१७

कालियस्य यमुना-ह्रदे निवासस्य कारण-वर्णनं ह्रदान् निर्गतेन श्री-कृष्णेन व्रजौकसां दावानलाद् रक्षणम् ।

॥ १०.१७.१ ॥

श्री-राजोवाच—

नागालयं रमणकं कथं तत्याज कालियः ।
कृतं किं वा, सुपर्णस्य तेनैकेनासमञ्जसम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

नागं सप्तदशे नागा लयं तं निरयापयत् ।

बन्धून् स्व-दुःखतः श्रान्तान् सुप्तांस् तत्र दवाद् अपात् ॥

असमञ्जसम् अप्रियम् ॥१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं नागं कालियम् । निरयापयत् निष्कासितवान् । तत्र कालिन्दी-तटे । दवात् वनाग्नेः ।*। समञ्जसम् प्रियम् प्रिये योग्ये समञ्जसम् इति कोशात् । तद् भिन्नम् असमञ्जसम् ॥१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवतः स्वस्थतां महा-दुष्टे\ऽपि कारुण्य-विस्तारणं चाकर्ण्य स्वस्थः प्रीतमनाः सन् श्री-वृन्दावन-यमुनाश्रयेन कालियस्य तस्मिन् हृअदे श्री-गरुडाद् भयम् अपगतम्, अन्येन वा केनापि हेतुम् इति तथा तादृश-महा-तीर्थे तस्य दुष्टस्य निवासे को हेतुर् इति च विज्ञातुं कथान्तरे वौत्सुक्येन तत् पूर्व-वृत्तं पृच्छति—नागेति । नागानाम् आलयं स्वभावतः सदा सर्प-वर्ग-वसति-स्थानम्, न तु गरुढस्येत्य् अर्थः । अतो बहवो नागास् तत्र1 निवसन्त्य् एवेति भावः । तत् कस्मात् कारणाद् इति, श्री-वृन्दावन-यमुनाश्रयणार्थं किं वान्येन केनापि हेतुनेत्य् अर्थः ।

ननु, यद् भयाद् इति तत् सूचितम् एव, तर्हि श्री-गरुडात् सर्वेषाम् एव नागानां साधारण्येन स्वतो भये वर्तमाने\ऽपि विशेषतस् तस्यैकस्य भयो किं कारणम् इति पृच्छति कृतम् इति । वा-शब्दः कटाक्षे, तत् कथयेति शेषः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभीष्ट-लीला-सिद्ध्या श्री-भगवतस् तद् अभुदय-दर्शनेन श्री-व्रजस्य च स्वस्थताम् आकर्ण्यं स्वस्थः प्रीतमणाः सन् कथा-मध्य एव कथा-सौष्ठवाय तत् पूर्व-वृत्तं पृच्छति—नागेति । नागानाम् आलयं स्वभावतः सर्प-वर्गस्य वसति-स्थानं न तु गरुडस्येत्य् अर्थः । अतो बहवो नागस् तत्रान्ये निवसन्त्येवेति भावः ।

ननु, यद् भयाद् इति तत् सूचितम् एव तत्राह कृतं किम् इति वा-शब्दः कटाक्षे ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-भगवतो व्रजस्य च स्वस्थताम् आकर्ण्य स्वस्थः कथा-मध्यतः एव तत्-सौष्ठवाय पृच्छति—नागेति ॥१.५॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

तार्क्ष्याद् भीतिः कालियस्य तार्क्ष्ये सौभरि-शाप-वाक् ।

कृष्णाप्तिर् गोदुहान्दावात् त्राणं सप्त-दशोऽभवत् ॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

कालियस्य भयं तार्क्ष्याच् छापोक्तिस् तत्र सौभरेः ।

हर्य्-आप्तिर् गोदुहां दावाद्रक्षा सप्तदशेऽभवत् ॥

असमञ्जसं अप्रियम् ॥१॥


॥ १०.१७.२ ॥

श्री-शुक उवाच—

उपहार्यै सर्पप्जनैर् मासि मासीह यो बलिः ।
वानस्पत्यो महाबाहो नागनां प्राङ् निरूपितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपहार्यैर् भक्ष्यैः । सर्प-जनैः सर्पायतैर् जनैः । वानस्पत्यो वनस्-पतेर् मूले देयो नागानां तद्-बाधा-परिहाराय यो बलिर् निरूपित उपकल्पितः ॥२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बलि-रुपहारः बलिः पूजोपहारयोः इति विश्वः । हे महा-बाहो इति । यथा महा-राजस्य पराक्रमेण वैरिणोऽपि राजानो बलिं हरन्तीति भावः । सर्पायत्ता जनाः सर्प-जनाः । शाक-पार्थिवादिर् अयम् । तद् बाधा नाग-बाधा तन् निवृत्तये । यद् वा, वानस्पत्येऽमायां प्रतिमासं सर्पभीनिवृत्त्य् अर्थं सर्वे लोकास् तेभ्यो बलिं ददतीत्य् अर्थः । वनस्पति गतः सोमो यत्र स वानस्पत्यो दर्शः

अमायाम् उडुराजो हि सदा याति वनस्पतिम् । > वानस्पत्यं ततस् तस्या नाम वै प्रोच्यते बुधैः ॥

इति कोशात् । उपहार्यैः सर्प-भक्ष्य-भूतैस् तत्-पूजकैर् वा ॥२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपेति त्रिकम् । हे महाबाहो ! इति यथा भवतो महा-राजस्य पराक्रमेण वैरिणेऽपि राजानो बलिम् उपहरन्तीति भावः ॥२॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपेति त्रिकम् । उपहार्यैर् इति तैर् व्यञ्चितम् । यद् वा, उपहार्यैर् बलि-दान-योग्यैः सर्पाणां जनैः सेवकैः कृत्वा तद् वरेत्य् अर्थः । इह नागालये वानस्पत्यः फल-मूलादि-निर्मितो यो बहिर् नागानां नागौः कर्तृभिः प्राक् प्रथमं निरूपितो दातुं निश्चितः । हे महा-बाहो, इति यथा भवतो महा-राजस्य पराक्रमेण वैरिणो\ऽपि राजानो बहिम् उपहरन्तीति भावः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपहार्यैः भक्ष्यत्वेनोपहारीक्रियमाणैः सर्प-रूपैर् जनैः वानस्पत्यः वनस्पते मुले देयः नागानां नागैर् गरुडात्स्व-बाधा—परिहाराय निरुपितः उपकल्पितः ॥२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उपहार्यैर् गरुडस्य भक्ष्यैः सर्परूपैर् जनै कर्तृभिर् यो वलिर् नागानां गरुडाद् बाधापरिहाराय प्राक् निरूपित आसीत् । वानस्पत्यो वनस्पतेर् मूले देयः ॥२॥


॥ १०.१७.३ ॥

स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि ।
गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ते च नागाः स्वं स्वं भागं जनैर् दत्तं सुपर्णाय प्रयच्छन्ति ततो भीताः । गोपीथाय रक्षणाय ॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पर्वणि-पर्वणि दर्शेदर्शेऽवसरेऽवसरे वा

पर्व वलीबे महे ग्रन्तौ प्रस्तावे लक्षणान्तरे । > दर्श-प्रतिपदोः सन्धौ विषुवत्-प्रभृतिष्व् अपि ॥ इति मेदिनी ।

ततः सुपर्णात्महात्मने बलवत्तराय ॥३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पर्वणि पर्वणि प्रतिदर्शनम्, महात्मने अपरिच्छिन्न-शक्तय इत्य् अर्थः, अयं भाग—प्रदाने हेतुः । यद् वा, महाशयाय फलादि-बलि-प्रदान-मात्रेणैव सहज-विरिष्व् अपि सन्तुष्टायेत्य् अर्थः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पर्वणि पर्वणि प्रति पञ्चदश्यन्तं महात्मने अपरिच्छिन्न-शक्तय इत्य् अर्थः । अयं भाग-प्रदाने हेतुः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र सर्वे नागास् तं स्वं-स्वं भागं प्रयच्छन्ति पर्वणि पर्वणि प्रतिपञ्चदश्यन्तं गोपीथाय रक्षणाय किन्तु कालियस् तु तं न प्रयच्छति प्रत्युतान्यैर् दत्तम् अपि स्वयम् एव बभुजे ॥३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्र सर्वे नागाः पर्वणि पर्वणि प्रतिपक्ष-दश्यन्तं, गरुडाय स्वं स्वं भागं प्रयच्छन्ति किम् अर्थम् ? आत्मनो गोपीथाय रक्षणाय ॥३॥


॥ १०.१७.४ ॥

विष-वीर्य-मदाविष्टः काद्रवेयस् तु कालियः ।
कदर्थी-कृत्य गरुडं स्वयम् तं बुभुजे बलिम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विष-वीर्याभ्यां यो मदस् तेनाविष्टः । काद्रवेयः कद्रू-पुत्रः । गरुड कदर्थी-कृत्य अविगणय्य । यद् वा, उपहार्यैः सुपर्ण-भक्ष्यैः सर्पा एव जनास् तैर् नागानां सम्बन्धी यस्मिन्न् एकैको नागो दीयते तथा-भूतो यो बलिः सुपर्णाय निरूपितस् तत्र स्वं स्वं भागं सर्वे नागाः प्रयच्छन्ति, कालियस् तु न प्रयच्छति, किन्त्व् अन्यैर् दत्तम् अपि तं बलिं स्वयम् एव बुभुजे ॥४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शास्त्रान्तर-सम्मत्या क्लिष्ट-कल्पनया च पूर्व-व्याख्यानम् असम्मतम् इव महत्वाह—यद् वेति । पुराण्तरे—एकैकं हि ददुर्-नागं नागास् तार्क्ष्याय रक्षया इत्य् उक्तेः तत्र तेषु ॥४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पश्चाद् विष-वीर्याभ्यां महद् आविष्टः सन् कद्रावेय इति भ्रातृत्वं च मदे हेत्वन्तरं ज्ञेयम्, कदर्थी-कृत्य तद् अनादरेण तदीयेभ्यो बलाद्-ग्रहणेनैव वा ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पश्चात् विष-वीर्याभ्यां मद् आविष्टः सन् काद्रवेय इति भ्रातृत्वं च मदे हेत्वन्तरं ज्ञेयम् । कदर्थी-कृत्य तद् अनादरेण तच् छ्रुत्वेति वक्ष्यमाणात् तदीयेभ्यो बलाद् ग्रहणेनैव वा, कदर्थी-कृत्य स्वयं तु स्वयम् एव ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदर्थी-कृत्य अनादृत्य ॥४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कालियस् तु न प्रयच्छति प्रत्युत अन्यैर् दत्तं बलिं भुङ्क्ते कदर्थी-कृत्य अवज्ञाय ॥४॥


॥ १०.१७.५ ॥

तच् छ्रुत्वा कुपितो राजन् भगवान् भगवत्-प्रियः ।
विजिघांसुर् महा-वेगः कालियं समुपाद्रवत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् निज-बलि-भक्षणम् । भगवत्-प्रियः गरुडः । विजिघांसुः हन्तुकामः । हे राजन्न् इति । बलि-प्रद-राज-विप्रतिपत्त्या भवदादिवद् इति भावः ॥५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे राजन्न् इति चक्रवर्तिनो बलि-प्रद-राज-विप्रति-पत्त्या कोपो भवतीति भवता ज्ञायत एवेति भावः । यद् वा, राजमानः कोपेन तेजोभर-प्राकट्यात् स्वतो वा विद्योतमानः यतो भगवान् सर्व-शक्ति-युक्तः भगवतः प्रियश् च पार्षद-प्रवर इत्य् अर्थः। सम्यङ्-मारणोद्योततया समीप एव वेगेनागच्छत् । तत्र हेतुः—महा-वेगो\ऽपरिच्छिन्न-जव इति ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे राजन्न् इति बलि-प्रद-राज-विप्रतिपत्या भवद् आदिवद् इति भावः । यतो भगवान् सर्व-शक्ति-युक्तः भगवतः प्रियश् च पार्षद-प्रवर इत्य् अर्थः । अतो भगवद्वद् दृष्ट-निग्रहपरतया महा-वेगः सन् सम्यक् मारणोद्यततया समीप एवागच्छत् तस्य तुच्छत्वेऽपि धार्ष्त्यात् ताम् असत्वेन भगवद् अनादर-स्वभावत्वाच् चेति भावः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रत्य-कर्णै जप-सर्प-मुखात् तत् श्रुत्वा ॥५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तच् छ्रुत्वा सूचकात् सर्पात् ॥५॥


॥ १०.१७.६ ॥

तम् आपतन्तं तरसा विषायुधः

प्रत्यभ्ययाद् उत्थित-नैक-मस्तकः ।

दद्भिः सुपर्णं व्यदशद् दद्-आयुधः

कराल-जिह्वोच्छ्वसितोग्र-लोचनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विषम् एव्आयुधं यस्य सः । प्रत्यभ्ययाद् योद्धुं प्रतिजगाम् । उच्छ्रित-नैक-मस्तक उन्नमितानेक-फणः । दद्-आयुधो दन्तायुधः । कराल-जिह्वश् चासाव् उच्छ्वसितोग्र-लोचनश् च उच्छ्वसितान्य् उज्जृम्भितान्य् उग्राणि लोचनानि यस्य सः ॥६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् निजबलि-भक्षणम् । भगवत् प्रियः गरुडः । विजिघांसुः हन्तुकामः । हे राजन्न् इति । बलि-प्रदराज-विप्रतिपत्त्या भवदादिवद् इति भावः ।

तम् गरुडम् ॥६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विषायुध इति शास्त्रान्तर-राहित्यं परम-मारकत्वं चोक्तम् । दन्ता विषमयत्वेनायुधानि प्रहरणानि यस्य, कराला दुर्विषमयतया स्पर्श-मात्रेण हिंसिका जिह्वा यस्य, उच्च्वसितानि प्रसारितानि उग्राणि दृष्टि-मात्रेण भस्मीकराणि लोचनानि यस्य स च स च । एभिर् विशेषणैः परम-दुर्जयत्वं तथा श्री-गरुडे विषस्य दन्ताघातादीनाम् अप्य् अकिञ्चित्करत्वाद् विष-वीर्यम् अदस्य व्यर्थत्वं च सूचितम् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विषायुधः दूराद् एव फूत्कारादिना तन् मोचकः सन् प्रत्यभ्ययात् निकटे तु ददायुधस् सन् व्यदशत् कराला दुर्विषमतया स्पर्श-मात्रेण हिंसिका जिह्वा यस्य उच्छ्वसितानि प्रसारितानि उग्राणि दृष्टि-मात्रेण भस्मीकराणि लोचनानि यस्य स च स च ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विषायुधः फुत्कारादिना दूरात् ददायुधो निकटात् ॥६.७॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विषायुधः दूरात् फूत्कारेण तन् मोचकः निकटे तु ददायुधो व्यदशत् कराला जिह्वा यस्य उद्भूतं श्वसितं यस्य उग्राणि लोचनानि यस्य स च स च सः ॥६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विषायुधो दूराद् विषाणि फूत्कारेण वर्षत् अन्तिके तु ददायुधो व्यदशत्कराला जिह्वा यस्य उद्भूतं स्वसितं यस्य उग्राणि लोचनानि यस्य स च स च स च सः ॥६॥


॥ १०.१७.७ ॥

तं तार्क्ष्य-पुत्रः स निरस्य मन्युमान्

प्रचण्ड-वेगो मधुसूदनासनः ।

पक्षेण सव्येन हिरण्य-रोचिषा

जघान कद्रू-सुतम् उग्र-विक्रमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तार्क्ष्य-पुत्रो गरुडः । मधुसूदनस्यासनं यस्मिन् सः ॥७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तार्क्षौ गरुड-कश्यपौ इत्य् अमरः । तम् कालियम् । सव्येन दक्षिणे वामेनवा सव्यं दक्षिण-वामयोः इति वैजयन्ति ॥७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तार्क्ष्यस्य श्री-कश्यपस्य महा-मुनेः पुत्र इति महा-प्रभावः सूचितः । कालियस्यापि तत्-पुत्रत्वे श्री-मधुसूदनाभक्तत्वात् तादृश-प्रभावाभावेन तद् अपुत्रत्वम् एवेति भावः । स महा-बल-वीर्यत्वादिना श्री-भगवत् पार्षदाग्र्यत्वेन वा प्रसिद्धः, तत्रापि मन्युमान तद् अपराधेन जात-मन्युः, अतः प्रचण्डः परम-दुःसहो वेगो जवो\ऽपि यस्य । यद् वा, स्वभावत एव प्रचण्ड-वेगः, अत एव मधु-नाम प्रसिद्धादि-दैत्य-हन्तुर् आसनं यस्मिन् सः, अत एव उग्रः असह्यो विक्रमः पराक्रमो यस्य सः, यथेष्टं वा विशेषणानाम् एषां हेतु-हेतुमद् अभाव इति, इति महा-गुणा उक्ताः, सौन्दर्यमयी हिरणावद् रोचिः कान्तिर् यस्य तेन, अनेन महा-काठिन्यं च सूचितम् । यद् वा, अग्नि-प्रभाभीतानां सर्पाणाम् अग्नि-तुल्यवर्ण-स्वर्ण-रोचिषा भय-प्रदत्व एवोक्तम् । सव्येनेत्य् अवहेलां बोधयति । कद्रु-सुतम् इति सहज-पूर्व-वैरं दर्शितम्, अतस् तं निरस्य पराजित्यापि सुदूरे क्षिप्त्वापि वा, जघान प्राहरत् । यद् वा, पक्षेण जघानैव, न तु मारयामासेत्य् अर्थ हेतुः—कद्रु-सुतम् इति, भ्रातृत्वेन कद्रुमान्यतापेक्ष्यता वेति भावः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तृक्षो मरीचिः ततः शिवादित्वाद् अदन्ताद् अप्य् अण् ततस् तद् अनन्तरापत्तस्य तार्क्ष्यस्य श्री-कश्यपस्य महामुनेः पुत्र-जन्मना तत् प्रभाव-सञ्चारः सूचितः"तार्क्षी"ति वा पाठे गर्गादिभ्योयं इति गोत्रापत्य् अविवक्षया गरुत्मान् गरुडस् तार्क्ष्य इत्य् अपि उच्यते । स च कालियस् तु कियान् इति स्वाभाविक-विशेषान्तरपि आह—मध्व् इति । कालिये तु तादृश-स्वभावे मातुर् एव गुण-सञ्चारः इत्य् आह—कद्रू-सुतम् इति । श्री-गरुडस्य सौन्दर्यम् अपि आह—हिरण्येति सवेनेति अवहेलां बोधयति ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्यैर् दुरासदम् दुष्प्रवेशम् ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तार्क्ष्यस्य कश्यपस्य पुत्रः मधुसूदनस्यासनं यस्मिन् सः ॥७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तार्क्ष्यस्य कश्यपस्य पुत्रः मधुसूदनस्यासनं यस्मिन् सः ॥७॥


॥ १०.१७.८ ॥

सुपर्ण-पक्षाभिहतः कालियो \ऽतीव विह्वलः ।
ह्रदं विवेश कालिन्द्यास् तद्-अगम्यं दुरासदम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य गरुडस्य्आगम्यम् अगाधतया च दुरासदम् ॥८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अगम्यम् गन्तुम् अशक्यम् । दुरासदम् अन्येषां नरादीनाम् इत्य् अर्थः ॥८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतीव-विह्वलौ\ऽत्यन्त-वेदनातुरः सन् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्यैर् अपि दुरासदं दुष्प्रवेशम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्यैर् दुरासदम् दुष्प्रवेशम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुरासदम् अगाध-जलत्वेनान्यैर् अपि दुष्प्रवेशम् ॥८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तस्य गरुडस्यागमां दूरासदम् अगाधाम्बुनान्यैर् दुष्प्रवेशम् ॥८॥


॥ **१०.१७।**९ ॥

तत्रैकदा जल-चरं गरुडो भक्ष्यम् ईप्सितम् ।
निवारितः सौभरिणा प्रसह्य क्षुधितो \ऽहरत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-अगम्यत्वे कारणम् आह—तत्रेति । निवारितोऽपि ॥९.११॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र ह्रदे । जल-चरं मत्स्य-महरद् इति सम्बधः ॥९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकदेति चतुर्विंश-चतुर्-युगाद् अपि पूर्वत्र श्री-रघु-नाथ-पूर्वज-श्री-मान्धातृ-महा-राजे पृथ्वीं शासतीति ज्ञेयम् । जल-चरम् इति कस्यापि स्वभावेन सर्वेषाम् एव सत्त्वे साधारणम् इत्य् अर्थः, तत्रभक्ष्यं भक्षण-योग्यम्, । किं वा, तदाहारत्वेन विधात्रा विहितम् इत्य् अर्थः, तत्रापि ईप्सितं बृहत्वात् परिपुष्टत्वाच् च प्रियम् । यद् वा, चिरं भक्षयितुम् इष्टम्, तथापि मुनि-वाक्यम् आदरणीयम् इति चेत् तत्राह—क्षुधित इति । क्षुधार्तानां भक्षणानर्हस्यापि भक्षणे दोषास्मृतेः । एवं श्री-गरुडस्याप्य् अपराधः परिहृतः, किन्तु तस्य मुरेर् एवापराध इति भावः—क्षधितस्य महत् तमस्य भक्ष्य-भक्षण-विघ्नाचरणात् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकदेति चतुर् विंश-चतुर् युगद् अपि पूर्त्र श्री-रघु-नाथ-पूर्वज-मान्धातृ-महा-राजे पृथ्वीं शासतीति ज्ञेयं जल-चरम् इति सर्वेषाम् एव सत्त्वे साधारणम् इत्य् अर्थः । तत्रभक्ष्यं पक्षि-जात्य् उचित-लीलस्य तस्याहारत्वेन प्राप्तम् अत एव्एप्सितं तथापि मुनि-वाक्यम् आदरणीयम् इति चेत् तत्राह—क्षुधित इति । भगवद्वद् एव लीलयाङ्गी-कृतक्षद् अपि क्षुधार्तानां भक्षणान् अर्हस्यापि भक्षणं दोषास्मृतेः एवं श्री-गरुडस्यापराधः परिहृतः किन्तु तस्य मुनेर् एवापराध इति भावः । क्षुधितस्य महत्तमस्य् अभक्ष्य-भक्षण-विघ्नाचरणात् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्ष्यं पक्षि-जात्य्-उचित-लीलस्य आहारत्वेन प्राप्तम् । अत एव ईप्सितम् अत एव लीलया भगवद्वद् एव क्षुधितः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गरुडागम्यत्वे कारणम् आह—तत्रेति । मा भुङ्क्ष्वेति निवारितोपीति तस्मिन् परम-महति गरुडे आज्ञा-प्रदानं तद् दिष्ट-प्रातिकूल्यं चेति सौभरेर् अपराध-द्वयं तद् आज्ञा-लङ्घनं प्राणिर् हिंसनं चेत्य् अपराध-द्वयं गरुडस्य नाभूत् ततः सकाशाद् अतितेजस्वित्वद् इति ज्ञेयम् ॥९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद् अगम्यत्वे हेतुम् आह—तत्रेति । एकदा चतुर्-विंश चतुर्-युगाद् अपि प्राक् श्री-राम-पूर्वजे मान्धातरि महीं शासतीति ज्ञेयम् । मा भुङ्क्ष्वेति सौभरिणा निवारितोऽपि जल-चरं भक्ष्यम् अहरत्प्रहस्य हठात् ॥९॥


॥ **१०.१७।**१० ॥

मीनान् सु-दुःखितान् दृष्ट्वा दीनान् मीन-पतौ हते ।
कृपया सौभरिः प्राह तत्रत्य-क्षेमम् आचरन् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रत्यानां क्षेमं कल्याणाम् ॥१०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

मीनान् सु-दुःखितान् दृष्ट्वा दीनान् मीन-पतौ हते ।
कृपया सौभरिः प्राह तत्रत्य-क्षेमम् आचरन् ॥**

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यम् अपि महापराधं तस्याह—पीनान् इति द्वाभ्याम् । दीनान् स्व-भावत एव जल-चरत्वेन किञ्चिद् अपि कर्तुम् अशक्तेः । मीन-पतौ मत्स्य-श्रेष्टे सर्वम् अस्य-रक्षके वा हृते च सुष्ठु दुःखितान् दृष्ट्वा । दिने इति सप्तमान्त-पाठे सदैव श्री-गरुड-भयेनार्त इत्य् अर्थः । प्रथमान्त-पाठो, एवम् अविवेकेनैव तेष्व् आसक्तिस् तस्य सूचिता, न तु वृन्दावन-कालिन्दी-जीवतया कृपया स्नेहेनेत्य् अर्थः । तत्रत्यानां तद्-हृद-वर्तिनां मत्स्य-कूर्मादीनाम् । यद् वा, मीनासक्तत्वान् मीनानाम् एव क्षेमम् आचरन् कर्तुम्, हेतौ शतृङ् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्यम् अपि महापराधं तस्याह—मीनान् इति द्वाभ्याम् । दीनान् स्वभावत एव जल-चरत्वेन किण्चिद् अपि कर्तुम् अशक्तेः मीन-पतौ सर्व-मत्स्य-रक्षके हृते सुष्ठु दुःखितान् दृष्ट्वा अत्र एतेन तस्यान्य-मत्स्य-विलक्षणं सज्ञानत्वं ज्ञापयति—दीन इति । सप्तम्यन्त-पाठे सदैव गरुड-भयेनार्त इत्य् अर्थः । प्रथमान्त-पाठो वा महा-पार्षदे धार्ष्ट्यादिना विवेक-रहित इत्य् अर्थः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मत्स्यान् इति जल-चरोपलक्षणम् ॥१०.११॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र तृतीयम् अपराधं तस्याह—मीनानीति । कृपयेति मीनान् प्रति यथा तस्य कृपा तथा गरुडं प्रति कोपश् च गम्य, तत्रत्यानां जीव-मात्राणाम् एव क्षेमं कर्तुम् इति ततश् च कालियागमनेन तेषां सर्वेषाम् अक्षेमम् एवाभूद् इति । महद् अपराधिनः कृपापि विपरीत-फलव भवेद् इति द्योतितम् ॥१०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मीनानां पतौ पालके ह्रदे तत्रत्यानां प्राणिनां क्षेमं कल्याणम् ॥१०॥


॥ **१०.१७।**११ ॥

अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।
सद्यः प्राणैर् वियुज्येत सत्यम् एतद् ब्रवीम्य् अहम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र ह्रदे । ननु, सौभरेः शापान् मत्स्याशनार्थं गरुडो मा गच्छतु तत्र कालिय-भक्षणार्थं गमने को बाध इति । चेत् तर्हि मत्स्य-शब्दार्थस् त्व् इत्थं विधेयः—सीयते बध्यन्ते मांशासिभिर् इति स्या जीवाः षिञ्-बन्धने अतो घञर्थे कः, आर्षत्वादि-यङ-भावः माद्यन्तीति मदोऽसावधानाः मदी—हर्ये अतः क्विप् ।

मदश् च ते स्याश् चेति मत्स्यास् तान् । तथा चासावधान-जीवान्यदि खादतीत्य् अर्थः । यद् वा,

माद्यन्त्याहितुडिक-वाद्यैर् इति मदः सर्पाः, स्यन्ति मारयन्ति स्व-ज्ञातिम् इति स्याः यादोजीवाः यादोभ्यो ज्ञातिघातिभ्यो दीनां माम् इत्य् उक्तेः । जलौकसां जले यद्वन् महान्तोऽदत्यणीयसः इत्य् उक्तेश् च । स्य इति षो—अन्त-कर्मणि धातोः आर्षः खश् । मदश् च स्याश् च मत्स्यास् तान्, तथा च सर्पान् मत्स्यांश् च यद खादति तदेति सम्बन्धः ।

यद् वा, मम कोऽर्थो मत्स्यंबन्धिनो ये स्या जीवास् ते मत्स्याः । इह समासावस्थायाम् अस्मदो मद्-आदेशो बोध्यः । तथा च—मत् तपः-स्थली-भूत-यमुना-ह्रदे ये तिष्ठति ते मत्संबन्धिन एव संबन्धमाभाषण-पूर्वम् आहुः इति न्यायेनाभाषणे यदि सम्बन्धस् स्यात् तर्हि किमु सहवासादौ, तथा च—तान्यदि स खादतीति योज्यम् । एतेन मद् आश्रम-वासि-जीव-भक्षणे तस्य प्राण-वियोग इति सिद्धम् इति भावः । यद् वा, हे मत्स्य अनति चेष्टन्ते जीवा एभिर् इत्य्-आनि जलानि अन-प्राणने अतः क्विप् ।

जलं जीवने हेतुर् हि जगताम् अथ तस्युषाम् । > अतो जीवनम् इत्य् उक्तं तेनेदं चेष्टते जगत् ॥

इति कौशिक-संहितोक्तेः । तानि सनति भजतीत्यन् सः षण—सम्भक्तौ अत्रापि स एव प्रत्ययः । जलचर-प्राणि-मात्रं मत्स्य-शब्देन ग्राह्यम् । क्लीवे नान्तोऽयं शब्दो नान्तृत्वाद् एव नलोपोऽत्र तेनात्र यदि प्राणि-मात्र खादति तदा मृतो भावीति भावः । सर्पस्य जल-चरता च द्वये प्रसिद्धे न काप्य् अत्रानुपपत्तिर् इति । यद् वा, मत्स्य-पदं काकदधि-रक्षणन्यायेनोपलक्षणं जीव-मात्रस्येति । वस्तुतस्तु—सोभरेः शापश् तत्र गरुडाप्रवेश-तात्पर्यकः तं कालियः पर वेद इति वक्ष्यमाणत्वात् । तम् गरुडागम्यत्व-रूपम् शापम् इत्य् अर्थः । ह्र्दं विवेश कालिन्द्यास् तद् अगम्यं दुरासदम् इति पूर्वम् उक्तत्वाच् च । गरुडस् तु सवज्ञत्वाद् एव तत्र नायातः कालियस् तु तत्रत्य् आत्मीय-सर्प-मुखाच् छेष-मुखाद् वा गरुड-गम्यं ज्ञात्वा तत्राययो । सौभरेस् तु गरुडाय कुप्यतो यस्मिन् मीने कृपा-जनिष्ट तस्यव मीनस्य सङ्गदुत्थिता दुर्वासनैवापराध-फलम्, यतश् च विप्लुत-ब्रह्मानन्दः स चिरसचित-तपः-सृष्ट-यौवनेनैव कूल्येन कालिनी-वृन्दं क्रीत्वा तथैव नरक-तुल्ये विषयानदे न्यमज्जत् । अपराध-भोगान्ते श्री-वृन्दावन-यमुनाश्रय-माहात्म्येनैव पश्चान् निस्ततारेति नवम-स्कन्ध-कथात्रानुसन्धेया ॥११॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्र हृदे स मद् वाक्यावमन्ता श्री-भगवत्-पार्षद-वरो\ऽपीति वा । अहम् इति तपोबलाद्य् अभिमानात्, एतेनैव श्री-वैष्णवापराधेन तस्य तपो-भङ्गादि-परमानर्थः फलितः, तच् च नवम-स्कन्धे वर्णितम् एव । किं च, तत्रत्य् अक्षेमार्थे सङ्कल्पो\ऽपि विपरीत एवाभवत् । तत्र कालिय-निवासेन अस्तु तावज् जल-चराणाम्, तीर्थवर्तिनां वृक्षादीनाम् अपि तथोपरि गच्छतां खगादीनाम् अपि मरण-प्राप्तेः, केवलं श्री-वृन्दावन-यमुनाश्रय-माहात्म्येन श्री-भगवत्-कृपयान अतिचिरेण तद् अपराधः सद्यः-फलम् इव-विवेकिनां नरक-तुल्यम् एव विषय-भोगं कृत्वा तेन पश्चान् निस्तीर्णम् इति ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र हृदे मत्स्यान् इति जल-चरोपलक्षणं सः मद् वाक्यावमन्ता श्री-भगवत् पार्षदवरोऽपीति वा, अहम् इति तपोबलाद्य् अभिमानात् एतेनैव किल श्री-वैष्णवापराधेन तस्य तपो भङ्गादि-परमानर्थः फलितः तच् च नवम-स्कन्धे वर्णितम् । किं च, तत्रत्य-क्षेमार्थ-सङ्कल्पोऽपि विपरीत एवाभवत् तत्रास् तु तावज् जल-चराणां वार्ता कालिय-निवासेन तीर-वर्तिनां वृक्षादीनाम् अपि तथोपरि गच्छतां खगादीनाम् अपि मरणं प्राप्तम् इति । केवलं श्री-वृन्दावन-यमुनाश्रय-माहात्म्येन श्री-भगपत् कृपयानति-चिरेण तद् अपराधस् सद्यः फलम् इव विवेकिनां नरक-तुल्यम् एव विषय-भोगं कृत्वा तेन पश्चात् निस्तारणम् इति ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र यदीत्य् अनेन पक्षान्तरम् अपि लभ्यते ततश् चायम् अर्थः । अत्र प्रविश्य यदि मत्स्यान् खादति तदा सद्यस् तत् क्षणम् एव प्राणैर् वियुज्येत, यदि च मत्स्यान् न खादति तदा त्व् असद्यः किञ्चिद् विलम्ब एवेति । हृद-प्रवेश-मात्र एव शापः मत्स्य-खादने तु शापातिशयः अत्रत्याभिशापं गरुडः सर्वज्ञत्वाद् एव ज्ञात्वा नागतः कालियस् त्व् आत्मीयतत्रत्य-सर्प-मुखाज् ज्ञात्वैवागतः सौभरेस् तु गरुडाय कुप्यतो यस्मिन् । कृपा अजनिष्ठ तस्य मीनस्यैव सङ्गाद् उत्थिता दुर्वासनैवापराध-फलं यतश् च विलृप्त-ब्रह्मानन्दः स-चिर-सञ्चित-तपस्सृष्ट-पश्चान् निस्ततारेति नवमे कथा ॥११.१२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अत्रेति ह्रदे प्रविश्य यदि मत्स्यान् खादति तदा सद्यः प्राणैर् वियुज्यते, यदि च मत्स्यान् न खादति तद त्व् असद्यः किञ्चिद् विलम्बेनेति तत्-प्रवेश-मात्रे शापस् तत्-खादने तु तद् अतिशयः इत्य् अर्थः । ब्रवीम्य् अहम् इति तपोबलाभिमानं सूचयति । अत्र भगवन् नित्य-पार्षदे गरुडे सोभरेर् आज्ञाप्रदानं तद् अभीष्ट-प्रातिकल्यं च मीनदयया तत्र कोपश् चेत्य् अपराधत्रयं, तस्माद् एव दयनीय-मीन-सङ्गोत्थैतद्-दुर्वासनया चिरार्जित-तपः सक्षयो विषयानन्दानुभव-वपुर् अभूत् । महद् अपराधिनस् तस्य तत्रत्यक्षेम चिकीर्षा रूपा दयापि विपरीत-फला तत्र कालियागमनेन जल-तत्-तटवर्तिनां तद् उपरि-गच्छतां विहगानां च विनाशात् विषय-भोगान्ते तस्य निस्तारस्तु श्री-वृन्डवन-यमुनोपसेवन-माहात्म्याद् एव, गरुडस्य तु यद् आज्ञा-लङ्घनं प्राणि-हिंसनं चेत्य् अपराध-द्वयं नाभूत् ततोऽप्य् अतितेजस्वित्वात् तथापि ह्रदाप्रवेशो विप्रर्षि-वाक् प्रतिपालनाय हरेर् इवेति ॥११॥


॥ १०.१७.१२ ॥

तत् कालियः परं वेद नान्यः कश्चन लेलिहः ।
अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : लेलिहः सर्पः । अतस् तत्र्आवात्सीत् ॥१२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् गरुडागम्यं ह्रदम् । परम् केवलम् । ननु, समर्थेन गरुडेन शापः कथं स्वीकृत इति शङ्का तु

विष्णुना विष्णु-भक्तैश् च ब्रह्म-शापोऽनुवर्त्यते । > ब्राह्मणानाम् अपीडायै बलिभिर् अपरेः सदाः ॥

इति ब्रह्माण्डोक्त्या नोदेति विज्ञानाम् । विवासितः प्रस्थापितः ॥१२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् प्रोक्तवृत्तं कालिय एव परं केवलं वेदेति श्री-गरुड-द्वेषेण तद् भीत्या सर्वत्र निर्भय-स्थानान्वेषणात् पूर्व-जन्म-शत-भाग्य-विशेषाद् वा, कृष्णेन सर्वान् आनन्दरेणेति भावः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् प्रोक्तवृत्तं कालिय एव परं केवलं वेदेति श्री-गरुड-द्वेषेण तद्-भीत्या सर्वत्र निर्भय-स्थानान्वेषणात् पूर्वजन्म-शत-कृत-भाग्य-विशेषाच् च कृष्णेन सर्वानन्द-करेणेति भावः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वेदेति श्री-नारद-द्वारेति ज्ञेयम् ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : लेलिहः सर्पः ॥१२॥


॥ १०.१७.१३ ॥

कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्य-स्रग्-गन्ध-वाससम् ।
महा-मणि-गणाकीर्णं जाम्बूनद-परिष्कृतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : जाम्बू-नदं सुवर्णं तेनालङ्कृतम् ॥१३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विनिष्क्रान्तम् बहिर् आगतम् ॥१३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उपोद्घातं समाप्य प्रस्तुतम् आह—कृष्णम् इति, श्याम-सुन्दरम् इत्य् अर्थः, व्रज-जन-जीवनम् इति वा । विशेष निष्कान्तं तम् एव विशेषम् आह—दिव्येति पादैस् त्रिभिः, जाम्बु-नदं दिव्य-स्वर्णम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् उपोद्घातं समाप्य प्रस्तुतम् आह—कृष्णम् इत्य्-आदिना । तत्र कृष्णम् इति युग्मकम् । जाम्बू-नदं **दिव्य-**स्वर्णं भक्त्या नाग-वृन्द-परिवृतत्वात् तस्माद् धृदात् विशेषेणैव निष्क्रान्तं सन्तम् उपलभ्य दृष्ट्वा तावद् अपि शङ्क्या स्तब्धत्वात् निष्क्रमणम् अपि गति-लाघवेन जलोपर्युपरि क्राण्त्वैवेति ज्ञेयम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विशेषेणैव निष्क्रान्तम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपोद्धातं समाप्य प्रस्तुतम् आह—कृष्णम् इति द्वाभ्याम् । विशेषेण निष्क्रान्तम् इति जलोपर्यपर्येव चरणाभ्याम् एव सन्तरण-लाघवेनैव कालियादिष्टं कम् अपि सर्पम् अलक्षितम् आरुह्यैवेति ज्ञेयम् अन्यथाङ्गानां जलाप्लुतत्वे दिव्य-स्रग्-गन्ध-वाससम् इति विशेषणं साधु नोपपद्यते ॥१३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उपोद्घातं समाप्य प्रस्तुतम् आह—कृष्णम् इति युग्मकम् । विशेषेण निष्क्रान्तं चरणाभ्याम् एव सन्तरण-लाघवेन जलोपर्युपर्येवागतं कालिया-दिष्टं कम् अपि नागम् अलक्षितम् आरुह्येवेतिकेचित् अन्यथाङ्गानां जलाप्लुतत्वे दिव्य-स्रग्-गन्ध-वाससम् इति विशेषणं सुश्लिष्टं न स्यात् ॥१३.१४॥


॥ **१०.१७।**१४ ॥

उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः ।
प्रमोद-निभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : असव इन्द्रियाणि । प्रमोद-निभृतात्मान आनन्द-पूर्ण-मनसः ॥१४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिरेभिरे शिऌइषुः ॥१४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपलभ्य निकटागतं प्राप्य, उत्थिताः पूर्वं मोहने भुवि निपतिता नासिकान्तः प्रविष्ट-तत्-सौरभ्येण सञ्जात-संज्ञाः, दद्य एव भूमेर् उत्थिता मोहाद् उत्युत्थिता इति वा, इति पूर्वं मोहाद् एव तादृश-विव्य-गीत-वाद्यादिना श्री-कृष्ण-नृत्यादिकं च किम् अपि तैर् नावकलितम् इति बोद्धव्यम् । अत-एवाग्रे तेषां तत् किञ्चिद् अनुवादादिकं न श्रूयते इति दिक् ।

ननु, मृतानाम् एव तेषां तद् उपलब्ध्यैव कथं सर्वेषाम् एकदैवोत्थानं सम्भवेद् इत्य् आशङ्क्य दृष्टान्तेन साधयति—लब्धेति । गोपाः सामान्यतः सर्वे वृद्धादयस् तेषां श्री-यशोदादिभ्यः प्राग् उत्थानात्, तं बहुधालिङ्गितवन्तः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वे वक्ष्यमाणाः अचेतनानाम् इव स्तब्धानाम् अपि तेषाम् एकदोत्थाने हेतुम् आह—लब्ध-प्राणा इति । तत्र मेलने क्रमः प्रमोदेति सार्धेन गोपाः सखायः पूर्वत्र एव तीराग्रम् अवलम्ब्य स्थितत्वात् अभिरेभिरे परिरेभिरे ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उपलभ्य दृष्ट्वा तावद् अपि शङ्कया स्तब्धत्वात् पूर्वे ईक्षमाणाः सर्वे गोपाः सखायो ऽपरे नाना-विधाः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :सव इन्द्रियाणि प्रमोद-निभृतात्मानः आनन्द-पूर्ण-मनसः गोपाः सखायः तेषाम् एव तारल्येन प्राथम् औचित्यात् ॥१४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : असव इन्द्रियाणि गोप्यः सखायः तेषाम् एव तारल्येन प्रथमाचित्यात् ॥१४॥


॥ १०.१७.१५ ॥

यशोदा रोहिणी नन्दो गोप्यो गोपाश् च कौरव ।
कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : लब्धेहा लब्ध-चेष्टाः ॥१५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लब्ध-चेष्टाः पूर्वं तु मृतप्राया इत्य् अर्थः । कौरवेति । शुद्ध-वंशोद्भूतत्वत् तव श्री-कृष्ण-लीलामृत-पाने रुचिर् इति सम्बौद्ध्य् अभिप्रायः । यद् वा, कौ भूमौ रवः श्लाध्य-शब्दो यस्य तत्-सम्बुद्धौ तथा, भगवद् भक्तानां यशः-शब्दो भूमण्डलं व्याप्नोतीति तात्पर्यम् । यद् वा, त्वयि ब्रह्मास् तत्रो रक्षणाज् जीविते कौरवा युधिष्ठिरादयो लब्ध-चेष्टा आसन्तद्वद् इति भावः ॥१५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्नेह-विशेषाक्रान्तानां श्री-यशोदादीनां गोपेभ्यो दुःख-विशेषेण मोहाधिक्यात् तेभ्यः पश्चाद् उत्थितानां श्री-कृष्ण-सङ्गमेनापि केवलम्-आदौ स-चेष्टत्व-मात्रम् आह—यशोदेति, गोपाः पितृव्यतादि-देह-सम्बन्धिन उपनन्दादयः, सखायः श्रीदामादयश् च प्रथमं लब्ध-चेष्टा आसन्, पश्चात् समेत्य् आभिरेभिरे चेत् इत्य् अर्थः, श्री-भगवतः कालिय-हृद-प्रवेशेन तद्-दुःखेन शुष्का ये नागास् ते\ऽपि । हे कौरवेति कुरु-कुल-रक्षा-हेतु-भूतस्य द्रौण्यस्त्र-ग्रस्तस्य तव प्राप्त्या श्री-युधिष्ठिरादयः कौरवा इवेति भावः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः श्री-यशोदादयः स्नेह-क्रमेणाग्रतोग्रत आगत्य तत्रैव स्थितत्वात् तत्र श्री-यशोदा व्रजात् प्रस्तितानां सर्वेषाम् अग्र-गामिनी तस्या एवासमोर्ध-वात्सल्यात् ततः श्री-रोहिणी तया सख्येन सवासनत्वेन च तत् सह-योगात् ततः श्री-नन्दस् तद् अनुगवात्सल्यात् गोप्यो गोपाश् क्रमेण दम्पत्योर् निकटस्था ज्ञेयाः । केषाञ्चित् सवासनत्वात् केषाञ्चिद् अनुयायित्वाच् च समेत्येति पूर्ववत् तावत् स्तब्धी-भूय केवलं द्रष्टार एव्आसन् । पश्चात् सम्भ्रमोत्थित-मात्राः न तु धावितुं शक्ताः समेत्य तु आलिङ्गनादि-चेष्टावन्तो बभूवुर् इत्य् अर्थः । किं बहुनेत्य् आह—शुष्का इति । निकटे तावद् वृक्षोत्पत्तिर् एव नास्ति दूरतस् तु ये वायुगत्या शुष्काः तदानीम् एव तादृश-श्री-कृष्ण-लीलया बहुः शकुनान्तरवत् शुष्कास्तेऽपि अङ्कुरादि-विकास-चेष्टावन्तो बभूवुर् इत्य् अर्थः । लब्ध-मनो-रथा इति पाठस् तु स्वाम्य-सम्मतः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : समेत्यइवालिङ्गने चेष्टावन्ता बभूवुर् इत्य् अर्थः । तदानीं व्रज-वासि-स-धर्मता-प्राप्त्या नगा अपि पूर्वं शुष्काः पश्चाल् लब्धेहा अङ्कुरोद्गमनादि-चेष्टावन्त आसन् तद्-विष-शुष्काणाम् अतिप्राचीनत्वाच् चिह्नान्य् अपि तदा न्आसन्न् इति, जहासेत्य् अत्र । हेतुर् अस्येति अतो निज-व्रज-दुःख-मयम् इदं भद्रं कृतम् इत्य् उपालम्भन-पूर्वकयेवेत्य् अर्थः । गवादिषु तत्रैव विद्यमानेष्व् अपि क्षुधादि-कर्षितत्वं तेषां विष-सम्पर्क-शङ्कया श्रीः कृष्णायानु प्रयोजनात् ॥१५.१९॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततो हा पुत्र जीवसीति गद्-गद-स्वारा गुरु-लज्जा-भय-प्रसूयादि-निरपेक्षा अतिविह्वला श्री-यशोदा ततस् तत् सखीच्छति प्रविश्य नन्दः ततोऽन्या गोप्यो वत्सला गोपाश् चोपनन्दादयः चकारेणानुरागिण्यः पूर्व-रागवत्यो गोप्यश् च दूरतो लोचनाञ्चलीभिर् एव समेत्य परिष्व् अङ्गादिभिः सङ्गती-भूय लब्ध-चेष्टा लब्ध-वाञ्छिता मृता इव जीवन्त्यो बभूवुः किं बहुना नगास् तीरे वृक्षाभावाद् दूरे वृन्दावन-स्था वृक्षा अपि तत् साधर्म्य-प्राप्त्या कृष्णम् अदृष्ट्वा शोकात् शुष्कास् तं पुनर् दृष्ट्वा लब्धेहा अङ्कुर-पल्लव-पूष्पाद्य् उद्गमवन्तः ॥१५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ततो वत्स ! दाव् अविप्लुष्टां लताम् इव त्वद् विच्छेदातिक्लिष्ठां मां जीवयन्न् अबुद इव स्वागतोऽसीति गद-गद-वाक् हरि-माता यशोदा ततस् तत्-सखीषु परितः प्राप्तासु मध्ये तथा-भूता रोहिणी च तत्-सम्मर्द एव प्रेमवैश्या परित्यक्त-गाम्भीर्यस् तत्-पिता नन्दश् च ततोऽन्या गोप्यश् चोपनन्द-पन्त्यादयो वत्सला गोपाश् चोपनन्दादयः कृष्णं समेत्यालिङ्ग्येत्य् अन्वयः । शब्दाद् अनुरागिण्यः किशोर्यश् च दूरान् नेत्राञ्जलोभिर् एव समेत्य लब्धेहाः प्राप्तवाञ्छिता आसन्, वृन्दाटवी-स्था नगा वृक्षाः गिरयश् च गोवर्धनादयः कृष्णादर्शनाच् छुष्कास् ते पुनस् तत् दृष्ट्वोद्गताङ्कुर-पत्र-पुष्प-निर्झरा आसन्न् इति ॥१५॥


॥ १०.१७.१६ ॥

रामश् चाच्युतम् आलिङ्ग्य जहासास्यानुभाव-वित् ।

प्रेम्णा तम् अङ्कम् आरोप्य पुनः पुनर् उदैक्षत ।
गावो वृषा वत्सतर्यो लेभिरे परमां मुदाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : नगा वृक्षा अपि पूर्वं शुष्काः सन्तः एव विरूढा इत्य् अर्थः ॥१६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । भगवद् अमृत-दृष्टिपातेन विषाम्बुपानमृत-गोपानाम् इव वृक्षा अपि जीवनम् आपुः । तीरे वृक्षाभावाद् वृन्दावनस्था दूरस्था अपि कृष्णम् अदृष्ट्वा शोकाच् छुष्यन्तः पुनर् दृष्ट्वा लब्धेहा अङ्कुर-पल्लव-पुष्पाद्य् उद्गमवन्तो बभूवुर् इति भावः । रामश् चाच्युतं सर्वदा च्युतिर् वर्जितं जहास—धन्योस्येवं कर्तुं युज्यत इत्य् उपालम्भ-पूर्वं जहासेति कालिय-निग्रहेण कच्च्चित् क्षतश् च नाभूद् इति नाभ्यलपद् इति ॥१६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं स्नेहान्धानां चेष्टितम् उक्त्वा तदैश्वर्य-ज्ञान-सम्वदित-स्नेह-भरस्य श्री-बलदेस्य समागमादि-सुखम् आह—रामश् चेति, चकारात्, रामश् च पूर्वं शोकेन शुष्कः पश्चाल् लब्धेहस् तम् आलिङ्ग्य जहासेत्य् अर्थः । अच्युतं केशादाव् अपि च्युति-रहितम् यद् वा, न कदाचित् कथञ्चिद् अपि माहात्म्याच्युत इत्य् अच्युतस् तम् ।

ननु, कुतो जहास ? तत्राह—अस्य अच्युतस्य अनुभावं विचित्रैर्श्वर्यं वेत्तीति तथा सः स्वस्य कालाग्नि-रुद्र-जनकस्यापि तत्राकिञ्चित्करत्वात्, अतस् तादृशानुभाववतः क्षुद्र-कालिय-भोग-वेष्टनादि-स्मरणाद् इति भावः । यद् वा अनुभावं कालिय-निःसारणार्थ-चातुर्र्य-विशेषम् अनुसन्दधानः सन्न् इत्य् अर्थः । नरा अन्ये\ऽपि सर्वे मनुष्याः । यद् वा, श्री-नन्दानुवर्तिनो गृहद् आसादयः पुलिन्दादयश् च, मृगाः इति पाठे तेषाम् आदौ निर्देशो गवादिभ्यः प्राग् उत्थानाभिप्रायेण । ततश् च सर्वेषाम् एव परमानन्दो जात इत्य् आह—नराः श्री-नन्दादयः एवम् अयम् एव पाठः सम्यक्, तादृशस्य तस्य प्राप्त्यावश्यं तेषां परनानन्दोद्भवोक्तेर् अपेक्ष्यत्वात् ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तादृश-दुःखि-व्रज-जन-सङ्गमाय दत्तावसरेण श्री-रामेण सङ्गमं वर्णयति—रामश् चेति । -कारात् पूर्वं व्रज-वासि-शोकेन रामश् चान्तः शुष्कः पश्चात् लब्धेहस् तम् आलिङ्ग्य जहासेत्य् अर्थः । अच्युतं न कथञ्चिद् अपि माहात्म्यात् च्युतं कुतो जहास तद् आह—अस्य अच्युतस्य अनुभावान् इच्छा-मात्रेण सर्वं समर्थ्यं वेत्तीति तथा सः अतो निज-व्रज-दुःखमयम् इदं भद्रं कुऋतम् इत्य् उपालम्भन-पूर्वकम् एवेत्य् अर्थः । नगाः अन्येऽपि सर्वे गामो वृषा वत्सतरा इति पाठः क्वचित् ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जहासेति धन्योऽस्य् एव कर्तुं युज्यतेत्य् उक्ता तत् प्रभावज्ञोऽपि प्रेम्णा पुनः पुनर् उत्कर्षेणैक्षतेति कालिय-हतकेन क्वचित् क्षतन्तु नाभूर् इति न्यभालयत् ॥१६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जहासेति—हे विचित्र-लीला-निधे स्वामिन् ! विधान्तर-नाग-निर्वासनाति-निपुणस्यापि परिज्ञात-व्रज-जन-भाव परिपाकस्यापि ते स्व-जन-महार्तिकरण्याम् अस्यां लीलायां तद् उभय-फलायां कथ वृत्तिस् तत्-फणाङ्गधरत्वं तु परं मनोज्ञम् इत्य् अर्थः । अनुभावविद् अपि प्रेम्णः स्वभावात् पुनः पुनर् उदैक्षत दुष्टेन नागेन श्रीमदम्बे वाध्ये नाभूद् इति तद् अङ्गान्य् अपश्यद् इत्य् अर्थः । नगा इत्य् अर्थकम् ॥१६॥


॥ १०.१७.१७ ॥

नन्दं विप्राः समागत्य गुरवः स-कलत्रकाः ।
ऊचुस् ते कालिय-ग्रस्तो दिष्ट्या मुक्तस् तवात्मजः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ते विप्रा ऊचुः ॥१७.१८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुरवः सर्व-पूज्याः भागुर्यादि-पुरोहिता वा

गुरुस् तु गीष्मतौ श्रेष्ठे पितरि दुर्भरे हरे । > सर्व-पूज्ये हितवदे ज्ञानदेऽपि गुरुः स्मृतः ॥

इत्य् अनेकार्थ-वाग् विलासे ॥१७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रैव विशेषतः श्री-नन्द-सन्तोषार्थं ब्रह्मणानां हर्षभरेण वाक्यम् आह—नन्दम् इति । गुरवः पुरोहिताः, अन्ये च विप्राः । यद् वा, गुरव इति तेषाम् एव विशेषणं तादृशोक्तौ योग्यत्वात् । समागत्येति प्राग् एव तेन सह व्रजान् निर्गताः, अधुना तन् निकटम् आगत्य् एत्य् अर्थः । स-कलत्रका इति ब्रह्माणीनाम् अपि तत्रैवागमनेन स्वत एव तत्-साहित्यात् ते परम-वैष्णवत्वादिना प्रसिद्धाः । दिष्ट्या—अहो भवास्माकं च भाग्यम् इत्य् अर्थः, अतोतिहृष्टो भूत्वा पशु महोत्सवं विधेहीति भावः । एवं ब्रह्मणानाम् अपि श्री-नन्द-सन्तोषणैकपरता दर्शिता, त्वद् वाक्यादरेण श्री-नन्दस्यापि सम्यक् स्व-सुत-प्रीतिश् च नितरां जातेति ज्ञेयम् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रैव विशेषतो ब्राह्मणानां हर्ष-भरेण वाक्यम् आह—नन्दम् इति । गुरवः पुरोहिताः अन्ये च विप्राः समागत्येति प्राग् एव तेन सह व्रजात् निर्गताः अधुना तन् निकटम् आगत्येत्य् अर्थः । ते परम-वैष्णवत्वादिना प्रसिद्धाः दिष्ट्या भद्रम् अहो तवास कं च भाग्यम् इत्य् अर्थः । अतोऽतिहृष्टो भूत्वा सुमहोत्सवं विधेहीति भावः ॥१७.१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुरवो भागुर्यादि-पुरोहिताः ॥१७.१८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नन्दम् इति सार्धकम् । गुरवो भागुर्यादयः पुरोहिताः ॥१७.१८॥


॥ १०.१७.१८ ॥

देहि दानं द्वि-जातीनां कृष्ण-निर्मुक्ति-हेतवे ।
नन्दः प्रीत-मना राजन् गाः सुवर्णं तदादिशत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्वि-जातीनाम् इति चतुर्थ्य् अर्थे षष्ठी, द्वि-जातिभ्यः । कृष्णस्य निर्मुक्तिः प्रीतिस् तस्याहेतवे निर्मुक्तिः प्रीति-मोक्षयोः इति धरणिः ॥१८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा, जीव-गोस्वामी लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी, बलदेव-विद्यभूषणः वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.१७.१९ ॥

यशोदापि महा-भागा नष्ट-लब्ध-प्रजा सती ।
परिष्वज्याङ्कम् आरोप्य मुमोचाश्रु-कलां मुहुः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : नष्ट-लब्ध-प्रजा नष्ट-प्राया पुनर्-लब्धा प्रजा यया सा ॥१९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यशोदा च गाः सुवर्णं च ददावित्य् अपि ज्ञेयम् । नष्टा चासौ लब्धा नष्ट-लब्धा, सा प्राजा सन्ततिर् यस्याः सेति वा ॥१९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्व् अर्थे -कारः । श्री-नन्दतो विशेषान् महा-भागत्वम् आह—नष्टेति, यतः सती पतिव्रता, पातिव्रत्याभिप्रायः पूर्वम् अपि सूचितः । यद् वा, स्व-स्वभावतः श्री-कृष्ण-स्हेनादिना सर्वोत्कृष्टा, अन्यत् तैर् व्याख्यातम् एव । यद् वा, नष्टा अदर्शनं गता मृता वा प्रजा यस्याः सेव सती भवन्ती । यद् वा, नष्टया अदृष्टया पुनर् लब्धया च प्रजया सती वर्तमानेत्य् अर्थः । यद् वा, नष्टापि लब्धा हस्तादि-ग्रहणेन प्राप्ता प्रजा यया, तथा-भूतैव सती, कलां धाराम्, मुहुर् इति कदाचित् पूर्व-वृत्त-स्मृत्या दुःखोदयेन कदाचिच् च प्राप्तानन्देनाश्रधारामोचनस्याविरामात् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महा-प्रेम्णा पुनः श्री-यशोदया मिलितम् इत्य् आह । यशोदेति त्व् अर्थे -कारः श्री-नन्दतोऽपि विशेषात् महा-भागत्वम् आह—नष्टेति । यतः सतीति तस्याः कथम् अन्यथा स्यात् इति भाव-विशेषणाभिप्रेतम् । यद् वा, स्वभावतः श्री-कृष्ण-स्नेहादिना सर्वोत्कृष्टा । यद् वा, तादृशी-भवन्ती कलां धारां मुहुर् इति कदाचित् पूर्व-वृत्त-स्मृत्या दुखोदयेन कदाचिच् च प्राप्तानन्देनाश्रु-धारा-मोचनस्य विरामेऽपि उष्णशीतता-भेदेन पौनः-पुन्यात् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आदौ नष्ट-प्राया पश्चाल् लब्धा प्रजा यया सा अङ्कम् आरोप्य परिष्वज्येति पूर्वं बहु-लोकापेक्षावशात् तादृश-परिष्व् अङ्गालाभाद् इति भावः ॥१९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आदौ नष्टा मूर्च्छित-प्राणा पश्चाल्-लब्ध-प्रजा परिष्वज्याङ्कमारोप्येति पूर्वं बहुजन-सम्मर्देभीष्टपरिष्वङ्गालाभेन तृप्तेर् अनुदयात् ॥१९॥


॥ १०.१७.२० ॥

तां रात्रिं तत्र राजेन्द्र क्षुत्-तृड्भ्यां श्रम-कर्षिताः ।
ऊषुर् व्रजौकसो गावः कालिन्द्या उपकूलतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रमेणकर्षिताः उपकूलतः कूल-प्रान्ते ॥२०.२३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्या रात्रागमे कालियो निष्कासितस् ताम् इत्य् अर्थः ॥२०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्भुत-लीला-प्रसङ्गे कथा-क्रमेणैवान्यामद्भुत-लीलाम् आह—ताम् इत्य्-आदिना । रात्रिम् इति श्री-कृष्णस्य कालिय-दमनादिना तेन सह व्रज-जनानां प्रत्येक-मिलनेन च दिनावसानतस् तां तद् दिन-सम्बन्धिनीं तादृश-परमानन्दमयीं वा, यत्र श्री-कृष्णेन सङ्गस् तस्मिन् प्रदेश एवोषुः, तदानीं नन्दीश्वरान्तिके व्रजस्य वृत्तेर् दूरतरत्वेन रात्रौ तत्र गमनाशक्तेः । तत्रैव हेतुः—क्षुत् तृड्भ्यां रोदनादि-श्रमेण च । यद् वा, क्षुत्-दृड्भ्यं यः श्रमस् तेन कर्षिता व्याप्ताः तालव्य-मध्य-पाठे दौर्बल्यं प्रापिता इत्य् अर्थः । तत्र गवादिषु तत्रैव विद्यमानेष्व् अपि क्षुत् कर्षितत्वम्, क्षुधार्तैर् वत्सैः कृष्ण-सगत्यनन्तरं लब्ध-परमानन्दैर् निःशेषेण पीत-स्तन्यत्वाद् दोहन-पात्राद्य-भावाद् वा, तृट्-कर्षितत्वं च विष-जलभयात्, जल-पानाद्य् अभावात्, स्नानाद्य् अकरनाद् वा । राजेन्द्रेति परमाश्चर्येण सम्बोधनम् । किं वा, मृगयादिना सम्राजो भवाद् दृशो\ऽपि तत् सम्भवेद् इत्य् अभिप्रायेण कालिन्द्या कालिन्द्या उपकूलतो विष-जलादि-भयेन तद्-ध्रदस्य जलान्तिकं परित्यज्य ततः किञ्चिद्-दूरे श्री-यमुनातीर-प्रान्त इत्य् अर्थः, अन्यथा दावाग्निना सर्वत आवरणासिद्धिः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथा-क्रमेणान्याम् अप्य् अद्भुत-लीलाम् आह—ताम् इत्य्-आदिना । रात्रिम् इति श्री-कृष्णस्य कालिय-दमनादिना तेन सह व्रज-जनानां प्रत्येक-मेलनेन च दिनावसानतः तां तद् दिन-सम्बन्धिनीं तादृश-परमानन्दमयीं वा यत्र कृष्णेन सह सङ्गमस् तस्मिन् प्रवेश एवोषुः तत्रैव हेतुः क्षुत् तृड्भ्यां रोदनादि-श्रमेण च । यद् वा, क्षुत्-तृड्भ्यां यः श्रमस् तेन कृशीकृताः दौर्बल्यं प्राप्तिता इत्य् अर्थः । तत्र धेन्वादिषु तत्रैव विद्यमानास्व् अपि क्षुधादि-कर्शितत्वं तासां विष-सम्पर्क-शङ्कया श्री-कृष्णायानुपयोजनात्, ततः स्वयम् अप्य् अनुपयोगात् कालिन्द्या उपकूलतः विष-जलादि-भयेन तद् ध्रदस्य जलान्तिकं परित्यज्येत्य् अर्थः । अन्यथा दावाग्निना सर्वत आवरणासिद्धेः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उपकूलतः किञ्चित् कूलं परित्यज्येत्य् अर्थः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः परमद्य रात्रौ वयं कृष्णं निर्निमेषं पश्यन्त एव स्यामः भाग्याद् गतोऽपि कालियः पुनर् यदि वैरं सीषाधयिषुर् आयाति तदा मिलिती-भूय लकुटैर् वारयामः । न तु दर्शन-व्यवधायकं स्व-स्व-गृहं याम इति सर्वेषां मनोरथम् आलक्ष्य नन्दद्या व्रजौकसः उपकूलतः विष-जलादि-भयात् कूल-समीपं परित्यज्य ऊषुः अन्यथा दावाग्निना सर्वत आवरणासिद्धेः ॥२०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कथा-क्रमाद् अन्यां चाद्भुतां लीलाम् आहु—ताम् इति । व्रजौकसां कृष्णेन सह प्रत्येक-मिलने दिवसावसानात् प्राप्तो रात्रिं ते तत्रैव्ओषुः गतोऽपि कालियश् चेद् वैरं स्मरन् नागच्छेत्तदा तं सर्वेदण्डादिभिर् निवारयामो न तु कृष्ण-वीक्षण-व्यवधायकान् स्व-स्व-निलयान् गच्छाम इति भावेन तत्रैवावतस्युर् इत्य् अर्थः । उपकूलत इति विष-जलादि-भयात् तस्य ह्रदस्य कूल-समीपं परित्यज्येत्य् अर्थः, अन्यथा दावाग्निना सर्वतः आवरण-सिद्धेः । क्षुत्-ऋड्भ्याम् इति वृन्दाटवी दिव्य-फलानि वृन्दा-देव्या सङ्कल्पेनाहृतान्याहुः गावश् च तृणानि चेरुर् इति बोध्यम् ॥२०॥


॥ १०.१७.२१ ॥

तदा शुचि-वनोद्भूतो दावाग्निः सर्वतो व्रजम् ।
सुप्तं निशीथ आवृत्य प्रदग्धुम् उपचक्रमे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुचौ ज्येष्ठे ग्रीष्मे वा आसाढे वनोद्भूतः । यद् वा, शुचिना पवनेन वनोद्भूतः शुचि-पवन-शब्दयोर् एकार्थत्वात् पर्यायत्वम् पवनः पवताम् अस्मि इत्य् उक्तेः । यद् वा, मया कश्चिच् छुचिनाम् आपि मरुदस्ति तेन । शुचि-वलोद्भूतः इति पाठो विजयध्वज-सम्मतः, स सुगमः । पुराणेतिहासादौ पुनर् उक्तिर् दोषाय न इति, तस्याः काव्य-दोषत्वाद् इति । दाव इत्य् उक्तेः पुनर् अग्नि-पदोपादानं शुचिवनोद्भूत विशेषणं च । दावो वनानले चाथ दवश् च विपिनेऽपि च इति धरणिः ।

शुचिर् ग्रीष्माग्नि-शृङ्गारेष्व् आसाढे शुद्ध-मन्त्रिणि । > ज्येष्टे च पुंसि धवले शुद्धेऽनुपहते त्रिषु ॥ इति मेदिनी ।

आवृत्य परिवार्य दावाग्निर् अयं कंसानुचरः कालिय-सखः कश्चिद् असुर इति केचिद् आहुः ॥२१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तदा तद् रात्र्याम् एव, शुचि-ग्रीष्म-समयस् तत् सम्बधि वनं शुष्कारण्यम् इत्य् अर्थः, तत्र तस्माद् वा उद्भूतो\ऽयं च दावग्नि-रूपः कालिय सखः, कंसानुचरः कश्चिद् असुर इति केचिद् आहौः ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तदा तद् रात्र्याम् एव शुचिर् ग्रीष्म-समयः तत् सम्बन्धि वनं शुष्कारण्यम् इत्य् अर्थः । तत्र उद्भूतः अयं च दावाग्नि-रूपं कालिय-सखः कंसानुचरः कश्चिद् असुर इति केचिद् आहुः ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुचिर् ग्रीष्मः दावाग्निर् अयं कंसानुचरः कालिय-सखः कश्चिद् असुर इति केचिद् आहुः ॥२१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तदा रात्र्याम् एव शुचिर् ग्रीष्मस् तत्-सम्बन्धि वन शुष्कम् इत्य् अर्थः । तत्र्ओद्भूतोऽग्निः कश्चित् कालिय-सखः कंसानुचरो दैतिओ बोध्यः ॥२१॥


१०.१७.२२ ॥

तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः ।
कृष्णं ययुस् ते शरणं माया-मनुजम् ईश्वरम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः अग्निप्रवृत्तेः व्रजौकसः व्रजस्थ-कृषीवलाद्याः । मायया स्वरूपेणैव मनुजम् स्वरूप-भूतया निज-शक्त्या मायाख्यया इति श्रुतेः । यद् वा, मायया कापट्येनैव मनुजम् । वस्तुतस् तु—नराकृति-परब्रह्मत्वेन तद् रूपेणैवेश्वरम् । यद् वा, माया कृपा तद् उक्तं मनुजं द्विभुजत्वादि-साम्येन । यद् वा, मायाः लक्ष्म्या ईश्वरं स्वामिनम् अपि मनुजं मनुष्य-लीलं कृष्णं व्रज-जन-दुःख-कर्षकं कालिय-दमानादिना दृष्टत्वात् । शरणं यः अस्माकं प्राण-सङ्कटेऽस्मिन्न् एव बालके स्व-प्रसादाद् उद्भुते नारायण आविश्यास्मान् पालयति । अनेन सर्व-दुर्गाणि यूयम् अञ्जस्तरिष्यथ [भा।पु। १०.८.१६] इति गर्गोक्तेस् तम् इमं सप्रति नारायणाविष्टं कृष्णम् एव नारायण-परत्वेन विस्रभ्य विपत्तरणार्थं शरणं मम इति भावः ॥२२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्णं ययुस् ते शरणं मायाम् अनुजं माया योग-माया सर्वे परिजना अमनुजा यस्य तम् ॥२२॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्भ्रान्ताः, सद्यस् तत्-प्रतिकाराद्य् अज्ञानात् । यद् वा, निःसरणार्थम् इतस्-ततः कृतपरिभ्रमणा इत्य् अर्थः । यतो दह्यमाना दग्धुम् उपक्रम्यमाणाः, पश्चाद् ईषद् अग्नितापं लभमाना वा, माया कापट्यम्—यथा रासारम्भेऽपि धर्मानुशासनम् । किं वा, माया कृपा तद्-युक्तं मनुजं द्विभुजत्वादि-साम्येन । यद् वा, मायाया लक्ष्म्या ईश्वरं स्वामिनम् अपि मनुजं मानुष्य-लीलाम् इति कारुण्यद्य् अतिशयः सूचितः, तत्रापि कृष्णं व्रज-जन-प्राणनाथम्, अतः शरणं ययुः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्भ्रान्ताः सद्यस् तत् प्रतिकाराद्य् अज्ञानात् । यद् वा, निःसारणार्थम् इतस् ततः कृत-परिभ्रमणा इत्य् अर्थः । यतो दह्यमानाः दग्धुम् उपक्रम्यमाणाः मायया कापट्येनैव मनुजत्वेन प्राकृत-मनुष्यत्वेन स्फुरन्तं । वस्तुतस् तु नराकृति-पर-ब्रह्मत्वेन तद्-रूपेणैवेश्वरं । किं वा, माया कृपा तद् उक्तं मनुजं द्विभुजत्वादि-साम्येन । यद् वा, माया लक्ष्म्या ईश्वरं स्वामिनम् अपि मनुजं मानुष्य-लीलम् इति कारुण्याद्य्-अतिशयः सूचितः । तत्रापि कृष्णं तत्र व्रज-जन-प्राण-नाथम्, अतः शरणं ययुः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ कालिय-विषाग्नि-निर्जयानन्तरं दावाग्नि-निर्जय-प्रस्तावे तस्य योग-माया-वैभवम् आह—कृष्णं ययुस् ते-श्रवणं माया-मनुजम् ईश्वरम् । माया योग-माया तया अमनुजम्, मनुजाकृतित्वे अमनुज-धर्माणम् । यद् वा, मायया अमनुजम्, आकृत्यव मनुजम् इत्य् अर्थः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः): न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रजौकसः व्रज-स्थ-कृषीवलाद्याः मायया स्वरूपेणैव मनुजं स्वरूप-भूतया नित्य-शक्त्या मायाख्ययेति श्रुतेः । शरणं ययुर् इत्य् अहो अस्माकं प्राण-सङ्कट-समये अस्मिन्न् एव बालके स्व-प्रसादोद्भूते नारायण आविश्यास्मान् पालयति अनेन सर्व-दुर्गाणि युयम् अञ्जस् तरिष्यथ [भा।पु। १०.८.१६] इति गर्गोक्तेस् तम् इमं सम्प्रति श्री-नारायणाविष्टं कृष्णम् एव नारायणत्वेन विस्रभ्य विपत्तरणार्थ शरणं याम इति त्वम् ऋश्येति भावः ॥२२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सम्भ्रान्तास् ततो निःसर्तुम् इतस् ततो भ्रमतः अनेन सर्व-दुर्गाणि यूयम् अञ्जतरिष्यथेति [भा।पु। १०.८.१६] गर्गोक्ति-स्मरणट् कृष्णम् एव श्रवणं ययुः । कीदृशं मायया स्वरूप-शक्त्यैव मनुजं नराकारं स्वरूपभूतया नित्य-शक्त्या मायाख्यया युत इत्य्-आदि श्रुतेः परं ब्रह्म नराकृतीति स्मृतेश् च ॥२२॥


॥ १०.१७.२३ ॥

कृष्ण कृष्ण महा-भाग हे रामामित-विक्रम ।
एष घोरतमो वह्निस् तावकान् ग्रसते हि नः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे रामेति । अस्यापि तद् दिने सर्वज्ञत्व-दर्शनेनायम् अपि कृष्ण-भ्राता देवाविष्ट इत्य् अनुमानात् । तवकानित्य् उक्तिर् दयोत्पादनार्था ॥२३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-प्रकारम् एवाह—कृष्णेति । वीप्सा संभ्रमेण, स्नेह-भर-स्वभावेन वा महद्-भागम्, समूहार्थे अण् भग-शब्द-वाच्यम् ऐश्वर्य-वृन्दं यस्य तत्-सम्बोधनम्, अतस् तवाशक्यं किञ्चिद् अपि नास्तीति भावः । यद् वा, महान् भागो भाग्यम् अस्माद् दृशानां यस्माद् इति त्वत् साक्षाद् अस्माकं दुःअं नोपयुक्तम् इति भावः अमितो\ऽनन्तो विक्रमः शौर्यं यस्येति बलदेवं प्रति सम्बोधनम्, तव वीर्येण दावाग्निर् अपि निर्वातीति भावः । यद् वा, श्री-बल-भद्रं परित्यज्य कथं माम् एव शरणं याथेत्य् आशक्याहुः—रामाद् अपि रामेणापि वा, अमितो मातुम् अशक्यो विक्रमो यस्यः । यद् वा, रमयतीति रामो\ऽमितो विक्रमो यस्य सः । एष इति प्रत्यक्षत्वं शीघ्रत्वं वा बोधयति, घोरतमः, अप्रतिकार्यत्वात् त्व्द् अन्तिक-प्राप्तत्वाद् वा ग्रसते निःशेषेण संहरतीत्य् अर्थः । तावकान् इति कृपा-जननार्थं ग्रसनायोग्यत्व-बोधनार्थं वा, हि निश्चितम् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् प्रकारम् एवाह—कृष्णेति । विक्षासम्भ्रमेण स्नेह-भर-स्वभावेन वा महान् भागो भाग्यम् अस्माद् दृशानां यस्माद् इति त्वत् साक्षाद् अस्माकं दुःखं नोपयुक्तम् इति भावः । अमितः अनन्तो विक्रमः शौर्यं यस्येति बलदेवं प्रति सम्बोधनं तव वीर्येण दावाग्निर् अपि निर्वातीति भावः एवं तदापि तेषां महा-प्रभावत्वज्ञानम् एव जातं न-त्व् ऐश्वर्य-ज्ञानम् इति भावः । एष इति प्रत्यक्षत्वं शीघ्रत्वं वा बोधयति घोरतमः अप्रतिकार्यत्वात् युष्मद् अन्तिक-प्राप्तत्वाद् वा ग्रसते निश्शेषेण संहरतीत्य् अर्थः । तावकान् इति कृपा-जननार्थं ग्रसनायोग्यत्व-बोधनार्थं वा तव कममकाव्-एक-वचनम् इति तद्धित निमित्तकाद् आदेश-सूत्राद्यद् अत्रैकस्यैव सम्बन्धः प्रतिपाद्यते हि निश्चयं तत् खलु द्वयोर् अभेद-प्रतिपादनार्थम् इति ज्ञेयम् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वस्तुतस् तु श्री-कृष्ण-विग्रहस्यात्मत्वात् । तथा च अच्छेद्योऽयम् अदाह्योऽयम् [गीता २.२४] इत्य्-आदि । तेन तद् अविग्रह एवात्मा ॥२३.२५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे रामेति तस्यापि तद् दिने सर्वज्ञत्व-दर्शनादयम् अपि कृष्ण-भ्राता देवाविष्ट इत्य् अनुमानात् ॥२३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हे रामेति ! धेनुक-वधेन तस्याति-विक्रमावगमात् ॥२३॥


१०.१७.२४ ॥

सुदुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।
न शक्नुमस् त्वच्-चरणं सन्त्यक्तुम् अकुतो-भयम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कालाग्नेर् मृत्यु-रूपाद् अग्नेः । न मृत्योर् बिभीमः, किन्तु त्वच्-चरण-वियोगाद् इत्य् आहुः--न शक्नुम इति ॥२४-२५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मृत्योर् नित्यत्वात् ततो न भयम् इत्य् आहुः—नेति । तर्हि कुतः ? तत्राहुः—किं त्व् इति। प्रभो ! हे सर्वं कर्तुं समर्थ ! न कुतोऽपि भयं यस्मात्, तम् । अतो निज-चरण-परित्याग-भयम् अस्माकम् आशु विनाशयेति भावः ॥२४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वान् ज्ञातीन् आत्मीयान् वा, सु शोभनं हृद् येषां, तान्, सद्-भावेन तद्-एक-निष्ठान् इत्य् अर्थः । प्रभो ! हे सर्वं कर्तुं समर्थ ! न कुतो\ऽपि भयं यस्मात्, तम् अतो निज-रक्षयास्माकं भयम् आशु विनाशयेति भावः ।

यद् वा—ननु, ममाप्य् अयं भयङ्कर इति चेत्, तत्राहुः—न कुतो\ऽपि भयं यस्येति, साक्षाद् अधुनैव दर्शनाद् इति भावः, अतः सम्यक् मरणेनात्यन्त-वियुक्ततया न त्यक्तुं शक्नुम इति ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वान् ज्ञातीन् आत्मीयान् वा । सु शोभनं हृत् येषां, तान् । सद्-भावेन तद्-एक-निष्ठान् इत्य् अर्थः । प्रभो ! हे सर्वं कर्तुं समर्थः ! न कुतोऽपि भयं यस्मात्, तम् अतो निज-चरण-परित्याग-भयम् अस्माकम् आशु विनाशयेति भावः । अतः सम्यक् क्षणम् अपि वियुक्ततया त्यक्तुं न शक्नुम इति ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अकुतो-भयम् इति त्वच्-छरण-प्राप्तिं विना अन्यत् सर्वम् एवास्माकं भय-हेतुर् इत्य् अर्थः ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालो मृत्युस् तद्-रूपाद् अग्नेः । मृत्यौ सति त्वच्-चरणेन सह वियोगो भवेत् । स तु दुःसह इत्य् आहुः—न शक्नुम इति ॥२४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कालाग्नेर् इति मृत्यु-रुपाद् वह्नेर् इत्य् अर्थः । भृतो सति त्वच्-चरणाभ्यां सह वियोगः स्यात्, स च दुसह इत्य् आह—न शक्नुम इति ॥२४॥


१०.१७.२५ ॥

इत्थं स्व-जन-वैक्लव्यं निरीक्ष्य जगद्-ईश्वरः ।
तम् अग्निम् अपिबत् तीव्रम् अनन्तो\ऽनन्त-शक्ति-धृक् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् वनोद्भूतम् । अनन्त-शक्ति-धृग् इति वह्नि-पान-शक्तिर् अपि श्री-कृष्नेऽस्तीत्य् आह । ननु, परम-सुकुमारः कथं तीव्रम् अग्निम् अपिबत् ? तत्राह—अनन्त इति । तस्य संहारिका शक्तिर् एवापिबत्, तस्मिन् शक्तिम् अति तत्-पानोपचार-मात्रम् इति भावः । धृजु-गतौ भ्व्-आदिः, ततः क्विपि धृग् इति रूपम् ॥२५॥

विमोहान् ज्ञात-भगवत्-तत्त्वान् । अहो येन महा-विषः कालियो निरस्तस् सोऽयं साक्षाद् ईश एवेति । तत ईशत्वाद् एव । अनन्तश् चासौ वन-वह्निश् चेति ॥*॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थम् अनेन काकूक्त्य्-आदि-प्रकारेण । निरीक्ष्य साक्षाद् अनुभूयेव । यद् वा, इत्थम् ईदृश-दावाग्नि-कृतम् इत्य् अर्थः । तेषां विज्ञापनात् पूर्वम् एवालोक्य तं शुष्क-वनोद्भूतं सर्वतो व्यापकम् अतिवृद्धं चेत् इत्य् अर्थः, अतस् तीव्रं दुःसहम् इत्य् अप्रतिकार्यत्वम् उक्तम्, तथा-भूतम् अपिबद् इव निःशेषेण पानाभिनयादिना नाशयामासेत्य् अर्थः । तत्र च युक्तिर् नानुसन्धेयेत्य् आह—जगतां जगत्-स्रष्टृ-ब्रह्मादीनाम् अपि ईश्वरः सर्व-शक्ति-प्रद इत्य् अर्थः । तस्माद् एवाग्नेर् अपि शक्तिः । यद् वा, परमेश्वरत्वेन दुर्वितर्क्यं लिलत्वाद् इति भावः । यद् वा, देवतानाम् अग्नि-मुखाग्न्योर् अभेदेन स्व-स्थाने श्री-मुख-मध्ये स्थापितवान् इत्य् अर्थः । एवम् अग्नेर् अपि सुखम् अकरोद् इति ज्ञेयम्, यतो जगद्-ईश्वरः सर्व-देव-सुख-प्रदश् चेत्य् अर्थः ।

ननु, तर्हि श्री-मुखान्तर्-अग्नेर् वर्तमाणत्वेनास्मादृशां मनसि सन्तोषो न स्याद् इत्य् आशङ्क्याह—अनन्तो\ऽपरिच्छिन्नः । कस्मिन् श्री-मुखान्तर्-भागे\ऽग्निर् गतः, तम् अपि लक्षयितुं कश्चिद् अपि न शक्त इत्य् अर्थः ।

ननु, परम-स्निग्धतरैः श्री-नन्द-यशोदादिभिः साक्षात् तद् अग्नि-पानं कथं सोढम् ? कथं वा प्रसह्य न निवारितम् ? तत्राह—अनन्त-शक्ति-धृक्, तथा तत्-पानं चक्रे, यथा तैः कथञ्चिल् लक्षयितुं न शक्तम् इत्य् अर्थः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं स्व-प्रेमैक-मूलकानेक-काकूक्त्य्-आदि-प्रकारकं निरीक्ष्य अनुभूय तं तादृशं अतस् तीव्रं दुःसहं तथा-भूतम् अप्य् अपिबत् कारुण्य-मय-प्रेमावेशेनेति भावः ।

ननु, भवतु तद्-आवेशः, तेन कथं तत्-पानं स्याद् इत्य् आशङ्क्य गूढम् अपि तद्-ऐश्वर्यं स्व-समये स्वयम् एव व्यक्ती-भवतीत्य् अभिप्रेत्य सिद्धान्तयति—जगताम् ईश्वरः सर्वेषु तत्-तच्-छक्ति-प्रद इत्य् अर्थः । तस्माद् एवाग्नेर् अपि शक्तेः को नाम विस्मयः ? इति भावः ।

ननु, गोप-बालक-रूपः समन्ताद् भवम् अग्निं कथम् अपिबत् ? तत्राह—अनन्तः तादृशस्यैव विग्रहस्य विभुत्वेन स्वयम् अपि समन्तात् प्रकाशमान इत्य् अर्थः । न च तन्-मात्र-शक्तित्वम् अपि आश्चर्यम् इत्य् आह—अनन्त-शक्ति-धृग् इति । अत एव श्री-गोपा अपि निवारयितुं नावसरं लब्धवन्त इत्य् अर्थः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अपिबत् कृपावेशेन पानाभिनयेनैव संहृतवान् । तत्र हेतुः--जगद्-ईश्वरः अग्न्य्-आदीनां सर्वेषाम् एव तत्-तच्-छक्ति-प्रवर्तक-निवर्तकः समन्ताद् गताग्नि-पाने युक्तिः ॥ अनन्तः सर्वत्र प्रकाशमान-स्व-विग्रहः तादृश-शक्त्यावन् अद्भुतत्वम् अनन्त-शक्ति-धृग् इति ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-जन-वैक्लव्यं दृष्ट्वेति स्व-जन-विषयकस् तत् प्रेमैव तेषां रक्षणार्थं तमैश्वर्यम् अनुसन्धापयामासेति भावः ।

ननु, परम-सुकुमारः कथं तीव्रम् अग्निम् अपिबत् ? तत्राह—अनन्त-शक्ति-धृक् तस्य संहारिका शक्तिर् एवापिबत् । तस्मिन् शक्तिमति तत्-पानोपचार-मात्रम् इति भावः ॥२५॥

इति सारार्थ-दर्शिन्यां हार्षिण्यां भक्त-चेतसाम् ।

दशमेऽस्मिन् सप्त-दशः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, परम-सुकुमारः कथं तीव्रम् अग्निम् अपिबत् ? तत्राह—अनन्त-शक्ति धृग् इति । तम् अयति तीषौ सति तस्य दुष्ट-संहारिणी शक्तिर् एव तम् अपि वदित्य् अर्थः ॥२५॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां दशम-स्कन्धे दावाग्नि-मोचनं नाम > सप्तदशोऽध्यायः ।

॥१७॥



  1. नागास् तत्रान्ये ↩︎