१९

मुञ्जाटव्यां गवां गोपानां च दावानलाद्

रक्षणम् ।

॥ १०.१९.१ ॥

श्री-शुक उवाच—

क्रीडासक्तेषु गोपेषु तद्-गावो दूर-चारिणीः ।

स्वैरं चरन्त्यो विविशुस् तृण-लोभेन गह्वरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

ऊनविंशे निविष्टं तु गोप-गोकुलम् अच्युतः ।

मुञ्जारण्यम् अरण्याग्ने ररक्ष तन् निपानतः ॥

दूर-चारिणीः दूर-चारिण्यः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान्न् अपानतः अग्निपानतः ।*। दूर-चारिणीः दूर-चारिण्यःगह्वरं यमुना-तीर-कक्षम् गुहा-गहनदं भेषु निकुञ्जे\ऽपि च गह्वरे इति मेदिनी । तद्-गावः तेषां गोपानां गावः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ऊनविंशाध्यायस्य टीका नास्ति ।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रसङ्गाल् लौकिकत्वे\ऽप्य् अलौक्किकीम् एवान्यां लीलाङ्क्रम-प्राप्ताम् एवाह—क्रीडेत्य्-आदिना । तेषां ता वा अनन्ता गावः, गह्वरं दुर्गम-वनम्, लोभेनेति—श्री-भगवता रक्ष्यमाणा अपि भोग-लोभेन ततो दूर-निपतिताः1 स्वेच्छाचाराद्-दुःखम् अनुविन्दन्त्य् एवेति श्लेषार्थो ज्ञेयः । तथापि तस्य कारुण्य-महिम्नाचिरात् क्षेमं स्याद् एवेत्य् अग्रे व्यक्तं भावि एवम् अन्यत्रापि सर्वत्र निज-भावानुसारेण तत्पर्यम् उहयम् ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रसङ्गाल् लौकिकत्वेऽप्य् अलौकिकीम् एवान्यां लीलां क्रम-प्राप्ताम् एवाह—क्रीडेत्य्-आदिना । तेषां वा ता असङ्ख्या गावः समासान्तत्वाभाव आर्षः गह्वरं दुर्गम-वनं तृण-लोभेनेति श्री-गोकुलानन्द-कर्तृक-चऋअणानन्दाच् चरणावेशः ततस् तल् लोभस् तेनेति ज्ञेयं यज् जीवितं तु निखिलं भगवान् मुकुन्दः [भा।पु। १०.१४.३४] इत्य् आदौ तथा प्रसिद्धेः श्री-वृन्दावने यत्र कुत्रापि मुहूर्त-मात्रेणोदर-पूरणस्य शक्यत्वाच् च ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्ण-रामादय इति तद्-गुण-संविज्ञानत्वेन लीलावेशः ॥१.९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

ऊनविंशे मुद्रिताक्षान् मुञ्जाटव्यां दावानलात् ।

रक्षन् भाण्डीरम् आपय्य स्वान् मुक्ताक्षान् व्यधाद् धरिः ॥

तत्-तद्-अनन्तरं दूर-चारिणीः दूर-चारिण्यः ॥१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) :

दावान् मुञ्ज-वने रक्षन् पिहिताक्षान् सखीन् हरिः ।

व्यधाद् भाण्डीरम् आनीय मुक्ताक्षान् ऊनविंशके ॥

तद्-तद्-अनन्तरं दूर-चारिणीर् इति प्रथमार्थे द्वितीया ॥१॥


॥ १०.१९.२ ॥

अजा गावो महिष्यश् च निर्विशन्त्यो वनाद् वनम् ।

ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दाव-तर्षिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वनाद् वनान्तरं निर्विशन्त्यो दावेन तर्षितास् तृषिताः क्रन्दन्त्य इषीकाटवीम् अत्य्-उच्छ्रित-घन-तृण-विशेषारण्यं निर्विविशुः ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इषीकाटवीं मुञ्जारण्यम् ईषीका तु शलाकायां मुञ्जे लक्ष्मी-स्त्रियोस् तथा इति धरणिः । अजा बर्कर्यः, अजादि-चारणे गोपालवद् अजापालादि तस्य नाम कथं नोच्यते, तासाम् अल्पत्वेन गवां प्रचुरत्वाद्-गोपालेति नाम । यद् वा, यशः पुण्यैर् अवाप्यते इति न्यायात् तन्नेति । गोछागी-महिषी-दुग्धाद् अन्यद्-दुग्धं तु चामिषम् इति पाद्माद् अजा-महिष्योः पेय-दुग्धत्वात् तद् रक्षणादौ न दोषोऽस्ति । यत् तु आजं च माहिषं क्षीरं हन्ति श्राद्धं न संशयः इति तत् तत्रैव दुष्टं न त्व् अत्रेति । किञ्चाज्यं वस्तुतोऽजोद्भवनेवान्य् अत्र तु सादृश्यात् तत्-प्रयोग इति ज्ञेयम् । अथ व,

अजा स्याद् अप्रसूता गौः सकृत् सूता महिष्य् अपि ।

अन्या गाव इह प्रोक्ता इति शब्दार्थ-वेदिनः ॥ इति शब्द-रत्नात् ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न केवलं गाव एव, अन्ये\ऽपि सर्वे पशव इत्य् उक्त-पोषण्यायेनाह—अजा इति । अजादीनां गमने यथा-पूर्वं शैध्र्यापेक्षया तत्-क्रमेण निर्देशः, दावेन दावाग्निना । यद् वा, अग्नि-सदृशेन ग्रीष्म-कालिन-तापेन तर्षितास् तृषां प्रापित अत एव क्रन्दन्त्यः ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं गाव एवान्येऽपि सर्वे पशव इत्य् उक्त-पोष-न्यायेनाह—अजा इति । अजादीनां गमने यथा-पूर्वं शैघ्र्यापेक्षया तत् क्रमेण निर्देशः इषिकाटवीं प्रायो यमुना-तीर-परित्यक्त-तद् दूरवर्ति रुक्ष-सैकतजाम् अत एव दावेन अग्नि-सदृशेन ग्रीष्म-कालिन-तापेन तर्षिता तृषं प्रापिताः अत एव क्रन्दन्त्यो बभूवुः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईषिकाणां शराख्य-तृण-विशेषाणाम् अटवीम्दावेन ग्रीष्म सूर्यातपोत्थ-तापेन । तर्षिताः तृष्णां प्रापिताः ॥२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अजा गुर्जराणां गावो गोपानां महिष्य उभयेषां बोध्या ईषीकाणां शराख्यानां तृणानाम् अटवीं दावेन ग्रीष्म-सूर्य-तापेन तर्षिताः पिपासां गमिताः ॥२॥


॥ १०.१९.३ ॥

तेऽपश्यन्तः पशून् गोपाः कृष्ण-रामादयस् तदा ।

जातानुतापा न विदुर् विचिन्वन्तो गवां गतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण-रामाव् आदी येषां ते न तु तौ ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते गोपाः । अतद्-गुण-संविज्ञानो बहुव्रीहिः कृष्ण-रामादय इति ॥३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णेति तैर् व्याक्यातम् एव, तथापि तयोः साक्षाद् वर्तमानयोर् अपि गोपानां पश्व् अदर्शनादिकं तयोः कौतुक-परतयेति ज्ञेयम् । अत एव श्री-कृष्णस्य महा-कौतुकित्वापेक्षया आदौ श्री-बल-रामस्य च तद् अनुवर्तित्वेन पश्चान् निर्देशः । यद् वा, श्री-कृष्ण-रामौ आदौ वर्तेते येषाम्, ततश् च तयोर् अपि पश्व् अदर्शनादिकं महा-कौतुकि-स्वभावाद् एव, विशेषतश् च तल् लीलाम् अनुसन्दधतां श्री-शुकदेवादीनां कौतुक-विशेष-जननाय । यद् वा, गवादिषु तेषु स्नेहभरेण विचारान्तर्धानात् ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णात तैर् व्याख्यातम् एव तथापि तयोः साक्षाद् वर्तमानयोर् अपि गोपानां पञ्च-दर्शनादिकं तयोः कौतुक-परतयेति ज्ञेयम् । यद् वा, कृष्ण-रामौ आदी आदौ वर्तेते येषाम् इति उभावपि वने कृष्णो विचिकाय समन्ततः इति वद् गवादि-स्नेहमय-लीलावेश-पक्षे तद्-गुण-सम्विज्ञानः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्ण-रामादय इति तद्-गुण-संविज्ञानत्वेन लीलावेशः ॥३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जातानुतापा न विदुर् न विविदुः । गो-विषयक-प्रेम्नैवावृत-ज्ञानाः ॥३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : कृष्ण-रामादय इत्य् अतद्-गुण-संविज्ञानो बहुव्रीहिः । ते गोपाः कृष्न-रामेतरे पशून् पश्यन्तो जातानुतापा बभूवुः गवां गतिं न विविदुः गो-विषयकेन स्नेहेन परिवृद्धेन ज्ञानस्यान्तर् निगीर्णत्वात् तद्-गुण-संविज्ञानो वाहस्तु ॥३॥


॥ १०.१९.४ ॥

तृणैस् तत्-खुर-दच्-छिन्नैर् गोष्-पदैर् अङ्कितैर् गवाम् ।

मार्गम् अन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तासां गवां खुरैर् दद्भिश् च च्छिन्नैस् तृणैर् गोष्-पदैर् अङ्कितैश् च भू-प्रदेशैस् तृणैर् वा गवां मार्गम् अन्वगमन्नष्टाजीव्या गत-जीविका-साधनाः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विचेतसः इतो गता वात्र गता इत्य् एवं नाना-बुद्धयः ॥४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च नष्टाजीव्या इत्य्-आदिकं तल् लीला-स्वभावेन तादृशत्वापत्तेः । किं वा, नष्टाजीव्याश् च जना इव । यद् वा, अकार-प्रश्लेषेणानष्टाजीव्याश् च ते विचेतसश् च, तथापि यमुना-पुलिनादावङ्कितैर् उदितैर् गोष्-पदैश् च ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोष्-पदैर् गोभिः सेवितैर् मार्गैः यतोऽङ्कितैः तत् खुरादिभिर् लिखितैः गोष्-पदं सेवितासेतित-प्रमाणेष्व् इति शब्द-स्मृतेः अम्यत्र सुरभावात् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां गवां खुरैर् दद्भिश् च छिन्नैस् तृणैः गोष्-पदैर् अङ्कितैर् भू-प्रदेशैश् च लक्षितं गवां मार्गंनष्टाजीव्या विगत-जीविका-साधनाः ॥४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तेषां पशूनां, खुरैर् दद्मिश्छिन्नैस् तृणैः गोष्-पदैर् आङ्कितैर् भूमि-प्रदेशैश् च लक्षितं गवां मार्गम् अन्वगमन् नष्टम् अदर्शनं प्राप्तम्-आजीव्यं जीविका-साधनं येषां ते ॥४॥


॥ १०.१९.५ ॥

मुञ्जाटव्यां भ्रष्ट-मार्गे क्रन्दमानं स्व-गोधनम् ।

सम्प्राप्य तृषिताः श्रान्तास् ततस् ते सन्न्यवर्तयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुञ्जाटव्य् अपि सैव इषीकाटवी ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते गोपाः । ततः मुञ्जाटवीतःभ्रष्ट-मार्गम् इतस् ततो गतम् । संन्यवर्तयन् गत-मार्गम् एवागन्तुकामा अभवन्न् इत्य् अर्थः ॥५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो मुञ्जाटवीतः सम्यक् सर्व-मङ्गलत्वादिनैकत्रैव प्राप्य सम्यक् त्वरयैकीकरणादिना न्यवर्ययन्, यतस् तृषिताः श्रान्ताश् च, बहुल-परिभ्रमणात् ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् सर्व-मङ्गलत्वादिनैकत्रैव प्राप्य सम्यक् त्वया एकीकरणादिना न्यवर्तयन् ततस् तृषिताः श्रान्ताश् च बहुल-परिभ्रमणात् अभवन् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुञ्जाटव्यां तत्रैव शरवने सम्प्राप्य ता गवाद्याः न्यवर्तयन् परावर्तयामासुः ॥५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : मुञ्जाटव्यां तस्मिन्न् एव शरवणे भ्रष्ट-मार्गं विस्मृत-पथं स्व-गोधनं गवादि-सम्प्राप्य न्यवर्तयन् परावर्तयाञ्चक्रुः ॥५॥


॥ १०.१९.६ ॥

ता आहूता भगवता मेघ-गम्भीरया गिरा ।

स्व-नाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता गावः । स्वा-नाम्नां गङ्गादि-रूपाणां स्व-नाम्नाम् । प्रतिनेदुः प्रत्याक्रोशं चक्रुः ॥६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्प्राप्य् एइत्य् उक्तम्, तत्-प्रकारं वदन्, ततश् च श्री-गोप-चूडामणेर् गो-सन्तोषणम् आह—ता इति तत् तन् नामभिर् आहूताः, निनदं सङ्कीर्तनं तेनैव प्रकर्षेण हर्षिताः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्प्राप्येत्य् उक्तं तत् प्रकारं वदन् श्री-गोप-चूडामणिना गो-गोप-सन्तोषणम् आह—ता इति । मेघ-गम्भीरयेत्य् अत्र मेघ-शब्देन मेघ-गर्जितं लभ्यते, सर्वत्र तु गम्भीर-शब्दः खलु दूर-दृश्य-तलस्य गर्तस्य विशेषणं भवति लक्षणया तु तत्रस्थ-जलम् अपि विशिनष्टि—तस्माद् उत्थितो नादश् च प्रायो गुरुर् भवन् गम्भीरतयोपचर्यते मेघस्य नादस् तु तद्वद् गुरुः स्यात् तत् भगवतो गीश् च स्वरतस् तादृशी स्याद् इत्य् अभिप्रेत्य् आह—मेघ-गम्भीरया गिरेति । ततश् च मेघ-गम्भीरया गिरा यत् स्व-स्व-नाम तद् उच्चारणं तेन्आहूताः सत्यस् तत् सम्बन्धिनं निनदं मधुर-तार-स्वर-विशेषं श्रुत्वा प्रहर्षिताः प्रहृष्टाः सत्यः प्रतिनेदुः प्रत्युत्तरतया शब्दं चक्रुः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्प्राप्येत्य् उक्तं तत् केन प्रकारेणेत्य् आकाङ्क्षायाम् आह—कृष्ण इति । आत्मानं दर्शयन् गा आह्वयामास, ता गवादयः ॥ ६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : कथं सम्प्राप्येत्य् अपेक्षायाम् आह—कृष्ण आत्मानं दर्शयन् गा आह्वयामासेति । ता गवादयः प्रतिनेदुः ताम् इति प्रत्युत्तरं ददुः ॥६॥


॥ १०.१९.७ ॥

ततः समन्ताद् दव-धूमकेतुर्

यदृच्छयाभूत् क्षय-कृद् वनौकसाम् ।

समीरितः सारथिनोल्बणोल्मुकैर्

विलेलिहानः स्थिर-जङ्गमान् महान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गो-गोपानां नाश-हेतुर् वन-वह्निः सर्वतः प्रादुर् अभूत् । सारथिना वायुना ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुःखाद् अन्तरं दुःखम् इति संसारिणां बोधयन्न् आह—तत इति । ततः गो-दर्शनान्तरम् । धूमकेतुः अग्निः । उल्बणोल्मुकैः चण्डालातैः । लेलिहानः अतिशयेनास्वादयन् ॥७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तद् अनन्तरः पूर्वम् एव जातो दावाग्निर् इदानीं समन्ताद् अष्टासु दिक्षु अभूद् व्याप्त इत्य् अर्थः । यद् वा, ततस् तस्मिन्न् एव समये स्थाने वा अद्भूद् उद्भूतः, यदृच्छया अस्मात् । यद् वा, तद् अग्नेर् एव केनापि भाग्यओदयेन । अयम् अपि प्रलम्ब-सखः कश्चिद् दैत्य इति केचिद् आहुः, व्रजौकसां क्षय-कृद् इव, यद् वा, व्रजौकसां मध्ये निवास-चिकीर्षुर् इवेत्य् अर्थः, श्री-भगवन् मुखे प्रविष्टत्वात् । वनौकसाम् इति पाठे तद् अग्नि-स्वभाव-निर्देशः । उल्बणोल्मुकैर् उल्का-सदृशालातैः स्थिरान् वृक्षादीन् जङ्गमांश् च पशु-पक्ष्यदीन्, विलेलिहानः संहर्तुम् इत्य् अर्थः, यतो महान् व्यापकः ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तस्मिन्न् एव समयेऽभूत् उद्भूतः यदृच्छया अकस्मात् अयम् अपि प्रलम्ब-सखः कश्चिद् दैत्य इति केचिद् आहुः, वृन्दावने दवनिषेधात् उल्बणैः उल्मुकैः उल्का-सदृश-विस्फुलिङ्गैः विलेलिहानः विशेषिणः लेलिहन् दन्दह्यमान इत्य् अर्थः । यतो महान् व्यापकः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं गोभिः सङ्गती-भूय यदैव तद् वनान्-निष्क्रमितुम् ऐच्छंस् तदैव ते दावानलेनाव्रियन्तेत्य् आह—तत इति । दवोवनं तत्-सम्बन्धी धूमकेतुर्-अग्निः यदृच्छया आकस्मिक इत्य् अयम् अपि प्रलम्ब-सङ्खः कश्चिद्-दैत्य इत्य् आहुः, सारथिना वायुना । ऊल्बणैर्-अतितीव्रैर् उल्मूकैः ॥७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ततस् तस्मिन्न् एव समये दव-धूमकेतुर् वन-वह्निर् यद्-दृच्छया-कस्माद् एवोद्भूद् उद्भूतः प्रलम्ब-सखोयम् असुरः कश्चिद् इत्य् आहुः, सारथिना मरुता समीरितः प्रवर्धितः ऊल्बणैर् अतितीव्रैर् उल्मुकैस् तत् समौर् विस्फुलिङ्गैर् विलेलिहानो दन्दह्यमान इत्य् अर्थः । यतो महान् व्यापी ॥७॥


॥ १०.१९.८ ॥

तम् आपतन्तं परितो दवाग्निं

गोपाश् च गावः प्रसमीक्ष्य भीताः ।

ऊचुश् च कृष्णं स-बलं प्रपन्ना

यथा हरिं मृत्यु-भयार्दिता जनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् आविर्भूतम् । प्रपन्नाः शरणं प्राप्ताः ॥८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आपतन्तं वेगेनागच्छन्तं प्रसमीक्ष्यात्य् उद्भटं सुदुस्तरं च विचार्येत्य् अर्थः । भीतत्वे हेतुः—स-गावो गोभिः सहिता इति, हरिं स्वर्व-दुःख-हरं कृष्णं परमानन्दकरं च प्रपन्ना रक्ष रक्षेति शरणं गताः सन्त ऊचुः बलेन निजशक्त्या सहितं यथा स्यात् तथा ऊचुर् उच्चैश् चक्रुशुर् इत्य् अर्थः । यद् वा, श्री-बलदेवेन सहितं श्री-कृष्णं प्रति विज्ञापने स्व-साहाय्यार्थं च । स्म प्रसिद्धौ । यथा मृत्योर् मरण-लक्षण-संसाराद् अन्तकाद् वा, भयेनार्दिता जना इति सभयात्य् उक्तौ दृष्टानः । तेन च गोपानं मृत्यु-भयाभावो ध्वन्यते, ततश् च केवलं श्री-भगवद्-वियोगत एव भीता इति पूर्ववद् बोद्धव्यम्, तच् चाग्रे\ऽपि व्यक्तं भावि ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आपतन्तं वेगेनागच्छन्तं प्रसमीक्ष्य अत्युद्भटं सुदुस्तरं च विचार्येत्य् अर्थः । अत्र गोपा गोपालनाय नियुक्ताः साधारणा एव श्रीदामादीनां तु तद्-अङ्ग-सङ्गित्वान् निवेदनापेक्षा नास्तीति अतः प्रपन्ना दव-समीपाद् आगत्य शरणम् आगताः भीतत्वे हेतुः सगावः गोभिः सहिता इति गो-स्त्रियोर् उपसर्जनस्य [१.२.४८] ह्रस्वत्वाभाव आर्षः । गोपाश् च गावश् च इति पाठे गावश् चोचुरित्यायाति तत्र व्यग्रतयारम्भणात् ता अप्य् ऊचुर् इत्य् अर्थः । गोपाः स्म गाव इति पाठे स्म प्रसिद्धौ हरिम् इति तस्यैवैश्वर्यांशे दृष्टान्तः मृत्योर् मरण-परम्परा-लक्षण-संसारात् भयेनार्दिता जना इति सभयेत्त्य् उक्तौ दृष्टान्तो न तु मरण-मात्र-त्राणांशे अतश् च केवलं श्री-भगवद् वियोगात् एव भीता इति पूर्ववद् बोद्धव्यम्, तच् चाग्रे व्यक्तं भावि ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऊचुश् चेति । अनेन सर्व-दुर्गाणि [भा।पु। १०.८.१६] इति गर्गोक्तिम् अनुस्मृत्येत्य् अर्थः। गोपाश् च गाव इति, गोपाः स्म गाव इति, गोपाः स-गाव इति त्रयः पाठाः । तत्र सगाव इति गो-स्त्रियोर् [१.२.४८] इत्य्-आदिना ह्रस्वत्वाभाव आर्यः ॥८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ऊचुश् चेति । अनेन सर्व-दुर्गाणि [भा।पु। १०.८.१६] इत्य्-आदि गर्गोक्ति-स्मरणाद् इत्य् अर्थः । गावश् चेति व्यग्रतया अम्बारावस् तासाम् उक्तिः । हरिं विष्णुम् ॥८.९॥


॥ १०.१९.९ ॥

कृष्ण कृष्ण महा-वीर हे रामामोघ-विक्रम ।

दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्भ्रमे वीप्सा कृष्ण कृष्णेति ॥९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महद् वीर्यं प्रभावो यस्येति श्री-कृष्णं प्रति सम्बोधनम्, तादृश-चातुर्या अग्रज-हस्तेन साक्षात् प्रलम्ब-घातनात् । अमोघ-विक्रमेति श्री-बलदेवं प्रति च महा-दैत्यस्य मुष्टिनैकेनैव2 वधात्, अमितेति पाठे\ऽपि स एवार्थः । एवं त्राण-सामर्थ्यम् उक्तम् । प्रपन्नाम् शरणागताम् इति महा-भय-स्वभावेन विनय-भरेण वा ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महत् वीर्यं प्रभावो यस्येति अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः इति दृष्टरीत्या कृष्णं प्रति-सम्बोधनम् । अमोघ-विक्रमेति श्री-बलदेवं प्रति महा-दैत्यस्य मुष्टिनैकेनैव वधात् अमितेति पाठोऽपि तथाभिप्रायात् एवं त्राण-सामर्थ्यम् उक्तं प्रपन्नान् शरणा-गतान् इति महा-भय-स्वभावेन ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : पूर्व श्लोकस्य व्याख्या द्रष्टव्या।


॥ १०.१९.१० ॥

नूनं त्वद्-बान्धवाः कृष्ण न चार्हन्त्य् अवसादितुम् ।

वयं हि सर्व-धर्म-ज्ञ त्वन्-नाथास् त्वत्-परायणाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नूनम् इदानीम् । अवसादितुम् क्लेशम् आप्तुम् । शरणागत-रक्षणे महान् धर्मो भवतीति सम्बुद्ध्य्-अभिप्रायः ॥१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सख्य-स्वभावेन तत् कालौचित्याद् भय-व्याकुलत्वाद् वा, प्रथमं द्वाव् एव प्रार्थ्यं स्नेह-विशेषेण प्रभाव-विशेषानुभवेन3 च श्री-कृष्णम् एव विज्ञापयति—नूनम् इति वितर्के निश्चये वा, त्वम् एव बान्धवो येषां, तव बान्धवा वा, -कार एवार्थे, नैव । यद् वा, विच्-अर्थे, अवसादितुं अवसत्तुं किञ्चिद् दुःखं प्राप्तुम् अपि नार्हन्ति, कुतस् तु दावाग्नि-दाहम् इत्य् अर्थः । अतो वयम् एतद्-दुःअं नैवार्हाम इति भावः । तद्-बान्धवत्वम् एव साधयन्ति—वयम् इति, हि यस्मात्, त्वदीयाः त्वया स्वईकृता इत्य् अर्थः । पाठान्तरे त्वम् एव नाथ सर्वापस्तु रक्षको येषां ते, किं च त्वम् एव परमयनम् आश्रयो येषां त्वद् एक-निष्टा इत्य् अर्थः । हे सर्व-धर्मज्ञेति आर्तत्राणस्यावश्याकता त्वयैव ज्ञयत इति भावः । यद् वा, त्व्-अर्थे हि शब्दः, पूर्वतो विशेषाय यथा-कथञ्चित् त्वत् सम्बन्ध-मात्रवन्तो\ऽपि अवसादितुं नार्हन्ति, वयन्तु त्वदीया इत्य्-आदि । अन्यत् समानम् । अतस् त्वत् पदाब्जं त्यक्तुं न शक्नुम इति भावः । तच् च त्वया ज्ञायत एवेत्य् आहुः—सर्वेषां धर्मं स्वभावं जानासीति ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तत् कालौचित्यात् प्रथमं द्वाव् एव प्रार्थ्य स्नेह-विशेषेण प्रभाव-विशेषानुभवेन च श्री-कृष्णम् एव विज्ञापयन्ति—नूनम् इति निश्चये, त्वद् बान्धवास् त्वत् सम्बन्ध-मात्रवन्तोऽपि, -कारोऽप्य् अर्थे । अवसादितुं अवसमन्तात् सादो येषां तेऽवसादाः तद् वद् आचरन्तीति क्विप् ततस् तुमुन् दुःखित-जनवद् आचरितुम् अपि नार्हन्ति कुतस् तु दावाग्नि-दाहम् इत्य् अर्थः । हि विशेषे वयं तु त्वन् नाथाः त्वद् एकाश्रया इत्य् अर्थः । हि पाद-पूरणे हेतौ विशेषेऽप्य् अवधाणे इति विश्वः किं च, त्वम् एव परमयनाम् आश्रयो येषां ते त्वद् एक-निष्ठा इत्य् अर्थः । अतस् त्वत् पादाब्जं त्यक्तुं न शक्नुम इति भावः । दावाग्नि-भयेन गोभिः समम् एवात्र वयम् आगताः आसां जीवनम् एव चास्माकं जीवनम् इत्य् एव न स्व-रक्षार्थं प्रार्थयाम् । अह इति स्वानुभवेन स्वयं नो जानासि ततो यथायथं विधास्यसीत्य् अभिप्रेत्य् आह—सर्व-धर्मज्ञेति । हे स्वस्य चष्माकं च धर्माभिज्ञ इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वद्-बान्धवाः त्वत्-सम्बन्ध-मात्रवन्तोऽपि । -कारोऽप्य्-अर्थे । अवसादितुम् अव समन्तात् सादो येषां तद्वद् आचरितुम् अपि ततश् चेति विशेषेण निशाम्य निशम्य योगस्य दुर्घटनाया वीर्य-माहात्म्यं दावाग्नेः सकाशाद् आत्मनः क्षेमं रक्षा-हेतुं वीक्ष्य तद्-वीर्यस्यागन्तुकत्वं निरस्यति योग-मायया स्वाभाविक्या चिच्-छक्त्याऽनुभावितम् ॥१०.१६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवसादितुं अव समन्तात् सादो येषां तेऽवसादास् तद्वद् आचरितुम् अपि नार्हन्तीत्य् आचार-क्विब्-अन्तात् तुमुन् ॥१०॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : नूनं निश्चये हे कृष्ण ! त्वद्-बान्धवा अवसादितुं दुःखित-जनवद् आचरितुम्, अपि नार्हन्ति कुतो दावाग्नि-दाहमनुभवेयुर् इत्य् अर्थः । अव समन्ताद् सादो येषां तेऽवसादाः । तद् वद् आचारन्तीति क्विप् ततस्-तुमुद् गाश् च पाहीत्य् आहुः सर्व-धर्वज्ञेति ॥१०॥


॥ १०.१९.११ ॥

श्री-शुक उवाच—

वचो निशम्य कृपणं बन्धूनां भगवान् हरिः ।

निमीलयत मा भैष्ट लोचनानीत्य् अभाषत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृपणम् दीनम् । निमीलयतेति तेषाम् अग्निपान-दर्शनानौचित्यम् । ततः स्थानात् तेषाम् अतिश्रान्तानाम् अलक्षितम् एव शीतल-सच्छाय-भाण्डीर-तरुतल-प्रापणौचित्यं च परामृश्येति भावः

नन्व्, अहो कौतुकिन् लोचनमीलिने कथम् अग्नि-परिहारस् तत्राह—मा भैष्टेति । अतोऽन्यथा न त्राण-हेतुर् अस्तीति भावः ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वभावत एव हरिः सर्व-दुःख-हर्ता, तत्र च भगवान् भक्त-वात्सल्यादि-निजाशेष-गुण-प्रकटन-परः, तत्रापि बन्धूनां कृपणं कातर्य-युक्तं वचः, ल्ओचनानि निमीलयतेति क्रीडा-कौतुक-स्वभावेण । वस्तुतस्त्व् अयं भावः—एते मद् एक-स्नेहाक्रान्त-चित्ता निजक्षेमान् अपेक्षयापि मत् क्षेमम् एव निज-जीवनतो\ऽप्य् अपेक्षन्ते, अतो ममाग्नि-पानं निरीक्ष्य मद् अनिष्ट-शङ्कया सहसा दावाग्निम् अप्य् एतं किल प्रविशेयुः, अतो\ऽमुम् एषाम् अलक्षितम् एव पश्यामीति । पूर्व च श्री-नन्दादीन् प्रति गौरवेण नैवम् उक्तम्, एते तुसखायः, एतैः सहेदृशी क्रीडा युक्तैवेति दिक् । किं वा, आलक्षितं क्रीडार्थं भाण्डीरं तान् शीघ्रं नेतुं तथोक्तम् ।

ननु, अहो परम-कौतुकिन ! लोचन-निमीलनेन कथम् अग्नि-परिहारः ? तत्राह—मा भैष्ट रक्षितास्मीति भावः ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वभावत एव हरिः सर्व-दुःख-हर्ता तत्र च भगवान् भक्त-वात्सल्यादि-निज-विशेष-गुण-प्रकटन-परः तत्रापि बन्धूनाम् यन् मित्रं परमानन्दम् [भा।पु। १०.१४.३२] इति न्यायेनात्मैक-मित्राणां कृपणं कातर्य-युक्तं वचः लोचनानि निमीलयतेति क्रीडा-कौतुक-स्वभावेन, वस्तुतस्त्व् अयं भावः एते मद् एक-स्नेहाक्रान्त-चित्ताः निज-क्षेमान् अपेक्षयापि मत्-क्षेमम् एव निज-जीवनतोऽप्य् अपेक्षन्ते अतो ममाग्नि-पानं निरीक्ष्य मद् अनिष्ट-शङ्कया सहसा दावाग्निम् अप्य् एतं किल प्रविशेयुः, अतोऽमुमेषाम् अलक्षितम् एव पास्यामीति किञ्चालक्षितं क्रीडार्थं भाण्डीरं तान् शीघ्रं नेतुं तथोक्तम्

ननु, अहो परम-कौतुकिन् ! लोचन-निमीलनेन कथम् अग्नि-परिहारः तत्राह—मा भैष्ट रक्षितास्मीति भावः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निमीलयतेति । तेषाम् अग्नि-पान-दर्शनानौचित्यं तथैवालक्षितं ततः स्थानात् तेषाम् अतिश्रान्तानाम् अतिसन्तप्तानाम् अलक्षितम् एवातिसुशीतल-सुच्छाय-भाण्डीर-तरु-तल-प्रापणौचित्यं च परामृश्येति भावः ।

नन्व् अहो कौतुकिन्, लोचन-निमीलने कथम् अग्नि-परिहारः ? तत्राह—मा भैष्टेति ततोऽन्यथाद्य न त्राण-हेतुर् अस्तीति भावः ॥११॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : नीइलयतेति भक्त-हितार्थिना माया वह्निर् अपि निपेयः किन्तु तन् निपानम् एषाम् असह्यत्वाद् अलक्ष्यम् एव विधेयं परिश्रान्तानां परितप्तानां चातिशीतल-भाण्डीर-पिण्डिकायां प्रापणं च तथैव कुरुतेत्य् अवदत् ।

ननु, विनोदीचूडामने लोचन-मुदनेनैव कथं वह्नि-विनाशस्-तत्राह—मा भैष्टेति नेतोन्यस्द्विनाशोपायोऽस्तीति भावः ॥११॥


॥ १०.१९.१२ ॥

तथेति मीलिताक्षेषु भगवान् अग्निम् उल्बणम् ।

पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृच्छ्राद् गह्वर-प्रवेश-क्षुत्-तृड् श्रमादि-जनितात् ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भो वयस्याः ! वह्नि-विषाद्य् उपशमकं मणि-मन्त्रौषधादिकम् अयं कृष्णो बहु जानातीति तच् च विविक्तं विना न सिध्येद्, अतोत्र जन-सङ्घट्टे नेत्र-निमीलनम् एव विविक्तम् इत्य् अभिप्रेत्यैवायं ब्रूते, तद्वं दूरतरं स्वनेत्रे मीलयाम इत्य् उक्त्वा ते न्यमीलयन्न् इत्य् आह—तथेति । भगवान् महद् ऐश्वर्ययुतः । तीव्रम् अपि तं पीत्वेति तत् पिपासाया जातायास् तद् इच्छा-प्रातिकूल्यम् आचरितुम् असमर्थोग्निर् भयात् परमशील-सुगन्ध-मधुर-रस-पानकीभूय । तदीय-करतले सद्य एव गण्डूष-मात्री बभूव । तदैव योगाधीशो मुखेन पीत्वेत्य् अनेन तदीया योग-माया शक्तिर् एव प्रकटी-भूय तद् अप्य् एतत् स्मरताम् अनुरागार्द्र-चित्त-भक्तानां दुःसह-दुखप्रदम् इत्य् उक्त्वा, तत्-करतलाद् आछिद्य सैव मुखेन पपाव् इति लभ्यते । योगो योग-माया तस्या अधीशत्वात् तस्मिन्न् एव तत् पानोपचारोऽभूद् इति भावः । तन् गो-गोपान् । यद् वा, मुखेनोपायेन पीत्वा । क उपायस् तत्राह—योगाधीश इति । योगैश्वर्य-शक्तिर् एवेति भावः । मुखं प्रसरणे वक्रे प्रारम्भयोपाययोर् अपि इति मेदिनी । कृच्छ्रात् गह्वर-प्रवेश-तृट्-श्रमादि-जनिताद् इति । योगाधीश इति । योगिनां परक्लेश-शमने सामर्थ्यम् अस्ति, किम् उत योगादीशस्येति तात्पर्यम् ॥१२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा एवम् अस्त्वित्य् अर्थः । इति एवम् उक्तम् इत्य् अर्थः । ननु तादृशाग्निं श्री-मुखेनाहो बत कथं पीतम् ? तत्राह—योगाधीशो दुर्वितर्क्यैश्वर्य-विशेषैक-स्वामी, तच् छक्त्या पानक-गण्डूषताम् इव गतम् इति भावः, विशेषेणामोचयत् भाण्डीर-प्रापणात् मुखेन पानाभिप्रायः प्राग् एवोद्दिष्टः । यद् वा, एषां स्नेहेन मम किम् अप्य् अकर्तव्यं नास्तीति सखिषु स्नेहं ब्रह्मादीन् प्रति दर्शयितुं पानानुकरणं कृतम् इति ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा एवम् अस्त्व् इत्य् अर्थः इति, एतद् उक्त्वेत्य् अर्थः ।

ननु, तादृशाग्नि श्री-मुखेनाहो बत कथं पीतः ? तत्राह—योगाधीश दूर्वितर्कैश्वर्य-विशेषैक-स्वामी तच् छक्त्यापानक-गण्डूषताम् इव गतम् इति भावः । विशेषेणामोचयत् भाण्डीर-प्रापणात् मुखेन पानाभिप्रायः प्राग् एवोद्दिष्टः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो वयस्याः, वह्नि-विषादीनाम् उपशमकं मणि-मन्त्र-महौषधादिकम् अयं कृष्णो बहुतरं जानातीति तच् च विविक्तं विना न सिद्ध्येद् अतो ऽत्र जन-सङ्घट्टे अस्माकं लोचन-निमीलनम् एव विविक्तम् इत्य् अभिप्रेत्यैवैवं ब्रूते, तद् वयं दृढतरम् एव स्व-स्व-नेत्रे निमीलयाम इत्य् उक्त्वा ते निमीलयन्न् इत्य् आह—तथेति । भगवान् महैश्वर्य-शक्ति-युक्तः । तीव्रम् अपि तं पीत्वेति तत्र पिपासायां जातायां तद्-इच्छा-प्रतिकूलम् आचरितुम् असमर्थः । सो ऽग्निर् एव महाबिभ्यत्, सद्य एव परम-सुशीतल-सुगन्ध-मधुर-रस-पानकी-भूय तदीय-कर-कमल-तले यदैव गण्डुष-मात्री-बभूव, तदैव योगाधीशो मुखेन पीत्वेत्य् अनेन तदीया योग-मायैव शक्तिः प्रकटी-भूय तद् अप्य् एतत् स्मरताम् अनुरागार्द्र-चित्त-भक्तानां दुःसह दुःख-प्रदम् इत्य् उक्त्वा, तत्-कर-तलाद् आच्छिद्य सैव मुखेन पपाव् इति लभ्यते, योगा योग-माया तस्या अधीशत्वात् तस्मिन्न् एव तत्-पानोपचारो ऽभूद् इति भावः । यद् वा, मुखेन उपायेन पीत्वा ।

कः स उपायः ? तत्राह—योगाधीश इति । योग ऐश्वर्य-शक्तिर् एवेति भावः । मुखं प्रसरणे वक्त्रे प्रारम्भोपाययोर् अपि इति मेदिनी । कृच्छ्रात् गह्वर-प्रवेश-तृट्-श्रमादि-जनितात् तत्-क्षणम् एव भाण्डीरं नीत्वा तान् अमोचयद् इत्य् अर्थः । ततश् च भो सखायः, महाग्नेः प्रतीकारो मया कृतः, साम्प्रतम् अक्षीण्य् उन्मीलयतेति कृष्णेनोक्तास् ते पुनर् अक्षीण्य् उन्मील्य आत्मानं मोचितं गाश् च मोचिता निशम्य ज्ञात्वा विस्मिता आसन्न् इत्य् अन्वयः । कीदृशाः भाण्डीरम् आपिताः, तेनैवेति सर्वत्र योज्यम् ॥१२.१३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : भोः सखायः ! महा-पुरुषोऽयं हविर् वह्नि-विषादेर् उपशामकम् उपायं वेत्ति स च विजनेन विना न भवेद् अतोत्र-जनतायां लोचन-निमीलनम् एव विजनम् इति तेषु दृढतरं निमीलिताक्षेषु सत्सु योगाधीशो भगवांस् तम् उल्वणम् अप्य् अग्न्ं मुखेन योग-मायांशेन उपायेन पीत्वा तान् सखीन् कृच्छ्राद् व्यमोचयत् मुखं प्रसारणे वक्त्रे प्रारम्भोपाययोर् अपीति मेदीनि तस्मिंस् तं पातुम् इच्छति योग-मायया प्रवर्तितादुष्ट-संहारिणी तच्-छक्तिर् एव तम् अविवदित्य् अर्थः ॥१२॥


॥ १०.१९.१३ ॥

ततश् च तेऽक्षीण्य् उन्मील्य पुनर् भाण्डीरम् आपिताः ।

निशम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षणेनैव भाडीरं प्रापिताःततोऽक्षिण्य् उन्मील्य विस्मिताः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः भाण्डीरागमनानन्तरम् । ते गोपाः । भो वयस्याः महाग्नेः प्रतीकारो मया कृतः साम्प्रतम् अक्षीण्य् उन्मीलयतेति कृष्णेनोक्तास् ते पुनर् अक्षीण्य् उन्मील्यात्मानं मोचितं गाश् च मोचिता निशम्य ज्ञात्वा विस्मिता आसन्न् इत्य् अन्वयः । किम्-भूताः—भाण्डीरम् आपिताः प्रापिताः, तेनैवेति सर्वत्र योज्यम् । तत्र श्री-यमुनाद् अक्षिण-कूले श्री-वृन्दावन-मध्ये । स्यारो इति प्रसिद्ध-शिवालय-ग्रामतो वायव्य-दिशि भाण्डीर इति यः प्रसिद्धोऽस्माभिर् दृष्ट-चरो यद् अंशो यत्-सम्बन्धेनाद्यापि तन् नाम्ना ख्यातस् तत्-प्रदेशो यमुना-घट्टश् च विस्पष्टः स एव भाण्डीर-नामेति ॥१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततः पानानन्तरं च पुनर् भाण्डीरम् आपिताः पूर्व-स्थानास्थिता इवालक्षितं नीताः सन्तः श्री-भगवद् उक्त्या स्वयम् एव वा सपद्य्-अक्षीणि उन्मील्य श्री-यमुना-पश्चिम-कुले श्री-वृन्दावनान्तः शिवालयतो वायव्यदिशि भाण्डीरो नाम वटो लोके प्रसिद्ध एव, तद् दक्षिणतश् च क्रोश-पञ्चकं यावन् मुञ्जाटवी ताव् एवात्र ग्राह्यौ । तत्र श्री-पराशर-वैशम्पायनयोर् अपि सम्मतिर् लक्ष्यते, एकस्मिन्न् एवाहनि ताल-वन-भाण्डीरादि-क्रीडोक्तेः, तथा मध्ये चास्य महा-शखोन्य-ग्रोधः इत्य्-आदि, श्री-हरि-वंशे [ह।वं। २,८.३६] श्री-वृन्दावन-मध्य एव भाण्डीरस्य वर्णनाच् च, अथथा तस्मिन्न् एव दिने अनन्तानां गोपानां गवादीनां च मुहुर् यमुनोत्तरणापत्तेः, सा चासम्भाव्यैवेति दिक् । ततश् च श्री-वाहारोक्तं लोके भाण्द-हरेति ख्यातं भाण्ड-हृदाख्य-तीर्थम् एव श्री-यमुनायाः पूर्व-कूले ज्ञेयम्, श्री-वराह-पुराणादिषु भाण्डीरस्य पारावरवर्तित्वानिर्धारणात्, अत्र लोक-प्रसिद्धिर् एव गतिर् इति निशम्य अन्योन्य-वार्तया श्रुत्वा दृष्ट्वेति वार्थः, निशाम्येत्य् एव वा पाठः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः पानानन्तरं च नूनं श्री-भगवद् उक्त्यैव्आक्षीण्य् उन्मील्यात्मानं मोचितं गाश् च मोचिता निशम्य निशाम्य दृष्ट्वा विस्मिता आसन् न केवलं मोचिताः पुनर् भाण्डीरम् आपिताश् च निशाम्येत्य् एव पाठः । क्वचित् मोचिता इत्य् अर्थवशाद् विभक्ति-विपरिणामेनोभयोर् अन्वयः । तत्र श्री-यमुना-दक्षिण-कूले श्री-वृन्डवन-मध्ये स्यारो इति प्रसिद्ध-शिवालय-ग्रामतो वायव्यदिशि भाण्डीर इति यः प्रसिद्धोऽस्माभिर् दृष्ट-चरो यद् अंशो यत् सम्बन्धेनाद्यापि तन् नाम्ना ख्यातस् तत् प्रवेशो यमुना-घट्टश् च विस्पष्टः स एव भाण्डीर-वटो ज्ञेयः, तद् दक्षिणतः क्रोश-पञ्चकं यावन् मुञ्जाटवी च तन् निकटत अग्निवारेति प्रसिद्ध-ग्रामान्ते ग्राह्या तथा मध्ये चष्य महा-शाखो न्यग्रोध इत्य्-आदिना । श्री-हरि-वंशे वृन्दावन एव भाण्डीरस्य वर्णनं भविष्योत्तरे च मल्ल-द्वादशी-प्रसङ्गे भाण्डीरे यो मल्ल-रूपी श्री-कृष्णो निरूपितस् तस्य तत्रैव महा-मल्ल इति प्रसिद्धः, अतो वासुदेवेति प्रसिद्धा तद् देवता च सैव ज्ञेया, एवम् एव वहन्तो वाह्यमानाश् च चारयन्तश् च गोधनम् इत्य् उक्तं श्री-वृन्दावनत आरब्धायाः क्रीडायाः अविच्छेदे सङ्गच्छेत अनन्त-गवादीनाम् उत्तारणादिना तद् असिद्धेः, एवं किं विश्राम्यसि कृष्ण-भोगि-भवने भाण्डीर-भूमीरुहि इत्य्-आदि-प्राचीन-वैष्णव-कवीनाम् अपि मतम् अव्याकुलं स्यात् ततश् च श्री-वराहोक्तं लोके भाण्ड-हरेति ख्यातं भाण्ड-हृदाख्यं तीर्थम् एव यमुनाया उत्तर-कूले ज्ञेयम् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-शलोकस्य व्याख्या द्रष्टव्या।


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ततश् च हरिणा भाण्डीरम् आपितास् ते भो मित्राणि कृतो मया दावाग्नेः प्रतीकारो यूयम् अक्षीण्य् उन्मीलयतेति तेनोक्तास् तथा भूत्वा आत्मानं मोचितं गाश् च मोचिताः निशाम्य दृष्ट्वा विस्मिता आसन् अतकर्यास्मिन् कृष्णे असमत्-स्खे शक्तिर् इत्य् अनुभूय चित्रलिखिता इवाभवन्न् इत् अर्थः ॥१३॥


॥ १०.१९.१४ ॥

कृष्णस्य योग-वीर्यं तद् योग-मायानुभावितम् ।

दावाग्नेर् आत्मनः क्षेमं वीक्ष्य ते4 मेनिरेऽमरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : योग-मायानुभावितं स्व-सामर्थ्य-कृतम् । तत् दावाग्न्य्आक्रान्त-मुञ्जारण्यतो भाण्डीरागमन-रूपं तत्-पान-रूपं च । योग-वीर्यम् अपुर्व-सामर्थ्यम् योगोऽपूर्वार्थ-संपत्तौ इति मेदिनि । तम् श्री-कृष्नम् अमरम् जरा-मरण-हीनं परमेशम् ॥१४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : योगस्य ऐश्वर्यस्य वीर्य प्रभावं महात्म्यम् इत्य् अर्थः । तच् च मायिकम् अपि सम्भवेद् इत्य् आशङ्क्य तन् निरस्यति—योग-मायया सच्-चिद्-आनन्द-शक्ति-विशेषेण्आनुभावितं सम्पादितम्, अन्यथा सच्-चिद्-आनन्द-विग्रहेषु तत् प्रिय-सखेषु तेषु माया-शक्तेर् अकिञ्चित्करत्वात् । योग-वीर्यम् एवाह—दावाग्नेर् इति । क्षेमम् इति—श्री-कृष्णेन सह चिरं श्री-वृन्दावनादौ साक्षाद् विहार-सिद्धेः । न विद्यते मरो मरणं यस्मात् तम्, एतद् आश्रयेण कदाचिद् अपि विरहादिना न मरिष्याम इति भावः ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथापि तेषां इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य्-आदिषु सर्वोर्धश्लाघित-शुद्ध-मैत्रीमतां तद् आच्छादकम् ऐश्वर्य-ज्ञानं न बभूव किन्तु कथञ्चित् प्रभाव-ज्ञानम् एवाजायतेत्य् आह—कृष्णस्य योग-मायया स्वभाविकाचिन्त्य-शक्त्या अनुभावितं व्यञ्जितं योगो पूर्वार्थ-सम्प्राप्तौ इति विश्व-प्रकाशाद् अपूर्वार्थ-सम्प्राप्ति-सम्पादकं यद् वीर्यं प्रभावस् तद् वीक्ष्य मत्वा तम् अमरं देव-विशेषं मेनिरे कीदृशं वीर्यं दावाग्नेः सकाशड् आत्मनः क्षेमं मङ्गल-हेतुम् इति यद् वा, न विद्यते मरो मरणं यस्मात् तम् एतद् आश्रयेण मरणाद् अपि न विरहं प्राप्स्याम इति भावः । जनार्दन इति व्रज-जनैः सदा द्रष्टुं याच्यत इत्य् अभिप्रायेण ॥१४.१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तादृशैश्वर्य-दर्शने ऽपि तेषां विशुद्ध-प्रेम-मैत्रीमतां तद् आच्छादकम् ऐश्वर्य-ज्ञानं अर्जुनादीनाम् इव न बभूवेत्य् आह—कृष्णस्य योग-माया-शक्त्या अनुभावितं ज्ञापितयोगवीर्यम् । योगो पूर्वार्थ-सम्प्राप्तौ इति विश्व-कोषाद् अपूर्वार्थ-सम्प्रापकं वीर्यं प्रभावम् । तत् आत्म-क्षेमं वीक्ष्य तं श्री-कृष्णं अमरं देव-विशेषं मेनिरे, न-तु तद् अपि एषां स्व-सम्बन्धस्य शैथिल्य-गन्धो ऽपि ज्ञेयः । यतः खल्व् अयम् अस्माकं सखा मनुष्याशक्य-कर्म-करणाद् एव एव, न मानुष इति ततश् चैतत्-सखत्वाद् वयम् अपि देवा एवेत्य् अतुल्यत्वे सख्यासम्भवाद् इत्य् अनुमाय आनन्दमत्तास् ते बभूवुर् इति भावः ॥१४॥


कृष्णस्य योग-वीर्यं तद् योग-मायानुभावितम् ।

दावाग्नेर् आत्मनः क्षेमं वीक्ष्य ते5 मेनिरेऽमरम् ॥

बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तादृशं प्रभावं वीक्ष्यापि तेषां सख्यं स्थिरम् एवाभूद् इत्य् आह—कृष्णस्येति । कृष्णस्य योग-मायया अनुभावितं योग-वीर्यम् अपूर्वार्थ-सम्प्रापकं प्रभावं ततो दावाग्नेर् आत्मनः क्षेमं च वीक्ष्य ते सखायः तम् अमरं मेनिरे योगो पूर्वार्थ-सम्प्राप्तौ इति विश्वः । न विद्यते मरो मरणं यस्माद् आश्रितानां तादृशम् इत्य् अर्थः । साक्षाद् ईश्वरो\ऽयम् अस्मत् सखो भजतां भुक्ति-हेतुर् इत्य् अमन्यन्तेत्य् अर्थः ॥१४.१५॥


॥ १०.१९.१५ ॥

गाः सन्निवर्त्य सायाह्ने सह-रामो जनार्दनः ।

वेणुं विरणयन् गोष्ठम् अगाद् गोपैर् अभिष्टुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सायाह्ने सन्ध्या-काले ॥१५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सह-रामो राम-सहितो जनार्दन इति, व्रज-जनैः सदा द्रष्टुं याच्यत इत्य् अभिप्रायेण वेणुं विशेषतो रणयन् वादयन् ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी, जीव-गोस्वामी क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जनान् वनस्थ-स्थावर-जङ्गम-लोकान् स्व-विरहं दित्सुः पीडयति व्रजस्थ-जनांस् तु स्व-सङ्गम दित्सुस् तं याचयतीति सः ॥१५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.१९.१६ ॥

गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ।

क्षणं युग-शतम् इव यासां येन विनाभवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

श्रीदामादि-स्व-गोपानां स्वाङ्गम् आरुह्य हृष्यताम् ।

स्वैश्वर्यम् आविर् अकरोद् वन-वह्नि-निपानतः ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यासां गोपीनाम्येन कृष्णेन ॥१६॥6


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१३३] अथेदानीं सर्वतो विशिष्टतमं परम-महत्त्वे परां काष्ठां प्राप्तं भगवतीनां श्री-गोपिकानां माहात्म्यम् एकोनविंशतिभिः । तत्र मुञ्जाटवी-दावानल-मोचनं कृत्वा सायं व्रजम् आगते श्री-भगवति गोपीनां तद्-दर्शनानन्द-माहात्म्यं श्री-बादरायणि-पादा अवर्णयन्—गोपीनाम् [भा।पु। १०.१९.१६] इति ।

परमानन्द आनन्दस्य परा काष्ठा । यद् वा, पर उत्कृष्टश् च पर-सीमा-प्राप्तो वा मायाया महा-लक्ष्म्या य आनन्दः, स एव गोविन्दस्य दर्शन-मात्रे\ऽपि सति । अस्तु तावत् सम्यक्-दर्शनानन्तर-सम्भाषणादि-केलि-कलासु गोपीनां सर्वासाम् एवासीत् । “दर्शनाद्” इति पाठे स एवार्थः ।

यासां गोपीनां क्षणम् अपि अत्यल्प-कालो\ऽपि येन गोविन्देन तद्-दर्शनेन वा विना युग-शतम् इव दिवसे\ऽभवत् । यथा च तासाम् एवानुगीयते—अटति यद् भवान् अह्नि काननं त्रुटिर् युगायते त्वाम् अपश्यताम् [भा।पु। १०.३१.१५] इति । इवेति वस्तुतो युग-शतं न भवत्य् एव, तथापि विरह-दुःखौत्कण्ठ्येन तासां तथा भावनात् तन्-निर्धारम् एव गमयति । यासां हि यस्याल्पतर-काल-विरहेणेदृशं दुःखं भवेत्, तासां तस्य किञ्चिद् दर्शन-मात्रेणपि परम-महानन्दो भवितुम् अर्हत्य् एवेति भावः । एतच् च मुञ्जाटवी-दावानल-विमोचनं तथा गोपी-गण-विरहाग्नि-मोचनम् अपीति सादृश्यात् तत्-प्रसङ्गे कथितम् । अन्यान्य-दिनेष्व् अप्य् एवम् एव ज्ञेयम् ॥१३३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपानां दावाग्नि-शमनम् इव श्री-गोपीनां विरहाग्नि-मोचनम् आह—गोपीनाम् इति । परमः पराकाष्ठां प्राप्तः, गोविन्दस्य गवाम् इन्द्रत्वेन गो-गोप-कुल-वृतस्यापि । यद् वा, दावाग्नितो गोप-गोकुल-रक्षया साक्षात् प्रदर्शित-गोकुलेन्द्रत्वस्य दर्शनाद् एव आसीद् आविर्भूत इति, तद् दर्शन-मात्रेणापि तासाम् आनन्द-विशेषेषः सम्पन्नः, सम्भाषणादिना च य आनन्दः स कथं निर्वाच्य इत्य् अर्थः । सप्तम्यन्त-पाठे दर्शने सति विषये वा, तथापि स एवार्थः । विषय-सप्तमी-पक्षे तु दर्शनस्यैव परमानन्दात्मकताभिप्रेता स्यात् । तच् चौचितम् एवेत्य् आह—क्षणम् इति, न-पुंसकत्वम् आर्षम् । इवेति क्षणस्य युगशतत्वाभावे\ऽपि केवलं विरह-दुःखोत्कथनेन तासां तथा-भानात्, तन् निर्धारम् एव गमयति—यासाम् अल्पतर-काल-विरहेणेदृशं दुःखं स्यात्, तासां तत् किञ्चिद् दर्शनतो\ऽपि परमानन्दो घटत एवेत्य् अर्थः । महाग्नि-मोचन-प्रसङ्गे\ऽत्रेदम् उक्तम्, किन्तु नित्यम् एवैवं बोद्धव्यम् ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-गोपानां दावाग्नितो मोचन-पूर्वकं स्व-प्राप्ति-परमानन्दं यथा ददौ तथा श्री-गोपीनाम् अपि विरहाग्नितस् तत् पूर्वकं तं ददाव् इति नित्यम् अपि प्रस्ताव-सादृश्येन तद् दिन-लिलान्त एवाह—गोपीनाम् इति । परमः परां काष्ठाम् आपन्न आनन्द एवासीत् कासां गोपीनां क्षणम् इति कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षतां पक्ष्म-कृद्-दृशाम् [भा।पु। १०.१३.१५] इति, त्रुटिर् युगायते त्वाम् अपश्यताम् [भा।पु। १०.३१.१५] इति च, तासाम् एव तादृश-वचन-श्रवणात् यद्-दर्शने दृशिषु पक्ष्म-कृतं शपन्ति [भा।पु। १०.८२.३९] इति ता एवोद्दिश्य श्रीमन्-मुनीन्द्रेणापि सर्वातिशय-प्रेम-दर्शनाय वर्णितत्वात् तत्-प्रेयसी-रूपाणाम् इत्य् अर्थः । कीदृशं तस्यानन्दस्य परमत्वं ? तत्राप्य् आह—क्षणम् इति । अस्मद्-वाङ्-मनसागोचरत्वात् स्वरूपेण निर्देष्टुं न शक्यते, किन्तु कथञ्चित् प्रतियोगि-मुखेनैवेति भावः । गोविन्द-दर्शन इति सप्तमी-निर्देशस् तथापि तासां निमेषादि-व्यवधाने पूर्ववद् विरहावस्थैव दर्शिता । क्षणम् इति नपुंसकत्वम् आर्षम् । एवम् अयम् आसां भाव-प्रेम-प्रणय-मान-रागानुराग-महा-भावाख्यतया सप्तम-कक्षाम् आरूढाया रतेः परिपाकः श्रीमन्-मद्-अनुज-वरैर् विरचितोज्ज्वल-नीलमणाव् अवलोकनीयः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोष्ठ-प्रवेश-समये व्रजस्थानां सर्वेषाम् एव तत् सङ्गमाद् आनन्दे सत्य् अपि व्रजेश्वर्य्-आदीनां परम-वत्सलानाम् आनन्दाधिक्यं चतुर्दशाध्याये बर्ह-प्रसूनेत्य्-आदिना गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् [भ।पु। १०.१४.४७] इति पद्येन वर्णितम् एवात इदानीं प्रेयसीनां गोपीनाम् इति परमानन्द इति मुक्त-प्रग्रहया वृत्या आनन्द-जाति-प्रमाणाभ्याम् आधिक्यम् आत्यन्तिकम् एव न त्व् आपेक्षिकं ज्ञेयम्,

ननु, कास् ता गोप्यस् तद् असाधारण-लक्षणेन परिचाययेत्य् अत आह—क्षणम् इति । क्लीबत्वम् आर्षं येन श्री-कृष्णेन विना युग-शतम् इवेति क्षणस्य युग-शतायमानत्वं रति-प्रेम-स्नेहमान-प्रणय-रागानुराग-महा-भावानाम् उत्तरोत्तर-प्रेम-भूमिकानागन्तिमस्य महा-भावस्य लक्षणम् इत्य् उज्ज्वल-नील-मणौ दृष्टमतस् ता महा-भाववत्यो वृषभानु-नन्दिनी-प्रभृतय एव ज्ञेयाः ॥१६॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकोनविंशो दशमे सङ्गतः सङ्गत सताम् ॥*॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : व्रज-प्रवेश-वेलायां सर्वेषाम् आनन्दे सत्य् अपि वत्सलानाम् आनन्दाधिक्यं गोपी-दृग्-उत्सव-दृशिर् [भ।पु। १०.१४.४७] इति प्राग् वर्णितं अधुना प्रेयसीनां तद् आह—गोपीनाम् इति । परमोऽतिशोभनो जात्या परिमाणेन च सर्वतोऽधिक इत्य् अर्थः । आनन्द आसीद् अभवत् ननु, तासां परिचायकम् असाधारणं लक्षणं ब्रूहिति चेत् तत्राह क्षणम् इति क्लीबत्वम् आर्षम्, येन नन्द-सूनुना गोविन्देन विनेत्य् अर्थः । क्षणस्य युग-शतायम्आनत्वं महा-भावेनैव भवेत् तद्-वतीनां श्रीमत्य्-आदीनाम् इत्य् अर्थः, कुटिल-कुन्तलं श्री-मुखं ते जड उदीक्षतां पक्ष्म-कृद् दृशाम् इति त्रुटिर् युगायते त्वाम् अपश्यताम् [भा।पु। १०.३१.१५] इति च तासाम् एव तादृश-व्यावहारात् यद्-दर्शने दृशिषु पक्ष्म-कृतं शपन्ति [भा।पु। १०.८२.३९] इति श्री-मुनीन्द्रेणापि तां एवोद्दिश्य सर्वाधिक-प्रेम-प्रदर्शनायोक्तेश् च ॥१६॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्धे दावाग्नि-

पानं नामैकोनविंशोऽध्यायः ।

॥ १०.१९ ॥


(१०.२०)


  1. दूरं निपतिताः ↩︎

  2. मुष्टिनैव ↩︎

  3. स्नेह-विशेषानुभावेन ↩︎

  4. तं ↩︎

  5. तं ↩︎

  6. वंशीधर अप्पेअर्स् तो हवे त्wओ मोरे वेर्सेस् हेरे। थिस् इस् हिस् चोम्मेन्त्- तयोः राम-कृस्णयोः । तत् श्लोके वक्ष्यमाणम् ॥१७॥ तत् प्रलम्ब-वधादि ।*। वयं कृष्णागमारूढा इत्य् एव हृष्यताम् । स्वैश्वर्यम् निज-वैभवम् ।*॥१८॥ ↩︎