२०

प्रावृड्-वर्णनं शरद्-वर्णनं च ।

॥ १०.२०.१ ॥

श्री-शुक उवाच—

तयोस् तद् अद्भुतं कर्म दावाग्नेर् मोक्षम् आत्मनः ।

गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधम् एव च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

विंशे प्रावृट्-शरच्-छोभा वर्णनेन वनोचिताः ।

प्रावृट्-क्रीडा निरूप्यन्ते गोप-राम-युजो हरेः ॥

हेयादेयोपमानेन प्रावृट्-शरद्-ऋतु-श्रियोः ।

वर्णनं त्व् अद्भुतैश्वर्य कृष्ण-लीला-विवक्षया ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोप-रामैर् युज्यत इति गोप-राम-युक् तस्य तथा ।*। हेयान्य् उपमानानि पाखण्डादीनि, आदेयानि भक्ताचरितादीनि ।*। तत्र तयोर् द्वयोर् मध्ये । उत्पत्तितो दंशमशकचित्रित-पृष्ठ-बहुपादादीनाम्, जीवनतो जीवन-हेतु-जल-वृष्टेः । सत्त्वं द्रव्ये प्राणि-मात्रे सत्त्वं सत्ता-स्वाभावयोः इति यादवः । परिधिः परिखाकाष्ठोप-सूर्य-शशि-मण्डले इति धरणिः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पञ्च-चत्तारिंशोऽध्य अपि अष्ट-चत्तारिंशोऽध्य अस्ति ।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तयोः श्री-राम-कृष्णयो प्रथक्त्वेन कृतम् अपि तयोर् अन्योन्यं साहाय्यादि-नैक्याभिप्रायेणैकत्रैव निर्दिष्टम्, यद् वा, दावाग्नि-मोक्षं कृणसस्य प्रलम्ब-वधश् च रामस्येति क्रमेण विवेचनीयम् । अद्भुतम् अलौकिकत्वात्, स्त्रीभ्यः श्री-यशोदादिभ्य इति तासां स्नेहादि-विशेषात्, -काराच् छ्री-नन्दादिभ्यश् च सम्यक् तत् तद् विशेषत आचख्युः, अप्य् अर्थे एव शब्दः, प्रलम्ब-वधस्य श्री-बलदेव-कृतत्वेन गौणतयाख्यानात्, अत एव पूर्व-वृतस्यापि तस्यापि तस्य पश्चान् निर्देशः । यद् वा, दावाग्नि-मोक्ष-कर्मणो महत्त्वाद् विशेषतश् च ततः स्वरक्षणाद् दावाख्यानम्, ततश् चैव शब्द उक्त-समुच्चये ज्ञेयः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तयोः श्री-कृष्ण-रामयोर् दावाग्नि-मोक्षण-रूपं प्रलम्ब-वध-रूपं च यथा स्वं तत् कर्मं सामयिकच्युत-क्रम-निर्देशः प्राधान्यापेक्षया त्रीभ्यः स्व-मात्रादिभ्यः असङ्कोचात् ता एव श्रावयितुम् इत्य् अर्थः । सम्यक् तत् तत् विशेषत आचख्युः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विस्फूर्जितं गर्जितम् ॥१.४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

उपमानेन वस्तूनाम् उपादेयत्व-हेयत्वे ।

विंशे प्रावृट्-शरच्-छोभा-वर्णने ऽद्योतयन् मुनिः ॥१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) :

उपादेयत्व-हेयत्वे वस्तू नाम् उपमानतः ।

बोधयन् विंशके ब्रूते प्रावृट्-शरद् ऋतु-श्रियम् ॥

गोपास् तस्य सखायः स्त्रीभ्यः स्व-स्व-मातृभ्यः ॥१॥


॥ १०.२०.२ ॥

गोप-वृद्धाश् च गोप्यश् च तद् उपाकर्ण्य विस्मिताः ।

मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न स्पष्टानि दृश्यानि ज्योतींसि सूर्यादीनि यत्र तत् । गुणैर् गुण-कार्यैर् इन्द्रियादिभिः । प्रकाशकत्वात् सत्त्व-साम्यं विद्युतः, अभिमान्य् एव गर्जत्यतोऽभिमानस्य रजः-कार्यत्वात् तत्-कार्यस्य गर्जनस्यापि रजस् त्वम् एवेति, अम्बुदानाम् आच्छादकत्वेन तमः साम्यम् उह्यम् ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उप तयोः समीप एव उपांशुत्वेन वा, आकर्ण्य देवेषु प्रवरौ परम-श्रेष्ठौ श्री-विष्णु-शिवौ व्रजं गतौ प्राप्तौ, जन्मामननञ् च-भक्ति-विशेषोत्पत्त्या जीववज् जन्मान-च बोधात्, किन्तु कृपया स्वयम् एव साक्षाद्-भूताव् इति, किन्तु निज-बन्धुत्वादिना प्रेम्णा भजनीयाव् एवेति भावः । यद् वा, हे देव हे परीक्षित् ! व्रजं गतौ प्रवरौ व्रज-जन-श्रेष्ठतराव् इत्य् अर्थः । यद् वा, देव-प्रवराव् इव, अतो\ऽस्मान् सदा परिपालयिष्यत इति भावः । गोपेषु वृद्धाः श्री-नन्दोपनन्दादय इति युवभ्यो भगवतो बालो\ऽपि तारुण्य इव क्रीडा-रसाकृष्टस् तत् सङ्गत्या वने विहर्तुं यास्तीति बोधयति । यद् वा, तरुणानां गोपानां गोपीनां च रस-विशेष-युक्तानां सदा भगवन् माहात्म्य-विशेष-परिस्फूर्त्या विस्मयाद्य् अभावात् ते ताश् चात्र नोक्ताः, अतो वृद्धानां गोपानां साहचर्येण गोप्यो\ऽपि वृद्धा एव ग्राह्याः । अत एव चकार-द्वयं प्रियतमानां तन् माहात्म्य-परिस्फुर्त्यापि न प्रेम्णा हानिर् अथ-च वृद्धिर् एवेति पूर्वम् उद्दिष्टम् एव ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत एव सर्वेषाम् अपि श्रुतवतां भावम् आह—गोपेति । सत्स्व् अपि युवसु गोप-वृद्धा इति तेषाम् अपि चमत्कारातिशयेन रसाधिक्यापेक्षया अतो गोप्यो\ऽपि तादृश्यो ज्ञेयाः, देवेषु प्रवरौ काव् अपि बन्धु-जनोचित-प्रेमाक्रान्त-चित्ततया निश्चयाभावात् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देव-प्रवराव् इति प्रेम-प्रावल्येन स्व-सम्बन्धस्य दार्ड्यात्-पूर्ववन् माधुर्यस्यैव पोषणम्, न त्व् एषाम् ऐश्वर्य-ज्ञानं ज्ञेयम्, तत्-कार्यस्य स्व-सम्बन्ध-शैथिल्यस्य तत्-संयोगे कुत्राप्य् अश्रवणात् ॥२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : गोपाश् च तासां श्वश्रूः देव-प्रवरौ निखिल-देव-श्रेष्ठौ साक्षात् प्रभुं मेनिरे न च तत्र वात्सल्य-शैथिल्यं किन्तु तत्-पुष्टिर् एव स्वात्मजे निखिल-क्षितीशे सति तन्-मात्रादीनां तत्र वात्सल्य-पुष्टेर् एव प्रतीतेर् इत्य् उक्तम् ॥२॥


॥ १०.२०.३ ॥

ततः प्रावर्तत प्राव्र्ट् सर्व-सत्त्व-स्मुद्भवा ।

विद्योतमान-परिधिर् विस्फूर्जित-नभस् तला ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र प्रावृड्-वर्णनं, तत इत्य्-आदि द्वा-विंशत्या । सर्वेषां प्राणिनां समुद्भव उत्पत्तितो जीवनतश् च यस्यां सा प्रावृट्विद्योतमानाः परिधयः परिवेषादि-शोभा यस्यां सा । विस्फुर्जितं सङ्क्षुभितं नभस् तलं यस्यां सा ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्रम-प्राप्तां श्री-भगवतः प्रावृट्-शरत् क्रीडां वक्तुं श्री-वृन्दावनस्य प्रावृट्-शरदोः शोभा विशेषाविर्भावेन तयोः श्री-भगवतोः क्रीडा-विशेषापेक्षया ते वर्णयति—तत इत्य्-आदिना यावत् समाप्ति । तत्र तयोर् आरम्भाद् अन्तावति क्रमेणैव वर्णनं ज्ञेयम् । विशेषेण द्योतमानाः प्रकाशमानाः परिधयो दिशो यस्याम्, वर्षारम्भे उद्द्यद्भिर् मेघैः सूर्याच्चादनेन दूरतो दृष्टि-प्रसरणात्, किं च विस्फूर्जितं सूर्य-तेजः क्षोमहान्या परिस्फुरितं नभ-स्थलं यस्याम् । यद् वा, वि-शब्दौ विहीनार्थौ, वर्षारम्भे वायु-वेग-प्रवृत्त्या धूलि-प्रसरतो\ऽप्रकाशमाना दिशो यस्याम् इत्य् अर्थः, तथा विस्फुर्जितं धूलिभिः सङ्क्षुभितं नभस् थलं यस्याम् इति ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्रम-प्राप्तां श्री-भगवतः प्रावृट्-शरत्-कृईडां वर्णयितुं श्री-वृन्दावन-सम्बन्धेनात्यन्तम् उल्लसन्ती तद् उद्दीपन-रूपां ग्रीष्मवत्त्वात् तद् ऋतु-श्रियम् एवादौ वर्णयति—वर्णनालङ्कारायानुषङ्गिकत्वेन सतां हेयोपादेयतां च दर्शयति—तत इत्य्-आदिना यावत् समाप्ति । तयोर् आरम्भादि-क्रमेणैव वर्णनं ज्ञेयम् । अन्यत् तैः तत्र दिश इति पक्षे वर्षारम्भे ईषद्-वृष्ट्या मरीचिका-हिम-धूल्याच् चाच्छादनेन दूरतो दृष्टि-प्रसरणात् विस्फूर्जितं गर्जितम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विस्फूर्जितं गर्जितम् ॥३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततो ग्रीष्मानन्तरं सर्वेषां सत्त्वानाम् प्राणिनां समुद्भव उत्पत्तितो जीवनतश् च यस्यां सा प्रावृत् वर्षा परिधिश् चन्द्रार्कयोर् मण्डलम् विस्फूर्जितं गर्जितं तद् युक्तं नभस्-तलं यस्यां सा ॥३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तत्र तावद् वर्षा-वर्णनं द्वाविंशत्या, ततो ग्रीष्मानन्तरं प्रावृट् वर्षा प्रावर्तन्त सर्वेषां सत्त्वानां प्राणिनां समुद्भव उत्पत्तितो जीवनं च वृद्धिर् यस्यां सा परिधिश् चन्द्रार्कयोर् मण्डलं विस्फूर्जितं सङ्क्षुमितं नभस्-तलं वियद्य् अस्यां सा ॥३॥


॥ १०.२०.४ ॥

सान्द्र-नीलाम्बुदैर् व्योम स-विद्युत्-स्तनयित्नुभिः ।

अस्पष्ट-ज्योतिर् आच्छन्नं ब्रह्म् एव स-गुणं बभौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सान्द्रैर् निबिडैर् नीलाम्बुदैर् विद्युद्-गर्जित-सहितैर् आच्छन्नम्स-गुणं गुणैर् आच्छन्नं जीवाख्यम् । विद्युद्-गर्जिताम्बुदानां सत्त्व-रजस्-तमोभिर् उपमा ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याखातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सान्द्र-नीलाम्बुदैर् आच्छन्नम्, अतो**\ऽस्पष्टं ज्योतिः** सहज-प्रकाशः सूर्य-तेजो वा यस्मिन् । अन्यत् तैर् व्याख्यातम् । तत्रास्पष्ट-ज्योतिष्ट्वादिना जीवाख्यम् इति, ततश् च नीलाम्बूदादि-सदृशैस् ताम् असादि-कर्मभिर् आच्छन्नम् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्पष्टं ज्योतिश् चन्द्र-सूर्यादिकं यत्र तादृशं सत् व्योम बभौ । तद्वारा स्व-प्रकाशान्तरं व्यञ्जयामास अस्पष्ट-ज्योतिष्ट्वे हेतुः, सान्द्र-नीलाम्बुदैर् आच्छन्नम् इति । कीदृशैः तैः ? विद्युद्भिः-स्तनयित्नुभिश् च सहितैः स्तनयित्नवोऽत्र कथञ्चिच् छब्द-परत्वाद् गर्जितम् एवोच्यते । किम् इव बभौ तत्राह—ब्रह्मेव जीवाख्य-ब्रह्मांश इव, तच् च कीदृशं ? सगुणं सत्त्व-रजस् तमोधिस् तत् कायैश् च आवृत-स्वरूप-ज्योतिर् इत्य् अर्थः । सत्त्वादि-स्थानीयांशास् त्व् अत्र यथायथं विवेचनीयाः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सान्धैर् निविडैर् नीलाम्बुदैर् विद्युद्-गर्जित-सहितैर् आच्छन्नम् आच्छन्नत्वेन प्रतीतं स-गुणं ब्रह्म समष्टि-विराड् आत्मा विद्युद्-गर्जिताम्बुदानां सत्त्व-रजस्-तमोभिर् उपमा । अत्र व्योम्नो निर्लेपत्वेन वस्तुतस् त्व् अरजस्-तमोभिर् उपमा । अत्र व्योम्नो निर्लेपत्वेन वस्तुतस् त्व् अनाच्छन्नत्वेनाम्बुदाद्य्-अधिष्ठान-मात्रत्वाद् ब्रह्मणा सहोपमेयं योगिभिः स्वीयोपास्य-दृष्ट्या उपादेया ॥४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : विद्युद्-गर्जित-सहितैः सान्द्रैर् नीलाम्बुदैर् आच्छन्नं व्योम वभौ अस्पष्टानि ज्योतींषि यत्र तत् । सगुणं ब्रह्म् एव समष्टि-जीव-चैतन्यम् इवेति विद्युद्-गर्जिताम्बुदानां सत्त्व-रजस् तमोभिर् उपमा । हिरण-गर्भोपासकैर् उपादेया अम्बुदादिभिर् व्योम्न इव गुणैर् हिरण्य-गर्भस्यालेप इति तद्-भावः ॥४॥


॥ १०.२०.५ ॥

अष्टौ मासान् निपीतं यद् भूम्याश् चोद-मयं वसु ।

स्व-गोभिर् मोक्तुम् आरेभे पर्जन्यः काल आगते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पर्जन्यः सूर्यः । स्व-गोभिर् निज-रश्मिभिः । काले यथोचित-समये । अत्र राजोपमा कराद् आनतः समये पुनर् दानतश् च सूचिता ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वर्षतीति पर्जन्यः पृषु-सेचने पृषेः यस्य जोन्य-प्रत्ययश् चौणादिकः । रविकरा एव मेघाकारेण परिणता वर्षतीति निरूपितं हरिवंशे । आदित्याज् जायते वृष्टि इति मनुक्तेश् च । स्व-गोभिः मेघाकारेण परिणतैः । अष्टौ मासान् इति कालाध्वनोर् अत्यन्त-संयोगे इति द्वितीया । वसु द्रव्यम् । उदमयम् जल-रूपम् । अत्र स्वरूपे मयट् ॥५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उदमयं वस्व् इत्य् अनेन राजोपमात्र धनिता आरेभे वृष्टि-लक्षणोष्मतादिकं प्राक् प्रवर्तयामासेत्य् अर्थः ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सत्त्वादि वसु-रूपकम् उदकस्य करत्वं व्यञ्जयति, तच् च पर्जन्यस्य राजत्वम् अत एव निपीतम् आहृतम् इत्य् अर्थः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वस्व् इति करादानं तेन च राजोपम्यं ध्वनितम् अत एव पीतम् आहृतम् इत्य् अर्थः ॥५.६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पर्जन्यः सूर्यः स्व-गोभिः स्व-रश्मिभिः काले समये । अत्र पर्जन्यस्य राजत्वं उदकस्य करत्वं निपानस्य ग्रहणत्वं मोचनस्य दानत्वं सुचितम् इति वस्तुनः स्व-प्रजाभ्य आदानतः समये पुनः प्रदानतश् च राजोपमेयं नीति-दृष्ट्या राजभिर् उपादेया ॥५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : पर्जन्यो रविः स्व-गोभिः स्व-किरणैः काले यथोचित-समये प्रथमातिशतोक्त्या नृपेणोपमा सूच्यते, तेनेयम् उपादेया सहि प्रजातः करं गृहीत्वा समये तस्यै दद्याद् इति ॥५॥


॥ १०.२०.६ ॥

तडिद्वन्तो महा-मेघाश् चण्ड-श्वसन-वेपिताः ।

प्रीणनं जीवनं ह्य् अस्य मुमुचुः करुणा इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य विश्वस्य प्रीणनम् आप्यायन-करं जीवनम् उदकं मुमुचुः । कृपालवो यथा तप्तं जनं निरीक्ष्यानुकम्पमानास् तद्-आप्यायनाय स्व-जीवनम् अपि त्यजन्ति । तद्वन् महान्तो मेघास् तडिन्-नेत्रैर् विश्वं तप्तं निरीक्ष्य वायुभिर् वेपिता जीवनं मुमुचुर् इति ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आप्यायन-करम् तृप्ति-करम् ।

आप्यायनं पालने च समुद्रे वरुणे तथा ।

रवौ चन्द्रे वारि-जीवे धावने प्रिय-दर्शने ॥ इति ॥४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दार्ष्टान्तिके चण्डेति तैर् व्याख्यातम् एव, अनुकम्पमाना इति, यद् वा, जीवित-मोचन-स्वाभाविक-चण्ड-श्वासः कम्पश् च । यद् वा, करुणत्वेन सात्त्विक-भावदिकम् इदम् उक्तम् हि निश्चिये, हेतौ वा, यतो\ऽस्य प्रीणनम् ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तडित्वन्त इति तैर् व्याख्यातं, तत्र कृपालव इति करुणा इत्य् अस्य व्याख्यानेन स्वभाव-कथनम् अनुकम्पमानाः इत्य् अनुकम्पया तत् कालम् उदितया वेपिताः सन्त इत्य् अर्थः । स्व-जीवनम् अपीति तस्मिंस् त्यक्ते यदि तप्तानाम् आप्यायनं स्यात् तदा तद् अपि त्यजन्तीत्य् अर्थः । वायुभिर् इति बहुत्वं चण्ड-शब्देन लभ्यते हि निश्चिये । यद् वा, तडित्वन्त इति स्वरूपातिशयद्योतनार्थं करुणा इवेत्य् उत्प्रेक्षा तस्या घटना तु श्लेषेण चण्डश् चासकम्प-युक्ताः सन्तो रन्तिदेवादिवज् जीवन-हेतु-जलम् अपि मुमुचुर् इति ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्वसनो वायुः अस्य विश्वस्य सन्तप्तस्य प्रीणनं आप्यायन-करम्, अत एव जीवनं जीवन-तुल्यं जलं करुणाः कृपालवो दातार इव तत्-पक्षे श्वास-वेपाव् अनुभावौ जीवनं जीवितम् अपि तप्तं जनं वीक्ष्य ते त्यजन्ति, रन्ति देवादयो जीवनं स्व-मात्राप्यायकं जलम् अपीत । इयम् उपमा तत्-तद्-दृष्ट्या दया-वीर-दान-वीरैर् उपादेया ॥६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : श्वसनो वायुः तडित्वन्तो विद्युन् नेत्रामेघा जगत् तप्तं वीक्ष्यास प्रीडनम् आप्यायकं जीवनं जलं मुमुचुः कारुणिका दयालवो यथा तत्-पक्षे श्व-सवेपावनुभावौ ते हि तप्तं जनं वीक्ष्य जीवनं जीवितं च त्यजन्ति यथा रन्तिदेवः स्व-मात्राप्यायकं जलं यथा च दधीचिर् जीवितम् अत्यजत् इयं दानवीर दयावीरैर् उपापादेया ॥६॥


॥ १०.२०.७ ॥

तपः-कृशा देव-मीठा आसीद् वर्षीयसी मही ।

यथैव काम्य-तपसस् तनुः सम्प्राप्य तत्-फलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तपसा ग्रीष्मेण कृशा । देव-मीढा पर्जन्य-सिक्ता । वर्षीयसी उच्छूना पुष्टा । काम्यं तपो यस्य तस्य तनुः कामान् संप्राप्य यथेति ॥७-८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उष्ण उष्णागमस् तपः इत्य् अमरः । काम्यं कामना-प्रधानं तप यस्यतत्-फलं तपः-फलं प्राप्य यथा पुष्टिम् आयाति तथेति योज्यम् ॥७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तप इति सान्तत्वम् आर्षम्, तपेन ग्रीष्ट्मेण कृशा ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तप इति सान्तत्वम् आर्षम् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तप इति सान्तत्वम् अपि “तपस् तु तपसा सह” इति द्विरूप-कोशात् ॥७.११॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तपसा पक्षे ग्रीष्मेण कृशा ततो देवै रुद्राद्विभिः पर्जन्येन च मीटा कामित-वस्तु-प्रदानेन जल-वृष्ट्या च सिक्ता वर्षीयसी पुष्टाङ्गा उच्छृना च कामं तपो यस्य तस्य पुंसस् तनुः कामान् प्राप्य यथेत्य् उपमेया परिणाम-दर्शिभिः सद्भिर् हेया ॥७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तपसा ग्रीष्मेण कृशा ततो देवेनेन्द्रेण मीडा जलेन सिक्ता मही वर्षीयसी पुष्टा आसीत् काम्यं तपो यस्य तस्य पुंसस् तनुर् यथा तपः-फलं भोग्यं प्राप्येति परिणाम-दर्शिभिः सद्मिर् हयेयम् ॥७॥


॥ १०.२०.८ ॥

निशा-मुखेषु खद्योतास् तमसा भान्ति न ग्रहाः ।

यथा पापेन पाषण्डा न हि वेदाः कलौ युगे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुशुष्यन्त्यः । अस्वतन्त्रस्येन्द्रिय-परतन्त्रस्य । स्वतन्त्रस्य निरङ्कुशस्येति वा ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) निशा-मुखेषु सन्ध्यासु । खद्योतो ज्योतिरिङ्गणः इत्य् अमरः । पाखण्डा वेद-विरुद्ध-मार्गाः । पापेन जआनां जन्मान्तरीय-कुत्सिता-दृष्टेन । एतेन दुर्जन-वृद्ध्या सज्जनाभिभवोऽपि सूचितः ॥८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ग्रहास् तु न भान्ति, यथा कलौ पाषण्डा नास्तिका जनाः, तच् छास्त्राणि वा, वेदाश्न भान्ति ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ग्रहास्तु न भान्ति पाषण्डाः तच् छास्त्राणि ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाषण्डाः पाषण्ड-शास्त्राणि हेयैवेयम् उपमा ॥८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : पाषण्डा वेदविरुद्धाः सौगतादिपन्थाः हेयैवेयम् उपमा ॥८॥


॥ १०.२०.९ ॥

श्रुत्वा पर्जन्य-निनदं मण्डुका ससृजुर् गिरः ।

तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नित्य-कर्मावसाने आचार्य-निनदं श्रुत्वा तच्-छिष्या यथाधीयते तद्वद् इति ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नित्य-कर्मावसाने सन्ध्याजपादि-कर्मणोन्ते । मण्डूका भेकाः भेके मण्डुक-वर्षामूशालूर् अप्लवदर्दुराः इत्य् अमरः । एतेन भगवद् अनुग्रहम् इच्छद्भिः कालो वन्ध्यो न कार्य इति ध्वनितम् ॥९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : व्यसृजन् विविधं विस्तारयामासुः, ससृजुर् इति पाठे पाठान्तरे\ऽपि गिरां, बहुत्वेन तथैवार्थः । प्राक् तूष्णीं शयाना निद्राणवन् निश्चेष्टत्वेन वृता मण्डूकाः, ब्राह्मणास् तूष्णीं सुप्ता इव ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : व्यसृजन् विविधं विस्तारयामासुः, प्राक् तूष्णीं शयानाः निद्राणवन् निश्चेष्टत्वेन वृत्ताः मण्डूकाः ब्राह्मणाश् च नित्य-द्-ह्यान-जपाद्य् अर्थः-कृत-मौनत्वेनेति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नित्य-कर्मावसाने आचार्याह्वान-शब्दं श्रुत्वा तच्-छिष्या यथा अधीयन्ते तद्वद् इति ब्रह्मचारिभिर् उपादेया ॥९॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : प्राक् तूष्णीं शयाना निद्राणावन् निश्चेष्टा मण्डूका गिरो व्यसृजन् विविधं व्यस्तरयन् ब्राह्मणा यथा नित्य-कर्मान्ते ऋग्-ध्यानार्थं कृतमौना आचार्याह्वनं श्रुत्वाधीयन्ते तद्वद् इति वर्णिभिर् इयम् उपादेया ॥९॥


॥ १०.२०.१० ॥

आसन्न् उत्पथ-गामिन्यः क्षुद्र-नद्योऽनुशुष्यतीः ।

पुंसो यथास्वतन्त्रस्य देह-द्रविण-सम्पदः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुशुष्यतीर् अनुशुष्यन्त्यः । अस्वतन्त्रस्येन्द्रिय-परतन्त्रस्य । स्वतन्त्रस्य निरङ्कुशस्येति वा ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षुद्र-नद्यः फल्गु-जलाः । उत्पथ-वाहिन्यः तोयाधिक्यात् तटम् उद्रिच्य यान्त्यः । अनु वर्षानन्तरं शुष्यन्तः । इन्द्रिय-वशवर्तिनो देहो हि व्यभिचारादिन्ओत्पथगामी, द्रविणम् अपि तद् अर्थ-व्ययेन तादृशम् एव, सम्पदोऽत्र गवाश्वादि-रूपाः ता अपि तद् अर्थम् उपयोगात् तादृश एव, तथा नश्यत्य् अपि शीघ्रम् एव । पूर्व-व्याख्याने इन्द्रिय-पदम् अक्षरार्थालभ्यमतोऽकार-प्रश्लिष्यैवाह—स्वतन्त्रस्येति । स्वतन्त्रस्यापि निरङ्कुश-गजवद् देहादय उत्पथगा नष्टाश् च भवन्तीति भावः । अनेन रजोगुण-स्वभावः सूचितः ॥१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्वम् अनुशुष्यन्त्यः, देहाहयो\ऽपि प्राक् क्षुद्र-व्यथादिना1 क्षीणाः पश्चाद् भोग-वाणिज्यादिना सम्पन्नाः सत्यो यथा विकर्मपरा भवन्ति, तत्र हेतुः—स्वतन्त्रस्य स्वैरवर्तिन इति, अत एव क्षुद्रत्वात् तद् देहादीनाम् अपि तादृशत्वेन क्षुद्र-नदीभिर् उपमा ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कदाचिद् उत्पथ-वाहिन्य एवासन् कदाचिद् अनुशुष्यन्त्य एव चासन् न तु सत् पथ-गामिन्यो न तु वैकल्य-रहिताः यथा स्वतन्त्रस्य शास्त्रम् अनुसरतः पुंसो देह-सम्पदो द्रविण-सम्पदश् चेति ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुशुष्यतीः अनुशुष्यन्त्यः । वृष्यमाणैर् अल्पैर् अपि जलैर् उत्पथ-गामिन्यः स्वतन्त्रस्य शास्त्र-शासनं अमानयतः देहस्य सम्पदो यौवन-सामर्थ्य-विद्याद्या-द्रविण-सम्पदः पञ्चयष-ग्रामाधिपत्यम् । ता यथा निकृष्टस्य कुमतेः परोद्वेजिकास् तथेति हेयैवेयम् ॥१०॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ऋत्वन्तरे अनुशुष्यन्त्यः क्षुद्रनद्यो वृष्यमानैर् अल्पैर् अपि जलैर् उत्पथ-वाहिन्य आसन् स्वतन्त्रस्यातिक्रान्त-शास्त्राङ्कुशस्य देह-सम्पदो यौवन-वलाद्याः द्रविण-सम्पदः पञ्चष-ग्रामाधि-पत्याद्याः परोद्वेजिका इति हेयैवेयम् ॥१०॥


॥ १०.२०.११ ॥

हरिता हरिभिः शष्पैर् इन्द्र-गोपैश् च लोहिता ।

उच्छिलीन्ध्र-कृत-छाया नृणां श्रीर् इव भूर् अभूत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हरिभिर् नीलैः शष्पैर् बाल-तृणैर् नील-वर्णा । क्वचिद् इन्द्र-गोपैः कीट-विशेषैर् लोहिता । तत्र तत्र्ओच्छिलीन्ध्रैश् छत्राकारैर् उद्भिदैः कृत-च्छाया नृणां राज्ञां श्रीः सेनासम्पद् इव ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कीट-विशेषैः प्रथम-वर्षणोद्भूतैर् जपा-पुष्प-प्रभैः । लोहिता रक्ता । तत्र-तत्र स्थले । यथा राज्ञां सेनायां केचिन् नील-वसनाः केचिद् रक्ताम्बराः केचिच् छ्वेताम्बराः सन्त्येवम् अत्रापीति बोध्यम् । एतेन भूमि-वद् एक एव चेतनो गुण-सङ्गेन नाना-स्वभावः प्रतीयतेऽतो नानात्व-स्वरूप-संसारस्यासारत्वाद् धेयत्वेन हरि-भक्तिर् एव कार्येति ध्वनितम् ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इन्द्र-गोपैः प्रथम-वृष्टितो जायमानैर् अतिरिक्तैः श्री-वृन्दावने\ऽत्र वूडेति-ख्यातैः कीट-विशेषैः नृणाम् इति तैर् व्याख्यातम् । यद् वा, ईश्वराणां परिच्छद-सम्पद् इव तत्र यथा वस्त्र-भूषणादि, हरितत्वादिना हरितत्वादि ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इन्द्र-गोपैः श्री-वृन्दावनेऽत्र इन्द्र-चूडेति ख्यातैः कीट-विशेषैः हरितादिकत्वं चेदं पट-गृहादीनाम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरिभिर् नीलवर्णैः शष्पैः कोमलैः । क्वचित् नीलवर्णा इन्द्र-गोपैर् अरुण-वर्ण-कीट-विशेषैः क्वचित् लोहिता उच्छिलीन्द्रैश् छत्राकारैर् उद्भिज्जैः कृत-च्छाया कृत-श्वेत-कान्तिः नृणां राज्ञां श्रीः सेनासम्पत् हरितादि-वर्ण-पट-गेह-युक्ता, इयं राज्ञाम् उपादेया ॥११॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : हरिभिर् निलैः शष्पैर् वाल-तृणैः भूः क्वचिद् धरिता नील-वर्ण इन्द्र-गोपैर् अरुणैः कीट-विशेषैः क्वचिल् लोहिता उच्छीलीन्ध्रैः छत्राकारैर् उद्भिजैः कृत-च्छाया नृणां राज्ञां श्रीः सेनासम्पद् इव हरित-रक्तादि पट-गेह-युक्तेवाभूद् इति राज्ञामियम् उपादेया ॥११॥


॥ १०.२०.१२ ॥

क्षेत्राणि शष्प-सम्पद्भिः कर्षकाणां मुदं ददुः ।

मानिनाम् अनुतापं वै दैवाधीनम् अजानताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षेत्राण्ईति । तदा हि वृष्टेर् अविच्छेदे लसन्तः प्रियङ्ग्व्-आदयो मुदं ददति, विच्छेदे शुष्यन्तोऽनुतापं चेति ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षेत्राणि केदाराः । सम्पद्भिः फलोद्रेकैः । दैवाधीनां वर्षणावर्षणञ् चेत्य् अजानताम् । याद् वा, धनिनां क्रीत-बह्वन्नानां क्षेत्राणि बहुसस्यैर् उपतापम्—अहो दैवेन किं कृतं ? किम् अर्थम् अस्माभिर् एतावद् अन्नं गृहीतम् अधुना तु मूलम् अपि नष्टं कुतो लाभ ? इत्य् अनुतापो भवतीति भावः । एतेन विषयादि-इन्द्रिय-कर्षण-शीलानां ज्ञान-समुद्रेकैः क्षेत्राणि शरीराणि मुदं ददति, धनिनां रजोमत्तानाम् अनुतापम् अहो अस्माभिः कुतो न त्यक्त-विषयैर् हरि-सेवा कृतेति भावः । मानिनाम् इति पाठे कृषिर् निकृष्टं कर्म, वयं प्रतिष्ठिता न कुर्महे इति गर्वताम् अनुतापम् । हन्त-हन्त यदि कृषिं वयम् अकरिष्याम तदैतादृशीः सस्य-संपदः प्राप्स्यामेति पश्चात् तापं ददुर्मानिभ्य एवेत्य् अर्थः । यतस् ते मुदनुतापादिकं दैवाधीनं न जानन्तीत्य् अर्थः । यथा निवृत्ति-कर्म-परान् ब्रह्म-लोकं गच्छतो दृष्ट्वा प्रवृत्तिपराः स्वर्गस्था अनुनयन्तीति गम्योपमा भक्तैर् हेया ॥१२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : समुच्चये वै-शब्दः । अनुतापं च शोकं ददुः । तत्र दृष्टान्तः--मानिनां देहाभिमानवतां धनादिना गर्ववतां वा, अत एव दैवाधीनं देहादीत्य् अजानताम्, यथा शरीराणि गेहानि वा धनादि-सम्पद्भिर् मुदं तद् अभावे चानुतापं ददति तथत्य् अर्थः । यद् वा, त्व् अर्थे वै, मानिनां देशान्तर-यात्रा-मात्रेणास्माकं दिग् विजयादिकं भावीत्य् एवम् अभिमानवतान्तु क्षेत्राणि शस्य-सम्पद्भिः कृत्वा दिग् विजय-प्रतिबन्धानुतापं ददुः । कुतः ? दिग् विजयादिकं शस्य-सम्पदादिकं च ईश्वराधीनम् इत्य् अजानतां ततश् च यथा शस्यानि तत् तद् अर्थेर् विदुषां मुदं ददति, विद्वन् मानिनां मूर्खाणां च तत् तद् विरुद्धाचारत्वाद् दुःखम् एवेति दृष्टान्तो\ऽत्र द्रष्टव्य । यद् वा, यथा दैवाधीनम् अजानतां मानिनाम् इत्य् एष एव दृष्टान्तः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समुच्चये वै-शब्दः सस्य-सम्पद्भिस् तद् भावाभावैर् इत्य् अर्थः । मुदनुतापयोर् हेतुः मानिनां तद् अभिमानवतां दैवाधीनं सर्वम् इत्य् अजानतां यथान्येषाम् अपि क्षेत्राणि देहाः अन्याभिः सम्पद्भिर् इति ज्ञेयम् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दैवाधीनम्-अजानताम्-अत एव मानिनाम् अहम्-ममतापराणां कर्षकाणां सस्य-सम्पद्भिः तत् सद्भावात्तावद् वा मुदम् अनुतापञ्ज ददुः ॥१२.१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मानिनाम् इति कृषिं निकृष्टं कर्म वयं प्रतिष्ठिता न कुर्महे इति गर्ववतां अनुतापं हन्त हन्त यदि कृषिं वयम् अप्य् अकरिष्याम, तदैतादृशीः शस्य-सम्पदः प्राप्स्याम इति पश्चात्-तापं ददुर् मानिभ्य एवेत्य् अर्थः । यतो यद् अनुतापादिकं दैवाधीनं ते न जानन्तीत्य् अर्थः । यथा निवृत्ति-कर्म-परान् ब्रह्म-लोकं गच्छतो दृष्ट्वा प्रवृत्ति-कर्म-पराः स्वर्ग-स्था अनुतपन्तीति गम्योपमा भक्तैर् हेया ॥१२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : क्षेत्राणि मानिनां तद् अभिमानवतां कर्षकाणां वृष्टि-सातत्ये लसद्मिः शष्पैर् मुदं तद् विच्छेदे तु शुष्यद्मिर् अनुतापं ददुः मुदादिकं दैवधीनम् अजानतां यथा क्षेत्राणि शरीराणि सम्पद्भिः पुष्टानि सन्ति तद् अभिमानिनां मुदं सम्पद् विगमे तु कृशानि सन्ति तापम् इति गम्योपमा सद्भिर् हेया ॥१२॥


॥ १०.२०.१३ ॥

जल-स्थलौकसः सर्वे नव-वारि-निषेवया ।

अबिभ्रन् रुचिरं रूपं यथा हरि-निषेवया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अबिभ्रद् अबिभरुः यथा हरि-निषेवयेति । हरि-सेवायां प्रवृत्ता हि सद्य एव सर्वे रुचिरा भवन्ति । तस्यां परम-धर्मत्वात् परम-सुखत्वाच् च तद्वद् इति ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वा, जलौकसः पाताल-स्थाः, स्थलोकसो भूमिष्ठाः । सर्वे अन्तरिक्षादि-वासिनः । सर्वेषां दुःखं वारयतीति वारि ज्ञानम्, नवं निर्दोषं च तद्-वारि नव-वारि तस्यातितरां सेवयाभ्यास-लक्षणया । रुचिरं निर्दोषं ब्रह्म-रूपम् अबिभ्रद् बिभ्रति । किं-भूतया—यथावद्-धरि-सेवया जातयेति शेषः । यथाश्रुतास् तु स्वामिनैव स्फुटितः ॥१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जलौकसो मीन-मण्डूकादयः, स्थलौकसो गो-मृगादय, न्व-वारीणां नितरां सेवया पानादिना रूचिरं रूपं वर्णं किं वा, पुष्ट्यादि-सम्पत्तेर् मालिन्याद्य् अपगमाच् च, उत्तमं सौन्दर्यं दधुर् इत्य् अर्थः । हरेर् महा-मनोहरस्य भगवतो निषेवया कथञ्चिद्-भजारम्भेणेत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, निषेवया प्रेम-लक्षण-भक्त्या रूपम् अश्रुपातादिना सौन्दर्यम्, यद् वा, नित्य-पूजया महा-प्रसाद-मालादि-धारणादिना ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जलेति । तैर् व्याख्यातम् । तत्र साधनावस्थायां परम-धर्मत्वं प्रसिद्धम् एव सुख-रूपत्वं च—

कर्मण्य् अस्मिन्न् अनाश्वासे धूम-धूम्रात्मनां भवन् ।

आपाययति गोविन्द-पाद-पद्मासवं मधुः ॥

इत्य् अनुसारेण साध्यावस्थायां तु परम-सुख-रूपत्वं प्रसिद्धम् एवेति विवेचनीयम् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अबिभ्रन् अबिभरुः यथेति हरि-सेवायां प्रवृत्ता अपि सद्य एव सर्वे रुचिरा भवन्ति, तस्याः परम-धर्मत्वात् परम-सुखदत्त्वाच् च तद्वद् इत्य् उपादेया ॥१३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अबिभ्रद् अबिभरुः यथेति हरि-सेवायां प्रवृत्ताः सर्वे धृतैर् वैष्णव-चिह्नैः रूपं मनोज्ञं लभन्ते तद्वद् इत्य् उपादेयेयम् ॥१३॥


॥ १०.२०.१४ ॥

सरिद्भिः सङ्गतः सिन्धुश् चुक्षोभ श्वसनोर्मिमान् ।

अपक्व-योगिनश् चित्तं कामाक्तं गुण-युग् यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कामाक्तं काम-वासनायुक्तम् इति श्वसनोर्मि-साम्यम् । गुणैर् विषयैर् युज्यत इति सरित्-सङ्गति-साम्यम् ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्व-सनेन वायुना श्वसन स्पर्शनो वायुः इत्य् अमरः । एतेन हरि-भक्त-विषय-योगो हेय इति सूचितम् ॥ १४ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-वृन्दावने\ऽत्रावर्तमानस्यापि सिन्धोर् वर्णनं पृआवृट्-स्वभाव-वर्णनात् । किं वा, सिन्धुर् इव सिन्धुः श्री-मथुरा-मण्डल-पश्चिम-सीमायां वर्तमानं मानस-गङ्गा-प्रभव-कोटराख्य-महा-सरो ज्ञेयम् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-वृन्दावनेऽत्रावर्तमानस्यापि सिन्धोर् वर्णनं प्रावृट् स्वभाव-वर्णनात् किं वा, सिन्धुर् इव सिन्धुः श्री-मथुरा-मण्डल-पश्चिम-सीमायां वर्तमानं मानस-गङ्गा-प्रभव-कोटराख्य-महासरो ज्ञेयम् ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सिन्धुर् नदी-विशेषः पाश्चात्यः, विशेषणस्य पुंस्त्वम् आर्षम् । कामाक्तं काम-वासना-युक्तम् इति श्वसनोर्मि-साम्यम् । गुणैर् विषयैर् युज्यत इति सरित्-सङ्गति-साम्यम् इति ज्ञेया ॥१४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सिन्धुः पाश्चात्यो नदः । कामाक्तं भोग-वासना-युक्तम् इति श्वसनोर्मि-साम्यं गुणैर् विषयैर् युज्यत इति सरित्-सङ्गति-साम्यम् इति ज्ञेयम् ॥१४॥


॥ १०.२०.१५ ॥

गिरयो वर्ष-धाराभिर् हन्यमाना न विव्यथुः ।

अभिभूयमाना व्यसनैर् यथाधोक्षज-चेतसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अधोक्षज एव चेतो येषां ते ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दिव्यथुः विलीना बभूवुः । गिरणोद्गिरण-समर्थवत् त्वादि-गरीणां व्यथाभाव-मात्रे दृष्टान्तः, न तु बुद्धिमत्त्वा-बुद्धिमत्त्वसत्त्वे इति । न विव्यथुर् न विव्यथिरे प्रत्युत रज-आद्य्-अपगमाद् अशोभन्तैर्वेत्य् अर्थः । व्यसनैर् आध्यात्मिकादि-तापैः । अधोक्षज-चेतस् त्वाद् एव न व्यर्थते तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः इति श्री-कपिलोक्तेः । प्रत्युत दैन्य-वृद्ध्या गर्वासूयादि-मालिन्य-रहिता एव भवन्तीति सद्भिर् उपादेयम् इति ॥१५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वर्षा-धाराभिर् इति गिरिषु वृष्टेर् आधिक्यान् विव्यथुः, न विव्यथिरे, किन्तु रज आद्य्-अपगमाद् अशोभन्तैवेत्य् अर्थः । व्यसनै रोगादि-विघ्नैः, प्रारब्धस्यावश्याभोग्यत्वात्—त्वं सेवतां सुर-कृता बहवो\ऽन्तरायाः [भा।पु।११.४.१०] इति न्यायाच् च्आभिभूयमाना अपि यथा न, निव्यथिरे, अथवाशोभन्तैव दुष्कर्मापगमादिनां भगवत् स्मरण-विशेष-सिद्धेः ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वर्ष-धाराभिर् इति गिरिषु वृष्टेर् आधिक्यात् अभिभूयमानाः अभिभव-चेष्टा-विषयी-क्रीयमाणा अपि न विव्यथुः न विव्यथिरे न दुःखं प्रापुः किन्तु ते रज आद्यपगमात् अशोभन्तैवेत्य् अर्थः । व्यसनैः रोगादि-विघ्नैः प्रारब्धस्यावश्य-भोग्यत्वात् त्वाम् सेवतां सुर-कृता बहवोऽन्तरायाः [भा।पु।११.४.१०] इति न्यायाच् च्आभिभूयमाना अपि न व्यथयन्ते प्रत्युताशोभन्तैव दुष्कर्मापगमादिना भगवत् स्मरण-विशेष-सिद्धेः टीकायाम् एव-कारस् तद् व्यथायां हेतुः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न विव्यथुर् न विव्यथिरे, प्रत्युत रज-आद्य्-अपगमाद् अशोभन्तैवेत्य् अर्थः। व्यसनैर् आध्यात्मिकादिभिस् तापैर् अधोक्षज-चेतस्त्वाद् एव न व्यथन्ते, तपन्ति विविधान् तापा नैतान् मद्-गत-चेतसः [भा।पु। ३.२५.२३] इति भगवद्-उक्तेः, प्रत्युत दैन्य-वृद्ध्या गर्वासूयादि-मालिन्य-रहिता एव भवन्तीति सद्भिर् उपादेया ॥१५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : गिरयो न विव्यथिरे प्रत्युत धूल्याद्य् अपगमाच् छुशुभिरे अधोक्षज-चेतसो यथा व्यसनैर् आराध्यात्मिकादि-दुःखैर् न व्यथन्ते तपन्ति विविधास् तापानैतान् मद-गत-चेतसः [भा।पु। ३.२५.२३] इति वचनात् प्रत्युत दैन्याभिवृद्धेर् गर्वासूयादि-मालिन्यापगमाच् छोभतरा भवन्तीति रतिमताम् उपादेयेयम् ॥१५॥


॥ १०.२०.१६ ॥

मार्गा बभूवुः सन्दिग्धास् तृणैश् छन्ना ह्य् असंस्कृताः ।

नाभ्यस्यमानाः श्रुतयो द्विजैः कालेन चाहता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असंस्कृता अक्षुण्णा नाभ्यस्यमाना इत्य् असंस्कृत-साम्यम् । कालेन चाहता इति तृणाच्छादन-साम्यम् ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सन्दिग्धाः इतो यान्तीतो वेति सन्देहास्पदाः । असंस्कृताः तृणाद्य् अपनयन-हीनाः । कालेन चिरकालेन हता अपठिता एव । अनेन सच्-छास्त्रं ज्ञानोत्पत्तये सदैवाभ्यसनीयम् इति दर्शितम् ॥१४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नाभ्यस्यमाना अनभ्यस्यमानाः, कालेन कलि-कालादिना, च इवार्थे ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नाभ्यस्यमाना अनभ्यस्यमानाः काल-हताः कालेन कलि-युगादिना हताः श्रुतय इव एष एव पाठो बहुत्र तेषां व्याख्या-दृष्ट्या केचित् कालेन चाहता इति पाथं कुर्वन्ति ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाभ्यस्यमान इत्य् असंस्कृत-साम्यं काल-हता इति तृणाच् छादन-साम्यम् अत एव मार्गाः श्रुतयश्सन्दिग्धा इतीयं वटुभिर् हेया ॥१६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : मार्गास् तृणैश् छन्ना असंसकृता अक्षुण्णाः सन्दिग्धा बभूवुः नाभ्यस्यमाना इत्य् असंस्कृत-साम्यं काल-हता इति तृणच् छदन-साम्यम् इति वटभिर् इयं हेया ॥१६॥


॥ १०.२०.१७ ॥

लोक-बन्धुषु मेघेषु विद्युतश् चल-सौहृदाः ।

स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्व् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा कामिन्यः पुंश्-चल्यः ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोक-बन्धुषु जल-प्रदानेनोपकारिषु गुणिषु विद्वतोपशमादि-गुण-युक्तेषु, अनेन विवेकिना हरौ स्थिरा भक्तिर् विधेया न विद्युद्वच् चलेति भावः ॥१७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गुणिषु वैदग्ध्यादि-विविध-गुण-युक्तेष्व् अपि ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गुणिषु वैदग्द्यादि-विविध-गुण-युक्तेष्व् अपि ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा कामिन्यः पुंश् चल्यः गुणिषु पुरुषेषु वैदग्ध्यादि-गुणवत्स्व् अपीति हेयैव ॥१७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : कामिन्यः पूंशल्यो यथा गुणिषु निखिल-कला-विज्ञेष्व् अपि पुरुषेष्व् इति येयैर्वेयम् ॥१७॥


॥ १०.२०.१८ ॥

धनुर् वियति माहेन्द्रं निर्गुणं च गुणिन्य् अभात् ।

व्यक्ते गुण-व्यतिकरेऽगुणवान् पुरुषो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्गुणं ज्यारहितम् अपि गुणिनि गर्जित-शब्दवति अभाद् अशोभत । गुण-व्यतिकरात्मके व्यक्ते प्रपञ्चेऽगुणवान् निर्गुणः पुरुषो यथेति ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्गुणः अनुगत-सच्चिदात्मना यथा भाति तद्वद् इत्य् अर्थः । एतेन कालेनाभ्यसतां सगुण एव निर्गुणताम् आपद्यत इति ध्वनितम् ॥१८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अगुणवान् माया-गुणातीतो\ऽपि पुरुषो मायाधिष्ठाता, सृष्ट्यादिना तत् तद् गुण-द्वाराभिव्यक्तेः । किं वा, परमात्मा चेतयितृत्वादिना प्रपञ्चे यथा । यद् वा, परमेश्वरः कारुण्यादि-गुण-व्यतिषङ्गे व्य्अक्ते प्रकटे सत्य् एव । यद् वा, पुरुषो जीवतत्त्वतो ब्रह्मत्वान् निर्गुणः भगवच् छ्रवणादि-गुण-वर्गे व्यक्ते सति । यद् वा, गुणानां सर्व-सत्त्वादि2-सम्बन्धिनां व्यतिकरो\ऽन्योन्य-मिश्रणं यस्मिंस् तस्मिन् व्यक्ते सुप्रसिद्ध-स्थाने श्री-वृन्दावनादौ श्री-कृष्णो यथा भाति, तद्वत् ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अगुणवान् माया-गुणातीतो\ऽपि पुरुषः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्गुणं ज्यारहितं गुणिनि गर्जित-शब्दवति व्यक्ते प्रपञ्चे गुण-व्यतिकरात्मके ऽगुणवान् माया-गुणातीतः पुरुषो भगवान् भाति विविध-लीलाभिर् इति भक्तैर् उपादेया ॥१८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : माहेन्द्रं धनुर् निर्गुणम् अज्यां गुणिनी गर्जितवति वियति खे अभात् पुरुषो विष्णुर् अगुणवान् माया-गुणातीतो व्यक्ते प्रपञ्चे गुण-व्यतिकरात्मके विविध-लीलाभिर् भाति यथा तद्वद् इत्य् उपादेयेयं तत्-स्वरूप-विदाम् ॥१८॥


॥ १०.२०.१९ ॥

न रराजोडुपश् छन्नः स्व-ज्योत्स्ना-राजितैर् घनैः ।

अहं-मत्या भासितया स्व-भासा पुरुषो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-भासा भासितयाहम्-मत्येति स्व-चैतन्येनैव प्रकाशितेनाहङ्कारेण च्छन्नो जीवो यथा । यद् वा, अहं विद्वान् दाता वेत्ता शूर इति स्व-प्रतीत्यैवारोपितया इति ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जीवो यथा वस्त्व् आत्मना न भाति तद्वद् इति । न हि परिछिन्नेनाहङ्कारेणापरिच्छिन्न आत्माच्छादितुं शक्यते इत्य् अरुच्य् आह—यद् वेति । यथाहं विद्वान् इत्य्-आदि-रूपेणेति एतेनाहम् अतित्यागेन यथार्थात्म-ज्ञानं भवतीति ॥१९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्व-ज्योत्स्नया राजितैर् इति चन्द्राभावः परिहृतः, एवं स्वभासा भासितयेति नास्तिकानां3 प्राणमय-जीव-पक्षो निरस्तः, स्वकीयया तुषार-मय्या ज्योत्स्नया राजितैर् इति संवर्द्धितैर् इति छन्नतयां हेतु-विशेषः । एवम् अहम्म् अत्येत्य् अत्रापि अहङ्कारेणैव जीवतत्त्वास्फूर्तेः, तस्य च जीव-चैतन्येनैव प्रकाश इति । यद् वा, स्व-ज्योत्स्नया राजितैर् अपि न रराज, तैश् छन्नत्वेन सम्यक्-प्रकाशाभावात्, स्वभासा निज-चैतन्येन भासितयापि अहम् मत्त्याच्छन्नो यथा जीवो न राजते, निजतत्त्वास्फूर्तेः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वीयया तुषार-मय्या ज्योत्स्नया राजितैः प्रकाशितैः सम्वर्धितैश् च ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उडुपतिश् चन्द्रः स्व-ज्योत्स्ना-राजितैर् घनैस् तुषार-मयैः कुहेडिकाख्यैर् मेघैश् छन्न आच्छन्नत्वाभावेऽप्य् आच्छन्नत्वेन प्रतीतो न रराज स्वभासा स्वीय-गुण-मय-च्छवि-रूपया अहं-मत्या अविद्यया स्व-शक्त्या कीदृश्या भासितया ? स्वेनैव प्रकाशितया पुरुषः परमेश्वरो यथा घन-च्छन्न-दृष्टिर् घन-च्छन्नम् अर्कम् इतिवत् छन्नत्वेन प्रतीतिर् इत्य् अर्थः । ज्ञानिभिर् इयम् उपादेया ॥१९॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : उडुपश् चन्द्रः स्वीयया तुषार-मय्या ज्योत्स्नया राजितैः प्रकाशितैः सम्वर्धितैश् च घनैश् छन्नो न रराज यथा स्वभासा स्वधर्म-सम्विदा भासितया प्रकाशितया सम्वर्धितया च ब्राह्मणो\ऽहं स्थूलो\ऽहम् इत्य्-आदि-रूपया अहं-मत्या वृतः पुरुषो जीवो न राजते तद्वद् इति ज्ञानिभिर् अयम् उपादेया ॥१९॥


॥ १०.२०.२० ॥

मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ् छिखण्डिनः ।

गृहेषु तप्त-निर्विण्णा यथाच्युत-जनागमे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मेघा गमेनोत्सवो येषाम् अतो हृष्टाः ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शिखण्डिनो मयूराः । कुटुम्ब-पालनादि-क्लेशेन तप्ता अत एव निर्विण्णा अहो महा-क्लेशदं गृहं हेयम् अति निश्चिताः । अनेन स्व-कल्याणार्थं हरि-भक्तागमने आनन्द एव कार्य इति भावः । पद्भिर् मूलैः शाखोपशाखा-पत्र-पुष्फ-फलैर् अनेक-देहाः । प्राक् ग्रीष्मे । तपसा तापेन । क्षामाः कृशाः । यथा प्राक् कुटुम्बावस्थायां कामानाम् अनुसेवया जातेन तपसा श्रमेण श्रान्ता इन्द्रिय-दौर्बल्यम् आप्ताः पडपाः सन्तः पादेन हरि-पादोपासनेन पान्ति रक्षन्त्य् आत्मानम् इति । पादपास् तपस्विनः जातेन तपसा श्रमेण श्रान्ता इन्द्रिय-दौर्बल्यम् आप्ताः पादपाः सन्तः, पादेन हरि-पादोपासनेन पान्ति रक्षन्त्य् आत्मानम् इति पादपास् तपस्विनः सद्-गति-साधनत्वात् पद्भिश् शास्त्रैः पद्यन्ते सर्व-पुरुषार्था एभिर् इति पदस्तैः । अपः पुरुषार्थावाप्ति-हेतून् ज्ञान-रसान् पीत्वास्वाद्य । नानात्मानो मूर्तयो विग्रहा येषां ते सर्व-भूतात्मानो भवन्तीति भावः । यद् वा, प्राग् वनिताद्य् अभावेन तपसा कामाग्निना श्रान्ताः कामानुसेवया पश्चात् स्त्र्याद्य् अवप्त्या सततं काम-भोगेन पुत्र-तत्-पुत्रादि-रूपेण नानात्मानो भवन्तीति भावः । एतेन विषय-त्याग-पूर्वकं शास्त्र-विचारेण ज्ञानावाप्तिर् भवतीति सूचितम् ॥२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उत्सवो नृत्यादि-परिकरश् चित्तोल्लासो वा, हर्षाश् च तद् विकारो ज्ञेयः, तत्-प्रसादो वा, अत एव दृष्टाञ् प्रत्यनन्दन् मेघ-गर्जिताद्य् अनन्तरम् उच्चैर् नाद-नृत्यादिकम् अमुर्वन्, यथा वैष्णव-गृहस्थाः समागत-वैष्णव-गीतानन्तरं गीत-नृत्यादिकं कुर्वन्ति तथेत्य् अर्थः । यद् वा, प्रतिक्षणमनन्दन् सुखिनो बभूवुः, शिखण्डिनां मेघागमोत्सवात्, तप्तानां च वैष्णव-समागम-स्वभावात् । एवम् उत्सव-हर्षा-सुखानां यथोत्तरं हेतुत्वेन बाह्यान्तरत्वादिना भेदः कल्प्यः चटकश् च तादृशा अपि परम-करुण-स्वरत्वाद् व्यक्तं नोक्ताः, तेषां स्मरणे\ऽपि दुःख-विशोत्पत्तेः ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मेघागम एव उत्सवो येषां ते अत एव हृष्टाः प्रत्यनन्दन् मेघ-गर्जिताद्य् अनन्तरम् उच्चैर् नादादिकम् अकुर्वन् यथा वैष्णव-गृहस्थाः समागत-वैष्णव-गीतानन्तरं नृत्य-गीतादिकं कुर्वन्ति तथेत्य् अर्थः । एवं चातका अपि ज्ञेया इति भावः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मेघागमे एवासवो येषां अत एव हृष्टाः तान् मेघान् प्रत्यनन्दयन् ॥२०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मेघागमेनोत्सवो येषां ते प्रत्यनन्दन्, मेघ-समृद्ध-गर्जिताद्य्-अनन्तरम् उच्चैर् आनन्दादिकम् अकुर्वन् यथा वैष्णव-गृहस्थाः समागत-वैष्णव प्रेमानन्द-गीतानन्तरम् आनन्द-गीत-नृत्यादिकं कुर्वन्तीति वैष्णवानाम् उपादेया ॥२०॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : मेघागमेनोत्सवो येषां ते शिखण्डिनः प्रत्यनन्दन् यथा निर्विण्षाः सत्-प्रसङ्गिनो गृहस्था अच्युत-जनानाम् आगमेन हृष्टाः प्रतिनन्दन्ति तद्वद् इति सत्-सेविनाम् उपादेयेयम् ॥२०॥


॥ १०.२०.२१ ॥

पीत्वापः पादपाः पद्भिर् आसन् नानात्म-मूर्तयः ।

प्राक् क्षामास् तपसा श्रान्ता यथा कामानुसेवया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नानात्म-मूर्तयः अनेक-रूप-देहाः ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पद्भिर् मूलैः । शाखोपशाखापत्र-पुष्प-फलैर् अनेक-देहाः । प्राक् ग्रीष्मे । तपसा तापेन । क्षामाः कृशाः । यथा प्राक् कुटु बावस्थायां कामानाम्-अनुसेवया जातेन तपसा श्रमेण श्रान्ता इन्द्रिय-दौर्बल्यम् आप्ताः पादपाः सन्तः । पादेन हरि-पादोपासनेन पान्ति रक्षत्यात्मानम् इति पादपास् तपस्विनः सद्-गति-साधनत्वात् पद्मिश् शास्त्रः पद्यन्ते सर्व पुरुषार्था एभिर् इति पदस्तः । अपः पुरुषार्था-बाप्ति-हेतून् ज्ञान-रसान् पीत्वा स्वाद्य । नानात्मानो मूर्तयो विग्रहा येषां ते सर्व-भूतात्मानो भवतीति भावः । यद् वा, प्राग्-वनिताद्य-भावेन तपसा कामाग्निना श्रान्ताः कामानुसेवया पश्चात् स्त्र्याद्यव् आप्त्या सततं काम-भोगेन पुत्र-तत्-पुत्रादि-रूपेण नानात्मानो भवतीति भावः । एतेन विषय-त्याग-पूर्वकं शास्त्र-विचारेण ज्ञानावाप्तिर् भवतीति सूचितम् ॥२१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तपसा व्रतादिना, क्षामाः कृशाङ्गाः, श्रान्ताश् च निर्बलाः, एवं ग्रीष्मेण पाद-पानाम् अप्य् ऊह्यम् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तपसा व्रतादिना, क्षामाः कृशाङ्गाः, श्रान्ताश् च निर्बलाः, एवं ग्रीष्मेण पाद-पानाम् अप्य् ऊह्यम् ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, जीव-गोस्वामी बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाना-विधा आत्मनः स्वस्य मूर्तयोऽङ्कुर-पत्र-पल्लव-पुष्प-पत्राद्या येषां ते, पक्षे नानात्मानः पान-भोजन-रमणादि-नाना-स्वभाववन्त आत्मनो मूर्तयो देहा येषां ते निष्कामाणाम् इयं हेया ॥२१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : पादपास् तरवः पद्भिर् अपः पीत्वा नाना-रूपा घन-पलाश-पुष्पादि-मय्यः आत्म-मूर्तयो येषां तथासन् यथा सकाम-तपसा प्राक्-क्षामाः कृशाः शान्ताश् च पुरुषास् तपोऽन्ते कामानुसेवया तत्-फल-पान-भोजन-रमण-जोषणेन नाना-स्वभाववन्तो भवन्ति तद्वद् इति निष्कामैर् हेयेयम् ॥२१॥


॥ १०.२०.२२ ॥

सरःस्व् अशान्त-रोधःसु न्यूषुर् अङ्गापि सारसाः ।

गृहेष्व् अशान्त-कृत्येषु ग्राम्या इव दुराशयाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अशान्तानि पङ्क-कण्टकादि-युक्तानि रोधांसि तटानि येषां तेष्व् अपि न्यूषुर् नितराम् अवसन् । सारसाश् चक्रवाकाः । अशान्तानि घोराण्य् अनुपरतानि वा कृत्यानि येषु तेष्व् अपि गृहेषु ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्ग हे नृप । ग्राम्याः प्राकृत-जनाः । एतेन संसारिणां स्वभावो ध्वनितः । किं च, सर्वकृत्यावसाने हरि-स्मरणादिकं करिष्याम इति न ध्येयम्, किं तु कृतानाम् अवसानाभावाद्य् अदोष-रतिस् तदैवेत्य् अपि सूचितम् ॥२२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सारसाश् चक्रवाकाः, स्वनाम्नैव ख्याता वा ग्राह्याः, तेषां अपि प्रायो जल-चरत्वात्, ग्राम्या अविवेकि-जनास् तत्रापि दुराशयाः—गृहम् एव सर्वार्थः-सिद्धि-पदम् इति4 दुष्टाभिप्रायाः, अत एव यथा नितरां वसन्तीति निःशब्दार्थः । अत एवाश्चर्येण खेदेन वा, अङ्ग हे राजन्न् इति ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अशान्तानि तरङ्गातिशयेन मुहुः पतन्ति रोधांसि येषु सारसाः स्वनाम्नैव ख्याताः, पुष्कराह्वयाः ग्राम्या, अविवेकि-जनाः तत्रापि दुराशयाः गृहम् एव सर्वर्थ-प्रदम् इति दुष्टाभिप्रायः अत एव यथा नितरां वसन्तीति नि-शब्दार्थः अत एव आश्चर्येण खेदेन वा अङ्ग ! हे राजन्न् इति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सारसाः पुष्कराह्वयाः अशान्तानि तरङ्गातिशयेन मुहुः पतन्ति रोधांसि येषु द्विजैः प्रेरिता विश्वत इत्य् अन्वयः ॥२२.३०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अशान्तानि पङ्क-कण्टक-भङ्गुरत्वादि-दोष-युक्तानि । रोधांसि तटानि येषां तेष्वपि न्यूषुर् नितराम् एवासन् इयं हेयैव ॥२२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अशान्तानि पङ्कादिवन्ति रोधांसि येषां तेष्व् अपि सरःसु सारसाः पक्षिवेदाः न्यूषुर् नितराम् अवसन् अशान्तान्य् अनुपरतानि कृत्यानि येषु तादृशेष्व् अपि गृहेषु यथा ग्राम्या विवेक-रहिताः दुराशया गृहम् एव सर्वार्थदम् इति दुष्ट-भावाः अङ्ग हे राजन् इयं हेयैव ॥२२॥


॥ १०.२०.२३ ॥

जलौघैर् निरभिद्यन्त सेतवो वर्षतीश्वरे ।

पाषण्डिनाम् असद्-वादैर् वेद-मार्गाः कलौ यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वरे इन्द्रे ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नरक-हेतुत्वाद् असद्-वादैः । एतेन पाखण्डि-सङ्गाद् विहित-धर्म-त्यागेन नरकावश्यम्भावित्वम् इति तात्पर्यम् ॥२३॥

विशां प्रजानां पतयः । विटपतय इति सम्यक् प्रतिभाति । छान्दसत्त्वाश्रयणे तु विश्पतय इत्य्


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईश्वर इत्य् अतिवृष्ट्या स्वैरवर्तिताभिप्रायेण, अत एव तस्य कलि-स्थानीयता ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईश्वर इत्य् अतिवृष्ट्या स्वैरताभिप्रायेण तद् अंशेनैव तस्य पाषण्डि-स्थानीयता ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईश्वरे ईश्वरत्वाभिमान-वशाद् अतिवर्षोपद्रवं कुर्वति सति इन्द्रे इति कलि-साम्यम् इयं हेया ॥ २३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ईश्वरे ईश्वरत्वाभिमान-वशाद् अतिवृष्टि-कारिणीति कालि-साम्यं इयं च हेया ॥२३॥


॥ १०.२०.२४ ॥

व्यमुञ्चन् वायुभिर् नुन्ना भूतेभ्यश् चामृतं घनाः ।

यथाशिषो विश्-पतयः काले काले द्विजेरिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नुन्नाः प्रेरिताः । आशिषः कामान् । विश्पतयो राजानः, वणिजां पतयो व । द्विजेरिताः पुरोहितैर् उक्ताः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विशां प्रजानां पतयः । विट्-पतय इति सम्यक्-प्रतिभाति । छान्दसत्वाश्रयणे तु विश्-पतय इत्य् अपि साध्व् एव । अमृतम् जलम्—

अमृतं व्योम्नि देवान्ने यज्ञ-शेषे रसायने ।

अयाचिते जले दुग्धे मोक्षे\ऽन्ने हेम्नि गो-रसे ॥ इति यादवः ॥ २२ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भूतेभ्यः सर्व-प्राणि-हितार्थं सुशोभनम् अमृतं जलम् इति वर्षान्ते जलस्योपादेयत्वात्, एवं, वि-शब्दो विशिष्टार्थे ज्ञेयः, भूतेभ्यश् चामृतम् इति पाठे पाठान्तरे\ऽप्य् अमृतम् इति श्लेषेण स एवार्थः । च तु, भूतेभ्यस् तु, अत्रापि काले काल इति योज्यम्, अयं पूर्वतो विशेषः, वर्षान्ते\ऽविछिन्न-वृष्ट्य्-अपगमात् ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : च पुनः अनवच्छिन्न-वर्षानन्तरम् अथेति पाठे स एवऋथः । भूतेभ्यः काले काले योग्यं योग्यं कालं प्राप्य अमृतं जलं ददुर् इति । वर्षान्ते जलस्योपादेयत्वाद् अमृत-शब्द-न्यासः एवं वि-शब्दो विशिष्टार्थो ज्ञेयः, द्विजैः प्रेरिता विश्पतय इत्य् अन्वयः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नुन्नाः प्रेरिताः आशिषः कामान् विश्पतयो राजणो वनिजां पतयो वा द्विजैर् विप्रैर् ईरिताः प्रेरिता इति राजभिर् उपादेया ॥२४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : नुन्नाः प्रेरिताः आशिषः कामान् विश्पतयो राजानः द्विजैरीरिताः प्रवर्तिताः इति राज्ञाम् उपादेया ॥२४॥


॥ १०.२०.२५ ॥

एवं वनं तद् वर्षिष्ठं पक्व-खर्जूर-जम्बुमत् ।

गो-गोपालैर् वृतो रन्तुं स-बलः प्राविशद् धरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रावृषि कृतां क्रीडां वर्णयति—एवं वनम् इति सप्तभिः । वर्षिष्ठं समृद्धम् ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रावृषि वर्ष-र्तौ । तद् वनं वृन्डवनम् । अतिशयेन वृद्धं वर्षिष्ठं समृद्धम् । वर्षं वृष्टिस् तद् विद्यतेऽस्येति वर्षम्, मत्व्-अर्थीयोऽच् । अतिशयेन वर्षं वर्षिष्ठं प्रभूत-वर्षोपेतम् इति वा ॥२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं वर्षा-कालं वर्णयित्वा तत्-फलं तत्र श्री-भगवतः क्रीडा-विशेषं वक्षयन्न् आदौ वन-प्रवेशम् आह—एवम् इति । अनेन उक्त-वृष्टि-प्रकारेणेदृशं वा वर्षिष्ठं समृद्धं स-श्रीकं शोभया सहितं वा । यद्यपि सर्व-र्त्व्-आश्रये श्री-वृन्दावने सर्वदा सर्व-पुष्प-फलादि-सम्पत्तिः, तथापि पक्व-खर्जुर-जम्बुमद् इति तदानीं तद्-बाहुल्याभिप्रायेण । वृत इति वृष्टि-निवारणार्थं छत्रादि-धारणाकाङ्क्षया5 अहम् अहमिकया सर्वैर् एव गोपैर् गोभिश् च तृप्त्या स्नुत-स्तनतया वत्सेभ्यो\ऽप्य् अधिक-वात्सल्येन स्तन्यं पाययितुम् इव । किं वा, सदा सर्वेण श्री-मुख-शोभा-लोभेन परिवेष्ट्यमानत्वात् । अत एव सर्व-मनोहरणाद् धरिः प्राविशत् प्रविशन्न् आसीद् इत्य् अर्थः । प्र-शब्दो वनादि-शोभा-विशेषापेक्षया, इति प्रावृषि प्रति-दिन-क्रीडा सूचिता ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं वर्षा-कालं वर्णयतित्वा तत् फलं तत्र श्री-भगवतः क्रीडा-विशेषं वक्षयन्न् आदौ वन-प्रवेशम् आह—एवम् इति उक्त-प्रकारेण, यथा यथाहं वर्णितवान्, तथा वर्णयित्वेत्य् अर्थः । तद्-अनुसारेणैवाहम् अवर्णयम् इति भावः । वृतः श्री-मुख-शोभा-लोभेन ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वर्षां वर्णयित्वा तादात्विकीं लीलां वर्णयति—एवम् इति सप्तभिः । वर्षिष्ठं समृद्धम् ॥२५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : प्रावृषं वर्णयित्वा तदानीन्तनीं हरेर् लिलाम् आह—सप्तभिः । वर्षिष्ठं समृद्धम् ॥२५॥


॥ १०.२०.२६ ॥

धेनवो मन्द-गामिन्य ऊधो-भारेण भूयसा ।

ययुर् भगवताहूता द्रुतं प्रीत्या स्नुत-स्तनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका : न व्याख्यातम्।


वंशीधरः भावार्थ-दीपिका-प्रकाशः) : दुग्धाधार-स्थलम् ऊधस् तस्य भारेण । स्नुत-स्तनीः क्षरित-स्तन्यः ॥२६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्रीडाम् आह—धेनव इति षड्भिः । मन्द-गामिन्यो\ऽपि श्री-कृष्णेन आहूताः सद्यो द्रुतं ययुः, प्रीत्य् एत्य् अन्य आहूता इत्य् अनेन वान्वयः । स्तुत-स्तनीर् इति पाठे स्तुत-स्तन्य इति, प्रावृट्-काले विशेषतो दुग्धादि-सम्पत्त्या शोभा-विशेषः वात्सल्य-विशेषो भगवत् क्रीडा-परिकरश् च दर्शितः । यद् वा, प्रावृट्-कालेन-भोगादि-विशेष-सम्पत्ताव् अपि गवां श्री-भगवद् एक-प्रियता दर्शिता ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्रीडाम् आह—धेनव इति षड्भिः । मन्द-गामिन्योऽपि प्रीत्य् आहूताः प्रीत्यैव द्रुतं ययुश् चेत्य् अन्वयः प्रीतौ । लिङ्गं स्नुत-स्तना इति स्रुतस् तनीर् इति पाठे स्रुतस् तन्यः प्रावृट्-काले विशेषतो दुग्धादि-सम्पत्त्या शोभा-विशेषं तत् तद् भोगादि-सम्पत्ताव् अपि मिथः प्रेम-विशेषश् च क्रीडापरिकरतेन दर्शितः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्नुत-स्तनीः स्नुत-स्तन्य इति प्रीति-चिह्नम् ॥२६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : स्नुत-स्तनीर् इति प्रथमार्थे द्वीतीया प्रीति-चिह्नम् इदम् ॥२६॥


॥ १०.२०.२७ ॥

वनौकसः प्रमुदिता वन-राजीर् मधु-च्युतः ।

जल-धारा गिरेर् नादाद् आसन्ना ददृशे गुहाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वनौकसः पुलिन्दीः प्रमुदिता भगवान् ददृशे । तथा वन-राजीर् मधु-च्युतो मधु-स्रवा ददृशे । गिरेः सकाशाज् जल-धाराश् च तासां नादाद् आसन्ना निकट-वर्तिनीर् गुहाश् च। यद् वा, वनौकसः प्रमुदिता आसन् । तथा वन-राजीर् वन-राजयो वन-परम्परा मधु-च्युत आसन् । गिरेर् जल-धारा आसन् । तान् एवं-भूतान् आददृशे सर्वतो ददर्श भगवान् । तथा धाराणां नादान् गुहाश् चेति ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वा, वनौकसो गावो मृगादयश् च । प्रमुदिताः प्रकृष्टानन्दाः । आसन्न् इति क्रिया-पदं पृथक् कृत्वा सर्वेषां पदानां प्रथमान्तता बोध्या । मधु-च्युतश् चोतन्-मकरन्दाः । गो-पक्षे मधु मधुरं क्षीरं च्योतन्ति स्रवन्तीति मधु-च्युतः ॥२७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गुहानां दर्शनेनानन्दस्य हेतुः6, दूर-वर्तिनीनाम् अपि तृणादिभिर् आच्छन्नानाम् अपि तासां प्रतिध्वन्य्-उदयेनाभिव्यक्तेः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वनौकसः पुलिन्द्य्-आदीन् गुहानां दर्शने नादस्य हेतुता दूर-वर्तिनीनाम् अपि तृणादिभिर् आच्छन्नानाम् अपि तासां प्रतिध्वन्य्-उदयेनाभिव्यक्तेः ददृशे ददर्श ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र च कृष्णो वनौकसः पुलिन्दीः प्रमुदिताः ददृशे ददर्श । वनराजीर् मधु-च्युतः मधुनां च्युत् क्षरणं यासु, तथा-भूता ददर्श गिरेः सकाशाज् जल-धारा दूर-वर्तिनीर् अपि नादाद् धेतोर् आसन्ना निकट-वर्तिनीः ददर्श । गुहाश् च ददर्श ॥२७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : वनौकसः पुलिन्दीः प्रमुदिताः मधूनां च्युत क्षरणं यासु, ता वनराजीः । गिरेर् जल-धाराश् च दूर-वर्तिनीर् अपि नादाद् धेतोर् आसन्नाः समीप-वर्तिनीर् ददर्श हरिः, गुहाश्ददर्श ॥२७॥


॥ १०.२०.२८ ॥

क्वचिद् वनस्पति-क्रोडे गुहायां चाभिवर्षति ।

निर्विश्य भगवान् रेमे कन्द-मूल-फलाशनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वनस्पति-क्रोडे वृक्ष-मूले । यद् वा, वनस्पतीनां क्रोदं सुखं येन, स वनस्पति-क्रोडः । इन्द्रस् तस्मिन्न् अभिवर्षति सति। क्रोदः शनौ शुकरे नारक्षोङ्क-सुख-सद्मसु इति धरणिः । कन्दानि शालूकादीनि, मूलानि मधुर-मूलकादीनि, फलान्य् आम्रब्व्-आदीनि ॥२८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्वचित् कस्मिंश्चित् कदाचिद् वा, च-काराद् अस्योभयत्राप्य् अन्वयः । किं वा, शक्ति-विशेषेणैक-दैवो-भय-त्रापि निर्विशन् प्रविशन् संविशन् वा, यतो भगवान् । ततश् च क्वचिद् अभितो वर्षति इत्य् अन्वयः । अभि-शब्देन वृष्टेर् आधिक्यम् उक्तम् । एवं लौलिक-लीलायाम् अप्य् ऐश्वर्येण भगवत्ता-विशेष-प्रकटनं पूर्ववद् ऊह्यम्, तथा क्रोडस्य गुहायां च जाताव् एकत्वं सुविस्तीर्णत्वं च । सहचराश् च कुत्रापि केचित् कतिपये ज्ञेयः, रेमे चिक्रीड, सुखी बभूव वा । कथम् ? तद् आह—कन्द-इति । कन्द-मूलयोर् बाह्यान्तरत्वादिना भेदः, तयोः प्रावृषि बाहुल्येन कोमलत्वादिना चोपादेयत्वात्, फलतः प्राङ्-निर्देशः ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्वचित् कस्मिंश्चित् कदाचिद् वा । भगवान् अपीति । अहो अस्या लीलायाः परम-माधुर्यम् इति भावः । कन्द-मूलयोर् वर्तुल-दीर्घताभ्यां भेदो लोके प्रसिद्धः । तयोः प्रावृषि कोमलत्वादिना उपादेयत्वात् फलतः प्राङ्-निर्देशः ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मेघेऽभितो वर्षति सति वृक्ष-क्रोडे गुहायां वा निःशेषेण द्रुतम् अभिद्रुत्य विशन् प्रविशन् कन्द-मूलयोर् वर्तुलत्व-दीर्घत्वाभ्यां भेदो ज्ञेयः ॥२८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : मेघेऽभितो वर्षति सति वनस्पतेस् तरोः क्रोडे गुहायां वा निर्विशन् धावित्वा विशन् रेमेकन्द-मूलयोर् वर्तुलत्व-दीर्घत्वाभ्यां भेदः ॥२८॥


॥ १०.२०.२९ ॥

दध्य्-ओदनं समानीतं शिलायां सलिलान्तिके ।

सम्भोजनीयैर् बुभुजे गोपैः सङ्कर्षणान्वितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : संभोजनीयः श्रीदामादिभिर्-गोपैः ॥२९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दध्य्-ओदनम् इति—तदानीं तस्य प्राचुर्यान् मिष्टत्वाच् च, उपानीतं श्री-यशोदा-न्यस्तं गोपैर् यथा-कालम् अन्तिके प्रापितं निज-निजं वोपायनत्वेन समर्थितम्, तस्य च मासृण्यार्थद् अधि प्राचुर्यात्, वृष्ट्या च शिला-नैर्मल्यापादनेन सौन्दर्यात्, शिलायां पात्रे बुभुजे सलिलान्तिक इति । तदानीं यत्र तत्र जल-सद्भावात् । किं वा, जल-पानापेक्षया सलिलान्तिके वर्तमानायाम् इत्य् अर्थः । सम्भोजनीयैर् एकत्रैव भोजन-योग्यैर् इति एकस्याम् एव शिलायां तैः सह भोजनात्, तांस् तु सर्वान् एकत्रैवोपवेश्य श्री-रामो\ऽमेलयद् इत्य् अभिप्रायेणाह—गोपैः सहापृथक्त्वात् तान् सर्वान् एकीकरोतीति सङ्कर्षणः, तेन अन्वित इति । यद् वा, शिलायाम् इति जाताव् एकत्वं शिलास्व् इत्य् अर्थः, बहूनाम् एकस्याम् असमावेशात् । ततश् च सम्भोजनीयैर् इति पूर्ववत्, परितः पङ्क्तिशः, तन्-मध्ये च श्री-बलरामम् उपवेश्य स्वयं परिवेषयन् सम्यग् भोजयन् बुभुज इत्य् अर्थः॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपानीतं स्व-गृह-जनैर् बान्धव-जनैर् वा समीपं प्रापितं सम्भोजनीयैः सह भोजयितव्यैः सजातीयैः सह संवासादि-शब्दवत् सं-शब्दोऽत्र सहार्थः । सम्भुज्यते एभिर् इति तैस् ते मनैः सहेति वा सङ्कर्षण इति तत्र सर्व-मेलनाभिप्रायेण ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपानीतं "छाक" इत्य् अख्यया प्रसिद्धं गृह-जनैः प्रापितं शिलायां सलिलान्तिक इत्य्-आद्यापि कुण्ड-तटे भोजन-स्थल्यो दृश्यन्ते सर्वैर् अपि जनैः ॥२९.३१॥

———————————————————————————————————————

बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : उपानीतं गृह-जनैः प्रापितः सम्भोजनीयैः सह-भोजयितव्यैर् जातिभिः सहः सम्वाद-शब्दवत् सम् इति सहार्थकं । सलिलान्तिके शिलायाम् उपविश्य ॥२९॥


॥ १०.२०.३० ॥

शद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् ।

तृप्तान् वृषान् वत्सतरान् गाश् च स्वोधो-भर-श्रमाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वत्सतरान् अल्प-वत्सान् ॥३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चर्वतो रोमन्थायमानान् वीक्ष्य इति परेणान्वयः । संवेशादौ हेतुः—तृप्तान् इति । तदानीं सर्वत्रैव कोमल-तृण-प्राचुर्येणैकत्रैव क्षणेनोदर-परिपूर्ति-सुख-सिद्धेः । -कार उक्त-समुच्चये, तेन तासाम् अपि संवेशादिकं ज्ञेयम् । विशेषतस् तासां संवेशे हेतुः—स्व-इति । एवं वृषादीनां यथोत्तरं संवेशादाव् आधिक्यम् ऊह्यम्, प्राधान्याद् वृषादयो\ऽत्रोक्ता महिष्य्-आद्याश् च ज्ञेयाः ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शाद्वल-इति युग्मकम् । चर्वतः रोमन्थायमानान् नीरीक्ष्य इति परेणान्वः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : चर्वतो रोमन्थायमानात् अत्र पश्यन्न् इति शेषः। बुभुजे इति पूर्व-स्थेन आनुषङ्गः ॥३०॥


॥ १०.२०.३१ ॥

प्रावृट्-श्रियं च तां वीक्ष्य सर्व-काल-सुखावहाम् ।

भगवान् पूजयाञ्चक्रे आत्म-शक्त्य्-उपबृंहिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताम् पूर्वोक्ताम् । आत्म-शक्त्या मायया उपबृंहिताम् ॥३१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ताम् उक्तां प्रावृषः श्रियं वनादि-शोभाम् । यद् वा, ताम् अनिर्वचनीयां प्रावृषः श्रियम् । ततश् च वनादि-श्रीः पृआवृष्य् उपचर्यते, इत्य् अनुक्ताप्य् अन्या मृग-महिष्या शोभा ग्राह्या । तत्र किञ्चिच् छ्री-विष्णु-पुराणे—

मेघ-पृष्ठे बलाकानां रराज विमला ततिः ।

दुर्वृत्ते वृत्त-चेष्टेव कुलीनस्यातिशोभना ॥ [वि।पु। ५.६.४१]

इत्य् आत्मनः श्री-भगवतः शक्तिः काल-रूपा, तया उपबृंहितां संवर्धिताम् इत्य् अन्तो विशिष्टतां तथा कालस्यापि तत्र श्री-भगवत्-सेवा-परतां बोधयति । यद् वा, स्व-सामर्थ्येनोपबृंहिताम् अपि पूजयाञ्चक्रे, प्रीत्या अश्लाघत, साध्व् अमन्यत इति वा । यतः सर्वेषाम् एव भूतानां प्राणिनां मुदम् आवहति, अविच्छेदेन प्रापयतीति तथा ताम् । "सुखम्" इति पाठे\ऽपि स एवार्थः । यद् वा, हंसाब्जादीनां प्रावृषि7 दुःखम् आशङ्क्य तत्-परिहारार्थम् आह—स्व-सामर्थ्य-विशेषेणोपबृंहिताम् इति । अतस् तेषाम् अपि सुखम् अभूद् इति भावः । अन्यच् च तत्-तत्-क्रीडादिकम् उक्तं श्री-पराशरेण—

उन्मत्त-शिखि-सारङ्गे तस्मिन् काले महा-वने ।

कृष्ण-रामौ मुदा युक्तौ गोपालैः सह चेरतुः ॥

क्वचिद् गोपैः समं रम्यं गेय-नृत्य-रताव् उभौ8

चेरतुः क्वचिद् अत्यर्थं शीत-वृक्ष-तलाश्रयौ ॥

क्वचित् कदम्ब-स्रक्-चित्रौ मायूर-स्रग्-अलङ्कृतौ9

विचित्रौ क्वचिद् आसातां विविधैर् गिरि-धातुभिः ॥

पर्ण-शय्यासु सुप्तौ च क्वचिन् निद्रान्तरैषिणौ ।

क्वचिद् गर्जति जीमूते हाहाकार-रवैषिणौ ॥ [वि।पु।५.६.४४-४७] इत्य्-आदि ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रापि स्व-लीला-योग्यतापादनार्थम् आत्म-शक्त्या ह्लादिनी-नाम्न्या उपबृंहिताम् अत पूजयाञ्चक्रे साध्व् अमन्यत । अन्यच् च तच् च क्रीडादिकम् उक्तं पराशरेण

उन्मत्त-शिखि-सारङ्गे तस्मिन् काले महा-वने ।

कृष्ण-रामौ मुद-युक्तौ गोपालैः सह चेरतुः ॥

क्वचिद् गोभिः समं रम्यं गेय-ताल-रताव् उभौ ।

चेरतुः क्वचिद् अत्यर्थं शीत-वृक्स-तलाश्रये ॥

क्वचित् कदम्ब-स्रक्-चित्रौ मयूर-स्रग्-अलङ्कृतौ ।

विचित्रौ क्वचिद् आसातां विविधैर् गिरि-धातुभिः ॥

पर्ण-शय्यासु सुप्तौ च क्वचिन् निद्रान्तरैषिणौ ।

क्वचिद् गर्जति जीमूते हाहाकार-रवैषिणौ ॥ [वि।पु। ५.६.४४-४७] इति ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रापि स्व-लीला-योग्यायोग्यतापादनार्थम् आत्म-शक्त्या ह्लादिनी-नाम्न्या उपबृंहिताम् ॥३१.३३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : आत्म-शक्त्या ह्लादिन्या उपबृंहितां जोषितां पूजयाञ्चक्रे श्लाघितवान् ॥३१॥


॥ १०.२०.३२ ॥

एवं निवसतोस् तस्मिन् राम-केशवयोर् व्रजे ।

शरत् समभवद् व्यभ्रा स्वच्छाम्ब्व्-अपरुषानिला ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अथ शरदं वर्णयति—एवं निवसतोर् इत्य् अष्टादशभिः । [व्यभ्रा] विगतान्य् अभ्राणि यस्याः सा, स्वच्छान्य् अम्बूनि यस्यां सा, अपरुषः शान्तोऽनिलो यस्यां सा च सा च ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपरुषोऽनिष्ठुरः ॥३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रावृट्-क्रीडा-विशेषेण तत्र व्रजे नितऋआं परमासक्त्या वसतोर् इति तत्र शरच्-छ्री-विशेष-सम्पत्ति-हेतुर् उक्तः, अतः सम्यग् अभवत् ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् उक्त-प्रावृट्-क्रीडा-विशेषेण तत्र व्रजे नितरां परमासक्त्या वसतोः सतोर् इति तत्र शरच्-छ्री-विशेष-सम्पत्ति-हेतुर् उक्तः, अतः सम्यक् अभवत् ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शरदं वर्णयत्येवं निवसतोर् इत्य् अष्टादशभिः स्वच्छानि अम्बूनि यस्यां अपरुषे ऽनिलो यस्यां सा च सा च सा ॥३२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अथ शरद् ऋतुं वर्णयति—एवम् इत्य् आद्य्-अष्टादशभिः स्वच्छान्य्-अम्बूनि यस्यां अपरुषोऽनिलो यस्यां सा च सा च सा ॥३२॥


॥ १०.२०.३३ ॥

शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः ।

भ्रष्टानाम् इव चेतांसि पुनर् योग-निषेवया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नीरजानाम् उत्पत्तिर् यया तया शरदा कृत्वा । नीरजानाम् उत्पत्त्या वा ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरत् ऋतुः अब्दर्तू शरदौ स्त्रियाम् इति कोशात् । आश्रमिणां ब्रह्म-चार्यादीनाम् । तया भक्त्या । तेन गुर्वर्थोदकाहरणेन । अनुपयोगात् उपयोगाभावात् । तस्य शिष्यस्य । अनियोगात् अनाज्ञापनात् । यावन् मां न विजानीयात् तात्परिचरेद् गुरुम् इत्य् आद्य् उक्तेः । अकृतार्थं नियुजीत कृतार्थ तु क्वचिन् मुनिः इत्य् उक्तेश् च । अपो ददातीत्य् अशब्दो मेघस् तम् । अपत्यादिभिः साङ्कर्यं सम्पर्कम् । शबलश् चित्रवर्णे ना गवि स्त्री सङ्करे त्रिषु इति धरणिः । सङ्कुला मिलिताः । मद्-भक्तस् तु चरेद् अविधि-गोचरः इत्य् उक्तेर् भक्तस्य मलधारणादेर् अनावश्यकत्वात् । एवं भक्तिवत् । यतीनाम् । सन्न्यासिनाम् । एतेन हरि-भक्ति-शून्याः सन्न्यासिनोऽपि कामादिभिस् [ताद्ञन्त]{।मर्क्} इति भावः । तद् वन् न रिक्तम् अतयो यतयोऽपि रुद्धास्त्रोतोगणास् तमरणं भज वासुदेवम् इति पृथुं प्रति सनत् कुमारोक्तेः ॥३३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भ्रष्टानां केनचिद् विघ्नादिना योगात् स्खलितानाम् अतो\ऽशुद्धतां गतानि चेतांसि यथा पुनः शुद्धतां यान्तीत्य् अर्थः । अब्जादीनां हरणाक्रमाद्य् अपेक्षया तथैवोक्तिः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेषाम् उत्त-पक्षे नीरजोत्पत्त्या सहेति योज्यम् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नीरजानाम् उत्पत्तिर् यस्यां तया शरदा हेतुना अत्र भक्ति-योग-निषेवया साम्यं शरदो भगवत्-स्फुरणेन साम्यं नीरजस्यैतीयम् उपादेया ॥३३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : नीरजानाम् उत्पत्तिर् यस्यां तया शरदा हेतुना प्रकृतिं स्वच्छताम् उपादेयेयम् ॥३३॥


॥ १०.२०.३४ ॥

व्योम्नोऽब्भ्रं भूत-शाबल्यं भुवः पङ्कम् अपां मलम् ।

शरज् जहाराश्रमिणां कृष्णे भक्तिर् यथाशुभम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्योम्नोऽब्दम् इति व्योमादीनां चतुर्णां चतुरो मलान् शरद् अहरत्, आश्रमिणां चतुर्णां कृष्णे जाता भक्तिर् यथाशुभम् असुखं हरति । तथा हि, ब्रह्मचारिणो गुर्व्-अर्थोदकाहरणादि-कष्टं यथा भक्तिर् हरति । तया पूर्णस्य तेनानुपयोगात् । गुरुभिर् अपि कृतार्थस्य तस्यानियोगात् । एवं व्योम्नोऽब्दं शरज् अहार । यथा च गृहिणोऽपत्यादि-साङ्कर्यं भक्तिर् हरति, विविक्त-वास-रुच्य्-उत्पत्तेः । तथा भूतानां शाबल्यं साङ्कर्यं शरत् । वर्षासु वृष्टिभिया सङ्कुलानि वसन्ति । यथा च वन-स्थस्य मल-धारण-क्लेशं भक्तिर् हरति एवं भुवः पङ्कं शरत् । यथा च यतीनां कामादि-वासनाम् अलं श्री-कृष्ण-भक्तिर् हरति एवम् अपां मलं शरद् इति ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरत् ऋतुः अब्दर्तू शरदौ स्त्रियाम् इति कोशात् । आश्रमिणां ब्रह्म-चार्यादीनाम् । तया भक्त्या । तेन गुर्वर्थोदकाहरणेन । अनुपयोगात् उपयोगाभावात् । तस्य शिष्यस्य । अनियोगात् अनाज्ञापनात् । यावन् मां न विजानीयात् तात्परिचरेद् गुरुम् इत्य् आद्य् उक्तेः । अकृतार्थं नियुजीत कृतार्थ तु क्वचिन् मुनिः इत्य् उक्तेश् च । अपो ददातीत्य् अशब्दो मेघस् तम् । अपत्यादिभिः साङ्कर्यं सम्पर्कम् । शबलश् चित्रवर्णे ना गवि स्त्री सङ्करे त्रिषु इति धरणिः । सङ्कुला मिलिताः । मद्-भक्तस् तु चरेद् अविधि-गोचरः इत्य् उक्तेर् भक्तस्य मलधारणादेर् अनावश्यकत्वात् । एवं भक्तिवत् । यतीनाम् । सन्न्यासिनाम् । एतेन हरि-भक्ति-शून्याः सन्न्यासिनोऽपि कामादिभिस् [ताद्ञन्त]{।मर्क्} इति भावः । तद् वन् न रिक्तम् अतयो यतयोऽपि रुद्धास्त्रोतोगणास् तमरणं भज वासुदेवम् इति पृथुं प्रति सनत् कुमारोक्तेः ॥३४॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु, सर्वदा सर्वेभ्यः किम् अर्थं न ददतीत्य् आह—अयं भावः इति । उपाध्याया देवान्दातिरिक्त-शस्त्र्दाध्यापका यथा कर्म-विद्यां सर्वेभ्यो ददति नैवं ज्ञानिनोपीत्य् आह—अपीति । प्रवृषीव वर्षताव् इव सर्वत्र नेति भावः ॥३४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णे सर्व-दुःख-हरे भगवति, अन्यत् तैर् व्याख्यातम् । यद् वा, यथा कृष्णे जाता भक्तिर् एका सर्वेषाम् एव्आश्रमिणां ब्रह्म-चार्यादीनाम् अशुभं तत् तद् आचार-दुःखं हरति—तावत् कर्माणि कुर्वीत [भा।पु।११.२०.९] इत्य्-आदि वचन-प्रामाण्यतस् तत् तत् कर्म-परित्यागेन तत् तद्-आयासापगमात्, एतच् च श्री-भगवद् भक्ति-विलासे एकान्ति-लक्षणादौ10 विवृतम् एवास्ति । एवम् एकापि शरद् व्योमादीनां चतुर्णां नैर्मल्यम् आपादयद् इत्य् अर्थः ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यथा कृष्णे जाता भक्तिर् एका सर्वेषाम् एव्आश्रमिणाम् अशुभं महा-कष्टमयं तत् तद्-ध्र्मानुष्ठानं हरति—

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।

मत् कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥[भा।पु। ११.२०.९] इत्य् आदेः ।

तथा शरद् अप्य् एका व्योमादेर् आवरकत्वात् कष्टमयम् अब्दादिकं जहार एवं कष्टमयत्वेनैव साम्यं क्रम-रीत्या तत् तद् विशेषयोः साम्य-व्याख्याम् अपि लक्षणा-परम्परया तत् तद् अनुष्ठान-सामान्य एव पर्यवासानत् कामादि-वासनानां गुरु-सेवादि-माद् आश्रमान्तःपाताभावात् तद् वासनाक्षयार्थयम् अनियमाद्य् अनुष्ठान एव तात्पर्यात् किं बहुना यतीनाम् अव्यक्तासक्त-चित्तादित्वम् अपि कष्टम् एव, क्लेशोऽधिकतरस् तेषाम् व्यक्तासक्त-चेतसाम् [गीता १२.५] इति श्री-भगवद् गीताभ्यः । अन्यत् तैः । तत्र गुर्व्-अर्थोदकाहरण-मुम्भम् इति गुर्व्-अर्थम् उदक-कुम्भाहरणासुखम् इत्य् अर्थः । कामादि-वासनामलम् इति तद् वासना-रूपासुखम् इत्य् अर्थः । एवं साङ्कर्यम् इत्य् अर्थः । तज्-जनित-सुखम् इत्य् अर्थः । किन्त्व् आश्रमित्वं न हरतीति तस्मात् भ्रंशस् तु विविक्षितः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्योम्न इति । व्योमादीनां चतुर्णां चतुरो मलान् शरज् जहार यथा आश्रमिणां चतुर्णां सत्सङ्ग-प्रादुर्भूता भक्तिर् अशुभं आश्रमानुष्ठेय-कृत्य-रूपं अमङ्गलं दुःखं यथा हरति भक्तिमतां वर्णाश्रम-धर्मान् अधिकाराद् एव तत् तद् अकरणात् तथाहि ब्रह्म-चारिणां कर्मि-गुरूपसत्ति-प्राप्त-गोचारणादि-क्लेशं भक्तिर् यथा हरति, तथा शरत् व्योम्नो ऽब्भ्रं आवरकं मेघम् अभ्रम् इति च पाठः । यथा च गृहिणः श्राद्धादि-विधि-प्राप्त-कुटुम्बादि-साङ्कर्ष्य-क्लेशं भक्तिर् हरति तथा शरदि भूतानां शावल्यं वर्षासु वृष्टि-भयाद् एकत्र वसतां सम्मर्दं हरति, शरदारम्भ एव तेषां पृथक् पृथक् स्थान-गमनात् यथा च वनस्थस्य मल-धारण-क्लेशं भक्तिर् हरति, एवं भूवः पङ्कं शरत् यथा च यतीनां ब्रह्म-जीवैक्यभावना-क्लेशरूपं मालिन्यं भक्तिर् हरति, क्लेशोऽधिकतरस् तेषाम् व्यक्तासक्त-चेतसाम् [गीता १२.५] इति गीतोक्तेः एवम् अपां मलं शरद् इत्य् उपादेया ॥३४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : व्योमादीनां चतुर्णां चतुरो मलान् अब्दादि-रूपान् शरज्-जहार यथा ब्रह्मारिप्रभृतीनां चतुर्णाम् आश्रमिणां सत्-प्रसङ्गाज् जाता, कृष्णे भक्तिस् तत्-तद् आश्रम-गतम्-अशुभं, कष्ट-रूपं मलं हरति । तथाहि गुरौ निवसतो वर्णिनस् तद् अर्थोदकाहरणादिकं कष्टं भक्तिर् इव व्योम्नोऽब्दं शरद् अहरत् । गृहस्थस्य ऋणत्रयापनुत्तये कलत्रादि-साङ्कर्यं भक्तिर् इव वृष्टि-हेतुक भूतानां शाबल्यं शरद् अहरत् वनस्थस्य नख-केश-मलादि-क्लेशं भक्तिर् इव भुवः पङ्कं शरद् अहरत् । यतेः कामादि-वासनां भक्तिर् इवायां मलं शरद् अहरत् भक्तौ सत्याम् आश्रम-धर्म-परित्यागस् तस्यां सर्वान् अर्थ-विनाशकत्वात् । स्वयं फल-रूपात्वाच् चेति प्रसिद्धेर् इत्य् उपादेयेयम् ॥३४॥


॥ १०.२०.३५ ॥

सर्वस्वं जलदा हित्वा विरेजुः शुभ्र-वर्चसः ।

यथा त्यक्तैषणाः शान्ता मुनयो मुक्त-किल्बिषाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्यक्तैषणाः त्यक्ताः पुत्र-वित्त-लोकैषणा यैस् ते ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वस्वं सर्वेषां स्वं धनं धनोत्पादकं जलम्, जलाद् एव सर्व-धनोत्पत्तेः प्रसिद्धत्वात् । शुभ्र-वर्चसः शुक्ल-वर्णाः शुक्ल-शुभ्र-शुचिश्वेत इत्य् आद्य् अमरोक्तेः । वर्चो नपुंसकं रूपे विष्ठायाम् अपि तेजसि । पुंसि चन्द्रस्य तनये इति मेदिनी । पुत्रैषणा तु पुत्रा मे भवेयुस् ते च श्रुत-शीलाचार-युक्ताश् चिर-जीविनो धनिनो यशस्विनश् च भवेयुर् इत्य् एवं-रूपा, वित्तैषणा तु—वित्तं मे बहु भवेद्-व्ययश् चाल्पो भवेद् यथा-कथं धन-समृद्धिर् मे भवत्व् इत्य् एवं-रूपा, लोकैषणा तु-लोका मां सर्वे श्लाघयन्तु कोऽपि मां न निन्देत् सुखं च मेऽत्र परत्र च स्याद् इत्य् एवं रूपा ज्ञेया । मुक्त-किल्बिषाः त्यक्त-वासनाः ॥३५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्यक्तैषणत्वाद् एव शान्ता राघादि-रहिताः, मुक्तं किल्बिषं भक्ति-विघ्नत्वेन किल्बिष-तुल्यं शुष्कं ज्ञानं यैः, कल्मषा इति पाठान्तरे\ऽप्य् अर्थः स एव । एवं शुभ्र-वच्चैः साम्यम्, अत एव विशेषेण पुर्वतो\ऽस्याधिक्येन राजन्ति शोभन्ते यथा ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किल्बिषं स्ंसार-हेतुः कर्मतत् त्यागाद् एव त्यक्तैषणाः तस्माद् एव शान्ता अक्षुभित-चित्ताः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्यक्तैषणास् त्यक्ताः पुत्र-वित्त-लोकैषणा यैस् ते इतीयम् उपादेया ॥३५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : त्यक्ताः पुत्र-वित्त-लोकैषणा यैस् ते इत्य् उपादेयेयम् ॥३५॥


॥ १०.२०.३६ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गिरय इति । अयं भावः, न ह्य् उपाध्यायाः कर्म-विद्याम् इव ज्ञानिनो ज्ञानामृतं सर्वतो वितरन्ति, अपि तु कृपया क्वचिद् एव । एवं गिरयः शिवं निर्मलं तोयं क्वचिन् मुमुचुः क्वचिन् न । न पुनः प्रावृषीव सर्वत इति ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु सर्वदा सर्वेभ्यः किम् अर्थं न ददतीत्य् आह—अयं भाव इति । उपाध्याया वेदान्तातिरिक्त-शास्त्राध्यापका यथा कर्म-विद्यां सर्वेभ्यो ददति नैवं ज्ञानिनोपीत्य् आह—अपीति । प्रावृषीव वर्षताव् इव सर्वत्र नेति भावः ॥३६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गिरय इति तैर् व्याख्यातम् एव । यद् वा, शिवं निर्मलं क्वचित् कदाचित् मूमूचुः, क्वचिच् च निर्मलं मुमुचौः, किन्तु मलिनम् एव, प्रायो वृष्ट्य्-अभावेनाप्लव11-मात्रावशिष्टस्यैव रक्षणात्12, यथा ज्ञानामृतम् उत्तम-ज्ञानं भक्ति-माहायात्म्य-विषयकं तत् तत्त्ववेदिनः काले स्वस्य भक्तस्य वा प्रेमोद्रेक-समये तस्मै ददति, अन्यदा त्व् आत्मादि-विषयम् एव तुच्छ-ज्ञानं ददतीत्य् अर्थः ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गिरय इति तैर् व्याख्यातम् एव । यद् वा, शिवं निर्मलं क्वचित् कदाचित् मूमूचुः, क्वचिच् च निर्मलं मुमुचौः, किन्तु मलिनम् एव, प्रायो वृष्ट्य्-अभावेनाप्लव13-मात्रावशिष्टस्यैव रक्षणात्14, यथा ज्ञानामृतम् उत्तम-ज्ञानं भक्ति-माहायात्म्य-विषयकं तत् तत्त्ववेदिनः काले स्वस्य भक्तस्य वा प्रेमोद्रेक-समये तस्मै ददति, अन्यदा त्व् आत्मादि-विषयम् एव तुच्छ-ज्ञानं ददतीत्य् अर्थः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञानामृतं भगवत्-तत्त्वोपदेशं ज्ञानिनो नारद-भरत-प्रह्लादादयः व्याध-रहूगण-दैत्य-बालकादिषु ददते, अन्यत्र न ददते इति कृतार्थी-बुभूषयैवोपादेया । तेषां गिरीणां च स्वभाव एवायम् अचिन्त्यत्वान् नात्र युक्तिर् योजनीया । पात्र-साद्-गुण्यादेर् हेतुत्वे तेषां तुल्य-दर्शित्वं तत्-कृपायाश् च निरुपाधित्वं व्याहतं स्याद् इत्य् अवधेयम् ॥३६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : गिरय इति आचार्याह्य् अधिकारिणि ब्रह्म-विद्याम् उपदिशन्ति न च यत्र क्वापि एवं गिरयः । शिवं जलं क्वचिद् एव मुमुचुः केचित् तु नेति एवम् आह—सूत्रकारः अनाविष्कुर्वन्न् अन्वयादि ति कर्म-विद्यान्तु सर्वत्रोपदिशन्ति प्रावृषीव वारीत्य् उपादेयेयम् ॥३६॥


॥ १०.२०.३७ ॥

नैवाविदन् क्षीयमाणं जलं गाध-जले-चराः ।

यथायुर् अन्व्-अहं क्षय्यं नरा मूठाः कुटुम्बिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गाधे क्षुद्रे जले चरन्तीति तथा ते मीनादयः ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गाध-जलेचराः अल्पाम्बुवासिनो मत्स्यादयः । क्षीयमाणम् शुष्यमाणम् । अर्विदन् प्रापुः । क्षय्यम् क्षेतुं क्षीयमाणम् इति यावत् ॥३७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गाध-जलचरत्वात् क्षुद्रा ज्ञेयाः, अत एवायुस् तुल्यं जलं क्षीयमाणम् अपि न ज्ञातवन्तः । मूडा अविवेकिनः स्त्री-पुत्राद्य् आसक्ता इति क्रमेण क्षुद्रत्व-गाध-जलचरत्वाभ्यां साम्यं कुटुम्बित्वम् एव, तथापि साक्षात् पित्रादि-मरणानुमानेनापि नावकलयन्तीत्य् आशयेन जलचरो\ऽपि विशेषम् आह—मूढा इति । यद् वा, गाध-जलचरत्वेन जलक्षय-ज्ञान-योग्यतोक्ता, तथापि नैवाविदन्, यतो मूढा निर्बुधयः । एवम् अन्व्-अहम् इत्य् अस्यापि पूर्वेणाप्य् अन्वयः । दृष्टान्ते च कुटुम्बित्वेन कुटुम्ब-मरणादि-दर्शनाद् आयुः-क्षय-ज्ञानं सम्भावितम् एव । अन्यत् समानम् ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गाध-जलचरत्वेन जल-क्षय-ज्ञान-योग्यतोक्ता तथापि नैवाविदन् दृष्टान्ते च कुटुम्बित्वेन कुटुम्ब-मरणादि-दर्शनाद् आयुः-क्षय-ज्ञानं सम्भावितम् एव ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गाध-जल-चरत्वात् क्षुद्रा ज्ञेयाः, अतएवायुस् तुल्यं क्षीयमाणम् अपि न ज्ञातवन्तः । मूढा अविवेकिनः स्त्री-पुत्रादासक्ता इति क्रमेण क्षुद्रत्व-गाध-जल-चरत्वाभ्यां साम्यं कुटुम्बित्वम् एव, तथापि साक्षात् पित्रादि-मरणानुमानेनापि नावकलयन्तीत्य् आशयेन जलचरोऽपि विशेषम् आह—मूढा इति ।

यद् वा, गाध-जल-चरत्वेन जल-क्षय-ज्ञान-योग्यतोक्ता, तथापि नैवाविदन्, यतो मूढा निर्बुधयः । एवम् अन्व्-अहम् इत्य् अस्यापि पूर्वेणाप्य् अन्वयः । दृष्ण्ताते च कुटुम्बित्वेन कुटुम्ब-मरणादि-दर्शनाद् आयुः-क्षय-ज्ञानं सम्भावितम् एव । अन्यत् समानम् ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गाधे ऽल्पप्रमाणे जले चरन्तीति ते मीनादयः । इतीयं हेया ॥३७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : गाध-जले स्वल्पाम्बुनि चरन्तो मीनादयो नैवाविदन् कुटुम्ब-पोषणैकरताः सम्पन्नाः यथायुर् इति हेयेयम् ॥३७॥


॥ १०.२०.३८ ॥

गाध-वारि-चरास् तापम् अविदञ् छरद्-अर्क-जम् ।

यथा दरिद्रः कृपणः कुटुम्ब्य् अविजितेन्द्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अविन्दन् लेभिरे ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरदर्कश्शरद् ऋतु-सूर्यः, तज्जम् । एतेन कुटुम्बिनो गृह-क्लेशं सहन्ते न तु तत् त्यजन्तीति भावः ॥३८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च तेषां जलक्षयाज्ञानेन भयादि-राहित्यात् सुखं किन्नु दुःखं महत् स्याद् एवेत्य् आह—गाधेति । पुनस् तद् उक्तिस् तथा तेषाम् एव ताप-प्राप्ति-दार्ढ्यार्थम्, अगाध-जल-चारिणां तादृशत्वाभाव-बोधनार्थं च । शरद-कर्जम् इति तापस्य तैक्ष्ण्यम् उक्तम्, दरिद्रो निर्धनस् तत्र च कृपणो धनायोद्यम् अकिलिष्टः, तत्रापि कुटुम्बी स्त्री-पुत्रादि-भरणार्थं बहुल-धनापेक्षक इत्य् अर्थः तत्राप्य् अविजितेन्द्रियः शोभापर इत्य् अर्थः । अत एव तापं त्रिविधं दुःखातिशयं वा लभते ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न च तेषां जलक्षय-ज्ञानेन भयादि-राहित्यात् सुखं किन्तु दुःखं महत्स्याद् एवेत्य् आह—गाधेति । शरद्-अर्कजम् इति तापस्य तैक्ष्ण्यम् उक्तं दरिद्रः निर्धनः तत्र च कृपणः धनार्थोद्यम् अक्लिष्ट तत्रापि कुटुम्बो स्त्री-पुत्रादि-भरणार्थ-बहुलधनापेक्षक इत्य् अर्थः । तत्राप्य् विजितेन्द्रियः लोभादि-पर इत्य् अर्थः । अत एव तापं त्रिविधं लभ्यते ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न च तेषां जलक्षयाज्ञानेन भयादि-राहित्यात् सुखं किन्नु दुःखं महत् स्याद् एवेत्य् आह—गाधेति । पुनस्-तद् उक्तिस् तथा तेषम् एव ताप-प्राप्ति-दार्ढ्यार्थम्, अगाध-जल-चारिणां तादृशत्वाभाव-बोधनार्थं च । शरद्-अर्कजम् इति तापस्य तैक्ष्ण्यम् उक्तम्, दरिद्रो निर्धन्स् तत्र च कृपणो धनायोद्यमक्लिष्टः, तत्रापि कुटुम्बी स्त्री-पुत्रादि-भरणार्थं बहुलधनापेक्षक इत्य् अर्थः । तत्राप्य् अविजितेन्द्रियः शोभापरः इत्य् अर्थः । अत एव तापं त्रिविधं दुःखातिशयं वा लभते ॥३८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविन्दन् लेभिरे, यथा दरिद्र इत्य् अतः पुर्वश्लोके सम्पन्नाः कुटुम्बिनो ज्ञेयाः । यद् वा, तेषाम् एव तत् तापं वर्णयति, गाधेति ॥३८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अविन्दन् लेभिरे कृपणो दीनः जितेन्द्रियस्य तु दारिद्र्यं भूषणम् इति भावः ॥३८॥


॥ १०.२०.३९ ॥

शनैः शनैर् जहुः पङ्कं स्थलान्य् आमं च वीरुधः ।

यथाहं-ममतां धीराः शरीरादिष्व् अनात्मसु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शनैः शनैर् इति । तत्र ममताम् इव पङ्कम् अहन्ताम् इव आमताम् अपक्वतां जहुर् इति ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तयोः । स्थलानि भू-प्रदेशाः । वीरुधं तत्-फलानि ॥३९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्थलानि वीरुधश् च क्रमेण पङ्कम्-आमतां जहुः, आदि-शब्देन ममता-विषयाः पुत्रादयः अनात्मसु आत्म-व्यतिरिक्तेष्व् इति त्यागे हेतुः, यतो धीरा विवेकिनः, तत्र ममताया बाह्य-विषयकत्वात् पङ्केन, अहन्तायाश् चान्तर-विषयत्वाद् आत्मतया साम्यम् ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ममताया बाह्य-विषयत्वात् पङ्केन अहन्तायाश् चान्तर-विषयत्वाद् आमतया साम्यम् ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : स्थलानि वीरुधश् च क्रमेण पङ्कम्-आमतांजहुः, आदि-शब्देन ममता-विषयाः पुत्रादयः, अनात्मसु आत्म-व्यतिरिक्तेष्व् इति त्यागे हेतुः, अतो धीरा विवेकिनः, तत्र ममताया बाद्य-विषयकत्वात् पङ्केन, अहन्तायाश् चान्तर-विषयत्वाद् आत्मतया साम्यम् ॥३९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मा भक्त्य्-अनुकूलो जीवात्मा परमात्मा कृष्णश् च तद्-व्यतिरिक्तेषु शरीरादिषु तत्र तत्र तु अहन्ता-ममते यत्नेन भावयित्वेति भावः इत्य् उपादेया ॥३९॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : स्थालानि पङ्कं शनैः जहुः वीरुधश् चामम्-अपक्वतां यथा धीरा हरि-भक्ताः शरीरेष्व् अहन्तं गृहादिषु ममतांजहति शरीरादीनाम्-अनात्मत्वेन्आनहम् अर्थत्वात् गृहादेः परेशस्याध्सीनत्वाद् इत्य् उपादेयेयम् ॥३९॥


॥ १०.२०.४० ॥

निश्चलाम्बुर् अभूत् तूष्णीं समुद्रः शरद्-आगमे ।

आत्मन्य् उपरते सम्यङ् मुनिर् व्युपरतागमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मन्य् उपरते त्यक्त-क्रिये मुनिर् इव निश्चलाम्बुः स एव व्युपरतागमो निवृत्त-वेद-घोष इव तूष्णीम् अभुद् इति ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मनि मनसि । यद् वा, उपे शर्व-पाले हरौ-रते सति स इव मुनिर् इव ॥४०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : समुद्र इति पूर्वोक्त-सिन्धुवत्, सम्यग् उपरते परित्यक्त-क्रिये आत्मनि देहे स्वस्मिन् वा अन्यत् तैर् व्याख्यातम् । यद् वा, कामादिभ्यो विरते चित्ते, यतो मुनिः आत्मा-रामः, अत एव व्युपरतागमो गृहीत-मौन इत्य् अर्थः ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समुद्र इति पूर्वक्त-सिन्धुवत् सम्यग् उपरते परित्यक्त-क्रिये आत्मनि स्वस्मिन् अन्यत्तः तत्र स एव समुद्र एव तूष्णीं बभूवेत्य् अन्वयः । व्युपरतेत्य्-आदि-वयं मुनि-विशेषणं ज्ञेयं कामादिभ्यो विरते चित्ते यतो मुनिः आत्मा-रामः अत एव व्युपरतागमः गृहीत-मौन इत्य् अर्थः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : समुद्र इति पूर्वोक्त-सिन्धुवत्, सम्यग् उपरते परित्यक्त-क्रिये आत्मनि देहे स्वस्मिन् वा अन्यत् तैर् व्याख्यातम् ।

यद् वा, कामादिभ्यो विरते चित्ते, यतो मुनिः आत्मा-रामः, अत एव व्युपरतागमो गृहीत-मौन इत्य् अर्थः ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मन्य् उपरते त्यक्त-क्रिये सति निश्चल-चित्तो मुनिर् इव निश्चलाम्बुः समुद्रः, मथुरा पश्चिम-दिशि शातोवास इति ख्यातः व्युपरतागमो निवृत्त-वेद-घोषो मुनिर् इव तुष्णीम् इतीयम् उपादेया ॥४०॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : शरद्-आगमे समुद्रो निश्चिलाम्बुर् अभुत् यथ्आत्मनि चित्ते भगवत् उपरते समाहिते मुनिस् तूष्णीं सन् व्युपरतागमो निवृत्त-वेद-घोषो भवति तद्वद् इत्य् उपदेयेयम् ॥४०॥


॥ १०.२०.४१ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : केदारेभ्यो बद्धे सेतु-शालि-क्षेत्रेभ्यो दृढैः सेतुभिर् अपोऽगृह्णन् । ततः परं वृष्ट्य्-अभावात् । प्राणैर् इन्द्रियैः । तन् निरोधेनेन्द्रिय-प्रत्याहारेण ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कर्षकाः कृषी-वलाः ॥४१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : केदारेभ्यो भग्न-सेतुभिः स्रवन्तीर् अपः अगृह्णन् अरक्षन्, प्राणैर् इन्द्रियैः क्षुभितैर् ज्वरीभूतैः15 स्वेभ्यः स्रवज् ज्ञानं धानादि-रूपं मननादि16-लक्षणं वा । यद् वा, केदारेभ्य इति चतुर्थी, केदारार्थम्, यथा कामलोभादिना स्रवज् ज्ञानम् इन्द्रियैः श्रोत्रवागादिभिः कृतेन श्रवण निरोधेन ज्ञानं गृह्णन्ति ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भग्नैः सेतुभिः केदारेभ्यः स्रवन्तीर् अपः दृढैः सेतुभिर् अगृह्णन् अरक्षन् प्राणैर् इन्द्रियैः क्षुभितैर् अभूतैः स्वेभ्यः स्रवज् ज्ञानं प्रत्याहारेण यथा रक्षन्तीत्य् अर्थः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : काले प्राप्तसाद्-गुण्ययात्रावसरे अन्यथा तद् अभावे केदारेभ्यः स्रवन्तीर् इति, लिङ्ग-विपरिणामेन अत्र प्रणालीभिर् इति शेषः स्रवद् इत्य् अत्र चात्मन इति शेषः ॥४१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केदारेभ्यः स्रवन्तीर् अपः दृढैः सेतुभिर् अगृह्नन् ररक्षुः यथा प्राणैर् इन्द्रियैर् इन्द्रिय-क्षोभैः स्रवज् ज्ञानं तेषाम् इन्द्रियाणां निरोधेन प्रत्याहारेणेत्य् उपादेया ॥४१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : केदारेभ्यः स्रवन्तीर् अपः कर्षका दृढैः सेतुभिर् अगृह्नन् ररक्षुः यथा योगिनः प्राणैर् विषय-क्षुभितैर् इन्द्रियैः स्रवज् ज्ञानं तेषां निराधेन प्रत्याहारेणेतीयम् उपादेया ॥४१॥


॥ १०.२०.४२ ॥

शरद्-अर्कांशु-जांस् तापान् भूतानाम् उडुपोऽहरत् ।

देहाभिमान-जं बोधो मुकुन्दो व्रज-योषिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देहाभिमान-जं बोध इव व्रज-योषितां मुकुन्द इव चेत्य् अर्थः ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देहो\ऽहम् इत्य् अभिमानेन जातं तापम् । बोध आत्म-ज्ञानम् । मुकुन्दो व्रज-योषितां तातं यथेति दृष्टान्त् तद्-वयम् अत्र इव-शब्दाध्याहारेण ज्ञेयम् ॥३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बोधयति उद्ध्वादिना तत्त्वं ज्ञापयतीति बोधः, मुकुन्दो व्रज-योषितां देहाभिमानजं तापम् अहरद् इति यच् छ्री-स्वामि-पादैर् न व्ह्याख्यातम्, तेन श्री-गोपी-माहात्म्य-विज्ञेभ्यस्17 तेभ्यस् तद् व्ह्याख्यायै तद्-भावाय च नमो मनः । एवम् अनेकशो महानुभावैर् ऊह्यम् एव तत्र देहाभिमान-जतापस्य सदैव बोधेन हरणात् । पक्षान्तरं मुकुन्द इति दिवा-विरहजं तापं रात्रौ यथा हरतीति । यद् वा, बोधयति सङ्केत-वेणु-नादादिना कुञ्जादि-स्थितम् आत्मानं निज-रस-विशेषोद्यमं वा ज्ञापयतीति बोधो मुकुन्दः सुख-विशेष-दाता श्री-भगवान्, ब्रज-योषितां देहेषु अभिमानो\ऽन्यदीयत्व-कुल-जातत्वादि-रूपस् तस्माज् जायमानं तापं श्री-कृष्ण-प्रत्यादि-दुःख-विशेषं यथा मोहन-वेणु-वाद्यादिना हरतीति ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शरद् इति लुप्तोपमेयं व्यवहारिकाणां तादृश-ताप-हरणे उडुपो विशिष्टः पारमार्थिकानां बोध आत्म-ज्ञानं तद् ऐकानुरक्तानां व्रज-योषितान्तु मुकुन्द एवेति तासां वैशिष्ट्यं बोधितम् आसाम् । तापश् चानिर्वचनीयताविवक्षया प्रसिद्धतया चानुरक्तेऽपि क्षणं युग-शतम् इव यासां येन विनाभवद् इत्य् अनुसारेण ज्ञेयः, वक्ष्यते च आश्लिष्य इत्य् आदौ गोप्योऽपि कृष्ण-हृत-चेतस इति ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : देहाभिमानजम् इति शसः स्थाने अमादेशः व्रज-योषिताम् इति । सन्ध्यादि-समये दर्शनादिना विरह-तापान् इति ज्ञेयम् ॥४२.४५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा देहाभिमान-जं तापं बोधः । यथा च व्रज-योषितां विरह-तापं मुकुन्द इत्य् उपादेया ॥४२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : उडुपश् चन्द्रः शरद्-अर्कांशुजं तापम् अहरत् बोध इव देहाभिमानजं तापं मुकुन्द इव व्रज-योषितां विरहः, तम् इत्य् उपादेया ॥४२॥


॥ १०.२०.४३ ॥

खम् अशोभत निर्मेघं शरद्-विमल-तारकम् ।

सत्त्व-युक्तं यथा चित्तं शब्द-ब्रह्मार्थ-दर्शनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शरदा विमलास् तारका यस्मिंस् तत् । शब्द-ब्रह्मणो वेदस्यार्थान् पूर्वोत्तर-मीमांसा-निर्णीतान् दर्शयतीति तथा तद्वत् ॥४३.४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्त्वेन व्यवसायेन गुणेन वा युक्तं शोभते इति । पूर्व-मीमांसा-निर्णीतार्था विधि-निषेधार्थ-वादादि-रूपाः, उत्तर-मीमांसा-निर्णीतार्थाः श्रवणादि-साधनैश् शास्त्रोपदिष्ट-पञ्च-कोशादि-विवेकेन वस्तुतत्त्वावधारणोपयोगिनस् तान् । शुद्ध-चित्ते एव श्रवणादिना ज्ञानं जायते नान्यथेति तात्पर्यम् ॥४३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मेघ-स्थाने रजस् तमो-रूप आवरको ज्ञेयः, अतस् तद् अभावेन सत्त्व-युक्तम्, अन्यत् तैर् व्याख्यातम् । यद् वा, तारयति तमसो लोकान् । किं वा, निजोदयतो रास-क्रीडा-प्रवर्तनादिना तारयति संसारात् सर्वान् एव गोपीर् वा विरह-दुःखाद् इति तारकश् चन्द्रः, शरदा विमलः सुप्रसन्नो\ऽसौ यस्मिन् तत् शरद् इति तस्यां तस्य स्वभावत एव प्रकाशाधिक्याभिप्रायेण, मेघ-तुल्य-रजस् तमो\ऽपगमात् प्रकाशमयत्वेन सत्त्व-गुण-युक्तम्शब्द-ब्रह्मणे वेदस्यार्थ, क्वचित् साक्षाद्-वृत्त्या, क्वचिच् च तात्पर्य-वृत्या अभिधेयः श्री-कृष्णे विमल-चन्द्रोपमस् तस्य दर्शनं साक्षाद् इव परिस्फुर्तिर् यस्मिन् तत् ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : खम् इति । खस्य स्थाने चित्तं ज्ञेयं निर्मेघतायाः सत्व-युक्तत्वं तेन मेघ-स्थानीय-रजस् तमो-निषेधात् शरदः शब्द-ब्रह्म तारकाणां तद् अर्थाः तारका-शब्देन च चन्द्र एव मुख्यत्वेन गृह्यते, तद् ईशत्वात् तद् उक्तं नक्षत्रेश क्षपाकरः इत्य् आदेः । तत्र चन्द्रस्य भगवत्तत्वम् अन्येषां त्व् अन्येऽर्था इति ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शब्द-ब्रह्मणो वेदस्य अर्थाः निवृत्त-कर्म-ज्ञान-भक्ति-योगाः तेषां दर्शनं ज्ञानं यत्र तत् चित्तं कीदृशम्? सत्त्व-युक्तं साधुत्व-युक्तम् । तत्र खस्य चित्तेन साम्यम् निर्मेघत्वस्य सत्त्व-युक्तत्वेन शब्द-ब्रह्मणा शरदः, निवृत्त-कर्म-ज्ञान-तपो-योगैस् ताराणाम् भक्ति-योगेन तारा-पद-गम्यस्य तारकेशस्य इतीयम्-उपादेया ॥४३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : शब्द-ब्रह्मणो वेदस्य येऽर्था निवृत्त-कर्म-ज्ञान-भक्ति-रूपास् तेषां दर्शनं यत्र तच् चित्तं कीदृक् सत्व-युक्तं साधुत्व-विशिष्टं, तत्र स्वस्य चित्तेन साम्यं निर्मेघत्वस्य सत्व-युक्तत्वेन शरदः शब्द-ब्रह्मणा ताराणां निवृत्त-कर्म-ज्ञानाभ्यां तारापद-वाच्यस्य ताराधीशस्य भक्त्येतीयम् उपादेया ॥४३॥


॥ १०.२०.४४ ॥

अखण्ड-मण्डलो व्योम्नि रराजोडु-गणैः शशी ।

यथा यदु-पतिः कृष्णो वृष्णि-चक्रावृतो भुवि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अखण्ड-मण्डलः परिपूर्ण-कलः ॥४४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अखण्डं सम्पूर्णं मण्डलं यस्येति, मेघानाम् अपगमात् तैर् मण्डलाच्छादनाभावेन पूर्णिमापेक्षया वा, श्री-वृन्दावने नित्य-सम्पूर्ण-चन्द्रोदयाभिप्रायेण वा, तेन च यदु-पतित्व-साम्यम् । तत्र साक्षाच् च्री-गरुडारोहणादिना सम्पूर्णस्य बाह्यैश्वर्यस्य वा प्रकटनात् । एतच् च भाव्य् अपि श्री-शुक-परीक्षित् सम्वादात् प्राक्तनत्वेनात्र निर्दिष्टम् । यद् वा, यदु-वृष्णि-शब्दाभ्यां पूर्व-लिखित-श्री-स्कन्द-पुराणोक्तानुसारेण गोपा एव बोधव्याः ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैवाह—अखण्डेति । चन्द्रस्य पूर्णिमापेक्षया श्री-कृष्णस्य च स्वयं भगवत्ता-प्राकट्यापेक्षया तत्र यद्य् अपि वर्षास्व् अपि शशिनस् तादृशस्य स्ओडुगणस्य स्वतो राजमानत्वम् अस्त्य् एव किन्तु धनाच्छन्नतया न दृश्यते शरदि तु तद् भावात् दृश्यते तथा यद् उपतेर् अप्य् अप्राकट्य-समयानुसारेण योज्यं यदु-पतिर् इत्य् अधिकोक्त्या यदुभिः सह तस्य नित्य-सम्बन्धो ज्ञप्यते । वृष्णि-शब्द-निर्देशोऽत्र यदुषु तेषां प्राधान्यापेक्षया ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्पूर्ण-मण्डलत्वस्य स्वयं भगवत्त्वेन साम्यम् यदु-पतित्वेन ओषधीशत्वस्य वृष्णि-चक्रैर् नन्दोपनन्द-वसुदेवाक्रूरादिभिर् दृश्यैर् दृश्यानाम् उडुगणानाम् इतीयं ध्यानार्थम् उपादेया ॥४४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अखण्ड-मण्डलत्वस्य स्वयं भगवत्वेन तुल्यता ओषधीशत्वस्य यदु-पतित्वेन उडु-गणानां कृष्ण-चक्रैः नन्दोपनन्द-वसुदेवाक्रूरादिभिर् इति ध्यानार्थम् उपादेया ॥४४॥


॥ १०.२०.४५ ॥

आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् ।

जनास् तापं जहुर् गोप्यो न कृष्ण-हृत-चेतसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समोऽन्यूनाधिकः शीतश् च्ओष्णश् च तम् । न तु गोप्यः, कृष्णापहृत-चेतस्त्वेन तासां सन्तापो दुःसह इति । यद् वा, -कार उपमार्थः । तदा कृष्ण-हृत-चेतस इति चेतसा कृष्णम् आश्लिष्य यथा, इत्य् अर्थः ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रसून-वनं पुष्प-वनम् । दार्ष्टान्तिकाद् वैषम्यं दृष्टान्ते मत्वा तस्यार्थान्तरम् आह—तद् वेति । तदा शरदि । इत्य् अर्थ इति । कृष्णे हृतं प्रापितं चेतो याभिस् तास् तथा । कृष्णाध्यानेन सञ्जातानन्दा इति तात्पर्यम् ॥४५॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। १.२.१०] शरत्-कालीन-पुष्पित-वन-वायुम् अनुभूय सर्वे जनास् तापं जहुः, गोप्यस् तु तापं न जहुः । कुतः ? कृष्णेन हृतानि चेतांसि यासां ताः, कृष्ण-प्रेमाग्नि-गाढ-दग्धत्वात् । अत एव महा-तापम् एव प्रापुर् इत्य् उक्तं स्यात् । शरदाधिकं तत्-प्रेम्ण उद्दीपनाद् इति तत्राप्य् एवम् ऊह्यम् ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आश्लिष्य सम-शीतोष्णम् इत्य्-आदि । जना व्रजस्था जनास् तापं जहुः, तु गोप्यः । कुतः ? कृष्ण-हृतच् चेतसश् चेत् तेन मारुतेनोद्दीपन-भाव-रूपेण सम-शीतोष्णत्वे\ऽपि तासां केवलम् उष्ण एवाभवद् इत्य् अर्थः ॥४५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आश्लिष्य प्रीत्या निर्भरम् अनुभूय, समम् इति मान्द्यम् अभिप्रेतम्, शीतं चेति निदाघादिवद् उष्णतातिशयः, उष्णञ्चेति शरच् छेषे जायमानशैत्यातिशयश् अ परिहृत इति सुशैत्यम्, मालत्यादि-प्रसूनवनस्य मारुतम् इति सौगन्ध्यं च । एतच् च प्रायो वसन्तवच् छरदः स्वभाविकम् एव तापं शरदर्क-जं दिवापि जहुः, तु गोप्यो विरहजं प्रेम-स्वभावजं वोत्तापं कृष्ण-हृत-चेतसां तासां तत्-स्मृति-विशेषेषजनकेन तेन भाव-विशेषोद्दीपनात्, प्रत्युताधिकताप-प्राप्तेर् इत्य् अर्थः । इदं प्रसङ्गाद् भाव-विशेषोदयनैवात्रोक्तम्, असाधारणत्वाच् छास्त्र-दृष्टान्तो नोक्तः । किं वा, उत्तम-पानक-पानेन यथा सर्वेषां सुखं ज्वरो वा वर्धत एवेति वाक्य-शेषो दृष्टान्तो दृष्टव्यः ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न तु गोप्य इति विशेक्तिस् तत्र हेतुम् आह—कृष्णेति । ततस् तेनोद्दीपनात् प्रत्युताधिकं तापं प्रापुर् इत्य् अर्थः । हृ-धातु-प्रयोग-गतम् एव स्पष्टीकृतवान् योगिनां मनसि प्रविश्य सम्पदे कल्पितुं आसान्तु मनो हृत्वा विपदे कल्पितु युक्त एवेति भावः । मुकुन्दो व्रज-योषिताम् इति तासाम् उत्तरावस्था दृष्टान्तिता अनेन तु पूर्वावस्थेति ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ यद्य् अपि वृन्दावनं सर्वदा सर्वर्तुभिः सेव्यमानम्, तथापि भगवद् इच्छावशात् क्रमिक-सेवनम् अपि तेषां दर्शयन् निदाघवर्षा-विहार वर्णनोपक्रमे ऋतु-सन्धिज मारुतं वर्णयन्न् आह—आश्लिष्य समशीतोष्णम् इत्य्-आदि । समं यथा स्यात् तथा शीतंउष्णं च, प्रत्यग्रागच्छन् मेघागम-सम्बन्धाच्छीतम्, निर्गच्छन्न् इदापसम्बन्धाद् उष्णम् इत्य् अर्थः । प्रसून-प्रधानं यद्-वनं तत्-सम्बन्धि मारुतम् । प्रसूनेति मल्ल्किकाकदम्बादि सन्धिजानि प्रसूनानि ज्ञेयानि । तथा-भूतम् आश्रित्य जनास्-तापं जहुः, तु गोप्यः । कुतः ? जनानां व्रज्स्थानाम् एव समशीतोष्णत्वेन तापनाशकत्वम्, गोपीनां तु केवलोष्णत्वेन दाहकत्वम् एवेत्य् अर्थः । कुतः ? कृष्ण-हृत-चेतसः, कृष्णेन हृतं चेतो यासाम्, एतावन्तं कालं कौमार-दशया भावानुतत्तेः, सम्प्रति कैशोरावस्थायां निर्विकारात्मके चित्ते भावः प्रथम विक्रिया इत्य्-आदि-दिशा तद् उत्पत्तौ तथाविधम् आह । तस्योद्दीपन-विभावत्वाद् भगवद् अस्ंसयोगे तापद एवासीद् इति भावः ॥४५.४९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समः अन्यूनाधिकः शीतश् चोष्णश् च तम् न तु गोप्यस् तापं जहुर् यतः कृष्ण-हृत-चेतसो विरहिण्यः, प्रत्युत तं मारुतम् आश्लिष्य तापं प्रापुर् इति भावः । अत्र प्रक्रम-भङ्गाभावार्थं केचिद् एवं व्याचक्षते, गोप्य इत्य् अनन्तरं कृष्णम् इवेति शेषो देयः कीदृश्यः? न कृष्ण-हृतानि, अपि तु हृतान्य् एव चेतांसि यासां ताः शिरश् चालनेन जनैक-कीर्तिर् नैक-यशा इतिवन् न लोपाभावः चेतश् चौरात् तस्माद् बलात् स्व-स्व-चेत आदातुम् इव तम् आश्लिष्यन्तोऽपि तास् तन् न प्रापुर् इति भावः ॥४५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : समो न्यूनाधिकः शीतश् च्ओष्णश् च तं प्रसून-वन-मारुतम् आश्लिष्य गोप्यस् तु तापं न जहुः यतः कृष्णेति विरहिण्य इत्य् अर्थः, किन्तु तापं प्रापुर् इत्य् अर्थः ॥४५॥


॥ १०.२०.४६ ॥

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् ।

अन्वीयमानाः स्व-वृषैः फलैर् ईश-क्रिया इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुष्पिण्यो गर्भिण्यः । अन्वीयमानाः स्व-वृषैः स्व-पतिभिर् अनिच्छन्त्योऽपि बलाद् अनुगम्यमानाः । ईश्वराराधनार्थाः क्रियाः बलात् फलैर् अनुगम्यमानाः समस्त-भोग-गर्भा यथेति ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वा, ईश-क्रियाः सभाग्य-कर्माणि यथायत्नेनैव फलन्ति तद्वद् इति भावः ॥४४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मृगाः खगा इत्य् आर्षम्, मृग्यः खग्यः, अन्तत् तैर् व्याख्याताम् । यद् वा, पुष्पम् आर्तवं तद्वत्यः स्व-वृषैर् अन्वीयमाना बभूवु, ईश्वराराधन-क्रिया यथा पुष्प-सदृशमान्तरीयकं ज्ञानादिकं दर्शयन्त्यः प्रेमादि-लक्षणैः फलैर् अनुगता18 भवन्ति ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मृगाः खगा इत्य् आर्षं मृग्यः खग्यः अन्यत् तैः । यद् वा, पुष्पम् ऋतुकारी धातु-विशेषस् तद्वत्यः सत्यः स्व-वृषैः प्रसव-विशेष-सम्पादक-स्व-स्व-पुंभिः प्रार्थना विनाप्य् अन्वीयमाना बभूवुः फलैः फल-विशेष-सम्पादकैर् अपूर्वकैर् अपूर्वः ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मृगाः मृग्यः खगाः खग्यः पुष्पिण्यः ऋतुमत्यः ताः स्व-वृषैर् अवश्यम् अन्वीयमाना अभवन् फलैर् ईश-क्रिया इव ॥४६.४७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृगाः मृग्यः खगाः खग्यः स्व-वृषैः स्व-स्व-पतिभिर् अम्बीयमानः अनिच्छन्त्यो ऽपि सम्भोगार्थम् अनुगम्यमाना ईश-क्रिया भगवद्-आराधन-लक्षणाः क्रिया निष्कामा अपि फलैः सुख-भोगादिभिः ॥४६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : मृगाः खगाः इत्य् आर्षं मृग्य खग्य इत्य् अर्थः । स्व-वृषैः स्व-पतिभिर् अनिच्छन्त्योऽपि बलाद् अनुगम्य-मानाः पुष्पिण्यः स-गर्भाः अभवन् यथेशक्रिया भगवद् अर्चन-लक्षणा निष्कामा अपि फलैः सुख-भोगैर् अनुगम्यमानास् तद्-गर्भा इत्य् अर्थः इयम् उपादेया ॥४६॥


॥ १०.२०.४७ ॥

उदहृष्यन्19 वारिजानि सूर्योत्थाने20 कुमुद् विना ।

राज्ञा तु निर्भया21 लोका यथा22 दस्यून् विना नृप ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुमुत् कुमुदम् । कुत्सिता मुत् यस्येति दस्यु-साम्यम् ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुमुद् इति । द्वितीया-बहुत्वे प्रथमैक-वचनम् । कुत्सिते चौर-जाराद्य्-अवकाश-योग्ये रात्रि-काले मुद् आनन्दो यस्येति । दस्यु-साम्यं चौर-तौल्यम् ॥४७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिवा विकसतां कमलानां रात्रि-विकासि-कुमुदैः सह प्रतियोगित्वेन वैरितयैव तैर् विना विकसनेन शोभा-विशेषो ध्वनितः, अत एव उच्चैर् अतिशयेनाहृष्यन् सुखं विकसितानीत्य् अर्थः । राज्ञा हेतुना लोकानां दस्युभिर् लुण्ठकैः सह वैरं व्यक्तम् एव, अतस् तान् विना निर्भयाः सन्तो यथोच्चैर् हृष्यन्ति, सूर्यस्योदये सत्य् एव राज्ञश् च सत्ता-मात्र एवेति, विशेषापेक्षया तु-शब्दः । यद् वा, चार्थे उक्त-समुच्चये, राज्ञि च्ओत्थिते न सन्तीत्य् अर्थः । पूर्वं राज्ञो\ऽसत्त्वेन भूता दस्यवस् तस्य वृत्तौ यथा निवर्तन्ते, यथा वेन-मरणे जाताः, श्री-पृथु-प्रादुर्भावे सति निवृत्ता इति । यद् वा, कुमुद्विनेति कुमुद्विनेति कुमुदानि च न्ओदहृष्यन्न् इत्य् अर्थः । दस्यून् विनेति—दस्यवस्तु सभया भवन्तीत्य् अर्थः । हे नृपेति ! भवादृशेनैव राज्ञा तद्-भवतीति । किं वा, भवता तद् विज्ञायत एवेति भावः ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वारिज-शब्देनात्र वार्य्-उद्भव-पुष्प-मात्रं गृह्यते, न तु कमलम् एव कुमुद-निषेधानुपपत्तेर् लोक-शब्दवत् सामान्यम् एव ग्राह्यम् इति कुमुदानां रात्रि-विकासित्वाद् दस्यु-साम्यं राज्ञा तस्य्ओत्थाने सिंहासन-प्रथमारोहे उद्यमे वा लुप्तोपमेयं यथा दस्यून् इति वा पाठः नृपेति दृष्टान्तस्यापि दृष्टान्त-सूचना ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुमुत् कुमुदं कुत्सितेषु मुत् यस्येति दस्यु-साम्यम् ॥४७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सूर्य-स्थानेन वारिजानि पद्मान्युधृष्यन् कुमुद्-विनेति विभक्ति-लोप आर्षः । कुमुदे\ऽपि कुमुत् स्मृतम् इति विश्वः कैरवाणि विनेत्य् अर्थः । कुत्सिता मुद्येषां जानीति दस्युभिः सादृश्यं यथा सिंहासनाधिष्ठितेन राज्ञा लोका निर्भरा भवन्ति दस्यून् विनेति राज्ञाम् उपादेयेयम् ॥४७॥


॥ १०.२०.४८ ॥

पुर-ग्रामेष्व् आग्रयणैर् इन्द्रियैश् च महोत्सवैः ।

बभौ भूः पक्व-शस्याढ्या कलाभ्यां नितरां हरेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आग्रयणैर् नवान्न-प्राशनार्थ-वैदिकैर् ऐन्द्रियैर् इन्द्रियार्थैर् लौकिकैश् च महोत्सवैःकलाभ्यां राम-कृष्णाभ्यां दर्शनादि-महोत्सवाभ्याम् ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यपि नव्आन्नानि बहूनि तथापि गृहमेधी ब्रीहि-यवाभ्यां शरद्-वसन्तयोर् यजेच् छयामाकर्वनी-वर्षासु इत्य्-आदि-श्रुति-वाक्य-विहितैर् वैदिकैः पितृ-देवार्चन-रूपैः लौकिकैः नाना-लोकैः सम्भूय सम्पादितै रावणाद् इव लीला-रूपैः । हरेः कलाभ्याम् इत्य् उक्तेः कृष्णस् तु भगवान् स्वयम् [भा।पु १.३.२८] इत्य् उक्ति-व्याकोपः स्याद् इति चेत्, अत्र व्याख्यान्तरेण समाधत्ते—किम्-भूता भूः हरेः परमेश्वरस्य कला तद्-एक-देश-जातत्वात् पद्भ्यां भूमिः इति श्रुतेः । भूः पादौ [भा।पु १२.१०.६] इति स्मृतेश् च । पुरेषु श्री-मथुरादिषु ग्रामेष्व् इव ग्रामेषु श्री-नन्दावासादिषु । आग्रयणैर् इति

नवान्नं नैव नन्दायां न च सुप्ते जनार्दने ।

न कृष्ण-पक्षे धनुषि तुलायां नैव कारयेत् ॥ इति स्मृतेः ।

प्रबोधनान्ते वृश्चिक इति ज्ञेयम् । शरद्-अन्तत्वाच् छरद्-व्यवहारः । इन्द्रियैर् इन्द्र-देवताकैः इन्द्रम् इन्द्रिय-कामस् तु [भा।पु। २.३.९] इत्य् उक्तेर् इन्द्र-पूजा-मयैर् इत्य् अर्थः । कार्त्तिक-मध्ये हि तत्-पूजा व्रजादौ पूर्वम् आसीत् तां खण्डयित्वैव श्री-भगवता गोवर्धन-पूजा प्रवर्तितेति । इदं शरद्-वर्णनम् इन्द्र-मख-भङ्गात् प्राग् इति इन्द्र-पूजाया लोक-परम्परा-गतत्वं श्री-व्रज-राजेन वर्णितम् इति विश्वनाथादयः । "आभ्यां राम-कृष्णाभ्यां । नितरां बभौ" इति योज्यम् । त्यद्-आदीनां बुद्धि-स्थ-परामर्शकत्वात् [इदमा]{।मर्क्} राम-कृष्णौ परामृश्येते । यद् वा, बलभद्रस्य हरि-कलात्वाल् लिङ्ग-समवायेन कृष्णेऽपि तद्-उक्तिर् न विरुद्धा । बलस्य कला त्वं तु वासुदेव-कलानन्तः सहस्र-वदनः स्वराट् इत्य् उक्तेः । अहं भवो यस्य कला कलायाः इति तद्-उक्तेश् च, दिष्ट्या हरेऽस्या भवतः पदो भुवो भारोपनीतः [भा।पु। १०.२.३८] इति द्वितीयाध्याये देव-कृत-स्तुताव् उक्तत्वाच् च । यद् वा, हरेश् चन्द्रमसः कलाभ्यां शुक्ल-द्वितीयासायम् उदिताभ्याम् उत्सवैर् राजकीय-पुरुष-प्रभृति-कृतैर् इत्य् अर्थः। हरिश् चन्द्रार्क-वाताश्वे शुक-भेक-यमादिषु इति मेदिनी ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : बभौ भूः पक्व-शस्याच् चेति । आभ्यां राम-कृष्णाभ्यां नितरां बभौ । यत इयं भूः श्री-भू-लीला इत्य्-आदिना भुवो पालितत्वात् ॥४८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरेषु श्री-यदु-पुर्यादिषु श्री-नन्द-वास-नन्दीश्वरादिषु वा, ग्रामेषु श्री-वृन्दावन-वर्तिषु श्री-गोप-राज-पुरोहित-शासनादि-रूपेषु हरेर् भगवतः श्री-नारायणस्य कलाभ्यां निजाखिल-भगवत्ता-प्रकटनेन परम-शोभा-रूपाभ्यां तत्र तत्र तन्-महोत्सवेषु निमन्त्रणादिना तयोर् एव प्राधान्यात् । कलि-हली काम-धेनू, अथवा हरेः कलाभ्यां प्रबोधन-रथयात्रात्मक-महोत्सवाभ्यां नितरां विशेषतो बभौ ॥४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुरेषु श्री-मथुरादिषु ग्रामेष्व् इव ग्रामेषु श्री-नन्दावासादिषु आग्रयणैर् इति

नवान्नं नैव नन्दायां न च सुप्ते जनार्दने ।

न कृष्ण-पक्षे धनुषि तुलायां नैव कारयेत् ॥

इत्य् उक्तानुसारेण वृश्चिके प्रबोधिन्य्-अन्तरम् एव इदं ज्ञेयं शरद्-अन्तरत्वात् तु शरद्-व्यवहारः । ऐन्द्रियैश् च महोत्सवैर् इति इन्द्रम् इन्द्रिय-कामस् तु [भा।पु। २.३.९] इत्य् उक्तत्वात् इन्द्र-पूजा-मयैर् इत्य् अर्थः । कार्त्तिक-मध्ये हि तत्-पूजा व्रजादौ पूर्वम् आसीत् तां खण्डयित्वैव श्री-भगवता गोवर्धन-पूजा प्रवर्तितेति । इन्द्र-पूजायास् तस्या लोक-परम्परा-प्राप्तत्वं च श्री-व्रज-राजेन मंस्यते । कीदृशी ? भूर् हरेः कला शक्तिः । आभ्यां राम-कृष्णाभ्याम् ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : हरेः कला पृथिवी । आभ्यां राम-कृष्णाभ्याम् ॥४८.४९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आग्रयणैर् इति नवान्न-प्राशनार्थैर् वैदिकैः—

नवान्नं नैव नन्दायां न च सुप्ते जनार्दने ।

न कृष्ण-पक्षे धनुषि तुलायां नैव कारयेत् ॥

प्रबोधिन्य्-अन्ते वृश्चिके इति ज्ञेयं शरद्-अन्तत्वात् तु शरद्-व्यवहारः । ऐन्द्रियैर् इन्द्र-देवताकैः इन्द्र-मख-भङ्गात् पूर्वस्याः आभ्यां राम-कृष्णाभ्याम् । यद् वा, । यद् वा, हरेश् चन्द्रस्य कलाभ्यां शुक्ल-द्वितीया सायम् उदिताभ्याम् उत्सवै राजकीय-पुरुष-प्रभृति-कृतैर् यथा सैव भूर् इति व्याख्या । यथेति पदस्य शेषत्वे प्रक्रम-भङ्गाभावार्थम् उपादेया । हरिश् चन्द्रार्क-वाताश्व-शुक-भेक-यमाहिषु इति मेदिनी ॥४८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : आग्रयणैर् इति नवान्न-प्राशनाद्यैर् वैदिकैर् महोत्सवैर् भूर् बभौ

नवान्नं नैव नन्दायां न च सुप्ते जनार्दने ।

न कृष्ण-पक्षे धनुषि तुलायां नैव कारयेत् ॥

इति स्मरणात् बोधिन्य्-अन्ते वृश्चिके इति बोध्यं शरद्-अन्तत्वात् तु शरद्-व्यवहारः । इन्द्रियैर् इन्द्रियार्थैः लौकिकैश् च । भूः कीदृशी ? हरेः कला शक्तिः । आभ्यां राम-कृष्णाभ्यां नितरां बभौ ॥४८॥


॥ १०.२०.४९ ॥

वणिङ्-मुनि-नृप-स्नाता निर्गम्यार्थान् प्रपेदिरे ।

वर्ष-रुद्धा यथा सिद्धाः स्व-पिण्डान् काल आगते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वणिजो यतयो नृपाः स्नातकाश् च दृष्टादृष्टाभ्यां वर्ष-रुद्धाः सन्तो निर्गम्यार्थान् वानिज्य-स्वाच्छन्द्य-दिग्-विजय-विद्यादीन् प्रपेदिरे प्रापद्यन्त । यथा मन्त्रयोगादि-सिद्धाः । आयुषा रुद्धाः काले आगते स्व-पिण्डान् योगादि-प्राप्यान् देवादि-देहान् इति ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वाच्छन्द्यम् स्वेच्छया विचरणम् । काले देवादि-देह-प्राप्ति-समये । वर्षेण वृष्टया वर्षो स्त्री भारताद्य् अंबु-वृष्ट्य-शब्दे प्रावृषि स्त्रियाम् इति यादवः ॥४९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वणिग् इति तैर् व्यञ्जितार्थम् एव । यद् वा, सिद्धा जीवन् मुक्ता भक्त्य्-अर्काच्छादक-वृष्टि-तुल्याद्वैत-ज्ञानेन रुद्धा आवृता । यद् वा, वृष्टि-तुल्या-विच्छिन्न-सत्-सङ्गानन्देन वशी-कृताः, श्री-भगवत् कृपया श्री-वैकुण्ठ-लोक-प्राप्तेर् वा, काले प्राप्ते यथा स्वस्य योग्यान् पिण्डान् सच् चिद्-आनन्द-घन-पार्षद-देहान् प्राप्नुवन्ति ॥४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वर्ष-शब्दः कालस्यापि वाचीति आयुर् इति व्याख्या ततश् च जीवनार्थ-परिमितैर् वत्सरै-रुद्धा इत्य् अर्थः स्नातकानाम् अर्थास् तीर्थाटनादि-रूपाः सिद्धाः भक्त्य्-आदि-सिद्धाः स्व-पिण्डान् प्राप्तव्य-पार्षद-देहान् ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वणिजो यतयो नृपाः स्नातकाश् च ये वर्षेण वृष्ट्या रुद्धा आसंस्ते वर्षान्ते निष्क्रम्य अर्थान् वाणिज्य-स्वाच्छन्द्य-दिग्विजय-विद्यादीन् प्रपेदिरे प्रापदन्त । यथा सिद्धा वर्षैः स्वायुर्-घटकैर्-वत्सरै रुद्धाः काले ऽन्तशरदो वर्णनम् इदम् कीदृशी-भूः हरेः कला शक्तिः समये आयाते स्वपिण्डान् पार्षदादि-देहान्, इयम् उपादेया ॥४९॥

इति सारार्थ-दर्शिन्यां हार्षिण्यां भक्त-चेतसाम् ।

विंशोऽध्यायोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : वणिजो मुनयो नृपाः स्नातकाश् च ये वर्षेण वृष्टा रुद्धा आसन् ते वर्षान्ते निष्क्रमार्थान् वाणिज्य-स्वच्छन्दादिग्-विजय-विद्यादीन् प्रपेदिरे प्राप्ताः । यथा सिद्धा वर्षैः स्वायुर्-घटकैः सम्वत्सरै-रुद्धाः कालेऽस्त-समये आगते स्व-पिण्डान् पार्षद-विग्रहानित्य् उपादेयेयम् ॥४९॥

वर्ष शरदयाः कृईडन् प्रजहर्ष जनार्दनः ।

तयोस् तद् वर्णनं विद्वान् विदधौ विविधोपमम् ॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्धे प्रावृट्-

शरद्-वर्णनं नाम विंशोध्यायः ।

॥ १०.२० ॥


(१०.२१)


  1. क्सुद्-भयादिना ↩︎

  2. सर्वज्ञत्वादि ↩︎

  3. नासिकानां ↩︎

  4. सर्वथा सिद्धिपदम् इति ↩︎

  5. धारणाकाङ्क्षायाम् ↩︎

  6. हेतुता ↩︎

  7. प्रावृषा ↩︎

  8. गेयतानरताव् उभौ ↩︎

  9. मायुर-स्रग्धरौ क्वचित् ↩︎

  10. एकान्ति-लक्षणे ↩︎

  11. वृष्ट्यभावेनाप्त ↩︎

  12. क्षरणात् ↩︎

  13. वृष्ट्यभावेनाप्त ↩︎

  14. क्षरणात् ↩︎

  15. द्वारभूतैः ↩︎

  16. गमनादि ↩︎

  17. माहात्माविज्ञेभ्य ↩︎

  18. फलैर् अनुगा ↩︎

  19. उपाहृष्यन् ↩︎

  20. सूर्येण कुमुदं विना ↩︎

  21. निर्भयो लोको ↩︎

  22. आसन् ↩︎