्री-कृष्ण इति वाक्य-शेषो ज्ञेयः । एवम् अग्रे बर्हापीडम् [भा।पु। १०.२१.५] इत्य्-आदाव् अपि । "अच्युत" इति पाठः श्री-चित्-सुखस्यैव सम्मतः । मधवो यादवास् तेषां पतिर् ईश्वर इति गो-चारणाद्य्-असम्भवेऽपि गो-चारणादिना भक्त-वैराग्य-लक्षणादि-रस-विशेषम् अभिप्रैति । मधु मादक-रस-विशेषः, तस्य स्वामीति । श्लेषेण तदानीं समदत्वं मादकत्वं च सूचितं । अवगाह्य अन्तः प्रविश्येति वनस्य सर्वतः प्रवेशेन तत्त्व-ज्ञानं ध्वनितम् । पशुपालैर् बलेनसहित इति तेऽपि सर्वे वेणुं वादयामासुर् इत्य् अर्थः । यद् वा, सह-पशुपाल-बलो गाश् चारयन्न् इत्य् अन्वयः ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यादवत्वाद् गोपाश् च मधवः, तेषां पतिर् इति क्रीडायां सामग्र्यं विवक्षितं । श्लेषेण मधोर् ऋतु-राजस्यापि पतिर् इति । तत्-प्रवेशे सर्वापि वन-शोभा समधिकैव दर्शिता । अवगाह्य अन्तः प्रविश्येति वनस्य सर्वतः प्रवेशेन तत्त्व-ज्ञानं ध्वनितम् । सह-पशुपाल-बल इत्य् अस्य गाश् चारयन्न् इत्य् अनेनैवान्वयो योग्यः, न तु चुकूज वेणुम् इत्य् अनेन च, तद् व्रज-स्त्रिय आश्रुत्य [भा।पु। १०.२१.३] इत्य् उत्तर-वाक्ये पूर्वत्रैव सामञ्जस्य-प्रतिपत्तेः चुकूजेत्य् अन्तर्भूत-ण्य्-अर्थः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुसुमित-वन-राजिषु शुष्मिणो मत्ता भृङ्गा द्विजाश् च, तेषां कुलैर् घुष्टानि सरांसि सरितो महीध्राश् च यस्मिन्, तद् वनं मधुपतिः कृष्णः अवगाह्येति यस्यावगाहनेन वनं शोभते, तस्य मधोर् वसन्तस्यापि पतिर् इत्य् अतिशोभा श्लेषेण ध्वनिता । चुकूज कूजयामास सह-पशुपाल-बल इति वनावगाहने गो-चारणे च साहित्यं, न तु वेणु-कूजने उत्तर-श्लोके कृष्णस्य वेणु-गीतम् इत्य् उक्तेः ॥२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : कुसुमितासु वन-राजिषु शुष्मिणो मत्ता भृङ्गा द्विजाश् च, तेषां कुलैर् घुष्टानि सरांसि सरितो महीध्रो गिरयश् च, यश् च तद्-वनं मधुपतिं गोपानां अपि यादवत्वेन माधवत्वात् तेषां स्वामी नन्द-सूनुर् अवगाह्य प्रविश्य वेणुं चुकूज वादयामास । श्लेषेण मधोर् वसन्तस्यापि पतिर् इति तत्-प्रवेशेन वन-शोभायाः कार्त्स्न्यं सह पशुपालेति वन-प्रवेशे गो-चारणे च तैः साहित्यं, न तु वेणु-वादने उत्तरत्र कृष्णस्य वेणु-गीतम् इत्य् उक्तेः ॥२॥


॥ १०.२१.३ ॥

तद् व्रज-स्त्रिय आकर्ण्य वेणु-गीतं स्मरोदयम् ।

काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्योऽन्ववर्णयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् कृष्ण-वेणु-गीतं स्मरस्योदयो यस्मात्, तद् आश्रुत्य [आकर्ण्य] श्रुत्वा परोक्षं यथा भवति तथा, व्रजे स्थितत्वात् ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्मरस्य कामस्य, कामः पञ्च-शरः स्मरः इत्य् अमरः । यद् वा, कासाञ्चिद् अदृष्ट-श्रियाम् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् तत्र कृष्णस्य वेणु-गीतम्, अनु गीतानन्तरं निरन्तरं वा अवर्णयन् । तत्र हेतुः—तादृश-जलादि-दर्शनात् तस्यैव स्मरेण कामेन गोपी-स्मरणेन वा उदयो यस्यः । यद् वा, स्मरस्य उदयो यस्मात्, तत् । यद्यपि सदा तस्य तादृश एव स्वभावः, तथापि तदानीं भाव-विशेषोत्पत्त्या वा, यतः स्मरोदयम् । अन्यत् समानम् ।

व्रजस्य व्रजे वा वर्तमाना याः स्त्रियस् ता आश्रुत्य दूरतो\ऽपि सम्यक् श्रुत्वा कृष्णेच्छा-विशेषेण तासां भाव-बलेनैव वा निवेशितत्वात् । ईषत् श्रुत्वेति वा । वेणुना गीतं वेणोर् वा गीतं श्री-कृष्णाधर-स्पर्श-मात्रेण स्वत एव तत्-कूजनस्यैव भङ्गी-विशेषेण गीतत्वेनैव परिस्फूर्तेः, कूजनेन गीतम् एवाभिप्रेतम् । काश्चिद् भाव-विशेष-युक्ताः श्री-राधा-देव्य्-आद्या इति । सर्वासाम् एव व्रज-स्त्रीणां तच्-छ्रवणे\ऽपि मान्यानां वात्सल्य-प्रसरस्यैवोदयः, न तु स्मरस्येरिताः परिहृताः । परोक्षं तासाम् एवासाक्षात् निभृतम् इत्य् अर्थः, अतः स्वीयाभ्यः सखीभ्यः श्री-ललितादिभ्य एव, ताः प्रीत्य्-अर्थः । यद् वा, तादर्थ्ये चतुर्थी, तासां सुखार्थम् इत्य् अर्थः, तासां सुखेनैवात्म-सुख-विशेषात् ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् तत्र तद् एव वा कृष्णस्य वेणु-गीतम् अनु गीतानन्तरं निरन्तरं वा अवर्णयन् । तत्र हेतुः—स्मरस्य उदयः प्राकट्यं यत्र तादृशं यथा स्यात् तथा आश्रुत्य । यद्य् अपि सदा तस्य वेणु-वादन-विनोदो वर्तत एव, तथापि तदानीं वयोऽतिशयेन शरल्-लक्ष्मी-विलासावलोकनेन च दीप्त-भावस्य ताः समाक्रष्टुं वेणु-विद्याम् अभ्यसतस् तया तासां तादृशत्वं जातम् । अत एव तदानीम् एव ताभिस् तद्-अनुवर्णनं च आश्रुत्य दूरतो\ऽपि सम्यक् श्रुत्वा, कलत्वे\ऽपि सर्व-व्यापि-स्वभावत्वात् ईषद् अपि श्रुत्वेति वा काश्चिद् भाव-विशेष-युक्ताः श्री-राधा-देव्य्-आद्याः इति सर्वासाम् एव व्रज-स्त्रीणां तच्-छ्रवणे\ऽपि सर्व-भूत-मनोहरम् [भा।पु। १०.२१.६] इति वक्ष्यमाणान् मात्रादीनां वात्सल्यादेर् एवोदयो न तु स्मरस्येति ताः परिहृताः । अतः स्वीयाभ्यः सखीभ्यः श्री-ललितादिभ्यः निज-मनो-बाष्पोदिग्रणाय ता अपि श्रावयितुम् इत्य् अर्थः । स्व-शब्देन सख्याः सख्यो\ऽपि व्यावर्त्यन्ते इति तासां परम-शालीनत्वं दर्शितं । किं बहुना, तत्रापि परोक्षम् अर्थान्तराच् छृण्वन् सावहितं यथा स्यात्, तथेत्य् अर्थः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : काश्चित् प्रेयसी-रूपाः, ता एव इत्य् अर्थः । सर्वास् तास्व् एव सर्व-भेदाः ॥३.६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् कृष्णस्य वेणु-गीतं आश्रुत्य परोक्षं यथा स्यात् तथेति, तासां व्रजे स्थितत्वात् ॥३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : काश्चिद् व्रज-स्त्रियः श्रीमत्य्-आद्याः प्रेयस्यः कृष्णस्य तद् वेणु-गीतम् आश्रुत्य स्व-सखीभ्योऽन्ववर्णयन् सरस्यादयः प्राकट्यं यत्र तद् यथा स्यात्, तथेति तद् अन्या व्यवर्त्यन्ते परोक्षम् इति तासां व्रजे स्थितत्वात् ॥३॥


॥ १०.२१.४ ॥

तद् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् ।

नाशकन् स्मर-वेगेन विक्षिप्त-मनसो नृप ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विक्षिप्त-मनसो व्याकुल-चित्ताः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आरप्स्यत इत्य् आरब्धाः अकर्मकत्वात् क्तः कृतारम्भाः । तद् वेणु-गीतम् ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आरब्धा आरब्धवत्यः, इत्य् अवश्यम् आरब्ध-परिसमाप्तिर् अपेक्ष्यत इति भावः । तथापि न शेकुः । तत्र हेतुः—स्मरस्य श्री-कृष्ण-स्मृति-विशेषस्य तद्-विषयक-कामस्य सर्व-चित्ताकर्षकस्य चेष्टितं तद्-वेणु-वादनात्मकम् अग्रे वर्णनीयं वा स्मरन्त्यो अनुसन्धानाः । यद् वा, काश्चिद् अन्ववर्णयन् काश्चिद् वर्णयितुम् आरब्धा अपि न शेकुः । हे नृप ! इति तत्-कथनेन स्वयम् एव भाव-विशेष-प्राप्त्या कातर्येण । किं वा, तस्यैव भाव-विशेषोदयम् आलक्ष्य तत्-संवरणार्थं सम्बोधनम् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्मरोदयस्य क्रमम् एवाह—तद् इति । तत् तादृशं परोक्षं यथा स्यात्, तथा वर्णयितुम् आरब्धाः आरब्धवत्योऽपि नाशकन् तथा वर्णयितुं नापारयन्न् इत्य् अर्थः। तत्र हेतुः—**स्मर-**इति । कुतः ? कृष्णस्य सर्व-चित्ताकर्षकस्य चेष्टितं तद्-वेणु-वादन-मयं स्मरन्त्यः अनुसन्दधानाः । हे नृपेति तत्-कथनेन स्वयम् एव भाव-विशेष-प्राप्त्या कातर्येण सम्बोधनम् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् वेणु-गीतं वर्णयितुम् आरब्धा आरब्धवत्योऽपि वर्णयितुं नाशकन् । तत्र हेतुः—स्मर-वेगेन इत्य्-आदि ॥४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तद्-वेणु-गीतं वर्णयितुम् आरब्धा अपि वर्णयितुं नाशकन् नापारयन् । कुतः ? स्मर-वेगेन विक्षिप्त-मनसो व्याकुल-हृदयाः ॥४॥


॥ १०.२१.५ ॥

बर्हापीडं नट-वर1-वपुः कर्णयोः कर्णिकारं

बिभ्रद् वासः कनक-कपिशं वैजयन्तीं च मालाम् ।

रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर्

वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥2

श्रीधर-स्वामी (भावार्थ-दीपिका) : यादृशं कृष्ण-स्मरणं तासां मनसः क्षोभकं जातं, तद् आह—बर्हापीडम् इति । नटवद् वरं वपुर् बिभ्रद् वृन्दावनं प्राविशत् । कथं-भूतं वनम्? स्व-पदैर् अङ्कितै रमणं रति-जनकम् । गोप-वृन्दैर् गीत-कीर्तिः । तथा बर्ह-मयम् आपीडं शिरो-भूषणं बिभ्रत् । बर्हम् आपीडो यस्मिन्न् इति वपुषो विशेषणं वा । वेणु-वादनम् उत्प्रेक्षते—रन्ध्रान् वेणोर् इति । अतो नूनम् अधर-सुधयैव पूर्णाद् वेणोर् उच्चलन्ती गीतवत् प्रसर्पितुम् अर्हतीति भावः ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यादृशं यत्-प्रकारकम् । तासां गोपीनां । क्षोभकं सञ्चालकम् । तत् स्मरणं । वरं शोभनम् । आपीडं मुकुटे रुजि इति शाश्वतः । सम्भवत्वाद् वपुर्-विशेषणम् अपि बर्हेत्य्-आदि । कर्णिकारं हयमार-पुष्पं तद्-आकारं चतुर्-दलं भूषणं वा, कर्णिकारः पुमान् आरग्वधद्रौ च द्रुमोत्पले इति मेदिनी ।

कर्णिकारो हयाराति-पुष्पे कर्ण-विभूषणे ।

चण्डात-पुष्प-सदृशे हैरण्ये च द्रुमोत्पले ।

पारिव्याधतरौ बाणे मोह-कारे कलादके ॥ इति धरणिः ।

वैजयन्तीम् इति ।

वैदूर्य-मुक्ता-फल-नील-वज्रैः समाणिकैः सङ्ग्रथिता हि माला ।

वायोर् अपां भूमिर् अवतेजसां हि तत्त्वैः प्रदिष्टा खलु वैजयन्ती ॥

केचित् श्वेतैः पीतैस् तथारक्तैर् हरितैर् नील-वर्णकैः ।

पुष्पैर् एभिः सुगन्धैश् च वैजयन्त्य् अस्ति मालिका ॥ इति भक्ति-सुधार्णवे ॥

क्वचित् तु—वैजयन्ती भवेन् मालाष्टधा मौक्तिक-निर्मिता इति ।

जीमूत-करि-मत्स्याहि-वेणु-शङ्ख-वराहकाः ।

शुक्तयश् चैव विज्ञेया अष्टौ मौक्तिक-योनयः ॥ इति मल्लीनाथः ।

उत्प्रेक्षते तद्-अलङ्कारेण वदति । अन्य-निमित्तिके वस्तुन्य् अन्य-निमित्तिकत्वारोप उत्प्रेक्षालङ्कारः । इति भाव इति । अधर-निमित्तक-सुधायां वेणु-निमित्तिक-गीतत्वारोपोऽत्रोत्प्रेक्ष्यते इति तात्पर्यं ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : बर्हापीडम् इत्य्-आदि । नटवत् नरवद् द्विभुजं वपुर् यस्य । यद् वा, नटनम् आनन्दोल्लासो विकारस् तं रातीति नट-वरं यद् दृष्ट्वा प्राणि-मात्रं एव नृत्यति । विशेषतो बर्हिणो मेघ-भ्रमान् निज-बर्ह-स्वीकाराद् वा । "नट-वर" इति पाठं नटेभ्योऽपि वरम् । यद् वा, नटवद् वरवत्, वरो विवाहः प्रवृत्तः । कर्णयोः कर्णिकारम् इत्य् कम् एव कर्णिकारं कदाचिद् दक्षिणे, कदाचिद् वामे कर्णे करोतीति विलास-विशेष इति केचित् । वृन्दारण्यं प्राविशत् । कीदृशं ? स्व-पद-रमणं स्व-पदानां स्व-स्थलानां वैकुण्ठादीनां अपि रमणं रति-प्रदम् । रन्ध्रान् इति पुंस्त्वम् अर्मस् । अधर-सुधयैव पूरयन्, न तु मुख-मारुतेन । यद्यप्य् एकम् एव वेणु-रन्ध्रम् अधर-सुधया पूर्येत, तथाप्य् अतिशयामृत-पूरणेन सर्वाण्य् एव रन्ध्राण्य् उच्छालिततया पूर्यन्त इति भावः ॥५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं भाव-विशेषाविर्भावेन श्री-व्यास-नन्दिनीः श्री-नन्द-नन्दनाय तदानीन्तन-वेषादिकं स्मरन् तासां तद्-वर्णनान्तरम् एव स्वयं तद् वर्णयति—बर्ह**-**इति । तद्-अभिप्रायो यादृग् इत्य्-आदिना तैर् व्याञ्जित एव । अथवा तच्-चेष्टित-स्मरणेन हृदाक्रान्त-तद्-वन्य-वेष-विशेषतो विक्षिप्त-मनस्त्वाच् च न शेकुर् इत्य् अभिप्रायेण हेत्व्-अन्तरम् अपि वदन् तद्-रूपम् एव वर्णयति । यद् वा, पश्चात् कथञ्चित् प्रयत्नेन तास् तद् अनुवर्णयन्ते वेत्य् आह—बर्ह-इति । इति [भा।पु। १०.२१.६] इति निरन्तर-श्लोके तथैव श्री-बादरायणिना वेणु-रव-उक्तेः । नटश् चासौ नरश् चेति तद्-विचित्र-वेषं वपुः, देवानां सदैव विचित्र-वेषत्वेन नराणां च मध्ये नटस्य कला-विशेषं एव नृत्यार्थ-विचित्र-वेष-ग्रहणापेक्षया नर-शब्द-प्रयोगः । तद् एव दर्शयति—बर्हा-पीडम् इत्य्-आदिभिः ।

यद् वा, नटन्ति हर्ष-भरेण नृत्यन्तीति नटा नरा जीवाः सर्वे यस्मात्, तद् वपुर् बिभ्रत् प्रकटयन् । यद् वा, तद् वपूर् यस्य सः । "नट-वर-" इति पाठो\ऽपि क्वचिद् दृश्यते । कर्णिकारम् इत्य् एकत्वे\ऽपि कर्णयोर् द्वित्वाद् द्वित्वम् एव ज्ञेयम् । तथा वाससश् च, कर्णिकारं पीत-वर्णम् उत्पलाकारं पुष्पम्, तस्य धारणम् । शरदि वसन्ते च विशेषतः सम्पत्तेः शोभा-विशेषापत्तेश् च । वैजयन्ती नाम पञ्च-वर्ण-पुष्पैर् ग्रथिता माला ताम्, वेणो रन्ध्राणि अधर-सुधया पूरयन्न् इति भाव-विशेषेण वेणु-वादनम्, तथा तस्या इव तस्य परम-मोहनत्वं च सूचितम् ।

वृन्दाया अरण्यम् इति तद्-अधिष्ठात्र्या तया श्री-भगवत्-क्रीडा-विशेषोत्सुकताम् अभिप्रेत्य विशेषतः संस्कृतम् इत्य् अर्थः । अतः स्वैर् असाधारणैः पदैः सर्वत्राङ्कितै रमणं तस्याः सर्वेषां वा सुख-करम् । यद् वा, स्व-पादयो रमणं रम्य-कोमल-धूली पुण्य-पराग-पत्रादिमयतेन रति-जनकम् ।

गोप-वृन्दैर् गीता कीर्तिर् विचित्र-सौन्दर्य-वैदग्ध्यादि-रूपा यस्य । यद् वा, तस्य भाव-विशेषम् आलक्ष्य गीता कीर्तिर् गोपीनां यस्मिन्, तासाम् साक्षाद् अनुक्तिर् लज्जया मौक्तिक-हार-स्वर्णाङ्गदाद्य्-अलङ्कारावर्णनं स्वत एव तस्य नित्य-सिद्धत्वात् । किं वा, शरत्-प्रथम-दिने वन-विहार-विशेषार्थं केवल-वन्य-वेषेण तथैव वने प्रवेशात्, पूर्वम् उक्तस्याग्रे\ऽपि वक्ष्यमाणस्य श्री-बलदेव-साहित्यस्यात्रानुक्तिर् भाव-विशेषेण गुरुं दृष्ट्वा लज्जाद्य्-उत्पत्तेः । किं वा, वर्ण्यस्य श्री-कृष्ण-चेष्टितस्यैव परम-मोहनत्वेन तद्-वर्णने चात्र तद्-अपेक्षाधिक्याभावात् । किं वा, गोप-वृन्दैर् इति सो\ऽपि गृहीत एव, तत्र तस्य गौणत्वेन न स्पष्टो निर्देशः ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् तद् भाव-विशेषात् तद् एव विवृणोति—बर्ह**-**इति युग्मकेन । नटवर-वपुर् इति बहुव्रीहिर् अभेदे\ऽपि भेदोपचारात्,

यन्-मर्त्य-लीलौपयिकं स्व-योग-

माया-बलं दर्शयता गृहीतं ।

विस्मापनं स्वस्य च सौभगर्द्धेः

परम्पदं भूषण-भूषणाङ्गम् ॥ [भा।पु। ३.२.१२]

इव तस्यापि विस्मापकता-निर्णयेन स्वभावत एव तावत् तन् नट-वर-वपुः सर्व-तदीय-रूप-वृन्द-वरिष्ठं, तत्रापि तदानीं नट-वेषम् इत्य् अर्थः । यद् वा, तादृश-वपुर् बिभ्रत् शश्वच् छोभाविर्भावनेन पुष्णन् । "नरवर-" इति पाठो\ऽपि क्वचित् दृश्यते । कर्णिकारं पीत-वर्णम् उत्पलाकारं पुष्पम् । वैजयन्ती-नाम-पञ्च-वर्ण-पुष्पैर् ग्रथिता माला ।

तां वेणो रन्ध्राणि अधर-सुधया पूरयन्न् इति तस्या इव तन्-नादस्यापि परम-मोहनत्वं सूचितं । वृन्दाया अरण्यम् इति तद्-अधिष्ठात्र्या तया श्री-भगवतः क्रीडा-विशेषोत्सुकताम् अभिप्रेत्य विशेषतः संस्कृतम् इत्य् अर्थः । अत स्वैः असाधारणैः पदैः सर्वत्राङ्गितै रमणं, तस्याः सर्वेषां च सुख-करम् । यद् वा, स्व-पादयो रमणं स्वतः प्रियत्वेन रम्य-कोमल-धूली-पुष्प-पराग-पत्रादिमयत्वेन च रति-जनकं व्रजस्यापि वृन्दावनान्तर्-वर्तित्वेन तद् बहिर् एव वनत्व-व्यत्यपेक्षया विशेषतस् तत्-पादोपादानं ।

गोप-वृन्दैर् गीता कीर्तिः विचित्र-सौन्दर्य-वैदग्ध्यादि-प्रसंसा-रूपा यस्य । यद् वा, तस्य भाव-विशेषम् आलक्ष्य गीता कीर्तिः गोपीनां यस्मिन् तासां साक्षाद् अनुक्तिर् लज्जया मौक्तिक-हार-स्वर्णाङ्गद्य्-अलङ्कारस्यावर्णनं स्वत एव तस्य नित्य-सिद्धत्वात् । यद् वा, वन्य-वेषस्यैव मोहनत्वात् । किं वा, शरत्-प्रथम-दिने वन्य-विहार-वेषार्थं वन-प्रान्तम् आगत्य कृतेन केवल-वन्य-वेषेणैव वने प्रवेशात् । अत्र गोप-वृन्दैर् अपि बलदेवो\ऽपि गृहीतः, तस्य युगलत्वेनानुक्तिः । श्री-गोपीनां श्री-कृष्णैक-निष्ठत्वं तत्-परिकरतयैव तु तत्-साहित्येन वर्णनम् इति व्यञ्जयति ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ शरद्-आगमे वृन्दावन-भुवं वर्णयन्न् आह—बभौ भूः पक्वः [भा।पु। १०.२०.४८] इत्य्-आदि । हरेः कला पत्नी-रूपा, धरण्या च दूर्वा-दल-श्यामलाङ्ग्येत्य् अभियुक्ताः । श्री-भू-लीला इत्य्-आदि वा आगमान्तरम् । सा तु भुवोऽधिष्ठात्री । तत्-सम्बन्धा भूर् अपि तथा । आभ्यां श्री-कृष्ण-रामाभ्यां हेतु-भूताभ्यां बभौ । पक्व-शस्याढ्येति जात्य्-उक्तिः । नितराम् अतिशयेन । एवं शरद्-वर्णनम् उपक्रम्य तत्रैव शरदि पूर्ण-विहारम् आह—बर्हापीडम् इत्य्-आदि ।

नटवद् अवरवद-वपुर् यस्य, वरो विवाह-प्रवृत्तः, नटेभ्योऽपि वरम् इति वा, नट-वरवद् इति वा । "नट-नर" इति पाठे नटवत् नरवत्, द्वि-भुजत्वे तात्पर्यम् । यद् वा, नटनम् आनन्दोल्लास-विकारः, तद् राति ददातीति नट-नरं वपुर् यस्य । यद् दृष्ट्वा सर्वेषाम् एव नटनं जायत इति भावः ।

कर्णयोः कर्णिकारं सप्तम्या अलुक् । यद् वा, कर्णयोः कर्णिकारं बिभ्रत् । बिभ्रद् इत्य् उभयत्र योज्यम् । लीला-वशाद् एकम् एव कर्णिकारं कदाचिद् वामे कर्णे, कदाचिद् दक्षिणे च बिभ्रद् इति भावः । जाताव् एक-वचनं वा । वैजयन्ती नाना-पुष्प-पत्र-रचन-मयी माला

वृन्दारण्यं कीदृशम् ? स्व-पदैः स्व-पद-चिह्नै रमणीयम् । यद् वा, स्व-पदं स्व-योगाधिष्ठानं परम-वैकुण्ठं, तेन रमणीयं, स्वतोऽपि भौम-वैकुण्ठत्वाद् रमणम् । भगवत्-प्रादुर्भावे प्रादुर्भूताद् उक्त-प्रकार-वैभवाद् अस्या भौम-वैकुण्ठत्वेन च रमद꣡न् । वैकुण्ठस्य च त्रैविध्यं प्राग् उक्तम्, तद्-युक्तिश् च ।

अथवा स्व-पदाद् अपि वैकुण्ठाद् अपि रमणीयम् । किं कुर्वन् ? अधर-सुधया वेणो रन्ध्रान् पूरयन् । पुंस् त्वम् आर्षम् । जद्यपि अधर-सुधया वेणोर् एकम् एव रन्ध्रं पूर्यते, तथाप्य् अतिशयतया एकं रन्ध्रं प्रविश्य उच्छलद्-रूपतया सर्वाण्य् एव रन्ध्राणि पूरितानीति भावः । वस्तुतस् तु अधर-बिम्बस्य शोणं महर् एकम् एव रन्ध्रं प्रविवेश, तत्रैव बहुली-भूय रन्ध्रान्तर-विवरेभ्य उद्गच्छन्तीत्य् अत्रैवामृतत्व-रूपेण ध्वनेश् च स्वर-गत-माधुर्य-धुर्यतया श्रवणयोर् अमृतत्वाद् आनन्द-प्रदत्वं व्यङ्ग्यम् ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी): तदैव तासां मनो-विक्षेपक-स्मर-वेग-जनकं कृष्ण-चेष्टितं किम् इत्य् अपेक्षायां श्री-शुक एव सर्वज्ञत्वाद् वर्णयति—बर्हम् आपीडः शिरो-भूषणं यत्र तथा-भूतम् । नट-वर-वपुर् बिभ्रत् कर्णिकारम् एकम् एव कर्णयोः कदाचित् वामे कदाचिद् दक्षिण इति स्वस्य यौव-मत्तताम् अभिव्यञ्जितुं बिभ्रत् । इति तु कृष्ण-चेष्टितं तासाम् अतिशयेन स्मर-वेग-जनकं भवति । वैजयन्तीं पञ्च-वर्ण-पुष्प-ग्रथिताम् ।

वेणु-वादनम् उत्प्रेक्षते—रन्ध्रान् इति । तेन स्व-वेणुं स्वाधर-सुधयैव निश्छिद्रीकरोमीति कृष्णस्येच्छा । अधर-सुधा तु वेणुं निष्प्राणम् अपि संस्पर्शेन चेतयित्वा स-प्राणीकृत्य, तेन त्रि-जगद् अप्य् उन्माद्य, पश्चात् तं कठोरम् अचेतन-स्वभावम् अनधिकारिणं ज्ञात्वा तदीय-छिद्रेभ्यो निःसृत्य व्रज-बालानां कर्ण-द्वारेण तन्-मनः प्रविश्य स्वं सफलीकृत्य तत्रैव स्व-सर्व-विक्रमान् दर्शयामासेति द्योतितम् । स्व-पदयो रास-लास्य-कुर्दनादिभी रमणं यत्र तद् इति व्रजाद् वैशिष्ट्यं प्राविशद् इत्य् उक्त-पोष-न्यायेनैव न पुनर्-उक्तिः ॥५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु, किं तत् कृष्ण-चेष्टितं येन तासां मनो-विक्षेपकः स्मर-वेगः ? इत्य् अपेक्षायाम् आह—बर्ह**-**इति । कृष्णो गोप-वृन्दैः सह वृन्दारण्यं प्राविशद् इत्य् अन्वयः । कीदृशः ? बर्हम् आपीडः शिरशि भूषणं यत्र तादृशं नट-वर-वपुर् बिभ्रत् कर्णिकारम् एकम् एव कर्णयोः कदाचिद् वामे कदाचिद् दक्षिणे च बिभ्रद् इति तारुण्य-मत्तता सूच्यते । कनक-कपिशं स्वर्ण-गौर-वाससी । वैजयन्तीं पञ्च-वर्णैः कुसुमैर् ग्रथितां मालां च बिभ्रत् । शश्वच्-छोभाविर्भावेन पुष्णन्न् इत्य् अर्थः । अधर-सुधया तार-मन्द्र-कल-ध्वनि-रूपया निःसरन्-मोहन-मन्त्राक्षरया विविध-राग-ताल-गान-मूर्च्छनानिभूतया अधर-पुट-निर्गतया स्वर-सम्पदा वेणो रन्ध्रान् पूरयन्न् इति सा तद्-अधर-सुधा वेणुम् आपूर्य तद्-रन्ध्रीर् निर्गम्य व्रजाङ्गनानां करैस् तन्-मनांसि प्रविश्य येष्व् एव स्व-विक्रमान् प्रदर्शयामास इति भावः । वृन्दारण्यं कीदृक् ? स्व-पदयो रमणं मृदुल-धूली पुष्प-रागादिमयत्वेन रासलास्यादिना वा रति-करम् इति व्रजाद् वैशिष्टयं सुरैर् गीत-कीर्तिः प्राविशद् इति पुनर्-उक्तिर् उक्त-पोष-न्यायात् ॥५॥


॥ १०.२१.६ ॥

इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् ।

श्रुत्वा व्रज-स्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे3

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिरेभिरे वर्णयन्त्यः पदे पदे परमानन्द-मूर्तिं कृष्णं परिरब्धवत्यः ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति बर्हापीडम् इत्य्-आदि वर्णयन्त्यःवेणु-रवं श्रुत्वा सर्व-भूतानां मनोहरं प्रियं श्री-कृष्णं व्रज-स्त्रियोऽभिरेभिरे इति सम्बन्धः ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इति वेणु-रवम् इति । एक एव वेणु-रवः श्रोतॄणाम् अधिकार-भेदेनानन्द-भेद-वर्धकः । अत एवाह—सर्व-भूत-मनोहरम् इति । वक्ष्यमाणं वर्णयन्त्योऽभिरेभिरे । परस्परम् आलिङ्गितवत्यः । सर्व-भूत-मनोहरम् यथा स्यात् तथा वर्णयन्त इति वा । व्रज-स्त्रिय इति बहुत्वेनैव सर्व-लब्धेः पुनः सर्व-ग्रहणं गण-सूचनार्थं । गणश् च तासां बहुधा । तथा हि वत्सला अनुरक्ताश् चेति प्रथमं द्वेधा वत्सलाश् च पुनर् द्वेधा, श्री-यशोदा-सहचर्यः, सखि-मातरश् च, अनुरक्ताश् च द्वेधा ऊढा अनूढाश् च । ऊढाश् च द्वेधा—बालाः सापत्याश् च द्वेधा पुर-वध्वः केवल-गोपाश् च । ऊढा-मात्राश् च द्वेधा—श्रुति-रूपाः केवलाश् च । गोप्यः पुनर् इमाः प्रौढा मध्या मुख्याश् चेति त्रिधा । अनूढाश् च द्वेधा—सिद्धाः साधकाश् च । सिद्धाश् च द्वेधा—स्वभाव-सिद्धास् तत्-काल-भगवत्-प्रसाद-सिद्धाश् च । साधिकाश् च त्रिधा—उत्तम-मध्यम-कनिष्ठ-भेदात् । पुनर् एताः प्रधान-कल्पाः, तत्-सहचरी-रूपाश् चेति द्वेधा । पुनर् एता अवस्था-भेदाद् अष्टधा । पुनर् एता धीरादि-भेदात् त्रिधा । इति बहव एव गणाः । बाहुल्य-भयान् नोदाह्रियन्ते उक्तान्य् उदाहरणानि । अतः समान-वासनाः समान-वासनाभिः सहान्योन्य-परिरम्भण-पूर्वकं वर्णनम् आरब्धवत्यः इत्य् अर्थः । किन्त्व् अनुरक्तानां सर्वासां मध्ये काश्चित् परसरावलोकादि-मात्र-योग्याः, काश्चित् भोग्याश् च, सर्वं रास-विलासे व्यक्तीभविष्यति ॥६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति ईदृशम् । अनेन प्रकारेण वा, सर्वा दूरे\ऽन्तिके वा स्थिताः । यद् वा, प्रौढ-बालादि-भेदेन वर्तमाणाः । यद् वा, सर्व एव सङ्घशो वर्णयन्त्यः सत्यः, वेणु-रवम् एव अन्ववर्णयन्न् इति पूर्वम् अपि तस्यैव प्रस्तुतत्वत्, अतो यथासौ व्यक्तो नास्ति, तत्राप्य् ऊह्य एव । यच् चाग्रे रूप-वेषादि-वर्णनम्, तच् च तत्-साहचर्येण प्रसक्ताद् इति ज्ञेयम् । यद् वा, कृष्ण-चेष्टितम् इति पूर्वोक्तम् आकर्षणीयं—वर्णयन्त्यो मिथो गोप्यः क्रीडाः [भा।पु।१०.२१.२०] इति सर्वान्तोक्तेः । अभिरेभिरे हृदाक्रान्तं श्री-कृष्णं भावनया । किं वा, भाव-विशेषोदय-स्वभावेन परस्परं सर्वा एव परिरब्धवत्यः । किं वा, वेणु-नादम् एव वा प्रीत्या हृदय-सल्लग्नं चक्रुर् इत्य् अर्थः । सर्वात्रैव हेतुः—सर्वेषाम् अपि भूतानां मनोहरम्, किम् उत तासाम् इति । "अभिरेमिरे" इति पाठस् तु श्री-चित्सुख-सम्मत एव । अभि अभितो रतिं प्रापुर् इत्य् अर्थः । हे राजन्न् ! इति पूर्वोक्त-नृपेतिवत् । यद् वा, हे भाव-विशेषेण प्रकाशमानेति सम्बोधयन् हस्त-ग्रहणादिना तमसाव् उत्थाप्यालिङ्गितवान् इति ज्ञेयम् ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति उक्त-प्रकारेण सर्वास् तास्व् एव प्रौढ-बालादि-भेदेन वर्तमानाः अभिरेभिरे हृदाक्रान्तं श्री-कृष्णं भावनया । किं वा, भाव-विशेषोदय-सम्मोहेनान्योन्यं तं मत्वा । किं वा, भाव-विशेषोदय-स्वभावेनैव परस्परं सर्वा एव परिरब्धवत्यः । सर्वत्रैव हेतुः सर्वेषाम् अपि भूतानां प्राणिनां मनोहरं । किम् उत तासाम् इति अभिरेमिरे इति पाठस् तु चित्-सुख-सम्मत एव अभितो रतिं प्रापुर् इत्य् अर्थः । हे राजन्न् इति पूर्वोक्त-नृपेतिवत् ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् एव वेणु-रवस्य माधुर्यं वर्णयति—इति इत्य् आदि । इति उक्त-प्रकारम् । राजन्न् इति विस्मये सम्बोधनम् । क एव वेणु-रवः श्रोतृणाम् अधिकरि-भेदेनानन्द-वर्धक इत्य् आह—सर्व-भूत-मनोहरम् । सर्व-शब्दः स्थिर-जङ्गमादि-परः, मनोहर-शब्दो विकार-कारि-परः, तेन स्थिराणां चाञ्चल्यम्, जङ्गमानां स्थैर्यं यत इति भावः । सर्व-भूत-मनोहरत्वं प्रतिपाद्य सर्व-भूत-बहिर्-भूतानां गोपीनां विशेषम् आह—श्रुत्वा इत्य्-आदि ।

व्रज-स्त्रिय इति सामान्योक्तेर् बहुत्वेनैव सर्व-सिद्धेः । सर्वा इति तासाम् एव विविधत्वं वर्णयन्त्यः सत्यः परस्परम् अभिरेभिरे आलिङ्गितवत्यः । सर्व-भूत-मनोहरं यथा स्यात् तथा वर्णयन्त्य इति वा । सर्वा इत्य् आस्य गण-वैविध्य-परत्वम्। गणाश् च तासां बहव एव । तथा हि—

नित्य-सिद्धेति सिद्धेति प्रथमं भिद्यते द्विधा ।

नित्या-स्वरूप-सिद्धत्वाद् अवतीर्णा सहादिमा ॥

उपासनाभिर् बह्वीभिर् बहुभिश् च मनोरथैः ।

कृष्ण-प्रसादतः सिद्धा या सा सिद्धा निगद्यते ॥

नित्य-सिद्धा भवेद् द्वेधानूढोढा-भेद-दर्शनात् ।

ऊढा पत्युर् ममत्वैक-पात्री नैवास्य सङ्ग-भाक् ॥

अनूढा कन्यकैवात्र भेदो नाना-विधोऽनयोः ।

विलासिनः श्री-कृष्णस्य तथैवेच्छा-वशेन हि ॥

नित्य-सिद्धाप्य् ऊढता-भाक्-जाता रस-विशेषतः ।

कन्याः स्वरूप-सिद्धाश् च पुनः कात्यायनी-व्रतात् ॥

कृष्ण-लीला-विशेषार्थं साधकत्वम् अपागताः ।

श्रुति-रूपतया काश्चिन् मुनि-रूपतया पराः ॥

पूर्वं स्थिता व्रजे पश्चाज् जाता गोप-कुले तथा ।

कृष्ण-प्रसादतो याः सुसिद्धास् ताश् च द्विधोदिताः ।

सुर-स्त्रियो यावतीर्णास् ताश् च तासां प्रसङ्गतः ।

सिद्धा एव भविष्यन्ति न तासां पूर्व-रूपता ॥

एषु भेदेषु मुनितां या विहायाभवंस् तथा ।

भौम-वैकुण्ठजत्वात् ता भौमा एव प्रिया हरेः ॥

अन्यास् त्व् अभौम-वैकुण्ठ-प्रियाः सह महीं गताः ।

एवं भौमाभौमतया तासां भेदास् तु भूरिशः ॥

अपत्यवत्यो याः काश्चिद् भौम्यस् ता अपि तत्-स्पृहाः ।

तत्-तद्-वपुर् विहायैव सिद्धास् तं प्रापुर् अञ्जसा ॥

अतः सिद्धा अपि द्वेधा प्रादीनाधुनिकत्वतः ।

मुग्ध-मध्यादि-भेदेन धीराधीरादि-भेदतः ।

अवस्थाभिस् तथाष्टाभिस् तासाम् आनन्त्यम् इष्यते ।

मुख्य-गौण-प्रभेदेऽपि पुनर् आनन्त्यम् एव च ॥

शत-कोटितया तासां सङ्ख्यां कः कर्तुम् अर्हति ।

अथात्र नित्य-सिद्धानां नित्यं वृन्दावन-स्थितिः ।

अनुरक्ता इमाः सर्वा वत्सलाः सखि-मातरः ।

रस-भेदेन सम्प्राप्ताः कृष्णस्योत्तम-भक्तताम् ॥

किं पल्लवेन बहुना ह्य् अपराश् च तदा स्त्रियः ।

कृष्णेक्षण-पथं प्राप्य रत्या तं प्रापुर् अञ्जसा ॥

एवं स्थिते व्रज-देवीनां गण-भेदे सजातीयासजातीयाभिः सह वर्णयन्त्यः परस्परम् अभिरेभिरे इति प्रकृत-स्थितिः । वर्णनोपक्रमे प्रायः प्रतिश्लोकम् एव वेणु-वादन-लीला दृश्यत इति प्रकृति-वैचित्र्याद् विविधानां वक्त्रीणाम् उक्तिर् मन्तव्या । तेनार्थस्यापि वैविध्यम् अवगन्तव्यम् इति । प्रथम-श्लोके विविधोऽर्थो बोद्धव्यः । अत्र सर्व-भूत-मनोहरम् इति सर्वेषां चेतनानां भूतानां पृथिव्यादीनाम् अचेतनानाम् इति द्वन्द्व-गर्भो मनोहर-शब्दो विकारकत्वे लाक्षणिकः । तेन सर्व-शब्दो वत्सलता-परोऽपि बोद्धव्यः ।

तेन अभिरेभिरे इत्य्-अन्तं तत्-परं वाक्यं, तद् वर्णयितुम् आरब्धाः [भा।पु। १०.२१.४] इत्य् आरभ्य, विक्षिप्त-मनसो नृप [भा।पु। १०.२१.४] इत्य्-अन्तम् अनुरक्त-परम् । अतः स्मर-वेगेन विक्षिप्त-मनसः सत्यो वर्णयितुं नाशकन् । अयं भावः—अवहित्थादि-वैदग्धी-पूर्वकं वर्णनं कर्तुं नाशकन् । वस्तुतस् तु वर्णनां चक्रुर् एव । तेन प्रथमं वात्सल्य-रसानुगुणं व्याख्यायते ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च कतिचित् क्षणानन्तरं कृष्ण-चेष्टित-स्मरणोत्थ-स्मर-वेग-वैयग्र्यस्योपशमे वृत्ते सति वेणु-गीतं वर्णयितुं सम्यग् अशकन्न् अपीत्य् आह—इति इति समाप्त्य्-अर्थकं, स्मर-वेग-विक्षेपे समाप्ते सतीत्य् अर्थः । इति हेतु-प्रकरण-प्रकारादि समाप्तिषु इत्य् अमरः । सर्व-भूत-मनोहरम्, न तु रासारम्भ-समय-गतम् इव गोपी-मात्र-मनोहरं वर्णयन्त्यो ऽभिरेभिरे । सखि ! त्वं मन्-मनः प्रविश्यैवैवं ब्रूषे, यतो ऽहम् अप्य् एवं विवक्ष्ये इति प्रत्येकम् अनुभव-साम्योपलब्ध्या परस्परालिङ्गनं तासाम् ॥६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : इति इति समाप्त्य्-अर्थकं कतिभिश्चित् क्षणैः कृष्ण-चेष्टित-स्मरण-हेतुके स्मर-वेगे निवृत्ते सतीत्य् अर्थः । वेणु-गीतं वर्णयन्त्यः सर्वा अभिरेभिरे स्व-स्व-मनो-गतं कर्णेषु वदन्त्यः परस्परम् आलिलिङ्गुः, कृष्नां वा मनसेत्य् अर्थः । तत् कीदृशम् ? इत्य् आह—**सर्व-भूत-**इति । न तु रासारम्भ-समय-गतम् इव प्रेयसी-मात्र-चित्त-चोरम् इत्य् अर्थः ॥६॥


॥ १०.२१.७ ॥

अक्षण्वतां फलम् इदं न परं विदामः

सख्यः पशून् अनु विवेशतयोर् वयस्यैः ।

वक्त्रं व्रजेश-सुतयोर् अनु-वेणु जुष्टं

यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुवर्णनम् एवाह—अक्षण्वताम् इति त्रयोदशभिः । अक्षण्वतां चक्षुष्मतां तावद् इदम् एव फलं प्रिय-दर्शनं, परम् अन्यन् न विदामः, न विद्म इत्य् अर्थः । तच् च फलं सखिभिः सह पशून् वनं प्रवेशयतो राम-कृष्णयोर् वक्त्रं यैर् निपीतं, तैर् एव जुष्टं सेवितं, नान्यैर् इत्य् अर्थः । कथं-भूतं वक्त्रम् ? अनु-वेणु वेणुम् अनुवर्तमानं, तं वादयत् । तथाऽनुरक्त-कटाक्ष-मोक्षं स्निग्ध-कटाक्ष-विसर्गम् । अथवा, यैर् निपीतं तयोर् वक्त्रं, तैर् यज् जुष्टम् इदम् एव अक्षण्वताम् अक्ष्णोः फलम् इति ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावत् मुख्यम् । इत्य् अर्थ इति—वेत्तेर् आद्-आदिकत्वाद् आर्षः शब्दादिर् इत्य् अर्थः । वक्त्रं मुखम् । यैः पुरुषैः । तैर् एव जुष्टं नेत्र-फलं प्राप्तम् इति । इत्य् अर्थ इति— अन्येषां निष्फल-नेत्रत्वं इति भावः । बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर् न निरीक्षतो ये [भा।पु। २.३.२२] इत्य् उक्तेः ।

ननु मनुष्यास् तु भगवद्-गुण-चरणारविन्दादि-द्वारा कर्णाद्य्-अङ्गैर् अपि कृतार्था बचन्ते, किम् एकेन चक्षुषेति चेत्, तदा प्रकारान्तरम् आह—अथवा इति । यैश् चक्षुर्भिर् निपीतं, तैर् एव चक्षुर्भिर् यद् दर्शनं जुष्टं प्राप्तम् । इदम् एव कृष्ण-दर्शनम् एव । नेत्रवतां नेत्रयोः साफल्यं न तु प्रिय-पुत्रादि-दर्शनम् अपि नेत्रयोः साफल्य-करम् इति भावः । व्रजेश-सूतयोर् इति । तातं भवन्तं मन्वानः [भा।पु। १०.५.२७] इति वसुदेवोक्तेः, रामोऽभिवाद्य पितरौ [भा।पु। १०.६५.२] इति श्री-शुकोक्तेश् च बलदेवस्यापि व्रजेश-सुतत्वं व्रजे प्रसिद्धम् एव ।

अभीप्सितोऽर्थस् त्व् अयं—[अस्मात् स्थानात् विश्वनाथस्य टीकाक्षरश उद्धृता] ॥७॥


कैवल्य-दीपिका : तत्र पूर्वानुरागे द्वेधा देवै-पारवश्ययोर् अप्राप्ति-हेतुत्वात् । तत्र दैव-हेतुकं तावद् आह—अक्षण्वताम् इति । हे सख्यः ! यैः व्रजेश-सुतयो राम-कृष्णयोः वक्त्रम् अक्षिभिर् निपीतम्, तेषाम् अक्षण्वतां विशाल-दृष्टीनाम् इदं पानम् इव केवलं फलं न परं नान्यत् । च्छन्दस्य् अपि दृश्यत इत्य् अक्ष्णो नडिः, न लोपोऽनोऽनुर् इति च मत्वे च नटिवत्वे च अक्षण्वताम् इति रूपम् । अनु अनुक्रमेण अनु वेणुना रूपानुरूपेण वेणुना जुष्टं सेवितम् । अनुरक्तानां सानुरागाणां कटाक्षाणां मोक्षो विसर्जनं यस्मिन् वक्त्रे तत् तथा ॥७॥ [मु।फ। १२.१]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत्र प्रथमं एव श्री-यशोदा-सहचर्य एवाहुः—अक्षण्वताम् इत्य्-आदि द्वाभ्याम् । हे सख्यः ! अक्षण्वतां चक्षुष्मताम् इत्य् अर्थे छान्दसम् । अक्षिमताम् इदम् एव फलं विदामः, नापरम् इत्य् अर्थः । तत् किम् ? तत्राह—वयस्यैः सह पशून् अनु विवेशयतोर्व्रजेश-सुतयोः श्री-राम-कृष्णयोः । रामस्यापि रोहिणी-सुतत्वे प्रसिद्धाव् अपि नन्द-सुतत्वं स्नेह-तौल्योपचारात् । यैर् निपीतम् इत्य् अन्वयः ।

वक्त्रं विशिनष्टि—अनुवेणु जुष्टं, वेणुं लक्षी-कृत्य पीतम्, अनुरक्त-कटाक्ष-मोक्षं अनुरक्तानां कटाक्षाणां मोक्षो यत्र अनुरक्तानां प्रिय-जनानां कटाक्षस्य यत्रेति वा ।

यद् वा, अनुरक्ताः प्रौढा एवाहुः—हे सख्यः ! इदम् एव अक्षण्वतां फलं इति पूर्ववत् । व्रजेश-सुतयोर् मध्ये अनु वेणु यद् वक्त्रं, तद् यैर् निपीतं, उभयं तु दृश्यम् एव, किन्तु वेणु-युक्तं मुखम् एव पीयते, तत्रैवान्यास् तत्-समान-वासना आहुः—हे सख्यः ! सम्यग् एवोक्तम्, किन्तु जुष्टं, प्रियया सेवितम् । तथा-विधा एवान्या आहुः—हे सख्यः ! युष्माभिर् अप्य् अतिसाधूक्तं, किन्त्व् इदम् अप्य् उच्यताम्—अनुरक्त-कटाक्ष-मोक्षं, एवं चेत् सर्वं सम्पन्नम् एव भवतीति भावः ।

अथवा श्री-राधायाः सहचर्य एव प्रथमम् आहुः—हे सख्यः ! व्रजेश-सुतयोर् वक्त्रं यैः पीतं, तद् एव तेषां अक्षि-फलं । व्रजेशश् च व्रजेशश् च व्रजेशौ श्री-कृष्ण-राधा-पितरौ स्थले स्थले दर्शनीयौ । तयोः सुतश् च सुता च व्रजेश-सुतौ श्री-कृष्ण-राधे, यथा-सङ्ख्य-बलाद् एकैकस्य सुतश् च सुता चेति नाशङ्कनीयम्, उभयोर् एव उभयं वक्त्रं यैः पीतं । वक्त्रं पृथक् पृथक् विशिनष्टि—अनु वेणु अनुगतो वेणुर् यत्र, तत् तया जुष्टं श्री-कृष्णेन स्व-हस्त-लिखित-पत्राङ्कुरादिना सेवितम् । तयोः कीदृशयोः ? वयसि भवैर् वयस्यैर् लावण्यैः पशून् पत्रावली-मकराङ्कुरान् अनु अन्योन्यं विशेषणेन आवेशयतोः प्रापयतोः ।

पशुः पत्राङ्कुरे पुंसि पशुर् भूत-गणेऽपि च ।

वेश्म-मात्रेऽपि च पश्य् तथा चतुष्पदेऽपि च ॥ इति हारावली ।

तथा च—क्रीडा-पत्र-प्रकर-मकरी-पाशुपाला हि वृत्तिः । लोकेऽपि पशुपाला वेश-कर्तार इति श्रूयन्ते ॥७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-गोप्य ऊचुर् इति तेषां असम्मतं लक्ष्यते, अनुवर्णनम् एवाह इति लिखितत्वात् । अन्यथा गोप्य ऊचुर् इत्य् अनन्तं वर्तमानस्य अक्षण्वताम् इत्य्-आदेर् आभाष-लिखने आहेति लेखायोग्यत्वात् । किन्तु तत्-पाठः सर्वत्रैव दृश्यते ।

यासां बुद्ध्येत वाग्-अर्थो यासां एव प्रसादतः ।

गोपीः प्रपद्ये ता याभिः स गम्भीराशयो जितः ॥

इदम् इत्य् अस्यादौ निर्देशो वक्ष्यमाणार्थस्य परम-फल-रूपः सु-गोप्यत्वेन सहसा प्राक् प्रकाशनायोग्यत्वात् । यद् वा, हृदयम् आक्रान्ते तस्मिन् प्रेम-भरोदय-वैवश्येन सद्यस् तस्य विशेष-निर्देशाशक्तेः परं श्री-वृन्दावनादि-परमाश्चर्य-दर्शनं तस्य चान्यैः सहितस्यान्यदान्यथा वा दर्शनम् "अक्ष्णोः फलं न विद्मो वयं, अन्ये जनास् त्व् अन्यज् जानन्तु नाम" इत्य् अर्थः ।

एषां सोल्लुण्ठोक्तिः—अतोऽस्माकं चक्षुः-साफल्यं न किम् अपि वृत्तं तदानीं, तथा दर्शनाभावाद् इति भावः । यद्यपि यत्र तत्र यदा तदा येन तेन प्रकारेण तद्-वक्त्र-जोषणम् एव चक्षुः-फलं व्रजान्तस् तु तासां तत् सुष्ठु फलत्य् एव, तथापि वन-विहारे तथा तद्-दर्शनौत्सुक्येन तथोक्तम् । अयम् एव हि निर्भर-प्रेम्णोऽतृप्त्य्-आर्ति-विशेष-लक्षणः स्वभावः—हे सख्यः ! इति युष्माभिर् एतन् नितरां ज्ञायत एवेति भावः । अनु पश्चात् स्थित्वा वनाद् वनान्तरं वा विशेषेण प्रवेशेन सङ्केत-मधुर-शब्दादिना प्रवेशयतोः ।

व्रजेशौ श्री-नन्द-वसुदेवौ, वसुदेव इति ख्यातो गोषु तिष्ठति भू-तले [ह।वं। १.५.३६] इत्य्-आदि श्री-हरि-वंशोक्तानुसारेण बलदेवस्यापि तत्-सुतत्वं, श्री-कृष्ण-साहचर्यतः पुष्ट-पुत्रत्वाद् वा। यद्यपि श्री-कृष्णस्यैव वेणु-गीतादि-वर्णन-प्रसङ्गेऽत्राग्रजस्य उपयोगो न स्यात्, तथापि तत्-साहित्येन श्री-कृष्णस्य शोभा-विशेष-विवक्षया । किं वा, श्री-कृष्ण-विषयक-निज-भाव-विशेषस्य स्वाभाविक-स्वलज्जयाच्छादनाय साधारण्येन द्वयोर् अप्य् उक्तिः । एवम् अग्रेऽपि तयोर् द्वित्वेनापि वक्त्रस्यैकत्वं नित्य-युगलत्वादिना वर्तमानानां अप्य् अगानां जात्याद्य्-अपेक्षया एकत्वादिनापि स्वत एव युगलत्वादि-प्राप्तेः ।

इदं च पूर्वम् अपि विवृतम् अस्ति, प्रपिबतोः स्म मुखम् इत्य् अत्र । यद् वा, व्रजेश-सुतयोर् मध्ये वेणु-जुष्टं वक्त्रं यैर् निपीतं, श्री-कृष्णस्य वक्त्रम् एव वेणु-जुष्टतया प्रसिद्धम्, नितरां पीतं इत्य् अनेन वक्त्रस्य सुधा-मय-चन्द्र-रूपत्वं ध्वन्यते । वै प्रसिद्धम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, छन्दसि, व्यवहिताश् च [पा। १.४.८२] इति न्यायेन परि ये चरन्ति इत्य्-आदिवत् अनु निरन्तरं वेणुना जुष्टं सेवितम् इति । अनुरूपेण वेणुना जुष्टम् इति वा ।

अथवा, वै-शब्दः समुच्चये, “मानिनाम् अनुतापं वै” इतिवत् । "वा" इति-पाठोऽपि क्वचित् । यैर् निपीतं सादरं सम्यक् जुष्टं तत्-स्निग्ध-कटाक्ष-मोक्षं यथा स्यात् तथा जुष्टं च । चामरादि-वीजनाङ्ग-सम्मार्जनादिना च सेवितम् । यद् वा, अनुरक्त-जनानां युष्माकं कटाक्ष-मोक्षो यस्मिन् । किं वा, अनुरक्तः कटाक्ष-मोक्षो यस्य तद् इति सेवायां सुख-विशेष-सम्पत्ति-हेतुः । तेषां अक्षण्वतां इन्द्रियवतां इदं निपानं जोषणं चैव फलं सर्वेन्द्रिय-साफल्यं विद्मः, न चान्यत् किम् अपि । तन्-निपानेन दृष्टेः साफल्येन साक्षात्कारस्य च परम-फल-रूपतया सर्वेन्द्रिय-कर्म-साफल्य-सिद्धेः । विशेषतश् च वीजन-स्पर्शनादि-सेवया त्वग्-आदिनां अपि नितरां साफल्य-सुसिद्धेः सर्वेन्द्रियाणां इव साफल्यं सिद्धम् ।

अथवा, इदम् एव परम् परमं केवलं वा फलं न विद्म इत्य् अर्थः । जितं सर्वं जिते रसे [भा।पु। ११.८.२१] इत्य्-आदि-न्यायेन मुखस्य रसनेन्द्रियस्य तन्-निपानेन साफल्य-सिद्ध्या । विशेषतश् च सर्व-फल-वर्ग-पूज्य-तद्-अधरामृत-पान-सम्पत्त्या सर्वेन्द्रियाणां एव साफल्यस्य स्वतः सुसिद्धेः । अतस् तदानीम् अस्माकं तद्-अप्राप्त्या सर्वम् एव व्यर्थम् इति भावः । एतच् चात्यन्तोत्कण्ठयोक्तम् ।

यद् वा, वक्त्रं जुष्टं निपीतं यत् इदम् एव चक्षुष्मतां चक्षुः-फलं । त्व्-अर्थे वै-शब्दः । यैस् तु जनै रसनेन्द्रियैर् वा निपीतं, तेषां फलं किं वक्तव्यं इति शेषः । तत्-स्मरण-मात्रेण बाष्प-रुद्ध-कण्ठतया व्यक्तं वक्तुम् अशक्तेः । किं वा, विदग्ध-जन-वर्ग-पूज्य-पादानां तासां प्रेमोक्ति-गाम्भीर्यस्यैव तादृश-स्वभावात् । अन्यत् समानम् ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-गोप्य ऊचुर् इति तेषां असम्मतं लक्ष्यते अनुवर्णनम् एवाह—इति-लिखितत्वात् पुनर्-उक्तत्वेन एकत्वायोग्यत्वेन च तद्-अनर्हात्, किन्तु स पाठः सर्वत्रैव दृश्यते ।

यासां सौभाग्येति वाग्-अर्थो यासां एव प्रसादतः ।

गोपीः प्रपद्येत ता याभिः स गम्भीराशयोर् जितः ॥

अथ पूर्वोक्तानुसारेणावहित्थया राम-सहितम् एव वर्णयन्त्योऽपि स्वभाव-व्यञ्जितार्थ-विशेषेण तथा न शेकुर् इति दर्शयति—अक्षण्वताम् इति । अत्र तेषां व्याख्या सङ्गतिः क्रियते चक्षुष्मतां तावद् इदम् एव फलं विद्यं परम् अन्यत् प्रिय-दर्शनम् अपि फलं न विद्मः

नन्व् इदं इति किं तत्राह—तच् चेत्य्-आदि । निपीतम् अनुभूतं जुष्टम् आस्वादितम् । अथवेतियैर् निपीतं तयोर् वक्त्रं तैर् यज् जुष्टं तद् इदं एव तेषां अक्ष्णोः फलं इत्य् अर्थः । उभयत्र तेषां एनास्वाद-विषयस् तद् इति कथं अन्ये बोधयितुम् शक्यन्त इति भावः । किं च, विषयतया निर्देशम् अकृत्वा प्रथमं इदं तथैव निर्देशः सुगोप्यत्वेन सहसा नाम-प्रकाशनायोग्यत्वात् ।

यद् वा, प्रेम-भरोदय-वैवश्येन सद्यस् तद्-विशेष-निर्देशाशक्तेः परम् अन्यत् सर्वं पशून् इत्य्-आदिना तथा तस्य चान्यैः सहितस्य अन्यदा अन्यथा वा दर्शनम् अपीति विवक्षितं नच्चाक्ष्णोः फलं न विद्म वयम् इति । अन्ये जनास् त्व् अन्यत् जानन्तु नामेत्य् अर्थः । एषा सोल्लुण्ठोक्तिः अतोऽस्माकं चक्षुः-साफल्यं न किम् अपि वृत्तं तदानीं, तथा तद्-दर्शनाभावाद् इत्य् अर्थः । यद्यपि यत्र तत्र यदा तदा येन तेन प्रकारेण तद्-वक्त्र-निपणम् एव चक्षुः-फलं, व्रजान्तस् तु तासां तत् सुष्ठु फलत्य् एव, तथापि वन-विहारे तथा तद्-दर्शनौत्सुक्येन तथोक्तम् । अयम् एव हि निर्भर-प्रेम्णोऽतृप्त्य्-आर्ति-विशेष-लक्षण-स्वभावः । हे सख्यः ! इति युष्माभिर् एतन् नितरां ज्ञायत एवेति भावः । अनु पश्चात् स्थित्वा । यद् वा, वनाद् वनान्तरं विशेषेण प्रवेशेन सङ्केत-मधुर-शब्दादिना प्रवेशयतोः व्रजेशौ श्री-नन्द-वसुदेवौ, वसुदेव इति ख्यातो गोषु तिष्ठति भू-तले [ह।वं। १.५.३६] इत्य्-आदि श्री-हरि-वंशोक्तानुसारेण वसुदेवस्यामि बहुल-गोप-समृद्धे व्रजेशो गोप-राजः श्री-नन्द एव तस्य सुतयोः श्री-बलदेवस्यापि तत्-सुतत्व-व्यवहारो दर्शित एव, भ्रातर् मम सुतः [भा।पु। १०.५.२७] इत्य् आदौ, तातं भवन्तं मन्वानः [भा।पु। १०.५.२७] इति वसुदेवोक्तेः । अत एव तस्य पुनर् व्रजागमने, रामोऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः [भा।पु। १०.६५.२] इति वक्ष्यते । अथ स्मरन्त्यः कृष्ण-चेष्टितम् [भा।पु। १०.२१.४] इति दर्शितं । स्वभाव-व्यञ्जितार्थो यथा व्रजेश-सुतयोर् मध्ये अनु पश्चात् वेणु-जुष्टं वक्त्रं यैर् निपीतं श्री-कृष्णस्य वक्त्रम् एव वेणु-जुष्टतया पश्चात् भावेन कनिष्ठतया च प्रसिद्धम् । अत एवैकत्वं नितरं पीतम् इत्य् अनेन वक्त्रस्य सुधामय-चन्द्र-रूपकत्वं ध्वन्यते । वै प्रसिद्धम् । यद् वा, छन्दसि, व्यवहिता च [पा। १.४.८२] इति न्यायेन अनु निरन्तरं वेणुना सुष्ठु सेवितम् इति ।

अथवा वै-शब्दः समुच्चये, “मानिनाम् अनुतापं वै” इतिवत् । वेति-पाठोऽपि क्वचित् । यैर् निपीतं सादरं सम्यक् दृष्टं तथा स्निग्ध-कटाक्ष-मोक्षं, यथा स्यात् तथा जुष्टं च । यद् वा, अनुरक्त-जनानां युष्माकं कटाक्ष-मोक्षो यस्मिन् । किं वा, अनुरक्त-जनेषु कटाक्ष-मोक्षो यस्मिन् । किं वा, अनुरक्त-जनेषु कटाक्ष-मोक्षो यस्य तद् इति सेवायां सुख-विशेष-सम्पत्ति-हेतुः, तेषां अक्षण्वतां इन्द्रियवतां इदं निपानं जोषणं चैव फलं सर्वेन्द्रिय-साफल्यं विद्मः न चान्यत् किम् अपि तन्-निपानाआदि-रूपस्य परम-फल-रूपतया सर्वेन्द्रिय-कर्म-साफल्य-सिद्धेः । अयम् अपि निगूढऽप्रायः । इदम् एव परम् केवलं फलं न विद्मः । किं तत् ? जुष्टं प्रीत्या दृष्टं यत्, तर्हि किम् अन्यत् फलं ? तद् आहुः—यैर् अधरामृत-पान-द्वारा निपीतं तेषां तन्-निपीतं तेषां यन् निपान-रूपं फलं इदम् एवेति ।

यद् वा, वक्त्रं जुष्टं निपीतं यत् इदम् एव चक्षुष्मतां चक्षुः-फलं । त्व्-अर्थे वै-शब्दः । यैस् तु जनै रसनेन्द्रियैर् वा निपीतं, तेषां फलं किं वक्तव्यं इति शेषः । तत्-स्मरण-मात्रेण बाष्प-रुद्ध-कण्ठतया व्यक्तं वक्तुम् अशक्तेः । किं वा, विदग्ध-जन-वर्ग-पूज्य-पादानां तासां प्रेमोक्ति-गाम्भीर्यस्यैव तादृश-स्वभावात् । अन्यत् समानम् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गोप्य ऊचुर् इति न टीका-सम्मतम् अनुवर्णनम् आह—इत्य् अत्र पुनर् उक्त्यापातात् एकत्वायोग्यत्वाच् च ॥७.८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : व्रज-स्त्रियः सर्वा इति सर्व-शब्दस्य सामान्य-वचनत्वान् नात्र विरोधः । तद् एव किम् इत्य् आह—अक्षण्वताम् इत्य्-आदि । हे सख्यः ! इति समान-वासनाः प्रति सम्बोधनम् । अक्षण्वतां चक्षुष्मताम् इदं फलम्, इदम् एव फलम् इति भावः । न परं नान्यत् । कुतः विदामः ? सर्वानुभव एव प्रमाणम् । किं तद् ? इत्य् आह—पशून् इत्य्-आदि । वयस्यैः सह पशून् अनुविवेशयतोर् व्रजेश-सुतयोर् वक्त्रं यैर् निपीतम् । तयोर् अक्षि-करणकं वक्त्र-पानम् एवाक्षिमतां फलम् इति वाक्यार्थः । कीदृशम् ? अनु अनुक्षणं वेणुना जुष्टं सेवितम् इति । श्री-कृष्णे वनं गते सखि-मातरोऽपि पुत्रादिकं विस्मृत्य वात्सल्यात् ताव् एव वेणु-वादन-लीला-पूर्वकं गाश् चारयन्ताव् अनुस्मरन्त्य ऊचिरे ।

एवम् अनुरक्ताश् चानुवर्णयन्ति । तथा हि—हे सख्यः ! स्वजातीयाः प्रति सम्बोधनम् । व्रजेश-सुतयोर् मध्ये अनु वेणु-जुष्टं वक्त्रं यैर् निपीतम् । तेषाम् अक्षण्वताम् इदं वेणु-जुष्ट-वक्त्र-पानम् एव फलम् । तासां रामे रत्य्-अभावान् निर्धारणेन श्री-कृष्ण-विषय-मात्र-रतिमत्त्वं दर्शितम् । अनुगत-वेणु-जुष्टत्वेन कृष्ण-वक्त्रस्यैव प्रसिद्धेः । एवम् अनुरक्तानां मध्ये ज्येष्ठ-कनिष्ठ-भेदाद् या द्विधा अन्यास् तासाम् एव मध्ये सखी-भावेन कनिष्ठाभिमानिन्यो राधानुचर्य एव सजातीयाभिर् अन्याभिर् अतीतोभय-संयोग-लीलां वन-गते कृष्णे तद्-गत-चित्ततया वर्णयन्ति—उभयोः सख्यः ।

ननु, विचित्रम् इदम् एव अक्षण्वतां फलम् इति पूर्ववद् एव । किं तद् ? इत्य् आह—व्रजेश-सुतयोः । व्रजेशो नन्दः । व्रजेशो वृषभानुः । व्रजेशश् च व्रजेशश् च व्रजेशाव् इत्य् एक-शेषः । पुनः सुतश् च सुता च सुतौ पुनः षष्ठी-तत्-पुरुषः । यथा-सङ्ख्यतया व्रजेश-सुतयोर् इति कृष्ण-राधयोर् वक्त्रं यैर् निपीतम् । एकत्वं जाति-विवक्षया । कीदृशम् ? अनुवेणु अनुगतो वेणुर् यत्रेति श्री-कृष्ण-मुख-विशेषणम् । जुष्टं सेवितम् अर्थात् श्री-कृष्णेनैवेति श्री-राधा-वक्त्र-विशेषणम् अनुरक्तानां कटाक्षाणां मोक्षो यस्माद् द्वयोर् एव विशेषणम् । कीदृशयोः? पशु-विवेशयतोः । अन्योन्य-वेषं प्रापयतोः । चादयोऽसत्त्वे इति चादिमध्ये पशु-शब्द-पाठाद् असत्त्व इति पश्व्-आदि-व्यावर्त्त्य वेषम् एवाभिधत्ते । पशु-शब्दोऽव्ययो वेष-रचनायां पशुर् नर-गो-महिष्यादिषु इत्य्-आदि कोषान्तरम् । प्रयोगश् च क्रीडा यत्र प्रकर-मकरी पाशुपाल्यं हि वृत्तिः इति । लोके च पशुपालो वेषकारीति । वयसि भवं वयस्यं यशस्य् आदिवत् । लावण्यम् इति यावत् । अनुराग-विकार-प्रतिवातैः करणे विशेषणे वा तृतीया ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

वेणु-नाद-सुधा-वृष्ट्या निष्क्रमय्योक्ति-माधुरीम् ।

यासां नः पाययामास कृष्णस् ता एव नो गतिः ॥

भोः सख्यः ! यूयम् इह गृह-निगडे स्थित्वा विधात्रा दत्तानि चक्षुर्-आदीन्द्रियाणि केवलं विफली-कुरुध्वे एव । तद् इतोऽद्य वनं द्रुतम् एव गत्वा किम् अप्य् अद्भुतं वस्तु-दर्शनाद्यैर् अनुभव-गोचरी-कृत्य सफल-जन्मानो भवतेत्य् आहुः—अक्षण्वताम् इत्य् आर्षम् अक्षिमताम् अक्षां इदम् एव फलम्, तु परं विदामः विद्म इत्य् अन्य-मते अन्यद् भवतु नाम । अस्मन्-मते तु नान्यत् । किं तत् ? व्रजेश-सुतयोः राम-कृष्णयोर् वक्त्रम् अनुकूल-वेणु-सेवितं यैर् निपीतम् इति प्रकटोऽर्थः । स्वीय-भाव-गोपनार्थ एव यद्य् अस्मद्-वचसि श्वश्रू-ननान्दृ-प्रतिवेशि-जनाः कर्णौ ददति, तर्हि ददतु नाम, का तत्र चिन्ता सर्व एव व्रज-वासि-स्त्री-पुंस-जना राम-कृष्णयोर् वक्त्र-माधुर्यं यथा वर्णयन्ति, तथा वयम् अपि वर्णयाम इति स्वाभिप्राय-ज्ञापनात् । तत्र पशु-पक्षि-पर्यन्तानां सर्व-प्राणिनाम् एव तद्-वक्त्रम् आनन्द-प्रदं केवलं दवीयसीनां युष्माकम् एव नेति व्यञ्जितं व्रजेश-सुतयोर् इति—तातं भवन्तं मन्वानः [भा।पु। १०.५.२५] इति वसुदेवोक्तेः, रामोऽभिवाद्य पितरौ [भा।पु। १०.६५.२] इति शुकोक्तेश् च बलदेवस्यापि व्रजेश-सुतत्वं व्रजे प्रसिद्धम् एव

अभीप्सितोऽर्थस् त्व् अयम्—व्रजेश-सुतयोर् मध्ये अनु पश्चाद्-वर्तिनो यस्य वक्त्रं वेणु-जुष्टं तद् यैर् वेति। वा-शब्देन यैर् दृष्टं स्पृष्टं श्रुतम् आघ्रातं यैर् वा नितराम् अतिशयेन पीतं । वै इति पाठे वै निश्चितम् एव यैर् लज्जा-धैर्ये अपि त्यक्त्वा निपीतं तेषाम् एवाक्षिमतां जनानां चक्षुर्-आदीन्द्रियाणां साफल्यं नान्येषां तद्-अद्यदीयतां कुल-धर्म-लज्जा-भय-धरियादिभ्यो जलाञ्जलिर् इति भावः ।

ननु, दर्शन-श्रवणादिकम् अस्माकं कुलवतीणां सम्भवतु नाम, वक्त्र-कर्मकं निपानं तु ह्रीमतीनां कथं सम्भवेत् ? तत्राहुः—अनुरक्तेषु जनेषु कटाक्षस्य मोक्षो येन तत् तेन तथा सन्धाय कटाक्ष-शरो मुच्यते यथा तद्-आघातेन विह्वलीभूय लज्जा-धैर्यादिकम् अपि विस्मृत्य तत् पास्यथेति भावः ॥७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : काश्चिद् आहुः—अक्षण्वताम् इति । अक्षिमतां प्राणिनाम् इदम् एव फलं न त्व् इतः परम् अस्तीति वयं विद्मः । किं तत् ? व्रजेश-सूतयोः बलदेव-कृष्णयोर् वक्तुम् अनुकूलेन वेणुना जुष्टं यैर् निपीतं स-तृष्णं वीक्षितम् इत्य् अर्थः। तातं भवन्तं मन्वानः [भा।पु। १०.५.२५] इति वसुदेव-वाक्यात्, रामोऽभिवाद्य पितरौ [भा।पु। १०.६५.२] इति शुक-वाक्याच् च बलदेवस्यापि व्रजेश-सुतत्वं व्रजे ख्यातम् एव वक्तुं । कीदृक् ? अनुरक्तेषु स्वजनेषु कटाक्षाणां मोक्षो यस्य तत् । कीदृशयोः ? वयस्यैः सह पशून् अनु विवेशयतोश् चारयतोर् इति बलदेव-साहित्येन तद्-वर्णनं स्वभाव-गोपनार्थं विवक्षितो\ऽर्थस् त्व् अयं हे सख्यः ! व्रजेश-सुतयोर् मध्ये अनु पश्चाद्-वर्तिनो यस्य वक्तुं वेणु-जुष्टं तद् यैर् वा निपीतम् इति । ननु, दर्शन-श्रवणे भवेतां वक्तु-कर्मकं निपीतं नः कुलाङ्गनानां कथं स्यात् ? तन् नाह अनुरक्तेति । तेन तथानुसन्धाय कटाक्ष-बाणो मुच्यते यथा तेन विह्वलास्त्र-पाद्यैर् ये विहाय तत् पास्यथेति भावः ॥७॥


॥ १०.२१.८ ॥

चूत-प्रवाल-बर्ह-स्तवकोत्पलाब्ज-

मालानुपृक्त-परिधान-विचित्र-वेशौ ।

मध्ये विरेजतुर् अलं पशुपाल-गोष्ठ्यां

रङ्गे यथा नट-वरौ क्व च गायमानौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्या आहुः—चूत**-**इति । चूत-प्रवालादीनां चित्राभिर् मालाभिर् अनुपृक्ते ईषद् अन्तरान्तरतः संयुक्ते परिधाने नील-पीताम्बरे ताभ्यां विचित्रो वेषो ययोस् तौ । क्व च कदाचित् पशुपाल-गोष्ठ्यां गोपाल-सभायां मध्ये अलम् अत्यर्थं विरेजतुः । अहो गोपानां पुण्यम् इति भावः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्याः भगवत्-तत्त्वज्ञाः । चुत-प्रवालम् आम्र-पत्रम्, बर्हं मयूर-पिच्छम्, स्तवकः पुष्प-गुच्छः, उत्पलाब्जौ प्रसिद्धौ । रङ्गे नटादीनां नर्तन-स्थले

रङ्गं स्थले नट्यादि-योग्य-भूमिके ।

सीसके चापि कार्पासे पुम् भूम्नि नीवृद्-अन्तरे ॥ इति धरणिः ॥

गाने गाने मानः सर्वैर् दत्त आदरो ययोस् तौ । यद् वा, गाये गाने मानो गर्वो ययोस् तौ, स चास्मत्-तुल्यस् त्रिलोक्यम् अपि गायको नास्ति, "के यूयं वराका गोपाः" इति प्रकारः । इति भावः इति । यो योगिनां ध्यान-पथेनाप्नोति स सर्वेश्वरः । गोपेषु तद्-आनुकूल्येनास्त इत्य् अद्भुतं गोपादृष्टम् इति तात्पर्यम् ॥८॥


कैवल्य-दीपिका : चूत**-**इति । चूतस्य प्रवालाः पल्लवाः । बर्हं मयूर-पिच्छम् । स्तवकः पुष्प-गुच्छः । उत्पलं रात्रि-विकासि । अब्जं दिन-विकाशि । तेषां मालाभिः अनुपृक्तं सम्पृक्तं यत् परिधानं, तेन विचित्रो वेषो ययोस् तौ तथा । गोष्ठी मण्डली ॥८॥ [मु।फ। १२.२]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : चूत-प्रवाल इत्य्-आदि । यथा-योग्यं विचित्र-वेशो ययोः । कुत्र ? पशुपालीया गोष्ट्ःई सखि-सभा तस्यां, पशुर् अत्रापि वेश-पर्यायः पुंवद्-भावस् तुल्याधिकरणत्वात् । क्व च गायमानौ गायन्ताव् इत्य् अर्थः ॥८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च्यूतस्य प्रवालो नव-पल्लवः, स्तवकः पुष्प-गुच्छः, पशु-पालानां गोष्ठ्यां मण्डल्यां, तत्रापि मध्ये, अतो विशेषेण तेषु पृथक् पृथक् तत्-तच्-छोभा-प्रकटनेन । किं वा, विविधं रेजतुः शुशुभाते, यथा नटवरौ रङ्गे विराजेते इति दृष्टान्तेन तयोर् नृत्यादिकं स्वाच्छन्द्य-सुखादि-परत्वं च ध्वन्यते, अन्यथा नृत्यादि-शोभाया असम्पत्तिः । क्व च कदाचिद् इति क्रीडा-वशेन सदा मध्ये\ऽनवस्थानात्, अलम् इति कदाचित् पित्रोर् अस्माकम् अपि वा अन्तिके तस्यावस्थिताव् अपि विविध-सङ्कोचेन तादृश-गानाद्य्-अभावाद् विराजमान-सम्पत्तेः । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, प्रतिश्लोकं वक्त्री-भेदम् अकल्पयित्वा गोष्ठी-भेदेन श्लोकानां सङ्गतिः, क्रियते, तत्राद्यैः षड्भिर् एकस्या गोष्ठया वाक्यम्, अन्यथा सप्तम-श्लोके वर्ण्याभ्यो गोभ्यः षष्ठ-श्लोकोक्त-देवीनां महात्म्यापत्या विवक्षितासिद्धिः ।

यद् वा, गोष्ठी-भेदम् अप्य् अकल्पयित्वा सर्वासाम् एव तासां वाक्यत्वेनाक्रमतः सर्व-श्लोकानां मिथः सम्बन्धः कार्यः । तथा हि, अतो गोपानाम् एव तेषां चक्षुः-साफल्यं तदानीं तथा तद्-वक्त्र-दर्शनाद् इति पूर्व-श्लोकाभिप्रायः । न केवलं तेषां तद्-दर्शन-मात्रम्, वन-मध्ये वन्य-विचित्र-वेषयोस् तयोर् निज-मण्डली-मध्ये स्वाच्छन्द्येन नृत्य-गीताद्य्-अनुभवश् च सुखं स्याद् इत्य् आहुः—**चूत-**इति । गायमानो वेणुनैव गायन्तौ ।

यद् वा, गायेन गानेन मानः पूजा ययोः, सर्वतो विशिष्ट-गानात्, क्वचिद् इत्य् अस्यात्रैव वान्वयः । नृत्यादि-श्रमेण सदा गानाकरणात् । यद् वा, कदाचिद् गाये गाने मानः, अवाभ्यां समो युष्मासु को गायको\ऽस्ति, अत्रागत्य हन्त गायतु इत्य्-आदि-प्रकारो गर्वो ययोस् तौ, अयं च क्रीडा-माधुरी-विशेषः । अतो गोपा एव धन्याः, वयं तु नितराम् अधन्या एव । तेन प्रकारेण तयोर् अस्मन्-मध्ये\ऽत्र लोक-भयादिनासाङ्कोचतो\ऽवस्थानाद्य्-असिद्धेः । एवम् अग्रे\ऽपि वाक्य-शेष ऊह्यः, तद्-धेतुर् लिखित एव ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् अप्य् अर्थान्तरेण निज-भाव-व्यक्तिं वितर्क्य पुनर् बाढावधानेन द्वितीय-पद्ये ताम् अपलेषुः पुनस् तु परम-स्मर-वेगेन तृतीयेन शेकुः, चतुर्थादौ न किञ्चिद् अपि शेकुर् इत्य् आह—पञ्चभिः । चूतस्य प्रवालो नव-पल्लवः स्तवकः पुष्प-गुच्छः । तत्र चूत-पल्लवो बर्ह-स्तवकश् च शीर्ष्ण उत्पलं तद्-अन्तःकोशः कर्णयोः, अब्जं लीला-कमलं दक्षिण-करे । एतानि च मालानुपृक्त-परिधानानि च यानि, तैर् विचित्र-वेषौ पशु-पालानां गोष्ठ्यां मण्डल्यां, तत्रापि मध्ये, अतो विशेषेण तेषु पृथक् पृथक् तत्-तच्-छोभा-प्रकटनेन । किं वा, विविधं रेजतुः शुशुभाते यथा नट-वरौ रङ्गे विराजेते इत्य्-आदि-दृष्टान्तेन तयोर् नृत्यादिकं स्वाच्छन्द्य-सुखादिकं च गोपानाम् अपि तादृश-वेष-वैदग्ध्यादिकं वाद्यादि-परत्वं च अन्यथा नृत्यादि-शोभाया असम्पत्तेः । क्व च कदाचित् इति क्रीडा-वशेन सदा-मध्येऽनवस्थानात् । अलम् इति व्रज-मध्ये तु विविध-सङ्कोचेन तादृश-गानाद्य्-अभावाद् विराजमानता-सम्पत्तेः ।

अथवा, अत्र पद्य-पञ्चके सर्वासाम् एव तासां वाक्यत्वेन क्रमतः सर्व-श्लोकानं मिथः सम्बन्धः कार्यः । तथा हि, अतो गोपानाम् एव तेषां चक्षुः-साफल्यं तदानीं तथा तद्-वक्त्र-दर्शनाद् इति पूर्व-श्लोकाभिप्रायः । न केवलं तेषां तद्-दर्शन-मात्र-वन-मध्ये वन्य-विचित्र-वेषयोस् तयोर् निज-मण्डली-मध्ये स्वाच्छन्द्येन नृत्य-गीताद्य्-अनुभवश् च सुखं स्याद् इत्य् आहुः—चूत-इति । गायमानौ गायन्तौ । यद् वा, गायेन गानेन मानः पूजा ययोः सर्वतो विशिष्ट-गानात् । क्वचिद् इत्य् अस्यात्रैव वान्वयः । नृत्याद्य्-आवेशेन सदा गानाकरणात् । यद् वा, कदाचिद् गायमाने । मानः आवाभ्यां समो युष्मासौ को गायकोऽस्ति । अत्रागत्य हन्त गायत्व् इत्य्-आदि-प्रकारो गर्वो ययोस् तौ । अयं च क्रीडा-माधुरी-विशेषः । अतो गोपा एव धन्याः, वयं तु नितराम् । अधन्या एव तेन प्रकारेण तयोर् अस्मान् मध्येऽत्र लोक-भयादिना स्वच्छन्दावस्थानाद्य्-असिद्धेः । एवम् अग्रे\ऽपि वाक्य-शेष ऊह्यः । तद्-धेतुर् लिखित एव ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्या वत्सला एवोचुः—चूत-प्रवाल**-**इत्य्-आदि । पशुपाल-गोष्ठ्यां तौ राम-कृष्णौ विरेजतुर् इति तच्-छब्दोऽध्याहार्यः । कस्मिन् काव् इव ? रङ्गे नृत्य-स्थले नट-वराव् इव । कीदृशौ ? **चूत-**इत्य्-आदि-तुल्यम् । अलम् अत्य्-अर्थम् । यद् वा, पूर्ववद् राधा-सहचर्य एव । तौ व्रजेश-सुतौ पूर्ववत् समासः । कुत्र ? पशुपाल-गोष्ठ्यां पशुपाः पशुपाल्यो वेष-कर्त्र्यः सहचर्यस् ता लातीति तथा, सा चासौ गोष्ठी चेति पुंवद्-भावे पशुपाल-गोष्ठी, तस्याम् । कस्मिन् काव् इव ? नटवरौ नटनं नटः । नटे नृत्ये वरो नटवरः । नटवरा च नटवरश् च नटवरौ ताव् इव । तुल्यम् अन्यत् । इदं तु राधायाः परोक्षम् एव मन्तव्यम् ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतादृशं विडम्बनं स्वस्य कथं कुर्मस् तस्मात् तत्र न याम इति चेन् मैवम् । बलदेव-साहित्ये सति तत्रास्मज्-जिगमिषाया अभावात् तन् न भविष्यत्य् अतो दूरतो वल्लि-पल्लव-रन्ध्रेणैव तस्य स्व-रमणस्य सौन्दर्यामृतं गानामृतं दृष्ट्वा द्रुतम् आयास्याम इत्य् आहुः—चूतस्य प्रवालो नव-पल्लवं । बर्हंस्तवकः पुष्प-गुच्छश् च चूडायाम् । उत्पले तद्-अन्तः-कोषौ कर्णयोः । अब्जं लीला-कमलं दक्षिण-करे, मालाश् च गले । तथा अनुगुणतया पृक्तानि गात्र-सल्लग्नानि परिधानानि नाट्योचित-रक्त-पीतासित-वासांसि च । तैर् विचित्रो वेशो ययोस् तौ । नटवराव् इति सखिषु गायकेषु वादकेषु नृतन्तौ, क्व च कदाचिच् च गायमानौ, ताच्छील्ये शनच् च । यद् वा, गाये गाने मानः सर्वैर् दत्त आदरो ययोस् तौ । यद् वा, गाये गाने मानो गर्वो ययोः, "स चास्मत्-तुल्यस् त्रि-लोक्याम् अपि गायको नास्ति, के यूयं गोपा वराकाः ?" इति प्रकारः ॥८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ताः सख्यस् तस्य बलदेवेन साहित्याद् अन्तिके गमनं कर्तुं न पऋअयामः, किन्तु लता-पल्लव-रन्ध्रैर् एव तस्य सौन्दर्य-गान-नाट्याद्य्-अमृताद् अतिस्वादून्य् अनुभूय त्वरयैवागमिष्याम इत्य् आन्याः काचिद् आहुः—चूत**-**इति चूतस्य आम्रस्य प्रवालो नव-पल्लवः, बर्हंस्तवकः कुसुम-गुच्छः चूडायां उत्पले, तत्-कर्णि-स-कर्णयोः, अब्जं लीला-कमलं दक्षिण-करे, माला पुष्प-स्रक् कण्ठे, तथानुगुणतया पृक्तान्य् अङ्ग-सल्लग्नानि नाट्योचितानि नाना-वर्णानि परिधानानि च वासांसि, तैर् विचित्रो विस्मयकरो वेषो ययोस् तौ । पशु-पालानां स्व-तुल्य-गुणानां गोष्ठ्यां, तत्रापि मध्ये विरेजतुः रङ्गे यथा नटवराव् इति सखिषु गायकेषु वादकेषु च नृत्यन्तौ क्वचन गायमानौ गायन्तौ । यद् वा, गाये गाने मानः सर्वैर् दत्तः सत्कारो ययोस् तौ । जलं विरेजतुर् इति व्रजे सङ्कोचात् तादृश-गानाद्य्-अभावेन विराजनासम्भवात् ॥८॥


॥ १०.२१.९ ॥

गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर्

दामोदराधर-सुधाम् अपि गोपिकानाम् ।

भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो

हृष्यत्-त्वचोऽश्रु मुमुचुस् तरवो यथार्याः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्य ऊचुः—हे गोप्यः ! अयं वेणुः किं स्म पुण्यम् आचरत् कृतवान् । कथम् ? यद् यस्माद् गोपिकानाम् एव भोग्यां सतीम् अपि दामोदराधर-सुधां स्वयं स्वातन्त्र्येण यथेष्टं भुङ्क्ते । कथम् ? अवशिष्ट-रसं केवलम् अवशिष्टं रस-मात्रं यथा भवति, तथा । यतो यासां ह्रदिनीनां पयसा पुष्टस् ता मातृ-तुल्या ह्रदिन्यो हृष्यत्-त्वचो विकसित-कमल-वन-मिषेण रोमाञ्चिता लक्ष्यन्ते । येषां वंशे जातास् ते तरवो मधु-धारा-मिषेण आनन्द्आश्रु मुमुचुःयथा आर्याः कुल-वृद्धाः स्व-वंशे भगवत्-सेवकं दृष्ट्वा हृष्यत्-त्वचोऽश्रु मुञ्चन्ति, तद्वद् इति ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्याः अनुरागिण्यः । किम् अनिर्वाच्यम् । कथं ज्ञातम् ? इति शेषः । यतो हेतोः । ह्रदिन्यो नद्यः सरस्यो वा । वृक्षाद्या अपि तत्र भगवद्-अनुरागिणस् तत्र किं चेतनानुराग-वार्तेति भावः । हे गोप्यः ! वेणुर् मुरली किं स्वित् कुशलं मङ्गलम् आचरत् ? अपि तु न किम् अपि, स्थावर-जातित्वेनैव लक्ष्यते इति भावः । तद् अपि दामोदराधर-सुधां भुङ्क्त इति कथम् वयं सोढुं प्रभवामः ? इति भावः । तत्र हेतुः—गोपिकानाम् इति । अधर-सुधायां हि गोपिकानाम् अस्माकम् एव स्वत्वं कृष्णस्य गोप-जातित्वान् नित्यं रात्राव् अस्माभिः सम्भूज्यमानत्वात् । वेणुस् तु विजातीयः । तत्रापि कृष्ण-रमितत्वम् आत्मनो मत्वा कृष्ण-प्रेयसीत्वाभिमानं धत्ते, तत्रापि धार्ष्ट्येन न पुनः पौरुषम् आविष्कृत्य स भुङ्क्ते, तत्रापि परकीयं धनं, तत्रापि स्वयम् एव, न त्व् अन्यं जनं कम् अपि सङ्गिनं करोति, तत्रापि चौर्येण किं तु धनं स्वामिनीर् अस्मान् फूत्कारेण ज्ञापयित्वैव, किं चायं न फूत्कारः, किं तु सम्भोगोत्थ-मणितम् एव, तच् चास्मान् श्रावयित्वैव, तत्रापि न वशिष्टो न्आवशिष्टो रसः किञ्चिन्-मात्रो\ऽपि यत्र तद् यथा स्यात् तथा भुङ्क्ते । वष्टि-भागुरिः इत्य् अलोपः । धन स्वामिनीनाम् अस्माकं कृते स्व-भूक्तावशिष्टम् अपि किञ्चिन् न रक्षतीत्य् अहो धार्ष्ट्यम् इति भावः किं च, अकुशलवर्तिनः सर्वे जनास् तादृशा एवेत्य् आहुः । यद् यतोऽधर-सुधा-भोगान्नद्यो\ऽपि हृष्यत्-त्वच उत्फुल्ल-कमलादिमिषेण पुलकवत्यो बभूवुस् तरवो\ऽपि मकरन्दमिषेण्आश्रु मुमुचुर् यथार्या भगवद्-गुणान् श्रुत्वाश्रु-पुलकादिमन्तो भवन्ति तथैव ते वेणोर् मणितं श्रुत्वेति । ह्रदिन्योऽस्य सख्यस् तरवश् च सखायो दूता एवेति सर्वेस्माकं वैरिण एवेति भावः । अतोऽयं गोप्यः निभृतं कुत्रापि रक्षणीयो यथा कृष्णाधरं न प्राप्नुयाद् इत्य् असूयाख्यः सञ्चारी व्यञ्जितः ॥९॥


कैवल्य-दीपिका : गोप्य इति । अपि गोपिकानां गोपिका-सम्बन्धिनीनाम् अपि गोपीभिः येषाम् इत्य् अर्थः । स्वयं स्वातन्त्रेणैव यस्य वेणोः पिबतः अवशिष्टं रसं ह्रादिन्यो यमुनाद्यास् तरवोऽपि भुञ्जते । तत्-कृतः हृष्यत्-त्वचः उद्भिन्न-वल्कलत्वात् । अश्रु मुमुचुः क्षरत्-क्षीरत्वात् ॥९॥ [मु।फ। १२.३]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मुग्धा मुग्धाभिः सहाहुः—गोप्य इत्य्-आदि । हे सख्यः ! अयं वेणुः किं कुशलम् आचरद् आचरितवान्, यतो दामोदराधर-सुधां भुक्ति-योग्यत्वेन उपसन्नां भुङ्क्तां नाम, किं तेन ? तत्राह—गोपिकानाम् एवेयं भोग्या, स्वयम् इति गोपिकानाम् अननुमताव् अपि, वस्तुतस् तु गोपिकानाम् इति गोपिकाज्ञयैव भोक्तुं योज्यते, तन् न कृत्वा स्वयम् एव भुङ्क्ते इत्य् अर्थः । तत्रापि परिमिता एव भुङ्क्ताम्, न च तथा मात्राधिक्येन भोक्तुम् आरभते, परकीयत्वाद् यथेष्टम् एव भुङ्क्ते । तथा च लोकोक्तिः—"परान्नं प्राप्य दुर्बुद्धे ! मा शरीरे दयां कुरु ।" यथेष्ट-भोजनं कथं ज्ञातम् ? तत्राह—यद् अवशिष्ट-रसम् इत्य्-आदि । यद्-भोजनावशिष्ट-रसं ह्रदिन्यो भुञ्जते, तद् एव कथं ज्ञातम् ? हृष्यत्-त्वचः फुल्लत्-कमलादि-रूपास् त्वचो यासां विकारैर् एव ज्ञायते । न केवलं ह्रदिन्यः, तरवश् च भुञ्जते । बाहुल्याद् अवशिष्ट-रसस्य ह्रदिन्यो\ऽपि भोक्तुं न शक्नुवन्ति, तद्-अवशिष्टं भुञ्जते कथम् अवगतम् ? तत्राहुः—अश्रु मुमुचुः क्रन्दन्ति । वर्तमाने\ऽतीतः । यथा आर्या भवत्यो\ऽश्रु मुञ्चति, आर्या भक्ता वा । अथवा, तस्माद् "अयं वेणुर् गोप्यश् चोरयितव्यः, यथा अपरम् एवं न करोतीति भावः । अस्माभिस् तु पातुं न शक्यते, अहो! धिङ् नः" इति मौग्ध्य-दैन्ययोः साङ्कर्यम् ॥९॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भाग्। २.७.१५३] इदानीं तासाम् एव मध्ये श्रेष्ठतमाया भगवत्याः श्री-राधिकायाः सर्वोत्तमोत्तमं माहात्म्यं कैमुतिक-न्यायेन । तथा हि, अहो बत किं वर्णनीया तस्या भाव-गाम्भीर्य-महिम-परिणतिः, यया सतत-तद्-अधरामृत-पान-लोभेन मुरलीं प्रत्य् अप्य् अधर-बिम्ब-संयोगेन तद्-अधरामृत-पानम् आशङ्क्य सापत्न्यं वहन्ती वृन्दावनं प्रविष्टस्य भगवतो दूराद् एव वेणु-नादं निशम्य तं मिथो वर्णयन्तीनां सखीनां मध्ये श्री-राधा-देवी स्वयम् एवाह—गोप्यः [भा।पु। १०.२१.९] इति ।

भो गोप्यः ! हे श्री-ललिताद्याः सख्यः ! अयं नीरस-काष्ठ-मयो वेणुः किं कीदृशं कतमत् वा कुशलम् आचरत् ? तस्मिन् ज्ञाने वयम् अपि तद् एवाचरामेति भावः । यद् यस्मात् येन वा कुशलेन गोपिकानां युष्माकम् एव भोग्यां सतीम् अपि अस्माकम् इत्य् अनुक्तिर् लज्जया। किं वा, गोपिकानां वो वश्यः स्वामी वा यो दामोदरस् तस्य करे हृदये वदने च वर्ततां नाम अधर-सुधा-मयं मद्यं, स्वयं स्वातन्त्र्येण यथेष्टं भुङ्क्तेस्म इति विस्मये स्पष्टम् इत्य् अर्थे वा ।

स्मेत्य् अत्र विसर्गाभाव आर्षः । गोप्यो गोप-जातित्वेन दामोदरेण सह सम्बन्ध-विशेषवत्यो वयं स्मः वर्तामहे जीवाम इत्य् अर्थः । अपि तथाप्य् अयं भुङ्क्ते, अतो गोप्यः ! चोरयित्वा निभृतं रक्षणीयः ।

तत्रापि कथं भुङ्क्ते ? अवशिष्ट-रसं केवलम् अवशिष्ट उर्वरितो रसो, रस इव मात्रो यथा भवति, तथा सुधां तु नावशेषयतीति भावः । यतः । अत एव वा यासां पयसा पुष्टो\ऽसौ मातृ-तुल्या ह्रदिन्यो नद्यः हृष्यत्-त्वचः विकसित-कमल-वन-निभेन रोमाञ्चिता लक्ष्यन्ते । येषां वंशे जातस् ते तरवो\ऽपि मधु-धारा-मिषेण आनन्दाश्रु-धारा मुमुचुः यथा आर्याः कुल-वृद्धाः स्व-वंशे भगवत्-सेवकं दृष्ट्वा हृष्यत्-त्वचो\ऽश्रून् मुञ्चन्ति, तद्वत् ।

यद् वा, अव्ययानाम् अनेकार्थत्वाद् अव इति हीनार्थे । अव-हीनं शिष्टं शेषो यस्य रसस्य तथा-भूतं यथा स्यात् । रस-मात्रम् अपि यथावशिष्टं नाम न भवेत् । तथाधर-सुधां भुङ्क्ते इत्य् अर्थः ।

यद् वा, अवशिष्टो रसो रागो यथा स्यात् रागस्यावशिष्टत्वात् अतृप्त्या मुहुर् भुङ्क्ते पुनर् अपि भक्ष्यत एवेत्य् अर्थः । यद् वा, सुधां किम्-भूताम् गोपिकानाम् अवशिष्ट-रसम्

आविष्ट-लिङ्गत्वात् पुंस्त्वम् अदुष्टम् ।

अयम् अर्थः—ऐहिकामुष्मिक-सुख-भोग-विषयको\ऽशेषो रसो गोपिकानाम् अपगत एव । केवलम् अधर-सुधैवावशिष्टो\ऽयं रसः प्रीति-विशेषस् तद्-विषयत्वाद् उपचारेण4 तद्-एकात्मत्वेन वा स एव । किं वा, मधुरादि-रस इव रसनीयत्वाद् रसः य एको विद्यते तम् अप्य् अयं भुङ्क्ते इति ।

अथवा किं वर्णनीयो\ऽस्य पुण्य-महिमेत्य् आशयेनाहुः—स्नान-पानादिना जगतां पावन्यः पुण्य-जनयित्र्यो यमुनाद्या नद्यो\ऽपि यस्य अवशिष्ट-रसम् उच्छिष्टम् एव । तत्रापि द्रव-मात्रं, न तु सुधां भुञ्जते । हृदिनीनां बहुलत्वात् स्वत एव विभक्ति-विपरिणामः । जल-विहारादिना\ऽधर-रागापगमनाद् य एवाधरामृतं भुञ्जते इत्य् उत्प्रेक्षा काव्येषु प्रसिद्धैव । किं वा, श्री-कालिन्दी-देवी श्री-कृष्णाधरामृत-पान-योग्यैव तत्-साहचर्याद् भगवत्-प्रियतमा क्रीडा श्री-वृन्दावन-सम्बन्धाद् वा अन्या अपि श्री-वृन्दावन-वर्तिन्यो ह्रदिन्यस् तादृश्य एवोह्याः ।

कथम्-भूताः ? परम-दुर्लभ-प्राप्त्य्-आनन्द-भरेण हृष्यत्-त्वचः सत्यः । यस्योच्छिष्ट इव मात्र-पानेनापि महा-नदीनां भगवतीनाम् ईदृशो हर्षः, तस्य पुण्य-महिमा किं वर्णनीय इति भावः । यथा यथावत् पूर्वं पश्चाद् वा योज्यम् । आर्या महान्तश् छायादिना परम-पुण्य-जनका वृन्दावन-वर्तिनः पिप्पलादयस् तरवस् तु अश्रु मुमुचुः । तस्याप्य्-अलाभेन शोकादरुदन्न् इत्य् अर्थः । यद् वा, तरवो\ऽश्रु मुमुचुर् इत्य् अत्राशङ्कते ।

ननु तरूणां तत्-पाने सम्भावनैव कथम् अपि न विद्यते । कथं तद्-अप्राप्त्या शोकेन रोदनं सम्भवति ? न हि रङ्को राज्याप्राप्त्या रोदिति । किं तर्हि क्षुधादिना\ऽन्नाद्य्-अर्थम् एवेति ? तत्राह—यथा आर्याः परम-साधवः श्री-कृष्ण-भक्त-वरास् तद्-अधरामृत-पानानर्हा अपि तद्-प्राप्त्यां शोकेनाश्रु मुञ्चन्ति, तद्वत् । एतच् च पूर्वम् उक्तम् एव । यद् वा, आर्या वृद्धाः श्री-राधा-श्वश्रू-प्रभृतय इति ॥९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो बतास् तु तत्-सङ्गि गोपानां भाग्यं किं वक्तव्यम् ? इत्य् आहुः—गोप्य इति । "अयं नीरस-दारुमयो वेणुः किं कतमत् पुण्यं कृतवान् अस्मिन् जन्मनि पूर्वस्मिन् वा ? तत्-पुण्ये ज्ञाते यवम् अपि तद् अर्थं यतामहे" इति भावः । स्म इति विस्मये । तल्-लिङ्गम् आहुः—**दामोदर-**इत्य्-आदिना । दामोदर-शब्देन निज-यूथेश्वर्याः प्रेम-विशेषेणात्म-वश्यतां बोधयन्ति, राधा-दामोदरयोर् द्वन्द्वत्वात् । अत एव गोपिकानां भोग्यम् । अयम् इति पुंस्त्व-निर्देशेन तस्य तद्-भोगायोग्यतोक्ता । तथापि भुङ्क्ते तद्-एकोपभोग्यकत्वेन सदा पिबति, तस्य तद्-अन्य-भोगादर्शनात् ।

ननु, दामोदराधरस् तद्-भोगानन्तरम् अपि सरस एव दृश्यते, न तु शुष्कः ? तत्राहुः—यद् इति । सुधां भुक्त्वैव केवलं द्रव-मात्रम् अवशिष्येतेत्य् अर्थः । हे गोप्यः ! इति तस्माद्-वेणु-जन्मनैव सौभाग्यम्, न तु गोपी-जन्मनेति कुतो युयं गोप्यो भूताः ? इति भावः । अस्माकम् इति वक्तव्ये गोपिकानाम् इति गोपी-जात्यैव तद्-भोग्यत्व-सिद्धेः, निजाभिमान-विशेषात् वैदग्धी-रस-विशेषाच् च, श्लेषेण तद् एकशयिअव देहादि-रक्षिकाणाम् इति । अन्यत् तैर् व्यञ्जितम् । अथवा गोपिकानाम् एव वश्यः स्वामी वा यो दामोदरस् तस्य करे हृदये वदने च सदा वर्ततां नाम, अधर-सुधाम् अपि स्वयं युष्मत् सम्मतिं विनैव भुङ्क्ते । अवेति, अवरतादि-वद्धीनार्थे, अव हीनं शिष्टं यस्य रसस्य तथा-भूतं यथा स्यात्, रस-मात्रम् अपि नावशेषयतीत्य् अर्थः । यद् वा, अवशिष्टो रसो रागो यथा स्यात्, रागस्यावशिष्टत्वान् न कदाचिद् अपि विरमेद् इति, किन्तु मुहुर् भोक्ष्यत एवेत्य् अर्थः ।

यद् वा, सुधां कथम्-भूताम् ? गोपिकानाम् अवशिष्टो यो रसस् तद् एकापेक्षया तद् इतरआशेष-रस-परित्यागात् तद् रूपाम् अपि, ताम् अप्य् अयं भुङ्क्ते । तत्र रक्षो नाम प्रीत्याख्य-रस-विषयत्वे\ऽपि तद् आत्म्यापेक्षयोपचारेण सुधैव रसः । किं वा, रसनीय-मधुर-द्रव्य-विशेष इति अथवा कुशलाचरण-लक्षणान्तरम् अप्य् आहुः—यस्य अवशिष्टम् उच्छिष्टम् एव, तथापि रक्षं द्रव-मात्रम्, न तु सुधाम्, हृदिन्यः स्नान-पानादिना जगतां पावन्यः सर्वार्थदाश् च श्री-यमुनाद्या नद्यो\ऽपि भुञ्जते, जल-विहारादिनाधर-रागापगमान्नद्यादयो\ऽधरामृतं पिबन्तीति निःशेषच्युत-चन्दनं स्तन-तटं निर्मृष्ट-रागो\ऽधर [साहित्य-दर्पणः।२.२३] इत्य्-आदि-वचनतः काव्येष्व् अनुमान-द्वारा प्रसिद्धम् एव, तासां तद् भोगे लिङ्गं हृष्यत् त्वचः इति, तरवश् अ मुनय इव तत् तीरवर्तिनो जगद् उपकारपरा भगवत् स्तुत-माहात्म्या भुञ्जते, पादैस् तन् नदी-जल-पातनः, तत्र लिङ्गम्—अश्रु मुमुचिर् इति, अन्यथा तादृश-हृष्यत्वक्त्वाश्रु-मोचकत्वानुपपत्तेः । तत्र दृष्टान्तः—आर्या महान्तो यथा श्री-भगवद् रासानुभवेनैव हर्षाद्-रोमाञ्चिता गलद्-अश्रु-मुचश् च बचन्ते, नान्यथेति ।

यद् वा, हृष्यत्-त्वचः सत्य इति परम-दुर्लभ-लाभेनानन्द-भरः सूचितः, अतो यस्योच्छिष्ट-द्रव-मात्र-पानेनापि तासाम् ईदृशो हर्षः, तस्य पुण्य-माहात्म्यं कथं वर्ण्यम् इति भावः । तरवस् तु अश्रु मुमुचुः, तस्याप्य् अलाभेन शोकाद् अरुदन्न् इत्य् अर्थः । किम्-भूताः ? आर्याः, छायादिना जगद् उपकारान् महान्तो\ऽपि,

यद् वा, ननु तरूणां तद् भोगे कथम् अपि सम्भावनापि नास्ति, कथं तद् अप्राप्त्या रोदनं सम्भवेत् ? न हि रङ्को राज्याप्रात्यारोद् इति । किं तर्हि क्षुधादिनान्नाद्य्-अर्थम् एव ? इत्य् आशङ्क्याहुः—यथा आर्याः परमार्याः सुधियस् तद् अधरामृत-पान-हीना अपि तद् अप्राप्त्या शोकेनाश्रु मुञ्चन्ति, तद्वद् इति ।

यद् वा, यथा यथावत् तरव आर्याः सरल-बुद्धयः । अन्यत् समानम् । अतो\ऽयं गोप्यः, निभृतं कुत्रापि सङ्गोप्य रक्षणीय इत्य् अर्थः ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो बतास्तुतरां गोपानां भाग्यं वेणोर् अपि भाग्यं वक्तवम् इति महा-भाव-स्फुरद् उन्मादतया मिथ्या-कल्पना-पूर्वकं सेर्ष्याभिलाषम् आहुः—गोप्य इति । अयम् अस्माभिर् दृश्यमान इव नीरसदारुमयो वेणुः अस्मिन् जन्मनि पूर्वस्मिन् वा किङ्कृतमत् पूण्यं कृतवान् तत् पुण्ये ज्ञते वयम् अपि तद् अर्थं यतामह इति भावः । स्मेति विस्मये तल् लिङ्गम् आहुः यद्य् अस्मात् दामोदरेत्य्-आदि । दामोदर-शब्देन तस्यास्माकं च तादृश-बाल्यम् आरभ्य जातेदृशभावाङ्कुरतया स्वाभाविकं सम्बन्ध-विशेषं सूचयन्ति अत एव गोपिकानाम् अस्माकम् एव भोग्याम् अयम् इति पुंस्त्व् अनिर्वेशेन तस्य तद् भागा योग्यता चोक्ता तथापि भुङ्क्ते तद् एकोपभोग्यत्वेन सदा पिबति तस्य तद् अन्य-भोगाद् अदर्शनात् ।

ननु, दामोदराधरस् तत् सङ्गानन्तरम् अपि सरस एव दृश्यते न तु शुष्कस् तस्माद् असौ न किञ्चिद् अपि भुङ्क्ते तत्राहुः अवशिष्टो रसो रस-मात्रं यत्र यद् यथा स्यात् सुधा भुङ्क्तैव केवलं द्रव-मात्रम् एवाव-शिष्येतेत्य् अर्थः । हे गोप्यः ! इति तस्माद् वेणु-जन्मनैव सौभाग्यं न तु गोपी-जन्मनेति कुतो यूयं गोप्यो जाता इति भावः । अस्माकम् इति वक्तव्ये गोपिकानाम् इत्य् उक्तिर् गोकुल-वासित्वेनास्मत् कोटि-प्रवेशेऽपि गोपिका-विशेषत्वाभावान् न तद् विधस्याधिकार इति निजाभिमान-विशेषात् वैदग्धी-रस-विशेषाच् च श्लेषेण तद् एकाशचैव देहादिर् अक्षिकाणाम् इति किं च तस्य युष्मदीयकान्तस्य करे हृदये वदने च सदा वर्ततां नाम अधर-सुधाम् अपि स्वयं युष्मत् सम्मतिं विनैव भुङ्क्तं इति भावान्तरम् अथवा तच् च कथं भुङ्क्ते तत्राहुः अवेति वशिष्टं अवशिष्टं वश्टि-भागुर् इरल्-लोपम् इत्य् आदेः न वशिष्टम् अवशिष्टम् अनवशिष्टम् इत्य् अर्थः । तादृशो रसो यत्र तथा-भूतं यथा स्यात् रस-मात्रम् अपि नावशेषयतीत्य् अर्थः । यद् वा, अवशिष्टो रसो रागो यत्र तद् यथा स्यात् रागस्यावशिष्टत्वात् न कदाचिद् अपि विरमेत् किन्तु मुहुर् भोक्ष्यत एवेत्य् अर्थः ।

यद् वा, सुधां कथम्-भूताम् अपि गोपिकानाम् अवशिष्टो यो रसः तद् एकापेक्षया तद् इतराशेष-रस-परित्यागात् तद् रूपाम् अपि अथवा कुशलाचरणे लक्षणान्तरम् अप्य् आहुः हृदिन्यो हृष्यत् त्वच इति । तस्य तादृशं भोगे दृष्ट्वा परम-पुण्या हृदिन्यो\ऽपि लोभाद् विकसित-कमल-मिषेण हृष्वत् त्वचो जात-रोम-हर्षा बभूवुः इत्य् अर्थः । अथवा यद् अवशिष्ट उच्छिष्टो यो रसो नाद-रूपन्ताम् हृदिन्यो\ऽपि भुञ्जते आस्वादयन्ति यतश् च हृष्यत् त्वचो भवन्तीत्य् अर्थः । किं च यस्य स्व-जाति-सम्भवस्य वेणोस् तादृशं सौभाग्यं दृष्ट्वा सर्वे स्थावर-जातयो\ऽपि मधुमिषेणाश्रु मुमूचुः तत्र दृष्टान्तः यथार्याः पितरः स्वकुल-सम्भवस्य तादृशं सौभाग्यम् अनुभूयाश्रु मुञ्चन्तीत्य् अर्थः ईर्ष्या-पक्षे तस्मात् समाज् एव तादृशस् तस्वैकस्य वा को दोषः अतोऽयं गोप्यः निभृतं कुत्रापि सङ्गो\ऽप्य् अरक्षणीय इत्य् अर्थः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्य वेणोर् अवशिष्ट उच्छिष्टो रसो नाद-रूपस् तं स्नान-पानादौ ह्रदिन्यो जगत्-पावन्यो भुञ्जते, अहो तद्-दर्शनात्तस्वो ऽपि हृष्यत्-त्वचः अङ्कुरादि-मिषेण रोमाञ्चिताः सन्तो । मधु-मिषेणाश्रु मुमुचुः कीदृशा अपि यथार्य्या मुनयस् तद्-गुणैस् तथा-भूता अपीत्य् अर्थः ॥९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मुग्धा मुग्धाभिः सहोचुः—गोप्य इत्य्-आदि । हे गोप्यः । गोपयतीति गोपी । जानन्त्योऽपि न कथयन्ति । कथयत । अयं वेणुः किं कुशलम् आचरत् ? स्मेति वितर्के । यतो दामोदराधर-सुधां भुङ्क्ते । भोग्यत्वेनोपसन्नां सुधां पिबतु नाम, किं तत्रास्माकम् असूयतेत्य् आशङ्क्याहुः—गोपिकानाम् अप्य् अस्माकम् अपि भोग्यैषा । तथाप्य् एष एव पिबतीति परकीय-भोग्य-भोगो विना तादृश-कुशलाचरणेन न स्यात् । तत्रास्मद्-अनुज्ञयैव तु नापि तथेत्य् आह । स्वयं बलाद् एव तत्र परिमिताम् एव पिबतु, नापि तथेत्य् आह—यद् इत्य्-आदि । एवम् एव मात्रातिरेकेण पिबति, यथा यद् अवशिष्ट-रसं ह्रदिन्योऽपि भुञ्जत इत्य् अर्थः । तद् एव कथं ज्ञातम् ? तत्राह—हृष्यत्-त्वचः फुल्लत्-कमलादि-रूपास् त्वचो यासाम् । ता अपि यथेष्टं स्व-विकारं गोप्यैतुं न शक्नुवन्तीति भावः । न केवलं ह्रदिन्य एव भुञ्जते, तरवश् चेत्य् अर्थः । अतिबाहुल्यात् कथम् अवगतम् ? तत्राहुः—अश्रु मुमुचुः । एषाम् अप्य् अतिमात्रता जातेत्य् अर्थः । क इवाश्रु मुमुचुः ? यथार्याः प्रधान-भूता राधादयः । अधर-पान-सम्बन्धस्यान्येषाम् असम्भवात् । सामान्याश्रु-पात-विवक्षायां भक्ता वा । यद् वा, तस्माद् अयं वेणुर् गोप्यश् चोरयितव्यः । अत्र मौग्ध्य-गर्व-दैन्यानि ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चास्मान् विडम्बनाब्धौ निःक्षिपन्न् अयं वेणुर् एवानर्थकारीत्य् आहुः—हे गोप्यः ! वेणुर् मुरली किं स्वित् कुशलं पुण्यम् आचरत् वंशी-मुरल्य्-आदि-शब्दानां स्त्री-लिङ्गत्वेऽपि तत्-पर्यायस्य वेणु-शब्दस्य पुंस्त्वं दार-शब्दवद् ज्ञेयम् ।

यद् वा, किं मङ्गलम् आचरत्, अपि तु न किम् अपि, स्थावर-जातित्वेनैव लक्ष्यत इति भावः । तद् अपि दामोदरस्याधर-सुधां भुङ्क्ते इति कथं वयं सोढुं प्रभवाम इति भावः । तत्र हेतुः—गोपिकानाम् इति । अधर-सुधायां हि गोपिकानाम् अस्माकम् एव स्वत्त्वं कृष्णस्य गोप-जातित्वाद् अस्माकं गोप-जाति-स्त्रीत्वाद् इति न्याय-प्राप्तेः नित्यं रात्राव् अस्माभिः संभुज्यमानत्वाच् च वेणुस् तु विजातीयस् तत्रापि कृष्ण-रमितत्वम् आत्मनो मत्वा कृष्ण-प्रेयसीत्वाभिमानं धत्ते । तत्रापि धार्ष्ट्येन पुनः पौरुषम् आविष्कृत्य सम्भुङ्क्ते । तत्रापि परकीयं धनं । तत्रापि स्वयम् एव न त्व् अन्यं जनम् एकम् अपि सङ्गिनं करोति । तत्रापि न चौर्येण, किन्तु धन-स्वामिनीर् अस्मान् फुत्कारेण ज्ञापयित्वा एव ।

किं च, नायं फुत्कारः, किन्तु स्व-सम्भोगोत्थं मणितम् एव । तच् चास्मान् श्रावयित्वैव । तत्रापि न विशिष्टो न अवशिष्टो रसः किञ्चिन्-मात्रोऽपि यत्र तद् यथा स्यात् तथा भुङ्क्ते । वष्टि भागुरिरल् लोपम् इत्य्-आदिना अ-कार-लोपः । धन-स्वामिनीनाम् अस्माकं कृते स्व-भुक्तावशिष्टम् अपि किञ्चिन् न रक्षतीत्य् अहो धार्ष्ट्यम् इति भावः । किं च, तद्-देश-वर्तिनः सर्व एव जनास् तादृशा एवेत्य् आहुः—यत् यतोऽधर-सुधा-भोगात् तं वीक्ष्येत्य् अर्थः । ह्रदिन्यो नद्यः हृष्यत्-त्वचः उत्फुल्ल-कमलादि-मिषेण पुलकवत्यो बभूवुः । तरवो मकरन्द-मिषेणाश्रु मुमुचुर् यथा आर्या भगवद्-गुणान् श्रुत्वा अश्रु-ह्रदिन्योऽस्य सख्यस् तरवोऽस्य सखायो दूता एवेति वेणु-ह्रदिनी-तरवः सर्व एवास्माकं वैरिण एवेति भावः । अतोऽयं गोप्यः, निभृतं कुत्रापि रक्षणीयो यथा कृष्णाधरं न प्राप्नोतीत्य् असूयाख्यः सञ्चारी व्यञ्जितः ॥९॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अपराः प्राहुः—गोप्य इति । हे गोप्य ! अयं वेणुः किं कुशलं मङ्गलम् आचरत् तस्मिन् ज्ञाते वयम् अपि तद् अर्थं यतामहे इति भावः । यतो हेतोर् गोपिकानां धनम् अपि दामोदराधर-सुधां भुङ्क्ते स्त्री चेद् अत्यनुरागेणापरासां पत्य्-अधर-सुधां भुङ्क्तां नाम, अयं खलु वेणुः पुरुषः कथं तां भुङ्क्ते ? इति वेणु-शब्दादि-प्रायात् तत्रोपहासः । तत्र च स्वयम् आत्मनैवेति कस्याश्चिद् अपि गोपिकायास् तल्-लेश-प्राप्तेर् अभावस् तत्राप्य् आश्चर्यम् इति भावः । अन्यच् चान्यायं शृणुतेत्य् आहुः यस्य वेणोर् अवशिष्टौ भुक्तमुक्तौ यो रसन्तं ह्रदिन्योऽपि पवित्रा यमुनाद्या भुञ्जते भुक्त्वा च विकचारविन्दवनमिषेण फुल्ला दृश्यन्त इति भावः । किं च, वेणोस् तस्य तादृश-महिमवीक्षणेन तद्-गोत्र-प्रायास् तरवोऽप्य् अङ्कुरोद्गमादि-मिषेण हृष्यत्-त्वचो रोमाञ्चिता मधु-धारा-मिषेणानन्दाश्रु मुमुचुर् इति तस्यान्यायम् अपि न गणयन्तीति भावः । यथार्याः केचिद् आत्म-गोत्र-महिम-दर्शनात् तत्-तद्-भावं धारयन्तीति तेषाम् अप्य् अनार्यत्वं सूच्यते अत्र गोपिकानाम् इति यष्ठी-पदांशः स च स्व-स्वामि-भाव-सम्बन्धेन जातत्वाद् अधर-सुधायां गोपी-स्वत्वं व्यञ्जयति ॥९॥


॥ १०.२१.१० ॥

वृन्दावनं सखि भुवो वितनोति कीर्तिं

यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि ।

गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं

प्रेक्ष्याद्रि-सान्व्-अपरतान्य-समस्त-सत्त्वम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

श्री-देवी वेणुम् आविश्य रेमे क-मुखाम्बुजे ।

पपौ च तद्-गतं गीतं सुरा इतर-भाण्डगाः ॥ इति तन्त्र-भागवते ॥१०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : काश्चिद् आहुः, हे सखि, वृन्दावनं भुवः कीर्तिं स्वर्गाद् अपि विशेषेण वितनोति । कथं-भूतम् ? यद् देवकी-सुतस्य पदाम्बुजाभ्यां लब्धा लक्ष्मीः शोभा-संपद् येन तत् । किं च, गोविन्दस्य वेणुम् अनु वेणु-निनादं श्रुत्वानन्तरं मन्द-गर्जितं नील-मेघं तं मत्वा मत्ता ये मयूरास् तेषां नृत्यं प्रेक्ष्य सङ्घशस् तत्र तत्राद्रि-सानुष्व् अपरतान्य् उपरत-क्रियाण्य् अन्यानि समस्तानि सत्त्वानि यस्मिंस् तत् । नैतद् अन्येषु लोकेषु विद्यते । अतो भुवः कीर्तिं वितनोतीत्य् अर्थः ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काश्चित् स्ववासभुवं श्लाघयन्त्य आहुः—विपदेन स्वर्ग-लाभः । इह देवकीपदं यशोदा-वाचकम्, गोपीनां वसुदेव-पत्नीजत्वस्याज्ञातत्वात् । न केवलं पादाङ्कन-सम्पत्तिर् एव किं त्व् अन्यद् अपि लोकाङ्गरापेक्षया वैलक्षण्यम् अस्ति तद् आह—किं च इति । गोविन्दं नील-मेघं वेणु-नादं च तद्-ध्वनिं मत्वा तत्र तत्र मयूरा नृत्यन्तीति । तत्र तत्र स्थले । समस्तानि गो-वत्स-पक्षि-भुजङ्गादीनि । एतत् गोविन्द-पादाङ्कन-वेणु-नादाकर्णनोत्तर-मयूर-नृत्यादि । अन्येषु स्वर्गादिषु । इत्य् अर्थ इति पृथिव्याम् अपि वृन्दावनम् एव कुल-कीर्तिकर-पुत्रवद् वरम् इति भावः । द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च इति । लब्धा लक्ष्मीर् ध्वज-वज्रादि चिह्नमयी शोभा येन तत् । लोके च पृथिवी धन्या तत्र जम्बूद्वीपस् तत्र भारतं तत्रार्यावर्तं तत्र माथुर-मण्डलं तत्रापि श्री-वृन्दावनाद् अधिकं न किम् अपीति । अत्रास्मान् नर्तयेति मयूरैः प्रार्थितस्य गोविन्दस्य वेणु-वादनं तदीय-तालगत्य् एव मण्डली-भूय नृत्यतां तेषां मध्ये तस्यापि सनृत्यं वादनम्, ततस् तद् वद्येन तुष्यतां पारितोषिक-स्वीय-दिव्य-बर्ह-प्रदानं तस्मै, तेन च वादक-लोक-रीत्या साह्लादं तद्-गृहीत्वा स्वशिरस्युष्णीषस्योपरिधारणम् इति ॥१०॥


कैवल्य-दीपिका : वृन्दावनम् इति । यद् यस्माद् गोविन्दस्य निर्वेदस्य वेणुं, अर्थात् वाद्यमानम् अनु लक्षीकृत्य मत्त-मयूर-नृत्यं भवति । वेणु-ध्वनिं श्रुत्वा मयूराः स्तनित-बुद्ध्या नृत्यन्तीत्य् अर्थः । प्रेक्ष्येषु दर्शनीयेषु अद्रेर् गोवर्धनस्य सूनुषु अवरतानि वेणु-गीत-श्रवणार्थं निभृतीभूतानि अन्यानि मयूरेभ्यः समस्तानि सत्त्वानि मृगादीनि यस्मिन् वृन्दावने तत् तथा ॥१०॥ [मु।फ। १२.३]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मध्या आहुः—वृन्दावनम् इत्य्-आदि । हे सखि ! वृन्दावनं भुवि कीर्तिं तनोति, विशेषेणेत्य् अर्थः । भुव इत्य् अस्यायं भावः—वृन्दावनन्तु ब्रह्माण्डातीतं व्यापकं च, संप्रति-भूव्यवतीर्णत्वाद्-भूव एव कीर्तिं तनोति । आत्म-कीर्तेः स्वत एवानन्त्याद्-विस्तारयितुम् अशक्यम् । तत्र हेतुः-यद् देवकी-सूत-पदाम्बुज-लव्ध-लक्ष्मि देवकी-सुतेति सम्बन्धस्थ-गन-परम्, पदाम्बुज-लव्ध-लक्ष्मीकत्वं हि भुव एव, तेनैव वृन्दावनस्यापीत्य् अहो परस्पर-प्रीतिमत्त्वम् ।

यद् वा, देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मी देवकी-सुत-चरणेन हेतुनाब्मुजैर् इव सर्वतो लब्धा लक्ष्मीर् येन वने सर्वतो\ऽम्बुजवत् त्वम् अतिशय-चमत्कारकारि । पुनः कीदृशम् ? गोविन्द-वेणुर् एव मनुर् धर्मोपदेष्टा यत्र यस्य निरुक्त्या वयं कुलशीलादि सकलम् अत्यजाम, मत्तानां मयूराणां नृत्यं यत्र, मेघ-नादानुलासित्वाद्-गर्जतो मेघस्य् एव वुणुं वादयतः कृष्णस्य दर्शनान् मयूरा यत्र नृत्यन्ति । मनु-शब्दस्यायं भावः—न दोषो मनुर् अब्रवीत् इत्य्-आदिवत् मनु-वचसः प्रामाण्यवद् अस्यापि वेणो रवे प्रामाण्यम् अस्माकम् इत्य् असौ यदा यद् वदति, तदैव कुर्म इत्य् अर्थः । गोविन्द-वेणुम् अनु लक्ष्यी-कृत्य मत्तानाम् इति वा । प्रेक्ष्याणि दर्शनीयान्याद्रिसाणूनि तेष्व् अपरतानि विरत-विषयाण्य् अन्यानि मयूरातिरिक्ताणि स्अमस्तानि सत्त्वानि यत्र । अथवा मयूर-नृत्यं प्रेक्ष्याद्रिसानुष्व् अपरतानि समस्त-सत्त्वानि यत्र । अहो ! अमी भागवता भगवद् आवेशेनैवं नृत्यन्तीति सर्व एव तन् नृत्यामोदनेन विरत-व्यापारा बभूवुर् इत्य् अर्थः । अथवा, यैतद् वेत्ति, सैव यत्र सङ्केतस्थं कृष्णम् अभजत, तं देशम् उद्दिश्यैव वदति—अस्मद्-विलबं दृष्ट्वा वेणुं वादितवान् । तेन मेघ-भ्रमान् मत्ताः शान्ता मयूरा नृत्यं चक्रुः, तद् दृष्ट्वा अद्रिसानुष्व् अपरतान्य् अन्यानि समस्त-सत्त्वानि च तत्र आसन् । अहो अतिरम्यम् आसीत् तत् सङ्केत-स्थानम् इति स्मृति-भावः ॥१०॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१०८] इत्थं श्री-गोपिका-माहात्म्य-विशेष-वर्णनेन गोपी-भावं प्राप्तो\ऽसौ राजा अधुना स-विशेषं सर्वेषाम् एव माहात्म्यं प्रत्येकं विस्तार्य वर्णयामास । तत्रादौ श्री-वृन्दावनस्य तथा हि श्रीमद्-वृन्दारण्य-प्रविष्टस्य श्री-भगवतः सर्व-भूत-मनोहरं वेणु-नादं व्रज-गृह-मध्ये निशम्य परम-प्रेम-रसाप्लवेन विचित्रं मिथो\ऽमुं वर्णयन्तीनां श्री-गोपीनां मध्ये काश्चिद् आहुः—वृन्दावनम् इति ।

हे सखि ! श्री-राधे ! वृन्दावनम् इदं भुवो भूर्-लोकस्य कीर्तिं माहात्म्यं स्वर्गाद् अपि । यद् वा, सर्वेभ्यो लोकेभ्यो लोकातीतेभ्यो\ऽपि विशेषेण तनोति विस्तारयति । यद् यतः, यद् वृन्दावनम् इति वा । देवकी-सुतस्य श्री-कृष्णस्य पदाम्बुजाभ्यां लब्धा लक्ष्म्यः सर्वाः शोभाः सम्पदो वा, येन तत्-सकल-विलक्षण-सुलक्षण-श्रीमत्-पाद-पातैस् तथा । तत एव सर्वेषां भू-गतानां जनानां चतुर्-वर्ग-चिन्तामणि-दुर्लभतर-भक्ति-योग-सुख-सम्पत्त्या च । अत्र च पदाम्बुजाभ्याम् एव, न तु तत्-पादुकाभ्याम् इत्य् अनेन तथाम्बुज-रूपकेण च परम-सुकुमारतया दुर्घटस्यापि तत्-स्पर्शस्य लब्ध्या कूर्प-कण्टकादि-सम्बन्धवत्या अपि वृन्दावन-भूमेः परमं सौभाग्यम् उद्दिश्यते । यद्यपि स्वर्गादिष्व् अपि श्री-विष्ण्व्-आदयो विराजन्ते, तथापि ते अस्यावतारा एव । एष तु देवकी-नन्दनो\ऽवतारीत्य् अस्यातिमहिमा ।

किं च, गोविन्दस्य वेणुम् अनु वेणु-नादं श्रुत्वा अनन्तरं मन्द्र-गर्जितं नील-मेघं तं मत्वा ये मयूराः, तेषां नृत्यं प्रेक्ष्य सङ्घशस् तत्र तत्र्आद्रि-सानुषु अवरतानि उपरत-क्रियाणि अन्यानि मयूरेतराणि समस्तानि सत्त्वानि यस्मिन्, तत् ।

अथवा, अहो किं वक्तव्यम् अन्यत् इति । यतः श्री-वैकुण्ठाद् अपि वितनोति इति । वि-शब्दोक्तं वैशिष्ट्यं दर्शयन्ति—गोविन्देति । गवाम् इन्द्रः गोविन्द इति गो-गोप-गण-सह-क्रीडा-रसिक-बर्हापीड-गुञ्जावतंस-कदम्ब-मालादि-वन्य-वेष-विभूषित-श्री-नन्दनन्दनो लक्ष्यते । श्री-हस्त-वर्ति-वेणुश् चात्यन्त-प्रिय-सङ्गितया साक्षाद् उक्त एवास्ति । तत्र श्री-गोविन्दत्वानपेक्षयापि स्वर्गादिभ्यो भुवः कीर्तिर् अवतारिणस् तस्य केवलं पदाम्बुज-सम्बन्धेनैव सिध्यतीत्य्-आदौ देवकी-सुतेति निर्देशः । तस्य हि देवकी-सुतत्वेऽप्य् अवतारित्वं प्रसिद्धम् एव ।

लब्ध-लक्ष्मि इति च कदाचित् केनापि हेतुना स्वर्गादिषु गतेऽप्य् अस्मिन् एतादृश-लक्ष्मी-लाभस् तेषां नास्तीति द्योतयति । तत्र पारमैश्वर्य-प्राकट्येन साक्षात्-पादाम्बुज-स्पर्श-विशेष-लाभासम्भवात् । यद्यपि तासां सर्वज्ञानाम् अपि गोपिकानां परम-प्रेम-भर-स्वभावेन केवलं श्री-यशोदा-नन्दनत्वेनैव सदा भगवान् परिस्फुरति, तथाप्य् उक्ताभिप्रायेण प्रथमं देवकी-सुतत्वेनोक्तिः । अत एव तस्याः प्रसूति-मात्रापेक्षया सुतेति निर्देशः । गोविन्दस्य वेणुम् अनु लक्ष्यीकृत्य तं दृष्ट्वेत्य् अर्थः ।

यद् वा, तद्-वादनानन्तरं वेणु-कारितं च सर्वेषु मयुरादिषु यथा-सम्भवम् एवं विवेचनीयम् । दूरात् तद्-गीतामृत-कणा-मात्र-प्रथम-पानेन मत्तानां मयूराणां नृत्यं यस्मिन् तत् । यद् वा, गोविन्दस्य वेणोर् मनुर् मन्त्रः परम-मोहन-शब्दात्मकः, तेनैव मत्तानां मयूराणां नृत्यं यस्मिन् । किं वा, गोविन्द-वेणु-मनुर् यस्मिन्न् इति पृथक् पदम् । अत एव मत्तानां मयूराणां नृत्यं यस्मिन्न् इति हेतु-हेतुमद्-भाव-न्यायेन वेणु-मनुर् एव तत्र तत्र हेतुर् इत्य् आयाति । तथा तत्-प्रतिनादेनैव प्रेक्ष्याः परम-रमणीयाः । तद्-वेण्व्-आकरत्वेन सर्वेषां परमावलोकनीया वा अद्रि-सानवो यस्मिन्

तत् । तथा तत्-पानेनैव अवरतानि उपरत-व्यापाराणि अन्यानि समस्तानि सत्त्वानि प्राणिनो यस्मिन् तत् ।

यद् वा, प्रेक्ष्यः परम-सुन्दरः प्रेम्णा व्रज-जनैः सदा दृश्यो वा अद्रेः श्री-गोवर्धनस्य सानुः शिखर-प्रदेशो यस्मिन् श्री-गोवर्धन-पूजायां शैलो\ऽस्मीति वदता श्री-भगवता तद्-बलि-वर्ग-भोजन-समये परम-लीलयोपविश्याक्रान्तत्वात् ।

किं च, अवरते निवृत्तै अन्ये रजस्-तमसी यस्मात्, तादृशं विशुद्धं समस्तं सम्पूर्णं सत्त्वं सत्त्व-गुणो यस्मिन् तरु-लतादीनाम् अपि सात्त्विक-भावापत्तेः । तथा च दशम-स्कन्धे—

वन-लतास् तरव आत्मनि विष्णुं

व्यञ्जयन्त्य इव पुष्प-फलाढ्याः ।

प्रणत्-अभार-विटपा मधु-धाराः

प्रेम-हृष्ट-तनवो ववृषुः स्म ॥ [भा।पु। १०.३५.९] इति ।

श्री-वैकुण्ठे शुद्ध-सत्त्व-वृत्तिस् तु—

प्रवर्तते यत्र रजस् तमस् तयोः

सत्त्वं च मिश्रं न च काल-विक्रमः [भा।पु। २.९.१०] इति द्वितीय-स्कन्धोक्तेः ।

अस्यार्थः—तयोस् ताभ्यां रजस्-तमोभ्यां मिश्रं च सत्त्वं यत्र वैकुण्ठे नास्ति केवलं विशुद्धं सत्त्वम् एवेति । यद्यपि मायिकत्वात् सत्त्व-गुणस्यापि सम्बन्धो वैकुण्ठे न घटत एव, न यत्र माया किम् उतापरे [भा।पु। २.९.१०] इति तत्रैवाग्रे उक्तत्वात्, तथापि शुद्ध-सात्त्विक-देवादिवत् वैकुण्ठ-वासिनाम् अपि व्यवहारादि-दर्शनाद् उपचर्यते इति। एवं श्री-वैकुण्ठेन साम्यम् । आधिक्यं च गोविन्द-वेणुम् अन्व् इत्य्-आदिना स्पष्टं दर्शितम् एव ।

अथवा, प्रेक्ष्याद्रीति छेदः । प्रेक्ष्याद्रयः श्री-गोवर्धनाद्या यस्मिन्, तत्-सानवः पर्वतोपरितनोच्च-प्रदेशाः वेणु-नाद-ज-मोहेन स्थाने स्थाने सङ्घश उपर्य् उपरि पतनेन सानव इव सानवः सानुवद् भूतानि

किं वा, वेणु-नाद-श्रवण-कृष्ण-दर्शनार्थं तत्र तत्र यूथशः स्थितानि विरतान्य-समस्त-क्रियाणि सत्त्वानि सर्व-प्राणिनो यस्य । यद्यपि तच्-छ्रवणानन्द-भरेण सर्वेषाम् अपि बहिः सर्व-व्यापारोपरम एव घटते, तथापि भगवद्-भक्तैर् एव वेणु-वाद्यस्य विलास-वैचित्र्या मयूराणां मत्ततया नृत्यम्, अन्येषां च तच् छ्रवण-भगवद्-दर्शनापेक्षादिकं जातम् । तथैव हि परमानन्द-चरम-काष्ठा-सम्पत्तिः । तच् च पूर्वम् उक्तम् एवास्ति ।

एवं सत्य् अयम् अप्य् अर्थो वितर्क्यः—स्व-स्व-सेवां साक्षाद् अर्पयितुम् इव सानुषु उच्चतर-स्थानेषु स्थितानि अवरतानि अवधानेन रतानि मधुर-कूजितादि निज-निज-सेवायां प्रीत्या सक्तानि । किं वा, सानुभिः अवो\ऽवनम् अत्युच्चतया श्री-कृष्ण-सन्दर्शनं कारयद्भिर् विरह-तापादि-[विरहमयादि] दुःखाद् रक्षणं येषां, तानि । तथा सान्व्-अवानि च तानि रतानि च निज-निज-व्यापार-सेवायां कृष्णे वा\ऽनुरक्तानि अन्यानि समस्तानि सर्वाणि सत्त्वानि कोकिलादीनि यस्मिन् तेषां यथा-सम्भवं सर्वेषाम् एव सेवोह्या । तत्र च चञ्चल-हिंस्रादीनां तु दुष्टानां तत्-तद्-दोष-त्याग एव सेवा ।

अथवा, किं कल्पना-बाहुल्येन ? मत्त-मयूर-नृत्यं प्रेक्ष्य गोविन्द-वेणुम् इति योजनीयम्। ततश् चायम् अर्थः—बर्हि-बर्हावतंसस्य मयूर-प्रियस्य श्री-भगवतो वने\ऽग्र-वेश-मात्रेण निज-पिञ्छावचयन-दर्शनेन च प्रीत्या प्रथमं मत्तानां मयूराणां नृत्यं, तत् प्रेक्ष्य हर्षेण गोविन्द-वेणुः गोविन्देन वेणुर् वादित इत्य् अर्थः । तम् अनु अद्रि-सानुषु अवरतानि विरतानि अन्यानि श्री-भगवद्-दर्शन-वेणु-श्रवण-व्यतिरिक्ताशेष-प्रयोजनानि येषां, तथा-भूतानि समस्त-सत्त्वानि यस्मिन् । सर्व-वाचक-समस्त-शब्देन मयूरा अपि गृह्यन्ते । ततश् च तेषाम् आदौ श्री-भगवद्-रूप-दर्शनानन्देन मत्ततया नृत्यम् पश्चाद् वेणु-नाद-श्रवणेनान्येषाम् इव सर्वोपरम-लक्षणा प्रेम-मूर्च्छा जातेति ज्ञेयम् । एतादृशं च श्री-वैकुण्ठे\ऽपि नास्तीति श्री-वृन्दावनतो भूमेः कीर्ति-विस्तर इति ॥१०८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो किं वक्तव्यं श्री-हस्तादौ वर्तमानस्य वेणोर् माहात्म्यम् ? श्री-वृन्दावनस्यैव भाग्यं किं वर्ण्यम् इत्य् आहुः वृन्देति । सखि, हे श्री-राधे ! वितनोति स्वर्गादिभो\ऽपि विशेषेण विस्तारयति, यत् यस्मात्, यद् अवृन्दावनम् इति वा, देवकी-सुतस्य श्री-कृष्णस्य पदाम्ब्जाभ्यां कृत्वा लब्धा लक्ष्म्यो जगद् विलक्षण-वज्राङ्कुशादि सुलक्षणैः सर्वाः शोभा-सम्पदो वा, सर्वेषां त्रत्यानां जनानां सर्वार्थ-मूल-महा-निधि-प्रकाशन-रूपा येन तत् । तत्र च साक्षाद् पादाम्बुजाभ्याम् एव, न तु पादुकाभ्याम् इत्य् अनेन तथाम्बुज-रूपकवनित परम-सुकुमार्य-शितलत्वादि सहज-गुण-युक्त-पाद-स्पर्शेन श्री-वृन्दावन-भूमेः परम-सौभाग्यं सूचितम्, अलभ्य-लाभात्, पादाम्बुज-शब्देन च स्वर्गादिषु सपादुक-श्री-विष्णवादिभ्यः स्वत एव महात्म्येन तत् पदाम्बुजाभ्यां लक्ष्मी-विशेष-सम्पत्तेः । तासां देवकी-सुतेत्य् उक्तिः—प्राग् अयं वसुदेवस्य [भा।पु।१०.८.१४] इत्य्-आदि गर्ग-वाक्यानुसारेण । किं वा, स्वत एव, तासु सर्व-परिस्फुर्तेः । तत्र च सुत-शब्देन केवलं तथा प्रसूत एव, पुत्रस् तु श्री-यशोदाया एवेति भावः । यद् वा, देवकी व्रजेश्वर्येव—

द्वे नाम्नी नन्द-भार्याया यशोदा देवकीत्य् अपि ।

अतः सख्यम् अभुत् तस्या देवक्या शौरिजायया ॥

इति बृहद् विष्णु-पुराण-वचनात् अतो\ऽस्मत्तो वृन्दावनम् अपि परम-धन्यम् इति भावः । अहो किं वक्तव्यम्, स्वर्गादिभ्यः श्री-वैकुण्ठ-लोकाद् अपि विस्तारयतीति विशब्दोक्तं वैशिष्ट्यम् आहुः—गोविन्देति, गवाम् इन्द्रो इन्द्रो गोविन्द इति गोप-वर्ग-चूडा-मणिर् गो-गोप-गण-परिवृतो वन्य-भूषणो विचित्र-क्रीडा-रसिकः श्री-यशोदा-नन्दनो लक्षितः । हे सखीति—श्री-कृष्ण-प्रदत्त-तद् आधिपत्येन तव तु परम-धन्यतैवेति, पूर्व-श्लोकेन स्वयं वर्णिताद् वेणुभाग्याज् जात-शोकां भगवतीं श्री-राधां प्रति ललितादि-तदीय-सखी-वर्ग-कृत-सान्त्वनम् इदं ज्ञेयम् ।

अन्यत् तैर् व्याखातम् । तत्र मन्द-गर्जितं नील-मेघं तं मत्वेति, मयूराणां मत्तत्वे नृत्ये च हेतुः, अन्यथान्येषाम् इव तेषाम् अप्य् अवरतत्वम् एव स्यात्—मल्लानाम् अशनिः [भा।पु।१०.४३.१७] इत्य्-आदिवत् तत्-तद्-भावानुरूपम् एको\ऽपि श्री-भगवान् तथा तथैव तेषु तेषु परिस्फुरतीत्य् ऐश्वर्यं सुमिध्येद् एव । इत्थं कोकिलादिश्व् अपि वसन्तादि-रूपेणास्फुरद् इत्य् अप्य् ऊह्यम्, किन्तु श्री-भगवतो मेघ-विशेषादि-रूपेण मयूरादिषु परिस्फूर्या तेषां प्राकृत-मेघादिभ्यो जायमान-भावतो\ऽधिकाधिक-भावश् च ज्ञेय इति दिक् । अथवा, गोविन्दस्य वेणुम् अनु तन् नाद-श्रवणानन्तरम् इत्य् अग्रे\ऽपि सर्वत्रानुवर्तनीयम् । यद् वा, गोविन्द-वेणोर् मनुः—नादात्मक-परम-मोहन-मन्त्रस् तेनैव मत्तानां मयूराणां नृत्यं यस्मिन्, किं च, तेनैव प्रेक्ष्यास् तत् प्रतिद्वनिना परम-रमणीयाः । किं वा, वनेषु चरतां पशूनां दर्शनाद्य् अर्थं श्री-भगवद् आसन्नता-प्राप्त्या सर्वेषां परमावलोकनीया अद्रिसानवो यस्मिन्, तत् । किं च, तेनैव अवरतानि स्तब्धतां प्राप्तानि अन्यानि मयूर-व्यतिरिक्तानि समस्तानि सत्त्वानि प्राणिनो यस्मिन् ।

यद् वा, प्रेक्ष्यः परम-सुन्दरः प्रीत्या व्रज-जनैः सदा दृश्यो वा अद्रेः श्री-गोवर्धनस्य सानुः शिखर-प्रदेशो यस्मिन्, श्री-गोवर्धन-पूजायां—शैलो\ऽस्मि [भा।पु।१०.२४.३५] इति वदता श्री-भगवता तद्-बलि-कूलं भक्षयता लीला-विशेषेणोपविश्याक्रम्यमाणत्वात् । किं च, अवरते निवृत्ते अन्ये रजस् तमसी यस्मात्, तथा-भूत-समस्त-सत्त्वं सम्पूर्ण-सत्त्वं विशुद्ध-सत्त्व-गुणे यस्मिन् तत्—वन-लतास् तरवः [भा।पु।१०.३५.९] इत्य्-आदि-वक्ष्यमाणत्वेन तरू-लतादीनाम् अपि सात्त्विक-भावोत्पत्तेः । अनेन च—प्रवर्तते यत्र रजस् तमस् तयोः, सत्त्वं च मिश्रं न च [भा।पु।२.९.१०] इत्य्-आदिनोक्तायाः साम्येन स्वर्गादिभो भूकीर्ति-विस्तारणं सिद्धम् एव, तत्र च तद् अन्न्तरम् एव—न यत्र माया किपुतापरे [भा।पु।२.९.१०] इत्य् उक्त्या प्राकृत-सत्व-गुणाभावे\ऽपि शुद्ध-सत्त्व-प्रवृत्तेर् उक्ति-गुणातीतस्य सच् चिद् आनन्द-विलास-रूपस्य सत्त्वस्याभिप्रायेण, तच् च श्री-भागवतामृते बहुशो विवृतम् एव, अत्रापि तथैवोह्यम् इति दिक् । वैकुण्ठतो\ऽपि कीर्ति-वितान-पक्षे चावरतान्युपरतानि अन्यानि गोविन्द-वेणु-श्रवण-तद् दर्शनेतराणि चेष्टितानि येषां भूतानि । यद् वा, अवरतान्य् अन्यानि समस्तानि सत्त्वानि यस्मिन् । यद् वा, प्रेक्ष्या अद्रयः श्री-गोवर्धनाद्या यस्मिन् तत्, सानुषु अवरतानि मयूरेतर-समस्त-सत्त्वानि यस्मिन् ।

यद् वा, मत्त-मयूर-नृत्यं प्रेक्ष्य गोविन्द-वेणुम् इति व्युत्क्रमेण योज्यम् । अयम् अर्थः बर्हावतंसस्य तस्य वनागमन-सन्दर्श-मात्रेण प्रीत्या मत्तानां मयूराणां नृत्यं तत्-प्रेक्षया हर्षेण गोविन्दस्य वेणुस् तेन तद् वादनम् इत्य् अर्थः । तम् अनु अद्रिसानुषु अवरतानि विरतानि श्री-भगवद् दर्शनादि-व्यतिरिक्ताशेष-प्रयोजनानि येषां तथा-भूतानि समस्त-सत्त्वानि यस्मिन्, समस्त-शब्देन मयूरा अपि गृहीताः, ततश् च तेषाम् आदौ श्री-भगवद् दर्शनानन्देन मत्ततया नृत्यम्, पश्चाच् च वेणुनादेनान्येषाम् इव तद्-वेणु-नाद-श्रवण-तद् दर्शनेतराखिलोपराम-लक्षणा प्रेम-मूर्च्छा जातेत्य् अर्थः । ईदृशं श्री-वैकुण्ठे\ऽपि नास्तीति ततो\ऽपि कीर्ति-विशेषो\ऽस्य सिद्ध एव । अहो वतास्माकं तत्र तथा तादृश्यवस्था न सिद्ध्येद् इति वयम् अधन्या एवेति भावः । एतच् च तासां प्रेम-विशेष-स्वाभाविका-तृप्त्यार्ति-लक्षणम् एव सर्वत्र ऊह्यम् ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो किं वक्तव्यं श्री-हस्तादौ वर्तमानस्य वेणोर् माहात्म्यं वृन्दावनस्य सौभाग्यं कियद् वर्ण्यताम् इत्य् आहुः-वृन्देति । हे सखिवितनोति वैकुण्ठेभ्यो\ऽपि विशेषेण विस्तारयति यद् यस्मात् यद् वृन्दावनम् इति या देवकी-सुतस्य श्री-कृष्णस्य पदाम्बुजाभ्यां कृत्वा लब्धा लक्ष्म्यः सर्व-शोभा-महिम्नोः सम्पदो येन तत् तस्यैवासनोर्ध-रूपत्वात् तत्र च साक्षात् पदाम्बुजाभ्याम् एव न तु पादुकाभ्याम् इत्य् अनेन श्री-वृन्दावन-भूमेः परम-सौभाग्यं सूचितं तासां देवकी-सुतेत्य् उक्तिं प्राग् अयं वसुदेवस्येत्य्-आदि गर्ग-वाक्यानुसारात् तथा चोक्तिर् गोपनाय एवं गोविन्द-शब्दो\ऽपि गवाध्यक्से\ऽपि गोविन्द इति कोशकार-मतम् आश्रित्य तस्मिन् सङ्केतितः श्री-गोविन्दाभिषेकानन्तरम् एव तन्-नाम्नो व्रजे प्रसिद्धेः उत्तरत्र नन्द-नन्दनम् इति तु गोपनाशक्तेः यद् वा, देवकी-व्रजेश्वर्येव-नाम—

द्वे-नाम्नी नन्द-भार्याया यशोदा-देवकीत्य् अपि ।

अतः सख्यम् अभूत् तस्या देवक्या शैरिजायया ॥ इति ।

बृहद् विष्णु-पुराण-वचनात् वि-शब्दोक्तं वैशिष्ट्याम् आहुः-गोविन्देति । गवाम् इन्द्रो गोविन्द इति गोप-वर्ग-चूडामणि-गोर् गोपाल-परिवृतो वन्य-भूषणो विचित्र-क्रीडा-रसिकः श्री-यशोदा-नन्दनो लक्षितः अतो वृन्दावनस्यापि भाग्यम् अस्माभिर् अभिलषणीयम् एवेति भावः । अन्यत् तैः तत्र मन्द-गर्जितं नील-मेघं तं मत्वेति मयूराणां मत्तत्वे नृत्ये च हेतुः अन्यथान्येषाम् अपि तेषाम् अप्य् अवरतत्वम् एव स्यात्, तथाप्य् अलौकिकत्वं त्व् अधिकम् अस्त्य् एवेति । अथव तादृश-श्री-कृस्णे स्वाभाविक-प्रीत्य् अतिशयवतां श्री-वृन्दावन-मयूराणां सम्बन्धेन सर्वस्याम् अपि तज् जातो भगवत् प्रसादाद् अन्यत्रत्या अपि एतत् सादृश्येनैव मेघे प्रीतिम् अन्तो ज्ञेयाः । ततश् च गोविन्दस्य वेणुम् अनु तन् नाद-श्रवणान्तरम् इत्य् अग्रे\ऽपि सर्वत्रानुवर्तनीयं यद् वा, गोविन्दस्य वेणोर् मनुः नादात्मक-परम-मोहन-मन्त्रस् तेनैव मत्तानां मयूराणां नृत्यं यस्मिन् यद् । अपि तद् वेणु-नाद एव यथा मयूराणां नृत्ये हेतुस् तथान्येषाम् अबतारत्वे\ऽपि तथापि नृत्यरीतिम् उत्प्रेक्षितुम् एवान्येषां सभासदत्व-निरूपण-योग्यं प्रेक्ष्येत्य् उक्तं किं वा, मुहुः श्री-भगवद् आसनताप्राप्त्या सर्वेषां परमावलोकनीया अद्रिसानवो ये यद् वा, प्रेक्ष्य-नृत्येक्षणे वृन्दाव् इति विश्व-प्रकाशात् प्रेक्षाम् अर्हन्ति । ये तेषु उच्चेषु तद् दर्शन-स्थानेषु अवरतानि स्तब्धतां प्राप्तानि अन्यानि मयूर-व्यतिरिक्तानि समस्तानि सत्त्वानि प्राणिनो यस्मिन् यद् वा, मत्त-मयूर-नृत्यं प्रेक्ष्य गोविन्द-वेणुम् अन्विति व्युत्क्रमेण योज्यम् अत्रेदं विवक्षितं बर्हावतंसस्य मयूर-प्रियस्य तस्य वनागमन-सन्दर्शन-मात्रेण प्रीत्या मत्तानां मयूराणां नृत्यं तत् प्रेक्षया हर्षेण गोविन्दस्य वेणुः तेन तद् वादनम् इत्य् अर्थः । तम् अनु अद्रिसानुषु अवरतानि विरतानि अन्यानि श्री-भगवद् दर्शनादि-व्यतिरिक्ताशेष-प्रयोजनानि येषाम् तथा-भूतानि समस्त-सत्त्वानि यस्मिन् ईदृशं श्री-वैकुण्ठे\ऽपि नास्तीति तथा ततोऽपि कीर्ति-विशेषोऽस्याः सिद्ध एव अहो बतास्माकं तत्र तथा तादृशवस्था न सिद्ध्येदति वयम् अधन्या एवेति भावः तच् च तासां प्रेम-विशेष-स्वाभाविकातृप्त्यार्ति-लक्षणम् एवेति सर्वत्रोह्यम् ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्यां समाज इत्य् उक्तानुसारेण तया चोक्तिर् गोपनीया ॥१०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मध्या ऊचुः—वृन्दावनम् इत्य्-आदि । हे सखि ! वृन्दावनं भुवः कीर्तिं तनोति । आत्म-कीर्तिस् तु स्वत एवानन्त्याद् विस्तारयितुं न शक्यत इति भावः । एतेन भुवः पृथक्त्वेनाभौमत्वम् अपि प्रतिपादितम् । अत्र हेतुः—यद् देवकीत्य् आदि । देवकी-सुतेति ज्ञायमानेऽपि यशोदा-सुतत्वे व्यवहार-सम्बन्ध-स्थगनार्थम् तथा चाधुनिक-कवि-प्रयोगः—वड्ढन्ते महु-महणे सम्बन्धाणि ह्नु बिज्जन्ति इति । अथवा, देवकीति यशोदाया एव नामान्तरम् । तस्य पदा चरणेन्आम्बुजैर् इव लब्धा लक्ष्मीर् येन । सर्वतः फुल्लारविन्दम् इवेत्य् अद्भुतोपमा गर्भस्था प्रकृतार्थो वा । वस्तुतस् तु भूर् एव तथा । वनं तु वृन्दावन-सम्बन्धाद् एव भुवस् तादृशत्वम् इति समुचितम् एव भुवः कीर्ति-तननम् । कीदृशम् ? पुनर् गोविन्द-वेणुम् अनु लक्ष्यी-कृत्य मत्तानां मयूरीणां नृत्यं यत्र । अथवा, गोविन्द-वेणुर् एव वेणु-ध्वनिः । स एव मन्त्रस् तेन मत्तानाम् इति पूर्ववत् ।

यद् वा, गोविन्द-वेणुम् अनु इति छेदः । गोविन्द-वेण्र् एव मनुर् धर्मोपदेष्टा यत्र । यस्योक्त्या वयं सकलम् एव कुल-शीलादिकम् अत्यजाम । न दोषो मनुर् अब्रवीत् इत्य्-आदिवद् अस्यापि वचसि प्रामाण्यम् । तदा मत्तानां मयूराणां नृत्यं यत्र । पुनः कीदृशम् ? प्रेक्ष्याणि दर्शनीयानि अद्रेर् गोवर्धनस्य यानि सानूनि तेषु अपरतास् तूष्णीम्भूताः । अन्य-समस्ताः सत्त्वाः प्राणिनो यस्य । पूर्व-सङ्केतित-स्थल-स्मरणं व्यङ्ग्यम् । अथवा, मत्त-मयूर-नृत्यं प्रेक्ष्य दृष्ट्वा अद्रि-सानुषु अपरतान्य-समस्त-सत्त्वम् इति बहु-पद-सापेक्ष-समासः । मयूराणां नृत्यं प्रेक्ष्य अहो अमी भागवता एव भगवद्-आवेशेन यद् एवं नृत्यन्तीति तेषां नृत्यामोदेनान्येषां तत्र स्थितानां पशु-पक्षि-मृगादीनाम् अपि सामाजिकत्वेन रसावेशात् तूष्णीकत्वम् इति भावः । अहो अतिरम्यं तदा तदासीत् सङ्केत-स्थानम् इति स्मृति-भावः ॥ १०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदीय-तादृश-विलासास्पदस्य वृन्दावनस्य सम्प्रति माधुर्यम् अधिकम् उल्लसत्य् अतस् तद् एव दिदृक्षमाणास् तत्र गच्छामो वयं नात्र कोऽपि दोष इत्य् अन्या आहुः—वृन्दावनम् इति । भुवः कीर्तिं स्वर्गादिभ्यो विशेषेण तनोति, यद् गतो देवकी-सुतस्य यशोदानन्दनस्य पादाम्बुजाभ्यां लब्धा लक्ष्मीः ध्वज-वज्रादि-चिह्न-मयी शोभा-सम्पत् येन तत् । न ह्य् एवम्भूतं वैकुण्ठ-वनम् अपि सम्भवेद् इति भावः ।

द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च ।

अतः सख्यम् अभूत् तस्या देवक्या शौरि-जायया ॥ इति बृहद्-विष्णु-पुरानम् ।

एवम्-भूतं गोष्ठ-स्थलम् अपि सम्भवेद् इति चेद् आहुः—गोविन्दस्य वेणुं वेणु-वाद्यं लक्षी-कृत्य यन्-मत्तानां मयूराणां नृत्यं तत् प्रेक्ष्य अद्रि-सानुषु अवरतानि उप्रत-क्रियाणि अन्यानि समस्तानि सत्त्वानि यत्र तत् । अत्रास्मान् नर्तयेति मयूरैः प्रार्थितस्य गोविन्दस्य वेणु-वादनं तदीयं ताल-गत्यैव मण्डलीभूय नृत्यतां तेषां मध्ये एव तस्यापि स-नृत्यं वादनं ततस् तद्-वाद्येन सन्तुष्यतां तेषां पारितोषिक-स्वीय-दिव्य-बर्ह-प्रदानं तस्मै । तेन च वादक-लोक-रीत्या साह्लादं तद् गृहीत्वा स्व-शिरस्य् उष्णीषस्योपरि तद्-धारणम् । तत्-तौर्यात्रिकम् आस्वादयताम् अद्रि-सानुषु प्रविष्टानां सभ्यानां कृष्णसार-कपोतादि-मृग-पक्षिणाम् आनन्द-जाड्यम् इत्य्-आदिकं सर्वं दिदृक्षामहे इति भावः ॥१०॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : वृन्दारण्यं तद्-विलासास्पदं सदति चारुविभाति तद्-दिदृक्षया तत्र गताभिर् अस्माभिः स प्रेयान् आराद् द्रष्टव्यश् चेन् न कापि शङ्केति भावेन पराः प्राहुः वृन्दावनम् इति । हे सखि ! वृन्दावनं स्वर्गादिभ्योऽपि सकाशाद् भुवः कीर्तिं विशेषेण तनोति यद् यतो देवकी-सुतस्य यशोदा-नन्दनस्य पदाम्बुजाभ्यां लब्ध्वा लक्ष्मीर् ध्वज-वज्राङ्कुशादि-चिह्नमयी शोभा येन, तद् इति ।

न ह्य् एतं तेष्व् अस्तीति भावः । न त्वादृक् सौष्ठवम् अपि सम्भवेत् ? तत्राहुः—गोविन्दस्य वेणुं तद्-रणितम् अनु लक्ष्यी-कृत्य मत्तानां मयूराणां नृत्यं प्रेक्ष्य अद्रीणां सानुषु कूर्म-पृष्ठ-समासु ऊर्ध्व-भूमिषु अवरतान्य् उपरत-क्रियाणि अन्यानि समस्तानि सत्त्वानि कृष्णसार-कपोतादीनि यत्र तत् । तत्र गत्वैतत् सर्वम् आश्चर्यं द्रक्ष्यामः इति भावः ॥१०॥


॥ १०.२१.११ ॥

धन्याः स्म मूढ-मतयोऽपि5 हरिण्य एता

या नन्द-नन्दनम् उपात्त-विचित्र-वेशम् ।

आकर्ण्य वेणु-रणितं6 सह-कृष्णसाराः

पूजां दधुर् विरचितां प्रणयावलोकैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपरा आहुः—हे सखि ! मूढ-मतयस् तिर्यग्-जातयोऽप्य् एता हरिण्यो धन्याः कृतार्थः । या वेणु-रणितं वेणु-नादम् आकर्ण्य नन्द-नन्दनं प्रति प्रणय-सहितैर् अवलोकनैर् विरचितां पूजां संमानं दधुः कृतवत्यः । किं च, कृष्णसारैः स्व-पतिभिः सहिता एव दधुः । अस्मत्-पतयस् तु गोपाः क्षुद्राः समक्षं तन् न सहन्त इति भावः ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपराः प्रेमवत्यः । उपात्तः बार्दिभिर् विचित्रो वेशो येन तम् । अस्मत् तस् ता धन्याः स्वानुकूल-पतित्वेनेत्य् आहुः—किं च इति । इति भाव इति--गोपानां प्रायो बुद्धि-हीनतास्तीति तात्पर्यम् । यद् वा, कृष्ण एव प्रीति-विषयत्वेन सारो येषां, ते यथार्थ-नामानस् तासां पतयस् त्व् अपत्नीः कृष्णानुरागिणीर् आलक्ष्य स्व-गार्हस्थ्यम् एव धन्यं मन्यन्ते स्मेति ॥११॥


कैवल्य-दीपिका : धन्याः स्म इति । मूढ-मतयस् तिर्यक्त्वात् । वेणुः रणितो वादितो येन तम् । नन्द-नन्दनस्य वेणु-गीतम् आकर्ण्य इति च वक्तव्ये नन्द-नन्दनम् आकर्ण्य इति लोकोक्त्योक्तम् । यथैवं गायन्न् आकर्णितो भवद्भिर् इत्य् उच्यते । प्रणयावलोकैः प्रीत्य्-उत्फुल्लैर् नयन-नीलोत्पलैर् इत्य् अर्थः ॥११॥ [मु।फ। १२.५]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुनश् चोढा ऊचुः—धन्या इति द्वाभ्याम् । मूढ-गतयो\ऽपि हरिण्यो\ऽपि मूढ-गतयो मन्द-गतयः सत्यः प्रणयावलोकैः पूजां दधुः, स्वच्छन्दम् ईक्षन्ते स्म, तथा न वयम् इत्य् अहो धिग् अस्मान् । अस्माभिर् आकर्ण्यत एव वेणु-रणितम्, न त्व् आकर्णनानन्तरं हरिण्य इव प्रणयावलोकैः पूजां कर्तुं शक्यते, तत्रापि ताः सह-कृष्णसाराः पति-सहिताः, एवम् अस्माकं तु पतयो\ऽस्य गन्ध-मात्रेणापि कुप्यन्तीति दैन्यम् ॥११॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.११६] अतः तेभ्यो\ऽपि विशिष्टं पशु-जाति-साहचर्याद् भगवत्-पाल्यमान गवादि-सङ्गे विचरतां मृगाणां माहात्म्यम् तथैव काश्चिद् आहुः—धन्याः स्मेति [भा।पु। १०.२१.११] । भोः सख्यः ! वयं धन्याः स्मः, विसर्गाभावश् छन्दो\ऽनुरोधेनार्षः । परम-भाग्यवत्यः कृतार्था वा भवाम इत्य् अर्थः । यतो या एताः, ताः सर्वा एव हरिण्यो वेणु-नादं श्रुत्वा नन्द-नन्दनम् अस्मत्-प्रियतमं प्रति पूजां विदधुः, सम्मानं कृतवत्यः । कथम्-भुताः ? प्रणय-युक्तैर् अवलोकनैर् एव विरचितां विशेषेण कल्पिताम् कृष्णस्य तद्-अनन्यापेक्षया तासां च तद्-अधिक-पूजा-द्रव्याभावेन, तैर् एव पूजयामासुर् इत्य् अर्थः । यद् वा, वि-शब्दात् तैर् एव तस्य पूजा विशिष्टा कृता भवेद् इति ।

किं च, कृष्णसारैः स्व-पतिभिः सहिता एव दधुः । कथम्भूतम् ? उपात्ताः स्वीकृता विचित्रा वनमाला-बर्हापीड-गुञ्जावतंसादयो वेशा भूषणानि तत्-तद्-भूषण-वस्त्रादि-धारण-परिपाटी-विशेषा वा छन्दांसि येन तम्

कथम्-भूतास् ताः ? मूढ-मतयस् तिर्यग्-जातयो\ऽपि । किं वा, वेणु-नादाकर्णनेन मूढाः ज्ञान-हीनतां प्राप्ता बाह्यान्तःकरणानां गतिः प्रवृत्तिर् यासाम् । किं वा, व्रजे सहज-महिमा विविध-वैदग्ध्यवत्यो\ऽपि वेणु-नादतो मूढानां जडानाम् इव गतिः स्थितिर् गति-क्रियैव वा यासां, तथा-भूताः सत्यः । “मूढ-गतय” इति पाठेऽप्य् अयम् एव अर्थः ।

एवं सत्य् अपि-शब्दस्य हरिण्य इत्य् अनेन सम्बन्धः । सदा वनान्तश्-चारिण्यो\ऽपि सर्वा एता वेणु-नादाकर्णन-मात्रेण श्री-कृष्णान्तिकम् आगत्य तद्-रूप-दर्शनेन काम-मोहिताः सत्यः किञ्चिद् अपरं विवेक्तुं कर्तुं चाशक्ताः, केवलं प्रेम्णा पूजयन्त्य इव निरीक्षन्त इत्य् अर्थः । अपि इत्य् अस्य कृष्णसारैर् वा अन्वयः । तत्-पतयः कृष्णसारा अपि सह युगपद् एव तथा चक्रुर् इत्य् अर्थः ।

अथवा, परम-गम्भीर-प्रेम-स्वभावतो भगवतीनां तासां कदाचिद् अप्य् आत्मानं प्रति धन्य-ज्ञानं न सम्भवतीत्य् अयम् अर्थो द्रष्टव्यः । स्म इति प्रसिद्धौ, खेदे वा । एता एव धन्याः या निज-पतिभिः सहिता एव पूजां दधुः । वयं तु सर्व-ज्ञान-क्रिया-शक्तिमन्-मनुष्य-जन्म-प्राप्ता अपि, तत्र च सकल-सद्-गुण-विदग्ध-गोप-जातयोऽप्य् अधन्या एव । यतो वने विहरतः श्री-कृष्णस्य वेणु-नादं श्रुत्वा, तम् अभिसृत्य तादृश-वेशं दृष्ट्वा, प्रेम-भरेण विशाल-चक्षुषी समुन्मील्य प्रसन्न-दृष्टिभिः सेवितुं नार्हामः । कदाचित् काश्चिद् वा तथा सेवन्तां नाम, तच् चास्मत्-पतयो\ऽल्प-मतय इव साक्षान् न सहन्त इति ।

एतद् एव कृष्णसार-शब्द-प्रयोगेणापि ध्वनितम् । कृष्ण एव सार-भूतो\ऽन्यत् सर्वम् असारं येषां हरिणानाम् इति ते धन्या एव, गोपाश् च तद्-विपरीता इति । यद्यपि सर्वथा गोपा अपि श्री-कृष्णैक-प्रियाः परम-धन्या एव, तथापि तेषां वश्यतया इमा भगवत्यो लज्जया स्वच्छन्देन किम् अपि तथा व्यवहर्तुं न शक्नुवन्तीति तथोचुः । एवं स्व-पति-पराधीनत्वादिना निभृतं जारत्वेन श्री-कृष्ण-भजनम् एव तासां परम-प्रेम-सम्पच्-चरम-काष्ठा-सम्पादकम् इत्य् उक्तम् एवास्ति ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो अस्तुतरां हरि-प्रिय-सर्व-जीवाश्रयस्य श्री-वृन्दावनस्य माहात्म्यम्, पशु-जातीनाम् आरण्यानां हरिणीनाम् अपि भाग्यं किं वर्ण्यताम् इत्य् आहुः—धन्या इति । मूढा विवेक-हीना गतिर् ज्ञातं यासां ताः, पशु-जातित्वात्, "मतय" इति पाठे\ऽपि तथैवार्थः । ता वक्तव्ये एता इति प्रत्यक्षत्वाद्य्-अभिप्रायेण, एताः श्री-वृन्दावन-वर्तिन्यो वन-चर्या वा । नन्दस्य श्री-वल्लवेन्द्रस्य नन्दनं कुमारम् इति परम-सुन्दर-वेष-रसिकत्वादिकं सूचितम् । श्लेषेण नन्दं साक्षाद् आनन्दम् अप्य् आनन्दयतीति परमानन्द-घन-मूर्तिम् इत्य् अर्थः ।

उपात्ताः स्वीकृता विचित्रा वेषाः सखिभिर् उपायनतया समर्पिता वन-माला बर्हा-पीड-गुञ्जावतंसादि-भूषणानि येन, तं प्रति प्रणयावलोकैर् एव विरचितां विशेषेण कल्पिताम् इति, तासां तद्-अतिरिक्त-तत्-पूजा-द्रव्याभावात्, रसिक-शिरोमणेश् च तस्य तैर् एव पूजा सम्पत्तेः । बहुत्वं गौरवेण हृष्टि-परम्परा-विवक्षया वा । स्म इति विस्मये खेदे वा, अहो बतास्माकम् ईदृशं भाग्यं नास्तीति भावः । अन्यैत् तैर् व्यञ्जितम् एव ।

अथवा वेणु-नादम् आकर्ण्य मूढा श्री-वृन्दावन-विषयक-जन्मादि-माहात्म्येन सर्वज्ञानां परम-विदग्धानाम् अपि विवेक-हीनतां प्राप्ता गतिः**,** बाह्यान्तरेन्द्रिय-वृत्तिः । किं वा, मूढानां जडानाम् इव गतिः स्थितिर् गमनम् एव वा, इतस् ततः स्खलनादि-लक्षणं स्तब्धता-लाक्षणं वा यासाम् । हरिण्यः सदा वनान्तश्-चारिण्यो\ऽपि प्रणयावलोकैर् विरचिताम् एव पूजां दधुः, काम-मोहिततया किञ्चिद् अन्यत् कर्तुं विवेक्तुं चाशक्ताः, केवलं सादरं पूजयन्त्य इव प्रेम्णा निरीक्षन्त्य इत्य् अर्थः । अस्मत्-सपत्न्यः ! अपि इत्य् अस्य कृष्णसारैर् अन्वयः, कृष्णसारा अपि सह एकदैव तथा चक्रुर् इत्य् अर्थः । कृष्ण एव सारः श्रेष्ठः परमोपादेयो येषाम् इति, श्लेषेण गोपा निन्दिताः, तेषां साक्षात् स्वच्छन्देनात्मनस् तादृश-श्री-कृष्ण-सेवा-चरण-शक्तेः । अन्यत् समानम् ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो अस्तुतरां हरि-प्रिय-सर्व-जीवाश्रयस्य श्री-वृन्दावनस्य माहात्म्यं तद् आश्रयिकाणां पशु-जातीनाम् अपि भाग्यं किं वर्ण्यताम् इत्य् आहुः--धन्या इति । मूढाः विवेक-हीना गतिर् ज्ञानं यासां, तथा-भूता अपि । "मतयः" इति पाठे तथैवार्थः । हरिण्यः इति वन-चारिण्योऽपि एता दृश्यमाना इव नन्दस्य श्री-वल्लवेन्द्रस्य नन्दनम् इति धात्व्-अर्थ-बलाद् अखिल-गुण-महिष्ठत्वं सूचितम् । एवं गुरोर् अपि तस्य नाम-ग्रहणम् अतिक्षोभ-वैवश्येन विक्षिप्त-मनस इत्य् उक्तत्वात् उपात्ताः स्वीकृताः विचित्र-वेषा वन-माला-बर्हा-पीड-गुञ्जावतंसादि-रूपा येन तम् । वेणु-विरुतम् इति रागत्वेन अपर्यवसितं प्रथम-फूत्कार-मात्रम् उक्तम् अनुकरण-शब्दो ह्य् अयं । "रणितम्" इति पाठोऽपि क्वचित् । अत्र टीका पुनर्-उक्ता स्यात् । कृष्ण एव सारः परमोपादेयो येषाम् इति श्लेषेण च स्व-पतयो निन्दिताः । पूजाम् इति तावत् तव सर्वोपचारण-पूर्णत्वं जातम् इति ध्वनितम् । अत एव दधुः पुपुषुः सर्व-पूजाभ्योऽधिकं चक्रुर् इत्य् अर्थः ।

अतः क्रियातोऽपि वैशिष्ट्यं विशेषेण रचितानि इति । तत्र सर्वत्र हेतुः--प्रणयावलोकैर् इति भाव-मात्र-ग्राहिणस् तस्य । तैर् एव पूजा-सम्पत्तः बहुत्वं परम्परा-विवक्षया । स्म इति विस्मये खेदे वा । अहो बत अस्माकम् ईदृशं भाग्यं नास्तीति भावः । अन्यत् तैः ।

अथवा, वेणो रिफितं यत्र तादृशं सन्तम् आकर्ण्य श्रवण-द्वारा ज्ञात्वा उपात्त-वेषं सन्तं प्रणयावलोकैर् दधुः वशीकृतवत्यः, तैर् एव प्रीति-सेवाम् अपि विदधुर् इत्य् अर्थः, अभावि भूमि-पतिभिः इत्य् आरभ्य, दधत् दशन-चुचुर् र-शब्दम् आवः इति माह-काव्यवत् संशृण्वान वदमानांस् तान् रावणस्य गुणान् जनान् इति भट्टि-काव्यवच् च श्रीमन्-नन्द-नन्दनस्य श्रवण-क्रिया-कर्मकत्वं ज्ञेयम् । अन्यत् समानम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उत्तरत्र श्री-नन्द-नन्दनम् इति तु गोपनाशक्तेः वेणो रणितं यत्र तथा-भूतम् आकर्ण्य श्रोत्र-विषयी-कृत्य विचित्र-वेषं सन्तं प्रणयावलोकैर् दधुर् वशीकृतवत्यः तैर् एव पूजां च दधुः कृतवत्यः ॥११॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रौढा ऊचुः—धन्या इत्य्-आदि द्वाभ्याम् । स्म इति विस्मये । हरिण्योऽपि मूढ-गतयः सत्यः प्रणयावलोकैर् या नन्द-नन्दनम् एताः प्राप्ताः सत्यः पूजां दधुः । कीदृशीम् ? विरचितां विशेषेण रचितां, प्रणयावलोकैर् विरचितां वा । किं कृत्वा? वेणु-रणितम् आकर्ण्य । तत्रापि पति-सहिता इत्य् आहुः—सह-कृष्णसाराः । अतो धन्याः । वयं तु वेणु-रणितम् आकर्ण्यापि प्रणयावलोकैः पूजयितुं न शक्नुमः । अस्माकं पतयो यतोऽस्य नाम्न्य् अपि कुप्यन्तीति तद् वयम् अधन्या एवेति मूढानाम् इदं दैन्यम् इति मन्तव्यम् ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो स्व-रमणं तम् अनभिसृत्य वयं बुद्धिमत्योऽपि स्व-जन्म विफली-कुर्महे, यतो मूढा अपि सफली-भवन्तीति दर्शयन्त्य आहुः—धन्या इति । स्म इति विस्मये खेदे वा । एतादृशं भाग्यम् अस्माकं नाभूद् इति भावः । या वेणु-रणितं वेणु-रिफितम् इति पाठ-द्वयं तुल्यार्थं वेणु-नादम् आकर्ण्य नन्द-नन्दनं प्रति प्रणय-पूर्वक्आवलोकैर् एव पूजां दधुः पुपुषुः । तासां तैर् अपि य आत्मनः पूजां पुष्टां मन्यते । स नन्द-नन्दनोऽस्माकं तैः पुनः किम् उतेति भावः । किं च, ताः सह-कृष्णसाराः पतिभिः सहिता एव । अयम् अर्थः—कृष्ण एव प्रीति-विषयत्वेन सारो येषां, ते यथार्थ-नामानस् तासां पतयः स्व-पत्नीः कृष्णानुरागिणीर् आलक्ष्य स्व-गार्हस्थ्यम् एव धन्यं मानयन्तोऽतिहृष्यन्तः, अन्व् अनुगच्छतस् ताः कृष्णम् अभिसारयन्ति । अस्मत्-पतयस् तु कृष्ण-गन्धायापि द्रुह्यन्ति । धिग् अस्मज्-जीवितम् इति ॥११॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सुमतयोऽपि वयं त्रपा-धर्म-भयात् कान्तम् अनभिसरन्त्यः स्व-जन्म विफलयामः, त्रपादि-हीनास् तु मूढ-मतयोऽपि जन्म सफलयन्तीत्य् अस्याः प्राहुः--धन्या इति । स्म इति विस्मये खेदे च । एता हरिण्यो मूढ-मतयोऽपि धन्या बचन्ते, या वेणु-रणितम् आकर्ण्य नन्द-नन्दनं प्रति प्रणय-पूर्वकैर् अवलोकनैर् विरचितां पूजाम् अधुः पुपुषुः । तासाम् अवलोकैर् एवं स स्व-पूजां पुष्टां मन्यते, किं पुनर् अस्माकं तैर् इति भावः । किं च, ताः कृष्णसारैः स्व-पतिभिः सहिताः पूजाम् अधुर् इति तासां धन्यत्वं, अस्माकं तु एवं-भावाभावाद् वयम् अधन्या इति भावः ॥११॥


॥ १०.२१.१२ ॥

कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं7

श्रुत्वा च तत्-क्वणित-वेणु-विचित्र8-गीतम् ।

देव्यो विमान-गतयः स्मर-नुन्न-सारा

भ्रश्यत् प्रसून-कवरा मुमुहुर् विनीव्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्या ऊचुः—हे गोप्यः, आश्चर्यं शृणुत । वनितानाम् उत्सवो यस्मात्, तद् रूपं शीलं च यस्य, तं कृष्णं निरीक्ष्य, तेन वादित-वेणोर् असङ्कीर्णं गीतंश्रुत्वा, विमानैर् गच्छन्त्यो देव्यो देवानाम् अङ्केषु स्थिता अपि स्मरेण नुन्न-साराः परिक्षिप्त-धैर्या मुमुहुः । मोहे लिङ्गम् आहुः—भ्रश्यत्-प्रसूनाः कवराश् चूडा यासां ताः । विगता नीव्यो यासां, ताः । अत्र सर्वत्र वक्तृ-भेदान् नातीव सङ्गतिर् वक्तव्या ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्याः कामिन्यः । असङ्कीर्णं पृथक् पृथक् परिज्ञात-श्री-भैरवादि-स्वरम् । परिक्षिप्तं च्युतं धैर्यं मनो-धारण-सामर्थ्यं यासां ताःभ्रस्यन्ति च्यवन्ति प्रसूनानि कुसुमानि याभ्यः, तास् तथा । प्रसूनं कुसुमं समम् इत्य् अमरः । प्रसूनं तु प्रसूते फल-पुष्पयोः इति हैमः । नीवी वस्त्रांशुक-ग्रन्थ्योः इति यादवः । नीव्यः कटि-बन्ध-ग्रन्थ्यः । मुहुहुः विचित्ता बभूवुः । मोट्टायितम् इदं तद् उक्तम्—

कान्त-स्मरण-वार्तादौ हृदि तद्-भाव-भावतः ।

प्राकट्यम् अभिलाषस्य मोट्टायितम् इदं स्मृतम् ॥ [उ।नी। ११.४७] इति ।

अत्र एषु । सर्वत्र सर्वे\ऽत्र श्लोकेषु । नातिशयेन सङ्गतिः प्रसङ्गादि-रूपाः ॥१२॥


कैवल्य-दीपिका : कृष्णम् इति । वनितानाम् अनुराग-जनन-समर्थानां स्त्रीणाम् उत्सवो याभ्यां ते रूप-शीले स्वरूपाचरणं यस्य तम् । तेन श्री-कृष्णेन क्वणितस्य वादितस्य वेणोर् विविक्तम् असङ्कीर्ण-रागं गीतम्देव्यो देव-स्त्रियः । स्मरेण नुन्नः प्रेषितः सारो धैर्यं यासां ताः । भ्रश्यत्-प्रसूनानि कवराणि केश-पाशा यासां तास् तथा । विनीव्यो विस्रस्त-वस्त्राः । मुहुर् मुहुर् मोहाख्यां स्मर-दशाम् ईयुः ॥१२॥ [मु।फ। १२.६]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे सखि ! सन्तु हरिण्यः, उपरि देव्यो\ऽपि धन्याः, न पुनर् वयम् इत्य् आहुः—कृष्णम् इत्य्-आदि । वनिता जनितात्यर्थानुरागायां च योषितः इत्य् अमरः । तासाम् उत्सववत् रूपं शीलं च यस्य, तं निरीक्ष्य, तत्-क्वणित-वेणु-विविक्त-गीतंश्रुत्वा, विविक्तं रागान्तरेणामिश्रितं विरलं वा, विविक्तं सङ्केत-बहुलं तद् अस्माद् आभिर् एव बुध्यते, नान्यैर् इति वा । विमान-गतय इति स-भर्तृकत्वं व्यज्यते, भर्तृ-समीपे\ऽपि स्मर-नुन्न-साराः, तल्-लिङ्गम् आह—भ्रश्यन्ति प्रसूनानि येभ्यस् तथा-विधाः कवरा यासां । विनीव्यश्मुमुहुः । तथापि तत्-पतयस् ताभ्यो नाभ्यसूयन्ति, वयं तु स्व-निमित्तक-विविक्त-वेणु-गीतं श्रुत्वापि पति-भिया न शृणुम इत्य् अहो नः पतिवत्त्वम् इति दैन्य-ग्लानी ॥१२॥


कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं9

श्रुत्वा च तत्-क्वणित-वेणु-विचित्र10-गीतम् ।

देव्यो विमान-गतयः स्मर-नुन्न-सारा

भ्रश्यत् प्रसून-कवरा मुमुहुर् विनीव्यः ॥१२३३२१

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो आस्तां श्री-वृन्दावन-वर्तिनीनां गो-सङ्गत्या श्री-कृष्णान्तिके चरन्तीनां तासां माहात्म्यम्, खेचरीणाम् अपि भाग्यं किं वर्ण्यम् ? इत्य् आहुः—कृष्णम् इति चित्ताकर्षकम्, वनिता विदग्धाः सर्वा वा स्त्री-जातयः । शीलं विचित्र-क्रीडादि-पर-स्वभावः । "वेषम्" इति क्वचित् पाठः । तेन क्वणितस्य वादितस्य वेणोर् विविक्तं शुद्धं मनोज्ञं वा । किं वा, शृङ्गारादि-रस-लब्ध-विभागं गीतम् । विमान-गतय इति स्व-पति-साहित्यम्, वैमानिकत्वेन अकस्माद् आगमनं श्री-कृष्ण-सङ्गमायोग्यत्वं चोक्तम्, तथापि काम-हत-धैर्याः सत्यो मुमुहुः । अत्र रूपादेर् निरीक्षणोक्तिः, ताभिस् तस्यादृष्टत्वात्, अत एव तद्-दर्शनेन विशेषतो वेणु-गीत-श्रवणेन च तादृश-मोहो युक्त एव । किं वा, यदा यदा रूपाद्य्-अनुभवः, तदा तदैव मोह इति । अन्यत्र च व्यक्तया तद्-अनुक्तिः, श्री-वृन्दावन-वर्तिनां महा-भागानां तेषां स्वतस् तत्-सिद्धेः । मोहेनैव विमानतो\ऽवतीर्य श्री-कृष्णान्तिकम् आगन्तुं न शक्ता इति भावः । अहो बत सुर-सुन्दरीणाम् अपि सम्मोहनस्य एवं-भूतस्य सर्व-सौभाग्यामृत-सिन्धोर् अस्य दर्शनम् अप्य् अनाप्नुवतीर् अस्मान् धिग् इति । किं वा, वन-विहारिणस् तस्य तथा दर्शनाद्य्-अभाव-द्वयम् अधन्या एव, तास् तु धन्या इति भावः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो आस्तां श्री-वृन्दावन-वर्तिनीनां श्री-कृष्णान्तिके चरन्तीनाम् आसाम् माहात्म्यं, खेचरीणाम् अपि भाग्यं किं वर्ण्यम् ? इत्य् आहुः--कृष्णम् इति चित्ताकर्षकम् । वनिताः तद्-अनुराग-योग्याः स्त्री-जातयः । शीलं सुस्वभावः । तेन क्वणितस्य विविक्तं प्रतिकूल-रागा-मिश्रणेन शुद्धं । किं वा, शृङ्गारादि-रस-लब्ध-विभागं गीतम् । विमान-गतय इति स्व-पति-साहित्यं वैमानिकत्वेन अकस्माद् आगमनं श्री-कृष्ण-सङ्गमायोग्यत्वं चोक्तम् । तथापि काम-हत-धैर्याः सत्यो मुमुहुः । अत्र रूपादेर् निरीक्षणोक्तिः ताभिस् तस्या दृष्ट-चरत्वात्, अत एव तद्-दर्शनेन विशेषतो वेणु-गीत-श्रवणेन च तादृश-मोहो युक्त एव । किं वा, यदा यदैव रूपाद्य्-अनुभवः, तदा तदैव मोह इति । निरीक्स्य श्रुत्वा इति द्वयोर् अपि मोहे कारणत्वम् उक्त्वा, तयोर् वैपरीत्यम् अपि जन्मनि मतम्। यदैव खलु क्रम-प्राप्तं भवतीति मोहेनैव विमानतोऽवतीर्य श्री-कृष्णान्तिकम् अपि गन्तुं न शक्ता इति भावः ।

मोट्टायिताख्यानुभावो\ऽयं, यथोक्तम्—

कान्त-स्मरण-वार्तादौ हृदि तद्-भाव-भावतः ।

प्राकट्यम् अभिलासास्य मोट्टायितम् इतीर्यते ॥ [उ।नी। ११.४७] इति ।

अहो बत परम-मूढानां हरिणीनां परम-विदग्धानां सुर-सुन्दरीणाम् अपि सम्मोहनस्यैवं-भूतस्य सर्व-सौभाग्यामृत-सिन्धोर् अस्य दर्शनम् अप्य् अनाप्नुवतीर् अस्मान् धिग् इति । किं वा, वन-विहारिणः तस्य तत्र तथा दर्शनाद्य्-अभावाद् वयम् अधन्या इति भावः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तथैव ऊढ-प्रौढा ऊचुः—कृष्णं निरीक्ष्य इत्य्-आदि । हे सख्यः ! इति बोद्धव्यम् । सन्तु हरिण्यः, देवीनाम् अपि वैवश्यं पश्यतेत्य् आशयः । विमान-गतय इत्य् अनेन भर्तृ-सहितत्वं द्योत्यते । स्त्रीणां स्वातन्त्र्येणापि विमान-करणकागमनासम्भवात् । तेन देव्योऽपि प्रकृष्ट-ज्ञानादिमत्योऽपि कृष्णं निरीक्ष्य मुमुहुः । मोहे लिङ्गम् आह--विनीव्यो भ्रश्यत्-प्रसूनाः कवराद् यासाम् । दूरस्थानां तासां वनस्थत्वेनास्य कदाचित् कासाञ्चन दर्शनं न सङ्गच्छते, तद् आशङ्क्याहुः—श्रुत्वा इति । या न पश्यन्ति, ता वेणु-रवं श्रुत्वैव मुह्यन्तीत्य् अर्थः । स्वरूपम् आह—स्मर-नुन्न-साराः, स्मरेण नुन्नः क्षिप्तः सारो धैर्यं यासाम् ।

कृष्णं कीदृशम् ? वनितोत्सव-रूप-शीलम्, वनिता जनितात्यर्थानुरागायां च योषिति, तासाम् उत्सववत् रूपंशीलं च यस्य । विविक्त-गीतम् इति विविक्तं रागान्तरेणामिश्रितं विरलं वा। स्व-कल्पितत्वात् सङ्केत-बहुलं वा । यत् सर्वैर् नावगम्यते, अस्माभिर् एव ज्ञायत इति भावः । एवं-विध-वैवश्येऽप्य् आसां पतयो नाभ्यसूयन्ति । अस्माकं निःश्वसितेऽप्य् असूयन्ति पतयः । अतो वेणु-विविक्त-गीतं श्रुत्वापि न शृणुम इत्य् अहो नः काठिन्यं पामरता चेति पूर्ववद् दैन्यम् ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, अस्माकं गोपीनां गोपे कृष्णे रतिर् नातीवानुचिता । यतो देव्योऽपि मानुषे, तत्रापि गोपे, कृष्णे रतिमत्यः सत्य एव स्व-देवत्वम् अपि सफलयन्तीत्य् आश्चर्यम् इत्य् आहुः—कृष्णम् इति । वनितानां स्त्री-मात्राणाम् एवानुरागिणीनाम् उत्सवो यस्मात्, तथा-भूतं रूपं शीलं च यस्य, तं देव्यो देवानां अङ्के स्थिता अपि विमान-गतयो विमान-चारिण्यः स्मरेण नुन्नश् चालितः सारो धैर्यं यासां, ता मुमुहुः । मोहे लिङ्गम् आहुः—भ्रश्यत्-प्रसूनाः यासां ताः । विगता नीव्योऽपि यासां ताः

मोट्टायितम् इदम् । यद् उक्तम्—

कान्त-स्मरण-वार्तादौ हृदि तद्-भाव-भावतः ।

प्राकट्यम् अभिलाषस्य मोट्टायितम् उदीर्यते ॥ [उ।नी। ११.४७] इति ।

परम-विदग्धाः सूक्ष्म-धियो देवास् तज् ज्ञात्वापि स्त्रीभ्यो न द्रुह्यन्ति, प्रत्युत स्वीयं भाग्यं मानयन्तो नित्यम् एव ताः कृष्णं दर्शयितुं विमानम् आरोप्य आनयन्ति । अस्मत्-पतयस् तु द्रुह्यन्त्य् एवेत्य् अतो निकृष्टा मृग्य उत्कृष्टा, देव्योऽपि धन्या, मध्यस्था मानुष्य एव वयम् अधन्या इति भावः ॥१२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : पराः काश्चिद् आहुः--कृष्णम् इति । विमान-गतयो देव-यानैर् नभसि चरन्त्यो देवानाम् अङ्केषु स्थिता इत्य् अर्थः । देव्यः कृष्णं निरीक्ष्य, तेन क्वणितस्य वादितस्य वेणोर् विविक्तम् अमिश्रं गीतं च श्रुत्वा, स्मरेण नुन्नश् चालितः सारो धैर्यं यासां, तादृश्यः सत्यो मुमुहुः । कीदृशं कृष्णं ? वनितानां जातानुरागाणां योषिताम् उत्सवो यस्मात्, तादृशं रूपं शीलं च यस्य तम् । मोहे लिङ्गम् आहुः--भ्रश्यत् प्रसूनाः कवराः केश-वेशाः यासां, विगता नीव्योऽपि यासां ता इति । "विजातीया देव्योऽपि चेत् तत्-पतिभिर् अनिवार्यमाणाः कृष्णे अनुरज्यन्ति, तर्हि तत्-सजातीया वयं कुतो नानुरज्याम ?" इत्य् उत्साहो व्यज्यते ॥१२॥


॥ १०.२१.१३ ॥

गावश् च कृष्ण-मुख-निर्गत-वेणु-गीत-

पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः ।

शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुर्

गोविन्दम् आत्मनि दृशाश्रु-कलाः स्पृशन्त्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षरण-शङ्कयैव उत्तभितैर् उन्नमितैः कर्ण-पुताइः पिबन्त्यः सत्यः । तथा शावाश् च वत्साश् च स्तन-पाने प्रवृत्ताः समनतरम् एव गीतं श्रुत्वा तद् एव पीयूषम् उत्तम्भित-कर्ण-पुटैः पिबन्तः स्नुत-स्तन-पयः-कवलाः केवलं स्तनेभ्यः क्षरित-क्षीर-ग्रासा मुखेषु येषां, ते तस्थुर् विस्मृत-क्रिया बभूवुर् इत्य् अर्थः । तत्र हेतुः—गोविन्दं दृशा मार्गेण आत्मनि मनसि स्पृशन्त्य आलिङ्गन्त्यः, अत एव अश्रूणांन् कला लेषा लोचनेषु यासां, ता गावस् ते च शावाः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एव गीतम् एव । पीयूषम् अमृतम् । इत्य् अर्थ इति । बालवत्सानाम् अपि महानन्दो भवति किम् उत विशेष-विदाम् इति भावः । तत्र क्रिया-विस्मृतौ । अत एव मनसालिङ्गनाद् एव ॥१३॥


कैवल्य-दीपिका : प्राय इति । प्राय उत्प्रेक्षायाम् । बत अहो । ये मुनयस् ते विहगत्वम् आपन्ना इवेत्य् अर्थः । कृष्णेन ईक्षितं गीतं शास्त्रस्य मध्ये स्व-प्रज्ञया कृष्णेनैव दृष्टम् इत्य् अर्थः । तेनैवोक्तं च यत् कलं मधुरं वेणु-गीतम्भुजाः शाखाः । विगता अन्येषां वाचो येभ्यः । वेणु-गीतं विना अन्य-वाचां श्रवणं नास्तीत्य् अर्थः ॥१३॥ [मु।फ। १२.७]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मध्या ऊचुः—गावश् चेति । गावस् तद्-वत्साश् च कृष्ण-मुख-निर्गत-वेणु-पीयूषं पिबन्त्यः पिबन्तश् च दृशा आत्मनि स्पृशन्त्यः स्पृशन्तश् च तस्थुः, निष्पन्दा एव बभूवुः । वयं तु पशुभ्योऽप्य् अधमाः यतस् तत् पिबन्त्योऽपि गेहाद्य् अपि न विस्मराम इति दैन्यम् ॥१३॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.११७] अथ ततोऽप्य् अधिकतरं साक्षाच् छ्री-गोपाल-देवेन पाल्यमानानां गवां माहात्म्यं पूर्ववद् अन्या गोप्य आहुः—गावश् च [भा।पु। १०.२१.१३] इति । -कारस् तु-शब्दार्थः, पूर्वापेक्षया वैशिष्ट्यं प्रतिपादयति । पीयुष-शब्देन मुखस्य चन्द्रता ध्वन्यते । कृष्ण-मुख-चन्द्रतो निर्गतं निःसृतं वेणु-गीत-रूपं पीयूषं गावः क्षरण-शङ्कयैव उत्तम्भितैर् उन्नमितैः कर्ण-पुटैः श्रोत्राञ्जलिभिः पिबन्त्यः परम-मनोहरं कृष्ण-वेणु-गीतं सावधानं प्रीत्या शृण्वन्त्यः शावाः शव-तुल्याः सत्यः ई-प्रत्ययाभाव आर्षः । यद् वा, शावा बाला अपि तस्थुः केवलं विस्मृताशेष-व्यापारतया स्थाणुवन् निश्चलतया\ऽतिष्ठन्न् इत्य् अर्थः । ततः कृष्णे स्नेहातिशयोदयेन स्तनेभ्यः स्नुतानि क्षरितानि पयांसि कवलानि च मूखेभ्यो यासां ताः । स्नुतं स्तनेति विपरीत-पाठे\ऽपि स एवार्थः । शाव-स्नुतेति समस्त-पाठे शावेषु वत्सेषु सङ्गतेषु वत्सतरेषु । किं वा, अभिनव-जातेषु कथञ्चिन् मिलितेषु न स्नुतः स्तन-पयो-रूपः कवलो वत्स-भक्ष्य-ग्रासो याभ्यः, तथा-भूताश् च तस्थुर् इति ।

परम-प्रेमाविर्भावे हेत्व्-अन्तरम् आहुः—गोविन्दं दृशा लोचन-मार्गेण आत्मनि मनसि स्पृशन्त्यः आलिङ्गन्त्यः । अत एव अश्रूणां कला बिन्दवो लोचनेषु यासां, ताः ।

यद् वा, अश्रूणि कलयन्ति लोचनेभ्यो वर्षन्तीति अश्रु-कलाः, कलि-वली कामधेनू इति प्रसिद्धेः । “सृजन्त्य” इति पाठे अश्रु-कला मुञ्चन्त्यः, तदा च गोविन्दम् आत्मनि कुर्वाणा इति शेषः । यद् वा, शावाश् च मातॄणां स्तन-पाने प्रवृत्ता वत्सतरा बाल-वत्सा वा तदानीम् एव वेणु-गीतं श्रुत्वा, तद् एव पीयूषवद् उत्तम्भित-कर्ण-पुटैः पिबन्तः मातृ-स्तनेभ्यः स्नुताः क्षीर-ग्रासा मुखेषु येषां ते तथा-भूताः तस्थुः । अन्यत् पूर्ववद् अत्राप्य् ऊह्यम् ।

पिबन्त इतिवत् स्पृशन्त इति लिङ्ग-व्यत्यये बोद्धव्यम् । भोः सख्यः ! गावो\ऽप्य् एवम्भूताश् चेत् तदा मानुषीणां गोपीनां तद्-एक-प्राणानाम् अस्माकम् अस्मद्-अपत्यानां च तत्-प्रेम-वैवश्यम् उचितम् एवेति तात्पर्यम् ॥१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथान्यस्या गोप्या वाक्यम् आह—गाव इति चतुर्भिः । यद् वा, पूर्व-लिखितानुसारेणैव वाक्यतया व्याख्या, तत्र सर्व-श्लोकेष्व् एषु पूर्व-पूर्वस्मिन् वर्णितात् पदार्थाद् उत्तरोत्तरस्मिन् वर्ण्यस्य न्यूनत्वं कथ्यते । अतो यद्यपि देवीभ्यः परमार्थतो वा न्यूनत्वं न सम्भवेत्, तथापि प्रेमोल्लासस्य विचित्र-गतित्वात्, क्वापि किञ्चिद् विशेषम् आश्रित्य तत्-पदं करोति, तथाप्य् अस्तु तावत् परम-विदग्धानां देवीनां भाग्यम् । पशु-जातीनां मनुष्याधीनानाम् अपि गवादीनां किं भाग्यं वर्ण्यम् इत्य् आहुः—गावश् चेति । त्व्-अर्थ च-कारः । पूर्वतो वैशिष्ट्याय पीयूष-रूपकेण मुखस्य चन्द्रत्वम् अतिकोटि-चन्द्रताव्यञ्जकेन कृष्ण-मुख-शब्देन पीयूषस्य वैशिष्ट्यं सूच्यते । कृष्णः परमानन्द-घन-मूर्तिः, अतस् तस्य मुख-चन्द्रान् निर्गतं वेणु-गीतम् एव पीयूषम् । स्मेति विस्मये निश्चये वा । तस्थुः स्तब्धता-लक्षणं सात्त्विक-विकारं प्राप्ता इत्य् अर्थः । गोविन्दं निज-प्रभुम् इति प्रीत्या स्पर्शनं बोधयति । अन्यत् तैर् व्याख्यातम्।

यद् वा, शावेषु कथञ्चिन् मिलितेष्व् ऐ न स्तनेभ्यः स्नुतोऽस्तन-स्नुतः पयसः कवल एक-ग्रासोऽपि याभ्यस् ताः । पाठोऽयं तेषाम् अपि सम्मतो लक्ष्यते । वैपरीत्य-पाठे सविसर्ग-पृथक्-पदत्वे च शावाः स्नुतं भगवति जात-वात्सल्य-भरेण क्षरितं स्तनेभ्यः पयः कवलश् च मुखात् तृण-ग्रासो यासां ताः । शावा वत्सा इति । पक्षे, स्नुतं केषाञ्चिद् अपि नवानां मुखात् क्षरितं स्तन-पयो मातृ-स्तन-क्षीरं कवलश् च, केषाञ्चित् तृण-चराणां तृण-ग्रासो येषां ते । आत्मनि मनसि गोविन्दं स्पृशन्त्यः साक्षात् सम्यग्-दर्शनाशक्तेः । तत्र हेतुम् आहुः—दृशा नेत्रेण अश्रूणि कलयन्ति वर्षण्तीति । तथा ताः अश्रु-धारया दृष्ट्याच्छादनात् मनसैव पश्यन्त इत्य् अर्थः ।

यद् वा, गोविन्दं लेहनादिना स्पृशन्त्यस् तस्थुः । कथम्-भूतम् ? आत्मनीति जाताव् एकत्वम् । गोषु विषये दृशा लक्षितं गवां तादृश-भाव-दृष्ट्या ता निरीक्षमाणम् इत्य् अर्थः । अन्यत् समानम् । अतस् तत्-स्पर्शनाद्य्-अभावेन वयम् अधन्या एवेति भावः । हरिणीनां देवीनां च तद्-रूप-दर्शन-वेणु-श्रवणे उक्ते, गवां च वेणु-गीत-श्रवण-मात्रेणैव तादृश-भाव इति ताभ्यस् ताभ्यश् चाविशेषः । अत एव च-काऋअः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथान्यस्या गोष्ठ्या वाक्यम् आह—गाव इति त्रिभिः । तत्र प्रथमतो निज-भाव-विरोधि-मातृ-भावादीनां गवां वर्णनं पूर्ववद् अवहित्थार्थं प्रीति-सामान्यांशे विरोधाभावाद् विवक्षितोपयोगार्थं च । अप्य्-अर्थे च-कारः । लोके सारासार-विवेक-हीनत्वेन ख्याता गावोऽपि पीयूष-रूपकेण मुखस्य चन्द्रत्वम् अतिकोटि-चन्द्रताव्यञ्जकेन कृष्ण-मुख-शब्देन पीयूषस्य वैशिष्ट्यं सूच्यते कृष्णः खलु परमानन्द-घन-मूर्तिर् उच्यते । स्मेति विस्मये । तस्थुः स्तब्धता-लक्षणं सात्त्विक-विकारं प्राप्ता इत्य् अर्थः ।

गोविन्दं निज-प्रभुम् इति प्रीत्या स्पर्शनं बोधयति । अन्यत् तैः। तद्-असम्मते स्नुत-स्तन-पय इति पाठे स्नुतं केषांचिद् अभिनवानां मुखात् क्षरितं स्तन-पयः मातृ-स्तन-क्षीरं केषाञ्चित् तृण-चराणां पूरित-कण्ठाद्य्-अश्रूणाम्, अत एव सद्रवतया क्षरितः कवलश् च तृण-ग्रासो येषां ते । यद् वा, आत्मनि मनसि गोविन्दं स्पृशन्त्यः अर्पयन्त्यः पश्चात् सम्यक् दर्शनाशक्तेः । तत्र हेतुम् आह—दृशा नेत्रेण अश्रूणि कलयन्ति वर्षण्तीति । तथा ताः अश्रु-धारया दृष्ट्याच्छादनात् मनसैव पश्यन्त इत्य् अर्थः । अतस् तद्-दर्शन-मात्राभावेन वयम् अधन्या एवेति भावः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गाव इत्य्-आदि-त्रयं गोष्ठान्तरस्य ॥१३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! देव्यः सुवैदग्ध्य-वशाद् एवं भवितुम् अर्हत्य् एव । न केवलम् अस्य स्त्रीणाम् एव मोह-करो वेणु-रवः । अपि तु प्राणि-मात्रस्यैवेत्य् अपरा आहुः—गावश् चेत्य्-आदि । उत्तभितैर् उत्तम्भितैः कर्ण-पुटैः पिबन्त्य इति शत्र्-अन्त-निर्देशेनातृप्तत्वम् । तस्थुर् इति निवृत्त-गतयो बभूवुर् इति ध्वनितम् । कीदृश्यः ? गोविन्दम् आत्मनि स्पृशन्त्यो दृष्ट्या दृष्टि-रन्ध्रेनात्मनि कृत्वा । न केवलं गावः, शावा अपि सद्यो-जाता वत्सा अपि, वस्तुतो वेणु-रवेणैव पयः प्रस्नुतम्, न तु वत्स-वात्सल्येन—अनन्य-मनस्त्वात् । तत्र स्नुते पयसि कवल एव येषाम् अभ्यास-वशान् मुख-सम्पर्क एव, न तु पानम् । अश्रुभिः कला शोभा यासां येषां चेत्य् उभय-विशेषणम् । तद् आसां पशुत्वेऽपि स्वदेह-विस्मृतिः, न त्व् अस्माकं गेहस्यापि । अहो नः प्रेम । तस् अस्मान् धिग् इति पूर्ववद् दैन्यम् ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च स्त्री-जातीनां सर्वासाम् एतत् काम-विजृम्भितम् एवैतन्-मोहनम् इति वाच्यं, यतो वत्सलानां गवाम् अपि मोहनं पश्यतेत्य् आहुः—गावश् चेति । क्षरण-शङ्कयैवोत्तभितैर् उन्नमितैः कर्ण-पुटैः पिबन्त्य एव तस्थुः, न च तत्रापि वात्सल्य-भाव एव तस्थुः । शावा वत्साः स्तन-पाने प्रवृत्ताः समनतरम् एव गीतं श्रुत्वा तद् एव पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्तः स्तन-पानासामर्थ्यात् स्तनेभ्यः स्नुतानां पयसां कवल एव मुखेन तु निगिलनं येषां ते तस्थुः, जाड्योदयेन स्तब्धा बभूवुर् इत्य् अर्थः । ततश् च तन्-मातरो गोविन्दं दृशा दृष्ट्वैवाकृष्यानीय नेत्र-रन्ध्र-द्वारेणैवान्तः प्रवेश्य आत्मनि स्वमनसि स्पृशन्त्यः स्व-मनसः क्रोडे एव वात्सल्यात् स्थापयन्त्यस् तस्थुः । तथा अश्रूण्य् आनन्दात् कलयन्ति धारयन्तीति ताः । एवं च सर्व-प्राणिनां कृष्णे निरुपाधिर् एव प्रेमा, किन्तु ते संयोगात् धन्याः । वयं तु विच्छेदाद् अधन्या एवेत्य् एतावान् एव विशेष इति भावः ॥१३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न च काम-हेतुके एवआयम् अनुरागः, किन्तु स्वरूप-हेतुक एवेति पराः काश्चन आहुः—गावश् चेति । कृष्ण-मुखाच् चन्द्रान् निर्गतं वेणु-गीत-पीयूषम् क्षरण-शङ्कयोत्तभितैर् उन्नमितैः कर्ण-पुटैः पिबन्त्यो जाड्योदयेन स्तन-पानासामर्थ्यात् स्तन-स्नुत-पयः-कवलाः स्तनेभ्यः स्नुतानां पयसां कवलो मुखेषु येषां तादृशास् तस्थुः । गावः कीदृश्यः ? गोविन्दं दृष्ट्वानीय आत्मनि मनसि स्पृशन्त्योऽश्रु-कला मुमुचुर् एवं शावाश् च तथा च सर्वेषां प्राणिनां कृष्णे प्रेमा तत्-स्वरूप-हेतुक एव तथास्माकं च, किन्तु तत्-संयोगात् ते धन्या वयं तु तद्-विच्छेदाद् अधन्या इति भावः ॥१३॥


॥ १०.२१.१४ ॥

प्रायो बताम्ब मुनयो विहगा वनेऽस्मिन्

कृष्णेक्षितं तद्-उदितं कल-वेणु-गीतम् ।

आरुह्य ये द्रुम-भुजान् रुचिर-प्रबालान्

शृण्वन्ति मीलित-दृशो विगतान्य-वाचः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भो अम्ब ! मातर् ! अस्मिन् वने ये विहगाः पक्षिणस् ते प्रायेण मुनयो भवितुम् अर्हन्ति । कुतः ? कृष्णेक्षितं कृष्ण-दर्शनं पुष्प-फलाद्य्-अन्तरं विना यथा भवति। तथा रुचिराः प्रवाला येषां, तान् द्रुम-भुजान् वृक्षाणां शाखा आरुह्य, तेन श्री-कृष्णेन उदितं प्रकटितं कल-वेणु-गीतं केनापि सुखेन अमीलित-दृशस् त्यक्तान्य-वाचश् च सन्तो ये शृण्वन्तीति ।

तथा हि—मुनयः श्री-कृष्ण-दर्शनं यथा भवति तथा वेदोक्त-कर्म-फल-परित्यागेन वेद-द्रुम-शाखारूढा रुचिर-प्रवाल-स्थणीयानि कर्माण्य् एवोपाददानाः सुखिनः सन्तः श्री-कृष्ण-गीतम् एव शृण्वन्ति । अतस् त एवैते भवितुम् अर्हन्तीति भावः ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काचित् किञ्चिद् योगज्ञा स्व-मातरं वदति । यद् वा, अम्बेति सखीं प्रति सम्बुद्धिः । भावाविष्ट-प्रमदा-स्वभावत्वात् । हेतुं शङ्कते—कुत इति । केनापि वक्तुम् अशक्येनेत्य् अर्थः । उपाददानाः स्वीकुर्वाणाः । यतः श्री-कृष्ण-गीतं शृण्वन्ति अतो हेतोः । जन्मान्तराभास-वशाद् इत्य् अर्थः । त एव मुनय एव एते पक्षिणः । इति भाव इति । न हि जन्मान्तराभ्यासं विना भगवद्-गीत-श्रवणे प्रवृत्तिर् भवति । पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशोऽपि सः इति गीता-सूक्तेः ॥१४॥


कैवल्य-दीपिका : प्राय इति । प्राय उत्प्रेक्षायाम् । बत अहो । ये मुनयस् ते विहगत्वम् आपन्ना इवेत्य् अर्थः । कृष्णेन ईक्षितं गीतं शास्त्रस्य मध्ये स्व-प्रज्ञया कृष्णेनैव दृष्टम् इत्य् अर्थः । तेनैवोक्तं च यत् कलं मधुरं वेणु-गीतम्भुजाः शाखाः । विगता अन्येषां वाचो येभ्यः । वेणु-गीतं विना अन्य-वाचां श्रवणं नास्तीत्य् अर्थः ॥१४॥ [मु।फ। १२.८]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मुग्धा ऊचुः—प्रायो बतेत्य्-आदि । बत खेदे । अस्माभिर् एव भवितुं न शक्यत इति खेदः । अस्मिन् वने विहगाः प्रायो मुनयः । यतः कृष्णेक्षितं यथा भवति, तथा स्थितेः कृष्णेन कृष्णे वा दृश्यन्ते । तथा द्रुम-भुजान् आरुह्यासनं कृत्वा मीलित-दृश आनन्दातिशयेन चमत्कारातिशयात् मध्ये मध्ये कृष्ण कृष्णेति मात्रं वदन्ति अन्यदा तु मौनेन एव । अतो मुनयः । आसन-ध्यान-मौनादयो हि मुनि-धर्मः । कदा वयम् एवं भविष्याम इत्य् अभिलाष-स्मय-विषादानां शावल्यम् ॥१४॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृहद्-भागवतामृत २.७.११५] अथ तेभ्यो\ऽपि विशिष्टं भगवच्-छत्रायमाण-वृक्षादि-चारिणां पक्षिणां माहात्म्यं पूर्ववद् वेणु-नाद-श्रवण-मोहिताः काश्चिद् गोप्यो\ऽवदन्—प्रायो बताम्बेति [भा।पु। १०.२१.१४] परम-मोहेन धैर्य-हान्या श्री-यशोदाम् एव काञ्चिद् अन्यां वा निज-सखीम् एव सम्बोधयति—हे अम्बेति ।

बतेति हर्षे । अस्मिन् वने श्री-वृन्दावनाख्ये ये विहगाः, ते सर्वे\ऽपि मुनयो भगवद्-धर्म-पराः परमर्षय एव ज्ञायन्ताम् प्रायो बाहुल्ये तेन च मुनिभ्यो\ऽपि श्रेष्ठाः । केचिद् इति पूर्वोक्तवद् बोद्धव्यम् क्वचित् प्रायेण ते इति पाठः । अर्थः स एव ।

तन्-मुनित्वे हेतुः—तद् अनिर्वचनीयम् उदितम् आविर्भूतं कल-वेणु-गीतं मधुरास्फुट-ध्वनिर् वेणोर् गीतं श्री-वृन्दावन-गो-गोप-गोपी-गण-गाथादि-रूपं ये शृण्वन्ति । कथम्भूतम् ? कृष्णेन ईक्षितं दृष्टं स्वयम् एवोत्प्रेक्षितं पूर्वं तादृशाभावात् । यद् वा, कृष्णेक्षितं कृष्ण-कर्तृकं स्व-विषयकं स्व-कर्तृक-कृष्ण-विषयकं वा दर्शनं यथा स्यात्, तथा । द्रुमाणां भुजान् आरुह्य कृष्णस्य आत्मनश् चान्तराले पत्र-पल्लवादिकं दर्शन-व्यवधायकं यत्र न वर्तते च, पत्र-पुष्प-फल-भक्षणादि-स्व-स्व-व्यापार-परिहारादि-प्रकारेण तद्-दर्शनं सम्पद्यते । तद् यथा वृक्षाणां शाखा अधिरूढाः सन्त इत्य् अर्थः । तेन श्री-कृष्णेन उदितं प्रकटितम् ।

किं वा, स कृष्ण उदितो भवति, यस्मात् वृक्ष-लताद्य्-आवृतस्यापि तस्य विज्ञापकम् इत्य् अर्थः । रुचिराः प्रवाला नव-पल्लवानि येषां, तान् अपीति दर्शन-व्यवधान-सम्भवे सुख-भोग-सम्पत्तौ च हेतुः । ततश् च केनाप्य् अनिर्वचनीयेनानन्देन मीलित-दृशस् तथा त्यक्त-कृष्ण-कृष्णेति-व्यतिरिक्तान्य-वाचश् च ये बचन्ते श्री-कृष्ण-परा हि मुनयः श्री-कृष्ण-दर्शनं यथा स्यात्, तथा रुचिर-प्रवाल-स्थानीय-विचित्र-सत्-कर्म-प्रकाशक-वेद-द्रुम-शाखारूढाः, यैर् वेदैर् येन च प्रकारेण श्री-कृष्ण-साक्षात्कारो भवति, तान् एवाधीयमानास् तेनैव सर्व-कर्म-फलार्पणादिना प्रकारेण वेदोक्त-कर्माणि स्वीकुर्वन्तः । किं वा, वेदान् अधीयाना अपि तद्-अर्थान् अभिमृशन्तो\ऽपि तद्-उक्त-कर्माण्य् आरम्भतो\ऽपि श्री-कृष्ण-दर्शनाय परम-मनोरमं तद्-गीतम् एव शृण्वन्ति न तु वेदाध्ययनादिष्व् आसज्जन्ते11 । ततश् च हृदय-मध्य एव तं स्फुटं पश्यन्तः परमानन्देन मीलित-दृशः केवल-तन्-नाम-सङ्कीर्तन-परा भवन्तीति ।

अथवा ये भगवत्-परा मुनयस् ते\ऽस्मिन् वने विहगाः सन्तो वेणु-गीतं शृण्वन्ति । किं वा, स्वामि-व्याख्यानुसर्तव्या । मुनय आत्मारामाः सर्वे\ऽपि विहगा एव भवितुम् अर्हन्ति । ततश् च प्राय इति कथञ्चित् कश्चिद् दैव-हतो माया-मोहितो न भवत्व् एवेत्य् अर्थः । यतस् तेषां यद् अभिमतं ततो\ऽधिकतरम् अप्य् अत्र सुखेन संसिध्यतीत्य् अभिप्रेत्याहुः—कृष्णेत्य्-आदि ।

अन्यद् यथा-पूर्वम् उन्नेयम् । अथवा, वृन्दावनान्तर्-वर्तिनां कीट-विशेषाणाम् अलीनाम् अपि भगवद्-भक्ति-मुख्य-मुनित्वापेक्षया12 तेभ्यः श्रेष्ठानां पक्षिणां श्रैष्ठ्यम् एव युज्यत इत्य् एवं व्याख्येयम् । अस्मिन् वने ये विहगास् ते मुनय इव मुनयः वृन्दावनान्तर्-वासादि-सादृश्येन बचन्ते । किं ? काक्वा नैव तत्र हेतुम् आह—कृष्ण इत्य्-आदि । अन्यत् समानम् ।

बत-शब्दस्य खेदार्थम् अङ्गीकृत्यास्य श्लोकस्य तात्पर्यं कल्पनीयम् इदम्—"अहो कष्टं धिग् अस्मान् श्री-कृष्णैक-परता-विहीनाः, यतो वने गतस्य सतः श्री-कृष्णस्य दर्शनं तद्-वेणु-गीत-श्रवणं च सर्व-परित्यागेन द्रुम-शाखास्व् अधिरुह्य कर्तुं न शक्नुमः । न च तद्-दर्शनाभावेन मीलित-दृशो भवामः, नापि विगतान्य-वाचः" इति ॥११५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो श्री-कृष्ण-पाल्यमानानां गवां धन्यत्वम्, वन्यानां विहङ्गमानाम् अपि भाग्यं किं वर्ण्यम् इत्य् आहुः—प्राय इति बाहुल्ये, मयूरादीनां केषाञ्चित् प्रेम-नृत्यादिना परम-भक्त-साम्यात् । बतेति विस्मये, हे अन्य्वेति प्रेम-वैवश्येन स्व-सखीं प्रत्य् एव मातृतया सम्बोधनम्, काञ्चिद्-वृद्धां प्रति वा । किं वा, अयं भावाविष्ट-प्रमदाजन-कथा-स्वभावः, यद् विस्मयादौ मातरित्य् उक्तिः, कृष्णेक्षितं स्व-कर्तृकं कृष्णस्य दर्शनं तत्-कर्तृकं वा स्व-दरानं यथा स्यात् तथा द्रुम-भुजान् आरुह्य तद् उपरि स्थित्वा, रुचिर-प्रवालान् इति तद् दर्शनेत्य् अवधानं सुख-भोगस्-आधनं च दर्शितम्, तथापि कृष्णेक्षितं यथा तथा शृण्वन्ति, मीलित-दृशोर्धम् उद्रित-दृशो महा-प्रेम-सम्पत्त्या अलस-दृष्टय इत्य् अर्थः । विगता अन्याः कृष्ण कृष्णेति व्यतिरिक्ता वाचो येषाम्, अतस् त एव धन्या इति भावः ।

अन्यत् तैर् व्यञ्जितम्, तत्र भावार्थेर् उचिर-शब्दाद् भगवत् कर्माणीति बोधव्यम् इति, अथवा, प्राय इति वितर्के, मुनय आत्मा-रामाः श्री-सनकादयो\ऽस्मिन् वने विहगा एव बभूवुर् इत्य् अर्थः । तत्र प्रयोजनम् आहुः—कृष्णेत्य्-आदिना । कृष्णेन ईक्षितं स्वयम् एवोत्प्रेक्षितं पूर्वं तादृशाभावट्, तद् अनिर्वचनीयम् उदितं स्वयम् एवाविर्भूतम्, इति वेणु-गीतस्य सच् चिद् आनन्द-रूपताभिप्रेता । किं वा, स कृष्ण उदितः प्रकटो भवति यस्मात्, वृक्ष-लताद्य् आवृतस्यापि तस्य तस्य विज्ञापकम् इत्य् अर्थः कलयति जगच् चित्तम् आकर्षतीति कलां वेणोर् गीतम्, द्रुमस्य भुजान् उच्च-दीर्घ-पृथु-शाखास् तत्रापि तद् उपरि स्थितान् कोमलत्वादिना रुचिरान् प्रवालान् आरुह्येति सम्यक् श्रवणासिद्ध्य् अर्थं प्रेम-वैवश्येन पात-परिहाराय च मीलिता मुद्रिता आच्छान्ना दृक् आत्म-तत्त्वादि-ज्ञानं येषां तथा-भूताः सन्तः, विगता अन्येषां कृष्ण-व्यतिरिक्तानां वाक्, तथापि किं पुनर् विचारादिकं येभ्यः, पूर्ववद् एव वा । अन्यत् समानम् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो अस्तुतरां श्री-कृष्ण-पाल्यमानानां गवां धन्यत्वं वन्यानां विहगानाम् अपि भाग्यं किं वर्ण्यम् इत्य् आहुः—प्राय इति । बाहुल्ये मयूरादीनां केषाञ्चित् प्रेम-नृत्यादिना पर-भक्त-साम्यात् वर्तते विस्मये हे अम्बेति अयं भावाविष्ट-प्रमदाजनकथा-स्वाभावः यत् खलु तच् छून्ये तत् सम्बोधनं स्व-सखीभ्योन्व-वर्णयन्न् इत्य् उक्तत्वात् कृष्णेक्षितं स्वकर्तृकं कृष्णस्य दर्शनं तत् कर्तृकं वा स्व-दर्शनं यत्र तत् यथा स्यात् तथा द्रुम-भुजान् आरुह्य रुचिर-प्रवालान् इति तेषाम् अप्य् अङ्कुरादि-विकारो दर्शितः विहगानाम् अपि तद् अपि तद् दर्शने व्यवधानं सुख-भोग-साधनं च दर्शितं तथापि कृष्णक्षितं यथा स्यात् तथा शृण्वन्ति मीलित-दृशः अर्धमुद्रित-दृशः महा-प्रेम-सम्पत्याक्ष-सदृष्टय इत्य् अर्थः ।

विगता मनः श्रवण-वाग् इन्द्रियेभ्यो निर्गता अन्या मुरली-वाग्व्यतिरिक्ता वाचो येषां अतस् त एव धन्या इति भावः । अन्यत् तैः तत्र भावार्थे रुचिर-शब्दाद् भगवद् अर्पित-कर्माणीति बोधव्यम् इति अथवा प्राय इति वितर्के मुनयः आत्मा-रामाः श्री-सनकादयोऽस्मिन् वने विहगा एव बभूवुर् इत्य् अर्थः । तत्र प्रयोजनम् आहुः—कृष्णेत्य्-आदिना कृष्णेन ईक्षितं स्वयम् एवोत्प्रेक्षितं कल्पितं पूर्वं तादृशाभावात् तेनेव उदितम् उत्तरोत्तर-प्रकटित-गुणं इति वेणु-गीतस्य ब्रह्म-समाधितो\ऽप्य् आकर्षकता दर्शिता कलयति जगच् चित्तम् आकर्षतीति कलं वेणोर् गीतं तादृश-मुनित्वे लिङ्गम् आहुः—रुचिर् प्रवालान् विचित्रोपशाखामयान् द्रुम-भुजान् वेद-शाखा-रूपान् आरुह्यातिक्रम्य तद् अभि-निवेशम् अपि परित्यज्य मीलिता आवृता दृक् देहादि-ज्ञानं यैस् तथा-भूता अपि विगता अन्येषां कृष्ण-व्यतिरिक्तानां वाक् कथापि किं पुनर् विचारादिकं येभ्यः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्णेक्षितं तेनैव प्रथमम् अवगतं तस्माद् उदितं रुचिरेति द्रुमाणाम् अपि विकारः सूचितः ॥१४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनर् मुग्धा ऊचुः—प्रायो बतेत्य्-आदि । बत खेदे । अद्य आश्चर्ये । अस्मिन् वने प्रायः साकल्येन विहगा मुनयो मनन-शीला विगत-रजस्-तमस्काः । यतः कृष्णेक्षितं यथा भवति, यत्र स्थिते कृष्णेन दृश्यन्ते । कृष्णो वा दृश्यते, तत्र द्रुम-भुजान् शाखा आरुह्य तद्-उदितं तद् वचः कल-वेणु—गीतं च शृण्वन्ति । कीदृशाः ? विगता अन्याः कृष्ण-कृष्णेति-वाग्-अतिरिक्ता वाचो येषाम् । समये यदा तद्-उदितं कल-वेणु-गीतं वा न शृण्वन्ति, तदा कृष्ण कृष्णेत्य् एवं भाषन्त इत्य् अन्य-शग्ब्द-रहिताः । द्रुम-भुजान् आरुह्येति आसनम्, मुनय इति ध्यानम् । कृष्णेक्षितम् इति दर्शनम् । शृण्वन्तीति श्रवणम् । विगतान्य-वाच इति मौनं कीर्तनं चेति मुनि-धर्मैर् एभिर् अमी मुनय एव । कदा वयम् एवं वनस्था भूयास्म इत्य् औत्सुक्य-विषादाद्भुतानां शावल्यम् ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वत्सा अपि विषय-ग्राहिण्यो विषय-रस एव तत्रोपाधिर् अस्तीत्य् अत आत्मारामा मुनयो ज्ञानेन सर्वान् एव भावांस् त्यक्तवन्तो निर्विकाराः कृष्णेन क्षोभयितुं न शक्या इत्य् अपि न वाच्यम् । यतस् तान् अपि स्व-माधुर्येणाकृष्य सम्मोहयतीत्य् आहुः—प्राय इति । बत इति विस्मये । अम्ब इति सखीं प्रत्य् अपि सम्बोधनम् । भावाविष्ट-प्रमदानां स्वभाव एवैषः । विहगा मुनय एव भवेयुर् इत्य् अर्थः—वन-वास-दृङ्-निमीलन-मौन-नैश्चल्याद्य्-असाधारण-धर्म-दर्शनात् । ये द्रुम-भुजान् आरुह्य वेणु-गीतं शृण्वन्ति रुचिर-प्रवाला इति द्रुम-भुजान् अपि वेणु-गीतानन्दात् मुनि-जन-स्पर्शानन्दात् चाङ्कुरादि-विकारो दर्शितः कलयति जगच्-चित्तं क्षोभयतीति ।

कल-वेणु-गीतं कीदृशम् ? कृष्णे एव ईक्षितम्, न तु शक्र-परमेष्ठि-रुद्र-विष्णुषु गान-स्रष्टृष्व् अपि दृष्टं मुनीनाम् एषाम् अतिप्राचीनत्वात् तत्र तत्र सर्वत्रावार्तिअ-गतित्वात् बहुशोऽवकलित-तत्-तद्-गीतत्वाच् तत्-तत्-कृत-सङ्गीत-शास्त्राभिज्ञत्वाच् चेति भावः । न चास्य गानस्य कोऽप्य् अन्यः स्रष्टा सम्भवेद् इत्य् आहुः—तद् उदितं तस्मात् कृष्णाद् एव उदितं आविर्भूतं कृष्ण एवास्य स्रष्टेति गीतस्यानन्य-वेद्यत्वं व्यञ्जितम् । अत एव ब्रह्म-रुद्रादिभिर् इव कृष्णेन स्व-सङ्गीत-शास्त्रम् अपि ग्राहकासम्भवाद् एव न कृतम् इति ज्ञेयम् । अत एवात्यपूर्व-गीत-रसास्वाद-वशान् मीलित-दृशः विगता अन्यस्य ब्रह्मानन्दानुभवस्यापि वाक् परस्पर-कथनं येषां ते इति सम्प्रति तम् अपि परित्यज्यामी कृष्णानन्द-मत्ता एवाभुवन्न् इति भावः ॥१४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तत्-स्वरूप-हेतुकत्वं तत्-प्रेम्णो द्रढयन्त्योऽन्याः प्राहुः—प्राय इति । बतेति विस्मये अन्वेति सखीं प्रति सम्बोधनं हे सखि ! अस्मिन् वने विहगाः पक्षिणस्ते प्रायेण मुनय एव भवेयुः ये कृष्न एव न तु ब्रह्म-रुद्रादावीक्षितं दृष्टं तस्मात् कृष्णादेवोदितं प्रादुर्भूतं कल-वेणुगीतं शृण्वन्ति रुचिराः प्रवाला येषां तां द्रुमभुजानारुह्यालम्ब्य तत्-सुखेन् मीलित-दृशः विगता अन्यवाचो येषां ते तूष्णींस्तुत्वा इत्य् अर्थः । मूनय खलु वेदोक्त-कर्म-फल-परित्यागेन वेद-द्रुम-शाखा-रूढास् तद् उक्तानि निष्काम-कर्ण्येव रुचिर-प्रवालस्थानियानि कथञ्चिद् उपाददानाः श्री-कृष्ण-गीतम् एव शृण्वन्तीति तल्-लक्षणाक्रान्तात्वान् मुनय एव स्युः श्रुतिश् च तम् एवैकं जानथ आत्मानम् अन्या वाचो विमुञ्चथ अमतस्यैव सेतुः इति तथा च स्वरूप-हेतुकस् तेषां प्रेमेति ॥१४॥


॥ १०.२१.१५ ॥

नद्यस् तदा तद् उपधार्य मुकुन्द-गीतम्

आवर्त-लक्षित-मनोभव-भग्न-वेगाः ।

आलिङ्गन-स्थगितम् ऊर्मि-भुजैर् मुरारेर्

गृह्णन्ति पाद-युगलं कमलोपहाराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्तां चेतनानां कथा, नद्योऽप्य् आवर्तैः परिभ्रमैर् लक्षितेन सूचितेन मनो-भवेन कामेन भग्नो वेगो यासां ता आलिङ्गनेन स्थगितम् आच्छादितं यथा भवति तथा ऊर्मय एव भुजाः, तैः कमलोपहारा कमलान्य् उपहरन्त्यो मुरारेः पाद-युगलं गृह्णन्ति धारयन्ति ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा वेणु-वादन-काले । तत् वेणु-गीतम् । उपधार्य प्राप्य । यद्य् अप्य् अचेतनेषु काम-वेगो वक्तुम् अशक्यस् तथापि तद् अधिष्ठातृणां देवानां चेतनतैव गङ्गादिभ्यो भीष्माद्य् उत्पत्तिश्रुतेः । अत एवोक्तम्-मनोभव-भग्न-वेगा इति । स्थगे—आच्छादने धातुः । यदङ्गमालिङ्यते तदालिङ्गकाङ्गेनाच्छादितं भवतीति प्रसिद्धम् एव । उपहरन्त्यः समर्पयन्त्यः । तदाम्बुकमलाद् अर्शनाद् अर्थान्तरम् आह सलिलं कमलं जलम् इत्य् अमरोक्तेः कमलस्य जलस्योपहारः पादादि-प्रक्षालनार्थं यासां ताः इति ॥१५॥


कैवल्य-दीपिका : नद्य इति । तद् अद्भुतं मनोभवेन कृष्ण-विषयया रत्या भग्नो वेगो यासां ताः । स च आवर्तनेन जल-मध्य-भ्रमणेन लक्षितः भगवत्य् उदित-गाढ-भावत्वात् । तत्रैव भ्रमन्त्योऽतः परतो गन्तुं न शक्नुवन्तीत्य् अर्थः । प्रवाह-मध्ये आलिङ्गितेन स्थगितं संवृतं तीरे ऊर्मि-भुजैर् गृह्णन्ति । सोऽयम् अयोग्येष्व् अपि सरिद्-आदिषु भाव-समारोपो रसाभास इत्य् उच्यते । यद् आहुः—तद्-आभासा अनौचित्य-प्रवर्तिता इति ॥१५॥ [मु।फ। १२.९]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे सखि ! नदीनां प्रवाहः स्वभावेन वेगवान् एव, तम् अपि नद्यो विष्तन्भयन्ति, स्वभावम् अपि दूरी-कुर्वन्ति, अस्माकं धैर्य-लज्जादि-त्यागे का शङ्केति सोदाहरणं पुनः प्रौढा ऊचुः—नद्यस् तद् एति । तद् इति सर्वनाम्नो बुद्धिस्थ-वृत्तित्वे\ऽस्मद्-विधार्थं यत् शङ्केति तम् इत्य् अर्थः । आवर्तै-लक्षितो यो मनो-भावो मनो-रथः कामो वा तेन भग्ना वेगा यासाम्, ऊर्मय एव भुजा उत्कण्ठातिशयाद्-भूजानां बाहुल्यम् ऊचितम् एव । पाद-कमलं विशिनष्टि—आलिङ्गन-स्थगितम्, कृषो\ऽपि तद् अभिप्रायं ज्ञात्वा पाद-पद्मं स्थगितं करोति । कमलान्येवोपराहा उपयनानि यासाम्, तस्माद् वयम् अतिप्रवाह-रूपं गेहाद्य् आवेशं स्थगयित्वा निःसङ्कोचम् एवास्य चरणम् अर्चयाम इति वस्तु मत्य् अभिलाषौत्सुक्यानां साङ्कर्यम् ॥१५॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१११] ततो\ऽपि व्रज-भूमि-सम्बन्ध-विशेषेण श्री-भगवन्-महा-प्रसाद-पात्राणां बहिर्-दृष्ट्या\ऽचेतन-जल-प्रवाहवतीनाम् अपि नदीनां माहात्म्यं सर्वासाम् एव साधारण्येन जगौ । तथैव काश्चिद् आर्ता एवाहुः—नद्यः [भा।पु। १०.२१.१५] इति श्री-यमुना-मानस-गङ्गाद्याः । अथवा, सर्व-नदी-श्रेष्ठा भगवत्-प्रियतमा श्री-कालिन्द्य् एव । बहु-वचनं गौरवेण । तत्-साहचर्याद् अन्या अपि स्वत एव प्राप्ताः स्युः ।

भोः सख्यः ! नद्यो\ऽपि तद् अनिर्वचनीयं वेणु-नादामृत-मयं मुकुन्दस्य गीतम् । यद् वा, मुरारेर् मुकुन्दस्य परम-सुख-प्रदं च तद्-गीतं चेति, तथा तद् उपधार्य समीपे सावधानं श्रुत्वा, कर्ण-द्वारा हृदये धृत्वा वा, तदा तत्-क्षणम् एव आवर्तैर् जल-भ्रमरिकाभिर् लक्षितेन सूचितेन मनोभवेन कामेन भग्नो वेगः स्रोतो जवो यासां तथा-भूताः सत्यः ।

यद् वा, आवर्ताः काम-विकार-भङ्गाः, तेषां लक्षं तारकादित्वाद् इत च तद्-युक्तो यो मनोभवस् तेन भग्न-वेगाः सत्यः । अथवा, मुकुन्द-गीतस्य या मा लक्ष्मीः सम्पत्, तस्या आवर्तः परिवृत्तिः परम्परा वा, तेन लक्षितो दर्शितो\ऽभिव्यजितो यो मनोभवस् तेन भग्न-वेगाः । एवं सति तच्-छब्देन पूर्व-श्लोकस्थ-वेणु-गीतम् इति परामर्शः । प्रेम-मोह-भयेन च तत् स्फुटं न निर्दिदिशुर् इति ज्ञेयम् ।

ऊर्मय एव भुजाः, तैर् आलिङ्गनेन स्थगितम् आच्छादितं यथा भवति, तथा तस्य पादयोर् युगलम् एव गृह्णन्ति, परम-दैन्येन धारयन्ति हृद्-रोग-वेगोपशमनाय । यद् वा, आलिङ्गनेन स्थगितं स्तब्धम् आदर-रहितम् अपि पाद-युगलं काम-विह्वलतया गृह्णन्ति । किं वा, सदा विचित्र-गत्य्-आदि-चञ्चलम् अपि आलिङ्गनेन स्थगितं स्तब्धं स्पर्श-सुखेन सुस्थिरं सत् पाद-युगलं सर्वैर् एवोर्मि-भुजैः प्रेम्णा गृह्णन्ति ।

कथम्भूताः ? कमलोपहाराः कमलान्य् एवोपहाराः श्री-चरण-युग्म-पूजा-सामग्र्यो यासां, ताः पूजार्थं तत्-प्रियत्वात् काम-वेगोपहतत्वात् कमलान्य् एवोपहरन्त्य इत्य् अर्थः । यद् वा, कमलया लक्ष्म्यापि उपहारः पूजनं यासां, ताः उक्त-रीत्या लक्ष्म्या अपि पूज्याः । तस्या अप्य् अधिक-सौभाग्यवत्य इत्य् अर्थः । उपहार-शब्देनेदम् अपि ध्वन्यते ।

नद्यो मोहन-वेणु-गीतं श्रुत्वा सहजा स्व-पति-समुद्राभिगमन-त्वरां परिहृत्य, मूर्तिमत्यो भूत्वा, मणि-मौक्तिकादि-दिव्य-हारवत्यो\ऽपि कृष्ण-प्रिय-व्रज-जातानां तत्-प्रियाणां कमलानाम् उपहारैर् हाराणाम् उपरि वर्तमानैर् हारैर् भूषिताः सत्यः ऊर्मि-सदृशैर् दीर्घैर् बहुतर-भुजैर् मुरारेः पाद-युगलं गृह्णन्ति सुस्थिरीकृत्य सम्यग् आलिङ्गन्तीति । अतस् ता एव परम-धन्यास् तदीय-प्रियतमाः, न तु वयम् । यतो दुर्भगाणाम् अस्माकं न तद्-वेणु-गीत-श्रवण-सामर्थ्यं, न च कृष्ण-कामेन स्व-पति-सेवादि-गृह-कृत्य-प्रवाहोपरमः । नापि प्रकट-मूर्तितया तदीय-भजनोचित-वेश-भूषादि-धारण-नैपुण्यम् । नापि च बहवो दीर्घ-पृथु-भुजा यैस् तत्-पाद-पद्मस्यैकस्यापि त्याजित-चापल्यतया वक्षः-स्तनादिषु सुदृढालिङ्गन-सम्भावनापीति ॥१११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो अस्तुतरां सचेतनानां माहात्यम्, अचेतन-जलमयीनाम् अपि नदीनां भाग्यं किं वर्ण्यताम् इत्य् आहुः—नदय इति । श्री-कालिन्दी-मानस-गङ्गाद्याः, तत्-परम-मोहनम् उपधार्य स्वत एव निकटायातं सावधानं श्रुत्वेत्य् अर्थः । तदा तत्क्षण एवेत्य् अस्य आवर्तेतिपदेन गृह्नन्तीत्य् अनेन वान्वयः । मुरारे इति मुरो नाम महादैत्यः श्री-शिववरतो वक्ष्यसि हस्तार्पण-मात्रेण सर्व-प्राण-हरो देव-वर्ग-भयङ्करः श्री-वामन-पुराणे प्रसिद्धः, तस्यारिर्नारायणः—तस्मान् नन्दात्मजो\ऽयं ते नारायण-समो गूणैः [भा।पु।१०.८.१९] इति गर्गोक्तेस् तन् नामभिव्रजे कृष्णस्य व्यपदिश्यमानत्वाद्-गुण-साम्याच् च । मुरो यथा तेन पूर्वं लीलया हतस् तथास्माकं वधोद्योतो मारो\ऽपि त्वया निरस्यताम् इत्य् अभिप्रायेण तस्य पादाब्जयोर् युगलम् एव परमार्त्या गृह्ण्न्ती, कमलान्य् अपहरन्त्यस् तत्-प्रिय-पुष्पाणि बलित्वेनार्पयन्त इत्य् अर्थः । अतस् तद्-भावाद्वयम् अधन्या एवेति भावः ।

अन्यत् तैर् व्याखातम् । यद् वा, तद् वेणु-नादामृतमयं मुरारे मुकुन्दं परम-सुख-प्रदं मोहनत्वादिना तत् सदृशं वा गीतम्, आवर्ताः काम-विकार-भङ्गास् तेषां लक्षम्, तारकादि-त्वादितच्, तद्-युक्तो यो मनोभवस् तेन । यद् वा, मुकुन्द-गीतस्य मा लक्ष्मीः सम्पत्तस्या आवर्तः परिवृत्तिः परम्परा वा, तेन लक्षितो दर्शितो\ऽभिव्यञ्जितओ यो मनोभवस् तेन भग्न-स्रोत-वेगाः सत्यः, भगवद् विषयक-गाढ-भावेन तत्रैव परिभ्रमन्त्यः, न तु परतो गन्तुं शक्नुवत्य इत्य् अर्थः । ततश् च तद् इत्य् अनेन कल-वेणु-गीतम् एव परामृष्टम्, व्यक्तं च तन् मोह-शङ्कया नोक्तम्, आलिङ्गने स्थगितं स्तब्धम् आदर-हरितम् अपि । यद् वा, सदा विचित्र-गत्या चञ्चलम् अपि आलिङ्गनेन तद् अर्थं वा स्थगितं सुस्थितम् । इत्थं कमलया लक्ष्म्यापि उपहारः बल्य् अर्पण यासु तस्या अपि पूज्या इत्य् अर्थः । उक्त-प्रकारेण ततो\ऽपि सौभाग्यादिक्यात्, अन्यत् समानम्,

उपहारादि-शब्देन श्लेषत इदम् अपि सूच्यते नद्यो मोहन-वेणु-गीतं श्रुत्वा सहजां स्वपति-समुद्राभिगमनत्वरां विसृज्य मूर्तिमत्यो भूत्वा मणि-मौक्तिकादि-दिव्य-हारवत्यो\ऽपि जत्यैव श्री-कृष्ण-प्रियाणां विशेषतं च श्री-वृन्दावन-जातानां कमलानाम् उपहारैः, उपरि विन्यस् तैर् हारैर् भूषिताः सत्य ऊर्वि-सदृशैर् दीर्घैर् बहुभिर् भुजै-मुरारेः पाद-युगलं सुस्थिरीकृत्य सम्यग् आलिङ्गन्तीति । अतस् ता एव परम-धन्याः, वयन्तु दुर्भगा एव, यतो न तद् वेणु-गीत-श्रवणं सिध्येत्, न च स्वपति-सेवादि-गृह-कृत्य-प्रवाहोपरमः, अपि प्राकट्येन तत् तोषणार्थं भूषादि-धारणम्, नाप्य् अस्माकं बहवो भुजा यैस् तत्-पादम् एकम् अपि सुस्थिरी-कृत्य वक्षः-स्तनादिषु गाढम् आलिङ्गाम इति ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पूर्ववद् अवहित्थाम् अपि कर्तुम् अशज्नुवत्यः स्वरसानुरूपम् एवानुवर्णयन्त्यो रागौत्कण्ठ्येन स्वम्भावम् अचेतने\ऽप्य् उत्प्रेक्षन्ते—नद्य इति । श्री-कालिन्दी-मानस-गङ्गाद्याः तदा तत् क्षण एव तत् तादृश-परम-मोहनम् उपधार्य स्वत एव निकटायातं सावधानं श्रुत्य् एत्य् अर्थः । सर्वानन्द-शिरोमणिना निज-सङ्गमेन सर्व-दुःखात् मुक्तिं ददातीति मुकुन्दस् तस्य गीतं परमानन्द-जनकं रागम् आवर्तेत्य् अतिक्षोभो दर्शितः ऊर्भि-भुजैः कमलोपहाराः सत्यस् तैर् एवालिङ्गनेन स्थगितम् आनृतं यथा स्यात् तथा तैर् एव मरारेः पाद-युगलं गृह्नन्तीत्य् अन्वयः ।

तत्र चञं क्रमः प्रथमं तावद् आवर्तैश् छिन्नानि कमलान्य् उपहरन्ति तत् पश्चात् पाद-युगलं गृह्नन्ति तद् अनन्तरं च प्रवृद्धतया वक्षः-स्थल-पर्यन्तम् अपि वेष्टयित्वालिङ्गयन्तीति । एतद् उक्तं भवति नद्यो मोहन-वेणु-गीतं श्रुत्वा सहजां स्वपति-समुद्राभि-गमनत्वरां विसृज्य जात्यैव श्री-कृष्ण-प्रियाणि विशेषतश् च श्री-वृन्दावन-जातानि कमलान्य् अन्येवोपहारो यासां तथा-भूताः सत्य ऊर्भिभिर् एव दीर्घैर् बहुभिर् भुजैः मुरारेः पाद-युगलं ग्रहणालिङ्गनाभ्यां स्वस्मिन् सुस्थिरी कुर्वन्तोति तत्र च मुरारेर् इति वामन-पुराणोक्तस्य प्राचीनस्य दैत्य-विशेषस्य मुरस्य हन्त्रा नारायणेन समोऽयम् इति नास्य भजने पातिव्रत्य-भ्रंश इति विभावयन्तीति च अतस् ता एव परम-धन्याः वयं तु दुर्भगा एव यतो न तद् वेणु-गीत-श्रवणं सिद्ध्येत् न च स्व-पति-गृह-कृत्य-प्रवाहोपरमः नाप्य् अस्माकं बहवो भुजा दीर्घा वा यैः तत् पाद-पद्मम् एकम् अपि सुस्थिरीकृत्य स्तनादिषु गाढम् आलिङ्गामः । इतीदम् अत्र तत्त्वं यदा श्री-कृष्ण-चन्द्रस् तादृशं वेणु-गानम् आचरति तदा शुष्क-शाखाङ्कुर-शिलाद्रव-प्रवाह-स्तम्भादयो बचन्ते ततो जल-स्तम्भेन प्रवृद्ध-जला नद्यस् तस्मिन् उच्च-प्रदेशेऽपि सकमल-तरङ्गाः समागत्य तत् पाद-कमलं स्पृशन्ति तच् च दृष्ट्वा ताः स-चेतनादित्वेन प्रतियन्तीति ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नद्य इति वेणु-वाद्य-माधुर्येण जल-स्तम्भोदेर् जल-वृद्ध्या तच्-चरण-पीठ-पर्यन्तागमनात् एवम् अम्बुदागमनम् अपि ॥१५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सखि ! नदीनां प्रवाहो हि स्वभावेन वेगवान् एव । सोऽपि कृष्ण-वेणु-गीतं श्रुत्वा भवति । वयं तु न तथेत्य् आत्मनोऽतिकाठिन्यं मन्यमानाः प्रौढा एवाहुः—नद्यस् तदेत्य्-आदि । तदा तस्मिन्न् एव समये यदा वेणुं वादयत इत्य् अर्थः । तन् मुकुन्द-गीतं तन् मुकुन्दस्य गानम् उपधार्य ऊर्मि-भुजैः कमलोपहाराः सत्यः पाद-कमलं गृह्णन्ति । कमलान्य् उपहारीकृत्य कमलैः पूजयित्वेत्य् अर्थः । कीदृश्यः ? आवर्तेन पयसां भ्रमेण लक्षितोऽनुमितो मनो-भवस् तेन भग्नो वेगो यासां ताः । कीदृशम् ? आलिङ्गनेन नदीनाम् ऊर्मि-भुजाश्लेषेण स्थगितं पुलिनेषु केवल-पयः-समीपे व्रत ऊर्मि-भुजाश्लेषणं यज् जायते, तत् सुखानुभवेन स्थगितम् इति भावः । अतः स्वभावम् अपि नद्यो दूरीकुर्वन्ति, वयं तु कुल-शीलादि-स्वभावम् अद्यापि न त्यजाम इति विषाद-ग्लानि-दैन्यानि ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, कृष्णस्य सर्व-मोहनत्वेऽपि नारी-जाति-मात्र-मोहनत्वम् अत्यधिकम् इत्य् आहुः—नद्य इति । आवर्तैः परिभ्रमैर् लक्षितेन मनो-भवेन कामेन भग्नो वेगो यासां ताः । अत एव धैर्य-लज्जाद्यापगमात् समुद्रं स्व-पतिं प्रत्यागमनात् जलातिवृद्ध्या ऊर्मय एव भुजास् तैर् यद् आलिङ्गनं तेन स्थगितं संवृतं निश्चलीभूतः कुल-स्थितस्य मुरारेः पाद-युगलं गृह्णन्ति स्वाङ्गेषु धारयन्ति । कमल-पदम् उपहरन्त्यः । यद् वा, सुशीतलं सुगन्धं जलं सलिलं कमलं जलम् इत्य् अमरः । स्वीय-जलेन क्षालनार्थं पाद्योपहारं प्रददत्य इवेत्य् अर्थः । किं वा, कमला स्व-सर्व-सम्पत्तिस् ताम् अर्पयन्त्यः स्व-रमणं प्रीणयितुम् इति भावः । तासां पतिः समुद्रोऽपि ता नैव द्वेष्टि यथास्मत्-पतयोऽस्मान् इत्य् अहो वयम् एवाधन्या इति भावः ॥१५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : पराः प्राहुः—नद्य इति । आस्तां ज्ञानवतां कथा नद्योऽप्य् अम्बुप्रवाहात्मानस् तदा मुकुन्द-गीतं तद् उपधार्य श्रुत्वा आवर्तैर् अम्बुपरिभ्रमैर् लक्षितेन मनोभवेन स्मरेण भग्नो वेगो यासां ताः अत एव धैर्य-लज्जादिविगमात् स्वपतिमर्णवं प्रत्यगमनाज्जलाभिवृद्ध्या ऊर्मय एव भुजास् तैर् यदालिङ्गनं तेन स्थगितं निश्चलीभूतं तटस्थितस्य मुरारेः पाद-युगलं गृह्नन्ति स्व-देहेषु धारयन्ति कमलानि उपहारो यासां तान्य् उपायनानि ददत्य इत्य् अर्थः । तथा च लज्जादियोगात् तद्दञ्चिता वयं मन्द-भाग्या इति ॥१५॥


॥ १०.२१.१६ ॥

दृष्ट्वातपे व्रज-पशून् सह-राम-गोपैः

सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम् ।

प्रेम-प्रवृद्ध उदितः कुसुमावलीभिः

सख्युर् व्यधात् स्व-वपुषाम्बुद आतपत्रम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लोकार्ति-हरण-शीलत्वादि-साम्यात् सख्युः श्री-कृष्णस्याम्बुदस् तद्-उपर्य्-उदितः पुनः प्रेम्णा प्रवृद्धः सन् कुसुमावलीभिः पुष्प-समूहैस् तत् तुल्यैस् तुषारैर् व सह स्व-वपुषा छत्रं विहितवन् ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुसुम-समूहैः तद् अन्तर्गत-वाय्वानीतनन्दन-वनाद्य् उत्थ-पुष्पैः । मेघ-कर्तृक-पुष्प-वर्षणासम्भवाद् अर्थान्तरम् आह—तत् तुल्यैर् इति । मेघ-च्युत-जल-कणेष्व् अपि मेघ-पुष्पं घन-रसः इति पुष्प-शब्द-प्रयोगान् मेघोऽपि चेतना-हीनस् तं सुखयति, वयं सचेतना अपि तं सुखयितुं न प्राप्ता अतो धिग् अस्मान् इति भावः ॥१६॥


कैवल्य-दीपिका : दृष्ट्वा इति । प्रवृद्धे आतपे स्वेन वपुषा आतपत्रम्कुसुमावलीभिश्प्रेम-हर्षं व्यधात्सख्युः श्री-कृष्णस्य । मेघोदये कुसुम-स्रंसनस्य तत्-कर्तृकतां सम्भाव्येदम् उक्तम् ॥१६॥ [मु।फ। १२.१०]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे सखि ! अस्माकं हृदयम् अतिकठिनम्, वने गाश् चारयन्तम् आतपे क्लिश्यन्तं स्मरन्त्यो\ऽपि न दीर्घाम इति मध्या ऊचुः—दृष्ट्वातप इत्य्-आदि । मेघानाम् अनेन सह कः सम्बन्धः, केवलं वर्ण-साम्येन सौदृदम्, तथापि स्व-वपुषैवातपत्रायते, अस्माकन्तु विविध एव सम्बन्धः, तथापि स्व-वपुर् अस्य सेवौपयिकं नाकारीत्य् आहो दौरात्म्यम् अस्माकम् ।

ननु, कथम् एव तथा न क्रियते ? तत्राह—सहराम-गोपैर् गुरु-गौरवं त्यक्त्वैव वा सहैव वनं गत्वा सेवामहे, तद् अपि लयं गच्छति, यतो रामश् च गोपश् च सङ्गे तिष्ठन्तीति भावः । कुसुम-प्रायैः शीकरैः—जलस्य मेघ-पुष्पत्वात् । स्व-वपुषेत्य् अस्य हेतुः—प्रेम्णा प्रवृद्ध उदित उत्पुल्लः पुलकित इत्य् अर्थः । सख्युर् इति केवलस्य तस्यैव प्र्म्ण एकनिष्ठत्वात्, अथवा, तत्-सम्बन्धात् सहराम-गोपैर् इत्य् अनुसङ्गः । तद् अस्माकम् अनुरागम् अपि धिक्, यद् अत्र सति गुर्वादि-गौरवम् इति निर्वेद-ग्लान्य् अभिलासौत्कण्ठ्यानां शावल्यम् ॥१६॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.११०] एवं श्री-वृन्दावन-गोवर्धन-प्रधानक-श्री-व्रज-भूमेर् माहात्म्यं सामान्येन गीत्वा, सम्प्रति विशेषतस् तत्रत्यानां जात्य्-आदि-तारतम्येन तद्-अनुरूप-भगवद्-अनुग्रहतो यथोत्तर-श्रेष्ठतया माहात्म्यं राजा\ऽसाव् अगायद् एक-चत्वारिम्शत्-पद्यैः । तत्र तत्र तस्य भावश् च तत्-तद्-गानोज्जृम्भितस् तत्-तद्-वक्त्र्-अनुरूप एव ज्ञेयः । तत्रादौ व्रज-भूम्य्-आद्य्-उद्भवानाम् आकाश-चारिणां लोक-दृष्ट्या\ऽचेतनानां व्रज-भूम्य्-उपरितन-गगन-मार्ग-संसर्गेण भगवत्-प्रसादतश् चैतन्य-विशेषम् आप्तानाम् इव मेघानां माहात्म्यं गोप्यस् तथैव काश्चिद् आहुः—दृष्ट्वा [भा।पु। १०.२१.१६] ।

व्रजस्य ये पशवः गो-महिष्य्-अजादयो\ऽसंख्येयाः, तान् सर्वान् बलरामेण गोपैश्सह सम्यक् तत्-तद्-इच्छानुसारेणेतस् ततश् चारयन्तम्अनु प्रतिक्षणं वेणुंउदीरयन्तं वादयन्तं दृष्ट्वा परिश्रमम् आशङ्क्य, तत्र च तेन तेनैव वृक्ष-मण्डल-च्छाया-शीतलित-भूम्य्-आगतः मध्याह्नादि-सम्बन्धिन्य् आतपे स्थितं दृष्ट्वा तस्योपरि प्रथमम् उदितः । यद् वा, अनु तम् अनु लक्षीकृत्योदितः । अथवा, वेणुम् अनु वेणु-वादनानन्तरं वेणुना वा पशून् एवोदीरयन्तम् आह्वयन्तम् ।

किं वा, अनु वेणु मुद् इति च्छेदः । अनु वेणु प्रतिवेणु-नादं मुत् आनन्दो यस्य सः गद्गद-स्वर-शब्द-तुल्य-मन्द-गर्जिताश्रु-निपात-सदृश-वृष्ट्य्-आदि-दर्शनात् ईरयन्तं तान् एव प्रेरयन्तम् । मधुर-गम्भीर-वाचा घास-भक्षणादौ नियोजयन्तं दृष्ट्वोदितः । पुनः सम्यग्-रूप-दर्शन-वेणु-नाद-श्रवणाभ्यां यत् प्रेम तेन प्रवृद्धः सन् पाठान्तरे मुदस्य जातेति मुदितः हृष्ट इत्य् अर्थः । प्रेम्णा प्रवृद्धश् चासौ मुदितश् चेति । लोकार्ति-हरण-शीलत्वादि-साम्यात् सख्युः श्री-कृष्णस्य ।

यद् वा, अस्माकं सख्युर् दयितस्य । किं वा, सख्युर् इव सख्युर् यथा कश्चित् स्वस्य सख्युः करोतीति तद्वद् इत्य् अर्थः । कुसुमावलीभिः कुसुमं मेघ-पुष्पं जलं तद्-बिन्दु-समूहैर् दिव्य-पुष्प-राजिभिर् वा सह स्व-वपुषा अम्बुद-च्छत्रं व्यदधात् । हिम-जल-कणानां दिव्य-पुष्पाणां वा वृष्टिं तथा छायां च स्वदेहेन मेघः कृतवानित्य् अर्थः । यद् वा, विशेषणे तृतीयेयम् । कुसुमावली-विशिष्टं तत्-स्रावि-च्छत्रं स्व-वपुर् एव कृतवान् इत्य् अर्थः । अत्रापि सह-रामगोपैर् इति सम्बन्धनीयम् । तेषाम् अपि तथा चकारेत्य् अर्थः ।

तथा पशूनाम् अपि तथैवोह्यं साहचर्यात् यद् वा, तैः सह पशून् सञ्चारयन्तमन्वित्यनु-शब्द-बलात् तेषां तेषाम् अपि तथैव व्यदधाद् इत्य् अर्थाद् आयातम् एव । हे सख्यः अतः परम-धन्यो\ऽयं वयं त्व् अधन्याः यतो\ऽस्माकम् एतत् सर्वं विपरीतम् । तथा हि पशु-सञ्चारण-समये तस्य दर्शनादि दुर्घटम् । कदाचिद् दर्शने वेणु-श्रवणे चापि मोहेनास्तं प्राप्ति-दशैव [मोहेनाप्य् अप्राप्ति-दशैव] स्यात्, प्रेमार्ता च सदा क्षीणतैव । आतप-वारणादिकं तु हन्त न हि कथम् अपि सम्भवतीति ॥१६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आस्तां तावच् च्री-कृष्णस्य विचित्र-विहार-प्राप्तायाः श्री-वृन्दावन-वर्तिन्याः श्री-कालिन्द्याः श्री-मानस-गङ्गायाश् च तथा तत्-साहचर्येणान्यासाम् पै जगत्-पावनीनाम् अन्यकालिनानां नदीनां तादृशं भाग्यम्, धुमोद्भवस्याचेतन-प्रायस्याकाशवर्तिनो मेघस्यापि भाग्यं किं वर्णम् इत्य् आहुः—दृष्टेति । अतपे शरत्-कालिने\ऽपि व्रजस्य पशुन् सर्वान् एव गो-महिषादीन् सर्वैर् एव गोपैः सहैकत्र तच् चारणात् सम्यक् तत् तद् इच्छानुसारेण इतस् ततश् चारयन्तं तेषां अनन्तानां बहुल-दूर-प्रदेशं व्यप्य चरतां सम्मेलनार्थं प्रहर्षार्थं च वेणुम् अनु बारम्बारम् उत् उच्चैः ईरयन्तं वादयन्तं श्री-कृष्णम् इति शेषः । इति श्रव-विशेषः सूचितः । छान्दसत्वाद्-व्यवधानम् अदुष्टम् । यद् वा, वेणुम् अनु तद् वादनानन्तरम् इत्य् अर्थः । उदीरयन्तम् अनुवेणुम् इत्य् अस्यात्रैव वान्वयः, वेणु-नादेनैवोदीरयन्तम् इत्य् अर्थः ।

प्रेम्णा प्रवृद्धः सन् सहचराणाम् अपि ताप-निवारणाय, कुसुमं मेघ-पुष्पं जलं मेघ-पुष्प घन-रसम् इत्य् अभिधानात्, तस्य आवलोभिर् बिन्दु-निकरैः सहितेनेत्य् अर्थः । विशेषणे वा तृतीया, ताभिर् विशिष्ट आतपत्रं स्वस्य वपुषा सजल-देहेनैव अम्बूदेत्य् उक्तेः । स्व-वषुर् एव छत्रं कृतवन् इत्य् अर्थः । छत्रम् अपि कुसुमावलो-युक्तं भवत्य् एवं, एवं सख्येन निज-देहं धनं चार्पित-वान् इत्य् अर्थः । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, प्रवृद्धे आतपे अस्माकं सख्युः प्रियस्य स्वस्य वपुषा आतपत्रं व्यधात्, कुसुमावलीभिश् च प्रेम प्रीतिं व्यधात्, इति अम्बुदत्वेन प्राप्तं वृष्ट्यादि-दुःखं निरस्तम्, अतो\ऽसौ परम-धन्यो\ऽस्माकं च तदानीं दर्शनाद्य् असम्पत्तेर् भाग्य-हीनतैवेति भावः ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ दृष्ट्वेत्य्-आदि-द्वयेन पूर्ववद् अवहित्थात-दशक्तिभ्यां गोष्ठ्यन्तरं तत्र पूर्ववद् अचेतने भाव कल्पयन्त्योऽपि सख्यमय-रस-वर्णनया-निज-रसम् आच्छादयन्त्य इवाहुः—दृष्ट्वेति । विद्युन्यय-चक्षुषेति शेषः । आतप इति तापाधिक्यं व्रज-पशून् इति तद् बहुल्यात् तृण-बाहुल्यात् तृण-बाहुल्यापेक्षयावश्यं तत्र स्थितिः सहेति बहुलच्छायापेक्षा अनुपश्चात् मेघाकर्षणार्थम् उच्चरीरयन्तं ततः एव प्रैम-प्रेमाणं व्याप्य उदितः प्रवृद्धश् च उत्फुल्ल-तनुत्वात् कुसुमं मेघ-पुष्पं जलम् मेघ-पुष्पं घन-रसम् इत्य् अभिधानात् तस्यावलीभिः बिन्दु-निकरैः सहितेनेत्य् अर्थः । सख्युर् इति वर्णादि-साम्यात् स्वस्य वपुषा सजल-देहेनैव अम्बुदेत्य् उक्तेः स्व-वपुर् एव छत्रं कृतवान् इत्य् अर्थः । छत्रम् अपि कुसुमावलो-युक्तं भवत्य् एव एवं सख्येन निजं देहं धनं चार्पितवान् इत्य् अर्थः । अतोऽसौ परम-धन्योऽस्माकं च तदानीं दर्शनस्याप्य् असम्पत्तेर् भाग्य-हीनतैवेति भावः । अत्र चेदं तत्त्वं यदातपे गाश्चारयन्तः सखायः खिन्ना बचन्ते गावश् च विक्षिप्त-गतयो बचन्ते तदा तासां मेघानां चाकर्षणाय तत् तन् नाम्ना मल्लार-रागं वादयति ततस् तादृश-लीलास्फूर्त्या काश्चिद् एवम् उप्रेक्षन्त इति ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सखि ! अस्माकं हृदयम् अश्म-सारम् । यतो वने गाश् चारयन्तम् आतपेन क्लिश्यन्तं स्मृत्वापि न विदीर्यति, तद्-अनुकूल-सेवां कर्तुं न शक्नुमः । मेघैः सह तस्य कः स्नेहानुबन्धः ? तथापि ते तत्-कालोचितां सेवां कुर्वन्ति । न पुनर् वयं मन्द-भाग्या इति मध्यमा ऊचुः—दृष्ट्वेत्य्-आदि । आतपे मर्मे व्रज-पशून् सञ्चारयन्तं दृष्ट्वा स्व-वपुषा आतपत्रम् अम्बुदो मेघो व्यधाद् विदधे, गाश् चारयन् यत्र यत्र याति, तत्र तत्र तद्-उपरि गच्छन्न् आतपत्रायते स्म । कीदृशः ? प्रेम्णा प्रवृद्धोऽतएव बोधितः प्रफुल्लः पुलकितः । सख्युर् मित्रस्य श्यामत्वात् सह राम-गोपैः । न केवलम् एकस्यैव, तस्य तत्-सम्बन्धात् रामादीनाम् अपि छत्रायते स्मेत्य् अर्थः । कुसुमावलीभिर् जल-कणैर् उपलालितम् इत्य् आतपत्र-विशेषणं मुक्ता-प्रालम्ब-शोभितं छत्रम् इव । उदित ऊर्द्व्हं गतो वा । निकटश् चेत् तदा उपरिस्थितानां विमान-चारिणां देवानां दर्शन-बाधात् । कीदृशम् ? अनुमेघ-गर्जित-सदृशं वेणुम् उदीरयन्तम् । हर्षेण मेघो यथा मन्दं मन्दं गर्जति, तत्-समानं वेणुं वादयन्तम् इत्य् अर्थः । अनु सदृशार्थः । तद् अस्य प्रेमैव प्रेमा यत् स्व-देहम् एवातपत्रीकरोति । अस्माकं प्रेमाणं तु धिग् इति निर्वेदः ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त सख्यभाववन्तो ऽप्यात्मण्य कृतार्थयन्तीत्याहुः, दृष्टेति । प्रेम्नैव प्रवृद्धः यावत्या स्ववृद्ध्या गो-गोपालसहितस्य तस्य । आतपनिवारणं भवेत् तावतीं वृद्धिं प्राप्त इत्य् अर्थः । कुसुमावलीभिर् इति “मेघ-पुस्पं घन-रसम्” इत्य् अभिधानात् जल-कणा-बलीभिः सह स्ववपुषा सख्युः कृष्णस्येति रस-वृष्ट्या सन्ताप-हारित्वेन सवर्णत्वेन स्वीयविद्युद्-गर्जनाभ्यां पीत-वस्त्र-वेणु-नादयोः साम्यं दृष्ट्वा च सखि-भाव-मति-मन्यमानं आतपत्रं तुषार-वर्षि-च्छत्रं व्यधाद् इत्य् आकाशस्थो मेघो ऽपि तं सुखयति, केवलं वयम् एव तं सुखयितुं न प्राप्नुम इति धिग् आस्मन् इति भावः ॥१६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अन्याश्चाहुः दृष्ट्वेति, अम्बुदो मेघोऽप्यातपे रामेण गोपैश् च सह व्रजपशून् सञ्चारयन्तं कृष्णं दृष्ट्वा तद् उपर्युदितः प्रेम्णैव प्रवृद्धो यावत्या तदातपनिवृत्तिः स्यात् तावतीं वुद्धिं प्राप्तः सन् रसवर्षित्वेन तापहारित्वेन सवर्णत्वेन च सख्युर् मित्रस्य कृष्णस्य स्ववपुषा आतपत्रं व्यधात् कीदृशं कुसुमावलीभिः मेघ-पुष्पं घनरस इत्य् अभिधानात् सूक्ष्माभिरम्बुकणाभिर् विशिष्टम् इत्य् अर्थः । तथा चाकाशस्थो मेघोऽपि तम् अनुकूलयति वयन्तु तदानुकूल्य-हीना निर्भाग्या इति ॥१६॥


॥ १०.२१.१७ ॥

पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग-

श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन ।

तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन

लिम्पन्त्य आनन-कुचेषु जहुस् तद्-आधिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : साहङ्कारम् आहुः—पूर्णाः कृतार्थाः । पुलिन्द्यः शबराङ्गनाः । कथम् ? इत्य् अत आहुः—प्रथमं दयितानां स्तनेषु मण्डितेन अनुलिप्तेन पुनश् च रति-समये उरुगायस्य श्री-कृष्णस्य पदाब्जयो रागेण आरुण्येन श्रीः कान्तिर् यस्य, तेन कुङ्कुमेन । पुनस् तस्य वन-स्थलीषु चङ्क्रमणेन तृणेषु रूषितेन लग्नेन तद्-दर्शनेन तथा-भूतस्य कुङ्कुमस्य दर्शनेन **स्मर-**कृता रुक् तापो यासां ताः । तेन कुङ्कुमेन आननेषु कुचेषु च काम-तप्तेषु लिम्पन्त्यस् तद्-आधिं काम-व्यथां जहुः । अतस् ताः कृतार्थाः, धिग् अन्या मादृश्यो या एवं-भूतम् अप्य् आधि-शमनं न लभन्त इति भावः ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साहङ्कारं सेर्ष्यम् । परेश्वरे नाहङ्कार ईर्ष्याहङ्क्रिययोः स्त्रियाम् इति शाश्वतः । कथम् अस्याग्रे ज्ञातम् इति योज्यम् । इत्य् अत इत्य् अत्र । आहुर् इत्य् अस्य प्रकारम् [इनांश्री]{।मर्क्} तस्य [शरीर्कस्य]{।मर्क्} । चङ्क्रमणेन पुनः पुनर् गमनेन । तद्-दर्शनेन तद्-आधिम् इत्य्-आदिषु व्यवहितस्यापि स्मर-पदस्य तच्-छब्देन परामर्शः । दशैते राज-मातङ्गास् तस्यैवामी तुरङ्गमाः इतिवद् ध्येयः । अतः काम-व्यथा-त्यागात् । ताः पुलिन्द्यः कृतार्थाः कृत-कृत्याः । एवं-भूतम् काम-[वयतिआत्म]{।मर्क्}-रूपं आधि-शमनं मनः-पीडा-शान्तिम् । इति भावः इति । आधि-निवृत्त्यैव शान्तिर् नान्यथेति तात्पर्यं ॥१७॥


कैवल्य-दीपिका : पूर्णा इति । पुलिन्द्यो भिल्ल-स्त्रियः । पुण्याः सुकृताधिकाः । उरुगायस्य विष्णोः पदाब्ज-रागेण चरण-लौहित्येन श्रीः शोभा तद्-आत्मकं यत् कुङ्कुमं शोभातिशयः । सामान्याधिकरण्ये व्यङ्ग्यम् । तथा दयिताया लक्ष्म्याः स्तनाभ्यां मण्डितेन तृणेषु रुषितेन विच्छुरितेन । तस्य श्री-कृष्णस्य दर्शनेन स्मर-रुक् काम-पीडा यासां तास् तथा । आननेषु कुचेषुलिम्पन्त्यः लेपनं कुर्वन्त्यः । तदा तस्मिन् श्री-कृष्णे आधिम् अप्राप्ति-दुःखं लक्ष्मी-स्तनाभ्यां भगवत्-पादयोः सङ्क्रान्तेन तत्-तृण-लग्नेन कुङ्कुमेन स्वम् आधिं शमयन्तीत्य् अर्थः । अतः पुण्याधिकाः ॥१७॥ [मु।फ। १२.११]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुनर् मुग्धा ऊचुः—हे सख्यः ! अस्मभ्यः पुलिन्द्योऽपि धन्याः पूर्णाश् च । वयं तु ताभ्योऽधमा इत्य् आहुः—पूर्णा इत्य्-आदि । दयिता राधा तस्या स्तनयोर् मण्डितेन, भावे क्तः, उरुगाय-पदाब्जयो रागस् तेन श्रीर् यस्य तेन कुङ्कुमेन आनन-कुचेषु लिम्पन्त्यस् तद्-दर्शनेन स्मर-रुक् यासां तास् स्थित्भावाः सत्यस् तद्-आधिं स्मर-रुजा य आधिस् तं जहुः । अतः पूर्णाः तासां तत्-प्राप्तिः कुतः ? इत्य् आह—तृण-रूषितेन तृण-लग्नेन तात्म-विधान्य् आननेषु कुचेषु च कुर्वन्त्यः खेदेन, तेषु तेष्व् एव तृणेषु कुङ्कुमस्य सञ्चार इत्य् अर्थः । तेनैव ताः शरीर्कालिङ्गिता इति मन्यमानाः कृतार्थाः । वयं तु स्थितात्म कर्तुम् अपि न शक्नुमः । स्वातन्त्र्याभावात् । तद् अस्मात् धिग् इति निर्वेद-ग्लानि-शङ्का-दैन्यानि ॥१७॥


सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.११९] इदानीं ततो\ऽधिकतरं तद्-व्रज-मनुष्याणां तत्र चादौ वनान्तर-वर्तिनीनाम् अन्त्यज-जाति-स्त्रीणां माहात्म्यं पूर्ववत् काश्चिद् गोप्यः स्वभावम् आहुः—पूर्णाः [भा।पु। १०.२१.१७] इति । पुलिन्द्यः शबराङ्गनाः । ताभिश् चान्या अपि वनचर्यो भिल्लादि-स्त्रियः सर्वा एवोपलक्ष्यन्ते । पूर्णाः कृतार्थाः ज्ञायन्ताम् । कथम् ? इत्य् अपेक्षायाम् आहुः—उरुधा वेणुना गायति वेत्य् उरुगायः श्री-कृष्णः, तस्य पादाब्जयो रागेण आरुण्येन श्रीः कान्तिर् यस्य कुङ्कुमस्य तेन तम् अनिर्वचनीयम् आधिं मनो-व्यथां जहुःतदा इति वा तदानीम् एव लेपन-सम-कालम् एव जहुर् इत्य् अर्थः ।

ननु कुङ्कुमं प्रायशः स्त्री-स्तन-गतम् एव कुतस् तनयोर् धृतम् इत्य् अपेक्षायां तद् एव विशिंषन्ति—दयितानां श्री-कृष्ण-प्रियाणां कासाञ्चित् स्तनेषु मण्डितेन अलङ्कारतया अनुलिप्तेन बहुधा कृष्ण-सङ्कीर्तनेन वेणु-वाद्येन वा मोहितानां तासां स्तनेभ्यो रति-समये वैदग्धी-विशेषेण पादाब्जयोर् लग्नम् इति भावः । तच् चैवं विकृत्य13 लज्जया नोचुर् इति ज्ञेयम् ।

“अहो पुलिन्द्यः ! तत् कथं प्राप्ता ?” इत्य् अपेक्षायां पुनस् तद् एव विशिंषन्ति । तृणेषु रुषितेन संलग्नेन । तृणेत्य् उपलक्षणं, शिलादिष्व् अपि प्राचुर्यात् तथा संमर्द-विशेषेण पदाब्जयोः सम्पृक्तत्वाच् च । अक्षीयमाणं सदा वन-स्थलीषु, तत इतश् चंक्रमेण ताभ्यां तृणादिषु संलग्नं सत्, तत्र तत्र काष्ठ-शाकाद्य्-आहरणाय भ्रमन्त्यः पुलिन्द्यः प्रापुर् इति भावः ।

कुतस् तासाम् आधिः ? इत्य् अपेक्षायां ता एव विशिंषन्ति । तस्य कुङ्कुमस्य दर्शनेन प्रथमं श्री-कृष्णस्य पश्चाच् च विचारेण तदीय-रति-विशेषस्यापि स्मरः स्मरणं तेन रुजो मनः-पीडा यासाम् । यद् वा, तथा-भूतस्य दर्शन-मात्रेनैव स्मर-रुजः काम-व्यथा यासां ताः । पश्चात् कथं जहुः ? तद् आहुः—आननेषु स्तनेषु काम-तप्तेषु लिम्पन्त्यः तत्-कुङ्कुम-लेपं कुर्वन्त्यः, अथवा द्वितीयार्थे सप्तमीयम् तानि तेनैव लिम्पन्त्य इत्य् अर्थः।

एवं निजाधिशान्त्या ताः कृतार्थाः, वयं तु तथा निजाधिशमनं न लभाम इत्य् अपूर्णा इति भावः । किं च, श्री-शब्देन मण्डित-शब्देन चेदं ध्वन्यते । श्री-कृष्ण-वल्लभानां स्तनैर् अनुलेपन-द्वारा भूषितेन सौन्दर्यातिशयं नीतेन, पुनश् च श्री-कृष्ण-पादाब्ज-सम्पर्केण कान्ति-विशेषं प्राप्तेन कुङ्कुमेन तृणादिभ्यः समुद्धृत्य स्वङ्गेषु लिप्यमानेन सता प्रायो भूषण-हीना वर्ण-कान्त्यादि-रहिताश् च पुलिन्द्यस् तत्-तद्-भाव-निमित्ताधिं च जहुः भूषा-सौन्दर्यातिशय-प्राप्तेर् इति । अतो धिग् अस्मान् इति वाक्य-शेषः ।

अथवा भगवतीनां तासां प्रेम-विशेषोदयेन सदैव विरह-ताप-स्फूर्त्या परेषाम् अपि दुःखानुमानाद् अयम् अर्थो द्रष्टव्यः । भोः सख्यः ! उरुगाय-पदाब्ज-रागवद् अरुणा श्रीर् यस्य कुङ्कुमस्य, तेन पूर्णा भृत-गात्रा इत्य् अर्थः । यद् वा, पूर्णा तृप्ता अपि प्रेम-विशेषाभावात् । उरुगायेति पदस्य परेणैवान्वयः । कीदृशेन ? कृष्णस्य दयितानां युष्मादृशीनां स्तनेषु तत्-सन्तोषणाय प्रथमं मण्डनतयानुलिप्तेन । यद् वा, तत्-पदाब्ज-राग-सादृश्य-प्रीत्या दयिताभिः स्वस्तनेषु मण्डनत्वेन गृहीतेन । पश्चात् तदीय-बहु-प्रकार-वेणु-गीतैर् वन-मध्ये समाकृष्टानाम् इतस् ततो भ्रमन्तीनां तत्र तद्-अप्राप्तेर् विरह-वैकल्येन वनेषु विलुठन्तीनां स्तनेभ्यस् तृणेषु रुषितेन । तस्य कुङ्कुमस्य तादृश-गोपी-चेष्टित-परिचायकतया श्री-गोपी-कान्त-स्मारकत्वाद् दर्शन-मात्रेण स्मर-कृत-रुजो यासां ताः स्मर-रुज इति पञ्चम्य्-अन्तं वा । तद्-धेतोस् तद्-व्यथा-शान्तय इत्य् अर्थः । मशकार्थो धूम इतिवत् । श्री-कृष्ण-प्रेम-भर-तत्-प्रियाङ्ग-सङ्गित्व-वितर्केण तृणेभ्यः प्रथमम् आदरेणाननेषु पश्चात् प्रेम-वेगेन कुचेषु तत् कुङ्कुमं लिम्पन्त्यः समर्पयन्त्यः । यद् वा, कुङ्कुमेनेत्य् अत्रापि योज्यम् तेन तानि लिम्पन्त्यः सत्यः तत्-कुङ्कुमम् एव जहुः ।

तत्र हेतुः—आधिम् आधि-हेतुत्वात् तद् एव साक्षाद् आधि-रूपम् इत्य् अर्थः । कार्य-कारणयोर् अत्यन्ताभेद-विवक्षया आदिष्ट-लिङ्गत्वात् पुंस्त्वम् उद्दिष्टम् । यस्य दर्शन-मात्रेण महा-काम-पीडा जाता तस्याङ्ग-स्पर्शनेनाशेष-मनो-व्यथा स्वतो\ऽधिकं सम्भवत्य् एव लेपनेन च वर्धितया व्याकुलाः पुनर् महानिष्ट-शङ्क्या तज् जहुर् इति भावः । अन्यद् यथा-पूर्वम् ऊह्यम् । अहो बत कष्टम् ईदृस्यो वयम् अधन्याः परमार्ति-सिन्धु-मग्नाः यासाम् ईदृशेनापि सम्बन्धेनान्ये\ऽपि जना एतादृशीम् आर्तिं लभमाना अस्मद्-गात्र-गन्ध-सम्पृक्त-द्रव्यम् अपि प्राण-हानि-भयात् परित्यजन्तीति ॥११९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथापरस्या गोष्ठ्या वाक्यं त्रिभिः । यद् वा, पूर्ववद् एक-वाक्यतया व्याख्यानम्, तथा हि आस्तान्तावत् सर्वोपकारादिना सख्य-प्राप्तस्य तादृश-सेवाकारिणो मेघस्य भाग्यम्, अस्पृश्यत्वादिना दुरतो वर्ज्यानाम् अप्य् अन्त्यज-स्त्रीणां भाग्यं किं वर्ण्यम् इत्य् आहुः—पूर्णा इति पुलिन्दीभिः सर्वा एव वन-चर्या भिल्लाद्य् अन्त्यज-स्त्रियः साहचर्येनोपलक्ष्याः, उरुधा- गीयते गोपैः स्वयं वा गायति वेणुनेत्य् उरुगायः, दयितानां कासाञ्चित् स्तनेषु मण्डितेन भूषणतया गृहीतेन, तृणेत्य् उपलक्षणं शिलादिष्व् अपि रूषितेन, तत् तत्-प्रकारश् च व्यक्तं लज्जया नाक्तं, श्री-स्वामि-पादैर् व्याञ्जित एव । तदाधिं काम-व्यथाम्,

यद् वा, तदा तस्मिन्न् एव क्षणे आधिं मनो-व्यथाम् अर्थात् स्मर-कृताम् एव । यद् वा, तम-निर्वचनीयम् आधिं श्री-कृष्ण-प्राप्ति-मनो-दुःख जहुः । श्री-शब्देन मण्डित-शब्देन च श्लेषेणेदं धन्यते, श्री-कृष्ण-वलभानां स्तनैर् अनुलेपन-द्वारा भूषितेन सौन्दर्यातिशयं गीतेन, पुनः श्री-कृष्ण-पदाब्ज-सम्पर्केण कान्ति-विशेषं प्राप्तेन, कुङ्कुमेन, तृणादिभ्यः, समुद्धृत्य स्वाङ्गेषु क्लिप्यमानेन सता प्रायो भूषण-हीणाः कान्त्यादि-रहिताश् च काष्ठ-शाकाद्य् आहरणाय वनान्तर् भ्रमन्त्यः पुलिन्द्यस् तेनेव महा-भूषादि-सम्पत्तैर् योग्यतां प्राप्य सर्व-विधर्माधिं जहुः, अन्यत् तैर् व्यञ्जितम् एव । यद् वा, अहो बत श्री-वृन्दावने\ऽत्र वयम् एव केवलं भाग्य-हीना इत्य् आहुः—पूर्णा इति उरुगाय-पदाब्जयो रागो\ऽनुरागो यस्यास् तस्याः श्रियः कुङ्कुमेन श्री-भगवद् विषयक-प्रेम्णा तत्-सन्तोषणार्थं तोषोत्पादितेन कुङ्कुम-जाति-विशेषेणेत्य् अर्थः ।

अतः स्व-सन्तोषणार्थम् एव दयितानां युष्माद् दृशीनाम् अपि स्तनेषु प्रथम-मण्डनतयानुलिप्तेन । यद् वा, उरुगाय-पदाब्ज-रागवद् अरुणा श्रीर् यस्य कुङ्कुमस्य तेन, तत् पादाब्ज-राज-सादृश्येन प्रीत्या दयितादिः स्व-स्तनेषु मण्डनतया गृहीतेन, पश्चात् तस्योरुगायत्वेन विचित्र-वेणु-गीतेन वनान्तः समाकृष्टानाम् इतस् ततो भ्रमन्तीनां तद् अप्राप्ति-वैकल्येन वनेषु विलुठन्तीनां स्तनेभ्य-तृणेषु रूषितेन पूर्णा भूत-गात्रा अपि श्री-भगवता स्वयम् एव वा ताभिस् तृण-द्वारा स्तन-मण्डनात्, तृणेषु रूषितेनेति केचित्, तस्य कुङ्कुमस्य दर्शन-मात्रेण तादृशत्व-विचारतस् तत्-स्वभावतो वा स्मर-रुजो यासां तथा-भूताः सत्यस् तृणेभ्यः समुद्घृतेन तृण-सहितेनैव कुङ्कुमेन प्रथमं सौरभ्य-ग्रहणाद्य् अर्थम् आननेषु पश्चात् स्मरवेगेन कुचेषु लिम्पन्त्यो लेप-मात्रं कुर्वन्त्यः सत्यस् तत्-कुङ्कुमं जहुः, कुतः ? आधिम् आधि-हेतुत्वाद् एवाधिरूपम् इत्य् अर्थः ।

प्रेम-भरोत्पादनेन व्याकुलतया तद्-दुःख-परिहाराय वाल्य-जन्निति भावः । अहो बत कष्टम्, ईदृश्यो वयम् अधन्याः परमार्ति-सिन्धु-मग्नाः, यासाम् ईदृशशेणापि सम्बन्धेनान्ये\ऽपि जना ईदृशीमार्तिं लभमाना अस्मद्-गात्र-गन्ध-सम्पृक्त-द्रव्यम् अपि शङ्कया परित्यजन्तीति तात्र्पर्यम्, तत्-कुङ्कुम-सम्बन्धेन तासु महा-लक्ष्म्या आवेशाच् छ्री-भगवद् अनुग्रह-विशेषेण तद् आदि ता जहुः । अत एव पूर्णाः कृतार्था इति श्री-बल्लभचरणाः । यद् वा, ।

यद् वा, अब्ज-रागः, पद्म-रागः, तस्य श्रीर् इव श्रीः कान्तिर् यस्य तेन । यद् वा, अब्जस्य राग इव रागो यस्य तेन श्री-कुङ्कुमेन, कथम्-भूतेन ? दयितास्तन-मण्डितेन, पुनः कथम्-भूतेन ? उरुगाय-पदा उरुगायं पद्यते प्राप्नोतीत्य् उरुगायपत् तेन । शेषं प्रथमार्थवद् एव, श्लेषेणेदम् अप्य् उक्तं स्यात्, तादृश-कुङ्कुम-दर्शनेन श्री-भगवत् स्मरणतस् तद् अप्राप्त्या तादृशी पीडा अभूत्, यत्राशेष-दुःखातिरेको\ऽन्तर्-भूतः, तत् कुङ्कुम-स्पर्शेन च तादृशं सुखं तातं येनाशेषानन्द-सम्पन् माधुर्यं तत्रान्तर्भुतम्, अत एवाशेषाधिं जहुः, भगवतस् तदीयानां वा तासां सम्बन्धेन पूर्णाश् च बभूवुर् इति । एवं तासां निजाधिः शन्तः, अस्माकं च निजाधिर् वर्धत एव, अतस् ताभ्यो\ऽप्य् अतिन्यूनत्वेन सर्वथा सर्वेभ्यो जीवेभ्यो भाग्य-हीना वयम् एवेति ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ निज-भाव-प्रकटन-मयेन पद्येन निज-रस-वर्णनं सङ्गतिस् त्व् एवं आस्तां तावत् तत्-सखस्य मेघस्य भाग्यं अन्त्यज-स्त्रीणां अपि किम् वर्ण्यम् इत्य् आहुः—पूर्णा इति । तत्र पूर्णा इत्य् अनेन अहो वयम् अपि यथा कथञ्चित् तत् सम्बन्धेन तथा भवितुं पारयामः । किन्तु नास्ति तादृग् भाग्यम् इति पुलिन्द्य इत्य् अनेन तादृशीभ्यो\ऽपि शोच्या वयम् इति उरुधा वेणुना गायतीत्य् उरुगाय इत्य् अनेन निजाधैर्ये तत् कर्तृक-कारण-विशेषो\ऽप्य् अस्तीति पादाब्जयोः राग-रूपं यत् तत एव हेतोर् अस्माद् दृशैक-गम्यकान्त्यामोदादि श्री-विशेष-युक्तं च यत् तेन कुङ्कुमेनेत्य् अनेन तादृश-पदाब्ज-स्पर्शाय मनः स्पृहयतीति दयिता तादृश-नागरस्य तादृशीं विना स्थितेर् असम्भवात् या काचित् प्रेयसी निगूढं विद्यते तस्याः स्तनाभ्यां मण्डितं शोभा-विशेषमानीतचरं यत् तेनेत्य् अनेन तस्यास् तु तत् तद् विलासात्मकं तादृशं भाग्यम् अस्माकम् अतिदूराद्-दूरतम् एवेति तद् दर्शनेत्य् अनेन तत् सम्बन्धिनो\ऽपि झटिति तत् तल् लीलानुसन्धापनेन स्वभावेनैव वा तादृश-मोहनत्वं किं पुनस् तस्येति तृणेत्य् अनेन तादृश-जन्माप्य् अस्माकं भवत्व् इति लिम्पन्त्य इत्य्-आदिना अहो हर्षभरस् तासाम् इति च बोधयन्ति प्रथमं तादृश-लोभन-स्वभावाकृष्टतया घ्राण-दर्शनार्थं मुख-सन्निहितं नीतं ततस् तत्र लिम्पन्त्यः पश्चात् स्मर-वेगेन कुचेषु लिम्पन्त्य इत्य् अर्थः ।

श्री-कृष्णाङ्ग-सङ्गि-वस्तु-दर्शनेन तद् वस्तु-मात्रस्यापि प्रसङ्गो भवत्विति जातः स्मराधिस् तत् प्राप्त्या तद् अंशेन शान्तो भवत्य् एव ततस् तासाम् अभवद् अस्माकं तु न तद् अंशेनापीत्य् अर्थः । ततस् ता अप्य् अस्माद् अपेक्षया पूर्णा इत्य् अहो दुर्भाग्यम् इति भावः । अत्रैतद् उक्तं भवति तद् इदं तासाम् अखिलं वचनं भाव-मात्राव-गतम् अपि यथावद् एव तादृश-गाढ-भावस्य दूरतो\ऽपि स्व-विषय-साक्षात्कार-हेतुत्वात् यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु।] इत्य्-आदिभ्यः अतस् तद् एतद् अनुवदिष्यते पट्ट-महिषीभिर् अपि

कामयामह एतस्य श्रीमत्-पाद-रजः-श्रियः ।

कुच-कुङ्कुम-गन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ।

व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः । [भा।पु। १०.८३.४२]

इति तत्र सत्य् उरुगाय-पदाब्ज-रागेत्य् अनेन सह दयिता-स्तन-मण्डितेनेत्य् उक्त्या तत् कुङ्कुमं दयिता-स्तनतस् तस्य पदे लग्नम् इति गम्यते सा च दयिता श्री-पदेनानूदिता तद् इदं वर्णयन्तीषु तास्व् अपि विशिश्ष्टा रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति मत्स्यादिप्रसिद्धा श्री-राधईव लभ्यते श्रियः कान्ताः कान्तः परम-पुरुषः इति ब्रह्म-संहिता-दर्शनात् व्रज-देवी-मात्राणां श्रीत्वे प्राप्ते—

देवी कृष्णमयी प्रोक्ता राधिक पर-देवता ।

सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥

इति बृहद् गौतमीये तु तदाधिक्यं दृश्यते अन्यस्या श्रीयः कस्यानुभावोऽस्य न देव ! विद्महे [भा।पु। १०.१६.३६] इत्य्-आदौ निरस्तत्वात् रुक्मिण्याश् च तदानीम् असम्बन्धाद् इति सङ्गमश् चायं दिवस एवेति सम्भाव्यते तत्रैव पुलिन्दीनां भ्रमणात् कुङ्कुमानां लेपन-कर्मणार्द्रत्वावगमाच् च द्वयोः सम्बन्धश् चायं न सम्भोग-विशेष-रूपः । रास-प्रसङ्गे भगवान् अपि ता रात्रीः शरदोत्फुल्ल-मल्लिका । वीक्ष्य रन्तुं मनश् चक्रे [भा।पु। १०.२९.१] इति तत्रैव नव-सङ्गमस्य प्रतीयमानत्वात्, अन्यथा तत्र परीक्षार्थं पुनस् तेनोपेक्षा-वचनस्य असङ्गतत्वापत्तेः । तद् इदं वेणु-प्रकरणे भणितत्वाद् वेणु-सम्बन्धेनैव गम्यते । उरुगायेत्य् अनेनैष एव हि सूचितः तस्मात् कदाचिद् वेणु-कृताकर्षायास् तस्या लब्ध-मूर्च्छायाः मूर्च्छा-शान्तये सकुङ्कुमे स्विन्ने वक्षसि सम्भ्रमतः केवलेन चरण-सञ्जीवनी-पल्लवेन स्मृशन्न् एवाद्यापि सम्यक् सङ्कोचान् अपगमात् द्रुतम् एव स तस्मात् निश्चक्रामेति बुध्यते काश्चित् परोक्षं कृष्णस्य [भा।पु। १०.२१.३] इत्य् उक्तत्वात् यास् तु तद् अन्यास् तासाम् एव पूर्णाः पुलिन्द्य इति वचनं तासां च प्रायो जात-पूर्वानुरागाणाम् ईर्ष्या-नव-सरत्वाद् अन्य-सङ्गम् अस्फुरणे\ऽपि राग एव द्विगुणितः यर्ह्य् अम्बुजाक्ष ! तव पाद-तलम् [भा।पु। १०.२९.३६] इत्य्-आदि उक्तिस् तु कुमारीणां स्वस्मिंस् तत् स्वीकृतत्वम् एव ह्य् अत्र तत् स्पर्शतया निर्दिष्टम् अभिरमिता आनन्दिता इत्य् अर्थः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्णाः पुलिन्द्य इति । अत्र दयिताः काश्चिद् वेणुनाकृष्टाः मूर्च्छिताश् च तासां मूर्च्छा-शान्तये येन चरण-पल्लवेन स्पर्श-मात्रं कृतम् इति विवेचनीयं स्वभाव-सङ्गोपनाशक्ति-पक्षे रमणं रामः क्रीडा तद्-युक्तस्य कृष्णस्य चरणयोः स्पर्शेन प्रमोदो यस्य तयोश् चरणयोः ॥१७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सखि ! अस्मिन् पुलिन्द्योऽप्य् अतिधन्या इति पुनः प्रौढा एव । राधा-सख्य एवोचुः—पूर्णाः पुलिन्द्य इत्य्-आदि । पुलिन्द्य इति भौम-वैकुण्ठोपलक्षणम् अन्यथा अभौमे तासाम् असम्भवात् । एतेनोक्त-प्रकाराणां व्रजे देवीनाम् अतिरिक्ता अपि भौम-स्त्रियोऽपि तत्र वर्तन्ते । ता अपि कृष्णे अनुरक्ता मन्तव्याः । अतो भाषा-गीतादौ जलाहरण-दधि-दुग्धादि-विक्रय-पराणाम् अपि यद्-अनुराग-कथाः श्रूयन्ते, न ता अवधीरयितव्याः । सर्वम् एव सम्भवत्य् अधिकार-भेदात् । प्रेमैवास्वाद्यः । पुलिन्द्यः पूर्णाः कृतार्थाः । कुतः ? इत्य् आहुः—उरुगाय-पदाब्जयोर् यो रागस् तत्र यत् श्री-कुङ्कुमं श्री-युक्तं कुङ्कुमम् । अथवा, उरुगाय-पदाब्ज-राग-जनकं यच् छ्री-कुङ्कुमं तेनानन-कुचेषु लिम्पन्त्य आत्मनाम् इत्य् अर्थः । तद्-आधिं स्मर-रुक्-कृतम् आधिं जहुः । अतः पूर्णाः । कीदृशेन ? दयितायाः श्री-राधायाः स्तनाभ्यां स्तनयोर् वा मण्डितेन । पक्षे—भावे क्तः । दयितेति वक्त्रीणां राधा-सखीत्वं स्पष्टम् ।

ननु, ताभिस् तत् कुतो लब्धम् इत्य् आह—तृण-रूषितेन तृण-लग्नेन । अयं भावः—दयितास् तेन कुङ्कुमं यच् चरणयोर् लग्नं तत्-प्रेम्णा तन् न प्रक्षाल्यते, चरण-राग एव तल्-लीनं जनैश् च न लक्ष्यते । तत् तु वृन्दावने पाद-त्राणं विनैव व्रजतश् चरण-स्पर्शेन तृनान्य् अपि स्निह्यति । तेन तेषु लग्नं भवति । तद्-अन्वेषण-पराः पुलिन्द्यो हि तन्-मर्यादां जानन्तीति, तथा वयं त्व् अपूर्णा इति निर्वेदः ॥१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं सौन्दर्यादि-वेणु-गानादि-रूप-गुणाव् अप्य् अनपेक्षमाणं किञ्चित् सम्बन्ध-मात्रेणैव तन्-मोहनत्वं प्रतिपादयन्त्यः प्रेम्णः सप्तम्या भूमिकाया महाभावस्य मादनाख्यं महासारं भावम् अभिव्यञ्जयन्त्यः श्री-वृषभानु-कुमारी-चरण-पङ्कज-द्युतय आहुः—पूर्णा इति । पुलिन्द्यः शबराङ्गना एव पूर्णाः, वयं त्व् अपूर्णा एवेत्य् अतस् तदीयं तपो जिज्ञासमानाश् चिकीर्षाम इत्य् अनुरागो ध्वनितः ।

ननु केन पूर्णाः ? तत्राहुः—उरुगायस्य पदाब्जस्य रागो रञ्जनं यत्र तेन श्री-युक्त-कुङ्कुमेन

ननु तत्-पदाब्ज-गतं तत्-कुङ्कुमम् कुतस्त्यं तावत् ? तत्राहुः—दयिता-स्तन-मण्डितेन दयिता-सम्भोगात् तदीय-सम्बन्धीति भावः । अतस् तदीय-परम-सौभाग्यस्य स्तुताव् अभिलाषे च साहसं कर्तुम् अशक्नुवतीभिर् अस्माभिः पुलिन्द्य एव स्तूयन्त इति भावः । यद्यपि दयिता सैव स्वयं श्री-वृषभानु-कुमार्य् एव तद् अप्य् अनुराधिक्येनैव तद्-अमाननम् ।

ननु ततोऽपि किं ? तत्राह—तद्-दर्शन इति । तस्य तृण-लग्न-कुङ्कुमस्यापि दर्शनेन स्मर-रुक् कन्दर्प-पीडा यासां ताः । न जानीमहे कृष्ण-दर्शने किम् अभविष्यद् इति भावः । ततश् च कृष्णाङ्ग-सौराभ्य-जिघृक्षया आननेषु तत्-कृत-सम्भोग-लिप्सया कुचेषु च लिम्पन्त्यः सत्यः कृष्ण-सम्भुक्तं-मन्यास् तद्-आधिं कन्दर्प-पीडां जहुः । अहो ! तत्-कुङ्कुमस्याप्य् अयं कोऽपि शक्ति-विशेष इति भावः । वयं तु तच् चापि जन्म-मध्येऽपि सकृद् अपि न प्राप्नुम इति भावः ।

पद्यम् इदं श्रीमद्-उज्ज्वल-नीलमणौ मादनम् अधिकृत्य सदा भोगेऽपि तद्-गन्ध-मात्राधार-स्तुतिः यथा [उ।नी। १४.२२३] इत्य् अत्रोदाहृतम् । सदा भोगेऽपीति मादनस्य भाव-समष्टित्वात् सम्भोगाः सर्वे विहाराश् च मादने वर्तन्त एव । अत्र विहारेऽपि सम्भोगस् तदानीं सहसैव कृष्णस्याविर्भावात् तेन सह ज्ञेयः । अत एवात्र प्रक्रमे—वर्णयन्त्योऽभिरेमिरे [भा।पु। १०.२१.६] इत्य् अत्र सहसैवाविर्भूतं कृष्णम् आलिङ्गितवत्य इत्य् अप्य् अर्थम् आहुः—

सर्व-भावोद्गमोल्लासी मादनोऽयं परात् परः ।

राजते ह्लादिनी-सारो राधायाम् एव यः सदा ॥ [उ।नी। १४.२१९]

इति तत्रैवोक्तेर् अन्य-वक्त्रीकत्वेनापि नेदं व्याख्येयम् ॥१७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अथ मादनाख्यं महाभावम् अभिव्यञ्जयन्त्यः श्रीमत्याः सख्यः परस्परम् आहुः—पूर्णा इति । हे सख्यः ! पुलिन्द्यः शबराङ्गना एव पूर्णा वयन्तु अपूर्णा इत्य् अर्थः । तथा च तदीयं तपश्चिकीर्षाम इति भावः ।

ननु, केन ताः पूर्णा इत्य् अत्राहुः उरु बहुविधं वेणुना गायतीत्य् उरुगायो नन्द-सूनुस् तत्-पदाब्जयो रागो रञ्जनं यत्र तेन श्री-कुङ्कुमेन शोभनजा गुडेनेत्य् अर्थः ।

ननु, तत्-पदाब्जगतं तत्-कुङ्कुमं कुतस्त्यं तत्-त्राहुर् दयितेति अतस् तत्—प्राप्ति-रहिताभिर् अस्माभिस्ताः पुलिन्द्य एव स्तूयन्त इति भावः ।

ननु, तेन पुलिन्दीनां किं तत्राहुः तृणेषु रूषितेन लग्नेनेति दयितासम्भोगोत्तरं कृष्णस वने विहारात् तेषु तल्-लग्नता ननु ततोऽपि किं तत्राहुः तस्य तृणरूषितस्य कुङ्कुमस्य दर्शनेन स्मररुक् कन्दर्प-पीड यासां ताः कृष्णाङ्ग-सौगन्ध्यालिप्सया आननेषु तत्-सम्भोगलिप्सया कुचेषु च लिम्पन्त्यस् तत् सम्भोगं मन्यमानास् तदाधिं स्मर-पीदां जहुर् इत्य् अहो तत्-कुङ्कुमस्यापीयं काचिच्छक्तिर् इति भावः । वयन्तु तन्मध्येऽपि सकृद् अपि तन् न लभामहे इति सर्वदा तत्-सम्भोगेऽपि सति तदाभासमात्राधार-स्तुतिर् मादन-भावस्य कार्यम् ॥१७॥


॥ १०.२१.१८ ॥

हन्तायम् अद्रिर् अबला हरिदास-वर्यो

यद् राम-कृष्ण-चरण-स्परश-प्रमोदः ।

मानं तनोति सह-गो-गणयोस् तयोर् यत्

पानीय-सूयवस-कन्दर-कन्द-मूलैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हन्तेति हर्षे । हे सख्यः ! अयम् अद्रिर् गोवर्धनो ध्रुवं हरि-दासेषु श्रेष्ठः। कुतः ? इत्य् अत आहुः—यस्माद् राम-कृष्णयोश् चरण-स्पर्शेन प्रमोदो यस्य सः । तृणाद्य्-उद्गम-निभेन रोमहर्ष-दर्शनात् । किं च, यद् यस्मान् मानं तनोति सह गोभिर् गणेन सखि-समूहेन च वर्तमानयोस् तयोः । कैः ? पानीयैः सूयवसैः शोभन-तृणैः कन्दरैश् च कन्द-मूलैश् च यथोचितम् । अतोऽयम् अतिधन्य इत्य् अर्थः ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हरि-भक्तपरा ऊचुः । दासो भृत्ये च कैवर्ते भक्ते प्रक्षेपके परे इति धरणिः । श्रेष्ठत्वे हेतुं शङ्कते—यस्माद् इति । निभेन चद्मना निभः स्यात् तुल्य-छद्मनोः इति वारतान्तविः । अस्य सत्य् अपि प्रमोदे नानवधानतेत्य् आह—किं चेति । यद् यतः । वैकल्पिकत्वान् न सहस्य सादेशः । तयोः राम-कृस्णयोः । यवसं तृणम् अर्जुनम् इत्य् अमरः । यवसं घासहोमयोः इति धरणिः । कं जलं दीर्यत एभीर् इति कन्दरास् तैस् तथा, पर्वतान्तर्गतैर् उभयतश् छिद्रैर् गृहैः । कन्दोऽस्त्री सूरणे सस्यमूले जलधरे पुमान् इति मेदिनी ।

मूलम् आद्ये शिफायां च समीपे मूलके च भे ।

तालमूल्यां गर्जरादौ बन्धनच्छेदकारिणि ॥ इति धरणिः ॥

यतो राम-कृष्णयोर् मानदोऽतो हेतोर् अयं गिरिर् अतिधन्योतीव भागवतः । इत्य् अर्थ इति । दूरतोऽपि भगवन् नाम-श्रवणादिना जना धन्या बचन्ते साक्षात् तन्-मूर्ति-सेविनां तु धन्यतमत्वम् उचितम् एवेति भावः

हन्तः सख्यो महद् आश्रयणं विना मनोरथः फलति, महत्त्वं च हरि-भक्तानाम् एव, तेषं मध्ये श्री-गोवर्धनो गिरीन्द्र एव मुख्य इति गार्गी-मुखाच्छ्रुत तद् अस्य तत्रत्यमानस-गङ्गायां स्नात्वा तद् अधिदैवतस्य श्री-हरिदेव-नाम्नो नारायणस्य दर्शनार्थं याम इत्य् अत्र गुरुजनानाम् अपि नैव विप्रतिपत्तिः, कृष्णोऽपि तत्रैव खेलतीति युक्ति निश्चितवत्यः । स्वरमणं तम् अभिसिषर्षवः श्री-गोवर्धनम् एव सगण-कृष्ण-वाञ्छित-साधकं स्व-वाञ्छित-सिद्ध्य् अर्थः स्तुवन्ति—हन्तेति विस्मये । हरि-दासेषु नारदादिष्व् अपि मध्ये मुख्या ये त्रयो हरिदासा युधिष्ठिरोद्धव-गोवर्धनास् तेष्व् अपि मध्येऽयम् अद्रिर् एव हरिदासवर्यः, हरिदासस्य राजर्षे राजसूय-महोदयम् इति युधिष्ठिरे, कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम् इत्य् उद्धवे, हन्तयम् अद्रिरबला हरिदासवर्यः इत्य् अस्मिन् पर्वतेऽपि हरिदास-पद-प्रयोगात् । यद् राम-कृष्णयोश् चरण-स्पर्शेन शिलाद्रवादभिव्यञ्जितः प्रमोदो यस्य सः । चरण-स्पर्शे सति शिलानां पङ्क-साधर्म्य-प्राप्त्या ध्वज-व्रज्राङ्कुशादि-मच् चरण-चिह्नं निर्झर-तृणोद्गमादयोऽश्रु-पुलकादयोऽपि प्रमोद-व्यञ्जका ज्ञेयाः । अत्र राम-पद-प्रयोगो भाव-गोपनार्थः । श्लेषेण रामः हये चपशु-भेदे च त्रिषु चारौ सितेऽसिते इति मेदिन्य् उक्ते रमणीयो यः कृष्णस् तस्य । हे अबला इति । पतिपारवश्यवतीनां युष्माकं तद् आश्रयणम् एव बलं बुध्यत इति भावः ।

यद् यतः प्रमोदाद् एव मानं तत्-प्रसादनीं पूजां तनोति । सह गोभिर् गणेन सखि-समूहेन चवर्तमानयोस् तयोः पानीयानि पाद्य् अचमनीय-पानार्थं सुगङ्गशीतल-निर्झर-जलानि तथा नैवेद्यार्थं पानीयाः पेय मध्वाम्रपील्वादि-रसाश् च सुयवसानि अर्ध्यार्थं दूर्वा गवां ग्रासार्थं सुगन्ध-कोमल-पुष्टिवर्धन-दुग्ध-सम्पादक-तृणानि च । दीर्घस् त्व् आर्षः । यद् वा, पानीयं सुवत इति पानीयस्वो निर्झराश् च कन्दरा उपवेश-शय्याविलासाद्य् अर्थं शीतोष्ण-समय-सुखदा गुहाश् च, भक्षणार्थं कन्दमूलानि च, तत्रत्य-रत्न-पर्यङ्क-पीठ-प्रदीपादर्शादयो\ऽप्य् उपलक्षकास् तैः ॥१८॥


कैवल्य-दीपिका : हन्त इति । हन्त अबलाःअयं गोवर्धनः । यत् यस्मात् राम-कृष्ण-चरणस्य स्पर्शेन तृणाङ्कुरोद्गम-व्याजात् रोमहर्षो यस्य स तथा । मानं पूजाम् । भूर् भूमिः यवसं तृणम् । कन्दरो दरी ॥१८॥ [मु।फ। १२.१२]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे सख्यः ! कृष्णानुग्रहे तद्-अनुग्रह एव हेतुः, तद् अयं गोवर्धन एव परम-भागवतस् तेनैवास्यानुग्रहो वाञ्छनीय इति तस्य भागवतत्वं निरूपयन्त्यः काश्चित् पुनः प्रौढा एवाहुः—हन्तेत्य्-आदि । हन्त हर्षे । अयम् अद्रिर् हरि-दास-वर्यो हरि-दासानां मध्ये श्रेष्ठः । यद् यतो राम-कृष्ण-चरण-स्पर्श-प्रमोदः । तयोः सह-गो-गणयोः गावश् च गणश् च गोप-बालानां गणस् तैः सह वर्तमानयोः पानीयादिभिर् मानं पूजां तनोति । मत्य्-उन्मादौ ॥१८॥


सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१०९] अधुना श्री-गोवर्धनस्य माहात्म्यं तथैवागायत् । तासाम् एव काश्चिद् आहुः—हन्तायम् [भा।पु। १०.२१.१८] इति । हन्तेति हर्षे विस्मये वा । अबलाः ! हे सख्यः ! अयम् अद्रिर् गोवर्धनो ध्रुवं हरिदास-वर्यः सर्वस्याशेषं पापं दुःखं चित्तं च हरतीति हरिः, तत्-स्वभावकेषु तस्य दासेषु मध्ये श्रेष्ठः । यद् यस्माद् राम-कृष्णयोश् चरण-स्पर्शेन प्रकृष्टो मोदो हर्षो रोमोद्गम-स्वेदानन्दाश्रु-सदृश-तृणाद्य्-उद्गम-जल-बिन्दु-स्रावादि-लक्षणो यस्य सः ।

किं च, यद् यतः तयोर् मानं पूजां तनोति । तत्र च न केवलं तयोर् एव, किन्तु तत्-सम्बन्धेन तत्-पाल्यमानानां गवां तत्-सहचराणाम् अपीत्य् आहुः—सह-गो-गणयोर् इति । गणो गोप-वर्गः, सह गोभिर् गणेन च वर्तमानयोः ।

तत्रापि यस्य तेन तुष्टिः स्यात्, तस्य तेनैव मानं विस्तारयतीत्य् आहुः—पानीयेति । तत्र पानीयानि पेयानि जल-मध्व्-इक्षु-रसादीनि । सूयवसेति दीर्घश् छन्दो\ऽनुरोधेन । सूयवसानि शोभन-तृणानि । यद् वा, सूः सवः प्रसवः पुष्प-फलादि । कन्दराः गुहाः । तैश् च तत्रत्य-पर्यङ्क-पीठ-सदृश-शिला-रत्न-प्रदीपादर्शादि लक्ष्यते । कन्दो मूल-फलयोर् अवान्तर-भेदः ।

यथा प्रभोर् भक्तिं परम-प्रीत्याचरति, तथैव तस्य भ्रातुः सखीनां गवाम् अपीति दास्य-वर्यत्वम् । दैव-हतानां तत्-प्रेम-वेग-मोहितानां अस्माकम् एतादृशी शक्तिर् नास्तीत्य् आशयेनाबला इत्य् उक्तिः । यद् वा, रमयतः सुखयतो जगद् इति सदा रमते क्रीडत इति वा रामौ यौ कृष्णस्य चरणौ, तौ स्वस्य स्पर्शेन नवनीतादि-तुल्यता नीयमान-शिलाभिः कोमलेन तथा यथा-कालं सुशीतलेन इषद्-उष्णेन चेत्य् एवं बहु-विधेन सुख-करेण प्रमोदयतीति तथा सः ।

अपि च, यद् यस्मात् तयोः सुप्रसिद्धयोर् असङ्ख्ययोर् गो-गणयोः । गो-शब्देन साहचर्यान् महिष्य्-अजादयो\ऽप्य् उपलक्ष्यन्ते जाताव् एकत्वेन । गौश् च गणश् च बलराम-श्रीदामादि-गोप-वर्गः, तयोः सह एकदैव अभेदेन यथायथं पानीयादिभिर् मानं तनोतीति ।

अथवा श्री-चरणयोर् आवश्यक-कमल-रूपकाभवाद् अयम् अर्थः कार्यः । रामं जगन्-मनोरमं यत् कृष्णस्य चरणम् आचरणं विहारः, तस्य स्पर्शेन स्पर्शनेन दानेन प्रमोदो यस्येति कृष्णो\ऽस्मान् वा प्रमोदयतीति तथा सः । विश्राणनं वितरणं स्पर्शनम् इत्य् अमरः । यद् यस्मात् कृष्णेनैव सह । अन्यत् पूर्ववत् ।

अहो धिग् अस्मान् ! यद् एवं कर्तुं न शक्नुमः । तासां सर्वथा परिपूर्णत्वे\ऽपि अपूर्णवद् वाक्यम् । परम-महा-प्रेम-स्वाभाविकातृप्ति-हेतुकम् इति पूर्वोक्तम् एवास्ति ॥१८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो यत्र यत्र कृष्णः प्रयाति, तत्र तत्र प्रयाण-समर्थानां पुलिनामासां भाग्यं दुऊरे\ऽस्तु, स्थिरो\ऽप्य् अयं श्री-गोवर्धनः परम-भाग्यवान् इत्य् आहुः—हनेति । अयम् इति तदानीं श्री-गोवर्धनान्तिक एव तासां निवासेन साक्षाद् अङ्गुल्या दर्शनात् ।

यद् वा, श्री-कृष्ण-प्रियतमत्वेन तस्य सदा साक्षाद् इव परिस्फूर्तेः । किं वा, परमादरेण तन् नामाग्रहणात्, जगतो\ऽशेषं पापं दुःखं चित्तं च यथायथं हरतीति हरिः, तत्-स्वभावकेषु तस्य दासेषु मध्ये श्रेष्ठः, प्रकृष्टो मोदो हर्षो रोमांच-स्वेदानन्दाश्रुवादि-स्वरूप-तृणाद्य् उद्गमार्द्रता-जल-विन्दुस्रवादि-लक्षण, तनोतीति सर्वैर् अन्यैर् अपि क्रियमाणं मानम् अयं विस्तारेण । करोतीत्य् अर्थः । गो-शब्देनान्ये\ऽपि पशवस् तद् उपलक्ष्याः, पानीयानि पेयानि जल-मध्वादीनि, सुयवसानि कोमलानि पूष्टि-वर्धनानि दुग्ध-सम्पादकानि, दीर्घत्वम् अर्मस्, छन्दो\ऽनुरोधात्,

यद् वा, पानीयं सुवते क्षरन्ति पानीयसूनि मृदूनि यवसानि । यद् वा, सूसवः प्रसवः पुष्प-फलादि, भूः इति क्वचित् पाठः । भू-उपवेशार्थं सुन्दर-स्थानम् इत्य् अर्थः । कन्दरा गुहाः, तैश् च तत्रत्यरत्नपर्यङ्क-पीठ-प्रदीपादी-पादर्शादयो\ऽप्य् उपलक्ष्याः । कन्द-मूलयोर् अवान्तर-भेदः पूर्वं लिखित एव । यथा-सम्भवं तैस् तेषां मानो ज्ञेयः ।

तत्र पशूनां जलै सूयवसैः सदा कन्दरैश् च कदाचित् कन्द-मूलैर् अपि तेषां क्वचिद् भक्ष्यैः गोपानां च सर्वदा सर्वैर् एव तत्र जेमनोपवेशाद्य् अर्थः सूयबसानि ज्ञेयानि । हे अबलाः ! इति तत्र तत्र युष्माकं शक्त्य् अभावेन कथञ्चिद् दास्य-मात्रम् अपि न घटेतेत्य् अहो बताभाग्य-वैभवम् इति भावः ।

अन्यत् तैर् व्याख्यातम्, अथवा रमते सदा क्रीडतीति, रमयति सुखयतीति वा रामो यः कृष्णः । यद् वा, तथैव रामौ यौ कृष्ण-चरणौ निजस्पर्शेन पादाब्ज-विन्यास-पदेषु सद्यो नवनीती-कृत-शिलाभिः सुकोमलेन तत्र चोष्ण-काले सुशीतलेन शित-काले चोष्णेत्य्-आदि-बहुविधेन प्रकर्षेण मोदयतीति तथा सः । किं च, तयोर् असङ्ख्येयत्वादिना सुप्रसिद्धयोः गो-गणयोः, जातावेकत्वम्, गौश् च गणश् च श्री-बलराम-श्रीदामादि-सहचर-वर्गस् तयोः सह तेन सहितयोः । किं वा, एकदैव यदा तं प्रति तदैव तौ प्रति तेत्य् अर्थः ।

यद् वा, रामं जगन् मनोरमं यत् कृष्णस्य चरणम् आचरणं विहारस् तस्य स्पर्शेन स्पर्शेन दानेन प्रमोदो यस्य सः—विश्राणनं वितरणं स्पर्शनम् इत्य् अमरः, सर्वथा सदा तत्-क्रीडा-सम्पादनोत्सुक इत्य् अर्थः । यद् वा, तेन प्रमोदयति तम् अस्मान् वा जगद् एव वेति तथा सः, तत्-क्रीडा-सम्पादनतस् तच् छ्रवणादिना सर्व-दुःख-हरणात् सेवा-विस्तारणाच् च सर्वेषाम् एवानन्दभर-सिद्धेः । यद् वा, रामयोः कृष्ण-चरण-स्पर्शमयताया इवास्मिन् सम्पत्तेर् इति दिक्, अलम् अतिविस्तरेण ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोष्ठ्य्-अन्तर-वार्तापि तथैव रसान्तराच्छन्ना यत एवम् आहुर् द्वाभ्याम्—हन्तेति । अयम् इति तदानीं श्री-गोवर्धनान्तिक एव तासां निवासेन साक्षाद् अङ्गुल्या दर्शनात् जगतोऽशेषं पापं दुखं चित्तं च यथायथं हरतीति हरिः तद् अधिष्ठाता देवः शास्त्रे लोके च प्रसिद्धः तत् स्वभावकेषु तस्य दासेषु मध्ये श्रेष्ठः तद् वर्यत्वम् एव फलाभिव्यक्ति-द्वारा दर्शयति यद् रामेति प्रकृष्टो मोदो हर्षः रोमाञ्च-स्वेदानानन्दाश्रुवादि-स्वरूप-तृणाद्य् उद्गमार्द्रता-जल-बिन्दु-स्रवादि-लक्षणः तनोतीति सर्वैर् अन्यैर् अपि क्रियमाणं मानमयं विस्तारेण करोतीत्य् अर्थः । पानीयानि पेयानि जल-मध्वादिनि दोर्घत्वम् आर्षं छन्दोनुरोधात् सुयवसानि कोमलानि पुष्टिवर्धनानि दुग्ध-सप्मादकानि ।

यद् वा, पानीयं सुवते क्षरन्ति पानीय-सुवो निर्झराः भू इति क्वचित् पाठ उपवेशाद्य् अर्थं सुन्दर-स्थानम् इत्य् अर्थः । कन्दराः गुहाः तैश् च तत्रत्य-रत्न-पर्यङ्क-पीठ-प्रदीपादर्शादयो\ऽप्य् उपलक्ष्याः यथा-सम्भवं च तैस् तेषां मानो ज्ञेयः हे अबलाः इति तत्र तत्र युष्माकं शक्त्य् अभावेन एतादृश-सेवा-भाग्यं न घटेत इत्य् अहो बताभाग्य-वैभवम् इति भावः । अन्यत् तैः तत्र चाक्षण्वताम् इतिवद् अवहित्थायाम् अप्य् अर्थान्तर-व्यक्तिर् यथा रामो नील-चारुसिते त्रिष् इत्य् अमर-कोशात् रामो रमणीयो यः कृष्णस् तस्य चरणयोः स्पर्शेन प्रमोदो यस्य सः तयोश् चरणयोः यद् वा, तादृश-कृष्ण-चरणयोः स्पर्श-प्रमोदो यस्मात् ऋत्व् अनुरूप-शैत्यादि-गुणकत्वेन स्व-शिलानां विधानात् ।

यद् वा, रामं क्रीडा-रूपं यच् छ्री-कृष्णस्य चरणम् आचरणं तस्य स्पर्शेन स्पर्शनेन दानेन प्रमोदो यस्य सः विश्राणनं वितरणं स्पर्शनम् इत्य् अमरः । सर्वदा सदा तत् क्रीडा-सम्पादनोत्सुक इत्य् अर्थः । यद् वा, तेन प्रमोदयति तमस्मान् जगच्चेति तथा सः यद् वा, तदृश-कृष्ण-चरणयोर् इव स्पर्श-प्रमोदो यस्य एतत् स्पर्शनेन तत् स्पर्शनानन्दस्यैव सिद्धेः निरन्तर-विचित्र-प्रेम-विहारश्रेणीभिस् तच् चरण-स्पर्शमयता इवास्मिन् सम्पत्तेः तस्येति वक्तव्ये तयोश् चरणयोर् इत्य् आदरेण ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सखि ! कृष्णानुग्रहो महद् अनुग्रहं विना न स्यात् । महान् गोवर्धनाद् अन्योऽपि नास्ति । तद् अस्माभिर् अयम् एवाराध्य इत्य् आशयेनान्या ऊचुः—हन्तेत्य्-आदि। हे अबलाः ! हन्त हर्षे । अयम् अद्रिर् गोवर्धनो हरिदासानां मध्ये वर्यः श्रेष्ठः । कथम् अनुमितम् ? इत्य् आहुः—यद् इति । यद् यस्मात् राम-कृष्ण-चरण-स्पर्शेन प्रमोदो यस्य । तद् एव कथम् अवगतम् ? तत्राहुः—मानं तनोति । कयोः ? तयोः, न केवलं तयोर् एव, सह-गो-गणयोः । कैः ? पानीयं च सुयवसाश् च सुतृणानि च । दीर्घ आर्षः । कन्दराणि कन्दाश् च मूलानि च कन्द-मूलयोर् अवान्तर-भेदः । कन्दाः कसेरुकादयः । मूलानि तद्-इतराणि भक्षण-योग्यानि । अथवा, तर्व्-आदि-मूलानि छाया-दानात् तैः । अत एवं-विध-सेवा-परो हि महान् भवतीति ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त सख्यः ! महद्-आश्रयणं विना नैव मनोरथः फलति । महत्त्वं च हरि-भक्तानाम् एव तेषाम् अपि मध्ये श्री-गोवर्धनो गिरीन्द्र एव मुख्य इति गार्गी-मुखात् श्रुतम् । तद् अद्य तत्रत्य-मानस-गङ्गायां स्नात्वा तद्-अधिदैवतस्य श्री-हरि-देव-नाम्नो नारायणस्य दर्शनार्थं याम इत्य् अत्र गुरु-जनानाम् अपि नैव विप्रतिपत्तिः । कृष्णोऽपि तत्रैव खेलतीति युक्तिं निश्चितवत्यः स्व-रमणं तम् अभिसिषीर्षवः श्री-गोवर्धनम् एव स-गण-कृष्ण-वाञ्छित-साधकं स्व-वाञ्छित-सिद्ध्य्-अर्थं स्तुवन्ति ।

हन्त इति विस्मये हरि-दासेषु नारदादिष्व् अपि मध्ये मुख्या ये त्रयो हरि-दासा युधिष्ठिरोद्धव-गोवर्धनान्तेष्व् अपि मध्ये अयम् अद्रिर् एव हरि-दास-वर्यः । हरि-दासस्य राजर्षे राजसूयं महोदयम् [भा।पु। १०.७५.२७] इति युधिष्ठिरे, कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् [भा।पु। १०.४७.५६] इत्य् उद्धवे, हन्तायम् अद्रिर् अबला हरिदास-वर्य इत्य् अस्मिन् पर्वतेऽपि हरिदास-पद-प्रयोगात् ।

यस्माद् राम-कृष्णयोश् चरण-स्पर्शेन शिला-द्रवाद्य्-अभिव्यञ्जितः प्रमोदो यस्य सः । चरण-स्पर्शे सति शिलानां पङ्क-साधर्म्य-प्राप्त्या ध्वज-वज्राङ्कुशादिमच्-चरण-चिह्नं निर्झर-तृणोद्गमादयोऽश्रु-पुलकादयोऽपि प्रमोद-व्यञ्जका ज्ञेयाः । अत्र राम-पद-प्रयोगो भाव-गोपनार्थः । श्लेषेण रामो नील-चारु-सिते त्रिषु इत्य् अमर-कोषात् रमणीयो यः कृष्णस् तस्य ।

हे अबला इति । पति-पारवश्यवतीनां युष्माकं तद्-आश्रयणम् एव बलं बुध्यते इति भावः । यद् यतः प्रमोदाद् एव हेतोः मानं तत्-प्रसादनीं पूजां तनोति । सह-गोभिर् गणेन सखि-समूहेन च वर्तमानयोस् तयोः । कैः ? पानीयानि पाद्याचमनीय-पानार्थं सुगन्ध-शीतल-निर्झर-जलानि, तथा नैवेद्यार्थं पानीयाः पेया मध्व्-आम्र-पील्व्-आदि-रसाश् च । सुयवसानि अर्घ्यार्थं दुर्वा गवां ग्रासार्थं सुगन्ध-सुकोमल-पुष्टि-वर्धन-दुग्ध-सम्पादकानि तृणानि च । दीर्घत्वम् अर्मस् ।

यद् वा, पानीयं सुवते इति पानीय-सुवो निर्झराश् च कन्दरा उपवेश-शय्या-विलासाद्य्-अर्थं शीतोष्ण-समये सुखदा गुहाश् च भक्षणार्थं कन्द-मूलानि च तत्रत्य-रत्न-पर्यङ्क-पीठ-प्रदीपादर्शादयोऽप्य् उपलक्षान्तैः ॥१८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : हन्त सख्यः सत्तमाश्रयणाद्विना स नन्द-सूनुः सतां प्रेयान्नलभ्यते स च गिरिराज एवातस् तद् दर्शनाय गच्छामस् तत्रैव तं प्राप्नुम इति भावेन पराः काश्चिद् आहुः—हन्तायम् इति । अयमद्रिः गोवर्धनो हरिदास-वर्यः हरिदासस्य राजर्षे राजसूयं महोदयम् इति युधिष्ठिरः कृष्णं स्ंस्मारयन् रेमे हरिदासो व्रजौकसां इत्य् उद्धवश् च हरिदासः हन्तायम् इत्य् अत्र गोवर्धनो हरिदासवर्योऽभ्यधायीत्य् अर्थः । कुतस् तद्वर्यत्वं तत्राह यतो राम-कृष्णयोश् चरण-स्पर्शेन शिलाविद्रवादि-सूचितः प्रमोदो हर्षो यस्य सः यद् यतः प्रमोदाद्-धेतोः गोभिर् गणेन च सखि-वृन्देन सहितयोस् तयोर्मानं पूजां तनोति कैर् इत्य् आहुः पानीयेति । पानीयानि पाद्याचमन-पानार्थानि सुगन्ध-शीतल-मधुराणि निर्झर-जलानि नैवेद्यार्थाः पानीया पेया मध्वाम्रादिरसाश् च तैः सुयवसान्यर्घ्यार्थानि दूर्वाङ्कुराणि गोग्रासार्थानि पुष्टिकराणि दुग्धवर्धनानि च मृदूनि तृणानि तैः दैर्घ्यम् आर्षं कन्दराशोपवेशविलासार्थाः शीतोष्ण-समय-सुखदा गुहाष् च ताभिः भक्षणार्थानि चामृतस्वादूनि कन्दमूलानि तैर् इति स्वतनुविभवैर् एव स्वामिनः पूजाविधानादयं तद्वर्य भावः ॥१८॥


॥ १०.२१.१९ ॥

गा गोपकैर् अनुवनं नयतोर् उदार-

वेणु-स्वनैः कल-पदैस् तनु-भृत्सु सख्यः ।

अस्पन्दनं गतिमतां पुलकस् तरूणां

निर्योग-पाश-कृत-लक्षणयोर् विचित्रम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे सख्यः ! इदं त्व् अतिचित्रम्गोपैः सह वने वने गाः सञ्चारयतोस् तयो राम-कृष्णयोर् मधुर-पदैर् महा-वेणु-नादैः । शरीरिषु ये गतिमन्तः, तेषाम् अस्पन्दनं स्थावर-धर्मः, तरूणां पुलको जङ्गम-धर्म इति । निर्युज्यन्ते गाव आभिर् इति निर्योगाः पाद-बन्ध-रज्जवोऽधृष्य-गवां कर्षणार्थाः पाशाश् च, तैः कृतं लक्षणं चिह्नं ययोः । शिरसि निर्योग-वेष्टनेन स्कन्ध-स्थ-पाशेन च गोप-परिवृढ-श्रिय विराजमानयोर् इत्य् अर्थः ॥१९.२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स-कौतुका आहुः । अस्पदन्दं चलनाद्य्-अभावः । पुलकः रोमोद्गमः—रोमोद्गमस् तु पुलकः प्रेम्णि वृद्धेऽग्रगे तथा इति शब्द-रत्ने । अधृष्या अनम्रा या गावः, तासां कर्षणम् एवार्थः प्रयोजनं येषां, ते पाशाः पाशवद् रचिता रज्जवः । चिह्नं लक्ष्म च लक्षणम् इत्य् अमरः । गोपेषु परिवृढा अधिपाः, तेषां श्रिया शोभया । इत्य् अर्थ इति—अतीव शक्ता ये गोपाः, त एवाविशस्त-गवाकर्षणे योग्या नान्य इति तात्पर्यम्। निर्योगाख्यः पाशो निर्योग-पाशः । स च चपल-स्वभावानां वत्सानां दोहन-समये गो-वाम-जङ्घासङ्गता गल-बन्ध-रज्जुः, तेन कृत-लक्षणयोः सौन्दर्य-विशेष-लाभेन ख्यातयोः, गुणैः प्रतीते तु कृत-लक्षणाहत-लक्षणौ इत्य् अमरः । ततश् चायं मुक्ता-स्तवक-जुष्टाग्र-द्वयः पीत-पट्टमय उष्णीषा-बन्ध-भूषण-विशेष इव गोपालकत्व-व्यञ्जको द्रष्टॄणां मनो-मोहन एव ज्ञेय इति चक्रवर्ति-तोषिणीकाराः ॥१९॥


कैवल्य-दीपिका : गा इति । कलानि मधुराणि पदानि येषु, तेषु वेणु-स्वनेषु, तैस् तनु-भृत्सु मध्ये गतिमतां स्पन्दनं किञ्चित् चलनम् । अगतिमतां तरूणां तु पुलक इति चित्रम् । येन दोहकेन दोह-काले गाः पश्चात्-पादयोर् नियम्यन्ते, स निर्योग-पाशः । तेन कृतं तल्-लक्षणं चिह्नं किल रूपं ययोस् तौ तथा ॥१९॥ [मु।फ। १२.१३]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुनर् वत्सला ऊचुः—गा इत्य्-आदि । अनुवनं वनं वनं कदाचिद् वृन्दावने कदाचिद् भाण्डीर-वन इत्य्-आदि । गोपकैः अनुकम्पायां कः । राम-कृष्णयोर् मध्ये यस्य उदार-वेणु-स्वनैः कल-पदैस् तनुभृत्सु प्राणि-मात्रेषु गति-मताम् अस्पन्दनं स्थावरत्वं, तर्व्-आदीनां पुलकः । तस्य किं विचित्रम् ? कर्तुम् अकर्तुम् अन्यथा-कर्तुं समर्थत्वात् । वेणु-स्वनः श्री-कृष्णस्येति प्रसिद्धिः । कीदृशयोः ? निर्योगपाशो गो-च्छन्दन-रज्जुस् तत्-कृतं लक्षणं ययोः, वेशानां साम्ये\ऽपि कृष्णस्यैवायम् आकर्षकत्वम्, परिपूर्णत्वात् । [मतिः]{।मर्क्} ॥१९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं वक्तव्यो हरि-दास-वर्यत्वेन यथार्थ-नाम्नो\ऽस्याद्रि-पतेर् महिमा, अहो श्री-व्रज-भूमौ श्री-वृन्दावने स्थिताः सर्वे\ऽप्य् अत्रत्याश्चराचराः परम-धन्या इत्य् आहुः—गा इति । गोपकैर् इति स्नेह-विवक्षया क-प्रत्ययः । यद् वा, गोपयन्ति रक्षन्तीति गोपकाः गोपालाः । यद् वा, गोपानां कं सुखं येभ्यस् तैः ।

वेणु-स्वनैर् अनुवनं प्रतिवनम् इति श्री-माधुर्याणि सर्वाण्य् एव वनानि गृहीतानि । उदारैर् महद्भिर् उच्चैः सर्वानन्द-प्रदैर् वा, कलानि मधुर-स्वराणि पदानि गीताङ्गानि येषु । यद् वा, मधुरास्फुट-ध्वनि-युक्तैः पदैश् च पादाब्जैः, तेषां सनूपूरत्वात् कल-युक्तत्वम् ।

अस्पन्दनं स्तब्धतेति स्थावर-धर्मः । तरूणाम् इत्य् [उपद]{।मर्क्}लक्षणम्, सर्वेषाम् अपि स्थावराणां पुलक इति चोपलक्षणम्, कम्पादि च ज्ञेयम्, तेन जङ्गम-धर्म इति वैपरीत्यम्, अतो विचित्रम् अद्भुतम् । यद् वा, अस्पन्दनस्य विशेषणं जगद् विलक्षणम् इत्य् अर्थः । ततश् च लिङ्ग-व्यत्ययेन पुलकस्यापि विशेषणम् ऊह्यम् । एवं सर्वेषाम् एव प्रेम-विशेषोदयः सूचितः ।

निर्योग- इत्य् अनेन च तद्-अद्भुत-रम्य-वेष-दर्शनम् अप्य् एको हेतुर् अस्पन्दनादाव् ऊह्यः, वृक्षादीनाम् अपि सूक्ष्मा दृष्टिर् अस्तीति, तस्मात् पश्यन्ति पादपाः इति महा-भारततो ज्ञेयम् । यद् वा, न केवलम् अस्पन्दनादिकम् एव, अन्यश् च विविध-प्रेम-विकारो भवतीति व्यक्तम् एवाहुः । निःशेषेण योगः सङ्गमो यस्मात् । किं वा, निर्गतो योगः प्रेम-सम्पद्-विरोधी निर्विकल्पक-समाधिर् यस्मात्, स चासौ पाशश् च प्रेम-लक्षणः, साक्षात् तद्-अनुक्तिर् दुःख-विशेषात् । तस्य कृतं लक्षणं मोहादिना निपातादिकं रोदनादिकं च याभ्याम्, तनुभृत्स्व् इत्य् अस्यात्रैव वान्वयः । एवं चराचराणां वैपरीत्येनैक्येन च विविध-प्रेम-लक्षणानि भवन्तीत्य् अर्थः ।

यद् वा, चराचराणां तेषाम् एव निर्योग-पाशेन तादृश-प्रेमोदयेन कृतं ज्ञापितं लक्षणं स्थिति-गमनादि-चिह्नं ययोः, तेषाम् अस्पन्दनादि-दर्शनेन ज्ञायेत, अत्र तौ तिष्ठतः, अनेन पथा वा गतौ स्त इत्य्-आदिकम् इत्य् अर्थः । ययोर् अपि निदेशः पूर्वोक्ताभिप्राय एव । हन्त चराचराणाम् एषां भाग्यं यन् निर्योग-पाशादि-मधुर-वेषं तं पश्यन्त्य् अमी, मादृशीनां तु तद्-दर्शन-मात्रम् अपि सुदुर्लभम्, अहो दौर्भाग्यम् ! इति भावः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो किं वक्तव्यो हरि-दास-वर्यत्वेन यथार्थ-नान्मोऽस्याद्रिपतेर् महिमा किन्तु सर्वे\ऽप्य् अत्रत्याश्चर्य-चराः परम-धन्या इत्य् आहुः--गा इति । अनेन तासां गवाम् असङ्ख्येयत्वात् दूर-गामित्वेन विस्तीर्ण-देशग-जीव-गण-सुख-दातृत्वं विवक्षितम् । अनुवनम् इति तत्राप्य् अवान्तर-भेदेन ततः स्वेषाम् एव तद्-वञ्चनेन सर्वतः पुण्य-हीनत्वं । गोपकैर् इति दयायां कन्, तत्-परिवारत्वेन स्नेह-विषयत्वात्, अतो गोपायन्ति दुःख-भय-स्थानात् श्री-कृष्णं रक्षन्तीति । श्लेषश् च अस्माकं तु न तादृश-प्रेम-सेवा-योग्यतेति भावः । नयतोर् इति तत्र तत्र गमने तयोः स्वाच्छन्द्यं घटते । हा कष्टं न त्व् अस्मत्-सन्निधाव् इत्य् एतत् । उदार- इति तत्र तत्रत्येषु तु तस्य परमानन्द-दातृत्वं । वेण्व् इति तदीय-स्वनेष्व् अपि वैशिष्ट्यं कल-पदैर् इति ध्वनौ तु मधुरास्फुटे कले इत्य् अभिधानात् माधुर्येणैव तावन् मनोहरत्वं तत्र चास्फुटत्वात् केयं सङ्केतोक्तिर् इति नाना-भावाक्रान्त्या तद् अतिशयित्वम् ।

यद् वा, नूपुर-कल-शब्द-युक्तैः पदैः पाद-क्षेपैः इति तद्-विलास-स्मरणं । बहुत्वं गौरवेण । तनु-भृत्स्व् इति एषः । कस् तनुभृत् ? यस् तद्-वशेन पतेद् इत्य् एतत् सख्य इति इदं भवत्यो\ऽपि जानन्तीत्य् एतत् । अस्पन्दनं किञ्चित् चलनस्याप्य् अभावः गतिमतां प्रशस्त-तच् छक्ति-युक्तानाम् अपि नित्य-तत्-स्वभावानां नद्य्-आदीनाम् अपि वा, अतः किम् उतास्माकं दूर-गमनम् इत्य् एतत् । पुलकस् तरूणाम् इति अरोमकाणां सर्वासाम् एव गवां सुशीलत्वेन पाशान्तरानुपयोगात् निर्योगाख्यः पाशो निर्योग-पाशः, स च चपल-स्वभावानां वत्सानां दोहन-समये गो-वाम-जङ्घ-सङ्गता गल-बन्धन-रज्जुः, तेन कृत-लक्षणौ गुणैः प्रतीते तु कृत-लक्षणाहत-लक्षणौ इत्य् अमर-कोषात् परम-सौन्दर्य-गुणेन प्रतीतौ । ततश् चानेन मुक्ता-स्तवक-जुष्टाग्र-द्वय-पट्टमयत्वं तस्य ध्वनितं । सोऽयं चोष्णीषाद्य् उपरि शोभां दधानो गोप-वेषः सर्वेषां मनोहर्तापि तासां श्री-गोप-सुन्दरीणां तु विशेषतो ज्ञेयः ।

स्व-देश-जाति-वयस् सदृशं वेषादिकं हि सर्वेष्व् अतीव रोचकं स्याद् इति विचित्रम् इति । तत्र तत्र स्वेषां विस्मय-मोहः इदं यथा-योग्यं बहुत्र योजनीयम् । अथ पूर्ववत् केवल-कृष्णैक-विषय-भाव-व्यञ्जकश् चायम् अर्थः । अहो सख्यः ! स्फुटं गोचारण-मिषेण स-गणः स-भ्रातृकोऽसौ वनं भ्रमन् कितव इव लक्ष्यते इत्य् आहुः—गा इति । निर्योग-पाशाभ्यां कृतं सिद्धं लक्साणं कितवोचित-पद-बन्धन-चिह्नं ययोस् तथा-भूतयोः । गोपकैस् तद्-अधिपस्य स्तेय-वस्तूनां च रक्षकैः पृष्ट-पालाख्यैः सहानयोर् गा वनाद् वनं नयतोर् मध्ये य उदारः सर्व-वरीयान्, तस्य वेणु-स्वनैर् जङ्गमानाम् अस्पन्दनम् अभूद् स्थावराणां च पुलकोऽभूत् । कीदृशैः ? मोहन-मन्त्रवन् मनोहरा अव्यक्त-पदैः, अतो महा-वैणविक एवात्र कितव-मुख्यः, अन्ये तु तद्-अनुयायिन एव । तस्माद् अस्माभिर् इव तस्य मोहन-विद्यात्मको वेणुर् भवतीभिर् न श्रोतव्यः । अन्यथा ताभ्यां नियोग-पाशाभ्याम् एव नूनं भवन्-मनो बद्धं भविष्यतीति भावः । एवं सर्वथा स्व-मोह-दुःखम् एव विवक्षितम् इति स्थितम् ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नयतोः तयोः । उदार- इति विशेषणात् श्री-कृष्णस्यैव वेणुर् बोध्यते । सर्वतोऽपि गुणगमत्त्वात् तस्य । तन्मयतां क्रीडामयताम् ॥१९.२०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपसंहारेऽपि वत्सला एवोचुः—गा गोपकैर् इत्य्-आदि । अहो विचित्रम् इदं यत् तनु-भृत्सु मध्ये गतिमताम् अस्पन्दनं स्थावराणां तरूणां पुलकः । कैः ? उदार-वेणु-स्वनैः । कयोः ? राम-कृष्णयोर् इत्य् अर्थः । कीदृशयोः ? अनुवनं वृन्दावनादि-वनम् अनु । गोपकैर् गोप-बालकैः, अनुकम्पायां कन् । गायतोः कीदृशैः ? कल-पदैः । कीदृशयोः ? निर्योग-पाशो गो-च्छन्दन-रज्जुः, तेन कृतं लक्षणं शोभा चिह्नो याभ्यां ययोर् वेति हर्षः ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तत्राभिसरणे विलम्बो न कार्यस् तस्यानुगवीनस्य वनान्तर-गमन-सम्भवाद् इत्य् आहुः—गा इति । गोपकैर् इत्य् अनुकम्पायां कन् । अतो गोपायन्ति कृष्णं स्नेहात् पालयन्तीति । श्लेषश् च—प्रति प्रातर् एव श्री-यशोदया तथैव तन्-नियोगात् । वने वने गास् तयोर् नयतोः सतोर् इदं विचित्रं भवतीत्य् अन्वयः । किम् तत् ? हे सख्यः ! तनुभृत्सु शरीरिषु मध्ये ये गतिमतस् तेषां वेणु-स्वनैर् अस्पन्दनं स्थावर-धर्मः तरूणां पुलको जङ्गम-धर्म इति । नियोगाख्यः पाशो निर्योग-पाशः स च चपलनानां वत्सानां दोहन-समये गो-वाम-जङ्घा-सङ्गता-वत्सानां गल-बन्धन-रज्जूः । तेन कृत-लक्षणयोः सौन्दर्य-विशेष-लाभेन ख्यातयोः गुणैः प्रतीते तु कृत-लक्षणा हित-लक्षणौ इत्य् अमरः । ततश् चायं मुक्ता-स्तवक-जुष्टाग्र-द्वयः पीत-पट्टमय उष्णीष-बन्ध-भूषण-विशेष इव गोपालकत्व-व्यञ्जको द्रष्टृणां मनो-मोहन एव ज्ञेयः ॥१९॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तत्र गमने विलम्बो न युक्तस् तस्यानुगवीनस्य ततोऽन्यत्र गमन-सम्भवादित्य् अन्याः काश्चनाहुः—गा इति । गोपकैर् इत्य् अनुकम्पायां कन् तत्-कृपाभाजनैर् इत्य् अर्थः । पक्षे गोपायन्ति स्नेहात् पालयन्ति कृष्णम् इति तैः सखिभिः सहानुवनं वने वने गा नयतोश्चारयतोः सतोरिदं विचित्रम् आश्चर्यं भवतीत्य् अनुषङ्गः । किं तत् ? कलपदैः मधुरालापैर् उदारैर् यदानन्ददातृभिर् वेणु-गीतैस् तनुभृत्सु देहिषु ये गतिमन्तो मृगादयस् तेषाम् अस्पन्दनं स्थावर-धर्मः तरूणां गतिहीनानां पुलको जङ्गम-धर्म इत्य् एतत् कीदृशयोर् इत्य् आह—निर्योगेति । निर्युज्यन्ते गावोऽनेनेति निर्योगः स च पाशश्चाधृष्यगवां पाद-बन्धनार्था रज्जुर्मुक्तागुच्छ-जुष्टाग्रद्वयी पीत-पट्टमयी उष्णीषे बन्ध-भूषेव शोभाधायिनी तेन कृतं लक्षणं चिह्नं ययोर् इति गोपपरिवृढश्रिया विराजमानयोर् इत्य् अर्थः ॥१९॥


॥ १०.२१.२० ॥

एवं-विधा भगवतो या वृन्दावन-चारिणः ।

वर्णयन्त्यो मिथो गोप्यः क्रीडास् तन्-मयतां गताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कामतः स्मरात् । निःसीम-प्रेम्णोऽमर्याद-स्नेहस्य सङ्गमः सम्प्राप्तिः । किम्भूतः सः ? कात्यायन्य्-अर्चनेनोद्भूतो यः, तत्-प्रसादः कृष्ण-प्रसादः, य एव महोदयो महा-फलं यत्र, स तथा । वर्ण्यते—अग्रे इति शेषः ॥२०॥


कैवल्य-दीपिका : ॥२०॥ [मु।फ। १२.१४]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं-विधा इत्य्-आदि । भगवतः श्री-कृष्णस्य, न तु द्वयोः मिथो रहसि अन्योन्यं वा, तन्मयतां तद् एक-मात्र-स्फुर्त्या सान्द्रानन्द-सम्भोगम् ॥२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईदृशान्यन्यान्य् अपि तच् चेष्टितानि बहुलानि वर्णयामासुः, तानि च कति मया वक्तुं शक्यानीत्य् उपसंहरति—एवम् इति । ईदृश्यो जगन्मोहिन्यो याः क्रीडाः । एवम्विधते हेतुः—भगवतो निजाशेषैश्वर्यं विशेषेण प्रकटयत इत्य् अर्थः । तत्रापि वृन्दावन-चारिणः स्वच्छन्द-विहारिण इत्य् अर्हः । यद् वा, वृन्दावन-चारिण इति तत्रत्य-क्रीडा एववर्णयन्, न तु व्रजान्तश् चारिण इति तत्र भगवद् दर्शनादिना निज-सौभाग्यस्यापत्तेः, पाठान्तरे\ऽपि स एवार्थः । विहारिण इति वा पाठः, ताः सर्वा एव क्रीडा वर्णयन्त्यः सत्यः, तन्मयतां भगवन्मयतां सदा तत्-कीर्तन-श्रवणादिपरताम् इत्य् अर्थः,

यद् वा, सन्ततम् एव तद् अनुभवानन्दम् इति, यद् वा, क्रीडामयतां सदैव तेन सहाक्रीडन् नित्य् अर्थः, यद् वा, तच् छब्देन प्रेमाग्नि-दाह-दुःख-विशेषोत्पत्तेः, साक्षान् नामाग्रहणम् पूर्ववत् सदैव प्रेमभरोदयेन परमार्ता बभूवुर् इत्य् अर्थः । गोप्य इति तासां एव स्वभावः, इति सर्वथैव तासां प्रेम-सम्पद्-वृद्ध्या सर्वातिशायि-सौभाग्यं वर्णितम् इति ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं बहु-लीला वर्णयामासिरे कति वा मया वर्णनीया इत्य् उपसंहरति—ईदृश्यो जगन्मोहिन्यो या क्रीडाः एवं विविधत्वे हेतुः भगवतः निजाशेष-माधुर्यं प्रकटयतः तत्र वृन्दावनचऋइण इति ताच्छील्येन तस्य नित्य-तादृश-लीलत्वं तासां च नित्य-तादृश-भावत्वं व्यञ्जितं व्यक्तं वृन्दावन-विहारिण इति पाठे तु तद् वैशिष्ट्यं तस्य ताः सर्वा एव क्रीडाः वर्णयन्त्यस् सत्यः तन्मयतां क्रीडामयतां तदाविष्टतां ययुः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसंहरति एवम् इति । वृन्दावन-चारिणो भगवत एवंविधा अन्या अपि याः क्रीडा वर्णयन्त्यो बभूवुस् तन्-मयतां तत्-प्रचुरतां क्रीडा-प्राचुर्यं ययुः प्रापुः । स्व-कान्तम् अभिसृत्य तत्-तत्-क्रीडावत्यो बभूवुर् इत्य् अर्थः ।

यद् वा, अयं तेऽभिसरन्तीत्य् अया गोप्य एवंविधा भगवतः क्रीडा भगवत्-कर्तृका भगवत्-कर्मकाश् च मिथो रहसि ययुः प्रापुः । क्रीडन्त्यः क्रीडयन्त्यश् च बभूवुर् इत्य् अर्थः । मिथोऽन्योन्यं रहस्य् अपि इत्य् अमरः । ततः परं तन्मयतां क्रीडा-तादात्म्यम् आनन्द-मोहनं च प्रापुः । व्याख्येयम् अवश्योपादेया अग्रिम-ग्रन्थे यर्ह्य् अम्बुजाक्ष [भा।पु। १०.२९.३६] इत्य् अत्र त्वयाभिरमिता इत्य् उक्ते ॥२०॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : उपसंहरति—एवम् इति । वृन्दावन-चारिणो भवतो या एवं-विधा क्रीडास् ता वर्णयन्त्यो गोप्यस् तन्मयतां तद्-आवेशं ययुः । ननु, नन्द-नृप-सूनोर् हरेर् गोप-सुभ्रुवां च शास्त्रार्थ-विदाम् अपि कुलाचारानुपयुक्ता मिथोऽनुरक्तिर् इयं दौःशील्यम् एवेति चेन् मन्दम् एतत् तथात्वे शास्त्राभावात्, प्रत्युत तस्य भक्त-वत्सलतां तासां परमा भक्तिर् इति शास्त्राच् च सिद्धान्तस् तु पञ्चाध्यायीम् अधि प्रदर्शयिष्यते ॥२०॥

यद्यच् चकार गोविन्दो वृन्दारण्ये विचेष्टितम् ।

प्रेम-नेत्रैस् तदालोक्य प्रोचुर् गोप्यो गृहस्थिताः ॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां

दशम-स्कन्धे पूर्वार्धे श्री-वेणु-गीतं

नामैकविंशोऽध्यायः ।

॥ १०.२१ ॥


(१०.२२)


  1. नट-नर- इति नर-वर इति वा केचित् । ↩︎

  2. बर्हा-पिच्छो वन-चर-वपुः कर्णयोः कर्णिकारः,

    सव्ये बाहौ निहित-वदनः सञ्जम् अन्यत्र हस्ते ।

    भ्रू-विन्यासाङ्गुलिभी रणयन् गापयन् गोप-वृन्दान्,

    भूत-ग्रामं तर्हि रमयन् ब्रह्म गन्धर्वम् एव ॥

    अयं श्लोकोऽधिकः वीर-राघव-संस्करणे। ↩︎

  3. अभिरेभिरे ↩︎

  4. तदीयत्वाद् उपचारेण ↩︎

  5. मूढ-गतयो\ऽपि ↩︎

  6. विरुतम् इति श्रीजीवस्य पाठः । वेनु-रिफितं ↩︎

  7. वेषम् इति क्वचित् पाठः । ↩︎

  8. विविक्त ↩︎

  9. वेषम् इति क्वचित् पाठः । ↩︎

  10. विविक्त ↩︎

  11. आरज्यन्ते ↩︎

  12. भगवद्-भक्ताख्य-मुनित्वोत्प्रेक्षया ↩︎

  13. विवृत्य ↩︎