प्रलम्बासुर-वधः ।
॥ १०.१८.१ ॥
श्री-शुक उवाच—
अथ कृष्णः परिवृतो ज्ञातिभिर् मुदितात्मभिः ।
अनुगीयमानो न्यविशद् व्रजं गोकुल-मण्डितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
विमोहन्[अहि]{।मर्क्}-दण्डेन ततः स्वान् शरणागतान् ।
गोपान् अपाद् अनन्तोऽसाव् अनन्त-वन-वह्नितः ॥
अष्टादशे ततो ग्रीष्मे वसन्त-गुण-लक्षिते ।
अघातयद् बलेनालं प्रलम्बं लीलया हरिः ॥
कृत्वा नृत्यं फणाग्रेषु कालियस्य स-कौतुकम् ।
बलं प्रलम्ब-तुङ्गांसम् आरोहयद् अरातिहा ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः सप्त-दशानन्तरम् ।*। स-कौतुकं साश्चार्यम् ।*। अथ दावाग्नि-पानोत्तरम् । ज्ञातिभिः गोपैः । केचिद् इदं श्लोकं पूर्वाध्यायान्ते पठन्ति ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अष्टाविंशोनविंशाध्याय-द्वये च टीका नास्ति ।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ तद्-रात्र्य्-अनन्तरं प्रातर् गोचारण-क्रमेण, अपराह्ने वा, अन्यथा गोभिः सह तेषां सर्वेषां व्रजागमनासम्भवः । ततश् च श्री-यशोदादिभिर् आदौ त्वरया गृहं गत्वान्नादिकं प्रेषितम् इति ज्ञेयम् । परितो वृतः स्नेहातिरेकेण सर्वत आवरणतया वेष्टितो\ऽनुगीयमानश् च, गोकुल-मण्डितम् इति प्राक् गवां प्रवेशात्, क्रिया-विशेषणं वा ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ प्रातः ज्ञातिभिर् इति तदापि तद्-भाव-माधुर्यापरित्यागो दर्शितः परितो वृतः स्नेहातिरेकेण सर्वत आवरणतया वेष्टितोऽनुगीयमानश् च । गोकुल-मण्डितम् इति प्राक् गवां प्रवेशात्, क्रिया-विशेषणं वा । प्रातर् एव गो-प्रवेशनं तद्-उपद्रव-स्फोरकत्वेन दव-दग्धत्वेन च तत्-प्रवेशं त्यक्त्वा क्रोश-मात्र-स्थितस्य व्रजस्य परतश् चारणेच्छयेति ज्ञेयं । तादृश-कु-समय-गत-तद्-यात्रा-परिवर्तनेच्छयेति वा । विशेषतस् तु कारणं मनुष्या इव पशवोऽपि तं व्रजं प्रविशन्तं त्यक्तुं नाशक्नुवन्न् इति ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ प्रातर् गोकुलेन गो-समूहेन मण्डितं यथा स्यात् ॥१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
ग्रीष्म-र्तु-वर्णनं केलौ कृष्णः श्रीदाम-वाड् अभूत् ।
रामः प्रलम्बम् आरुह्याहन्न् इत्य् अष्टादशे कथा ॥
अथ प्रातः ॥१॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) :
अष्टादशेऽवहत् कृष्णः श्रीदामनं जितः प्रभुः ।
बलः प्रलम्बम् आरुह्य मुष्टिना तम् अमारयत् ॥
अथ प्रभाते सति गो-कुल-मण्डितम् इति प्राग् गवां प्रवेशात्, प्रातर् एव गो-प्रवेशनं कु-समय-यात्रा-परिवर्तनेच्छयेति ज्ञेयम् ॥१॥
॥ १०.१८.२ ॥
व्रजे विक्रीडतोर् एवं गोपाल-च्छद्म-मायया1 ।
ग्रीष्मो नाम र्तुर् अभवन् नातिप्रेयान् शरीरिणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपाल-च्छद्म-माया गो-पालनम् एव च्छद्म यस्यां, तया मायया ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरीरिणाम् देहि-मात्रस्येत्य् अर्थः । नातिप्रेयान् अभितस् ताप-जनकत्वत् । गो-पालनं छद्म वन-गमननाय मिषं यस्यां, तथा-भूता या माया प्रच्छन्न-कामना-मयी जन-वञ्चना, तया विक्रीडतो व्रज-बालाभिः सह विहरतोर् इति बलदेवस्यापि पृथक् कान्ता गोप्य आनन्द-वृन्डवने दृष्टा मूले\ऽप्य् उपरिष्टाद् व्यक्ती-भविष्यति । अत्र अति-शब्देन जल-केल्य्-आदीनां किञ्चित् प्रियतापेक्षया ज्ञेय इति चक्रवर्ती-तोषिण्यौ ॥२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गो-पालने गोपालेषु वा छद्म पुरा निजैश्वर्याच्छादनेन यत् कापट्यं, तस्य माया सम्प्रति साक्षाद् आत्मैश्वर्य-प्रकटनेन मिथ्यात्वम्, तया निज-भगवत्ता-प्रकटनेनेत्य् अर्थः । यद् वा, गोपाल-छद्मना गो-पालन-व्याजेन या माया स्वीयेषु कृपा, तया । विशेषेण क्रीडतोः सतोः, शुचि-वनोद्भूत इत्य्-आदिना ग्रीष्म-र्तोः पूर्वम् उद्दिष्टे\ऽप्य् उद्भवे\ऽधुना सो\ऽभवद् इति विस्तरतस् तस्य वर्णनार्थम् अनुवादो ज्ञेयः, नाम-प्राकाश्ये । किं वा, नाम्नैव ग्रीष्मः, न तु गुणादिनेत्य् अर्थः । तच् चाग्रे व्यक्तं भावि । नातिप्रेयान्—अनतिप्रियो\ऽपि तापमयत्वात्, अति-शब्दो जल-केलि-स्वच्छन्द-वासादिना किञ्चित् प्रियापेक्षया, तत्र बहुल-ग्रीष्म-वर्षादिष्व् अपि तेष्व् अधुना विशेषत एतद् वर्णनम् एषु क्रीडा-विशेषाभिप्रायेण ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गो-पालनं छद्मति या माया तस्य छद्मता-वादिनां वञ्चनं, तया क्रीडतोः तान् वञ्चयित्वा विहरतोर् इत्य् अर्थः । यद् वा, गो-पालनम् अपि छद्म-क्रीडान्तराभिप्राय-शालि यत्र, तादृशी या माया जन-वञ्चनं, तया क्रीडतोर् विचित्र-क्रीडा-विचेष्टान् अपि कुर्वतो नाम-प्रकाश्ये ग्रीष्म इति ग्रीष्मान्तर् अभवद् इत्य् अर्थः । नातिप्रेयान् इत्य् अति-शब्दो जल-केल्य्-आदीनां किञ्चित् प्रियतापेक्षया ॥२॥
जीव-गोस्वामी (प्रीति-सन्दर्भः १४६) : अथ गोचारणादाव् अपि सुखित्व-गुणानुकूल्यम् एव मन्तव्यम् । तद्-व्याजेन नाना-क्रीडा-सुखम् एव ह्य् उपचीयते । यथाह—व्रज-विक्रीडतोर् इत्य्-आदि [द्वाभ्याम्] । क्रिया-कृतस्य दुःखस्य निषेधः । व्रजे विक्रीडतोर् इति । छद्म व्याजः । माया वञ्चनम् । गोपाल-व्याजेन यद् वञ्चनं, तेन विक्रीडतोः । प्रातस् तद्-व्याजेन नाना-जनान् वञ्चयित्वा व्रजाद् वनं गत्वा स्वच्छन्दं निजाभीष्टाः क्रीडाः कुर्वतोर् इत्य् अर्थः । सायं व्रजावासागमने चान्या इति । काल-कृतस्य दुःखस्य निषेधः ॥२॥ स च इति । अनेन देश-कृतस्य च इति ज्ञेयः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-दिने तत्-प्रदेशस्य दाहात् व्रजात् परतश् चारणार्थं गो-पालनं छद्मेति या माया तस्य छद्मता-वादिनां वञ्चनं, तया क्रीडतोः तान् वञ्चयित्वा विहरतोर् इत्य् अर्थः । तद्-गुणानां नित्य-वसन्त-सान्निध्य-कर-माहात्म्यम् इत्य् अभिप्रेत्याह—यत्रास्त इति । नित्यम् एव विहरति ॥२-३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोपालनं छद्म वन-गमनाय मिषं यस्यां, तथा-भूता या माया प्रच्छन्न-कामता-मयी जन-वञ्चना, तया विक्रीडतोर् व्रज-बालाभिः सह विहरतोर् इति बलदेवस्यापि पृथक् कान्ता गोप्य आनन्द-वृन्दावने दृष्टाः मूलेऽप्य् उपरिष्टाद् व्यक्तीभविष्यन्ति ॥२-३॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : गोपालम् अपि छद्म क्रीडान्तराभिप्राय-शालि यस्यां, तया मायया प्रच्छन्न-कामुकतया वने विक्रीडतोर् व्रज-किशोरीभिः सह विहरतोर् इति बलदेवस्यापि कान्ताः सन्तीति वासन्तिक-रासे व्यक्तीभावि । नातिप्रेयान् इति जल-केल्य्-आदिना किञ्चित् प्रियात्वाद् **अति-**शब्दः ॥२॥
॥ १०.१८.३ ॥
स च वृन्दावन-गुणैर् वसन्त इव लक्षितः ।
यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च ग्रीष्मः । यत्र वृन्दावने ॥३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च अपि, सो\ऽपि । कश् च, अश् च, ईशश् च केशाः ब्रह्म-विष्णु-रुद्राः, तान् वयते स्वत आविर्भावयतीति, केशौ ब्रह्म-रुद्रौ वा सेवकतया यस्य स्तः, स केशवः श्री-कृष्णः । अत एव भगवान् निजाशेषैश्वर्य-प्रकटन-पर इत्य् अर्थः । यद् वा—
यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दनः । > तस्मात् केशव-नामा त्वं लोके गेयो भविष्यसि ॥ [वि।पु। ५.१६.२३]
इति श्री-विष्णु-पुराणोक्त-निरुक्त्या केशि-सूदनः श्री-कृष्ण एव । अत एव भगवान् श्री-वृन्दावनाविष्कृत-मधुरैश्वर्यः । तत्र च साक्षात् प्रकट एव स्वयं यत्र वृन्दावने आस्ते, तथापि2 बहुधा तं रमयतीति रामः, तेन सहेति साहाय्य-सम्पत्त्या विचित्र-क्रीडापताभिप्रेता ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स च सोऽपि तद्-गुणानां नित्य-वसन्त-सान्निध्य-करत्वं कियद् वा, माहात्म्यम् ? इत्य् अभिप्रेत्याह—यत्र इति ।
यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन ! > तस्मात् केशव-नामा त्वं लोके गेयो भविष्यसि ॥ [वि।पु। ५.१६.२३]
इति श्री-विष्णु-पुराणोक्त-रीत्या केशवोऽत्र श्री-कृष्ण एव । अत एव भगवान् परिपूर्ण-सर्व-भग आस्ते । नित्यम् एव विहरति वर्तमान-प्रयोगस् तु श्री-शुकस्य स्व-स्फूर्त्य्-अनुसारेण ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्व-श्लोक-टीका द्रष्टव्या।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी): न व्याख्यातम्**।**
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : स च सोऽपि तद्-गुणानां नित्य-वसन्त-सान्निध्य-करत्वं कियद् वा, माहात्म्यम् ? इति भावेनाह—यत्र इति ॥३॥
॥ १०.१८.४ ॥
यत्र निर्झर-निर्ह्राद- निवृत्त-स्वन-झिल्लिकम् ।
शश्वत् तच्-छीकरर्जीष- द्रुम-मण्डल3-मण्डितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वसन्त-साम्यम् आह चतुर्भिः । यत्र ग्रीष्मेऽपि निर्झराणां निर्ह्रादेन घोषेण निवृत्त-स्वनाश् छन्न-ध्वनयो झिल्लिकाः कठोर-ध्वनि-सूक्ष्म-कीटा यस्मिंस् तथा-भूतं वृन्दावनं भवति । किं च, शश्वत् तेषां निर्झराणां शीकरैर् अम्बु-कणैर् ऋजीषाः स्निग्धा ये द्रुमास् तेषां मण्डलैर् मण्डितम् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पाठान्तरे मण्डपैर् जन-स्थिति-योग्य-स्थलैः, मण्डपोऽस्त्री जनाश्रयः इत्य् अमरः ॥४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं वृन्दावन-ग्रीष्मेषु हेतुर् उक्तः । किं वा, यत्र येभ्यो हेतुभ्यः, यत्रेति तैर् व्याख्यातम् । यद् वा, यत्र वृन्दावने सामान्येन सर्वम् एव स्थाने तादृशं भवति ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यत्रेति पञ्चकं, तद् वनम् अविशद् इति पञ्चमेनान्वयात् । तथापि पृथग् अङ्कयिष्यते वैशद्याय । यत्र वृन्दावने सामान्येन सर्वम् एव स्थानं निझरेत्य्-आदि-लक्षणं शश्वद् इत्य्-आदि-लक्षणं च । यद् वा, निर्झर-निर्ह्रादेन वर्षा-भ्रम-जनकेन निवृत्त-स्वना ये झिल्लयः, तैः कं सुख-दुःखाभाव इति यावत्, तादृश-द्रुम-मण्डलैर् मण्डनं च यत्र भवति, भावे निष्ठा । अत्र टीकायां तेषाम् इति षष्ठी-निर्देशान् मण्डलैर् इत्य् एव बुद्ध्यते । मण्डपैर् इति पाठे तु कथञ्चिद् एव सा योज्या ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यत्र वृन्दावने, तद् वृन्दावनम् अविशद् इति पञ्चभिर् अन्वयः ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वसन्त-साम्यम् आह चतुर्भिः । यत्र वृन्दावने ग्रीष्मेऽपि निर्झराणांनिह्रादेन घोषेण निवृत्त-स्वना आच्छन्न-ध्वनयो झिल्लिकाः कठोर-भाषि-सूक्ष्म-कीटा यस्मिन् तथा-भूतं स्थलं भवतीति शेषः । शश्वत् तेषां शीकरैर् अम्बु-कणै ऋजिषाः स्निग्धा ये द्रुमास् तेषां मण्डलैर् मण्डितम् ॥४॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : वसन्त-साम्यम् आह—यत्रेति चतुर्भिः । यत्र वृन्दावने गिरि-निर्झराणां निर्ह्रादेन शब्देन निवृत्त-स्वनाः वर्षा-भ्रमेण तूष्णीम्भूत-झिल्लिकाः यत्र तादृशं स्थलं भवतीति शेषः । कठोर-भाषि-सूक्ष्म-कीटा झिल्ल्यः कथन्ते । वृन्दावने खलु गिरिजाद् अन्येऽपि हरि-क्रीडा-हेतवो लघु-बृहद्-वपुषो रत्न-गिरयः सन्तीति बोध्यम् । शश्वत् सदा तेषां निर्झराणां शीकरैर् अम्बु-कणैः ऋजीषाणां स्निग्धानां द्रुमाणां मण्डलैर् मण्डितम् ॥४॥
॥ १०.१८.५ ॥
सरित्-सरः-प्रस्रवणोर्मि-वायुना
कह्लार-कुञ्जोत्पल-वेणु4-हारिणा ।
न विद्यते यत्र वनौकसां दवो
निदाघ-वह्न्य्-अर्क-भवो\ऽतिशाद्वले ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्र ग्रीष्ंए वने वा । निदाघो ग्रीष्मः, तेन तत्-कालीन-वह्न्य्-अर्काभ्यां च भवति यो दवस् तापः । अति-शाद्वलेऽति-हरित-तृणाकीर्णे । यद् वा, अतिक्रान्त-शाद्वलेऽपि स्थाने ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सरित्-सरसां प्रस्रवणेषु ये ऊर्मयस् तरङ्गाः, तत्-सम्बन्धिना वायुना, भङ्गस् तरङ्ग ऊर्मिर् वा वीचिः इत्य् अमरः । बहु-शाद्वले तु सर्वत्रैव तापाभावः । तत्र किं वृन्दावनाधिक्यम् ? इत्य् अरुच्याह—यद् वा, इति । अतिक्रान्त-शाद्वले शाद्वल-शून्ये ॥५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): तद् वनम् अविशद् इति पञ्चभिर् अन्वयः । सरिद् इत्य्-आदिना वायोः सुशैत्यादिकम् उक्तम्, अयम् एको दवाभावे हेतुः, अतिशाद्वल इत्य् अन्वयः । तथा च श्री-विष्णु-पुराणे—
ततस् तत्राति-रूक्षे\ऽपि धर्म-काले द्विजोत्तम । > प्रावृट्-काल इवोद्भूतं नवं शस्यं5 समन्ततः > ॥[वि।पु।५.६.३०] ॥ इति ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यत्र च वृन्दावने सरिद् इत्य्-आदिना वायोः सुशैत्यादिकम् उक्तं, अयम् एको दवाभावे हेतुः अतिशाद्वल इत्य् अन्वयः । तथा च श्री-विष्णु-पुराणे—
ततस् तत्राति-रूक्षेऽपि धर्म-काले द्विजोत्तम ! । > प्रावृट्-काल इवोद्भूतं नव-शष्पं समन्ततः ॥ [वि।पु। ५.६.२९] > इति ।
शाद्वल इति द-कार-मध्य एव पाठः, न ड-शाड्वलज् इति स्मृतेः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ऊर्मिभिर् इति निमित्तम् ॥५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सरिद्-आदीनाम् ऊर्मयो यतस् तेनेति शैत्यम् । कह्लारादीनां रेणून् हर्तुं निःशब्दत्वेनालक्ष्यतया चोरयितुं शीलं यस्येति सौगन्ध्य-मान्द्ये । दवस् तापः । अन्यत्र निदाघो दावानल-भवस् तापो भवति । सोऽत्र नास्तीत्य् आह—अतिशाद्वले अतिकोमल-हरित-तृणाकीर्णे ॥५॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सरिद्-आदीनाम् ऊर्मयो यस्मात् तेन वायुनेति शैत्यं कह्लारादीनां रेणुन् परागान् हर्तुं निःशब्दतया चोरयितुं शीलं यस्य, तेनेति सौगन्ध्य-मान्द्यो दवस् तापः । अन्यत्र निदाघे दावाग्नि-तापः स्यात्, सोऽत्र नेत्य् आह—अतिशाद्वले अति-कोमल-हरित-तृण-पूर्णे इत्य् अर्थः ॥५॥
॥ १०.१८.६ ॥
अगाध-तोय-ह्रदिनी-तटोर्मिभिर्
द्रवत्-पुरीष्याः पुलिनैः समन्ततः ।
न यत्र चण्डांशु-करा विषोल्बणा
भुवो रसं शाद्वलितं च गृह्णते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु शाद्वलम् एव कुतस्त्यं ? तत्राह—**अगाध-**इति । अगाधानि तोयानि यासां तासां ह्रदिनीनां तट-स्पर्शिभिर् ऊर्मिभिः पुलिनैः सह द्रवत्-पुरीषं पङ्को यस्याः, तस्या भुवः रसं शाद्वलितं शाद्वल-रूपतां च विषवद् उल्बणा अपि [चण्डांशु-कराः] सूर्य-रश्मयो न गृह्णते न हरन्ति ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शाद्वलत्वे शङ्कते—नन्व् इति । कुतस्त्यम् कुतो जातम् ? तत्र आक्षेपे । अगाधानि गम्भीराणि ह्रदिनीनां नदीनाम्, तटिनी ह्रादिनी नदी इत्य् अमरः । ऊर्मिभिस् सहितैः पुलिनैस् तात्कालीन-जलोत्थित-स्थलैः । तोयोत्थितं तत् पुलिनम् इत्य् अमरः । द्रवत् किञ्चिच् चलनवद् आर्द्रम् पुरीषं मल-पङ्कयोः इति शाश्वतः । उल्बणाश् चण्डाः उल्बणं भयदे चण्डे संवृते पुं-नपुंसकम् इति धरणिः । यत्र वृन्डवने । शाद्वलितम् इत्य् आचारर्थ-क्विब्-अन्ताद् भावे निष्ठेति रूप-गोस्वामि-जीव-गोस्वामिनौ । विश्वनाथस् तु—शाद्वल-युक्तीकृतम् विन्मतोर् लुक् इति मतुपो लुग् इत्य् आह ॥६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुतः ? तद् आह—अगाधेति । अगाध-तोयत्वेन सदैव ऊर्मीणाम् उद्भवः स्थौल्यं च सूचितम्, द्रवत् इतस् ततः प्रसरत्, पुरीषम् इव पुरीषः पङ्कः । किं वा, द्रवत् सद्-आर्द्रं पुरीषं मृद् यस्यास् तस्याः । ईदन्तत्वम् आर्षम् । समन्ततो वर्तमानैः पुलिनैश् च हेतुभिः, सहार्थे वा, तैः सहिताया भुवस् तस्यास् तेषां चेत्य् अर्थः । यद् वा, समन्तत इत्य् अस्य परेणान्वयः, यत्र सर्वत्रापीत्य् अर्थः, ह्रदिनीनां बाहुल्यात् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुतः ? तद् आह—अगाध**-**इति । अगाध-तोयत्वेन सदा ऊर्मीणाम् उद्भवः लौल्यं च सूचितम् । ऊर्मिभिर् इति निमित्तं पुलिनैर् इत्य् उपादानं, तत्-तन्मयत्वात् सद्-आर्द्रं पुरीषं मृद् यस्यास् तस्या इत्य् अर्थः । ङीषर्थं गौरादौ पठनीयं । शाद्वलितम् इत्य् आचारार्थ-क्विब्-अन्ताभावे निष्ठा । अन्यत् तैः । यद् वा, अगाध-इत्य्-आदिकं पुलिन-विशेषणं समन्तत इत्य् अस्य परेणान्वयः । यत्र श्री-वृन्दावने सर्वत्रापीत्य् अर्थः, ह्रदिनीनां बाहुल्यात् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुलिनैर् इत्य् उपादानं द्रवत् सदार्द्रं पुरीषं मृद् यस्यास् तस्याः शाद्वलितम् इत्य् आचारार्थ-क्विब्-अन्ताद् भावे निष्ठा ॥६.१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्क-भव-तापाभावे पूर्वोक्त-द्रुम-मण्डल-मण्डितत्वम् एव हेतुर् अस्ति । हेत्व्-अन्तरम् अप्य् आह—अगाध-तोया ह्रदिन्यः, तासां तट-स्पर्शिभिर् ऊर्मिभिर् द्रवत् सदैवार्द्रं पुरीषं पङ्कं यस्यास् तथाभूताया भुवो रसं न गृह्नति इत्य् अन्वयः । गौरादित्वात् ङीष् । रसं कीदृशं ? समन्ततः पङ्किलैः पुलिनैः शाद्वलितं शाद्वल-युक्तीकृतं, विन्मतोर् लुक् [पा। ५.३.६५] इति मतुपो लुक् ॥६.८॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अर्क-तापाभावे हेत्व्-अन्तरम् आह—अगाध-तोयानां ह्रदिनीनां तट-स्पर्शिभिर् ऊर्मिभिर् द्रवत् सर्वदैवार्द्रं पूरीषं पङ्कं यस्यास् तादृश्या भुवो रसं यत्र चण्डांशु-करा न गृह्णत इत्य् अन्वयः । गौरादित्वात् ङीष् । रसं कीदृशं ? समन्ततः पङ्किलैः पूलिनैः शाद्वलितं शाद्वल-युक्तं तत् करोतीति णिज्-अन्ताद् भावे निष्ठा ॥६.८॥
॥ १०.१८.७ ॥
वनं कुसुमितं श्रीमन् नदच्-चित्र-मृग-द्विजम् ।
गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् वनम् अविशद् इत्य् उत्तरेणान्वयः । नदन्तश् चित्रा मृगा द्विजाश् च यस्मिन् । गायन्तो मयूरा भ्रमराश् च यस्मिन् । कूजन्तः कोकिलाः सारसाश् च यस्मिंस् तद् अविशत् ॥७-११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् वनम् अविशद् इति द्वयोः सवन्धः । कुसुमानि सञ्जातानि यत्रेति तथा श्रीमत्त्वं स्वतः विशेषतश् चाह—कुसुमितं प्रफुल्लाशेष-पुष्प-व्याप्तम् इति ग्रीष्मे वसन्त-गुण उक्तः । द्विज-शब्देन गृहीतानाम् अपि मयूरादीनां पृथग् उक्तिर् अन्यत् तुर् श्रीणाम् अपि सम्वलनं बोधयति ॥७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे श्रीमन्न् इति, यथा श्री-कृष्ण-प्रभावेण6 भवतो विविधा शोभा, तथा तद् वनस्यापीति भावः । यद् वा, श्रीमद् इति वन-विशेषणम्, श्री-मत्त्वम् एव दर्शयति—कुसुमितम् इत्य्-आदि-विशेषणैः किं वानुक्ताम् अन्याम् अपि विविध-शोभां सङ्गृह्णाति, कुसुमितं प्रफुल्लाशेष-पुष्प-व्याप्तम् इत्य् अर्थः । ग्रीष्मे\ऽपि वसन्त-गुणैः, द्विज-शब्देन गृहीतानाम् अपि मयूरादीनां पृथग् उक्तिः—तापाभावेन सुख-मधुर-गान-विशेषात् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पञ्चकान्तर् एव वनम् इति युग्मकम् श्री-मत्त्वं स्वतः विशेषतश् चाह—कुसुमितम् इत्य्-आदिना । कुसुमितं प्रफुल्लाशेष-पुष्प-व्याप्तम् इत्य् अर्थः । ग्रीष्मे\ऽपि वसन्त-गुणैः एवं द्विज-शब्देन गृहीतानाम् अपि मयूरादीनां पृथग् उक्तिर् अन्यर्तु-श्रीणाम् अपि सम्वलनं वोधयति क्रीडिष्यमाणः क्रीडिष्यन्न् ? इति क्रीडा-विशेषापेक्षया यतः कृष्णः जगच् चित्ताकर्षक-लीलः अत एव भगवान् बलदेवेन सम्यग् युत इति विशेषेणोक्तिर् अग्रे तेन प्रयोजन-विशेषार्थं विरयन् चिक्रीडिषानन्देन तद् उत्साहनेच्छाया च विशेषतो वादयन् अत एव गोपैः गाव एव धनानि तैश् च सम्यग् वृत्तः गोधनानाम् अपि गोप-क्रीडायाम् अपि युक्तत्वात् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी, बलदेव-विद्याभूषणः वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१८.८ ॥
क्रीडिष्यमाणस् तत् कृष्णो भगवान् बल-संयुतः ।
वेणुं विरणयन् गोपैर् गो-धनैः संवृतो \ऽविशत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णो जगच् चित्ताकर्षक-लीलः । अत एव भगवान् विरणयन् विविध-स्वरैर्ध्वनयन् ॥८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्रीडिष्यन्न् इति क्रीडा विशेषापेक्षया, यतः कृष्णो जगच्-चित्ताकर्षक-लीलः, अत एव7 भगवान् बलदेवेन सम्यग् युत इति विशेषेणोक्तिः, अग्रे तेन प्रयोजन-विशेषार्थम्, विरणयन् कार्य-क्रीडानन्देन क्रीडायाम् उत्षहार्थं वा विशेषतो वारयन् । अत एव गोपैः—गाव एव धनानि, तैश् च । किं वा, तेषां तैः सम्यग् वृतः, अन्येषां पशूनां सत्त्वे\ऽपि गवाम् एवोक्तिस् तासां मुख्यत्वात् । धन-शब्देन तासाम् अवश्य-पाल्यत्वं सूचितम् । अतो\ऽयम् अपि वन-प्रवेशे हेतुः । किं च, क्रीडिष्यमाण इति तत्र क्रीडाया मुख्यत्वम् उक्तम् एव ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी, बलदेव-विद्याभूषणः वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१८.९ ॥
प्रवाल-बर्ह-स्तवक-स्रग्-धातु-कृत-भूषणाः ।
राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धातवो गैरिकादयः स्वर्णादयो वा ॥९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपा इति गोप-क्रीडापेक्षया । यद् वा, स्वत एव सदा परम-हृष्टत्वं वन्य-भूषणत्व-नृत्यादि-कौशल-योग्यत्वादिना । तत्र च राम-कृष्णादय इति तयोर् गोप-क्रीडाभिनिवेशेन केवल-गोपत्वाभिमानस्य । किं वा, यथा राम-कृष्णैः तथान्ये\ऽपीत्य् अविशेषस्याभिप्रायेण । तत्र राम-कृष्ण-शब्द-प्रयोगो नृत्यादिना सर्वेषां रमण-चित्ताकर्षणाद्य्-अभिप्रायेण, एवम् अग्रे\ऽपि प्राक् ननृतुः, हर्ष-भरेण वाद्यान् अपेक्षया नर्तनाद् वादकानाम् अनुक्तिः, पश्चान् मदोद्रेकेण युयुधुः । केचिज् जगुः—वक्ष्यमाणस्य केचिद् इत्य् अस्य परामर्शात् । केचिद् वादयंश् चेत्य् अत्रापि ज्ञेयम्, नृत्ये वाद्यस्यापेक्ष्यत्वात् । एवम् आदौ नृत्यादिकम् एवोक्तम्, परम-हृष्टानां तेषां स्वभावत एव प्राक् तत्र प्रवृत्तेः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपा इति गोप-क्रीडायां निजाभीष्टत्वं स्पष्टयन् तत्र च राम-कृष्णादय इति परम-विदुषोऽपि स्वस्य तदानीम् अन्य-निर्विशेषतया श्री-राम-कृष्णयोर् गोपत्व-स्फूर्त्या तयोर् अपि तद्-आवेशाभिमानौ सम्मन्यमानस् तादृश-क्रीडायां परमातिपरमानन्द-मयत्वं व्यञ्जितवान् । अथ तल्-लीलावेशादिकम् एव व्यञ्जयति—ननृतुर् इत्य्-आदिना ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोपा इति रामस्यापि गोपत्वाभिमानात् ॥९॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : गोपा इति रामस्यापि गोपत्वाभिमानात् ॥९॥
॥ १०.१८.१० ॥
कृष्णस्य नृत्यतः केचिज् जगुः केचिद् अवादयन् ।
वेणु-पाणि-तलैः शृङ्गैः प्रशशंसुर् अथापरे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रशंशसुः श्लाघयामासुः—"अहो ते नृत्य-कौशलम्" इति ॥१०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र श्री-कृष्णस्य विशेषेण8 तेषां तत्-सन्तोष-नैकपरताम् आह—कृष्णस्य इति । अथ कार्त्स्न्ये । "साधु साधु" इति प्रशशंसुः इति सम्पुर्णस्य नृत्यस्यात्यन्त-साधुत्वम् अभिप्रेतम् । एवम् अन्यतो विशिष्टं तस्य नृत्य-कौशलम् अप्य् उक्तम् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र वैदेशिकयोर् इव नट-वेषेण श्रीदाम-सभायां स-गणम् आगतयोः श्री-कृष्ण-रामयोर् मुख्यत्वेन प्रथमतः श्री-कृष्णस्य नृत्यं वर्णयति—कृष्णस्य इति द्वाभ्याम् । अपरे श्रीदामादयः सभापतयः । अथ कार्त्स्न्येन "साधु साधु" इति प्रशशंसुः, एवम् अन्यतो विशिष्टं तस्य नृत्य-कौशलम् उक्तम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णस्य नृत्यतः कृष्णे नृत्यति सतीत्य् अर्थः ॥१०॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तत्र वैदेशिकयोर् इव नट-वेष श्रीदाम-सदसि स-गणम् आगतयोः श्री-कृष्ण-रामयोः प्राधान्याद् आदौ श्री-कृष्णस्य नृत्यम् आह—कृष्णस्य इति । कृष्णे नृत्यति सतीत्य् अर्थः । रामेऽपीति च बोध्यम् । वेणुभिः पाणि-तलैश् च अपरे श्रीदामादय स-दम्पतयः । अथ कार्त्स्न्ये प्रशशंसुः कुसुमावतंसादि-पारितोषिकं च दद्युर् इति बोध्यम् ॥१०॥
॥ १०.१८.११ ॥
गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणौ ।
ईडिरे कृष्ण-रामौ च नटा इव नटं नृप ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देवाः इन्द्र-वस्व्-आद्य्-अंशैर् अवतीर्णत्वात्, तेषाम्। यद् वा, गोप-जाति-कृष्ण-सखेषु प्रतिच्छन्ना एव नारदादयो भक्तास् तल्-लीलास्वादार्थम् इति । यद् वा, श्री-कृष्णोपासन-पटलादौ तद्वद् उपास्यत्वेन प्रसिद्धा श्रीदाम-वसुदामादय इति समान-महित्वं व्यञ्जितम् । गोपाल-रूपिणम् इति नित्य-योगे इनिः ॥११॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु किं-स्वरूप अमी गोपाः ? इत्य् अपेक्षायाम् आह—गोप**-**इति । देवाः गोप-इति । देवाः श्री-रुद्रादयः, पार्षदाः केवलं गोप-जात्य्ऐव, न तु गुण-लीलादिभिः प्रतिच्छन्नाः । यद् वा, गोप-जातौ प्रतिच्छन्ना लिना, अत्यन्त-गोपत्वं प्राप्ता इत्य् अर्थः । इति भगवत इव तेषां माधुर्यादि-विशेष-प्रकटनम् अभिप्रेतम् । ईडिरे स्तुत्य्-आदिना क्रीडयामासुर् इत्य् अर्थः । अत एव देवयन्ति क्रीडयन्तीति देवा इत्य् उक्तम् । च-कारेण रामस्य तत्र गौणता बोध्यते । अत एव पृथक् पश्चात् तस्य निर्देशः । नटा नटम् इव इति क्रीडायां सर्वथा तेषां तत्-सदृशत्वं सूचितम् । हे नृप ! इति तच् च भवता नटादि-द्वारा ज्ञयत एवेति भावः । यद् वा, तादृश-क्रीडा-कौतुकं दृष्ट्वा भगवदीया देव-विशेषा अपि गोप-रूपा भूत्वा नभःस्था भूमिष्ठा वा प्रहर्षेण स्तुवन्ति स्मेत्य् आह—गोप-इति । ततश् च रङ्गे नटानाम् इव गोप-रूपिनं स्तवार्थं तत्र गोपतया साम्याभिप्रायेण नट-दृष्टान्तः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तत्र श्रीदामादीनां सभापतितया निविष्टानाम् अग्रतः समुत्थाय स्थितान् अन्यान् नट-वेषान् प्रशांसकान् अपि गोपान् प्रशंसनीय-श्री-कृष्णादि-वैशिष्ट्याय प्रशंसति—गोप-इति । देवाः श्री-कृष्णोपसन-पटलादौ तद्वद् उपास्यत्वेन प्रसिद्धाः इति समान-महिमत्वं व्यञ्जितम् । तर्हि कथं ते तादृश-महिमत्वेन न कैश्चित् प्रतीयन्ते ? कथं वा भवद्भिः प्रतीयन्ते ? तत्राह—देवा अपि गोप-जात्यैव प्रतिच्छन्नाः गुणादिभिस् तु स्पष्टाः, अविवेकिनां यत् किञ्चित् साधारण्येन भ्रान्तिर् भवति, न तु विवेकिनां प्रत्युत तादृशेन तादृश-लीलौपयिकेन परम-गुणाविष्कारेण च चमत्कारातिशय एव स्याद् इति भावः ।
ननु, तेषां गोप-जातित्वम् एव कुतः ? तत्राह—गोपाल-रूपिणम् इति नित्य-योगे मत्व्-अर्थीयः, ततस् तद्-अत्यन्ताभीष्टत्वं तस्य रूपस्य दर्शयित्वा, तेषां तद्-अनुरूपत्वम् एवानुरूपम् इति ध्वनितं । एवं समान-रूप-वेषत्वं च व्यक्तं समान-गुणत्वं व्यनक्ति—नटा इव इति। एवम् अन्येष्व् अपि गुणेषु ज्ञेयम् । अतः सर्वथा तद्-योग्यत्वात् देवयन्ति क्रीडयन्ति देवा इति च शेषोक्तिः । हे नृप इति नरोत्तमत्वेन भवतैवेदं ज्ञायत एवेति भावः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रशंसनीय-महिम-द्योतनाय प्रशंसकान् प्रशंसति—गोप-इति । गोपाः श्री-कृष्णोपासन-पटलादौ तद्वद्-उपास्यत्वेन प्रसिद्धाः श्रीदाम-सुदाम-वसुदामादयः इति । समान-महिमत्वं व्यञ्जितम् । तर्हि कथं कैश्चित् तादृश-महिमत्वेन न ते प्रतीयन्ते ? कथं वा भवद्भिः प्रतीयन्ते? तत्राह—देवा अपि गोप-जात्यैव प्रतिच्छन्ना गुणादिभिस् तु स्पष्टाः ।
ननु, तेषां गोप-जातित्वं कुतः ? तत्राह—गोपाल-रूपिणम् इति नित्य-योगे मत्व्-अर्थीयः । ततस् तद्-अत्यन्ताभीष्टत्वं तस्य रूपस्य दर्शयित्वा तेषां तद्-अनुरूपत्वं दर्शितम् ॥११-१५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (कृष्ण-सन्दर्भः ११७) : अत एव—गोप-जाति-प्रतिच्छन्ना इत्य् अत्र साम्यम् एव सूचितम् । अर्थश् च देवाः श्री-कृष्णावरणे मद्-भक्त-पूजाभ्यधिका [११.१९.२१] इति न्यायेन तद्वद् एवोपास्या अपि श्रीदामादयो गोप-जात्या प्रतिच्छन्ना अन्य-गोप-सामान्य-भावेन प्रायस् तादृशतया लक्षयितुम् अशक्याः । तत्र कृष्णं रामं च गोपाल-रूपिणम् इति दृष्टान्त-गर्भे यथा तादृशाव् अपि तौ तद्-रूपिणौ, तथा तेऽपीत्य् अर्थः । अत्र देवा इत्य् अनेन गुण-साम्यं चाभिप्रेतम् इति ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णोपासकैर् भक्तैर् उपास्यत्वाद् आगमादिषु तथा प्रसिद्ध्या च देवाः किन्तु गोप-जात्या प्रतिच्छन्ना इति तेषां देवानाम् अपि गोप-जातित्वम् इत्य् अर्थः । यद् वा, गोप-जातिषु कृष्ण-सखेषु मध्य एव प्रतिच्छन्नाः नर-वेशेन भव-नारदादयो भक्तास् तल्-लीलास्वादार्थम् इत्य् अर्थः । गोपाल-रूपिणम् इति नित्य-योगे इनिः ॥११॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तन्-नृत्य-दर्शनार्थं शिव-नारदादयश् च तत्रागत्य इत्य् आह—गोप-जातिषु कृष्ण-सखेषु तद्-दिवसानागत-गोपाकृति-वेषैः प्रतिच्छन्नाः पिहिता देवा गोपाल-रूपिणं शृङ्ग-वेणु-धरं कृष्णं रामं च ईडिरे तुष्टुवुः । नित्य-योगे इनिः ॥११॥
॥ १०.१८.१२ ॥
भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः ।
चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : काक-पक्षाश् चूडा-करणात् प्राक्तन-केशाः । भ्रामणादि-प्रकारैर् नियुद्धेन बाहु-युद्धेन चिक्रीडतुः ॥१२.१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रिवृत्-कृत-वेणी-धारिणौ कर्णाग्र-लम्बि-वक्रालकाधरौ वा काक-पक्षस् त्रिवृद् वेण्यां मध्य-मुण्डित-केशके इति शब्द-रत्नाकरे । भ्रामणैः मण्डलाकारेण चलनैः । लङ्घनैः राशीकृत-वालुका-पुञ्जोपरि बहून् उल्लङ्घ्य पतनैः । एकं प्रसारित-पादं बालं कराच्छादित-नेत्रं कृत्वा तद्-उपरि-लङ्घनं कृत्वा गच्छति "स च को गतः?" इति पृच्छ्यते यत्र तैर् वा । क्षेपैः आक्षेप-वाक्यैः पाषाण-गोलकादि-प्रक्षेपणैर् वा । आस्फोटनैः एकं हस्तं द्वि-गुणीकृत्य इतरेण पाणिना स्फालन-रूपैः, करतलेन भुज-मूलाघातैर् वा । नियुद्धेन मल्ल-युद्धेन च ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भ्रामणानि यन्त्रादीनाम्, अन्यो\ऽयं वा हस्त-ग्रहणादिना, अन्येषां केशाञ्चिद् वा गोपानां तैः क्षेपाइः क्षेपणैः कन्दुकादीनां भ्रामणवद् वा, आस्फोटनैः करतलाघातादिभिः, विकर्षणैर् आकर्षणैः पाशादीनां तद्वद् वा, नियुद्धेन मल्लवद् वा-युद्धेन । काक-पक्षः केश-गुम्फित-वेणी-त्रयम् इति केचिद् आहुः, क्वचिद् इत्य् अस्य भ्रामणादिभिः सह प्रत्येकम् अन्वयः । यद् वा, शक्ति-विशेषेण युगपद् एवान्यालक्षितं तैस् तैश् चिक्रीडतुर् इति पूर्ववद् ऐश्वर्यं ज्ञेयम् । यद् वा, तैस् तैर् यन् नियुद्धं, ततश् च तद् तद् अर्थी\ऽग्रे रङ्ग-स्थल्यां मल्ल-युद्धे व्यक्तो भावि ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ नृत्य-कौतुकानन्तरं कृतं युद्ध-कौतुकं वर्णयति—अन्योन्यं हस्त-ग्रहणादिना भ्रामणैर् लङ्घनैर् अधो निपात्यारोहणैः क्षेपैः प्रतिविनोदनैः आस्फोटनैः करतलेन भुज-मूलाघातैः विकर्षणैः आकर्षणैः नियुद्धेन बाहु-युद्धेन काक-पक्षः केश-गुम्फित-वेणी-त्रयम् इति केचित् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आस्फोटनैः करतलेन भुज-मूलाघातैः नियुद्धेन बाहु-युद्धेन काकपक्षाश् चूडाकरणात् प्राक्तनाः केशा इति स्वामि-चरणाः । केश-गुम्फित-वेणी-त्रयम् इति केचित् कर्णाग्र-लम्बि-वक्रालका इत्य् अन्ये ॥१२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अथ युद्ध-कौतुकम् आह—भ्रमणैर् इति । मिथो हस्त-ग्रहादिना भ्रामणैः लङ्घनैर् अधो निपात्यारोक्षणैः क्षेपैः प्रतिलोम-विनोदनैः आस्फोटनैः करतलेन भूज-मूलाघातैः विकर्षणैर् आकर्षणैः नियुद्धेन भुज-युद्धेन काक-पक्षः केश-गुम्फित-वेणी-त्रयीत्य् एके, कर्णाग्र-लम्बि-वक्रालका इत्य् अपरे ॥१२॥
॥ १०.१८.१३ ॥
क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।
शशंसतुर् महा-राज साधु साध्व् इति वादिनौ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयं राम-कृस्णाव् इवत्य् अर्थः ॥१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्वं गोपानां श्री-कृष्ण-सन्तोषण-परतोक्ता, इदानीं तयोस् तत्-सन्तोषणपरताम् आह—क्वचिद् इति, स्वयं स्वेच्छयैवेत्य् अर्थः । एवं निर्भर-क्रीडा-रसो दर्शितः । महा-राज हे राज-वर्ग-मध्ये श्री-कृष्ण-भक्ति-विशेषेण परम-श्रेष्टेत्य् अर्थः । अतः परमाद्भुतं तस्य दृशं भक्त-वात्सल्यं भवान् एव श्रोतुम् अर्हतीति भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ नियुद्ध-श्रमानन्तरं कौतुकेन स्वयं नाट्य-गुरूपमाणाभ्यां गानादिकम् अपि कुर्वद्भ्यां श्री-राम-कृष्णाभ्यां प्रशस्यमानानाम् अन्येषाम् अपि नृत्यम् आह—क्वचित् इति । च-कारः पूर्वोक्त-श्री-कृष्ण-नृत्यापेक्षया साधु-साध्व् इति वादिनौ सन्तौ शशंसतुः तत् तद्-गति-विशेषं विशिष्य श्लाघां चक्रतुः एवं निर्भर-क्रीडा-रसो दर्शितः महा-राज ! हे राज-वर्ग-मध्ये श्री-कृष्ण-भक्ति-विशेषेण परम-श्रेष्ठेति भवान् एवेदं श्रोतुम् अर्हतीति भावः । एवं नृत्य-मिश्र-गानानुसारेण क्रम-प्राप्तं तद् अमिश्र-गानम् अप्य् ऊह्यम् इति प्रकरणाभिप्रायः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अथ नियुद्धानन्तरम् उपविष्टाभ्यां कौतुकेन स्वयं नाट्याचार्यायमाणाभ्यां गानादिकं च कुर्वद्भ्यां श्री-राम-कृष्णाभ्यां प्रवेश्यमानानां श्रीदामादीनां नृत्यम् आह—क्वचिद् इति । शशंशतुर् इति रत्न-हारादिकं च ददतुर् इति बोध्यम् ॥१३॥
॥ १०.१८.१४ ॥
बिल्वैः क्वचिद् कुम्भैः क्व चामलक-मुष्टिभिः ।
अस्पृश्य-नेत्र-बन्धाद्यैः क्वचिन् मृग-खगेहया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुम्भैः कुम्भ-वृक्ष-फलैः । अस्पृश्यत्वं नेत्र-बन्धश् च तद्-आद्यैः । मृगाणां स्व-गाणां च चेष्टया ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुम्भो-लूख-लके क्लीबे कौशिको गुग्गुलुः पुमान् इत्य् अमरः । वर्तुलं कुंभ-फलम् । पृष्टतो धावनात् स्प्रष्टुम् अप्य् अशक्यं त्वं मां स्पृशेत्य् उक्त्वा पुरतो लीलया धावति यत्र तद् स्पृश्य-क्रीडनम् । वस्त्रेण नेत्रम् आच्छाद्य मां स्पृशेति निगद्य तं मुक्त्वा पुरतो भ्रमणं नेत्र-बन्ध-लीला । दूरान्तर-प्रदेशे स्थितं वृक्षं लक्ष्यी-कृत्योभाभ्यां प्राग् वृक्ष-स्पर्शी विजयी स्याद् इति क्रीडा धावन-सञ्ज्ञेत्य् आद्य् अपदाद् ग्राह्या । स्पर्शस्यादित्सा चिकीर्षाभ्यां या क्रीडा, तत्र स्प्रष्टुर् जयोऽस्प्रस्प्रष्टुः पराजयः, अलक्षितम् एव पृष्ट-देशम् आसाद्य पाणिभ्यां नेत्र-बन्धकम्, परिचेतुर् जयोऽन्यथा पराजयः । सर्वत्र जय-पराययोर् मुरलीवेत्रादिर् एव ग्लहः ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आद्य-शब्दात् निलायन-सेतु-बन्धादयो द्युत-कुक्कुट-युद्धादयश् च, तथा मध्याह्ने श्री-भगवतो विश्राम-समये गो-रस-विक्रयणादिच्छालेनानति-दूरे सगीतं व्रजन्तीनां श्री-वल्लवीनां वर्त्मराधनद्ध्यादि-कहरणं नैकयोत्तारणादिकञ्च् एत्य्-आदि लोक-प्रसिद्धा ज्ञेयाः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्या अपि युद्धादि-विचित्र-लीलाः सङ्गृह्णाति—क्वचिद् इति त्रिकेण । बिल्वादिभिः कृत्वा याः क्रीडास् ताभिश् चेरतुः एवं लोक-सिद्धाभिर् अन्याभिश् च क्रीडाभिश् चेरतुर् इत्य् अन्वयः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्वचिद् बिल्वैर् इति निक्षिप्यमाणयोर् बिल्व-फलयोः परस्पराघातैः एव कुम्भैः कुम्भ-वृक्ष-फलैः । अस्पृश्येति स्पर्शस्य अदित्सा-चिकीर्षाभ्यां क्रीडा तत्र स्पर्श-कर्तुर् जयः स्पर्श-कर्मणः पराजयः अलक्षितम् एव पृष्ठ-देशम् आसाद्य पाणि-तलाभ्यं नेत्र-बन्धकं परिचिनोति चेत् पराजयः सर्वत्र जय-पराजयोर् मुरली-वेत्रादिर् एव ग्लहः खग-मृगेहयेति, खगाद्य्-आकृतिमतां मिथो-युद्ध-कूजितादिकम् ॥१४.१६॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अन्याश् च युद्धादि-लीला सङ्गृह्नाति क्वचिद् इति त्रिभिः । क्षिप्यमाणयोर् बिल्व-फलयोर् अन्त्योन्याघातोऽयम् आहवः एवं कुम्भैः कुम्भ-तरु-फलैः अस्पृश्येति स्पर्शादित्सा-चिकीर्षाभ्यां क्रीडैकास्पर्श कर्तुं कर्मणोः क्रमेण जय-पराजयौ नेत्र-बन्धेति अलक्षितम् एव पृष्ट-देशम् आसाद्य । कर-तलाभ्यां नेत्र-पिधानम् एका क्रीडा पिधान-कर्तुः परिचये परजयः सर्वत्र जय-पराजययोर् वेणु-वेत्रादिर् एव ग्रहः क्वचित् खगेति खगाद्य्-आकृतिमतां मिथो युद्ध-कूजितादि-रूपैका क्रीडा चिक्रीडतुर् इति सम्बन्धः । एवं परत्र ॥१४॥
॥ १०.१८.१५ ॥
क्वचिच् च दर्दुर-प्लावैर् विविधैर् उपहासकैः ।
कदाचित् स्यन्दोलिकया कर्हिचिन् नृप-चेष्टया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दर्दुर-प्लावैर् मण्डूक-प्लुतिभिः । स्पृन्दोलिकया कोलालम्बनेन । नृपाणाम् इव लीलया ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कदाचित् श्रावण-शुक्ल-तृतीयम् आरभ्येत्य् अर्थः । नृप-चेष्टया दान-घट्टे नृपस्य् एव चेष्टा घट्टकरजि-वृक्षाया व्रज-बाला-निरोधस् तया । उपहासकैः—शृणु भो अहं ते पितास्मि त्वं श्यालोसीत्य् एवम् आकारकैर् हास्य-जनकैर् वचनैः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपहासकैर् हास्यजनकैः विचित्रानुकरणादिभिः क्वचिद् इति द्विरावर्तनीयं नृपचेष्टया गिरिशिला-सिंहासनासन-कौसुमच्छत्र-चमरादि-परिच्छदत्व-पात्र-पुरःसरत्वादिमय्या ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी, जीव-गोस्वामी क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदाचित् श्रावण-शुक्ल-तृतीयाम् आरभ्य स्यन्दोलिकया दोलान्दोलनेन नृप-चेष्टया दान-घट्ट-प्रदेशे नृपस्येव चेष्टा घट्ट-कर जिघृक्षया व्रज-बालानिरोधस् तया ॥१५॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : दुर्दुराणाम् इव प्लावैर् निर्झराणां कूर्दनैः उपहासकैर् हास्य-जनकैः विचित्रानुकरणादिभिः कदाचित् श्रावण-शुक्ल-तृतीयाम् आरभ्य स्पन्दोलिकया दोलान्दोलनेन नृप-चेष्टया गिरि-शिला-सिंहासनाधिष्ठान-कौसुम-च्छत्र-चामरादि-परिच्छदत्वं पात्र-पुरःसरत्वादि-रूपया ॥१५॥
॥ १०.१८.१६ ॥
एवं तौ लोक-सिद्धाभिः क्रीडाभिश् चेरतुर् वने ।
नद्य्-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नद्योऽद्रि-द्रोण्यः कुञ्जानि च एतेषु ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-विधया । तौ राम-कृष्णौ । द्रोणी निम्न-सानुस्थलम् । यद् वा, द्रोण्योऽद्रि-सन्धयः
काष्ठागारेम्बु-वाहिन्यां शैल-सन्धौ च योषिति । > द्रोणी न स्त्री मान-भेदे द्रोणः काके कृपापतौ ॥ इति त्रिकाण्ड-शेषात् > ।
अन्तर्-लता-निबद्धो मण्डपः कुञ्जः, निकुञ्ज-कुञ्जौ वा क्लीबे लतादि-पिहितोदरे इत्य् अमरः ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपहासकैर् हास्य-जनकैर् विचित्र-बहु-रूप-धारण-विविधानुकरणादिभिर् लोकेषु प्रसिद्धाभिर् वर्तमानाभिर् वा, यावत्यो लोकेषु सन्ति, ताभिर् एव सर्वाभिर् इत्य् अतः किं तत्-तत्-संज्ञादि-विशेष-वर्णनेनेति भावः । वने श्री-वृन्दावने, काननेषु तद् इतरेषु तद् अन्तर्गतेषु वा काम्य-करणादिषु, तत्र तयोर् विहार-वेश-विशेषश् चोक्तः श्री-हरि-वंशे—
चारयन्तौ विवृद्धानि गोधनानि शुभाननौ । > स्फीत-शस्य-प्ररूढानि वीक्षमाणौ वनानि च ॥ > क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान् । > नामभिर् व्याहरन्तौ च सवत्सा गाः परन्तपौ ॥ > निर्योग-पाशैर् आसक्तैः स्कन्धाभ्यां शुभ-लक्षणै । > वन-माला-कुलोर् अस्कौ बाल-शृङ्गा-विवर्षभौ ॥ > सुवर्णाञ्चन्-चूर्णाभावन्योन्य-सदृशाम्बरौ । > महेन्द्रा-युध-संसक्तौ कृष्ण-शुक्लादि-वाम्बुदौ ॥ > कुशाग्र-कुसुमानां च कर्ण-पूरौ मनोरमौ । > वन-मार्गेषु कुर्वाणौ वन्य-वेशधरावुभौ ॥ [ह।वं। २.१४.२-६] > ॥ इति ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नद्यः अद्रयः द्रोण्यश् चाद्रिसन्धयः
काष्ठागारेम्बु-वाहिन्यां शैल-सन्धौ च योषिति । > द्रोणी न स्त्री मान-भेदे द्रोणः काके कृपापतौ ॥ इति त्रिकाण्ड-शेषात् > ।
वने श्री-वृन्दावने काननेषु तद् अन्तर्गतेषु काम्यक-वनादिषु तत्र तयोर् विहारो वेष-विशेषश् चोक्तः श्री-हरि-वंशे—
चारयन्तौ विवृद्धानि गोधनानि शुभाननौ । > स्फीत-शस्य-प्ररूढानि वीक्षमाणौ वनानि च ॥ > क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान् । > नामभिर् व्याहरन्तौ च सवत्सा गाः परन्तपौ ॥ > निर्योग-पाशैर् आसक्तैः स्कन्धाभ्यां शुभ-लक्षणै । > वन-माला-कुलोर् अस्कौ बाल-शृङ्गा-विवर्षभौ ॥ > सुवर्णाञ्चन्-चूर्णाभावन्योन्य-सदृशाम्बरौ । > महेन्द्रा-युध-संसक्तौ कृष्ण-शुक्लादि-वाम्बुदौ ॥ > कुशाग्र-कुसुमानां च कर्ण-पूरौ मनोरमौ । > वन-मार्गेषु कुर्वाणौ वन्य-वेशधरावुभौ ॥ [ह।वं। २.१४.२-६] > ॥ इति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : द्रोण्यश् चाद्रि-सन्ध्यः ह्रस्वान्तत्वं विचार्यं काननेषु अन्तर्-वनेषु ॥१६.२०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्रोण्यश् चाद्रि-सन्धयः ॥१६॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अद्रीणां द्रोणयः सन्धयः । एषा लीला सर्वेश्वरस्य हरेः स्व-समान-गुणैर् भक्तैः सह माधुर्य-प्रधानायां वृन्दाटव्यां प्रादुर्भवन्ती परितोषैक-हेतुर् वैकुण्ठादि-धामस्व् ऐश्वर्य-प्रधानेषु तु दुर्लभा निखिलोर्वी-पतेर् उग्र-शासनस्यापि क्वचिद् अतिरम्ये विजने पञ्चषैर् मित्रैः सहोच्चावचाक्रीडाति-सुखैक-हेतुर् दृश्यते । अन्यथाङ्गेषु जीर्यमाणाः कला वैमनस्याय स्युः ॥१६॥
॥ १०.१८.१७ ॥
पशूंश् चारयतोर् गोपैस् तद्-वने राम-कृष्णयोः ।
गोप-रूपी प्रलम्बो \ऽगाद् असुरस् तज्-जिहीर्षया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : चारयतोः सतोः तद्-वने तस्मिन् वने । तयोर् जिहीर्षया ॥१७.१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोप-रूपी यः कश्चिद् गोपस् तद् दिने किञ्चित् कृत्यार्थं गृहे स्थितस् तद् रूपधारी । तयोः राम-कृष्णयोः ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परमैश्वर्य विशेष-गर्भां मधुर-मधुरां लौकिकीं लिलाम् उक्त्वा अधुना श्री-बलराम-द्वारा विहितां प्रकटैश्वर्याम् अलौकिकीम् आह—पशून् इत्य्-आदिना । गोपैः सह तद् वने श्री-वृन्दावने, कृष्णस्यादौ निर्देशः, सर्वत्र तस्यैव प्राधान्यात्, विशेषतश् चात्र प्रलब-वधे तस्यैव प्रयोजकत्वात् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परमैश्वर्य-विशेष-गर्भा मधुर-मधुरां लौकिक-लीलाम् उक्ताधुना श्री-बलदेव-द्वारा विहितां प्रकटैश्वर्याम् अलौकिकीम् आह—पशून् इत्य्-आदिना । यः को\ऽपि गोपस् तद् दिने गृहे तिष्ठन् तद् रूपीत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चारयतोः सतोः गोप-रूपी यः कोऽपि गोपस् तद्-दिने किञ्चित् कृत्यार्थं गृहे स्थितस् तद्-रूप-धारी तयोर् जिहीर्षया ॥१७॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : चारयतोः सतोः गोप-रूपीति तद्-वासरे यः कश्चिद् गोपः किञ्चित् कार्यानुरोधात् वेश्मनि स्थितस्य रूपं बिभ्रत् तयोर् जिहीर्षया ॥१७॥
॥ १०.१८.१८ ॥
तं विद्वान् अपि दाशार्हो भगवान् सर्व-दर्शनः ।
अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् प्रलम्बम् । तत्-सख्यम् प्रलम्ब-सख्यम् । अन्वमोदत स्वीचकार । तस्य प्रलम्बस्य । दाशर्ह इति । प्रलम्ब-बक-चानूर [भा।पु।१०.२.१] इत्य्-आदिना यदु-कुल-कदने मुख्यतया निर्दिष्टस्य प्रलम्बस्य वधेन यदु-कुल-हितापेक्षया । तद्-वेदने हेतुः सर्व-दर्शनः सर्वज्ञः । चिन्तयन् अनेन प्रकारेण घातयिष्यामीति चिन्तयन् ॥१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दाशार्हः श्री-यदु-कुलाब्धि-चन्द्र इति भ्रातृतया श्री-बलदेवस्य कीर्ति-विस्तारणे हेतुर् उद्दिष्टः । यद् वा, प्रलम्ब-बक-चाणूर [भा।पु।१०.२.१] इत्य्-आदिना यदु-कुल-कदने मुख्यतयादौ निर्दिष्टस्य प्रलम्बस्य वधेन यदु-कुल-हित-विशेषापेक्षया सर्वं पश्यति साक्षात् करोतीति । किं वा, सर्वेषां दरानं ज्ञान यस्मात् । यद् वा, सर्वाणि दर्शनानि शास्त्राणि वैशेषिकादीनि वा षट्, यस्मिन् तात्पर्यतो वर्तन्त इति सः । यतो भगवान् साक्षात् परमेश्वरः । अतस् तं विद्वान् जानन्न् अपि विशेषेण चिन्तयन् अग्रजस्य कीर्ति-विस्तारणाय तम् अस्य स्कन्धम् आरुह्य तेनायं घातयितव्यः । तद्-अर्थं च वाह्य वाहक-क्रीडायां कार्यायाम् इमम् आत्म-पक्षे कृत्वा स्वयम् अहं पराजितो भूत्वैनम् अपि पराजितं कारयिष्यामीत्य्-आदिकं भवयन्, एवं सर्व-दर्शन इत्य् अस्यात्रैव वान्वयः, यत एवं कृते एवं भविष्यतीत्य् आदिकं सर्वम् एव जानातीत्य् अर्थः । अतस् तेन अगन्तुकेन दुर्बुद्धिनापि दैत्येन सख्यम् अन्वमोदत—अन्यथा श्री-बलदेवस्य सुखाद् उत्तुङ्ग-स्कन्धाधिरोहणासिद्धेः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दाशऋह इति प्रलम्ब-बक-चाणूर [भा।पु।१०.२.१] इत्य्-आदिना यदु-कुलकदने मुख्यतयादौ निर्दिष्टस्य प्रलम्बस्य बधेन यदु-कुल-हित-विशेषापेक्षया तद् वेदने हेतुः सर्व-दर्शनः सर्वज्ञः यतो भगवान् विचिन्तयन् वक्ष्यमाण-प्रकारेण विचारयन् तस्य सख्यं सख्युः कर्म चेष्टाम् इति यावत् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विचिन्तयन् अनेनैव प्रकारेण सङ्घातयिष्यामीति चिन्तया निश्चिन्वन् ॥१८.१९॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : दाशार्हः कृष्णः तस्य वधं विचिन्तयन्न् इति अनेन विधिनैनं घातयिष्यामीति चिन्तया निश्चिन्वन् ॥१८.१९॥
॥ १०.१८.१९ ॥
तत्रोपहूय गोपालान् कृष्णः प्राह विहार-वित् ।
हे गोपा विहरिष्यामो द्वन्द्वी-भूय यथा-यथम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा-यथं वयो-बलाद्य्-अनुरूपं द्वन्द्वी-भूय ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तदा ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तद् वधे निमित्ते तद् वने वा, प्रकर्षेणाह—प्रलम्बस्यापि मनोरमत्वात्, विहार-वित्—द्वन्द-क्रीडयैवाग्रजस्य सुखं प्रलम्ब-स्कन्धाधि-रोहणं भवतीति क्रीडा-प्रकारं वेत्तीत्य् अर्थः । यद् वा, वाह्य-वाहक-लक्षण-विविध-क्रीडा-प्रकाराभिज्ञः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तद् वधे निमित्ते प्रकर्षेणाह—प्रलम्बस्यापि मनोरमत्वात् विहार-वित् यतः स एव तत्र सर्वज्ञोऽभिज्ञ इत्य् अर्थः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी, बलदेव-विद्याभूषणः वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१८.२० ॥
तत्र चक्रुः परिवृढौ गोपा राम-जनार्दनौ ।
कृष्ण-सङ्घट्टिनः केचिद् आसन् रामस्य चापरे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : परिवृढौ नायकौ । तत्र केचन कृष्ण-सङ्घट्टिनः कृष्ण-पक्षीयाः ॥२०.२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र बिहारे । प्रभुः परिवृढोऽधिपः इत्य् अमः ॥२०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र द्वन्द्व-विहारे गोपाश् चक्रुर् इति सहज-विनयादि-साद्-गुण्येन स्वयं ताभ्यां तद् अभवनात्, जनार्दनं इति जनं दुष्ट-मर्दयतीति प्रलम्ब-घातनस्य । किं वा, जनैः सेवकैर् अद्यते याच्यत इति परिवृडतार्थं गोपानां प्रार्थनस्याभि-प्रायेण, कृष्ण-सखीनाम् आदौ निर्देशः, कृष्ण-प्रियत्वेन सर्वेषां प्राक् तत्-पक्षे भवनात्, अपरे श्री-कृष्णेगिताभिज्ञास् तत्-प्रीत्य् एक-परास् तत्-प्रियतमाः श्री-दाम-वृषम् आदयः, यथा श्री-हरि-वंशोक्त-जल-क्रीडायां स्व-सुताः श्री-बल-राम-पक्षे तत्-सुताश् चात्म-पक्षे तेन कृता इति ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपा इति सत्य् अपि सख्य-सामान्ये वर्ग-भेदेन तयोः पृथक्-पृथक् तद् विशेषवतां तेषाम् असङ्कोचातिशयवत् क्रीडा-रसाय वैपरीत्येन परिवृढौ चक्रुः एवम् एव च तयोर् मिथः प्रणयो\ऽपि विवृत्तः स्यात् यथा हरि-वंशोक्त-जल-क्रीडायां स्वसुता श्री-बल-राम-पक्षे तत् सुताश् चात्म-पक्षे तेन कृताः अतः श्री-दामादयो राम-सङ्घट्टिनो जाताः रामेति रमणाभिप्रायेण जनार्दनेति तत् तत् क्रीडाभिः स्व-मनोरथ-पुरकतया सर्वैर् याच्यमानत्वाभिप्रायेण ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिवृढौ नायकौ कृष्णस्य सङ्घट्टो यूथः, तद्-गताः ॥२०॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : परिवृढौ नायकौ कृष्णस्य सङ्घट्टे यूथः, तद्-वर्तिनः ॥२०॥
॥ १०.१८.२१ ॥
आचेरुर् विविधाः क्रीडा वाह्य-वाहक-लक्षणाः ।
यत्रारोहन्ति9 जेतारो वहन्ति च पराजिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र यस्यां क्रीडायाम् । जेतारः पिहित-फलादि-ज्ञानावन्त आरोहन्ति निज-प्रतिद्वन्द्वि-गोपं वाहनत्वे कल्पयति । पराजिताः पिहित-फलाद्य् अज्ञानवन्तो वहन्ति वाहनानि भवन्तीत्य् अर्थः ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विविधा हरिणाक्रीडनाख्यादयः, तथा च श्री-विष्णु-पुराणे—
हरिणाक्रीडणं नाम बाल-क्रीडनकं ततः ॥ > प्रक्रीडिता हि ते सर्वे दौ द्वौ युगपद् उत्पतन् ॥ [वि।पु। ५.९.१२] > इति,
बाह्य-वाहक-लक्षणत्वम् एवाह—यत्रेति ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विविधाः हरिणा क्रीडनाख्यादयः तथा च श्री-विष्णु-पुराणे—
हरिणा क्रीडनं नाम बल-क्रीडनकं ततः । > प्रकीडिता हि ते सर्वे द्वौ द्वौ युगपद् उत्पतन् ॥ [वि।पु। ५.९.१२] > इति ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किन्तु बाह्य-वाहक-लक्षणाः अस्यार्थं विवृणोति—यत्रेति । तेन स्पर्श-खेलायां राम-सङ्घट्टिनां मध्ये कोऽपि कृष्ण-सङ्घट्टिनां कम् अपि यदि स्पृशति तदा राम-सङ्घट्टिनः सर्व एव पराजिता यथा-यथं वहन्ति । एवं जयन्ति चेत् कृष्ण-सङ्घट्टिनस् तान् राम-सङ्घट्टिनो वहन्ति । एवम् एव नेत्र-बन्धादि-खेलायाम् अपि ॥२१॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : वाह्य-वाहक-क्रीडार्थं विवृणोति—यत्रेति । स्पर्श-वेलायां राम-सङ्घट्टिनां मध्ये चेत् कोऽपि कृष्ण-सङ्घट्टिनां कम् अपि स्पृशति तदा राम-सङ्घट्टिनः सर्वेऽपि जयिनः आरोहन्ति तान् कृष्ण-सङ्ग्ःअट्टिनः सर्वेऽपि पराजिता यथा-यथं वहन्ति कृष्ण-सङ्घट्टिनश् चेज् जयन्ति तान् राम-सङ्घट्टिनो वहन्तीति ॥२१॥
॥ १०.१८.२२ ॥
वहन्तो वाह्यमानाश् च चारयन्तश् च गो-धनम् ।
भाण्डीरकं नाम वटं जग्मुः कृष्ण-पुरोगमाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वाह्यमानाः पृष्ठे नोह्यमानाः ॥२२.२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वहन्तः धारयन्तः । भाण्डरीवटोऽवरोहण-स्थानत्वेन कल्पित इत्य् अर्थः । तथारोहण-स्थानम् अपि तत्-समीपवर्त्य् एव ज्ञेयम् । स च वटो हरि-वंशे वर्णितः ।
ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् ॥ > स्थितं धरण्यां मेघाभं निविडं दल-सञ्चयैः । > गगनार्धोच्छ्रिताकारं पर्वताभोग-धारिणम् ॥ > नील-चित्राङ्ग-वर्णैश् च सेवितं बहुभिः खगैः । > फलैः प्रवालैश् च घनैः सेन्द्र-चाप-घनोपमम् ॥ > भवनाकार-विटपं लता-पुष्प-सुमण्डितम् । > विशाल-मूलावनतं पवनाम्भोद-धारिणम् ॥ > आधिपत्यम् इवान्येषां तस्य देशस्य शाखिनाम् । > कुर्वाणं शुभ-कर्माणं निरावर्षम् अनातपम् ॥ > न्यग्रोधं पर्वताग्राभं भाण्डीरं नाम नामतः ॥ [ह।वं। > २.११.१८-२२] इति ॥२२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वाह्यमाना ऊह्यमानाः पृष्ठाद्य् आरूडाश् च अपि गो-धनम् अपि चारयन्तः, संज्ञायां कः, भाण्डोरं नाम भाण्डीराख्यम् इत्य् अर्थः । यद् वा, नाम्नैव वटं तत्त्वतस् तु सर्व-वृक्ष-क्र्म-श्रेष्ठं कल्प-द्रुमम् इत्य् अर्थः । स च वर्णितं श्री-हरि-वंशे—
ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् ॥ > स्थितं धरण्यां मेघाभं निविडं दल-सञ्चयैः । > गगनार्धोच्छ्रिताकारं पर्वताभोग-धारिणम् ॥ > नील-चित्राङ्ग-वर्णैश् च सेवितं बहुभिः खगैः । > फलैः प्रवालैश् च घनैः सेन्द्र-चाप-घनोपमम् ॥ > भवनाकार-विटपं लता-पुष्प-सुमण्डितम् । > विशाल-मूलावनतं पवनाम्भोद-धारिणम् ॥ > आधिपत्यम् इवान्येषां तस्य देशस्य शाखिनाम् । > कुर्वाणं शुभ-कर्माणं निरावर्षम् अनातपम् ॥ > न्यग्रोधं पर्वताग्राभं भाण्डीरं नाम नामतः ॥ [ह।वं। > २.११.१८-२२] इति ।
तत्र गमनं सुप्रसिद्धं तत्-स्थानिग्रज-कीर्ति-विस्तारणाय । किं वा, निदाघे तद् विस्तीर्ण-शितलच्छायां सुख-क्रीडार्थम् । यद् वा, स्वप्रियस्य भाण्डीरस्यैव माहात्म्यार्थम्, अत एव कृष्णः सर्वाकर्षको भगवान् पुरोगमो\ऽग्रगामी येषां ते ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बाह्यमाना ऊह्यमानाः स्कन्धारूढाः भाण्डीरकम् इति सञ्ज्ञायां कन् नाम प्रसिद्धौ स च वर्णितः श्री-हरि-वंशे—
ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् ॥ > स्थितं धरण्यां मेघाभं निविडं दल-सञ्चयैः । > गगनार्धोच्छ्रिताकारं पर्वताभोग-धारिणम् ॥ > नील-चित्राङ्ग-वर्णैश् च सेवितं बहुभिः खगैः । > फलैः प्रवालैश् च घनैः सेन्द्र-चाप-घनोपमम् ॥ > भवनाकार-विटपं लता-पुष्प-सुमण्डितम् । > विशाल-मूलावनतं पवनाम्भोद-धारिणम् ॥ > आधिपत्यम् इवान्येषां तस्य देशस्य शाखिनाम् । > कुर्वाणं शुभ-कर्माणं निरावर्षम् अनातपम् ॥ > न्यग्रोधं पर्वताग्राभं भाण्डीरं नाम नामतः ॥ [ह।वं। > २.११.१८-२२] इति ।
तत्र गमनं निदाघ-क्रीडौचित्यात् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वाह्यमाना ऊह्यमानाः ॥२२.३२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भाण्डीरकं वटं जग्मुर् इति स एव वटो ऽवरोहणस्थानकल्पित इत्य् अर्थः । तथैवारोहन-स्थलम् अपि तत् समीपवर्ति ज्ञेयम् ॥२२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : भाण्डीरकम् इति सञ्ज्ञाया कन् स एवादरोहण-स्थानं कल्पितः आरोहण-स्थानन्तु तद् अन्तिक-वर्ति बोध्यम् ॥२२.२३॥
॥ १०.१८.२३ ॥
राम-सङ्घट्टिनो यर्हि10 श्रीदाम-वृषभादयः ।
क्रीडायां जयिनस् तांस् तान् ऊहुः कृष्णादयो नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तांस् तान् श्रीदामादीन् ॥२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वहन्तो बाह्यमानाश् चेति पूर्वं सर्वेषां मिथो जय-पराजयाव् उद्दिष्टौ, अधुना च भाण्डीरे श्री-बल-देवस्य प्रलम्ब-स्कन्धारोहणार्थं श्री-कृष्णेच्छया तत्-पक्षीयाणां पराजयं वदन् राम-पक्षीयाणाम् एव जयम् आह—द्वाभ्याम् । आदि-शब्दात् सुबलादयार्भका इति बाल्य-क्रीडायाः स्वभाव एवासाव् इति भावः । नृपेति पाठे भक्तवश्यतातिशयेन परम-विस्मयात् तत्-सम्बोधनम् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यर्हि ये ये श्रीदाम-वृषभादयः क्रीडायां जयिनो बभूवुस् तर्हि तांस् तान् कृष्णादय उहुर् इत्य् अन्वयः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी, बलदेव-विद्याभूषणः वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१८.२४ ॥
उवाह कृष्णो भगवान् श्रीदामानं पराजितः ।
वृषभं भद्रसेनस् तु प्रलम्बो रोहिणी-सुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उवाह कृष्ण इह वत्ययो ज्ञेय उवाह कृष्णं श्रीदामा [ह।वं। ?] इत्य्-आदि-हरिवंशादि-विरोधात् । व्यत्ययाभावे का हानिः ? अत आह—बहु-मान-विरोधे तु व्यत्यासः शब्दतोऽर्थतः इति शब्दस्यार्थस्य च विरोधे व्यत्यासो न दोषायेत्य् अर्थः ॥२४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् भक्त-वश्यतादि-गुण प्रदर्शक इत्य् अर्थः । यद् वा, ननु श्रीदामा कुतस् तद् असहत ? तत्राह—भगवान् परम-कौतुकी इत्य् अर्थः । किं च, कृष्णो निज-प्राणेश्वरः, तत्-कौतुक-सिद्धये तत्-प्रीत्य्-एकापेक्षयेति भावः । रोहिण्याः सुतम् इति तत् सुतत्वेन तस्य श्री-कृष्णेन सह भेदं मत्वा तयोर् अन्योन्य-स्नेहाद्य्-अविमर्षेण हर्तुम् अवहद् इति भावः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् इति युष्माकं यो भगवान् सोऽस्माकं व्रज-वासिभिः पराजित इति नर्म च व्यञ्जितं । रोहिण्याः सुतम् इति तेन तत्-प्रभावाज्ञानस्यापेक्षया ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः : न व्याख्यातम्**।**
बृहत्-क्रम-सन्दर्भः, उवाह कृष्णो भगवान् श्रीदामानं पराजितः । भक्त-वात्सल्य-लीलेयं यद्-भक्तेषु स्वयम् अपराजितोऽपि पराजितो भवति । अथवा, भगवान् कृष्णः स्तोक-कृष्णः तस्य भगवत्-सखित्वम् एव, न तु भगवत्त्वम् ॥२४.३२॥
विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : भगवान् इति भवतां भगवान् अस्माकं व्रज-वासिभिः पराजित इति नर्म व्यज्यते ॥२४॥
॥ १०.१८.२५ ॥
अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः ।
वहन् द्रुततरं प्रागाद् अवरोहणतः परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण-दृष्टि-वञ्चनाय अवरुह्यतेऽस्मिन्न् इत्य् अवरोहणं मर्यादा, ततः परं दूरम् अगात् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अविषह्यं योद्धुम् अशक्यम् । यद् वा, कृष्णम् अविषह्यं वोढुम् अशक्यं मत्वा रामं वहन्न् अगाद् इति सम्बन्धः ॥२५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तथापि कंस-मुख्यारिं श्री-कृष्णं हर्तुं कथम् अयं नाचेष्टेनं ? इत्य् आशङ्क्याह—अविषह्यम् इति । अत एव कृष्ण-पक्षीयो भूत्वा बलदेवं वहन् सत्, यतो मानवेषु पुङ्गवो बलादिनातिश्रेष्ठः । यद् वा, श्री-बलदेव-करणकः तद्-वधार्थं श्री-कृष्णएच्छयैव बलदेवं वहन्, अवरोहणतो\ऽवतारण-सीमातः परं परतः प्रकर्षेणावैकल्यादिना गता, तथा च विष्णु-पुराणे—
ते वाहयन्तस् त्व् अन्योन्यं भाण्डीर-स्कन्धम् एत्य वै । > पुनर् निवर्तिताः सर्वे ये ये पूर्वं पराजिताः ॥ > सङ्कर्षणं तु स्कन्धेन शीघ्रम् उत्क्षिप्य दानवः । > न तस्थौ प्रजगामैव स-चन्द्र इव वारिदः ॥[वि।पु। ५.८.१५-१६] > ॥ इति ।
तत्र हेतुः—अविषह्यम् इति । श्री-कृष्णस्य दृष्टि-गोचरे किञ्चिद् अस्य कर्तुं न शक्ष्यामीति चिन्तयन्न् इत्य् अर्थः । दानव-पुङ्गवो\ऽपि, तथापि द्वयोर् जिहीर्षया गतस्यापि तस्य केवल-श्री-बलदेव-हरणे स एव हेतुर् अनुसन्धेयः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तथापि कंसस्य मुख्यारिं श्री-कृष्णं हर्तुं कथम् अयं नाचेष्टत? इत्य् आह—अविषह्यम् इति । श्री-राम-द्वारा मारयितुं श्री-कृष्णेन तत्-तेज आवृत्य स्व-तेजस आविष्कृतेः । अत एव कृष्ण-पक्षियो भूत्वा बलदेवं वहन् सन् यतो दानवेषु पुङ्गवः बलादिना श्रेष्ठः अवरोहणतः भाण्डीर-स्कन्धात् । तथा च, श्री-विष्णु-पुराणे—
ते वाहयन्तस् त्व् अन्योन्यं भाण्डीर-स्कन्धम् एत्य वै । > पुनर् निवर्तिता सर्वे ये ये पूर्वं पराजिताः ॥ > सङ्कर्षणं तु स्कन्धेन शीघ्रम् उत्क्षिप्य दानवः । > न तस्थौ प्रजगामैव स चन्द्रः इव वारिदः ॥[वि।पु। > ५.८.१५-१६] ॥ इति ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, जीव-गोस्वामी बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णम् अविषह्यं मन्यमान इत्य् अत एव रामं हर्तु-मनाः कृष्ण-पक्षीयो ऽभूद् इति भावः । अवरुह्यते ऽस्मिन्न् इत्य् अवरोहणं मर्यादा-स्थनम्, कृष्ण-दृष्टि-वञ्चनाय ततः परम् अपि प्रागात् ॥२५॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : कृष्णम् अविषह्यं मन्यमान इति रामं हर्तु-कामः कृष्ण-सङ्घट्टी बभूवेति भावः । रामं वहन्न् अवरोहणतः परं प्रागात् अवरुह्यते अत्रेत्य् अवरोहणं भाण्डीरा-पिण्डीका, ततः गमनं कृष्ण-दृष्टि-वञ्चनार्थम् ॥२५॥
॥ १०.१८.२६ ॥
तम् उद्वहन् धरणि-धरेन्द्र-गौरवं
महासुरो विगत-रयो निजं वपुः ।
स आस्थितः पुरट-परिच्छदो बभौ
तडिद्-द्युमान् उडुपति-वाड् इवाम्बुदः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धरणि-धरेन्द्रवद् गौरवं यस्य तन् निजम् आसुरं वपुर् आस्थितः । पुरट-परिच्छदः सुवर्णालङ्कारः, तडिद्-द्युमान् विद्युद्-दीप्तिमान् इत्य् अलङ्कारोपमा । उडुपति-वाड् इति रामोपमा । उडुपतिं वहतीत्य् उडुपति-वाट् । यदि यथोचित-स्थानेषु स्थिता विद्युतो भवन्त्य् उपरि चोडुपतिः, तदा सोऽम्बुदो यथा भाति, तद्वद् बभाव् इत्य् अर्थः ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धरणि-धरेन्द्रः सुमेरुः । पुरटो नग-राटे स्यात् क्लीबं हेम्न्य् अग्रगे शुनि इति धरणिः । द्युमता सूर्येण वात्र पक्षेऽभूतोपमा ज्ञेया ॥२६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धरणी-धरेन्द्रः सुमेरुः, तस्माद् अपि गौरवं भारो यस्य, तादृशत्वं स्वभावतो दैत्य-ज्ञानेन तदानीं तत्-प्रकटनाद् वा, उद्वहन् किञ्चिद् उच्छ्वासार्थं पृष्ठात् स्कन्धम् आरोप्योच्चैर् वहन् । किं वा, आकाश-मार्गेण वहन् स प्रलम्ब-महासुरो\ऽपि विगतो नष्टो रयो वेगो यस्य सः, अत एव निजं सहजम् आसुरं वपुर् आस्थितः, तथा च तत्रैव—
असहन् रोहिणेयस्य स भारं दानवोत्तमः ।11 > ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥[वि।पु। ५.९.१७] इति ।
अम्बुदोपमया तस्य श्यामो वर्णो ध्वनितः ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धरणि-धरेन्द्रः सुमेरुः, तस्माद् अपि गौरवं भारो यस्य सीमातिक्रमे जाति विहस्य विस्मित्य विशङ्क्य च क्रमेण भारातिरेक-प्रकटनात् उत् उच्चैः स्कन्धे वहन्न् इत्य् अर्थः । स महासुरोऽपि अत एव निजम् आसुरं वपुर्-आस्थितः तथा च तत्रैव—
असहन् रोहिणेयस्य स भारं दानवोत्तमः । > ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥[वि।पु। ५.९.१७] इति > ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं उत्कट-बलतयैव वहन् यतो धरणि-धरेन्द्रः सुमेरुः तद्वत् गौरवं यस्य तं, तस्य सीमातिरिक्त गमन-दर्शनेन विस्मित्य स्वभाराधिक्य-प्रकटनात् । ततश् च वोढुम् असामर्थ्याद् एव विगत-वेगः । ततश् च तेन वपुषा स्व-महा-पराक्रमं अमितम् आलक्ष्य स निजं वपुर् आस्थितः बभौ, पुरट-परिच्छदः सुवर्णालङ्कारवान्, अम्बुदस् तडिद्-द्युति-द्युमान् उडुपतिं वहतीति सः । अत्रासुरस्याम्बुद उपमा, स्वर्णालङ्कारस्य तडिद्-द्युतिः, बलदेवस्योडुपतिः ॥२६॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : स महासुरः प्रलम्बः पौढवलतयैव तं अवरोहणतः परगमने सति धरणि-धरेण्द्रस्य सुमेरोर् इव गौरवत् यस्य तं प्रकाशितैश्वर्यं वोढुं असामर्थ्याद् एव विगत-रयः क्षीण-वेगः ततश् च तेन वपुषा तत्-पराक्रम-महान्तम् आज्ञाय निजम् आसुरं वपुर् आस्थितो बभौ । पुरट-परिच्छदः कनक-भूषण-धरः अम्बुदस् तडिद्-अद्युतिमान् उडूपतिं चन्द्रं वहतीति सः अत्र प्रलम्बस्याम्बुदः पुरट-परिच्छदस्य तडिद्-द्युतिः बलदेवस्योडुपतिर् उपमानम् ॥२६॥
॥ १०.१८.२७ ॥
निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत्
प्रदीप्त-दृग् भ्रु-कुटि-तटोग्र-दंष्ट्रकम् ।
ज्वलच्-छिखं कटक-किरीट-कुण्डल-
त्विषाद्भुतं हलधर ईषद् अत्रसत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अलम् अतिवेगेन । प्रदीप्ते दृशौ यस्मिन् वपुषि, तत् । भ्रु-कुटि-तट-सल्लग्ना उग्रा दंष्ट्रा यस्मिंस् तत् । प्रदीप्त-दृक् भ्रु-कुटि-तटं यस्मिन्, उग्रा दंष्ट्रा यस्मिंस् तच् च तच् चेति वा । ज्वलन्त्यः शिखाः केशा यस्मिंस् तत् ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्व-समासे दंष्ट्राणां भ्रुकुटि-सल्लग्नत्वासम्भवात् समासान्तरम् आह—प्रदीप्ते इत्य्-आदि । भ्रुवोर् मध्ये तु कुटि-भ्रुकुटिर् भ्रूकुटिः स्त्रियाम् इति शब्द-रत्ने । अत्रसत् उद्विविजे ॥२७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कटकादीनां पुरट-मयानां त्विषा अद्भुतं देदीप्यमानम् इत्य् अर्थः। यद् वा, कटकादि-त्विषा विशिष्टम् अद्भुतं विस्मयावहम् अलौकिकत्वात्, सहसा तथा-भूतत्वाच् च ईषद् अत्रसत्, बाल्य-क्रीडा-कौतुकात् । यद् वा, महा-दैत्य-वपुस् तं निरीक्ष्य अपि श्री-कृष्णात् किञ्चिच् छङ्काम् अवाप, दैत्यास्यापि गोप-रूपत्वेन वधायोग्यत्वाद् इत्य् अर्थः । यद् वा, एतादृशं सखि-वृन्दे अपरं दानवम् अशक्यं स्नेहेन कृष्णं प्रत्य् अनिष्ट-शङ्कया ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईषद् अत्रसत् बाल्य-क्रीडावेशेनेति पूर्व-पूर्ववत् ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अलम् अतिवेगेन प्रदीप्ते दृशौ यस्मिन् भ्रुकुटी-तट-सल्लग्ना उग्रा दंष्ट्रा यस्मिंस् तच् च तच् च तद्-वपुर् निरीक्ष्य ईषद् अत्र सद् इति साक्षात् परमात्मानोऽपि तस्य त्रासोऽयं तद्-ऐश्वर्य-ज्ञानस्य कृष्णेनैव स्व-योग-मायया आवरणात् तत्राम्बुदाकारम् असुर-वपुर् एतत् तथा वर्धतां यथा मद्-अग्रज-वपुश् चन्द्र-प्रदेश एवोत्तिष्ठेद् इति कृष्णस्य कौतुक-दिदृक्षैव कारणम्, तद्-ऐश्वर्य-ज्ञानावरणे तु असुर-वपुः-प्राकट्यारम्भ एव । "नायं गोपः, किन्त्व् असुर एव" इति विदुषा बलदेवेन सद्यस् तद्-वधे तत्-कौतुकं न सिद्ध्येद् इति ज्ञेयम् ॥२७॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : प्रदिप्ते दृशौ नेत्रे यत्र **भ्रुकुटि-तट-**सल्लग्नाः उग्रा दंष्ट्रा, यत्र तच् च तच् च तद्-वपुर् निरीक्ष्य हलधरो बल ईषद् अत्रसत् बाल्य-क्रीडावेषाद् एव त्रासाभासत्वम् अकरोत् । धरणि-धरेन्द्र-गौरवम् इति प्राग् उक्तेः ॥२७॥
॥ १०.१८.२८ ॥
अथागत-स्मृतिर् अभयो रिपुं बलो
विहाय सार्थम् इव हरन्तम् आत्मनः ।
रुषाहनच् छिरसि दृढेन मुष्टिना
सुराधिपो गिरिम् इव वज्र-रंहसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आगत-स्मृतिर् अभय इवात्मनः सार्थं गोप-समूहं विहाय हरन्तं रिपुम् अहनत् । यद् वा, विहाय-साकाश-मार्गेणात्मनः प्राप्तम् अर्थम् इव हरन्तम् इति । वज्र-रंहसा वज्र-वेगेन मुष्टिना ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ श्री-कृष्णाकृत-बोधानन्तरम् । आगत-स्मृतिः ज्ञात-निज-वैभवः । बलं गृहीत्वा, प्रलम्ब-धावने बलदेवेन कृष्णः प्रार्थितः स च तं न त्वं प्राकृतो बालः किं तु साक्षाद् अनन्तोऽसीति बोधितवान् इति हरि-वंशाद् अवसेयम् । अभय-शब्देनेवशब्द-सम्बन्धे श्री-कृष्ण-बोधितस्याप्य् अनीशतैवाविर्भवत्य् अतः प्रकारान्तरेण योजयन्न् आह—यद्वेति । मुष्टिर् द्वयोः स्यात् साङ्गुष्ठे करे सङ्कुचिताङ्गुलौ इति धरणि-धरः ॥२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथान्तरम् इति—
किम् अयं मानुषो भावो व्यक्तम् एवावलम्ब्यते । > सर्वात्मन् सर्व-गुह्यानां गुह्य-गुह्यात्मना त्वया ॥[वि।पु। ५.९.२३]
इत्य्-आदिकात् श्री-विष्णु-पुराणाद्य् उक्तात् तं प्रति श्री-कृष्णस्य वचनात् सद्य एवागता स्मृतिर् दैत्य-वधार्थं निजावतार-प्रयोजन-स्मरणं यस्य सः । यद् वा, पश्चाद् आगता स्मृतिः श्री-कृष्णस्य पूतना वत्सासुर-वधानुसन्धानं ज्ञेयम् । तृतीये च आगता स्मृतिर् मत् कीर्त्यर्थम् एव मद् धस्तेनैतद्-वधार्थं तेनैवम् अनुष्ठितम् अस्तीत्य्-आदि ज्ञानं यस्येति, अतो**\ऽभयो**\ऽपगत-शङ्कः सन्न् अथवा निरीक्ष्यापि ईषद् अप्य् अत्रसत् किम् ? काक्वा, नैवेत्य् अर्थः । तत्र हेतुम् आह—आगत-स्मृतिर् अतिरोहित-ज्ञानः, अथ अतो\ऽभयः । अन्यत् समानम् । दृष्टान्तो मुष्टेर्दाप्य् ए\ऽवैयर्थ्ये च गिरिणा सह दैत्यस्योपमा, पुरा पक्ष-सद्-भावेन गिरीणाम् अम्बरोत्पतनकठिन-तरङ्गत्वाद्य् अपेक्षया ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानन्तरम् इति—
किम् अयं मानुषो भावो व्यक्तम् एवावलम्ब्यते । > सर्वात्मन् सर्व-गुह्यानां गुह्य-गुह्यात्मना त्वया ॥[वि।पु। ५.९.२३]
इत्य्-आदिकात् श्री-विष्णु-पुराणाद्य् उक्तात् तं प्रति श्री-कृष्णस्य वचनात् सद्य एव्आगता स्मृतिः दैत्य-वधार्थ-निजावतार-प्रयोजनं यस्य सः बलो मुष्टिना रिपुम् अहनत् अहन् कः केन कम् इव मुराधिपो वज्र-रंहसा गिरिम् इव ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लब्धाभीष्टः कृष्णः साग्रजे बिभ्यति सति तत्र पुनर् ऐश्वर्य-ज्ञानं सहसैवार्पयामासेत्य् आह—अथ आगत-स्मृतिर् इति ।
किम् अयं मानुषो भावो व्यक्तम् एवाबलम्ब्यते । > सर्वात्मन् सर्व-गुह्यानां गुह्यं गुह्यात्मना त्वया ॥[वि।पु। ५.९.२३]
इति विष्णुपुराणोक्त-कृष्ण-वाक्याल् लब्ध-निजैश्वर्य-ज्ञानः । विहायसा अकाश-मार्गेण । आत्मनः प्राप्तम् अर्थं धनं हरन्तम् इव रिपुं मुष्टिना अहनत् । कः केन कम् इव ? सुराधिपो वज्र-रंहसा गिरिम् इव ॥२८॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अथानन्तरं जगता लुप्ता स्मृतिर् यस्य सोऽगत-स्मृतिः वैष्णवे तु कृष्ण-बाक्याद् आगत-स्मृतिर् इत्य् उक्तः, स बलभद्रो दुष्ट-वधार्थं स्वाविर्भावं विजानन्न् इत्य् अर्थः । मुष्टिना रिपुम् अहन्, कः केन कम् इव ? तत्राह—सुराधिपो वज्र-रंहसा गिरिम् इवेति रिपुं कीदृशं विहायसा नभो-मार्गेण्आत्मनः प्राप्तम् अर्थं धनं हरन्तम् इव ॥२८॥
॥ १०.१८.२९ ॥
स आहतः सपदि विशीर्ण-मस्तको
मुखाद् वमन् रुधिरम् अपस्मृतो \ऽसुरः ।
महा-रवं व्यसुर् अपतत् समीरयन्
गिरिर् यथा मघवत आयुधाहतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपस्मृतो गत-स्मृतिः । महा-रवं समीरयन् ॥२९.३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सः प्रलम्बः । आयुधाहतो वज्राहतः ॥२९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अप्स्मृतो मोहितः । किं वा, अपस्मार-व्याधिनेवाति-व्याकुलः सन्न् इत्य् अर्थः । महा-कायस्य तस्य सद्यो गगनात् पतनादौ दृष्टान्तः-गिरिर् यथेति । आयुधेन वज्रेणाहतः प्रहतः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपस्मृत इति अपस्मार-व्याधिनेवाति-व्याकुलः सन्न् इत्य् अर्थः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपस्मृतः गत-स्मृतिः अपस्मार-व्याधि-ग्रस्त इवेत्य् अर्थः । महा-रवं समीरयन् ॥२९.३०॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सोऽसुरोऽपस्मृतोऽपस्मार रोह-ग्रस्तवत् स्मृति-शून्यः । महा-रवं घोर-शब्दं समीरयन् व्यसुर् निष्प्राणः सन् अपतत् ॥२९॥
॥ १०.१८.३० ॥
दृष्ट्वा प्रलम्बं निहतं बलेन बल-शालिना ।
गोपाः सुविस्मिता आसन् साधु साध्व् इति वादिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बलेन शालते दीव्यतीति बशाली बलदेवः । एकार्थकौ बलशालि-बलदेव-शब्दौ पर्यायौ । बलेनौजसा कालिन्दी-भेदनो बलः इत्य् अमरोक्तेर् बल-शब्दस् तु साक्षाद् एव तद् वाचकोस्ति, यदीत्थं तदा बलशालीति विशेषणम् ॥३०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बल-शालिना बलवतेति तन् महा-बलिष्ठ-दैत्य-श्रेष्ठ-वधेन लोकेषु तत्-बल-विशेषाभिव्यक्ते, तथा च श्री-हरि-वंशे—
बलं तु बलदेवस्य तदा भुवि जना विदुः । > प्रलम्बे निहिते दैत्ये देवैर् अपि दुरासदे ॥[ह।वं। २.१४.५८] इति > ।
सुविस्मिताः सन्तः तत्-कपट-गोप-वेषादिनाः । यद् वा, श्री-कृष्णस्य शक्त्यैवायं मया हत इत्य् एवं तस्य बलं शालितुं श्लाघितुं शीलम् अस्येति तथा तेन, एवं तस्य भक्ति-भरेण सुविस्मिताः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बल-शालिनेति तत् प्रभृति-बल-विचेष्टाभिव्यक्तेः । तथा च श्री-हरि-वंशे—
बलं तु बलदेवस्य तदा भुवि जना विदुः । > प्रलम्बे निहिते दैत्ये देवैर् अपि दुरासदे ॥[ह।वं। २.१४.५८] इति > ।
सुविस्मिताः सन्तः तत् कपट-गोप-वेषादिना ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : विस्मितास् तच्-छद्म-गोप-वेशादिना ॥३०॥
॥ १०.१८.३१ ॥
आशिषो \ऽभिगृणन्तस् तं प्रशशंसुस् तद्-अर्हणम् ।
प्रेत्यागतम् इवालिङ्ग्य प्रेम-विह्वल-चेतसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-अर्हणं प्रशंसार्हम् ॥३१.३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं बलम् ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आशिष इत्थं द्वयोर् भ्रात्रोर् युवयोर् मिथः, प्रीतिर् आस्ताम्, चिरं व्रजे सानुजः सुखं विहरन्न् अस्मान् पाहि, सर्वत्र विजयी भव, नित्यं धनवान् पुत्रादिमान् सुखी सपरिवारो भवेत्य्-आदि-प्रकाराः, अभितो गृणन्तः प्रयोजयन्त इत्य् अर्थः । तद् अर्हणम् आशिरादि-योग्यम् । यद् वा, तेषां तस्यार्हणम् उचितं यथा स्यात्, तत्र तत्र सर्वत्रैव हेतुः—प्रेमेति ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आशिष इत्थं चिरं सानुजः सुखं विहरन्न् अस्मान् पाहीत्य्-आदि-प्रकाराः अभि अभितः तत्र तत्र सर्वत्रैव हेतुः प्रेमेति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अर्हणं प्रशंसार्हम् ॥३१.३२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : आशिषोऽभिगृणन्त इति एवम् एव सानुजः सुखं विक्रीडन्न् अस्मान् पाहीत्य् एव प्रकाराः प्रकाशयन्त इत्य् अर्थः । तद्-अर्हणं प्रशंसा-योग्यम् ॥३१॥
॥ १०.१८.३२ ॥
पापे प्रलम्बे निहते देवाः परम-निर्वृताः ।
अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्व् इति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : माल्यैः पुष्पैः । अत्र श्रुतिः—
विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । > असत उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत इन्द्रियाय ॥ इति ।
अर्थः—हे सोम ते तव मध्वो ब्रह्म-स्वरूपिणः अंशुर् इवांशुः अंशः पृथिव्याः धरुणः भूमेर् धर्ता राम-रूप-धारीति शेषः । ते त्वया असतः अन्तर्यामिणा प्रबोधितो दीप्यमानोऽत एव उत्सस् त्वद् आज्ञा-करणे उत्कण्ठितः । नियुत्वान् जगतः प्राण-रूपी सूत्रात्मा सन् गृणते आत्मनः स्वरूपं त्वद्-वाक्याद् अवगतं भावयति । अहं परमेश्वराद् अनन्योऽस्मि देव-कार्यार्थम् अवतीर्णो\ऽस्मीत्य् आलोचयतीत्य् अर्थः । ततो हेतोर् दिवः द्युलोक-मण्डपस्य विष्टम्भः स्तम्भा इव बचन्ते ते । विष्टम्भः क्विब्-अन्तस्येदं द्वितीया-बहुवचनम् । अत्युच्छ्रितान् प्रलम्बादीन् बहुत्वं विभूत्य्-अर्थे । इन्द्रियाय तद् वधेन स्वईयं वीर्यं प्रदर्शयितुं पवते गच्छति । किम् अस्यायुधं तद् आह—विश्व इति । सर्वाः क्षितयः नाशा-साधनानि आयुधानि अस्य हस्ते एव सन्ति अतो मुष्टि-मात्रेण तं जघानेत्य् अर्थः । विष्णोः सर्व-देवतामयत्वाद् अत्र सोम-रूपेणैवास्य स्तुतिर् ज्ञेया एवम् अन्यत्रापीति ॥३२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न केवलं त एव सन्तुष्टा बभूवुः, देवा अपि सर्वे परमानन्दं प्राप्ता इत्य् आह—पाप इति । परम-दुष्टे जगद् उपद्रावक इत्य् अर्थः । नितरां हते अपुनर् आवृत्तिम् उक्ति-प्राप्ते, तथा च द्वितीय-स्कन्धे—
ये च प्रलम्ब-खर-दर्दुर-केश्य्-अरिष्ट- > मल्लेभ-कंस-यवनाः कुज-पौण्ड्रकाद्याः । > अन्ये च शाल्व-कपि-बल्वल-दन्तवक्त्र- > सप्तोक्ष-शम्बर-विदूरथ-रुक्मि-मुख्याः ॥ > ये वा मृधे समिति-शालिन आत्त-चापाः > काम्बोज-मत्स्य-कुरु-सृञ्जय-कैकयाद्याः । > यास्यन्त्य् अदर्शनम् अलं बल-पार्थ-भीम- > व्याजाह्वयेन हरिणा निलयं तदीयम् ॥[भा।पु। २.७.३५-३५] इति ।
अनयोर् अथः—ये प्रलम्बादयस् ते सर्वे हरिणा प्राण-हरेण हेतु-भूतेन, तदीयं तेषां हितं योग्यं वा, अलम् अदर्शनम् अपुनर् आवृत्ति-लक्षणम्, अत एव निलयम् अत्यन्ताभाव-रूपं मोक्ष्यं प्राप्स्यन्ति, तत्र जन्म-त्रयेण मुनि-शापान्ते प्राप्त-वैकुण्ठ-लोको दैत्यत्वापेक्षया तथा श्री-भूम्यां श्री-भगवज् जातो नरकः, श्री-रुक्मिणी-भ्राता रुक्मी, पाण्डव-मित्र-मत्य-राज-विराटदयश् च, तत् तत्-सम्बन्धेन प्राप्त-वैकुण्ठ-लोका अपि संसार-दुःख-द्वंस-मात्रापेक्षयैकत्रोक्ताः । यद् वा, प्रलम्बादयो\ऽलम् अदर्शनम् अपुनर् आवृत्ति-मोक्षं दन्तवक्त्रादयश् च ते तदीयं निलयं श्री-वैकुण्ठ-लोकं यास्यन्तीति विवेचनीयम् इति ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं त एव सन्तुष्टा बभूवुः देवा अपि परमानन्दं प्राप्ता इत्य् आह—पाप इति । परम-दुष्टे जगद् उपद्रावक इत्य् अर्थः । नितरां हते अपुनर् आवृति-मुक्ति-प्राप्तेः । तथा च द्वितीय-स्कन्धे—
ये च प्रलम्ब-खर-दर्दुर-केश्य्-अरिष्ट- > मल्लेभ-कंस-यवनाः कुज-पौण्ड्रकाद्याः । > अन्ये च शाल्व-कपि-बल्वल-दन्तवक्त्र- > सप्तोक्ष-शम्बर-विदूरथ-रुक्मि-मुख्याः ॥ > ये वा मृधे समिति-शालिन आत्त-चापाः > काम्बोज-मत्स्य-कुरु-सृञ्जय-कैकयाद्याः । > यास्यन्त्य् अदर्शनम् अलं बल-पार्थ-भीम- > व्याजाह्वयेन हरिणा निलयं तदीयम् ॥[भा।पु। २.७.३५-३५] इति ।
तत्र केचिद् अमल-दर्शनो ब्रह्म-सायुज्ञादि केचित् तन् निलयम् इति विवेचनीयम् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
इति सारार्थ-दर्शिन्यां हर्षिणां भक्त-चेतसाम् ।
दशमेऽष्टादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : देवाश् च तं तुष्टुवुर् इत्य् आह—पापे इति । अतिदुष्टे जगद् उद्वेजके इत्य् अर्थः ॥३२॥
नाग-मूर्धसु तुङ्गेषु नर्तित्वा मधुसूदनः ।
प्रलम्ब-स्कन्धम् अत्युच्चं बलम् आरोहयत् प्रभुः ॥
इति श्रीमद्-भागवते मःआ-पुराणे पारमहंस्यां संहितायां दशम-स्कन्धे
पुर्वार्धे प्रलम्ब-वधो नामाष्टादशोऽध्यायः ।
॥ १०.१८ ॥
(१०.१९)