१६

कालिय-दमनम्—नागपत्नी-कृतं नाग-कर्तृकं च भगवतः स्तवनं नाग-द्वारा ह्रद-परित्यागश् च ।

॥ १०.१६.१ ॥

श्री-शुक उवाच

विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।

तस्या विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

षोडशे कालियस्योक्तो निग्रहो यमुना-ह्रदे ।

तत्-पत्नीभिः स्तुतेनाथ कृष्णेनानुग्रहः कृतः ॥

हत्वा रासभ-दैतेयान् जग्ध्वा ताल-फलान्य् अलम् ।

प्रीतोऽनृत्यत् फणा-रङ्गे कालियस्य कलानिधिः ॥

उदवासयन् निःसारितवान् ॥१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ श्रुति-प्रोक्तं कालिय-दमनम् आह—यो\ऽहन्न् अहिम् अन्वपस् ततर्देत्य् अपाहस्तो अपृतन्यद् इन्द्रम् [ऋ।वे। १.३२.३६.१] इति । अर्थस् तु—योऽहिः सर्पोऽपो यनुना-जलानि ततर्द विष-सम्पर्केण नाशितवान्, तम् इन्द्रोऽहन् हिंसितवान् पीडन-मात्रम् अत्र हन्त्य् अर्थः । स चाहिर् अपात् पाद-हीनः अहस्तः श्वसन् इन्द्रम् अपृतन्यत् अयोधयत । इयम् एवाहि-रूपत्वाद् वृत्रय तद् वधम् अपि आह । अत्रेन्द्रः कृष्णस् तत्र वासव इति ।

निग्रहो दण्डः । तत्-पत्नीभिः कालिय-भार्याभिः ।*।

जग्ध्वा भुक्त्वा । अलं प्रीतोऽतिप्रीतः । फणा-रङ्गे स्फटा-रूप-क्रीडा-भूमौ । कलानां नृत्यादीनां वक्ष्यमाणानां निधिर् आधारः ।*।

श्री-शुक इह श्री-पदेन शुको यथाज्ञातम् एव वदति तथा सोऽपि व्रज-जन-दुःखानुसन्धानेन विस्तार्य नोवाच राज्ञः श्री-कृष्णाप्रियत्वात् । कृष्णाहिना श्याम-सर्पेण । कृष्णाम् यमुनाम् कृष्णा स्याद् द्रौपदी नीली कालिन्दी मरिचेषु च । कणा-द्राक्षासु भद्रासु इति धरणिः । तस्याः कृष्णायाः । विशुद्धिम् निर्विष-तोयताम् ॥१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विलोक्य दूषिताम् इत्य्-आदि । कृष्णां यमुनां कृष्णाहिना दूषितां विलोक्य तस्या विशुद्धिम् अन्विच्छन् कृष्णाहिम् उदवासयत् । अयं भावः—स्वयं कृष्णः कृष्णेति नाम्ना मित्र-भूतां कथम् अन्यो दूषयिष्यति ? मित्रभूताप्य् एषा शोधयितव्येति स्व-नाम्ना मित्रम् अपि**खलश् च दण्डनीय एवेति तथा द्वयं कृतवान् ॥१॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): कृष्णम् इति वर्णतो नामतश् चातः सख्यास् तस्या दुर्विष-दूषितत्वेनावश्य-प्रतीकार्यत्वम् अभिप्रेतम् । कृष्णेनाहिन इति महा-दुर्विषमयत्वम् उक्तम् । कृष्णो जगद्-धितार्थम् एव स्वयम् अवतीर्णो भगवान् इत्य् अर्थः । जल-विशोधनेन हि तस्यास् तेन जल-पानादि-सिद्ध्या व्रजस्य च, महा-तीर्थोद्धरणादिना च जगताम् अपि, तथा दमनादिना कालियस्यापि हिताचरणात् । एतत् सर्वम् अग्रे व्यक्तं भावि । यतो विभुर् एकयापि क्रिययानेक-कार्यं कर्तुं समर्थः । अत एव सर्पतीति सर्पस् तम् इति तस्यान्यत्र प्रयाण-प्रयासो\ऽपि निरस्तः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णाम् इति । वर्णतो नामतश् च, अतः सख्यास् तस्या दुर्विष-दूषितत्वेनावश्य-प्रतीकार्यम् अभिप्रेतम् । कृष्णेनाहिन इति महा-दुर्विषमयत्वम् उक्तं । न केवलं तस्या एव तद्-धितायाभूत्, अपि तु सर्वेषाम् अपि, यतः कृष्णः कर्षति दुःखानीति जल-पानादि-सिद्ध्या व्रजस्य, महा-तीर्थोद्धारणादिना जगताम् अपि, दमनादिना कालियस्यापि हिताचरणात् बाल्य-लीला-रसाविष्टस्यापि तस्य पूर्ववत् स्वावसरेण ऐश्वर्यम् अपि उदयते इत्य् आह—विभुर् इति ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ कालिय-दमन-लीलां प्रवक्तुम् उपक्रममाण आह—विलोक्य दूषिताम् इत्य्-आदि । कृष्णः कृष्णाहिना दूषितां कृष्णं यमुनां विलोक्य तस्या विशुद्धिं विशेषेण शुद्धिम् अन्विच्छन् तं सर्पम् उदवासयद् इति वाक्यार्थः । तात्पर्यार्थस् तु स्वयं श्री-कृष्णः स्व-नाम्ना मित्र-भूतां कथम् अन्यो दूषयिष्यति, तत एनां शोधयिष्य इति मित्र-वात्सल्यम्, एक-देशेन सुहृद् अपि यदि खलः स्यात्, तदा सोऽपि दण्डनीय एव, तत्र मित्रत्वेनोपरोधो न कार्य इति सद्-उपदेशं च दर्शयितुं तथा कृष्णः कृष्णां कृष्णाहिनेत्य् अनुप्रास-ध्वनिः ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

न्यगृह्णात् कालियं कृष्णो दर्शयन् स्वम् अपाद् व्रजम् ।

स्तुतोऽहिभिः प्रसन्नस् तान् षोडशे निरसारयत् ॥

कृष्णां यमुनाम् उदवासयत् तस्मान् निःसारितवान् ॥१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

ॐ नमः कालिय-मर्दनाय कृष्णाय

षोडशे कालियं कृष्णो न्यगृह्णात् तद्-वधस् ततः ।

अनुगृह्य तम् उत्सार्य यमुनां निर्विषां व्यधात् ॥

कृष्णां यमुनां नामतो वर्णतश् च साम्यात् सखीम् अवश्य-कर्तव्योपकाराम् इति भावः । कृष्णाहिना कालिय-सर्पेण । उदवासयत् निःसारितवान् ॥१॥


॥ १०.१६.२ ॥

राजोवाच—

कथम् अन्तर्-जलेऽगाधे न्यगृह्णाद् भगवान् अहिम् ।

स वै बहु-युगावासं यथासीद् विप्र कथ्यताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बहूनि युगान्य् आवसो यस्य तम् अहिम्स वै अहिर् अजल-चरोऽपि तस्मिन्न् अन्तर्-जले यथा येन प्रकारेण आसीत् । अथवा, बहूनि युगान्य् आवासो यथा भवति, तथा येन प्रकारेण स वै तत्रासीद् इति कथ्यताम् इति ॥२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सः कालियः । अगाधे तल-स्पर्शे । सर्प-विशेषणत्वे त्व् अजलचरस्य जले चिरं स्थित्य्-असम्भवात् प्रकारान्तरम् आह—अथवेतियथा येन प्रकारेण बहु-युगावासं बहु-युगान्य् आवासो यत्र तद् बहु-युगावासं स्यात्, तथेतीहार्थेन गृह्णाति—येन प्रकारेण इति । तत्र कृष्णायाम् । आसीद् बभूव । इति को\ऽर्थः स प्रकारः कथ्यताम् । हे विप्र ! परम-विद्या-प्रवीणत्वात् त्वं सर्वं जानासीति भावः ।

जन्मना ब्राह्मणो ज्ञेयः संस्कारैर् द्विज उच्यते ।

विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय-लक्षणम् ॥ इति याज्ञवल्क्यात् ॥२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै च—स च । बहु-युगावासम् इति दूषिताम् इत्य् उक्तेः । कालिय-हृद इति प्रसिद्धेर् बाल्य-काल-वासेन तद्-असम्भवात् । भगवान् मादृशां प्रभुर् इति प्रहर्षात् । किं वा, अगाध-जलान्तर्-दुष्टाहि-निग्रहे दुःख-शङ्कया शोकाद् एव, अतो विशेषेण प्रकर्षेण च कथ्यताम् । यद् वा, विशेषतः प्राति सर्व-मनोरथं पूरयतीति विप्रः, तस्य सम्बोधनम्, तत्-कथनेन मादृशां कामं परिपूरयेति भावः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् सर्वेणापि प्रकारेण कर्तुं समर्थः तथापि कथं केन प्रकारेणेति वै च बहु-युगावासम् इति विश्रुतत्वात् बहूनि युगानि आवासो यथा तादृशं यथा भवति तथा यथा आसीत् तत् कथ्यताम् इत्य् एवान्वयः । विप्र ! हे परम-विद्या-प्रवीण ! तथा च याज्ञवल्क्यः—

जन्मना ब्राह्मणो ज्ञेयः संस्कारैर् द्विज उच्यते ।

विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय-लक्षणम् ॥ इति ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : बहु-युगावासम् इति विश्रुतत्वात् बहूनि युगानि आवासो यत्र तादृशं यथा भवति, तथा यथा स्यात् तथा कथ्यताम् इत्य् एवान्वयः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बहूनि युगानि व्याप्य आवासो यत्र तद् यथा स्यात्, तथा आसीत् । विशेषतः प्रकर्षेण कथ्यताम् ॥२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अगाधे जलेऽन्तः कथम् अहिं न्यगृह्णात् स वै चाहिर् अजल-चरोऽपि बहूनि युगन्य् आवासो यत्र तद् यथा स्यात्, तथा तस्मिन् जले कथम् आसीत् कथ्यताम् । हे विप्र ! विद्याति-निपुण !

जन्मना ब्रह्मणो ज्ञेयः संस्कारैर् द्विज उच्यते ।

विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय-लक्षणाम् ॥ इति-याज्ञवल्क्योक्तेः ॥२॥


॥ १०.१६.३ ॥

ब्रह्म भगवतस् तस्य भूम्नः स्वच्छन्द-वर्तिनः ।

गोपालोदार-चरितं कस् तृप्येतामृतं जुषन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपालेन यद् उदारं चरितम् आचरितं, तद् एव्आमृतम् । अतः कथ्यताम् इति ॥३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे ब्रह्मन् ! इति त्वं साक्षाद्-ब्रह्म-रूपत्वेनान्य-प्रबोधनेऽपि समर्थोऽसीति भावः । एवं श्लेषेण सर्व-भक्त-श्रोत्रादीन्द्रियाणां पालनेन उदारं सुख-दातृ चरितम् इति । स्वानां स्वस्य वा छन्देन वर्तितुं शीलम् अस्येति तथा तस्य । जुषन् सेवमानः ॥३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गोपालोदार-चरितम् इति । गोपालवद् उदारं सुन्दरं यच् चरितं तद् एव अमृतम् ॥३॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तद् विशेष-कथनं परम-दुःख-प्रदम्, अत एव मया सङ्क्षिप्य कथितम्, तत्राह—ब्रह्मन्न् इति । भगवतः सर्वैश्वर्य-युक्तत्वाद् एव भूम्नः परिपूर्णस्य स्वच्छन्द-वर्तिनश् च परम-स्वतन्त्रस्य तादृशस्यापि गोपालन-रूपम् अत एव्ओदारं सर्वोत्कृष्टं सुख-प्रदं वा यच् चरितम् अमृतम् इति मरण-तुल्य-महा-दुःख-निवर्तकम्, तद् एव महौषधम् इति भावः ।

यद् वा, गोपालनेनोदार-चरितत्वस्य हेतुत्वेन त्रीणि विशेषणानि—तत्र भगवत इति तेनैव भगवतो विशेष-प्रकटनात्, अत एव भूम्नो\ऽपरिच्छन्न-माहात्म्यस्य, यतः स्वानां छन्देन इच्छया वर्तितुं शीलस्य,

यद् वा, तत्त्व-दृष्ट्या तद्-दुःखं सह्यम् अपि स्याद् इति त्रिभिर् विशेषणैर् आह—तत्राद्याभ्यां वक्ष्यमाणावस्थादिकं निरस्तम्, आत्मेच्छया वर्तिन इत्य् अनेन च महा-कौतुकिनस् तस्य लीलया कौतुकम् एव, न तु शोक इति

यद् वा, भक्तेच्छानुवर्तिन इति तस्य सदा सर्वत्र सुखम् एवेति बोधितम् । अथवा, अमृतम् इति परम-दुःखमयस्यापि तच्-चरितस्य तस्य प्रेम-विशेष-स्वभाववत् परमानन्दमयत्वम् एवाभिप्रेतम् । तच् च श्री-भागवतामृतोत्तर-खण्डे विवृतम् अस्ति । गोपालेति सम्बोधनम् ।

यद् वा, हे वाक्पते ! किं वा, श्री-भगवता सह गुरोर् अभेद-दृष्ट्या, हे श्री-कृष्णेत्य् अर्थः । अन्यत् समानम् । अतस् तस्माद् उपरन्तुं शक्नोमि, किं कुर्याम् अतः कथ्यताम् एवेति भावः । ब्रह्मन् हे वेदमयेति यथा वेदेषु वर्तमानं दुःख-व्रतम् अपि न किल त्यज्यते, तथेदम् अपि न त्याज्यं स्याद् इति भवता ज्ञायत एवेति भावः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्य् अपि श्री-मुनीन्द्रेण तद् विशेष-दुःख-शङ्कया सङ्क्षिप्य कथितं, तथापि तद्-अज्ञानेन राज्ञा तल्-लीला-सामान्याभिलाषाद् एव यथा दृष्टम् इति तद् वाक्येनैव दर्शयति—ब्रह्मन्न् इति । भगवतः ऐश्वर्यादि-षट्क-युक्तस्य भूम्नः सर्वथापि सर्वातिशयितस्य तथापि स्वच्छन्द-वर्तिनः स्वैर-लीला-प्रकाशिनः, एवम् एवम्भूतस्य गोपाल-जात्य्-अनुरूपम् उदारं सर्वतोऽपि महत् परमानन्द-दातृ वा यच् चरितं तज् जुषमाणः कस् तृप्येत् ? अतृप्तौ हेतुः—अमृतम् इवेति ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्यपि मुनीन्द्रेण तद्-विशेष-दुःख-शङ्कया सङ्क्षिप्य कथितं, तथा तद्-अज्ञानेन वा तल्-लीला-सामान्याभिलाषाद् एव तथा पृष्टम् इति दर्शयति—ब्रह्मन्न् इति । स तु तत्-प्रीतये स्व-दुःख-कथा-निवेदनाय च नात्यन्तम् अर्थेऽभिनिवेश्य यथा-श्रुतम् एवोवाचेत्य् अर्थः ॥३.४॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तत्-केलि-श्रवण-श्रद्धालुतां राजा प्रकटयन्न् आह—ब्रह्मन्न् इत्य्-आदि । हे ब्रह्मन् भूम्नः परासरस्य तस्याचिन्त्य-परमेश्वर्यस्य भगवतः कृष्णस्य स्वच्छन्द-वर्तिनः स्वाधीनस्य गोपालोदार-चरितं जुषन् कस् तृप्येत । अत्र कस्यापि यस्य कस्यचिज् जनस्यापि तृप्तिर् नास्ति, तद्-बन्धु-पौत्रस्य तद्-भागिनेय-पुत्रस्य तेनैव रक्षितस्य मम पुनस् तृप्तिर् न स्यात्, तत् किं ?

अयं भावः—तथा-विधेश्वरस्य तथा-विधैश्वर्य-प्रतिपादकेषु चरितेषु वरं तृप्तिर् जायते, वैचित्र्याभावात्, तस्य तु गोपाल-क्रीडायां वैचित्र्य-विशेषवत् तया न तृप्तिर् इति गोपालोदार-शब्दयोर् महिमा ॥४.८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गवां श्लेषेण सर्व-भक्त-श्रोत्रादीन्द्रियाणां च पालनेन्ओदारं सुख-दातृ-चरितम् ॥३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गवाम् पशूनां स्व-भक्त-श्रोत्रेन्द्रियाणां च पालनेन्ओदारं सुख-दातृ-चरितम् ॥३॥


॥ १०.१६.४ ॥

श्री-शुक उवाच

कालिन्द्यां कालियस्यासीद् ध्रदः कश्चिद् विषाग्निना ।

श्रप्यमाण-पया यस्मिन् पतन्त्य् उपरिगाः खगाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रप्यमाणं पच्यमानं पयो यस्य सः । अत उपरि गच्छन्तः खगा यस्मिन् पतन्ति ॥४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कालिन्द्या ह्रदः इति हरिवंशोक्तेर् योजन-प्रमाणस् तस्या दक्षिण-भागे वर्तमानस् तद्-गर्गजस् तत्-प्रवाहास्पृष्ट एव, अन्यथा तद् विष-संपृक्त-जलवती सा मथुरादि-देशस्थ-जनैर् अव्यवहार्येवाभविष्यद् इति ज्ञेयम् । ह्रदः अगाध-जलवद्-वट-विशेषः । तत्रागाध-जलो ह्रदः इत्य् अमरः ॥४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कालिन्द्यां ह्रद इति तस्या दक्षिण-भागे वर्तमानस्य तस्य तया सह सङ्गमेनैक्य-प्राप्तेस् तस्याः प्रवाहस् तूत्तरत एवोह्यो\ऽन्यथा तद्-दुर्विष-जलेन यादव-कुलावास-श्री-मधु-पुर्यादि-व्याप्तेः । आसीद् इत्य् अतीत-निर्देश-कालिय-सम्बन्धाद्य्-अपेक्षया, कश्चिद् एको\ऽनिर्वचनीयो वा । अनिर्वचनीयत्वम् एव दर्शयति—विषेत्य्-आदि । उपरिगा ऊर्ध्वे गच्छन्तः खगा इति, तत्रापि दूरगा इत्य् अभिप्रेतम् ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-शुक उवाचेति तद् एवं निशम्य सवासनत्वे तस्मिन् जात-स्नेहः सुख-दुःखात्मकं सर्वम् एव तादृशाय निवेदनीयम् इत्य् अभिप्रायेण श्री-व्रज-वासि-दुःखमय-निज-दुःखात्मकम् अपि तन् निवेदयन् श्री-शुक-वद् यथाश्रुतम् एवोवाच, न त्व् अन्यत्रैव विस्तार्यापीत्य् अर्थः । कालिन्द्यां ह्रद इति तस्या दक्षिण-भागे वर्तमानस्य तस्य तद्-गर्भजत्वात् तस्याः प्रवाहस् तूत्तरतः पृथग् एवोह्यः, अन्यथा तद्-दुर्विष-जलेन यादव-कुल-वास-श्री-मधुपुर्य्-आदि-व्याप्तेः । स तु कालियस्य विषाग्निना श्रप्यमाण-पया आसीत् उपरिगाः ऊर्ध्वं गच्छन्तः खगा इति, तत्रापि दूरगत्वम् अभिप्रेतम् ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, जीव-गोस्वामी बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालिन्द्यां ह्रद इति हरि-वंशोक्त-योजन-प्रमाणः, तस्या दक्षिणे भागे तत्-प्रवाहेणास्पृष्ट एव । अन्यथा तद्-विष-संपृक्त-प्रवाहवती सा मथुरादि-देशस्थ-जनैर् अव्यवहार्यैवाभविष्यद् इति ज्ञेयम् । श्रप्यमाणं पच्यमानं पयो यस्य सः ॥४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कालिन्द्याम् इति । तस्या दक्षिणे भागे तत्-प्रवाहेणास्पृष्टो योजन-प्रमाणो ह्रदः श्री-हरिवंशोक्तेर् बोध्यः तत्-स्पर्शे तत्-प्रवाहस्य माथुरादिभिर् अव्यवार्यता स्यात् । श्रप्यमानं पच्यमानं पयो जलं यस्य सः । पतन्ति विष-ज्वालया विग्लाताः सन्तः ॥४॥


॥ १०.१६.५ ॥

विप्रुष्मता विषोदोर्मि-मारुतेनाभिमर्शिताः ।

म्रियन्ते तीरगा यस्य प्राणिनः स्थिर-जङ्गमाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, विप्रुष्मता अम्बु-कण-युक्तेन विषोद-तरङ्ग-स्पर्शि-मारुतेन स्पृष्टा यस्य तीरगा म्रियन्ते, स ह्रद आसीद् इति ॥५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्रान्यद् आह—किं च, इति । यस्य ह्रदस्यअभिमर्शिताः स्पृष्टाः ॥५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विप्रुष्मतेति श्रप्यमाण-पयस् तया सदा जवेन तत्-फणानाम् उच्चलनाद् इति मारुतस्य अतिदाहकत्वम् उक्तम् । अन्यश् च विशेषः श्री-हरि-वंशे—

दीर्घ योजन-विस्तारं दुस्तरं त्रि-दशैर् अपि ।

गम्भीर-मक्षोभ्य-जलं निष्कम्पम् इव सागरम् ॥

दुःखोपसर्पं तीरेषु ससर्पैर् विपुलैर् बिलैः ।

विषारणिभवस्याग्नेर् धूमेन परिवेष्टितम् ॥

तृणेष्व् अपि पतत्स्व् अप्सु ज्वलन्तम् इव तेजसा ।

समन्ताद् योजनं साग्रं तीरेष्व् अपि दुरासदम् ॥ [ह।वं। २.११.४२,४४,४६] इति ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विप्रुष्मतेति । श्रप्यमाण-पयस् तया सदा जवेन तत्-कारणानाम् उच्चलनात् इति मारुतस्यापि दाहकत्वम् उक्तम् । अन्यश् च विशेषः श्री-हरिवंशे—

दीर्घं योजन-विस्तारम् अगम्यं1 त्रिदशैर् अपि ।

गम्भीरम् अक्षोभ्य-जलं निष्कम्पम् इव सागरम् ॥

दुःखोपसर्पं तीरेषु ससर्पैर् विपुलैर् विलैः ।

विषारणीभवस्याग्नेर् धूमेन परिवेष्टितम् ॥

तृणेष्व् अपि पतत्स्व् अप्सु ज्वलन्तम् इव तेजसा ।

समन्ताद् योजनं साग्रं तीरेष्व् अपि दुरासदम् ॥ [ह।वं। २.११.४२,४४,४६] इति ।

एवं भूमि-गुहायां तत्-पुरी-जल-स्तम्भ-विद्यया जल-मध्य एव वा ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विप्रुष्मतेति जल-स्तम्भ-विद्यया तन्-मध्य एव तत्-पुरी दुःखोपसर्पं तीरेषु स-सर्पैर् विपुलैर् बिलैः [ह।वं। २। ४२] इति श्री-हरि-वंश-दृष्ट्या बिलेष्व् अपि ॥५.६॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विप्रुष्मता अम्बु-कणा-युक्तेन विषोदक-तरङ्ग-स्पर्शि-मारुतेन अभिमृष्टाः स्पृष्टाः ॥५ ॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विप्रुष्मता तद्-अम्बु-कण-युक्तेन अभिमर्षिताः स्पृष्टाः सन्तः ॥५॥


॥ १०.१६.६ ॥

तं चण्ड-वेग-विष-वीर्यम् अवेक्ष्य तेन

दुष्टां नदीं च खल-संयमनावतारः ।

कृष्णः कदम्बम् अधिरुह्य ततोऽतितुङ्गम्

आस्फोट्य गाढ-रशनो न्यपतद् विषोदे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं कालियम् । चण्डो वेगो यस्य तद् विषम् एव वीर्यं यस्य तम् । कदम्बम् इति । भाविना श्री-कृष्ण-चरण-स्पर्श-भाग्येन स एकस् तत्-तीरे न शुष्कः इति ज्ञातव्यम् । अमृतम् आहरता गरुत्-मता क्रान्तत्वाद् इति च पुराणान्तरम् । आस्फोट्य बाहुं कर-तलेनाहत्य । गाढा दृढं बद्धा रशना कटि-बन्धन-वस्त्रं येन सः ॥६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चण्डस् तीक्ष्णो वेगःतेन कालियेन । ततः कदम्बात् । अतितुङ्गात् अत्युच्चात् । ह्र्द इति शेषः ॥६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वेगस् तेजो जवो वा, चण्डेत्य् अप्रतिकार्यत्वादितो\ऽयं निःसार्यं एवेति भावः । तेन कालियेन हेतुना । अधिरूह्य तच् छिखरम् आरूह्य, तथा च तत्रैव अरोहच् चपलः कृष्णः कदम्ब-शिखरं मुदा [हरि-वंशे विष्णु।प। २.१२.१] इति । ततः कदम्बात्, गाढ-रसनः इत्य् अनेन केशादीनाम् अपि गाढ-बन्धनम् उपलक्ष्यते, तथा च तत्रैव बद्ध्वा परिकरं दृढम् [हरि-वंशे।विष्णु।प। २.१२.१] इत्य् अभिमुखम् अपतत्, न्यपतत् इति पाठे महा-वेगेन कुर्दित्वा मध्ये\ऽपतत् । यतः खलानां दुष्टानां संयमनायावतारः श्री-वैकुण्ठाद् अवतरणम्, । किं वा, मत्स्याद्य् अवतारा अपि यस्य स इति कालिय-दमनार्थम् इत्य् अर्थः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वेगः शीघ्र-प्रसर्पणं चण्डेति अप्रतिकार्यत्वाद् इतिओऽयं निःसार्य एवेति भावः । तेन कालियेन हेतुना अधिरुह्य तच् छिखरे आरुह्य तथा च तत्रैव अरोहच् चपलः कृष्णः कदम्ब-शिखरं मुदा [हरि-वंशे विष्णु।प। २.१२.१] इति ततः कदम्बात् गाढ-रसन इत्य् अनेन केशादीनाम् अपि गाढ-बन्धनम् उपलक्ष्यते तथा च तत्रैव बद्ध्वा परिकरं दृढम् [हरि-वंशे।विष्णु।प। २.१२.१] इति न्यपतद् इत्य् अत्र हेतुः खलानां संयमनाय अवतारः स्व-लोकाद् अवतरणं किं वा, मत्स्याद्य् अवतारा अपि यस्य सः इति कालिय-दमनार्थम् इत्य् अर्थः । एकः कदम्बः किम् अवशिष्टः श्री-कृष्ण-वृक्षत्वात् कृष्णवत्

कदम्बः कृष्ण-वृक्षो हि कालिय-हृद-समीपगः ।

तस्माद् एको न शुष्कोऽसौ विष-हारकरः परान् ॥

इति प्रसिद्ध्या श्री-कृष्णेनैव स विहाराय रक्षित इति गम्यते, परान् इति वचनात् तत् सन्निवासिनो वृक्ष-गणा अपि न मृता इत्य् आयातम् एवेत्य् अर्थः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं कालियं कदम्बम् इति भाविना श्री-कृष्ण-चरण-स्पर्श-भाग्येन स एकस् तत्-तीरे न शुष्कः अमृतम् आहरता गरुत्मताक्रान्तत्वाद् इति पुराणान्तरम् इति श्री-स्वामि-चरणा गाढं दृढं बद्धा रसना रसनापदोपलक्षिताः कुन्तलोष्णीषादयोऽपि येन सः आस्फोट्य बाहुं करतलेनाहत्य ॥६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तम् अर्हि कदम्बम् अधिरुह्यातितुङ्गात् ततो विषोदेऽभ्यपतत् । एष कदम्बो भावि-भगवत् पद-स्पर्श सौभाग्यान् न शुष्कः सुधाम् आहरता गरुडेन तस्मिन्न् उपवेशाद् वा, गाढा दृढ-बद्धा रसना परिकर-बन्धनं येनेति कुन्तलीष्णीषादेर् उपलक्षणम् । बाहुं वामं दक्षिण-पाणि-तलेन्आस्फोट्य आहत्य ॥६॥


॥ १०.१६.७ ॥

सर्प-ह्रदः पुरुष-सार-निपात-वेग-

सङ्क्षोभितोरग-विषोच्छ्वसिताम्बु-राशिः ।

पर्यक्-प्लुतो विष-कषाय-विभीषणोर्मिर्

धावन् धनुः-शतम् अनन्त-बलस्य किं तत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा सर्पस्य ह्रदःपुरुष-श्रेष्ठस्य पतन-भारेण सङ्क्षोभितानाम् उरगाणां विषैर् उन्नतोऽम्बु-राशिर् यस्य सः । विषेण कषायी-कृता भयं-करा ऊर्मयो यस्य सः । पर्यक् परितो धावन् धनुः-शतं प्लुतः प्रसृतः । नैतच् चित्रम् इत्य् आह—अनन्त-बलस्येति ॥७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा पतन-काले । कषायी-कृताः क्वथिताः । यद् वा, विष-कषायेण विष-रागेण विभीषणा उर्मयो यस्येति क्वर्थे रागे कषायोस्त्री निर्यासे सौरभे रसे इति यादवः । किं तत् न किम् अपीत्य् अर्थः । लक्ष-योजन-विस्तारायाम् अपरीमित-भू-प्लावनम् अपि तत्र नाद्भुताव् अहम् इति भावः । षण्णवत्य् अङ्गुलं धनुः इत्य् अमरः । धनुर् हस्त-चतुष्टयम् इति च ॥७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरुष-सारत्वाद् एव वेगेन जवेनातिशीघ्रं सांक्षोभितो\ऽतएवोरग-विषोच्छवसितश् चाम्बु-राशिर् यस्य सः ।"कषायित" इति पाठः श्री-चित्-सुखस्य श्री-स्वामि-पादानां च सम्मतः, कषायी-कृताः इति व्याख्यानात् । धीमन् हे विवेकिन्न् इति राजानम् आश्वासयति । अनन्त बल शक्तिर् यस्य, तत् कर्म । यद् वा, अनन्तस्य नागराजस्यापि बल यस्मात् तस्य तद् विषं किम् ? अपि तु न किञ्चिद् अपीत्य् अर्थः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुरुष-सारत्वाद् एव निपात-वेगः अन्यत् तैः । यद् वा, पुरुषस्य भगवतः सारेण किञ्चिद् बल-प्राकट्येन यो निपातस् तस्य वेगेन जवेन संक्षोभितः अत एवोरगविषोच् च्वसितश् च्आम्बु-राशिर् यस्य स कषायितेति पाठः श्री-चित् सुखस्य श्री-स्वामि-पादानां च सम्मतः कषायी-कृत इति व्याख्यानात् । कषायोऽत्र क्वाथ्य-रसो रक्तः पीत-वर्णो वा निर्यासेऽपि कषायोऽत्री इत्य् अत्र क्षीर-स्वामिना तत् तद् व्याख्यानात् । धीमन् हे विवेकिन् ! इति राजानम् आश्वसयति, धनुषः प्रमाणम् उक्तम्—

अष्टभिर् यव-मध्यैः स्याद् अङ्गुलं द्वादशाङ्गुलम् ।

तालं त्रितालको हस्तो हस्तौ द्वौ किष्कुर् उच्यते ॥

किष्कु-द्वयं धनुः प्रोक्तम् ।

इत्य् अतः पूर्वं तावत् प्रदेश-मातम् आक्रम्यैव बाला गावश् च रक्षिता इति ज्ञेयम् अनन्तं बलं शक्तिर् यस्य तत् कर्म । यद् वा, अनन्तस्य नाग-राजस्यापि विषादि-बलं यस्मात् तस्य तद् विषं किम्? अपि तु न किञ्चिद् अपीत्य् अर्थः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पुरुषस्य भगवतः सारेण किञ्चिद् बल-प्राकट्येनेत्य्-आद्य् अपि ग्राह्यं कषाइतेति पाठः श्री-स्वामी-चित्-सुखस्यापि मतः कषायी-कृता इति व्याख्यानात् ॥७.८॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च पुरुषस्य कृष्णस्य सारेण बलेन यो निपात-वेगस् तेन सङ्क्षेपाभितानाम् उरगाणां विषैर् उन्नतोऽम्बु-राशिर् यस्य सः । विषेण कषायी-कृता रक्त-पीत-वर्णी-कृता भयङ्करा ऊर्मयो यस्य सः । निर्यासेऽपि कषायो स्त्री इत्य् अत्र क्षीर-स्वामिना तथा व्याख्यानात् । पर्यक् परितः धनुः-शतं प्लुतः प्रसृतः—

अष्टभिर् यव-मध्यैः स्याद् अङ्गुलं तैस् त्रिभिर् भवेत् ।

तालं त्रितालको हस्तो हस्तौ द्वौ किष्कुर् उच्यते ।

किष्कु-द्वयं धनुः प्रोक्तम् ॥ इति ॥७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पुरुषस्य हरेः सारेण बलेन यो निपात-वेगस् तेनासङ्क्षोभितानाम् उरगाणां विषैर् उच्छवसित उन्नतोऽम्बुर्-आशिर् यस्य सः । विषे कषायां क्वाथरसो रक्त-पीत-वर्णता तेन विभीषणा भयङ्करा ऊर्मयो यस्य स सर्प-हृदः पर्यक् परितो धनुः-शतं प्लुतः प्रसृतोऽभूत्—

अष्टभिर् यवमध्यैः स्याद् अङ्गुलं तैर् स्त्रिभिर् भवेत् ।

तालं त्रि-तालको हस्तौ हस्तौ द्वौ किङ् कुरुच्यते ॥

किष्कुद्वयं धनुः प्रोक्तम् ।

इति वचनात् धनुर् मानं बोध्यम् ॥७॥


॥ १०.१६.८ ॥

तस्य ह्रदे विहरतो भुज-दण्ड-घूर्ण-

वार्-घोषम् अङ्ग वर-वारण-विक्रमस्य ।

आश्रुत्य तत्-स्व-सदनाभिभवं निरीक्ष्य

चक्षुः-श्रवाः समसरत् तद् अमृष्यमाणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ह्रदे विहरतो भुज-दण्डाहतोदक-घोषं श्रुत्वा ततः स्व-सदनाभिभवं निरीक्ष्य तद् असहमानः सर्पः समसरत् समाजगाम ॥८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्ग हे नृप । वर-वारणो गर्जेन्द्रस् तद् वद् विक्रमस्य । यद् वा, अङ्गैर् अवयवैर् वरः श्रेष्ठो यो वारणस् तत्-सम-विक्रमस्य । ततः श्री-कृष्णात् । स्व-सदनाभिभवं स्वस्यानपराभ्वं । समाजगाम बाधितुम् आजगामेत्य् अर्थः । वरः श्रेष्ठेविटपतौ च देवादेर् ईप्सते वते इति यादवः ॥८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विहरतो विचित्र-जल-वाद्य-सन्तारादि-क्रीडा कुर्वतः । अङ्गेत्य् अव्ययम्, राज्ञः शोक-निरासार्थं स-लालन-सम्बोधने, हे अङ्ग-स्वरूपात्मीयेति वा । वर-वारणो मत्त-गजेन्द्रस् तद्वद्-विक्रमो जलाहति-क्रीडा यस्य । किं वा, जले\ऽपि वर-वारणवद् विक्रमो लीला-गतिर् यस्य । यद् वा, अङ्गे कश्मिश्ंचित् श्री-पादाब्ज-कनिष्ठाङ्गुल्य-वयवे\ऽपि वार-वारणाद् ऐरावताद् अपि विक्रमः शक्ति-विशेषो यस्य तस्येति । भुज-दण्डाभ्याम् आहतस्य जलस्य महा-शब्दो नाद्भूत इति भावः । निरिक्ष्यालोच्य चक्षुसैव शृणोतीति चक्षुः-श्रवा इति तद्-घोष-श्रवणे चक्षु-प्रवृत्तेस् तस्य वक्ष्यमाण-सौन्दर्यं न किञ्चिद् आकलयद् इति भावः, अन्यथा दंशनासम्भवात् । यद् वा, चक्षुषि श्रवः कीर्तिर् यस्य चक्षुषा श्रवणस्यापि सिद्धेस् तत् साफल्यं त्व् अधुनैवाभूद् इति भावः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विहरतः विचित्र-जल-वाद्य-सन्तारादि-क्रीडां कुर्वतः । वर-वारणो दिग्धस्ती तद्वद् विक्रमस्य अङ्त्येव्ययं राज्ञः शोक-निरासार्थं सलालन-सम्बोधनम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, जीव-गोस्वामी बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विरहतः विचित्र-जल-वाद्य-सन्तारादिना क्रीडतः भुज-दण्डाभ्यां घूर्णा येषां तथा-भूतानां वारां जलानां घोषं श्रुत्वा तत्ततो घोषाद् एव स्व-सदनस्याभिभवं निरीक्ष्य तत्तम् असहमानः ॥८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तस्य विहततो विचिर-जल-वाद्य-सन्तारादिना विक्रीडतो भुज-दण्डाभ्यां घूर्णा येषां तादृशानां वारां घोषम् आश्रुत्य तद् दोषाद् एव स्व-सदनस्याभिभवंनिरीक्ष्य तत्-तद् अमृष्यमाणोऽसहं चक्षुः-श्रवाः सर्पः समसरद् आगतः ॥८॥


॥ १०.१६.९ ॥

तं प्रेक्षणीय-सुकुमार-घनावदातं

श्रीवत्स-पीत-वसनं स्मित-सुन्दरास्यम् ।

क्रीडन्तम् अप्रतिभयं कमलोदराङ्घ्रिं

सन्दश्य मर्मसु रुषा भुजया चछाद ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेक्षणीयश्सुकुमारश्घन-वद् उज्ज्वलश् च तम् । श्रीवत्स-पीत-वसनं ह्रदे विहरतः श्रीवत्सेन संयुक्तम् उच्चलत् पीतं वस्त्रं यय तम् । भुजया भोगेन चच्छाद अवेष्टयत् ॥९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कृष्णम् अवदातः श्यामः, अवदाते\ऽरुणे पीते श्वेते श्यामे निरामये इति शाश्वतः। मर्मसु तारणादिनातीव पीडा मृत्युर् वा जायते, तत् स्थानं मर्मेति । अप्रतिभयं निर्भयम् । भुजया भोगेन शरीरेण, भोगः सुखे धने चाहेः शरीर-फणयोर् अपि इति मेदिनी । भुजति कुटिली-भवतीति भुजा, भुजो कौटिल्ये इग्-उपधत्वात् कः ॥९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तं प्रेक्षणीयेत्य्-आदि । प्रेक्षणीयः सुन्दरः सुकुमारः सुकोमलो घन इव घन-श्यामल इति यावत्, तथाप्य् अवदातम् उज्ज्वलं श्रीर् लक्ष्मीस् तद् युक्तं वत्सं वक्षस् तत्र पीत-वसनं यस्य । तावता आवेगेनापि जल-निपाते वक्षसः पीतवासो न स्खलितम् इति तात्पर्यम् ॥९॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तादृशे\ऽपि दुष्टो\ऽसौ तथाचेष्टतेति कालियस्य महापराधं दर्शयन् भाव-विशेषेणानुशोचन् विशिनष्टि, तं प्रेक्षणीयेत्य्-आदिदिना । क्रीडन्तम् इत्य् अर्थः हेतुः—अप्रतिभयम् इति । यद् वा, अप्रतिभयम् अपि संदश्य चछादेति कालियस्य निर्बुद्धित्वं सूचयति । यद् वा, अप्रतिभयं यथा स्यात् तथा सन्दश्य चछाद । चक्षुः-श्रवा इति प्रस्तुतत्वाद् एव ज्ञेयम् । कया ? भजया भोगेन, भुजगस्य भोगेनैव गमनेन भुजस्यइव भोगत्वात्, "भुजगः" इति पाठे\ऽपि स एवार्थः । तत्त्वतस् तु मर्मसु दशनं तत् तद् अङ्ग-चुम्बन-सौष्ठवं भोजेनाच्छादनं च सर्वाङ्ग-निविडालिङ्गनम् इति ज्ञेयम्, अतो रुपेव रूषा वस्तुतस् तु प्रेम्णैवेति, यतः प्रेक्षणीयेत्य्-आदि, अत एवाग्रे तं प्रति श्री-भगवतो महानुग्रहो भावीति ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तादृशोऽपि दुष्टोऽसौ तथा चेष्टतेति कालियस्य महापराधं दर्शयन् व्रज-जन-भावेनानुशोचन् विशिनष्टि—प्रेक्षणीयेत्य्-आदिना । क्रीडन्तम् इत्य् अत्र हेतुः अप्रतिभयम् इति तच् च कालियस्य निर्बुद्धित्वं सूचयति । चक्षुः-श्रवा इति, प्रस्तुतत्वाद् एव ज्ञेयं, कया भुजया भुजाकारत्वात् तस्य भोग एव भुजा यतो भुजग इत्य् अपि उच्यते । तस्माद् भोगेनेत्य् अर्थः । भुजग इति पाठे भोगेनेति शेषः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-युक्तं वत्सं वक्षो यस्य पीतं वसनं यस्य स, च स च तं भुजाकारत्वात् तस्य भोग एव भुजा, यतो भुजग इत्य् अपि उच्यते, तस्माद् भोगेनेत्य् अर्थः । भुजग इति पाठे भोगेनेति शेषः ॥९.१३॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ कालियस्य दौर्जन्य-वर्णन-द्वारा सौभाग्य-विशेषम् एव वर्णयन्न् आह—तं प्रेक्षणीयेत्य्-आदि । तं श्री-कृष्णं भुजश् चछाद । द्वित्वाभावस् त्व् आर्षः, भोगेन छादयामास, तद् अङ्ग-सङ्गालिङ्गनेन सौभाग्यम् एव । किं कृत्वा ? रूषा मर्मसु सन्दश्य सच्-चिद्-आनन्द-घनेषु मर्मसु दशनैर् आलिख्य । प्रेक्षणीयो नवोदितत्वाद् अतिशय-दर्शनीयः सुकुमारः सुस्निग्धो यो घनस् तत्-स्वरूपोऽपि अवदातः सुष्ठु-तेजाः अवदातः सिते पीतः इत्य् उक्तेः तेजसश् च शुभ्र-दर्मत्वात् । वर्ण-महिमा घनाभस् तेजो-महिम्ना सर्व-प्रकाश इत्य् अर्थः । यद् वा, घनावदातो घन-ज्योतिर् घनानन्दवत् श्री-वत्से श्री-युक्ते लक्ष्मी-लक्ष्म-भूषिते वत्से वक्षति पीत-वसनं यस्य । यद् वा, श्री-वत्सं दक्षिणावर्तं सूक्ष्म-रोम-राजिः, श्रीर् लक्ष्मीर् वक्षः-स्थल-स्था लक्ष्मीस् तस्या वत्सम् उरश् च । पश्चात् श्री-वत्सं च श्री-वत्सक्षेत्य् एकशेषे श्री-वत्सम्, तत्र पीत-वसनं प्रालम्बाकारेण स्थितं पीतोत्तरीयं यस्य । एतेन तादृशास्फलान-वेगेनापि यथा-स्थितम् उत्तरीयं च न लगितम् इत्य् अवहेला निःशङ्कतादिकं ध्वनितम् । अतः स्थित-सुन्दरास्यं स्मित-युक्तं सुन्दरास्यम्, न तु स्मितेन यति यति असौ दशति, तति तत्य् एवास्य स्मितं वर्धते, तेन युक्तं सुन्दरं मुखं यस्येत्य् अर्थः । अप्रतिभयं यथा-स्यात्-तथा क्रीडन्तं तेन सहैव क्रीडन्तम् इव, एतेन भगवतः कोपाभावः सूचितः ॥९-१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेक्षणीयम् अतिसुखदम् अपि रूपं कालियं प्रति विपरीतम् अभूद् इत्य् आह—तम् इति । घनवद् उज्ज्वलं श्री-वत्से विहार-वशात् आयातं पीत-वसनं यस्य तम् । यद् वा, श्रिया लक्ष्मी-रेखया युक्तं वत्सं वक्षो यस्य पीते वसने यस्य स च स च तम् । उरो वत्सं च वक्षश् च इत्य् अमरः । भुजया भोगेन ॥९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : परम-मनोज्ञम् अपि तद् रूपं कालियं प्रति विपरीतम् अभूद् इत्य् आह—तम् इति । घनावदातं मेघवद् उज्ज्वलं श्रिया रेखा-रूपया युक्तं वत्सम् उरो यस्य पीते वसने यस्य स च स च तम् । भुजया भोगेन ॥९॥


१०.१६.१० ॥

तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम्

आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः ।

कृष्णेऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा

दुःखानुशोक-भय-मूढ-धियो निपेतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स प्रियो येषां ते तत्-प्रियास् ते च ते सखायश् चेति तथा ॥१०.११॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स श्री-कृष्णः । परिवीतं परिवेष्टितम् । न दृष्टा चेष्टा इति हस्त-पादादि-चालन-रूपा यस्य तम् ॥१०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य प्रिय-सखा इति परम-सौहार्दम् उक्तम् । पशुपा इति स्वभावतः सुस्निग्ध-चित्तत्वम् । कृष्णे अर्पिता आत्मनः सुहृद्-आदयो यैर् आत्मनः सुहृद्-आदयश् चेति वा, तत्र सुहृदः पितृ-भ्रात्र्-आदयः, अर्था धनानि, कामा लोक-द्वय-भोगाः । सुहृच्-छब्देन गृहीतस्यापि कलत्रस्य पृथङ्-निर्देशो\ऽर्पण-विशेष-विवक्षयेत्य् अनन्यापेक्षत्वम् । अतो भृशार्ता अत्यर्थं दुःखिताः सन्तः, आर्त-स्वरेण क्रन्दन्तो वा, अत एव दुःखेनानुशोको वारं वारं शोचनं भयं चानाथत्वादिना, ताभ्यां मूढा विवेक-हीना धीर् येषाम्, तथा-भूता नष्ट-चेतना वा सन्तः ।

यद् वा, नाग-भोग-परिवीतम् आलोक्य आदौ भृशार्ताः, अदृष्ट-चेष्टं चालोक्य दुःखानुशोक**-**भयैर् मूढ-धियः सन्तो नितरां छिन्न-मूल-वृक्षवद् अचेष्टत्वादिना पेतुः । मूढ-धीत्वाद् एव ते तद् ध्रदं न प्राविशन्न् इति ज्ञेयम् । अदृष्ट-चेष्टं च श्री-वृन्दावनाश्रितस्यापि कालियस्य निःसारणाय तेश्व् अन्येषु च लोकेषु तद्-दोषातिशय-प्रदर्शनार्थं तत् प्रेमालिङ्गनानन्देन स्तब्धी-भूतम् इति तत्त्वार्थः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य प्रिय-सखा इति परम-सौहार्दम् उक्तं पशुपा इति स्वभाव-सारल्येन सुस्निग्ध-चित्तत्वं कृष्णे अर्पिता आत्मानः सुहृद्-आदयश् च यैस् ते, तत्-साहाय्याय कृत-सर्वार्पणा इत्य् अर्थः । तत्र सुहृदः पितृ-भ्रात्र्-आदयः, अर्था धनानि, कामा लोक-द्वय-भोगाः । सुहृच्-छब्देन गृहीतस्यापि कलत्रस्य पृथङ् निर्देशो विशेष-विवक्षया, किन्तु कलत्र-पदेन केचिल् लब्ध-यज्ञोपवीता ये ज्येष्ठाः, ते च सखायो लभ्यन्त इति सर्वेषां तेषाम् अनन्यापेक्षत्वम् । अतो भृशार्ता अत्यर्थ-दुःखिताः सन्तः आर्त-स्वरेण क्रन्दन्तो वा । अत एव दुःखेन अनुशोकः वारं वारं शोचनं भयं च "तं विना कथं भविष्यामः ?" इति ताभ्यां मूढा विवेक-हीना धीर् येषां तथा-भूता नष्ट-चेतना वा सन्तः ।

यद् वा, नाग-भोग-परिवीतम् आलोक्य आदौ भृशार्ताः अदृष्ट-चेष्टं चालोक्य दुःखानुशोक-भयैर् मूढ-धियः सन्तो नितरां छिन्न-मूल-वृक्षवद् अचेष्टत्वादिना पेतुः, मूढ-धीत्वाद् एव तं ह्रदं न प्राविशन्न् इति ज्ञेयम् । तज्-जलाप्लुत-देश-पतने\ऽप्य् एषां विषाक्रान्तत्वाभावः । श्री-कृष्णस्य स्पर्श-प्रभावेन ह्रदस्यापि निर्विषीकरणात् अदृष्ट-चेष्टितत्वं च कालियस्य निःसारणाय तस्मिंस् तत्-पत्नीषु च तद्-दोषातिशय-प्रदर्शनार्थम् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिवीतं वेष्टितम् अदृष्ट-चेष्टम् इति । कालियस्योत्साह-वर्धनार्थं क्षणं भीतं स्तब्धवत् स्थितम् । यद् वा, "अरे कालिय ! त्वया यथेष्टं प्रथमं दश्यतां वेष्ट्यताम्, अहं पश्चाद् बलं दर्शयिष्यामि" इति वीर-दर्पेण स्थितम् । पशुपाः केचिद् गोपाः शालि-क्षेत्र-स्थाः कृषकाश् च शीघ्रम् आयाताः । ते कीदृशाः ? कृष्णेऽर्पिता लालनार्थम् आत्मादयो यैस् ते ॥१०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : परिवीतं वेष्टितं अदृष्ट-चेष्टम् इति "त्वया आदौ यथेष्टं वेष्ट्यताम्, अहं तु पश्चाद् विक्रमं दर्शयिष्यामि" इति वीर-दर्पेण स्थितम् इत्य् अर्थः । पशुपाः केचिद् गोपाः शालि-क्षेत्र-स्थाः कर्षकाश् च शीघ्रम् आगताः । ते कीदृशाः ? लालनार्थं कृष्णेऽर्पितात्मादयो यैस् ते । काम-भोग्याः दुःखानुशोको मुहुः शोचनं "तं विना कथं भविष्यामः ?" इति भयं, ताभ्यां मूढा निर्विवेका धीर् येषां तादृशाः सन्तो निपेतुश् छिन्न-मूल-तरुवन् नितरां पेतुः ॥१०॥


॥ १०.१६.११ ॥

गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।

कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वत्सतर्यः गर्भाधान-योग्य-वयसः ॥११॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्रन्दमाना आर्त-नादम् उच्चैः कुर्वत्यः । इव इति लोकोक्तौ । क्रन्दन्त्यो रुदत्यो\ऽश्रूणि मुञ्चन्त्यः । तस्थिरे इति परम-वत्सलानां गवादीनाम् अत्यन्त-शोकेनातिस्तब्धतापत्तेः । कदाचिद् वज्र-विशेष-घातेन मृतस्यापि प्राणिन ऊर्ध्वावस्थितिवत् । आत्मनेपदम् आर्षम् । वत्सतराणां वृषेष्व् अन्तर्भावो ज्ञेयः, प्राधान्याद् गवयो व्यक्तम् उक्ताः । किं च, महिष्य्-आदयो ग्राह्या हरिण्य्-आदयश् च । वन्याः सर्वे\ऽपि पशवस् तादृग्-अवस्था एव ज्ञेयाः, पशूंश् च [१०.१६.१९] इति वक्ष्यमाणत्वात् । तेषां गवादिभ्यः किञ्चिद्-दूरचरत्वेन पश्चाद् आगमनाद् अत्रानुक्तिर् इति ज्ञेयम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्रन्दमानां आर्त-नादम् उच्चैः कुर्वत्यः । इव इति लोकोक्तौ । रुदन्त्यः रुदत्यः अश्रूणि मुञ्चन्त्यः । तस्थिरे इति परम-वत्सलानां गवादीनाम् अत्यन्त-शोकेनापि स्तब्धतापत्तेः कदाचिद् वज्र-विशेष-घातेन मृतस्यापि प्राणिन ऊर्ध्वावस्थितिवत् । आत्मनेपदम् आर्षं । गवाद्य्-उपलक्षितत्वेन महिष्य्-आदयो हरिण्य्-आदयश् च ज्ञेयाः, पशूंश् च [१०.१६.१९] इति वक्ष्यमाणत्वात् । तेषां किञ्चिद् दूर-चरत्वेन पश्चाद् आगमनाद् अत्रानुक्तिर् इयम् इति ज्ञेयम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रुदन्त्य इव इति भय-वैयाग्र्येणाश्रूणां शोषात् ॥११॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : रुदन्त्य इव इति भय-वैयाग्र्येण तद्-अश्रूणां विशोषणात् ॥११॥


॥ १०.१६.१२ ॥

अथ व्रजे महोत्पातास् त्रिविधा ह्य् अतिदारुणाः ।

उत्पेतुर् भुवि दिव्य् आत्मन्य् आसन्न-भय-शंसिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भुवि भू-कम्पादयः, दिवि उल्का-पातादयः, आत्मनि वाम-नेत्र-स्फुरणादयः । आसन्नं भयं शंसितुं शीलं येषां ते ॥१२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आसन्नम् निकटम् ॥१२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ अनन्तरम् एव अतिदारुणाः स्वरूपतो महा-भयङ्करा महोत्पाताश् च महा-दुर्निमित्त-स्वभावतः । किं वा, पूर्वोक्त-न्यायेन भागवत-प्रवर-श्री-नन्दादिषु कालियस्य परम-दुष्टता-प्रदर्शनाय एतेषां तत्रागमनार्थम् ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ अनन्तरम् एव दारुणाः स्वभावतो महा-भयङ्कराः महोत्पाताश् च महा-दुर्निमित्तं स्वभावतः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रिविधाः--भुवि भू-कम्पादयः, दिवि उल्का-पातादयः, आत्मनि वाम-नेत्र-स्फुरणादयः । भगवतः खल्व् अमङ्गला शङ्का-राहित्येऽपि यद् उत्पात-प्राकट्यं तद् गवां गोपादीनां च दुःख-सूचनार्थं । किं वा, तत्-तद्-अधिष्ठातृ-देवानाम् अपि कृष्णे प्रीतिमत्त्वेनैश्वर्य-विस्मरणात् । कृष्णेऽप्य् अशुभाशङ्किन उत्पातं प्रकटयामषुर् इति ॥१२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : त्रिविधाः--भुवि भू-कम्पादयः, दिव्य् उल्का-पातादयः, आत्मनि च वाम-नेत्र-स्पन्दनादयः । इयम् अशुभ-सूचना तल्-लीला-शक्त्यैव तत्र व्रजौकसां विक्षुब्ध-मनस्कतया समाकर्षणाय रचिता । नहि भगवति सपरिकरे सा सन्तरेत् ॥१२॥


॥ १०.१६.१३-१५ ॥

तान् आलक्ष्य भयोद्विग्ना गोपा नन्द-पुरोगमाः ।

विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥

तैर् दुर्निमित्तैर् निधनं मत्वा प्राप्तम् अतद्-विदः ।

तत्-प्राणास् तन्-मनस्कास् ते दुःख-शोक-भयातुराः ॥

आबाल-वृद्ध-वनिताः सर्वेऽङ्ग पशु-वृत्तयः ।

निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तान् आलक्ष्य गोकुलान् निर्जग्मुर् इति तृतीयेनान्वयः । भयोद्विग्ना भय-हेतुभ्यो भीताः । भयेन कम्पमाना इति वा ॥१३॥ न तं विदन्तीत्य् अतद्-विदः ॥१४॥ पशु-वृत्तयो ऽतिवत्सलाः ॥१५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् उत्पातान् । भय-हेतुभ्यो महोत्पातेभ्यः । लक्षणातो वरा शक्तिः इत्य् उक्तिम् आश्रित्य समासान्तरम् आह—भयेन इति । उद्विग्ना इत्य् ओविजी भय चलनयोः । अतः क्त-प्रत्ययः, तस्य नत्वं च ॥१३॥ तैर् भू-कम्पादिभिः । अतद्-विदः कृष्ण-माहात्म्यम् अजानन्तः । तस्मिन् कृष्णे इन्द्रियाणि येषां ते तथा । नितरां धनं श्री-यमुना-ह्रद-रूपं स्व-विहारास्पदम् इति सरस्वती-सम्वादः ॥१४॥ बालान् अभिव्याप्याबालं, तत्-प्रभृति ये वृद्धा वनिताः ते आबाल-वृद्ध-वनिताः। पशुप-दृष्टि-मात्रात् यद् व्यवहारो येषां, ते तथा ॥१५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : निधनं मत्वा इति । रामेण विना गाश् चारयितुं गतं कृष्णं ज्ञात्वा स्वेषां मरणं प्राप्तं समागतम् इति मत्वा च ॥१४॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विना रामेण इति परम-स्निग्धस्य तस्य साक्षाद् अनुजामङ्गलं न सम्भवेद् इति भावः । अन्यैत् तैर् व्याख्यातम् । यद् वा, आलक्ष्य एव भयोद्विग्ना बभूवुः, अत एव निधनं प्राप्तं मत्वा एव अतद्-विदस् तन्-माहात्म्यम् अननुसन्दधाना इत्य् अर्थः, यतः स च प्राणो जीवनं येषाम्, अतस् तस्मिन्न् एव मनो येषाम् इति सर्वथा तद्-एक-गतय इत्य् अर्थः । ते तद् एक-प्रियत्वेन प्रसिद्धाः, स्व-पक्षे ते गोपाः, अतो दुःखादिभिर् आतुरा विवशाः ॥१३.१४॥ अत एव दीनाः, इतस् ततो मुहुः स्खलन्तो निपतन्तश् चेत्य् अर्थः । कृष्णो व्रज-जन-चित्ताकर्षकः, "कथं कुत्रास्ति ?" इति तद्-दर्शनोत्सुकाः सन्तः । यद् वा, सदा स्वभावत एव कृष्ण-दर्शन-लालसा इति तद्-एक-गतित्वम् एव दर्शितम् ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तान् इति त्रिकम् । विना रामेण इति परम-स्निग्धस्य गम्भीरस्य सदा साहाय्य-रतस्य तस्य समक्षे तस्य तादृश-व्यसनता न सम्भवेद् इति भावः । अन्यत् तैः । आलक्ष्यैव भयोद्विग्ना बभूवुः ॥१३॥ अत एव निधनम् एव प्राप्तं मत्वा नितरां धनं श्री-ह्रद-रूपं स्व-विहार-सर्वस्वम् इति सरस्वती-सम्वादः । अतद्-विदो माहात्म्यम् अननुसन्दधाना इत्य् अर्थः । ननु, कथं तत्रैव तेषां क्षोभः जातः ? तत्राह— एव प्राणो जीवनं येषाम् इति ॥१४॥ ते तद्-एक-प्रियत्वेन प्रसिद्धाः पशु-वृत्तित्वेन तदीय-वात्सल्य-स्वभाव-भाविता इत्य् अर्थः । पशुवद्-वृत्ति वात्सल्यांशे येषाम् इति वा । अत एव दीनाः इतस् ततो मुहुः स्खलन्तो निपतन्तश् चेत्य् अर्थः । कृष्णः व्रज-जन-चित्ताकर्षकः "कथं कुत्रास्ति" इति तद्-दर्शनोत्सुकाः सन्तः। यद् वा, स्वभावत एव तादृशः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : निधनम् इति नितरां धनं श्री-यमुना-ह्रद-रूपम् इति वास्तवार्थः ॥१४.१५॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ दुर्निमित्तानि दृष्ट्वा गोकुल-वासिनाम् आशङ्काम् आह—तान् आलोक्य इत्य्-आदि द्वाभ्याम् । तैस् तथा-विधैर् दुर्निमित्तैर् निधनं प्राप्तं समुपस्थितम् इति मत्वा "अहोऽस्माकं मरणम् उपस्थितम् इव" इति मत्वा विना रामेन गाश् चारयितुं गतं कृष्णंज्ञात्वा, "किम् इदम् आकस्मिकं किम् अभिव्यञ्जकं दुर्निमित्तम् ?" इत्य् अतद्-विदो दुर्निमित्त-कारणाविदः सर्वे गोकुलान् निर्जग्मुर् इत्य् उत्तरेणान्वयः ।

यद् वा, रामेन विना अतद्-विदः । रामस् तु तद्वद् एव । अयं वाक्यार्थः । एतद् दुर्निमित्तं यद् दृश्यते, तद् अवगतं निधनं प्राप्तम्, मरण-सूचकान्य् एवैतानि दुर्निमित्तानि । "कृष्णोऽपि न निकट-वर्ती, योऽस्मान् रक्षिष्यति । स तु गाश् चारयितुं गतः, तदा तत्रैव सर्वे गच्छामः" इति सर्वे तथा चक्रुः । वस्तुतस् तु दुर्निमित्तस्य कारणं किम् अपि नास्ति, भगवतः सकल-विघ्नोपशम-हेतुत्वाद् विघ्नस्य शङ्कापि नास्ति । असति विपत्ति-सद्भावे कथं तस्य सूचकं दुर्निमित्तम् ? तेन एतादृशं यद् वीर्य-कौशलं सर्वैर् दृश्यताम् इति सर्वेषां तत्रानयनार्थं भगवतैव तत् सम्पादितं कुहकम्, न तु तद् वास्तवम् इति । अत एवोक्तम् आसन्न-भय-शंसिनः [१०.१६.१२] इति । अत्रेयं व्याख्याता—एते उत्पाता भय-शंसिनो नासन् भगवन्तं प्रतीति परमार्थोक्तिः ॥१३.१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तान् आलक्ष्य गोकुलान् निर्जग्मुर् इति तृतीयेनान्वयः । निधनम् एव प्राप्तं मत्वा नितरां धनं श्री-यमुना-ह्रद-रूपं स्व-विहारास्पादम् इति सरस्वती-संवादः, महा-शोकात् पशूनाम् इव बुद्धि-विवेक-प्रतीकार-ज्ञान-शून्या वृत्तिः सत्ता येषां ते ॥१३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तान् आलक्ष्य गोकुलात् सर्वे निर्जग्मुर् इति तृतीय-गतेन सम्बन्धः रामेण विना गाश् चारयितुं गतं कृष्णं ज्ञात्वा ॥१३॥ निधनं नाशं प्राप्तं मत्वा नितरां धनं स्व-विहारष्पद-कालिन्द्या ह्रदम् इति गीर्देव्या सूचितोऽर्थः । अतद्-विदस् तल्-लीला-शक्ति-चेष्टाम् अजानन्तः ॥१४॥ महा-शोकात् पशूनाम् इव तत्-प्रतीकार-बोध-हीना वृत्तिर् येषां ते ॥१५॥


॥ १०.१६.१६ ॥

तांस् तथा कातरान् वीक्ष्य भगवान् माधवो बलः ।

प्रहस्य किञ्चिन् नोवाच प्रभावज्ञोऽनुजस्य सः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कातरान् भीतान् ॥१६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् बालादीनां । तथा रोदनादि-प्रकारेण । माधवो मधु-वंशोद्भूतः । स बलःअनुजस्य कृष्णस्य प्रभावज्ञः "अयं तु साक्सात् सर्व-सर्पेश्वर-शेष-शायी कथम् एनम् अन्यः सर्पः पीडयितुं कल्पः ?" इति ज्ञानवान् इत्य् अर्थः । भगवान् सर्व-शक्ति-युक्तोऽपि माधवः सर्व-विद्या-पतिर् अप्य् असमर्थ इव न किञ्चिद् उपदिष्टवान् किन्तु तद्-दुःखेन दुःखेऽपि तेषाम् एव किञ्चिद् वैयार्थ्यम् प्रकटं बहिर् एवं हिंसित्वा तूष्णीम् आसीत् । अयं निजानुजस्य तत्त्वज्ञः स्निग्धश् च हसतीति नात्र चिन्तेति बोधयितुम् इत्य् अर्थः ॥१६॥ [अत्र विश्वनाथः]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा तादृशान् सर्व-ज्ञानादि-सम्पन्नान् अपीत्य् अर्थः । कातरान् भीता विह्वलान् वा । यद् वा, तादृश-कार्तर्य-प्राप्तान् अपि तान् वीक्ष्य साक्षाद् दृष्ट्वा सोऽनुजैक-प्रियोऽपि बलः, प्रहस्य उच्चैर् हसित्वा किञ्चिद् अपि नोवाच, किञ्चित् प्रहस्येति वा, यतो भगवान् सर्वज्ञः, विशेषतो माधवो मधु-वंशोद्भवः, अत एव अनुजस्य प्रभावम् ऐश्वर्यम् । किं वा, प्रकृष्टं भावं कालिय-निःसारणार्थं तत्-तद्-आचरणाभिप्रायं जानातीति तथा सः । प्रहासस् तेषां शोकादि-लाघवार्थम्, किञ्चिद् अनुक्तिश् च श्री-भगवद्-अभिप्रायाभिज्ञता-सूचनेन तेषाम् आश्वासनाय । यद् वा, प्रहासेन किञ्चिद् अनुक्त्या च तं प्रति श्री-बादरायणेः प्रणय-कोपोक्तिर् इयम् । भगवान् परम-स्वतन्त्रो निरपेक्षो वा । माधवो मधु-कुल-सम्बन्ध-स्फूर्त्या, न गोपवद् अतिस्नेहार्द्र-चित्त इत्य् अर्थः । किं वा, मधु-पान-रसिक इत्य् अर्थः । बलो बलवान् एव, न तु बुद्धिमान् इत्य् अर्थः, यतः स हलधर इत्य् अर्थ इति तस्य तद् युक्तम् एवेति भावः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा तादृश-कातर्यं प्राप्तान् अपि तान् वीक्ष्य स गोकुलैक-प्रियोऽपि बलः भगवान् सर्व-शक्ति-युक्तोऽपि माधवः सर्व-विद्यापतिर् अप्य् असमर्थ इव किञ्चिन् न कृतवान् अज्ञ इव च न किञ्चिद् उपदिष्टवान्, किन्तु तद्-दुःखेन दुःखितोऽपि तेषाम् एव किञ्चित् द्वेष्यार्थम् । प्र-इति प्रकटं बहिर् एव हसित्वा तूष्णीम् आसीत् । अयं निजानुजस्य तत्त्वज्ञः स्निग्धस्य हसतीति "नात्र चिन्ता" इति बोधयितुम् इत्य् अर्थः । एवं तेषां प्राण-रक्षा-योग्यत्वात् नाश एव तदा तस्याविर्भूतः स्वभावत एव सर्व-समाधान-शक्तिमयत्वात् भगवल्-लीलया इति भावः । तर्हि कथम् ईदृशेऽपि दुःख-सङ्कटे स्व-सामर्थ्यं न व्यञ्जितवान् । न च तत्-प्रभावं स्पष्टम् उपदिष्टवान् ? तत्राह—प्रभावज्ञ इति । तज्-ज्ञत्वेन तद्-इच्छां विना तत् कर्तुं न शक्तवान् इत्य् अर्थः । माधव-पदं चेदं श्री-हरिवंशे2 व्युत्पादितम्—

मा विद्या च यतः प्रोक्ता तस्या ईशो यतो भवेत् ।

तस्मात् माधव-नामासि धवः स्वामीति कीर्तितः ॥ इति ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवान् सर्व-शक्ति-युक्तोऽपि माधवः सर्व-विद्या-पतिर् इत्य् असमर्थ इव न किञ्चिद् उपदिष्टवान् किन्तु तद्-दुःखेन दुःखेऽपि तेषाम् एव किञ्चिद् धैर्यार्थं प्रकटं बहिर् एव हसित्वा तूष्णीम् आसीत् । अयं निज्आनुजस्य तत्त्वज्ञः स्निग्धश् च हसतीति नात्र चिन्तेति बोधयितुम् इत्य् अर्थः । तस्माच् च हेतोर् अतिदुःखितम् आज्ञाय विचार्य तर्हि कथम् ईदृशेऽपि सङ्कटे स्व-सामर्थ्यं न व्यञ्जितवान् ? न च तत्-प्रभावं स्पष्टम् उपदिष्टवान्, तत्राह—प्रभावज्ञ इति । तज्-ज्ञत्वेन तद्-इच्छां विना तत् कर्तुं न शक्तवान् इत्य् अर्थः । माधव-पदं चेदं श्री-हरि-वंशे व्युत्पादितम्—

मा विद्या च यतः प्रोक्ता तस्या ईशो यतो भवेत् ।

तस्मान् माधव-नामासि धवः स्वामीति कीर्तितः ॥ इति ॥१६.२०॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

मा विद्या च यतः प्रोक्ता तस्या ईशो यतो भवेत् ।

तस्मान् माधव-नामासि धवः स्वामीति कीर्तितः ॥ इति हरि-वंशोक्त-निरुक्तेः ।

प्रभावं लीलैश्वर्यं जानातीति सः, तस्य स्वानुज-महा-प्रेमवत्त्वेऽपि प्रेम्ना तद्-ऐश्वर्यानाम् आवरणं कृष्णेच्छानुरञ्जित-लीला-शक्तैव, अन्यथा श्री-नन्दादीन् शोकावेगेन सर्प-ह्रदं मङ्क्षु शीघ्रं मिमङ्क्षून् को वारयितुं प्रभवेत् ? इति भावः । प्रहस्य इति मत्-स्वरूपेण शेष-नागेन सह क्रीडा न रोचते, किन्तु प्राकृत-क्षुद्र-कालिय-सर्पाधमेनैवेति तस्य नर-लीलत्व-स्मरणात् । किञ्चिन् नोवाच इति तेषां शोकान्धानां कृष्णं दिदृक्षूणां तद्-आवरणस्यानौचित्याद् अशक्यत्वाच् च किन्तु स्व-प्रहास-शोकाभाव-दर्शनं यतो न किञ्चिद् अनिष्टाभावम् ऊहयित्वा प्राण-जिहासां शिथिलयामास ॥१६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रहस्य इति । मद्-अवतारेण शेष-नागेन स्वैकान्तिना सार्धं क्रीडा न रोचते, किन्त्व् अनेन विमुखेन नागाधमेनेति प्रहासः । यद्यपि नन्दादीनाम् इव बलदेवस्यापि कृष्णानुरागित्वात् तद्-ऐश्वर्य-ज्ञानाच्छादनेन भाव्यं, तथापि तेषां ह्रद-प्रवेश-प्रतिषेधाय तद्-इच्छानुरञ्जितया तल्-लीला-शक्त्या तज्-ज्ञानं तस्य नाच्छादितं तत्-प्रहासानुमित-तन्-मङ्गलानां तेषां लोके व्रज-भवनं लोक-जिहासापि नाभूद् इति ॥१६॥


॥ १०.१६.१७ ॥

तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः ।

भगवल्-लक्षणैर् जग्मुः पदव्या यमुना-तटम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवन्तं लक्षयन्ति यानि पदानि, तैः पदैः सूचितया पदव्य-मार्गेण ॥१७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लक्षयन्ति सूचयन्ति पद्म-ध्वजादि-चिह्नैः ॥१७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दयितम् इति तत्-पद-लक्षणाभिज्ञत्वं सद्यस् तत्-प्राप्तौ हेतुं च द्योतयति । दयित्वे हेतुः—कृष्णम् इति । अत एव अन्विष्यन्तो3 मृगयमाणाः ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्वेषमाणाः अन्विच्छन्त्यः । तत्र हेतुः--दयितं । तत्र हेतुः--कृष्णम् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवन्तं लक्षयन्ति यानि, तैः पदैः सूचितया पदव्या ॥१७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भगवन्तं कृष्णं लक्षयन्ति यानि, तैः पदैर् अञ्ज-यवाङ्कुशादि-चिह्नितैः सूचितया पदव्या जग्मुः ॥१७॥


॥ १०.१६.१८ ॥

ते तत्र तत्राब्ज-यवाङ्कुशाशनि-

ध्वजोपपन्नानि पदानि विश्पतेः ।

मार्गे गवाम् अन्य-पदान्तरान्तरे

निरीक्षमाणा ययुर् अङ्ग सत्वराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पदैर् मार्ग-ज्ञान-प्रकारम् आह—त इति । विश्पतेः श्री-कृष्णस्य अन्येषां पदानाम् अन्तरान्तरे मध्ये मध्ये तत्-तद्-अपोहेन । गवां श्रुतीनां मार्गे सत्वराः अप्रमत्ता योगिनस् तत्-तद्-उपाध्य्-अपवादेन यथा परं तत्त्वं मृगयन्ते तद्वद् इति भावः ॥१८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते गोपाः । विशां प्रजानां नन्दस्य वैश्य-जातीयत्वाद् वैश्यानां वा पतेः वयं गो-वृत्तयोऽनिशम् [भा।पु। १०.२४.२१] इत्य् उक्तेः । तत्र तत्र स्थाने स्थाने । अशनिर् वज्रम् । अन्येषां गवादीनां । अन्तरश् चान्तरश् चानयोः समाहारो\ऽन्तरान्तरम्, तस्मिंस् तथा मध्ये-मध्ये इत्य् अर्थः । तत्-तद्-अपोहेन तेषां तेषां गो-पादानां गोप-पदानां चापोहेन त्यागेन । गो-शब्दस्य श्रुति-वाचकत्वं वाग् वाचित्वाद् ध्येयम् । श्रुतीनां वेदानाम् । मार्गे विचार-रूपे । अप्रमत्ताः सावधानाः । तत्-तद्-उपाध्य्-अपवादेन अन्नमयाद्य्-उपाधि-निराकरणेन । परं तत्त्वं शुद्धं ब्रह्म ब्रह्म पुच्छं प्रतिष्ठा [तै।उ। २.७.१] इत्य् एवं पुच्छ-रूपत्वेनान्वेषयन्तीति । तद्वद् इत्य् अत्र गवां धेनूनां मार्गेऽध्वन्य् अपि तथैवान्वेषयामासुः । इति भाव इति । सङ्कलितान्तरं सङ्कलिताकरणं विना न लभ्यत इति तात्पर्यम् ॥१८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तत्र सर्वत्रैव श्रीमत्-पादाब्ज-न्यास-स्थाने । ननु, चिरं प्रस्थितस्य पशुप-वर्ग-परिवेष्टितस्य तस्य पदानि न कथं मृष्टानि4 ? कथं वा पशु-पक्ष्य्-आदिभिर् नाक्रान्तानि ? तत्राह—विशां प्राण-धनानां पत्युर् भूम्य्-आत्म-भूषणत्वेन प्रयत्नतो धृतानि व्रज-वन-वासिनां महा-धनानि, न केनापि तान्य् आक्रम्यन्त इति भावः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पदैः पद-वीज्ञान-प्रकारम् आह—ते इति । विश्पतेः विशां वैश्यानां गोपानां पत्युर् अध्यक्षस्य कृष्णस्य । यत्त्वाभाव आर्यः । अन्येषां पदानाम् अन्तरान्तरे मध्ये मध्ये तत्-तद्-अपोहेन गवां श्रुतीनां मार्गे सत्वरा अप्रमत्ता योगिनस् तत्-तद्-उपाध्य्-अपवादेन यथा परं तत्त्वं मृगयन्ति, तद्वद् इति भावः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पदैः पद-वीज्ञान-प्रकारम् आह—ते इति । विश्पतेः विशां वैश्यानां गोपानां पत्युर् अध्यक्षस्य कृष्णस्य । यत्त्वाभाव आर्यः । अन्येषां पदानाम् अन्तरान्तरे मध्ये मध्ये तत्-तद्-अपोहेन गवां श्रुतीनां मार्गे सत्वरा अप्रमत्ता योगिनस् तत्-तद्-उपाध्य्-अपवादेन यथा परं तत्त्वं मृगयन्ति, तद्वद् इति भावः ॥१८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद् एवाह—ते तत्रेति । विश्पतेः विशां गोपानां पत्युः स्वामिनः अन्येषां पदानाम् अन्तरान्तरे मध्ये मध्ये तत्-तद् अपवादेन तानि निरीक्षमाणाः सत्वरा ययुः गवां श्रुतीनां मार्गे सत्वराः योगिनो अतन् निरसनेन यथा तम् एव परं तत्त्वम् अन्विष्यन्ति तद्वद् इति भावः ॥१८॥


॥ १०.१६.१९ ॥

अन्तर् ह्रदे भुजग-भोग-परीतम् आरात्

कृष्णं निरीहम् उपलभ्य जलाशयान्ते ।

गोपांश् च मूढ-धिषणान् परितः पशूंश् च

सङ्क्रन्दतः परम-कश्मलम् आपुर् आर्ताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् च सर्प-शरीर-वेष्टितं कृष्णं दूरान् निरीक्ष्य, गोपांश् च पशूंश् च तथा निरीक्ष्य, आर्ताः परम-कश्मलं परं मोहं प्रापुः ॥१९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततश् च अनन्तरं च । तथा तथा मूर्छया पतितान् सङ्क्रन्दतश् च । निरीहम् निश्चेष्टम् । अन्तर् ह्रदे ह्रद-मध्ये । जलाशयान्ते ह्रद-समीपे । "भो बालका वृत्तान्तं तावत् कथयत—किं कालियेनैव तीराद् आकृष्य कृष्णो जले पातितः ? किं वा, कृष्ण एव तीराद् अवल्प्लुत्य जले पतितः ? तत्रापि स्व-बुद्ध्या अन्यस्य कस्यचिद् उपदेशेन वा ?" इत्य्-आदि-प्रश्ने मूढ-धिषनान् किम् अपि वक्तुम् असमर्थान् गोपान् वीक्ष्य परम-कश्मलं तन् मूर्छातोऽपि सकाशाद् अधिकां मूर्च्छाम् आपुर् इत्य् अर्थः ॥१९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मूढ-धिषणान् मोहं गतान्, परितः किञ्चिद् अधिकैक-योजन-व्यापि-तद्-ध्रद-पूर्व-दक्षिण-पश्चिम-प्रान्तेषु सम्यक् क्रन्दतः पशूंश् उपलभ्य सर्वम् एव ह्रदं व्याप्य विक्रीडतो भगवते दर्शनार्थम् अनन्तानां पशूनां तत्र तत्र सर्वत्रैव स-सङ्क्रन्दनाव् अस्थितेः । च-काराद् उभयेषाम् अपि तत्र प्राधान्यं बोधयतः । यद् वा, एक उक्त-समुच्चये, ततश् च पक्षिणोऽपीति ज्ञेयम् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मूढ-धिषणां मोहं गतान् परितः सर्वं एव तीरं व्यप्य ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सामान्यतो गोप-गोपी-जनानां वैक्लव्यम् आह—ततश् च अन्तर्-ह्रदे ह्रद-मध्ये भुजग-भोग-परीतं सर्प-शरीर-वेष्टितं, "भो बालकाः, वृत्तान्तं तावत् कथयत, किं कालियेनैव तीरात् कृष्ण-बलाद् आकृष्य जले पातितः ? किं वा, कृष्ण एव तीराद् अवप्लुत्य जले पतितः ? तत्रापि स्व-बुद्ध्या अन्यस्य कस्यचिद् आदेशेन वा ?" इत्य्-आदि-प्रश्ने मूढ-धियः मूर्च्छित-बुद्धीन् वक्तुं किम् अपि चेष्टितं चासमर्थान् गोपान् वीक्ष्य परम-कश्मलं तन्-मूर्च्छातः सकाशाद् अप्य् अतिमूर्च्छाम् ॥१९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्र यातास् ते कृष्णं निरीहं गोपान् मूढ-धिषणान् पशूंश्सङ्क्रन्दत आराद् दूराद् उपलभ्य दृष्ट्वा परमं कश्मलम् आपुः ॥१९॥


॥ १०.१६.२० ॥

गोप्योऽनुरक्त-मनसो भगवत्य् अनन्ते

तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः ।

ग्रस्तेऽहिना प्रियतमे भृश-दुःख-तप्ताः

शून्यं प्रिय-व्यतिहृतं ददृशुस् त्रिलोकम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रियेण श्री-कृष्णेन व्यतिहृतं विरहितं त्रैलोक्यं शून्यं ददृशुः ॥२०.२१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शून्यम् असत्-तुल्यम्, शून्यम् अङ्कासने खे च श्व-समूहे वितथे तथा इति धरणिः ॥२०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गोप्यो\ऽनुरक्त-मनस इत्य्-आदि । गोप्यो\ऽत्र यशोदा-सहचर्यः, तुल्य-व्यथाः [भा।पु। १०.१६.२१] इति विशेषणात्, तासां तं प्रति पुत्र-भाव एव, भोग्यत्वेनानुरक्तास् तु नवीनाः, तासां दुःखं तु राग-विषयम् । तेन तन् नोद्दिष्टम्, तास् तु मूर्च्छयैव दत्त-हस्तावलम्बास् तावन्तं कालम् आसन्, भगवच्-छक्त्यैव पुनर् जीविता इति भावः ॥२०॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सर्वेषाम् एव सामान्येन दुरवस्थाम् उक्त्वा तत्रैव श्री-गोपीनां विशेषम् आह—गोप्य इति । भगवति सर्वैश्वर्य-युक्तेऽतो न विद्यते अन्तो नाशो भक्तानाम् अपि यस्मात्, तथा-भूतेऽपरिच्छिन्न इति वा, इत्य् अहि-ग्रसनासम्भव उक्तः, तथाप्य् अहिना ग्रस्ते तद्-इच्छयैव भोगेनाक्रान्ते अत्यर्थ-दुःख-तप्ताः, यतोऽनुरक्त-मनसः स्वभावतो निरन्तर-प्रेमवत्य इत्य् अर्थः । तथा तस्मात् तस्मिन्न् अपि स्वभावतः प्रियतम एवेति आत्मा प्रियः परमात्मा प्रियतरः, ततोऽपि विशिष्टत्वात् श्री-कृष्णस् प्रियतमः, एवेति ततः प्रेम-भराक्रान्त्या तत् तत्त्वान् अनुसन्धानाद् इत्य् अर्थः ।

यद् व, भगवति परम-सुन्दरेऽनन्ते चापरिच्छिन्न-गुणे तथा प्रियतमे स्वभावत एव सर्वतोऽधिक-प्रिये, अतः सदा अनुरक्त-मनस एव । अधुना च ग्रस्ते ग्रस्तवत् सर्वतो भोगेन परिवेष्टीते सति तस्य सौहृदेन प्रेम्णा याः स्मितावलोक-गिरस् ताः स्मरन्त्यो भृश-दुःख-तप्ताः सत्यः । शून्यम् इति श्लोक-वेगेन आत्मन इव जगताम् अपि मरण-मननान् निज-प्रियतमाभावेन सर्वस्यैवाभाव-मननाद् वा ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सर्वेषाम् एव सामान्येन दुरवस्थाम् उक्त्वा तत्रैव श्री-गोपीनां विशेषम् आह—गोप्य इति । भगवति सर्वैश्वर्य-युक्ते अतो न विद्यतेऽन्तो नाशो भक्तानां यस्मात्, तथा-भूते अपरिच्छिन्न इति वा इत्य् अहि-ग्रसनासम्भव उक्तः । तथाप्य् अहिना ग्रस्ते तद्-इच्छ्यैव भोगेनाक्रान्ते सति अत्यर्थ-दुःख-तप्ताः, यतोऽनुरक्त-मनसः स्वभावतो निरन्तर-प्रेमवत्य इत्य् अर्थः । तथा तस्मात् तस्मिन्न् अपि स्वभावतः प्रियतम एवेति आत्मा प्रियः, परमात्मा प्रियतरः, ततोऽपि विशिष्टत्वात् श्री-कृष्णः प्रियतम एवेति । ततः प्रेम-भराक्रान्त्या तत् तत्त्वान् अनुसन्धानाद् इत्य् अर्थः ।

यद् वा, भगवति परम-सुन्दरे अनन्ते च अपरिच्छिन्न-गुणे, तथा प्रियतमे कस्यचित् प्रियतरे, तासां तु प्रियतमे, यतः सदा अनुरक्त-मनसः । अधुना च ग्रस्ते ग्रस्तवत् सर्वतो भोगेन परिवेष्टिते सति, तस्य सौहृदेन प्रेम्णा याः स्मितावलोक-गिरः, ताः स्मरन्त्यो भृश-दुःख-तप्ताः सत्यः प्रियेणैव कर्त्रा विशेषेण अतिशयेन हृतं स्व-ग्रस्तता-दर्शनाय अन्ध-वधिरायमाणतां विधाय च विस्मारितम् इत्य् अर्थः । "प्रिय-व्यतिकृतम्" इति पाठे च, व्यतिकरः समाख्यातो व्यसने व्यतिषञ्जने इति विश्व-प्रकाशात्, व्यसनं विपदि भ्रंशे इत्य् अमर-कोशाच् च । प्रियेण हेतुना भ्रष्टम् इति । तथैवार्थः टीकायां विरहितम् इत्य् अस्य च त्याजितम् इत्य् अर्थः । इति तथैव तात्पर्यं ततस् तादृशं जगत्-छून्यं शून्यम् इति शोक-वेगेनात्मन इव जगताम् इति मरण-मननात् निज-प्रियतमाभावेन सर्वस्यैकारकार-गमनाद् वा ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भगवतो लीला-विशेष एवायम् । मां प्रति कस्य कीदृक् प्रेम ? इति परीक्षितं समागतेष्व् अपि सर्वेषु तेषु क्षणम् अहि-भोग-बद्धः सन् कौतुकम् अकार्षीत् । तत्र तस्य प्रभाव-ज्ञानाम् अपि गोप-गोपीनां पित्रोश् च अनिष्ट-शङ्कीनि बन्धु-हृदयानि इति न्यायेन महिज्ञताम् अपि बाधित्वाप्रेम-प्रभावेण सर्वेषां करुण एव रसो जातः । प्रेम-वात्सल्ये तस्य प्रेम-वर्धकत्वेनाङ्गत्वम् एवापतुर् इत्य् आह—गोप्योऽनुरक्त-मनस इत्य्-आदि द्वाभ्याम् ।

गोप्योऽत्र व्रजेश्वरी-तुल्य-वयसः, तुल्य-व्यथा [भा।पु। १०.१६.२१] इति । वात्सल्य-प्रतिपादकत्वाद् अनुरक्त-मनसो विक्लिन्न-हृदया भगवत्य् अनन्तेऽहिना ग्रस्ते रुद्धे सति शुन्यं जगद् ददृशुःप्रिय-व्यतिकृतं प्रियम् अभीष्टं तेन विरहितं तु केवलं शून्यं ददृशुः । ताः कृष्ण-मातरं व्रजेश्वरीम् अपत्यं श्री-कृष्णं प्रति अनुप्रतप्राम्, तुल्य-व्यथाः सत्यः समुपगुह्य शुचः स्रवन्त्यस् तास् ताः कथाः कथयन्त्य आसन्न् इत्य् उत्तरेणान्वयः । एतेन तुल्य-व्यथत्वात् तत्-सवयस एव । यास् तु भगवत्-प्रियाः किशोर्यः, तासां दुःखानुभवो न वाग्-विषय एवेति तन् नोक्तम्, तद्-अवर्णनम् एव वर्णनम्, तास् तु मूर्छयैव दत्ताश् चासास् तद्-दुःख-ज्ञास् तथा न बभूवुः । पश्चात् तटम् उत्थिते भगवति यदा हर्ष-जय-कोलाहलोऽभूत्, तदैव ताः प्रबोधं गता इति तद्-दुःखावर्णनात् तथैव मन्तव्यम् ॥२०.२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रानुरागवतीनां वैक्लव्यम् आह—भगवति परम-सुन्दरे अनन्त-गुणे तस्य सौहृदं स्व-विषयकं प्रेम-स्मितं विलोकं रहसि कृतां गिरं सौरत-वार्तां च स्मरन्त्यः त्रिलोकं प्रियेण व्यतिकृतं विरहितं तद्-विरह-दावाग्नि-भस्मीभूतत्वाच् छून्यम् । “व्यतिहृतम्” इति पाठे प्रियेणैव विशेषेण अतिशयेन च हृतं स्व-दशान्तः-पातीति कृतं ददृशुः ॥२०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : व्रज-किशोरीणाम् अवस्थाम् आह—गोप्य इति । भगवति परम-सुन्दरे अनन्ते बृहद्-गुणत्वाद् यम् अन्तम् आहुः इत्य् उक्तेर् महा-गुण-शालिनि कृष्णेऽनुरक्त-मनसः, तस्य सौहृदं स्व-विषयां मैत्रीं स्मित-विलोकं गिरं च रहो वार्तां स्मरन्त्यः त्रिलोकं प्रियेण तेन व्यतिहृतं विरहितं तद्-विरह-वह्नि-दग्धत्वाच् छून्यं ददृशुः ॥२०॥


॥ १०.१६.२१ ॥

ताः कृष्ण-मातरम् अपत्यम् अनु प्रतप्तां5

तुल्य-व्यथाः समनुगृह्य शुचः स्रवन्त्यः ।

तास् ता व्रज-प्रिय-कथाः कथयन्त्य आसन्

कृष्णानने\ऽर्पित-दृशो मृतक-प्रतीकाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता गोप्यः । कृष्ण-मातरं यशोदाम् । सूचोऽश्रूणि । स्रवन्त्योऽश्रु-धारया नदीं कुर्वत्यः । व्रज-प्रियस्य कृष्णस्य कथास् तास् ताः पूतना-वधादि-रूपाः । वा व्रजस्य प्रिय-कथाः—"पूतनाद्या महा-दुष्टा अनेन बहवो हताः । अयं सर्पस् तेष्व् एकः, को नाम वराक एनं हत्वाधुनैवायस्यति ?" इति तन्-मात्राश्वासनार्थम् इति जीव-गोस्वामिनः । प्रतीको ऽपघने तुल्ये इति धरणिः । मृत-तुल्या इति ॥२१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तन्-माता का हन्त कीदृशी जाता ? इत्य् अपेक्षायां शोक-भरेण तत् किञ्चिद् एव प्रकाशयन् सर्वासाम् एव तासां दशा-विशेषम् आह—ता इति, न पतति कस्मिन्न् अपि दुःखे कुलं6 यस्मात्, तद् अपत्यं परम-स्नेह-पात्र-पुत्रम् इत्य् अर्थः । अत एव तद् अनु लक्षीकृत्य तद्-अर्थं प्रकर्षेण सर्वतोऽधिकतया तप्ताम् । तुल्य-व्यथा अपि सम्यक् अनु निरन्तरं गृहीत्वा धृत्वा, अन्यथा तस्याः सहसैव सद्यो-ह्रद-प्रवेशापत्तेः । शुचः श्लोकाश्रूणि स्रवन्त्यः प्रवाह-रूपेण मुञ्चन्त्यः, तस् ताः पूर्वोक्ताः सर्वा अनिर्वचनीया वा, व्रजस्य प्रियाः कथाः, श्री-कृष्णस्य बाल्य-क्रीडादि-वृत्तानि, सस्मित-मधुरावलोक-पूर्वक-सनर्मालापान् वेति सर्वथात्यन्त-शोक-विलाप उक्तः । यद् वा, वत्स-बकादि-वध-रूपाः कथाः कथयन्त्यः--"तादृशा महा-दुष्टाः कृष्णेन हताः । अयं सर्पः को नाम वराकः ? एनं हत्वाधुनैवायास्यति ?" इति तन् मातृ-सान्त्वनार्थम् इति भावः । विशेषतस् तासां शोकोक्तिः श्री-विष्णु-पुराणे यथा—

सर्वा यशोदया सार्धं विशामोऽत्र महा-ह्रदे ।

नाग-राजस्य नो गन्तुम् अस्माकं युज्यते व्रजे ॥7

दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।

विना वृषेण का गावो विना कृष्णेन को व्रजः ॥

विनाकृता न यास्यामः कृष्नेनानेन गोकुलम् ।

अरण्यं8 नापि सेव्यं च वारि-हीनं यथा सरः ॥

यत्र नेन्दीवर-दल-प्रख्य-कान्तिर् अयं हरिः ।

तेनापि मातुर् वासेन रतिर् अस्तीति विस्मयः ॥

उत्फुल्ल-पङ्कज-दल-स्पष्ट-कान्ति-विलोचनम् ।

अपश्यन्त्यो हरिं दीनाः कथं गोष्ठे भविष्यथ ?

अत्यर्थ-मधुरालाप-हृताशेष-मनो-धनाः ।

न विना पुण्डरीकाक्षं यास्यामो नन्द-गोकुलम् ॥

भोगेनाविष्टितस्यापि सर्प-राजस्य पश्यत ।

स्मितो-शोभि-मुखं गोप्यः कृष्णस्यास्मद्-विलोकने ॥ [वि।पु ५.७.२५-३१]इति।

कृष्णाननेऽर्पित-दृशश् च सत्यः, आसन् तत्-सन्दर्शनार्थं स्थिता शोकाकुलतया भूमाव् उपविष्टा वा । पश्चाच् च मृतक-प्रतीका बभूवुः

यद् वा, कथयन्त्यः कृष्णाननार्पित-दृशः सत्यो मृतक-प्रतीका आसन् बभूवुः, मोहं गता इत्य् अर्थः । एता हि प्रायो व्रजेश्वरी-सम-वयस्काः, पूर्वोक्ताश् च प्रायो नव-वयस्का भगत्-प्रियतमा इति केचिद् विवेचयन्ति ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तन्-माता हन्त कीदृशी जाता ? इत्य् अपेक्षायां शोक-भरेण किञ्चिद् एव प्रकाशयन् सर्वासाम् एव तासां दशा-विशेषम् आह—ता इति । ताः पूर्वोक्ताः श्री-यशोदा-सख्योऽन्याः श्री-गोप्यः । न पतति कस्मिन्न् अपि दुःखे कुलं यस्मात्, तद् अपत्यं परम-स्नेह-पात्र-पुत्रम् इत्य् अर्थः । अत एव तद् अनु लक्षीकृत्य तद्-अर्थं प्रकर्षेण सर्वतोऽधिकतया तप्ताम् । "प्रविष्टाम्" इति पाठे ह्रदं प्रवेष्टुम् आरब्धाम् इत्य् अर्थः । तुल्य-व्यथा अपि स सम्यक् अनु निरन्तरं गृहीत्वा धृत्वा शुचः शोकाश्रूणि स्रवन्त्यः प्रवाह-रूपेण मुञ्चन्त्यः । तास् ताः पूतनादितो दैव-कृत-रक्षा-मयीः वत्स-बकादि-वध-रूपास् तवैश्वर्य-मयीश् च व्रजस्य प्रिय-कथाः कथयन्त्यः, "तादृशा महा-दुष्टा बहवोऽपि हताः, अयं सर्पः तेष्व् एकः को नाम वराकः ? एनं हत्वाधुनैवायास्यति" इति तन् मातृ-सान्त्वनार्थम् इत्य् अर्थः । तथा कृष्णार्पित-दृशश् च सत्य आसन्, पश्चात् मृतक-तुल्याश् चासन्न् इत्य् अर्थः । विशेषतस् तासां शोकोक्तिः श्री-विष्णु-पुराणे—

सर्वा यशोदया सार्धं विशामोऽत्र महाहृदे ।

नाग-राजस्य नो गन्तुम् अस्माकं युज्यते व्रजे ॥

दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।

विना वृषेण का गावो विना कृष्णेन को व्रजः ॥

विना कृता ना यास्यामः कृष्णेनानेन गोकुलम् ।

अरम्यं नातिसेव्यं च वारि-हीनं यथा सरः ॥

यत्र नेन्दीवर-दल-प्रख्य-कान्तिर् अयं हरिः ।

तेनापि मातर्वासेन रतिर् अस्तीति विस्मयः ॥

उत्फुल्ल-पङ्कज-दल-स्पष्ट-कान्ति-विलोचनम् ।

अपश्यन्त्यो हरिं दीनाः कथं गोष्ठे भविष्यथः ॥

अत्यन्त-मधुरालाप-हताशेष-मनो-धनाः ।

न विना पुण्डरीकाक्षं यास्यामो नन्द-गोकुलम् ॥

भोगेनावेष्टितस्यापि सर्प-राजस्य पश्यत ।

स्मित-शोभि-मुखं गोप्यः कृष्णस्यास्मद्-विलोकने ॥ इति ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ताः पूर्व-पूर्वोक्ताः श्री-यशोदा-सख्योऽन्याः । तास् ताः पूतनादिभ्यो रक्षा-मयीः ॥२१.२२॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र वात्सल्यवतीनां वैक्लव्यम् आह—ताः प्रसिद्धाः पुरन्ध्र्यः अपत्यम् अनु लक्षीकृत्य प्रतप्तां सन्ताप-जर्जरां । “प्रविष्टम्” इति पाठे अपत्य एव लीनतां प्राप्तां मूर्च्छिताम् इति यावत् । कृष्ण-मातरं यशोदां सम्यग् अनुगृह्य इत्य् अधुनाप्य् अस्याः शरीरे प्राणाः प्रायो वर्तन्ते, तद् इदं नोपेक्षणीयम् इति तद्-भुजाभ्याम् अङ्गीकृत्य शीतल-सलिलेनाश्रु-कला-क्लिन्नं मुखं मुहुर् मुहुः प्रक्षाल्य व्रज-प्रियस्य कृष्णस्य कथास् तास् ताः उच्चैः कथयन्त्यः तच्-चेतना-प्रापनार्थम् इति भावः । ताः कीदृश्यः? शुचः शोकस्य स्रवन्त्यो नद्यः स्रवन्ती निम्नगापगाः इत्य् अमरः । स्व-तरङ्गेनान्यानपि प्लावयन्त्य इति भावः । अन्ते तु मृतकस्येव प्रतीकाः अवयवाः यासां ताः ॥२१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वत्सलानां दशाम् आह—ता इति । ता मातृ-भावेन प्रसिद्धा गोप्यः कृष्ण-मातरं श्री-यशोदां, अपत्यं कृष्णम् अनु प्रविष्टां तद्-अन्तिकं प्रवेष्टुं कृतारम्भां भुजाभ्यां समनुगृह्य तत्-तुल्य-व्यथाः सत्यः शुचः शोकाश्रूत्णि स्रवन्त्यो मुञ्चन्त्यः व्रज-प्रियस्य कृष्णस्य तास् ता अघ-विमर्दनादिकाः कथाः कथयन्त्यः अघम् इवैतम् अपि सर्पं विमर्द्य सूनुर् आयातीति बोधयन्त्य आसन् । अस्मासु विष-विप्लुष्टासु स कथं स्यात् ? इति भावः । मृतकस्य इव प्रतीका अङ्गानि यासां ताः ॥२१॥


॥ १०.१६.२२ ॥

कृष्ण-प्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।

प्रत्यषेधत् स भगवान् रामः कृष्णानुभाव-वित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् ध्रदम् कालिय-ह्रदम् । प्रसिद्धः । प्रत्यषेधद् इति—भो आर्य-पादाः अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ [भा।पु। १०.८.१६] इति श्री-गर्ग-वचनाद् अस्य त्व् एतादृश-दुर्गोत्तरणं किं चित्रम् इति विचार्य विवेकं भजत युष्मासु ह्रदं प्रविष्टे पश्चात् स्वस्त्य्-आगतस्यास्य मद्-अनुजस्य लालन-पालनादिकं कैः कर्तव्यम् ? गोपायस्व समाहितः [भा।पु। १०.८.१९] इति गर्ग-महिषि-निदेश-लङ्घने प्रवृत्ताः कथं स्वेल्य्-आदि-वाक्यैर् इत्य् अर्थः।

ननु, तेषां सर्वेषां प्रतिषेधं कर्तुं स कथं शक्तस् तत्राह—भगवान् सर्व-शक्ति-युक्तः । कांश्चिद् उक्तं युक्त्या कांश्चिद् बलेन कांश्चिद् अन्तःप्रेरणया च । अत एव सर्व-रमणाद् रामः

ननु, सोऽपि कथं स्वस्यस् तत्राह—कृष्णस्य सर्व-दुःख-कर्षकस्य सदानन्द-मूर्ते\ऽनुभाव-वैभवं दुष्ट-दलनादि-रूपं वेत्ति इति तोषिणी ॥२३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथञ्चिन् मोहोपशमे काल-विलम्बे च ह्रदं निःशेषेण निर्विशेषेण वा प्रविशतो नन्दादीन् सर्वान् एव व्रज-जनान्, स व्रज-रक्षार्थं भगवता गृहे रक्षिता यः, बन्धु-वत्सलत्वेन प्रसिद्धो वा ।

ननु, तेषां प्रतिषेधनं स कथं कर्तुं शक्तः ? तत्राह—भगवान् सर्व-शक्ति-युक्तः—कांश्चिद् युक्त्युक्त्या9, कांश्चिद् बलेन, कांशिच् च श्री-विष्णु-पुराणानुसारेण स्मित-शोभि-मुखत्व-दृष्ट्या भगवत्-स्वस्थतादि-प्रदर्शनेनेत्य् अर्थः । एवं सर्व-रमणाद् रामः

ननु, सोऽपि रामः कुतः स्वस्थ आसीत् ? तत्राह—कृष्णस्य पर-ब्रह्म-मूर्तेर् भगवतो ऽनुभावं प्रभावं वेत्ति इति तथा सः । [पुनश् च स्नेह-भराकुलास् ते सर्वे श्री-कृष्णस्य तादृश-साक्षाद्-अवलोकनतः]{।मर्क्}10 [परमार्त्य्-उद्भवेन विशेषतश् च ह्रद-प्रवेशाप्राप्त्या अन्तर्-दुःख]{।मर्क्}11[-भरोदयेन मोहिता भूमौ निपत्यासन्न् इति ज्ञेयम्—उपलभ्योत्थिताः सर्वे [भा।पु १०.१७.१४] इति वक्ष्यमाणत्वात् ॥२२॥]{।मर्क्}

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथञ्चिन् मोहोपशमे काल-विलम्बे च ह्रदं निःशेषेण प्रविशतः नन्दादीन् सर्वान् एव व्रज-जनान् सः व्रज-रक्षार्थं भगवता गृहे त्यक्तो यः बन्धु-वत्सलत्वेन प्रसिद्धो वा ।

ननु, तेषां सर्वेषां प्रतिषेधनं स कथं कर्तुं शक्तः ? तत्राह—भगवान् सर्व-शक्ति-युक्तः कांश्चिद् युक्त-युक्त्या, कांश्चिद् बलेन, कांश्चिद् अन्तः-प्रेरणया च । एवं सर्व-रमणाद् रामः

ननु, सोऽपि नाम कुतः स्वस्थ आसीत् ? तत्राह—कृष्णस्य पर-ब्रह्म-मूर्तेर् भगवतः अनुभावं प्रभावं वेत्ति इति तथा सः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यषेधद् इति "भो आर्यपादाः ! अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ [भा।पु। १०.८.१६] इति गर्ग-वचनाद् अस्य त्व् एतादृश-दुर्गोत्तरणं किं चित्रम् ? इति विचार्य विवेकं भजत । युष्मासु ह्रदं प्रविष्टेषु पश्चात् स्वस्त्य्-आगतस्यास्य मद्-अनुजस्य लालन-पालनादिकं कैः कर्तव्यं ? गोपायस्व समाहितः [भा।पु। १०.८.१९] इति गर्ग-महर्षि-निर्देश-लङ्घने प्रवृत्ताः कथं स्थ ?" इत्य्-आदि-वाक्यैर् इत्य् अर्थः । भगवान् इति तत्र सामर्थ्यम् ॥२३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रत्यषेधद् इति । "भो आर्य-चरणाः ! अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ, गोपायस्व समाहितः [भा।पु। १०.८.१६,१९] इति गर्गाचार्यैर् उक्तं किं विस्मरथ ? तच् च कालिय-दुर्ग-तरणम् अस्य महा-पुरुषस्य मद्-अनुजस्य कियत् ? दष्टश् चासकृद् अस्य प्रभावो भवच्-चरणे युष्मासु विष-वह्नि-विप्लुष्टेषु कोऽस्य लालन-कृद् इति तान्य् अवारयत्" इत्य् अर्थः ॥२३॥


॥ १०.१६.२३ ॥

इत्थं स्व-गोकुलम् अनन्य-गतिं निरीक्ष्य

स-स्त्री-कुमारम् अतिदुःखितम् आत्म-हेतोः ।

आज्ञाय मर्त्य-पदवीम् अनुवर्तमानः

स्थित्वा मुहूर्तम् उदतिष्ठद् उरङ्ग-बन्धात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्य-गतिम् आत्मानम् इत्थं निरीक्ष्य, अत एव आत्म-हेतोः स्व-गोकुलम् अतिदुःखितम् आज्ञाय उरङ्ग-बन्धाद् उदतिष्ठद् इत्य् अन्वयः ॥२३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थम् सर्प-वेष्टितम् । नान्यो गतिस् त्राता यस्यासौऽनन्य-गतिः तम् । सर्व-रक्षकत्वे सति सर्वारक्ष्य निरीक्ष्य विमृश्य । अत एव अनन्य-गतित्वाद् एव । आत्म-हेतोः मद्-अर्थम् । उरङ्ग-बन्धाद् अहि-वेष्टनात् । उदतिष्ठत् पृथग् बभूव । गोकुल-पक्षे त्व् अमो लुग्-अभाव आर्षः । सकलाः स्त्रियः कुमाराः स-स्त्री-कुमारम् इति साकल्येऽव्ययीभावः । मुहूर्तं स्तब्धं इव स्थित्वा, "किं रे कालिय ! त्वया विक्रम-सर्वस्वं दर्शितो\ऽहं सम्प्रति गोपाल-बालकोऽप्य् अयं विक्रम-लवं दर्शयति, पश्य !" इत्य् उक्त्वा उरग-बन्धाद् उदतिष्ठत् पृथग् भवितुम् उद्यतोऽभूत् ॥२३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आज्ञाय मर्त्य-पदवीम् इत्य्-आदि । मर्त्य-पदवीम् आज्ञाय ज्ञात्वा, "एते मर्त्या अतिक्षण-भङ्गुर-प्राणा अस्मद्-अनालोकेन मरिष्यन्त्य् एव, तद् अलं विलम्बेन" इत्य् अनुवर्तमानो विचारयन् मुहूर्तं स्थित्वा उरग-बन्धाद् उदतिष्ठत् ॥२३॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थम् अनेन तेषां सर्वेषाम् अपि मोहादिना प्रकारेण । न विद्यतेऽन्यः पतिः12 रक्षको यस्य तथा-भूतम् आत्मानम् इति शेषः । उदतिष्थत् श्री-कृष्णः । अन्यत् तैर् व्याञ्जितम् ।

यद् वा, इत्थम् उक्तेनानेन शोक-मोहाद्य्-अनुपरम-प्रकारेण अतिदुःखितम्, अन्यथा एकान्तिनस् तेषां पतिं चात्मानं निरीक्ष्य आलोच्येत्य् "एषां रक्षा अवश्यम् एवाशु कार्या" इति भावः । विशेषतश् च आत्म-हेतोर् एव अतिदुःखितं स्वकीयम् अकृत्येनापि वक्ष्यं गोकुलम् आज्ञाय स्वभावः पर-दुःखासहिष्णुता भात्य् एव । तत्र च स्वकीयानां तत्राप्य् आत्म-हेतुकम् इत्य् उत्थानेऽतित्वरा बोधिता । स-स्त्री-कुमारम् इति श्री-यशोदादीनां गोपीनां श्रीदामादि-सहचर-गोप-कुमाराणां च दुःख-विशेष-विवक्षया पृथङ्-निर्दिष्टम् ।

अथवा, इत्थम् उक्त-प्रकारकं परमार्तं मरणोद्यतं च स्व-गोकुल-स्वामिनम् । किं वा, अन्यथा गोपास् तेषां पतिं श्री-नन्दं स-स्त्री-कुमारम् आत्म-हेतोर् अतिदुःखितम् आज्ञय । हे अनन्य ! इति श्री-परीक्षितं प्रति सम्बोधनं वा—तव इव अनन्यानां तेषाम् अपि प्राण-रक्षा-पूर्वकाशेष-मङ्गलं तेनावश्यं कृत्यम् एवेति भावः । तथापि पतिं गोकुलस्येत्य् अर्थात् तम् एव । अन्यत् समानम् ।

मर्त्य-पदवीम् अनुवर्तमानो लौकिक-लीलायां दर्शयन्न् इत्य् अर्थः । अतो मुहूर्तम् अल्प-कालम् एवोरग-भोग-बन्धे स्थित्वा । यद् वा, यं प्रति निःसारणादि-दण्डो विधीयते, तस्य दोषो लोकेषु दर्श्यत इतीदृशीं मर्त्य-पदवीम् अनुसरन्न् अपि शीघ्रम् उदतिष्ठद् इत्य् अर्थः । भाव-विशेषालिङ्गनादिना यो हि मिलति, स बलान् न मोच्यते, किन्तु क्षणं तेन सङ्गत्य स्थीयत इति लोक-रीतिम् अनुसरन्न् इति तत्त्वार्थः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थम् अनेन सर्वेषां तेषाम् अपि मोहनादिना प्रकारेण विद्यते अन्या गतिः रक्षको यस्य तथा-भूतम् आत्मानम् इति शेषः । "पतिम्" इति पाठे स एवार्थः । उदतिष्ठत् श्री-कृष्णः । अन्यत् तैः ।

यद् वा, स च मुहूर्तं स्थित्वा उरङ्गम-बन्धाद् उदतिष्ठत् । मुहूर्त-स्थितौ हेतुः--मर्त्य-पदवीं यं प्रति दण्डो विधीयते तस्य दोषो लोके दर्श्यते इतीदृशीं तन् नीतिम् अनुवर्तमान इति । उत्थाने हेतुः--स्वम् आत्मीयं गोकुलम् इत्थं निजोत्थानं विना न जीविष्यतीति प्रकारेण न विद्यतेऽन्या गतिः रक्षको यस्य । किं वा, न विद्यतेऽन्या यत्राहि-वेष्टने स्वस्यावस्थितिः, तस्माद् अपरा गतिर् गमनं यस्येति, तत्रैव प्रवेश-निश्चयो यस्येत्य् अर्थः । तादृशं निरीक्ष्य तच् चेष्टा-दर्शनेन निश्चित्य । अमो लुग्-अभावः आर्षः । तत्रापि स-स्त्री-कुमारं कृत्स्नम् इत्य् अर्थः, साकल्येऽव्ययीभावः । चेष्टा-दर्शनम् एवाह—आत्म-हेतोर् अतिदुःखितं दुःख-पराकाष्ठाम् आपन्नं सम्यक् ज्ञात्वेति स्वभावतो जन-मात्रस्य दुःखा-सहिष्णुता तस्मिन् वर्तत एव । तत्रापि स्वीयस्य तत्राप्य् आत्मानवाप्ति-हेतुक-दुःखस्य । तत्राप्य् आत्म-दुःख-दुःखितस्येति क्रम-ज्ञानेनोत्थानेति त्वरा बोधिता एवं तद्-उत्थानादिका सर्वैव लीला-व्रज-जनेन दृष्टेति गम्यते ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स च मुहूर्तं स्थित्वा उरग-बन्धाद् उदतिष्ठत् । तावत् स्थितौ हेतुः--मर्त्य-पदवीम् अनुवर्तमानः । उत्थाने हेतुः--स्वम् आत्मीयम् इत्थं गोकुलं निजोत्थानं विना न जीविष्यतीति प्रकारेण न विद्यतेऽन्यः पतिः रक्षको यस्य तादृशं निरीक्ष्य दृष्ट्वा, तथापि स-स्त्री-कुमारं श्री-कृष्णम् इत्य् अर्थः । प्रकारम् एवाह—**आत्म-**इत्य्-आदि ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तेषाम् एव करुण-रस-पराकाष्ठाम् आलक्ष्य कदाचिद् अमी मद्-वियोगम् आशङ्क्य नश्येरन्, तद् अत्यसमञ्जसं भविष्यतीति तां लीलां सजिहीर्षुर् यद् अकरोत् तद् आह—इत्थं स्व-गोकुलम् इत्य्-आदि । एते मर्त्य-प्राया मद्-वियोगेन मरिष्यन्त्य् एवेति तेषां मर्त्य-पदवीम् आज्ञाय ज्ञात्वा कालियेन सह तां पूर्वोक्तां खेलाम् अनुवर्तमानः सन् मुहूर्तं स्थित्वा उरङ्ग-बन्धनात् उरगे यः स्व-कृतो बन्धः, न तु तत्-कर्तृको बन्धः, तस्माद् उदतिष्ठत्, स्वाधीन-बन्धत्वाद् इच्छा-मात्रेणैवोत्थानम् । अन्यत् समम् ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्य-गतिम् इति पुंस् त्वम् आर्षम् । आज्ञाय सम्यक् ज्ञात्वा मुहूर्तं घटिका-द्वयं स्तब्ध इव स्थित्वा, "किं रे कालिय! त्वया विक्रम-सर्वस्वम् अहं दर्शित इव, सम्प्रति गोप-बालकोऽप्य् अयं विक्रम-लवं दर्शयति । पश्य !" इत्य् उक्त्वा उरङ्ग उरगः, तद्-बन्धात् उदतिष्ठत् ॥२३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कालियस्योत्साह-वर्धनाय व्रजौकसां भाव-शोभा-दर्शनाय च निरीहतां प्रकाश्येदानीं विक्रमं प्रकाशयद् इत्य् आह—इत्थम् इति । सर्वेषां मोहादिना प्रकारेण न अन्यो गतिर् यस्य, तत् पुंस्त्वं छान्दसं । आत्म-हेतोर् अतिदुःखितम् आज्ञाय मर्त्य-पदवीं यं प्रति दण्डो विधेयस् तद्-दोषो लोके दृश्य इति नीतिम् अनुवर्तमानो ऽनुसरन् मुहूर्तं स्थित्वा उरङ्गस्य बन्धाद् उदतिष्ठत् निर्गतः ॥२३॥


॥ १०.१६.२४ ॥

तत्-प्रथ्यमान-वपुषा व्यथितात्म-भोगस्

त्यक्त्वोन्नमय्य कुपितः स्व-फणान् भुजङ्गः ।

तस्थौ श्वसन् छ्वसन-रन्ध्र-विषाम्बरीष-

स्तब्धेक्षणोल्मुक-मुखो हरिम् ईक्षमाणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य प्रथ्यमानेन वपुषा व्यथितात्म-शरीरो भुजङ्गः कुण्डलीम् उन्मुच्य तं त्यक्त्वा कुपितः स्व-फणान् उन्नमय्य श्वसन् केवलम् ईक्षमाणस् तस्थौ । कथं-भूतः ? श्वसन-रन्ध्रेषु नासा-विवरेषु विषं यस्य स तथा, अम्बरीषो मण्डक-पाक-भाजनं तद्वत् सन्तप्तानि स्तब्धानि ईक्षणानि यस्य स तथा, उल्मुकानि मुखेषु यस्य, स च स च स च ॥२४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रथ्यमानेन बद्धमानेन । मेडकं सूक्ष्म-राटिके इति शाश्वतः । तप्ताय प्रसिद्धम् । यद् वा, अम्बरीषो भ्राष्ट्रम् अन्न-भर्जनार्थं रचितो गृहकार-यन्त्रः क्लीबो\ऽम्बरीषं भ्राष्ट्रो न इत्य् अमरः ॥२४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उत्थान-प्रकारम् एव दर्शयन् कालियस्य ग्लानिम् आह—तद् इति । तस्य कृष्णस्य प्रथ्यमानेन स्वयं विस्तार्यमाणेन किञ्चिद् उच्छ्वास्यमानेन वपुषा व्यथितः पीडित आत्म-भोगः स्व-देहः । किं वा, आत्मनो देहो13 वा, भोगश् च देहो यस्य सः । निविड-दृढ-वेष्टनं गतस्य भोगस्य तद्-अन्तर्वर्ति-श्री-वपुषः किञ्चिद् उत्फुल्लनेनाकृष्ट्या त्रोटन-दुःखोत्पत्तेः कुपितत्वाद् एव । किं वा, व्यथितात्म-भोगत्वात् श्वसेनैव तद्- अत्यन्ताभिव्यञ्जनात् अम्बरीषोऽत्र विष-पाक-पात्रं तद्-उपमय्एक्षणानाम् अतिरक्तत्वं दुर्विषमयत्वं च । उल्मुक-मुखत्वं च मुखतो ज्वलद्-विषाग्नि-शिखा-मोचनात् । एषाम् उत्तरोत्तरं घोरत्वम् ऊह्यम् । एवं पूर्वोद्दिष्टं सर्वतोऽतिदुर्विषमयत्वं दर्शितम् । हरिं दुरभिमान-दोष-हरनान् निजावास-हरणोद्यमाद् वा ।

तत्त्वार्थस् तु अव्यथितात्म-भोगस् त्वरयोत्थानात् प्रणयेन कुपितो मनोहरत्वात् तम् ईक्षमाण एव तस्थौश्वासादयः सात्त्विक-विकारा एव । तत्र विषाम्बरीषत्वादिकं जाति-स्वाभाविकम् एवेति ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उत्थान-प्रकारम् एव दर्शयन् कालियस्य ग्लानिम् आह—तद् इति । तस्य कृष्णस्य प्रथ्यमानेन स्वयं विस्तार्यमाणेन किञ्चिद् उच्छ्वास्यमानेन वपुषा व्यथितः त्रुट्यन्न् इव पीडितः आत्म-भोगो यस्य । आत्म-शब्देन तत्रात्यन्तम् अध्यासं संव्यज्य पीडा वैशिष्ट्यं द्योतितं । स्व-शब्दश् चासाधारणतया विवक्षया । अम्बरीषम् अत्र ज्वलद्-विष-भर्जन-पात्रं हरिं दुरभिमान-दोष-हरणात् निजावास-हरणोद्यमत्वाद् वा । अन्यत् तैः । तत्र कुण्डलं वेष्टनम् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्थान-प्रकारम् एव दर्शयन् कालियस्य ग्लानिम् आह—तद् इति । तेन कृष्णेन प्रथ्यमानं वेष्टन-समय-गत-सङ्कोचनां परित्यज्य विस्तार्यमानं यद् वपुर् भुज-जङ्घादिकं, तेन व्यथितः त्रुट्यन्न् इव पीडितः आत्मनो भोगो यस्य सः । वेष्टनम् उन्मुच्य तं त्यक्त्वा स्वफणान् उन्नमय्य श्वसन् केवलम् ईक्ष्यमाण एव तस्थौ । कीदृशः? श्वसन-रन्ध्रेषु नासा-विवरेषु विषं यस्य । तथा अम्बरीषं ज्वलद् विष-भर्जन-पात्रं “भाण्ड” इति ख्यातं तद्वत् तप्तानि स्तब्धानि ईक्षणानि यस्य तथा उल्मुकानि निःसरन्ति मूखेभ्यो यस्य स च स च स च सः ॥२४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उत्थान-विधं दर्शयन् उरगस्य ग्लानिम् आह—तद् इति । तस्य कृष्णस्य प्रथ्यमानेन विस्तार्यमानेन वपुषा बाहूरु-जङ्घादिना व्यथितः त्रुटितवत् पीडित आत्म-भोगः स्व-देहो यस्य सः, भोगः सुखे धने चाहेः शरीर-फणयोर् मतः इति विश्वः । वेष्टनं त्यक्त्वा स्व-फणान् उन्नमय्य स्वसन् हरिम् ईक्षमाण एव तस्थौ । कीदृशः ? श्वसन-रन्ध्रेषु नासा-छिद्रेषु विसं यस्य अम्बरीषं ज्वलद्-भर्जन-भाजनं भ्राष्ट्रस् तत् समानि शुद्धानीक्षणानि यस्य उल्मुकानि विषाग्निखण्डानि निःसरन्ति मुखेभो यस्य स च स च स च सः ॥२४॥


॥ १०.१६.२५ ॥

तं जिह्वया द्वि-शिखया परिलेलिह्यमानं

द्वे सृक्किणी ह्य् अतिकराल-विषाग्नि-दृष्टिम् ।

क्रीडन्न् अमुं परिससार यथा खगेन्द्रो

बभ्राम सोऽप्य् अवसरं प्रसमीक्षमाणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हरिश् च क्रीडंस् तम् अमुं सर्वं परिससार परितो बभ्रामअतिकराल-विषाग्नि-युक्ता दृष्टिर् यस्य तम् । जिह्वया द्वि-शिखया इति प्रतिमुखम् ॥२५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कालियम् । अमुम् अङ्गुलि-निर्दिष्टम् । सृक्किणी औष्ठ-प्रान्तौ । सोऽपि सर्पोऽपि बभ्राम ॥२५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्वे शिखे अग्र-भागौ यस्याः, तया जिह्वया द्वे सृक्किणी सृक्कणी परितो मुहुर् लिहन्तम् इति युगपद् एव द्वाभ्यां द्वयोः परिलेहनाद् अस्य जाति-स्वभावत्वेऽप्य् अधुना कोपेनातिशयोऽभिप्रेतः, तेनातिघोरत्वं सूचितम् । अत एव कराल- इति पुनर् उक्तिश् च बहु-शिरसस् तस्य मुखानां बहुत्वेऽपि जिह्वया इत्य् एकत्वं सृक्कणश् च द्वितम् अङ्गानां युगलानां बहूनां वैकत्वेन द्वित्वेन चानिर्देशेऽपि स्वतो द्वित्वादि-सिद्धेः । किं वा, प्रतिमुखं तस्यास् तयोश् चैकत्व-द्वित्वाभिप्रायेण । हि अपि । तादृशम् अप्य् अमुं परितः ससार, भ्रमणार्थं तस्य सर्वतो बभ्राम इत्य् अर्थः । यथा खगेन्द्रः श्री-गरुड इति सद्यो हन्तुं शक्तोऽपि यथा केवलं क्रीडार्थम् एव परितो भ्रमतीति क्रीडायां वा दृष्टान्तः । स कालियोऽपि दंशनावसरं प्रकर्षेण प्रतिपदं सम्यग् ईक्षमाण आसीद् इत्य् अर्थः,14 अपेक्षमाण इति वा, परिसरणेन15 तद्-अप्राप्तेर् इति सर्पेण सह क्रीडा-कौशलम् उक्तम् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सृक्किणी सृक्कणी परितो मुहुर् लिहन्तम् इति युगपद् एव द्वाभ्यां द्वयोः परिलेहनात् अस्य जाति-स्वभावत्वेऽप्य् अधुना कोपनातिशयोऽभिप्रेतः तेनातिघोरत्वं सूचितम् । अत एव करालेति पुनर् उक्तिश् च । हि एव । क्रीडन्न् एव परितः ससार भ्रमणाय तस्य सर्वतो बभ्राम इत्य् अर्थः । यथा खगेन्द्रः श्री-गरुड इति प्रबलत्वेन क्रीडायां शीघ्रतायां वा दृष्टान्तः स कालियोऽपि दर्शनावसरं प्रकर्षेण प्रतिपदं सम्यग् ईक्षमाणः अभीक्ष्णं बभ्राम इति सर्पेण क्रीडा-कौशलम् उक्तम् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वे स्वीये सृक्कण्यौ पुनः पुनर् लिहन्तं तम् अमुं परि परितः ससार, तं भ्रमयितुं तस्य सर्वतो बभ्राम इत्य् अर्थः । कालियोऽपि दंशनस्य अवसरं समीक्ष्यमाण एव बभ्राम, कृष्ण-कर्तृक-भ्रमण-लाघवाद् दंशन्आवसरं न प्रापेति तिर्यग्-भ्रमि-खेलयापि तं जिगायेत्य् अर्थः ॥२५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कृष्णः क्रीडन्न् अमुं भुजङ्गं परितः ससार तं भ्रमयितुं तस्य सर्वतो बभ्रामेत्य् अर्थः । स भुजङ्गोऽपि दंशन्आवसरं प्रसमीक्षमाण एव बभ्राम तद्-भ्रामान-लाघवत् तद्-अवकाशं न प्रापेति तिर्यग् भ्रमण-लीलयां तं जितवान् इत्य् अर्थः ॥२५॥


॥ १०.१६.२६ ॥

एवं परिभ्रम-हतौजसम् उन्नतांसम्

आनम्य तत्-पृथु-शिरःस्व् अधिरूढ आद्यः ।

तन् मूर्ध-रत्न-निकर-स्पर्शातिताम्र-

पादाम्बुजोऽखिल-कलादि-गुरुर् ननर्त ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं परिभ्रमेण एव हतम् ओजो यस्य तम् । उन्नताव् अंसौ यस्य तम् । तस्य मूर्धसु ये रत्न-निकराः, तेषां स्पर्शेन अत्यरुणं पादाम्बुजं यस्य सः । ननु, कथं चञ्चलेषु शिरःसु ननर्त ? तत्राह—अखिल-कलानाम् आदि-गुरुः ॥२४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् ग्रहणार्थम् । नर्तनासम्भवं मत्वा आशङ्कते—नन्व् इति । अखिलानां रज्ज्वद्य्-उपरितन-नृत्यादीनां कलानां विद्यानां प्रथमाचार्यः ॥२६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परिभ्रम-हतौजसम् अपि उन्नतांसम्, अत एव आनम्य चेति । पृथु अतिविस्तीर्णतया तद्-रङ्ग-योग्यतोक्ता । तन् मुर्ध इति सौन्दर्य-विशेषस् तथा नृत्य-गताव् अभिनिवेशो वैदग्ध्यं चोक्तं । अखिल-कलानाम् आदि-गुरुर् उपदेष्टृ-श्रेष्ठः प्रथम-प्रवर्तको वा । यद् वा, आद्यो यः स तच्-छिरःस्व् अधिरूढ इति तस्य महा-भाग्यं सूचितम् । तच् चाग्रे विस्तरतो व्यक्तं भावि । कलाश् चाग्रे तैर् एवाभिव्यञ्जयितव्याः ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परिभ्रम-हतौजसम् अपि उन्नतांसम्, अत एव आनम्य तं श्री-हस्तेन । तथा च श्री-हरि-वंशे शिरः स कृष्णो जग्राह स्व-हस्तेनावनम्य च [ह।वं। २.१२.३३] इति । पृथ्व् इति तद्-रङ्ग-योग्यतोक्ता । **तन् मूर्ध-**इति-सौन्दर्य-विशेषः स्पर्श- इति लाघव-विशेषः तथापि अतिताम्रत्वं कोमलत्वात् आदि-गुरुत्वे हेतुः--आद्यः अनेन कालियस्य च महा-भाग्यं सूचितम् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उन्नताव् उच्चाव् अंसौ यस्य तम् आनम्य इति परिभ्रम-हतौजस्त्वात् भ्रमणासमर्थस्य तस्य शिरांस्य् एव एक-हस्तेनैव आनम्य तत्र अधिरूढः सन् ननर्त, शिरः स कृष्णो जग्राह स्व-हस्तेनावनम्य च [ह।वं। २.१२.३३] इति हरि-वंशोक्तेः । तस्य मूर्धषु ये रत्न-निकराः, तेषां कठोराणां स्पर्शेन अतिसुकुमारत्वाद् अतिताम्रम् अत्यरुणं पादाम्बुजं यस्य सः । स्थाली शरावादिषु कला-ज्ञापनाय नटा नटन्ति, अयं तु सर्व-कलानाम् आदि-गुरुत्वात् चञ्चलेषु कालिय-मूर्धसु ननर्त इति स्व-कलाभिज्ञत्व-दर्शनेयं व्रज-सुन्दरीषु पूर्व-रागवतीषु ज्ञेया ॥२६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उन्नताव् अंसौ यस्य, तम् आनम्य इति परिभ्रम-हतौजत्वाद् भ्रमणाशक्तस्य तस्य शिरांस्य् एक-हस्तेन आनमय्य तेष्व् अधिरूढः सन् ननर्त । तन्-मूर्धस्यस्य रत्न-निकरस्य स्पर्शेन अतिताम्रे पादाम्बुजे यस्य सः, कालिय-फणा-मणिक्य-रञ्जित-श्री-पादाम्बुजः इति तन्-नाम-स्तोत्रे ।

ननु, सर्प-शिरःसु चञ्चलेषु कथं नर्तनं ? तत्राह—**अखिल-**इति । नटाः खलु कला-विज्ञाः स्थाली-वरत्रादिषु नृत्यन्ति । अस्य तु निखिल-कलाचार्यत्वान् न तच्-चित्रम् । एतत् कला-प्रदर्शनं स्वानुरागिनीनां रञ्जनार्थम् ॥२६॥


॥ १०.१६.२७ ॥

तं नर्तुम् उद्यतम् अवेक्ष्य तदा तदीय-

गन्धर्व-सिद्ध-सुर-चारण-देव-वध्वः ।

प्रीत्या मृदङ्ग-पणवानक-वाद्य-गीत-

पुष्पोपहार-नुतिभिः सहसोपसेदुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसेदुः प्राप्ताः ॥२७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नर्तुम् नर्तितुम् । वर्ण-लोपः छान्दसः । तदा नर्तन-काले । तदीया भगवदीया एव गन्धर्वादयस् तस्य सर्वेश्वरत्वात्, एष सर्वेश्वरः [बृ।आ।उ। ४.४.२२] इति श्रुतेः । पुष्पोपहारः पुष्प-वृष्टिः । उपसेदुः सिषेविरे ॥२७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तं नर्तुम् इत्य्-आदि । नृत्ये वाद्य-गीताद्य् उपयुज्यते, तेन गन्धर्व-सिद्ध-चारण-वध्वो मृदङ्ग-गीताभ्यां यथा-योगम् उपसेदुः । वध्व इति गाने मधुर-स्वरत्वात्, वाद्ये कर-कमलानां कोमलत्वाद् आघात-लाघवात् सुश्रव्यत्वात् । मुनि-वध्वो देव-वध्वश् च पुष्पोपहार-नुतिभ्याम् उपसेदुः । सम्यङ् नृत्यन्तम्, "अहो नृत्यम् ! अहो नृत्यम् !" इति स्तुवन्ति, पुष्प-वृष्ट्या च सम्मानयन्ति । वध्व इति श्री-कृष्णे स्त्रीणाम् एवात्यन्तिकी रतिर् इति वा तात्पर्यम् ॥२७॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नृत्य-सुखार्थं तद् उपकरणम् आह—तम् इति । तदा तत्-क्षण एव । तदीयाः श्री-गरुडादयः पार्षदा गन्धर्वादयश् च स्वर्ग्याः । यद् व, तदीया वैकुण्ठ-वर्तिनो ये गन्धर्वादयस् ते, तत्र मृदङ्गादीनां वाद्यैश् चारणा उपसेदुः असेवन्त, गीतैर् गन्धर्वाः, पुष्पैर् देव-वध्वोऽप्सरसः, श्री-भगवन्-नृत्यापेक्षया नृत्यानाचरणात् ।\

किं वा, सर्वा एव देव्यः, तथापि नृत्यानुक्तिस् तथैवोपहारा विविध-गन्ध-सुगन्धि-चूर्णादयस् तैः सिद्धाः । नुतिभिश् च मुनय इत्य् एवं विवेचनीयम् । क्रमातिक्रमः प्रीत्या, तेषां सहसोपसत्त्या16 तत्-तत्-सङ्कीर्णताभिप्रायेण । किं वा, हर्ष-भरेण श्री-बादरायणेर् अननुसन्धानात् । यद् वा, तेन प्रीत्या सर्वेषाम् अपि प्रवृत्तिर् अभिप्रेता ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नृत्य-सुखार्थं तद् उपकरणम् आह—तम् इति । अवेक्ष्य "अवेत्य" इति वा पाठः समानार्थः, ईक्षेर् इणश् च ज्ञानार्थत्वात् । तदीयाः श्री-गरुडादयः पार्षदाः, गन्धर्वादयश् च स्वर्ग्याः । यद् वा, वैकुण्ठ-वर्तिन ये गन्धर्वादयः, ते तत्र मृदङ्गादीनां वादनैश् चारणा उपसेदुः असेवन्त गीतैर् गन्धर्वाः, पुष्पैर् देवाः, तद्-वध्वश् चेत्य् अर्थः । उपहाराः विविध-गन्ध-सुगन्धि-चूर्णादयः, तैः सिद्धाः, नुतिभिश् च मुनयः इत्य् एवं विवेचनीयं । क्रमातिक्रमो हर्ष-भरेण बादरायणैर् अननुसन्धानात् । यद् वा, प्रीत्या सर्वेषाम् अपि सर्वत्र प्रवृत्तिर् अभिप्रेता ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथोत्थिते भगवति रोषावेशाद् उत्थितस्य कालियस्य फण-मण्डलानि दृष्ट्वा भगवतः कर्कश-मार्गस्य-गति-विशेषेण निनर्तिषा जाता । तद्-अनुरूप-वाद्यं गन्धर्वादि-वधूभिर् आबद्धम् इति दर्शयति—तं नर्तुम् उद्यतम् अवेक्ष्य इत्य्-आदि । तं श्री-कृष्णं नर्तुम् उद्यतम् अवेक्ष्य तदा तस्मिन्न् एव काले गन्धर्वादि-वध्वः प्रीत्या मृदङ्गादि-वाद्य-गीताभ्यां पुष्पोपहार-बलिभ्यां च उपसेदुस् तदीयं नृत्यम् उपचक्रुः । गन्धर्व-सिद्ध-चारण-वध्वो वाद्य-गीताभ्याम्, वध्व इति मधुर-कमल-करताल-घातेन वाद्यस्य माधुर्यम्, सौन्दर्य-विशेषेण च गीतस्य माधुर्यम्, मुनि-देव-वध्वः पुष्पोपहार-वलिभ्याम्, काश्चित् पुष्प-वृष्ट्या, काश्चिद् उपहारैः, सर्वेषां वध्व एवेति गन्धर्व-सिद्धादि-पुम्भ्यस् तत्-तद्-वधूनाम् एवातिहर्षो जातः, तद्-विषये तद्-विधानाम् अतिरतिमत्त्वात् ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नर्तुं नर्तितुं । **तदीय-**इति । वाद्यं विनैव स्व-मुखेनैवोच्चारितैस् थै-थै-शब्दैः प्रभुर् नृत्यति, तद् वयं कं समयं प्रति स्थिता इति विचार्येति भावः ॥२७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न च नर्तने सामग्री न्यूनतेत्य् आह—तम् इति । नर्तितुम् उद्यतं मृदङ्गादि-वाद्यैर् विनैव थै तथै शब्दम् उच्चारयन्तं प्रभुम् अवेत्य इत्य् अन्यद् विकासितार्थं तदीयास् तत्-सेवकाः ॥२७॥


॥ १०.१६.२८ ॥

यद् यच् छिरो न नमतेऽङ्ग शतैक-शीर्ष्णस्

तत् तन् ममर्द खर-दण्ड-धरोऽङ्घ्रि-पातैः ।

क्षीणायुषो भ्रमत उल्बणम् आस्यतोऽसृङ्

नस्तो वमन् परम-कश्मलम् आप नागः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शतैक-शीर्ष्णः शतम् एकानि मुख्यानि शीर्षाणि यस्य, तस्य क्षीणायुषोऽपि पुनर् भ्रमतो यद् यच् छिरो न नमते स्तब्धतां न जहाति । नृत्य-च्छलेन अङ्घ्रि-पातैस् तत् तन् ममर्द । तदा च आस्यतो मुखेभ्यो नस्तो नासा-विवरेभ्यश् च असृग् वमन् ॥२७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शतम् एकानि मुख्यानि शिरांसि यस्य तस्याग्रे फणा-सहस्रोक्तेः । क्षिणायुषोऽपि क्षीण-बलस्यापि आयुर् वै घृतम् इत्य् अत्रायुः-शब्दो बल-परो\ऽस्ति यथा तथात्रापि । स्तब्धताम् उच्चताम् परम-कश्मलम्, अतीव-क्लेशं कश्मलं क्लेश-पापयोः इति धरणिः ॥२८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एक-शब्देन अन्यान्य् अपि बहूनि सन्तीति बोध्यते, अग्रे फणा-सहस्रोक्तेः । क्षीणायुषो मृत-प्रायस्येत्य् अर्थः । आस्य-नासाभिर् असृजो वमनात् तेन तत्-तद्-द्वार-निरोधात् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शतम् एकानि मुख्यानि शिरांसि यस्य, तस्य अग्रे फणा-सहस्रोक्तेः । यद् यत् न नमत्य् उच्चीभवति, तत्रैव सहसारुह्य अङ्घ्रि-पातैस् तान् एव क्षणान् ममर्द । तदा च आस्यतो मुखेभ्यः नस्तो नासा-विवरेभ्यः असृग् वमन् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य शिरःसु मध्ये यत् यत् समुन्नमति तत् तद् एव पदा पाद-प्रहारेण अनुनमयन्, तस्मिन्न् अवसरे हृष्टैर् गन्धर्वादिभिर् वृष्यमाणैः पुष्पैः प्रपूजित इव प्रसन्नः सन्, तेषाम् एव हितार्थं दुष्टं तं दमयान् बभूव ॥२८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शतम् एकानि मुख्यानि शीर्षाणि यस्य, अग्रे फणा-सहस्रोक्तेः । तस्य यद् यच् छिरो न नमते उच्चीभवति, तत्रैव सहसा बलेनारुह्य अङ्घ्रि-पातस् ताल-रक्षणात् ममर्द स तद्-आस्यतो मुखेभ्यो नस्तो नासिका-छिद्रेभ्यश् च असृक् रुधिरं वमन् ॥२८॥


॥ १०.१६.२९ ॥

तस्याक्षिभिर् गरलम् उद्वमनतः शिरःसु

यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः ।

नृत्यन् पदानुनमयन् दमयाम्बभूव

पुष्पैः प्रपूजित इवेह पुमान् पुराणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनर् अपि रुषा उच्चैर् निश्वसतो यद् यत् समुन्नमति, तत् तत् पदाघाते नानुनमयन्न् इह अस्मिन्न् अवसरे हृष्टैर् गन्धर्वादिभिः शेषासनः पुराणः पुरुष इव यशोदा-नन्दनः पुष्पैः प्रपूजितः । यद् वा, तदा गन्धर्वादिभिः पुष्पैः प्रपूजितो गोपैः पुराणः पुमान् इव दृष्ट इति । यद् वा, पुष्पैः प्रपूजित इव प्रसन्नः सन् दमयाम्बभूव । हितं कृतवान् इत्य् अर्थः ॥२९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गरलम् विषम् । समुन्नमति उच्चैर् भवति । तत् तच् छिरः । गन्धर्वाणां देव-योनित्वेन भ्रमोऽनुचित इति मत्वा प्रकान्तरेण आह—यद् वा इति । गोपानाम् अपि वस्तुतो देवर्षित्वे तत्रापि स नोचित इति मत्वा पुनर् आह—यद् वा इति । इत्य् अर्थ इति—परमोऽनुग्रहो दण्डो भृत्येषु प्रभूनार्पितः इति न्यायेन तद्-धितम् एव चकऋएति भावः ॥२९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना केवलम् अक्षिभिर् एवं17 विषम् उच्चैर् वमतः । अनेन तदानीम् अपि तीक्ष्न-दृष्टित्वम् अभिप्रेतम्, तत्त्वार्थ-पक्षे द्वयम् । अङ्घ्रि-पातैर् नृत्य-गत्या पादाब्ज-न्यास-विशेषैर् मर्दनं तज् जाति-स्वाभाविक-दोष—निरसनम् । किं वा, पादाब्ज-स्पर्श18-विशेष-महा-सौभाग्य-लभनम्, अत एव तेन शिरसाम् उत्तम्भनं च क्षीणायुष्ट्वादिकं सहज-दुष्ट19-बल-दर्पाद्य्-अपगमस् तद्-अर्थम् एव खलेषु दुर्विषमयास्यादि-स्थानेषु दण्डं दधत् । ततश् च प्रेमानन्द-मूर्च्छाप्तिस् तप्तश् च गरलोद्वमनं निजाशेषान्तर्-दोष-त्यागः, रुषा प्रणय-कोपेन ।

यद् वा, अ-कार-प्रश्लेषेण न विद्यते रुट् यस्यां तया भक्त्येत्य् अर्थः । दमयाम्बभूव सहज-जाति-दोषं त्याजयामासेत्य् अर्थः । तेन च तत्त्वतो हितम् एवाकरोत् । तच् च तैर् अपि व्याख्यातम् । "दययाम् बभूव" इति पाठेऽपि क्वचित् ।

नन्व् ईदृशीम् अद्भुतां कृपां किम् इति कृतवान् ? इत्य् आशङ्क्य स्वयम् एव हेतुं वितर्कयति—पुष्पैर् इति । इह श्री-वृन्दावनान्तः श्री-यमुना-ह्रदे पुराणः पुमान् श्री-कृष्णोऽयं पुष्पैः प्रकर्षेण पूजितःइव इत्य् उत्प्रेक्षायां वितर्क एव वा । पुराणः पुमान् इति पुरुषोत्तमत्वेनेत्य् अर्थः । यद् वा, पुरापि नव इति निरुक्त्या पूर्वतो वर्तमाणोऽपि नित्य-नूतन इत्य् अर्थः । यद् वा, पुरं श्री-मथुराख्यम् आनयति प्राणयतीति पुराणः पुमान् श्री-कृष्ण एव । अन्यत् समानम् इति ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वाङ्ग-वैवश्येऽपि अक्षिभिर् गरलम् उद्वमत इति दुष्ट-स्वभाव-निर्देशः ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य शिरस्सु मध्ये यत् यत् सनुन्नमति तत् तद् एव पदा पाद-प्रहारेण अनुनमयन् तस्मिन्न् अवसरे हृष्टैर् गन्धर्वादिर् वृष्यमाणैः पुष्पः प्रपूजित इव प्रसन्नः सन् तेषाम् एव हितार्थं दुष्टन्तं दमयांबभूव ॥२९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तस्य शिरःसु नृत्यन् कृष्णस् तेषु मध्ये यद् यत् समुन्नमति तत्-तद् एव पदाङ्घ्रि-प्रहारेणानुनमयन् तदा गन्धर्वादिभिर् वृष्टिः पूष्पैः प्रपुजित इवाति प्रसन्नस् तेषां हिताय तं नागं दमयाम्बभूव ॥२९॥


॥ १०.१६.३० ॥

तच् चित्र-ताण्डव-विरुग्ण-फणातपत्रो

रक्तं मुखैर् उरु वमन् नृप भग्न-गात्रः ।

स्मृत्वा चराचर-गुरुं पुरुषं पुराणं

नारायणं तम् अरणं मनसा जगाम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अरणं शरणम् ॥३०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कृष्णस्य चित्र-ताण्डवेन अद्भुत-नृत्येन रुग्णं भुग्नं फणातपत्रं फण-रूप-च्छत्रं यस्य सः । उरु महत् । भग्न-गात्रो मर्दिताङ्गः । तम् श्री-कृष्नम् ॥३०॥ [अत्र विश्वनाथः]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य तत्त्वानिर्वचनीयं चित्रं विविधं भरतम् अनुयुक्त-भ्रान्ति-रेचकादि-गति-भेदात् । यद् वा, नृत्य-गत्यैव दृढ-प्रहरणात्, किं व, निग्रहायाचर्यमाणस्यापि तस्याग्रहे पर्यवसानाद् अद्भुतं यत् ताण्डवं तेन विशेषतो रुग्नं जात-व्रणं भग्नं वा फणानां सहस्रं यस्य सः । हे नृपेति यथा भवादृशां प्रजा-पालनाय दुष्टस्य निग्रहो दण्डोऽपि तत्त्वतो हितायैव, तथेति भावः । तत्त्वार्थ-पक्षे तु सर्व-फणेषु तादृश-नृत्येन तत्-साफल्यतोऽत्यन्तानुग्रह एव । तत्र विरुग्नेत्य् अनेन पूर्वोक्त-मर्दनवद् अनुग्रहभर-सम्पत्तये ताण्डवाधिक्यं द्योत्यते । एवं फणावर्ग-विरुग्नत्वादिना दुर्मदाद्य् अपगमाद्-दीनः सन्, तत्त्वार्थ-पक्षे—सहजान्तर्दोषक्षयेण च विशुद्ध-भावोत्पत्त्या श्री-भगवन्तं सस्मार, ततश् च तं प्रपन्न इत्य् आह-स्मृत्वेति । चराचराणं गुरुं जनकम्, यतः पुराणं पुरुषं सर्वेषाम् आद्यम् इत्य् अर्थः, यतो नारायणं लोक-पद्माकर-नाभिम् इत्य् अर्थः । किं वा, सर्व-जीवानाम् आश्रयम् । एते सर्वथा शरणापत्तौ हेतवः । स्मृत्वा विस्मृतम् अपि तं मनसि कृत्वा चिन्तयित्वा वा, तं नारायणम् एव शरणं गतः । मनसेति परमार्त्या तवास्मि इत्य् उक्तावप्यशक्तेः । यद् वा, मनसा शरण-गमने हेतुः—पुराणम् अन्तर्यामितया हृदय-रूपायां पुरि शेते सदा वर्तत इति तथा तम् इति । अन्यत् समानम् । तत्त्वार्थ-पक्षे—तं श्री-कृष्णं नारायणं स्मृत्वा, कुतः ? चराचरात् तन्मय-ब्रह्माण्डाद् अपि गुरुं गरिष्ठं महा-भारवत्त्वात्20, किं च, पुराणं पुरुषं बाल्येऽप्य् अवालम् इत्य् अर्थः21, नृत्यादि-कला-विशेषात्, अतस् तम् एव शरणं गतः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य यद् वा अनिर्वचनीयं चित्रं विविधं भ्रान्ति-रेचकादि-गति-भेदं यत् ताण्डव तेन विचेषतो रुग्णं जात-व्रणं भग्नं वा फणानां सहस्रं यस्य सः । अथ साक्षात् श्री-चरण-कृत-दण्डात् सहजान्तर् दोषक्षयेण श्री-बलिवत् तत् स्पर्शादि विशुद्ध-भावोत्पत्त्या च श्री-भगवन्तं ज्ञातवान् प्रपन्नश् चेत्य् आह—स्मृत्वेति । तं श्री-कृष्णः चराचराणां गुरुं जनकत्वादेः यतः पुराणं पुरुषं सर्वेषाम् आद्यम् इत्य् अर्थः । यतः नारायणं लोक-पद्माकारनाभिम् इत्य् अर्थः । किं वा, सर्व-जीवानाम् आश्रयम् एते सर्वथा शरणापत्तौ हेतवः स्मृत्येति प्राचीनेन तेन शतशः श्रुतस्यापि तस्य दौरात्म्यमान-राहित्यात् मनसेति परमात्त्यं तवास्मीत्य् उक्ताव् अप्य् अशक्तेः । यद् वा, मनसो शरण-गमने हेतुः पुरुषम् अन्तर्यामितया हृदय-रूपाणां पुरि शेते सदा वर्तत इति तथा । यद् वा, तं श्री-कृष्णं नारायणं स्मृत्वा स्व-पत्नीभ्यस् तथा श्रुतम् अनुसन्धाय शेषं प्राग्वत् ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तं श्री-कृष्णं नारायणं स्मृत्वा सपत्नीभ्यः श्रुतम् अनुसन्धाय एवं शरणापत्त्या क्षान्तवन्तम् अपि तद्-अपेक्षया शिरस्य् एव स्थितं तत्-पत्न्यः प्रपेदिरे इत्य् आह—कृष्णस्येति द्वाभ्याम् । गर्भज-गत इति विभुत्वात् भुवि कायं निधायेति तत्र मध्य-द्वीपः सूचितः ॥३१-३६॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परम-भक्ताभिस् तत्-पत्नीभिः कृपा-रूपं भक्ति-बीजं पूर्वम् उप्तम् अपि पूर्व-पूर्वापराध-जनित-क्रौर्य-दोष-व्याप्ते कालियस्य तस्यान्तः-करणे दुष्ट-क्षेत्रे इव परोढुम् असमर्थम् एवासीत् । तदा तु श्री-चरण-स्पर्शेन तत्-कृत-दण्ड-प्राप्त्या च तत्-तद्-दोष-क्षये सति सहसैव तद्-भक्ति-बीजम् अङ्कुरितं बभूवेत्य् आह—स्मृत्वेति । मद्-वैरिणो गरुडाद् अप्य् अस्य परः सहस्र-गुणाधिकं बलं मयोपलब्धं, तस्मान् मत्-पत्नीभिर् उपदिष्ट-भक्तिकोऽयम् एव परमेश्वर इति स्वीय-स्मृति-गोचरीकृत्येत्य् अर्थः । चराचर-गुरुम् इत्य् असाधारणं बलं दर्शयन्न् अहम् एव परमेश्वर उपास्य इति मूढम् अपि मां ज्ञापयन् कृपया मच्-छिरो ऽर्पित-चरणो गुरुर् भवान् प्रसीदति तम् इमम् अहम् इदानीं शरणं यामीति । अरणम् शरणम् ॥३०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शेष-देवानुग्रहावाप्त-हरि-भक्तिभ्यः स्वा-पत्नीभ्यः श्रुतो\ऽपि हरि-महिमा कालियस्य हृदि क्रौर्यादि-दोषान् नोदितः अधुना तु तच्-चरण-स्पर्शेन तद्-विमर्दन-दण्डेन च तद्-दोष-परिक्षयात् तत्र तद्-उदयो बभूवेत्य् आह—तच् चित्रेति । पत्नीभ्यः श्रुतं महिमानं स्मृत्वा विचिन्त्य तं पुरुषं अरणं शरणम् ॥३०॥


॥ १०.१६.३१ ॥

कृष्णस्य गर्भज-गतोऽतिभरावसन्नं

पार्ष्णि-प्रहार-परिरुग्न-फणातपत्रम् ।

दृष्ट्वाहिम् आद्यम् उपसेदुर् अमुष्य पत्न्य

आर्ताः श्लथद्-वसन-भूषण-केश-बन्धाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गर्भे जगन्ति यस्य तस्यात्-भारेणावसन्नम् आक्रान्तम् । पार्ष्णिः पाद-पृष्ठम् । आद्यं श्री-कृष्णम् । श्लथन्तो विस्रंसमाना वसनादयो यासां ताः ॥३१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गर्भ-जगत इति । रोम-विवरान्तर् निविष्टानन्त-ब्रह्माण्डत्वाद् इति भावः । क्वेदृग् विधावगणि-ताण्डवराण्डवराण्ड-चर्यावाताध्वरोम-विवरस्य इति परमेष्ठ्य् उक्तेः । बहिर् मुखोऽयं भगवत् कृत-दण्डेन म्रियते चेन् म्रियताम् वयं विधवा भूत्वा भगवन्तं भजामेति । यदा तु भक्त्या शरणं गतस्य तस्य पत्युर् दैन्य-निर्वेद-विषाद-वितर्कमत्वादि-सञ्चारि-लक्षणं ददृशुर् मुखाद्य् अङ्गेषु तदैवाहोऽयम् अस्मद् भाग्यवशाद् वैष्णवोऽभूत् तद् अस्य रक्षणे यताम् अह इति संहतास् तत्र जात-स्नेहत्वडार्ताः श्री-मच्चरण-सन्निधिम् आजग्मुः ॥३१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गर्भज-गत इति भरातिशये उत्प्रेक्षा ॥३१॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं शरणापत्त्या प्रसन्नेऽपि श्री-भगवति तत्-पत्नीः प्रति प्रसाद-विशेषार्थं तासां माहात्म्यं दर्शयितुं तम् अत्यजति सति पतिप्रपत्त्यादिकोपन्न-सन्-ज्ञानानाम् आदौ सम्यक्-प्रपत्तिम् आह—कृष्णेष्येति द्वाभ्याम् । आतपत्र-रूपकेण फणानां परिरुग्णतया तस्य राज्यश्रियोऽपि भ्रंशः22 सूच्यते । उपसेदुः पार्श्वे जग्नुर् आर्तत्वाद् एव श्लथद्-वसनादिका इति महा-दैन्यम् उक्तम् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं शरणापत्या त्यक्त-चरणाघात-दण्डे सम्यक् प्रसन्ने यासां स्व-भक्तानाम् अपि दुष्ट-स्वामि-सङ्कोचाद् अनागत-चरीणां सम्बन्धेन स्वयम् एव तस्य तस्य तादृक्त्वं साधितं तद् अपेक्षान्यायेति तद् अर्थम् एव ताभ्यस् तादृश-प्रसाद-दर्शनार्थम् एव च शिरस्य् एव विलम्बमाने श्री-भगवति तासां प्रतिपत्तिम् आह—कृष्णस्येति द्वाभ्याम् । गर्भज-गत इति विभुत्वाद् उक्तं न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इति न्यायेन गर्भ-शब्देन ह्य् अत्रान्तरम् उच्यते ततो व्याप्त-सर्वस्येत्य् अर्थः । तथापि जगत् स्पर्शाभावस् तु दर्शितः मया ततम् इदं सर्वम् [गीता। ९.४] तस्मिंश् चैवम्भूते भारतायाः कैमुत्याद् यत् कालियादेः सर्वस्यापि चूर्णत्वं न जायते तत् खलु तस्येच्छामय-निज-शक्ति-प्राकट्यस्योपेक्षात् एव सम्भवतीति भावः आतपत्र-रूपकेण फणानां परिरुग्णतया तस्य बाह्यश्रियो विमर्शः सूचितः उपसेदुः पार्श्वे जग्मुः आर्तत्वाद् एव श्लथद् वसनादिकाः इति महा-दैन्यम् उक्तम् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं नृत्यतस् तस्य पादाघातेन तालत्याग-समयातिशय-शब्देन भुग्नशिरसं पतिम् आलोक्य नागपत्न्यः समुपतस्थुर् इत्य् आह—कृष्णस्य गर्भ-जगत इत्य्-आदि । गभ-जगद् यस्य स तथा । कोऽर्थः ? गर्भे उदरे स्वीकृतं जगद्येन । न तु सदैव तस्योदरे जगत् तिष्ठति तदा सर्वदैव सर्वस्यैव दुःसहः स्यात्, अपि तु ऐच्छिक्या प्रकाशिक्या योग-मायया जगतो यावान् भरस्तावान् तस्मिन्न् एव स्व-वपुषि सञ्चारित इति तेन तत्-पार्ष्णि प्रहार—रुग्णं फणा-रूपम् आतपत्रं यस्य, तद् दृष्ट्वा आद्यं तं श्री-कृष्ण-मनुष्य कालियस्य पत्न्य आर्ताः सत्य उपसेदुः । आतन्त्वे हेतुः—शलथद्-वलयेत्य् आदि ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गर्भे जगन्ति यस्य तस्य, अत एवातिभरेण आद्यं श्री-कृष्णम् आर्ता इत्य् एतावत्-काल-पर्यन्तं या पत्याव् उदासीना एवासन्, बहिर्-मुखो ऽयं भगवत्-कृत-दण्डेन म्रियते चेत् म्रियताम्, वयं विधवा भूत्वा भगवन्तं भजामेति, यदा तु मनसा शरणं गतस्य तस्य पत्युर् दैन्य-निर्वेद-विषाद-वितर्कम् इत्य्-आदि-सञ्चारि-लक्षणं मुखाद्य्-अङ्गेषु ददृशुस् तद् एवाहो अस्मद्-भाग्य-वशाद् अयं वैष्णवो ऽभूत् तद् अस्य रक्षणे यतामहे इति । संहतास् तास् तत्र जात-स्नेहत्वाद् आर्ताः श्रीमच्-चरण-सन्निधिम् आजग्मुः ॥३१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ कालियस्य शरणापत्तेः प्राक् तत्-पत्न्यो हरि-विमुखोऽयं तत्-कृतेन दण्डेन म्रियतां वयं वैधव्य-दशयेव हरिं भजाम इति पत्वावपि उदासीनास् तस्थुरथ दैन्यादि-चिह्नैर् इति तच्-चरणापत्तिकास् तत्-प्राणत्राणाय प्रपेदिरे इत्य् आह--कृष्णस्येति गर्भे जगन्ति यस्य अत एवातिभरेणावसन्नं निपीडितमहिं स्वपतिं दृष्ट्वा आद्यं कृष्णम् उपसेदुस् तच्-चरणान्तिकम् आजग्मुः ॥३१॥


॥ १०.१६.३२ ॥

तास् तं सुविग्न-मनसोऽथ पुरस्कृतार्भाः

कायं निधाय भुवि भूत-पतिं प्रणेमुः ।

साध्व्यः कृताञ्जलि-पुटाः शमलस्य भर्तुर्

मोक्षेप्सवः शरण-दं शरणं प्रपन्नाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ताः शरणं प्रपन्नाः सत्यस् तं प्रणेमुःसुविग्न-मनसोऽतिविह्वल-चित्ताः । भुवीति तस्मिन् स्थाने जलाधस्ताद्वा तीरे वा । शमलस्य पापात्मनोऽपि भर्तुर् मोक्षेप्सवः । भर्तुर् यच् छमलं तस्य वा । भूत-पतिं प्राणि-मात्रस्य पतिम् । शरण-दम् आश्रय-प्रदम् ॥३२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता नागपत्न्यः । तम् श्री-कृष्णम् । पुरस्कृता अग्रे कृता अर्भा बाला याभिस् तास् तथा । जलाधस्थजैलगतो नन्तुं दर्शनमृतेऽशक्य इत्य् अरुच्य् आह—तीरे वेति । याद् वा, भुवीत्य् उक्तेर् ह्रदस्य मध्ये द्वीपास्ति यत्र स्थितः कृष्णः कालिय-वेष्टितो गोकुल-जनैर् अदृश्यतेति ज्ञेयम् अत्र । साध्वीनां स्त्रीणां पापेऽपि भर्तरीश्वर-दृष्टिर् एवोचिता न त्व् अन्यथा । पाप-दृष्टिकरणे साध्वीत्वहतेर् अर्थान्तरम् आह—भर्तुर् इति । कृतान्जलि-पुटा इत्य् उक्ते स्तासां काम-रूपत्वं प्रतीयते, अन्यथास्तुतिकरणादिकम् अपि दुर्घटं स्याद् इति भावः ॥३२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुविग्नं पति-मरण-शङ्कयाति-भीत-मति-दुःखितं वा मनो यासां ताः, अयं प्रणामे प्रपत्तौ वा परम-दैन्येन गुण-विशेष उक्तः, भुवि कायं निधाय, दण्डवन् निपत्य् एत्य् अर्थः । पुरस्कृतार्भत्वं कृपा-जननार्थम् ।

ननु, भर्तुर् अपराधेन कुतो न बिभ्यति स्म ? तत्राह भूतानां प्राणिणां सर्वेषाम् अपि पतिमनन्य-गतित्वा-द् इत्य् अर्थः, अत एव भर्तुर् यत् शमलम् अपराधस् तस्य मोक्षं मर्षणम् इच्छन्त्यः, । किं वा, पञ्चम्य् अर्थे षष्ठी, शमलान् मोक्षेच्छव इत्य् अर्थः । यद् वा, अपराधिनापि भर्तुर् मोक्षः संसार-दुःख-ध्वंसस् तद् इच्च्ववः । कुतः ? साध्व्यः परि-व्रताः श्री-कृष्ण-भक्तिमत्यो वा । अतस् तस्माद् अपि आसु तत् पादानुग्रह-विशेषो युक्त एवेति भावः । शरणदं तद्-हृदाश्रय-प्रदम्, अन्यथा श्री-वृन्दावन-मध्ये तत्र निवासासम्भवः । यद् वा, रक्षक-नियोजकं यद् अन्येन केनापि रक्ष्यते, तत् तस्यैव प्रेरणाद् इत्य् अर्थः । अतस् तासां तद्-रक्षा-हेतु-प्रपत्त्यादिकं तेनैव सम्पादितम् इति भावः । शरणं प्रपन्नाः रक्ष रक्षेत्य् आर्त-स्वरेण शरणागतया तमाश्रिताः यद् वा, शरणं सर्वापद्भ्यो रक्षितारं तथैवाश्रिताः । किं वा, स्तोतुं प्रवृत्ताः सत्य इत्य् अर्थः । तत्वार्थ-पक्षे—अपराधो योग्यो\ऽस्यापि [श्री-कृष्ण-भक्ति-परायण-तत्-पत्नी] तच् चुम्बनादि-प्रवृत्तेः, । किं वा, दुर्विषज्वालया श्री-वृन्दावनवर्ति-प्राणि-हिंसातः । एवम् अन्यद् अपि ऊह्यम् ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुविग्नं पतिमरण-शङ्कया तद् अप्य् अपराध-शङ्क्या वातिभीतम् अति-दुःखितं व मनो यासं ताः, अयं प्रणामे प्रपत्तौ व परम-दैन्येन गुण-विचेष उक्तः भुवि कायं निधाय दण्डवन् निपत्येत्य् अर्थः । एवं हृदस्य मध्ये कश्चित् द्वीपो बोधते यत्र क्रीडा-विशेषार्थम् उत्थितः श्री-कृष्णः कालियेनावृतो गोकुल-जनैर् अदृश्यतेति वर्णितं पुरस्कृतार्भत्वं कृपा-भजनार्थम्,

ननु, भर्तुर् अपराधेन कुतो न बिभ्यति स्म ? तत्राह—भूतानां प्राणिनां सर्वेषाम् अपि पतिं तासां तादृशतया स्फुरितं तस्माद् भयेऽपि कुत्रान्य् अत्र गन्तव्यम् इति भावः । अत एव भर्तुः भर्त्रा यः शमलस्य मोक्षस् त्यागः तम् इच्छन्त्यः कुतः साध्व्यः पति-व्रताः श्री-कृष्ण-भक्तिमत्यश् च ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तास् तं प्रथमं प्रणेमुः, भुवीति ह्रदस्य मध्ये कश्चिद् द्वीपो बुद्ध्यते, यत्रैव स्थितः कृष्नः कालिय-वेष्टितो गोकुल-जनैर् अदृश्यतेति ज्ञेयम् । पुरः कृष्णस्याग्रे कृता अर्भा बाला याभिस् ता इति कृपा-जननार्थम् ॥३२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पुरस्मृतार्भा इति दयोत्पादनाय भुवि कामं निधायेति हृद-मध्ये काश्चिद्-द्वीपो बुध्यते यत्रैव कालियो हरिमवेष्टयन् शमलस्य सापराधस्य ॥३२॥


॥ १०.१६.३३ ॥

नागपत्न्य ऊचुः—

न्याय्यो हि दण्डः कृत-किल्बिषेऽस्मिंस्

तवावतारः खल-निग्रहाय ।

रिपोः सुतानाम् अपि तुल्य-दृष्टेर्

धत्से दमं फलम् एवानुशंसन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रथमं तावत् कुपितं भगवन्तं दण्डानुमोदनेनोपशमयन्त्यः स्तुवन्ति—न्याय्यो हीति । तत्र—

दण्डानुमोदनं षड्भिर् दशभिश् च हरेर् नतिः ।

प्रार्थनं पञ्चभिः श्लोकैस् ततः पन्नग-योषिताम् ॥

न च निग्रहानुग्रह-लक्षणं वैषम्यं तवास्तीत्य् आहुः—धत्से दमम् इति । अनुशंसन्न् आलोचयन् ॥३३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुपितानुनय-कोविदा नागाङ्गना आहुः—दण्डानुमोदनं दण्ड-प्रशंसा षड्भिः श्लोकैर् अष्टत्रिंशद् अन्तैः, ततो दशभिर् अष्टचत्वारिंशद्-अन्तैः, ततः पञ्चभिस् त्रिपञ्चाशद्-अन्तैः । पन्नग-योषितां सर्प-स्त्रीणां न्यायाद् अनपेतो न्याय्य उचितः । अस्मिन् सर्पे । निर्ग्रहानुग्रह-कर्तृत्वेन किम् अहं विषमस् तत्राहुः—न चेतिरिपोः सुतानाम् इति षष्ठ्यौ सप्तम्य्-अर्थे । रिपौ सुतेषु चेत्य् अर्थः । दमं दण्डं, खलो\ऽयं दण्डार्ह इत्य् आलोचयन्न् इति भावः । फलम् इति पाठे तु अपराधानुरूपं फलं विचारयन्न् इत्य् अर्थः । यद् वा, रिपोः सुतानां रिपु-सुतेषु, अपिना स्व-सुतेषु, च तुल्य-दृष्टे रिपोर् अपि पुत्रस्य प्रह्लादस्य शिष्टस्य पालन-दर्शनात्, स्वस्यापि सुतस्य नरकासुरस्य वध-दर्शनाच् चेति भावः । न च खल-निग्रहे\ऽपि नैर्गृण्यम् इत्य् आहुःधत्स इति । खलत्व-हेतुकनाना-नरक-दुःखोपशम-पूर्वक-नित्य-सुख-मय-मोक्ष-लक्षणं फलम् एव दीयते मयेत्य् अनुशंसन् कथयन्न् एव दमं दण्डं धत्स इति ॥३३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृतं किल्बिषम् अपराधो येन तस्मिन् । न्याय्यत्वे हेतुः—तवेत्य्-आदि । यद्यपि तत्त्वतः प्रेम-भक्ति-विस्तारणायावतारः, तथापि खल-निग्रहे सत्य् एव तत् सम्पद्यत इत्य् आशयेन । किं वा, दण्ड-प्रसङ्गानुसारेण खल-निग्रहायेत्य् उक्तम् । फलं हितम् एवालोचयन्, अतो वैषम्यं किञ्चित् तत्र कुत्रापि न भजसीत्य् आहुः—रिपोर् इति । षष्ठी सप्तम्य्-अर्थे दुःख-भावेन द्वेष्टरि साधुत्वेन सुतवत् स्नेह-विषयेष्व् अपि तुल्य-दृष्टिः सन्, अन्यथा तत्-तद्-धितासिद्धिः ।

यद् वा, रिपोः सुतानाम् अपि कृत-किल्बिषाणां सतां दमं धत्से । कथम् ? तुल्य-दृष्टिः सन्, रिपौ सुतेष्व् अपि साम्येनेत्य् अर्थः । रिपोर् इत्य् एकत्वं जात्य्-अपेक्षया । षष्ठ्य्-अन्त-पाठे परमेश्वरत्वेन तत्र तत्र तुल्य-दृष्टिर् अपि तव । अन्यत् तथैव । अयम् एव पाठस् तेषां सम्मतः ।

धत्से दमम् इति धारणाद् अन्यथा विशेषणत्वेन वर्तमानस्य रिपोर् इति-आदेः सर्वस्यापि धार्यत्वेन रिपोर् इति लिखनोपपतिः । यद् वा, फलम् एवेति लेख्ये लेखक-भ्रमात् धत्से दमम् इति फलम् एवेत्य्-आदिनैव वैषम्य-परिहार-सिद्धेः । एवं प्रथमान्त-पाठस् तेषाम् अपि सम्मतः स्यात् । तत्र यद्यप्य् अत्रानुग्रह-प्रसङ्गो नास्ति, तथापि निग्रहानुग्रह-लक्षणम् इति व्याख्या सुतेष्व् अनुग्रह-सम्भावनया । किं वा, तुल्य-दृष्टित्वादिनानुग्रहस्यापि सूचनाद् इति । अथवा दण्डस्य न्याय्यत्वे हेतुः—कृतेति । विशेषतश् चातिदुष्टे तवायं दण्डो योग्य एवेत्य् आहुः—तवेति । दमं खलानां धत्से । प्रथमान्त-पाठे दमस्य साम्ये तात्पर्यम् ।

ननु, तर्हि सर्वत्र गीयमानं परंअ-दयालुत्वं नाम कथं सिद्ध्येत् ? तत्राहुः—फलम् एवेति हितार्थम् एव तद्-आचरणाद् इत्य् अर्थः । अन्यत् समानम् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्मिन् दण्डो न्याय्य एव । तत्र हेतुः—कृतानि किल्बिषाणि गरुडे श्री-यमुना-वृण्दावनयोस् तज्-जीव-समूहे श्री-भगवति च अपराधा येन तादृशे यस् तवावतारः प्राकट्य-मात्रं खलानां साधु-द्रोहिणां निग्रहाय भवति एवं साधूनाम् अनुग्रहाय चेति सूचितम् । अन्यथा तु न निग्रहो न चानुग्रह इत्य् आह—रिपोर् इति । रिपूणां सुतानां च सम्बन्धे च तुल्या दृष्टिर् यस्य, तादृशस्य न च खल-निग्रहे\ऽपि नैर्घृण्यम् इत्य् आह—धत्स इति । फलं नाना-नरकादि-दुःख-हेतुत्व-खलत्वोपशम-पूर्वकं नित्य-सुख-दान-लक्षणम् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं स्तुवत्यः कोपम् उपशमयितुं दण्डम् अनुमोदयति—न्याय्य इति। अनेन साधु-द्रोह-लक्षणस्य स्व-खलत्वस्य फलम् अवश्य-प्राप्यं प्राप्तम् इति भावः । शिष्ट-पालन-दुष्ट-निग्रह-कृतस् तव तु क्वापि वैषम्यं नैवास्तीत्य् आहुः—रिपोः सुतानां रिपु-सुतेषु । अपि-कारात् स्व-सुतेषु च तुल्य-दृष्टिस् त्वम् । रिपोर् अपि सुतस्य शिष्टस्य प्रह्लादस्य पालन-दर्शनात्, स्वस्यापि सुतस्य नरकासुरस्य वध-दर्शनाच् चेति भावः ।

न च खल-निग्रहेऽपि नैर्घृण्यम् इत्य् आहुः—धत्स इति । खलत्व-हेतुक-नाना-नरक-दुःखोपशम-पूर्वक-नित्य-सुखमय-मोक्ष-लक्षणं फलम् एव दीयते मयेत्य् अनुशंसन् कथयन्न् एव दमं दण्डं धत्से ॥३३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नागपत्न्य् ऊचुर् इति—

षड्भिर् दण्डस्य युक्तत्वं दशभिः प्रभोः ।

पञ्चभिः प्रार्थना चेति स्तुतिः कालिय-योषिताम् ॥

तत्र प्रथमं कोपोपशमनार्थ पति-दण्दास्य युक्तत्वम् आहुर् न्याय्य इति खलेनानेन खलतायाः फलम् अवश्यं प्राप्यम् इत्य् अर्थः । साध्व-साधुत्राण-दण्डनकत्तस् तव न वैषम्यम् इत्य् आह—रिपोः सुतानाम् अपि स्व-सुतानां च तुल्य-दृष्टेः रिपु-सुतस्य साधोः प्रह्लादस्य त्राणात् स्वसुतस्यासाधोः भौमस्य विनाशाच् चेत्य् अर्थः । न च खले दण्डो वैषम्यम् इत्य् आह—धत्से इत्य् अनेन दण्डेन साधुत्वं भावीति फलम् एवाभिशांसन् दमं धत्से इति ॥३३॥


॥ १०.१६.३४ ॥

अनुग्रहोऽयं भवतः कृतो हि नो

दण्डोऽसतां ते खलु कल्मषापहः ।

यद् दन्दशूकत्वम् अमुष्य देहिनः

क्रोधोऽपि तेऽनुग्रहम् एव सम्मतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : “निग्रहोऽप्य् अनुग्रहायं” इत्य् उक्तम्, इदानीम् अनुग्रह एवायं न निग्रह इत्य् आहुः, अनुग्रह इति । नोऽस्माकम् । यस्माद् अमुष्य सर्पत्वं दृश्यते, अतस् तन् मूल-पाप-निवर्तको दण्डोऽनुग्रह एव क्रोधत्वेन प्रतीयमानोऽपीत्य् अर्थः ॥३४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वं निग्रह-दृष्टिर् अस्माकं प्रमादो\ऽतः क्षम्यताम् इत्य् आहुः—निग्रहो\ऽपीतिअसताम् असद्योनि-प्राप्तानाम् । यस्मात् पापात् । अमुष्य अस्मत्-पतेः । दन्दशूकत्वम्तन्-मूल-पाप-निवर्तकः सर्प-योनि-कारणी-भूताघ-निवर्तको दण्डो\ऽतः पाप-निवर्तकत्वाद् अनुग्रह एवेति सम्बन्धः । इत्य् अर्थ इति—क्रोधो\ऽपि देवस्य वरेण तुल्यः इत्य् उक्तिम् आश्र्त्य लोक-दृष्टौ निग्रहो\ऽपि फलतो\ऽनुग्रह एवेति भावः ॥३४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नो\ऽसताम् इति पुंस्त्वेन निर्देशः कालियादि-सङ्ग्रहात् । हि यतः । खलु निश्चितम् । देहिनो विचित्रं देहं प्राप्नुवतो\ऽपि । एव-शब्देन कथञ्चिद् अपि न निग्रह इति बोध्यते । सम्यङ्-मतो\ऽस्माभिर् विद्वद्भिर् वा । अन्यत् तैर् व्याख्यातम् ।

यद् वा, नो\ऽस्मान् प्रति, यतो दण्डो\ऽसतां सर्वेषां कल्मषाम् अहो दुर्वासनोन्मूलकः । तच् चेदं साक्षाद् अनुभूयत इत्य् आहुः—देहाभिमानिनो\ऽप्य् अमुष्य महापराधिनो\ऽप्य् अस्य सर्पत्वस्य यद् अपसरणं दृश्यते भवतीति वा शरणापत्त्या सद्-बुद्ध्य्-उत्पत्तेर् अतो दण्ड-हेतुः क्रोधो\ऽप्य् अनुग्रह एवेति सम्मतः ।

यद् वा, असतां कल्मषापहतो\ऽपि ते त्वया दण्डो न कृतः, यद् यस्माद् अमुष्य सर्पत्वं शरीरम् इत्य् अर्थः । तथास्य क्रोधो जाति-स्वभावो\ऽनुग्रहे निमित्त एव त्वया सम्मतः , भोग-परिवेष्टन-स्वीकारात्, तथा फणेषु क्रोधेनोन्नम्यमानेषु परम-हर्षेण नृत्याचरणाच् च ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि निश्चितं, नो\ऽस्मान् प्रतिदण्डो दण्डत्वेन दृश्यमानो\ऽत्ययम् अनुग्रह एव भवता कृतः, यतस् ते त्वया कृतः सो\ऽयम् असतां कल्मषापह एव स्यात् । यद् यस्मात् कल्मषाद् अमुष्य देहिनः कर्मभिर् नाना-देहं प्राप्नुवतः सम्प्रति दन्दशूकत्वं जातं कृते त्व् अनुग्रहे निरन्तर-भवद्-आवेशेन जीवन्-मुक्तत्वात् दन्दशूकत्वाभास एव स्थास्यतीत्य् अर्थः । तस्मात् क्रोधो\ऽपीत्य् आदि ।

यद् वा, असतां कल्मषापओ\ऽपि ते त्वया दण्डो नो कृतो कृतः यद् यस्मात् अमुष्य सर्पत्वं सर्प-शरीरं तत् खलु अनुग्रहे निमित्ते त्वया सम्मतम् एव, तथा क्रोधो जाति-स्वभावो\ऽपि अनुग्रहे निमित्त एव त्वया सम्मतः अङ्गीकृतः स्व-क्रीडार्थं योजित इत्य् अर्थः । भोग-परिवेष्टन-स्वीकारात् तथा फणेषु क्रोधेनोन्नम्यमानेषु परम-हर्षेण नृत्याचरणाच् च ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् दुष्टेष्व् अपि तव वस्तुतस्त्व् अनुग्रह एव निग्रहाकार इत्य् आहुः, अनुग्रह इति । नो ऽस्माकं दण्डः कल्मषं प्राचीन-विविध-पापम् अपहन्तीति सः, यतः कल्मषात् अमुष्य देहिनो जीवस्य द्वन्द्वशूकत्वम् तस्मात् क्रोधो ऽपीत्य्-आदि ॥३४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : निग्रहोऽनुग्रहायेत्य् उक्तम् इदानीं सोऽनुग्रह एवेत्य् आहुः । अहेर् अयं दण्डोऽनुग्रह एव कृतः असतां ते दण्डो यतः कल्मषापहो भवति । यतः कल्मसाद् अमुष्य देहिनो जीवस्य दन्दशूकत्वं सर्पत्वम् अभूत् तस्माद् अक्रोधोऽपीत्य्-आदि क्रोधत्वेन प्रतीतोऽपि दण्डोऽनुग्रह एव सतां सम्मतः । इत्थं वारोषणो ह्य् असु देव इति स्मृति सङ्गता ॥३४॥


॥ १०.१६.३५ ॥

तपः सुतप्तं किम् अनेन पूर्वं

निरस्तमानेन च मानदेन ।

धर्मोऽथ वा सर्वजनानुकम्पया

यतो भवांस् तुष्यति सर्वजीवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महांश् चायम् अनुग्रह इति तस्य पूर्व-पुण्यम् अभिनन्दन्ति, तप इति । स्वयं मान-रहितेनान्येभ्यो मानदेन च । सर्वं जीवयतीति सर्व-जीवः ॥३५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहो अस्य भाग्यम् इत्य् आहुः—महांश् चेति । अनेन सर्पेण । पूर्वं पूर्व-जन्मनि । यतस् तप आदेः । सर्व-जीवः सर्वात्मा ॥३५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यतो भवांस् तुष्यतीत्य् अस्यायम् अभिप्रायः तोषश् चेत् तव न भवति, तदा अपराद्धो\ऽयं फणिपतिस् तदैव व्यापादितो\ऽभविष्यत् न तच् चेत् तेन तव तोषश् च प्रसादश् चानुमतः प्रसाद-हेतुस् त्व् इह जन्मनि नास्य दृश्यते ॥३५॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तपः स्व-धर्माचरणं कृच्छ्रादिकं वा, सुष्ठु तप्तं कृतम् । सौष्ठवम् एव दर्शयति—निरस्तेति । विशेषण-द्वयेन मद-मात्सर्यादि-कृत्-स्वभावकस्य तत्पसस् तत्-तद्-अभावेन सुष्ठुत्वम् । तेन च तस्य सन्तोषम् असम्भाव्य पक्षान्तरम् आहुः—धर्म इति । कृत इति शेषः । सर्व-जनानुकम्पयेति सर्व-जीवेष्व् अहिंसा-लक्षणो हिताचरण-लक्षणश् चेत्य् अर्थः । पूर्वम् इत्य् एतज्-जन्मनि तत्-तद्-असम्भवात् । यतस् तप-आदेः सर्वे जीवा यस्येति जीवेषु सर्वेषु मान-मात्सर्य-हिंसाद्य्-अभावेन सम्मानानुकम्पादिषु च स्वत एव तत्-प्रभोस् तोष-सिद्धेः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तपः कृच्छ्रादि सुष्ठु तप्तं कृतम् । सौष्ठवम् एव दर्शयति—निरस्तेति विशेषण-द्वयेन । तेन चेच्छिकेन तस्य सन्तोषम् असम्भाव्य पक्षान्तरम् आहुः—धर्म इति । स्व-धर्मो नित्यः कृत इति शेषः । एवं स्वरूपेण सामर्थ्यम् उक्त्वा विशेषणेनाप्य् आहुः—सर्व-जनानुकम्पयेति । अनुकम्पा सर्वात्मना हिताचरणं तत्-पूर्वक इत्य् अर्थः । पूर्वम् इत्य् एतज्-जन्मनि तत्-तद्-असम्भवात् । यतो याभ्यां तपो-धर्माभ्यां त्वत्-सन्तोषार्थं कृताभ्याम् इति गम्यं सर्वे जीवा यस्येति जीवेषु सर्वेषु समानाद्य्-अभावेन सम्माननानुकम्पनादिना च तव तत्-प्रभोस् तोष-सिद्धेः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : आगत्य यद् ऊचुस् तद् आह—तपः सुतप्तम् इत्य्-आदि । भो नाथ ! अनेनास्मत्-पतिना किं तपः सुष्ठु विधि-पूर्वकं तप्तम् । अस्य तमो-योनेः कथं नाम तप इत्य् आशङ्क्याह—पूर्व-पूर्वस्मिन् जन्मनि । ननु, पूर्व-जन्मन्य् अप्य् अयं महा-मत्त एवासीत् ? मैवम् इत्य् आह—निरस्त-मानेन । न केवलं स्वयं निरस्त-मान आसीत् मानदो\ऽप्य् आसीद् इत्य् आह—मानदेन सर्व-भूत-सम्मान-कारिणा । तपसः फलं तावद् ईदृशं न भवतीत्य् आह—धर्मो\ऽथवा कः सुकृत इति लिङ्ग-व्यत्ययेनान्वेतव्यः । धर्मो भगवद्-उक्ति-लक्षणो धर्मः । अन्यथा तप इत्य् अनेनैव धर्मो लभ्यते । भक्ति-लक्षणो धर्मो\ऽपि साधन-रूप एवेति न स च साध्य-रूप एवेत्य् आह—सर्व-जनानुकम्पया सह स्मरणानुकम्पा हि भक्तौ ज्ञानेन वा सिद्धस्यैव भवति, तेनायं पूर्व-जन्मन्य् उत्तम-भक्त एवासीद् इति निश्चयः ।

ननु, कुत इदं वो निश्चय-ज्ञानम् ? इत्य् आहुः—यत इत्य्-आदि । यतो हेतोर् भवान् श्री-कृष्णस् तुष्यति । तव तोषस् तु न तप-आदिभिर् भवति, अपि तु निष्कैतवयैव भक्त्या । तथा च, न दानं न तपो नेज्या न शौचं न व्रतानि च । प्रीयते\ऽमलया भक्त्या हरिः [भा।पु। ७.७.५२] इत्य्-आदि ॥३५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं तु निग्रहाकारोऽपि नैवायम् अन्ग्रहः, किन्तु शिष्ट-जनता कष्ट-लभ्यम् अपि वस्त्व् अयम् अनायासेनैव लभते स्म यत्र तु किं प्राचीनं सुपुण्यम् अस्तीति वितर्कयन्त्य आहुः—तप इति । निरस्तमानेन गर्व-शून्यत्वाद् अन्य-कृत-सम्माननाभिलाष-रहितेन मानदेन अन्येभ्यो मानं ददतेति तपसो वैष्णवीयत्वं सूचितम् । वैष्णवतरेषु तपस्विष्व् अमानित्व-मानदत्वादर्शनात् नाहं दानैर् न तपसा [गीता ११.५३] इति त्वद्-उक्तेर् अन्य-तपसस् त्वत्-प्रसादकत्वाभावाच् च सर्व-जनानुकम्पया उपलक्षितो यो धर्मः । सकृत् इति धर्मस्यापि वैष्णवीयत्वं कर्मिणां सर्व-भूतानुकम्पयानुत्पत्तेः यतस् तपसो धर्माद् वा हेतोस् तुष्यति अस्य शिरःसु रङ्ग-स्थली-कृतेषु प्रहर्ष-नृत्याचरणात् सर्व-जीव-सम्माननानुकम्पादिना सर्व-जीवेषु सन्तोषितेषु सर्व-जीव-मन्दिरो भवान् अपि सन्तुष्यतीत्य् अर्थः । श्लेषेण सर्वांस् त्वं जीवयसि त्वत्-सन्तोषकम् इदम् एव किं पार्ष्णि-प्रहारैर् हंसीति द्योतितम् ॥३५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अनुग्रह-रूपे दण्डे तस्मिन् पुरातनं पुण्यं सम्भावयन्ति तप इति निरस्तमानेन स्वसत्कार-स्पृहा-शून्येन अन्येभ्यो मानदेनेति तपसो विष्णूद्देश्यकत्वं व्यज्यते, तद् अन्य-तपसि तथात्वादर्शनात् नाहं वेदैर् न तपसा [गीता ११.५३] इत्य्-आदि वाक्यात् तेन त्वद् अनुग्रहाभावाच् च सर्व-जनानुकम्पया धर्मो वेति तस्यापि तद् उद्देश्यत्वं स्वर्गाद्य् उद्देश्यक-धर्मे तस्य अभावात् यतस् तपदो धर्माद् वा भवांस् तुष्यति अस्य फणारङ्गस्यलीर्विधाय प्रहर्षेण नृत्यसीत्य् अर्थः । सर्व-जीवो निखिल-जीवन-प्रदः तेनास्यापि जीवन-दानं साम्प्रतम् इति भावः ॥३५॥


॥ १०.१६.३६ ॥

कस्यानुभावोऽस्य23 न देव विद्महे

तवाङ्घ्रि-रेणु-स्पर्शाधिकारः ।

यद्-वाञ्छया श्रीर् ललनाचरत् तपो

विहाय कामान् सुचिरं धृत-व्रतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न तप-आदि-निमित्त एष भाग्योदयः, किन्त्व् अचिन्त्यं तव कृपा-वैभवम् इत्य् आहुः श्लोक-त्रयेण—कस्यानुभाव इति । तप-आदिना ब्रह्मादयोऽपि यस्याः श्रियः प्रसादम् इच्छन्ति, सा श्रीर् ललना उत्तमा स्त्री यस्य त्वद्-अङ्घ्रि-स्पर्शाधिकारस्य वाञ्छया तप आचरत्अस्य सर्पस्य । स किं-कृत इति को वेत्तीत्य् अर्थः ॥३६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नहि तप-आदिभिस् तव पाद-धृति-मस्तके जायते\ऽत्यन्त-कृपामृत इत्य् आहुः—न तप इति । कस्य तप-आदेः कर्मणः अनुभावः प्रभावः । सो**\ऽङ्घ्रि-रेणु-स्पर्शाधिकारः** । किं कृतः केन कृतः । इत्य् अर्थ इति—न को\ऽपीति भावः ॥३६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तेन प्राक्तनं किम् अपि तपो\ऽनुमातव्यम्। एतम् एवार्थं विवृण्वते कस्यानुभाव इत्य्-आदि येनायं त्वत्-पाद-स्पर्शाधिकारी बभूवेत्य् अर्थः ॥३६॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तवाङ्घ्रयो रेणूनां स्पर्शस् तेष्व् अधिकारोऽस्यापराधिनः कालियस्य कतमस्य तप-आदेर् अनुभावः फलम्, तन् न विद्मस् तादृश-तप-आदिनापि दुर्लभत्वात् । दुर्लभत्वम् एवाहुः—यद् इति । तच् च युक्तम् एवेति सम्बोधयन्ति—देव हे अद्भुतानन्त-महिम्ना द्योतमानेति । यद् वा, हे क्रीडापरेतीदृश-नृत्यादि-बाल्य-क्रीडा-रतस्यापि तव पाद-रेणु-स्पर्श-मात्राधिकारोऽप्य् अधुनापि सुदुर्लभ एवेति भावः । प्रियतया नित्य-सिद्धाया अपि लक्ष्म्या भूगतेऽवतारे भगवद्-अर्थं तपश्-चरणाभिप्रायेण तथोक्तम् इति । यद् वा, सदा वैकुण्ठेश वक्षः-स्थयापि श्रिया कृष्णस्य माधुर्यातिशयं दृष्ट्वा लुब्धया तथ् आतल्-लब्धये तपः कृतम्, तथापि तन् लब्धम्, किन्तु केवलं गौर-सूक्ष्म-रेखा-रूपेण वक्षसि निवासाभास एव वरो लब्ध इत्य् आगम-दिक् ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तव श्री-गोकुलेश्वर-रूपस्य आङ्घ्रि-रेणूनां स्पर्शः, तत्राधिकारोऽस्यापराधिनः कालियस्य कतमस्य कारणस्यानुभावः फलं, तन् न विद्मः । तत्र हेतुः—यद् इति । तादृश-तप-आदि-प्रसाद्या श्रीर् अपि ललना परम-सुकोमलापि यद् वाञ्छया कामान् त्वद्-विध-परम-धव-सङ्ग-मय-तत्-तद्-भोगान् विहाय धृत-व्रता बद्ध-नियमा सती तप आचरद् एव, न तु तं प्रापेत्य् अर्थः । प्राप्तौ सत्यां, कस्यानुभावो\ऽस्य न देव विद्महे इत् नोच्यतेति भावः ।

तच् च युक्तम् एवेति सम्बोधयन्ति—देव हे अद्भुतानन्त-महिम्ना द्योतमानेति । एतद् उक्तं भवति—श्रीर् इयं वैकुण्ठेश्वरादि-प्रेयसी-रूपा, न तु गोप-रामा-रूपा रेखादि-रूपा च, गोप्यो\ऽन्तरेण भुज्योर् अपि यत् स्पृहा श्रीः इति तद्-उक्तेस् तस्मिन्न् एव पर्यवसानात्, सूक्ष्म-स्वर्ण-रेखा-रूपेण तद्-वाम-वक्षो भागे स्थितत्वात् च । तओप्\ऽत्र स्त्रीत्वात् स्व-पत्य्-आराधनं, अत एव पूर्वत उत्कृष्टत्वं श्री-कृष्णस्य तेन सहैकात्म्य-ज्ञात् तथापि स्मरणयत्यादि-वैशिष्ट्येन लोभ-विशेषात् तद्-वाञ्छात्वं च युक्तम् इति । स्त्रीत्वेन सर्वासां तासाम् ऐकात्म्ये सत्य् अप्य् अन्यतमाया अभिलाषः प्रादुर्भाव-भेदेनाभिमान-भेदात्, यथा वैकुण्ठ-नाथादि-सङ्गिनीष्व् अपि तत्-तल्-लक्ष्मीषु सीतादीनां श्री-राम-विरहाद्यं श्रूयत इति तस्याश् च तप-आदिना त्रिकालम् अप्राप्तिर् एव विवक्षिता ।

अप्राप्ति-कारणं च गोपीवत् तद्-अनन्यत्वाभाव एवेति च । यद्यप् तासां परम-तद्-भक्तानां सङ्ग एव श्री-वृण्दावनान्तर्-यमुना-वास एव च हेतुर् अस्ति, तथापि स्वावमाननात् तद्-वासस्य च तद्-रजः-स्पर्शमयत्वेन फलान्तः-पातात् तद्-अप्रस्ताव इति ज्ञेयम् ॥३६।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्-वाञ्छयेति श्रीर् इयं वैकुण्ठेश्वरादि-प्रेयसी-रूपा तपोऽत्र स्त्रीत्वात् स्व-पत्य्-आराधनम्, अत एव पूर्वत उत्कृष्टत्वं श्री-व्रजेन्द्र-नन्दन-रूपाविर्भाव-विशेषेऽस्मिन् लोभ-विशेषात् तद्-वाञ्छत्वं च युक्तम् । तस्याश् च तप-आदिना त्रि-काल-प्राप्तिर् एव विवक्षिता—कस्यानुभावोऽस्येत्य्-आदेः । अप्राप्ति-कारणं च गोपीवत् तद्-अनन्यत्वाभाव एव, तासां परम-तद्-भक्तानां सङ्ग एव यद्यपि श्री-वृन्दावनान्तर्-वास एव च हेतुर् अस्ति, तथापि स्वावमाननात् तद्-वासस्य तद्-रजः-स्पर्श-मयत्वेन फलान्तः-पातात् तद्-अप्रस्ताव इतिवज् ज्ञेयम् ॥३६.४४॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, कथम् अहं तुष्यामि ? हन्तुम् एव प्रवृत्तोऽहम् । पश्यत मृत-प्राय एवायम् । किम् इदं तोष-कार्यम् ? अथ किम् इत्य् आहुः—कस्यानुभाव इत्य्-आदि । हे नाथ ! तोषश् चेन् नायम्, तदायं कस्यानुभावः, तथाविधस्यान्यस्यासम्भवात् । को रेणु-स्पर्शाधिकार एव तव तोषस्यानुभावः । अस्य सम्यक् स्पर्श एवाभूत् । अस्तु रेणु-स्पर्शस्याधिकारः । यस्य्आङ्घ्रि-सम्यक्-स्पर्शस्य रेणु-स्पर्शाधिकारस्य वा वाञ्छया श्रीर् ललना वक्षः-स्थितापीति बोद्धव्यम्, तपोऽचरत् । किं कृत्वा ? कामान् स्वयम् उपस्थितान् भोगान् विहाय । कीदृशी ? धृत-व्रता ॥३६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, न तप-आदि-हेतुक एष भाग्योदयः किन्त्व् अतर्क्यं तव कृपा-वैभवम् एवेदम् इत्य् आहुः—कस्येति त्रिभिः । अस्य महा-नीचस्यापि कालियस्य कस्य तावद् अनुभावः फलं तन् न जाणीमहे । फलम् एव किं दृष्टम् ? तत्राहुः—तव नन्द-पुत्रस्य अङ्घ्रि-रेणोर् अपि स्पर्शे स्व-कर्तृको योऽधिकारः । सोऽपि तप-आदि-सर्व-सुकृत-दुर्लभः । अयं तु अङ्घ्रि-द्वय-कर्तृकं स्पर्शं तं च नृत्य-लक्षणं तत्रापि स्व-शिरःसु प्रापेति भाग्यस्य कियान् महिमा वाच्य इति भावः । ब्रह्मादि-सर्व-भक्तेभ्योऽधिकापि श्रीस् तव नारायण-रूपस्य ललनापि यस्य गोपाल-रूपस्य तव चरण-स्पर्श-वाञ्छया तप आचरत् । तद् अपि प्राप ॥३६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : किञ्चायं भाग्योदयस् तपोधर्माभ्यां न भवेत् किन्तु करुणैव तवेयम् इत्य् आहुः—कस्येति त्रिभिः । कस्य साधनस्यायम् अनुभावः फलम् इति वयं विद्महे । किं तद् इत्य् अत्राहुः—अस्यातिदुष्टस्याहेस् तव नन्द-सूनोर् अङ्घ्रि-रेणोः स्पर्शे योऽधिकारः करुणैवेयम् इति द्रढयन्ति यस्य नन्द-सूनोस् तव चरण-स्पर्श-वञ्छया ब्रह्मादि-वन्द्यापि श्रीर् ललना वैकुण्ठगतान् भोगान् विहाय तपोऽचरत् तथापि न प्रायः यत्-तपः स्थानं श्रीवनम् इति ख्यातम् ॥३६॥


॥ १०.१६.३७ ॥

न नाक-पृष्ठं न च सार्व-भौमं

न पारमेष्ठ्यं न रसाधिपत्यम् ।

योग-सिद्धीर् अपुनर्-भवं वा

वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अपुनर्-भव-मात्रात् तु हरि-सामीप्यम् उत्तमम् ।

अत्रापि स्पर्श-योग्यत्वं यथा वेद-विदो विदुः ॥ इति पाद्मे ॥३७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् तव पाद-रजः प्रपन्नाः प्राप्ताः पारमेष्ठ्य्-आद्य् अपि तुच्छं मन्यन्ते॥३७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्य पाद-रजो यत्-पादरजः । तुच्छं मन्यन्ते मृषात्वात्, अपुनर्भव-वाञ्छा तु तेषाम् अनिच्छतो गतिम् अण्वीं प्रयुङ्क्ते इति तस्यानिच्छा-लभ्यत्वात् । यद् वा, न पुनर्-भवो यस्मात् तद्-रज इति ज्ञेयम् ॥३७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यः पाद-स्पर्शस् तव सर्व-नैरपेक्ष्येणैव भवतीति दर्शयति—न नाक-पृष्ठम् इत्य्-आदि । किं बहुना, अपवर्गम् अपि न वाञ्छन्तीत्य् आह—अपुनर् भवं वेति । ते के ? तत्राहुः—मत्-पाद-रजः-प्रपन्नाः, स ईदृक् ते पाद-स्पर्शस् तिर्यक्-योनेर् अप्य् अस्याभूद् अहो किम् अनेन सुकृतं कृतम् इत्य् अर्थः ॥३७॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो ! अस्तु तावच् छ्री-पदाब्जयोर् बहुतर-रेणूनां स्पर्श-विशेष-माहात्म्यम् । तद् एकस्य यथा-कथञ्चिद् आश्रयण-माहात्म्यम् अप्य् अनिर्वाच्यम् इत्य् आहुः—नेति । नाक-पृष्ठं स्वाराज्यम्, सार्वभौमं साम्राज्यम्, रसाधिपत्यं पाताल-स्वांयम् । योग-सिद्धीर् अणिमाद्याः । अन्यत् स्पष्टम् । सच्-चिद्-आनन्द-घन-मूर्तेः श्री-भगवतः पादाब्ज-रजसोऽपि तादृशतया तत्-प्रपत्ति-मात्रेणापि तत्-तद्-अनिच्छा युक्तैव, तद्-अपेक्षया नाकपृष्ठादीनाम् अतितुच्छत्वाद् इति भावः । अत्र टीकायां नाक-पृष्ठाद् इति लेख्ये पारमेष्ठ्य्-आदीति लेखक-भ्रमात् ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो अस्तु तावत् त्वत्-पादाब्जयोर् द्वयोर् बहुतर-रेणूनाम् स्पर्श-माहात्म्यम् । तद् एकस्य यथा कथञ्चित् आश्रयण-माहात्म्यम् अप्य् अनिर्वाच्यम् इत्य् आहुः—नेति । नाक-पृष्ठंवाञ्छन्ति, किम् उत सार्वभौमम्, एवं पारमेष्ठ्यम् इत्य्-आदिकर्म-फलं कैमुत्येनोक्त्वा योगादि-फलं समुच्चयेनाहुः—न योगेति । अत्र टीकायां नाक-पृष्ठादीति लेख्ये पारमेष्ठ्य्-आदीति लेखक-भ्रमात् ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भो नाथ ! वयं स्त्रियः, तत्रापि तिरश्च्यः, तत्रापि शोकार्ता इत्य् अस्माकं प्रलाप एवायम् इति मा जानीथाः । किन्तु तव पाद-रजसः प्रभाव ईदृश एवेत्य् आहुः—न नाक-पृष्ठम् इत्य्-आदि । यत्-पाद-रजः-प्रपन्ना यस्य तव पाद-रजसि प्रपन्ना जनास् तद् विना न किञ्चिद् अपि वाञ्छन्ति इति भावः ॥३७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतावन्-महिमभिर् मत्-पाद-रेणुभिः किं फलं स्यात् ? इति चेन् मैवं वाच्यं, तव चरण-रेणव एव फलं सर्व-फलेभ्योऽप्य् अधिकम् इत्य् आहुः—नेति । प्रपन्ना एव वाञ्छन्ति । किं पुनस् तत्-प्राप्ताः अपवर्गम्, अपि किं पुनर् नाक-पृष्ठादिकम् ॥३७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, किं मत्-पाद-रेणुभिः फलम् इति चेन् नैते फल-हेतवोऽपि तु परम-फलान्य् एवेत्य् आहुः—न नाकेति । यस्य ते पाद-रजः-प्रपन्नाः, न तु प्राप्ताः, तेऽपि नाक-पृष्ठादिकं न वाञ्छन्ति, अपुनर्भवं सुखैश्वर्य-प्रधानं मोक्षम् ॥३७॥


॥ १०.१६.३८ ॥

तद् एष नाथाप दुरापम् अन्यैस्

तमो-जनिः क्रोध-वशोऽप्य् अहीशः ।

संसार-चक्रे भ्रमतः शरीरिणो

यद्-इच्छतः स्याद् विभवः समक्षः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो तद् एषः अयत्नत एव प्राप । अन्यैः श्च्यादिभिर् अपि । कथं-भूतं पाद-रजः । यद् इच्छतः सेव्यं मे भवत्व् इति प्रार्थयमानस्यैव समक्षः प्रत्यक्ष एव विभवोऽपेक्षिता संपद् भवति ॥३८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहो अद्भुतम् । तत्-पादरज एष सर्प आप प्राप । यत्-पाद-रजोऽपेक्षिता सम्पद्भवतीत्य् अन्वयः । ऐहिकी पारत्रिकी च विभूतिः प्रेम-सम्पद् वा भवतीत्य् अर्थः । अन्यैर् दुरापम् अत्र श्रुतिः—नान्यैर् देवैर् मनसा वाचा इति । मनो-वाक् शब्दाव् अत्र ज्ञान-कर्मेन्द्रियोपलक्षकौ । मनुष्य-शरीरम् एव कल्याण-हेतुर् इति नियम् अस्तु नास्तीत्य् आह—अहीश इति । यदा भवतः कृपाकटाक्षपातस् तदैव कल्याणम् इति तात्पर्यम् ॥३८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एतद् एव प्रपञ्चयति—तद् एव इत्य्-आदि । हे नाथ ! अन्यैर् भक्तेतरैर् दुरापं त्वत्-पाद-रज एष आप—अहो चित्रम् । तमोजनिस् तत्रापि क्रोधवशस् तत्राप्य् अहीन्द्रः संसार-चक्रे भ्रमतो\ऽस्य शरीरिणःसमक्षः साक्षाद् अपरोक्षो विभवो ब्रह्म-सम्पत् स्याद् भवति । यद् इच्छतो जनस्य इत्य् अनादरे षष्ठी । अनिच्छतो\ऽप्य् अस्य यद् इच्छन्तं जनमनादृत्य स्याद् य इच्छति तस्य वरम् एष बिभवो न स्यात्, अनिच्छतो\ऽपि स्याद् इत्य् अर्थः ॥३८॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यैर् ब्रह्मादि-सेव्य-श्र्यादिभिर् अपि दुःखेन प्रायम् । यद् वा, त्वद् अभक्तेतरैर् ब्रज् जनेतरैर् वालभ्यम् अपि एष महापराध्यपि, यतस् तमोजनिस् तत्र च क्रोध-वशस् तत्राप्य् अहिषु श्रेष्ठो\ऽपि तद् एव प्राप्तः । एतच् च कयापि युक्त्या न घटते, केवलं त्व् अचिन्त्य-प्रभावाद् एवेति सम्बोधयन्ति—नाथ हे ईश्वरेति, कर्तुम् अकर्तूम् अन्त्यथा-कर्तुं समर्थ हे परम-स्वतन्त्रेत्य् अर्थः । तमो-जनिर् इत्य्-आदि-विशेषणानाम् अयं गूढो\ऽभिप्रायःईश्वरेण त्वया विहित-जाति-स्वभावस्य दोषो नामायम्, तत्रास्य को\ऽपराध इति विचार्य त्वया क्षन्तुम् एव युज्यते इति । एतच् चाग्रे व्यक्तं भाविः किं च, यस्मिन् मनः-सम्बन्ध-मात्रेण सकामानां देहाद्य् आसक्तानाम् अपि सद्य एव सर्वेष्ट-सिद्धिः स्याद् इत्य् आहौः—संसरेति । संसारस्य जन्म-मरणादि-लक्षणास्य चक्रं समूहः । किं वा, संसार एव चक्रवत्-पुनः पुनर् आवृत्त्या चक्रम्, तस्मिन् । अत एव भ्रमतो विविध-दुःखम् अनुभवतः, पुण्य-पापादि कुर्वतो\ऽपि वा, देहाभिमानिनो\ऽपि विभव ऐहिकी विभूतिः, प्रेम-सम्पद् वा—रजस्ः श्री-चरणाब्ज-सम्बन्धेन परमाद्भुततानन्त-माहात्म्यात् । यद् वा, सम्यक् सारश् चतुर् वर्ग-श्रेष्ठो मोक्षः, स एव चक्रं परम-भ्रामकत्वात्, तस्मिन् भ्रमतो मुमुक्षु-वर्गं प्रतिपाद्यमानाध्यात्म-वाक्यादिभिस् ततो निःसर्तुम् अशक्नुवतो\ऽपि जनस्य, विभवः श्री-वैकुण्ठ-लोक-सम्पत्तिः, समक्षः साक्षाद् अत्रैव स्यात् । अन्यत् समानम् । एव प्राप्यम् उद्दिष्टम् अतो\ऽधुना साक्षात् त्वत् पादाब्ज-द्वयम् अङ्गी-कृत-गण-गणो\ऽयं व्यक्त-विभव-विशेषम् एव खलु प्राप्तुम् अर्हतीति भावः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्यैर् ब्रह्मादिभिः परमोपासकैर् अपि दुःखेन प्राप्यं न त्व् अद्यापि प्राप्तम् एष महापराध्य् अपि यतस् तमो-जनिस् ताम् असजातिः तत्र च क्रोधवशः तत्रापि अहिषु श्रेष्टोऽपि तद् एव प्राप्तः एतच् च साधन-सहस्राद् अपि न घटते केवलत्वत् कारुण्याद् एवेति सम्बोधयन्ति नाथयति दीनान् याचयतीति हे नाथेति । किं च, यस्मिन् मनः सम्बन्ध-मात्रेण सर्वेषां स एव सिद्धिः स्याद् इत्य् आहुः—संसारेति देहाभिमानिनोऽपि विभवः एहिकी पारलौकिकी च विभूतिः प्रेम-सम्पद् वा एवं प्राप्यम् उद्यिष्टम् अतोऽधुना साक्षात् त्वत् पादाब्ज-द्वयाङ्गीकृत-फणागणोऽयं व्यक्त-विभव-विशेषम् एव खलु प्राप्तुम् अर्हतीति भावः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अहो किम् अस्य भाग्यम् यद् अनेन तद् अप्रयत्नेनैव प्राप्तम् इत्य् आहुः—तद् एष नाथेत्य्-आदि । हे नाथ ! तत् ते पाद-रजः एव आप । तद् इत्य् एवं—प्रकारेण स्वयम् एव मूर्ध्नि नटता तेन सर्वतः सञ्चारितम् । अत आहुः—दूरापमन्यैः, अन्येषाम् इदृक् सौभाग्यं नास्ति । तस्माद् अयम् अहीशः क्रोधवशोऽपि तमोऽजनिः, तमसा अजनिः, अतमोजनिर् इत्य् अर्थः । तमसा जातस्यैवंविधसोभाग्यभाक्तं न स्यात् । अन्यथा तपः सुतप्तं किम् अनेन पूर्वम् [भा।पु। १०.१६.३५] इत्य्-आदि पूर्वोक्तस्यासङ्गतिः । तस्मात् वैवेदृशी लीला नान्यथा प्राकारेण स्याद् इति तवैवेच्छयायं नाग-योनिम् आप्तः क्रोधान्धश् चाभूत् । वस्तुतस् तव भृत्योऽयम् । तत् प्रापेति तच्-छब्दस्य साका त्व् अनुद्भाव्य यच्-छब्देन तद् अर्थं परिपोषयन्त्य आहुः—संसार-चक्रे इत्य्-आदि । संसार-चक्रे भ्रमतो जन-समूहस्य मध्ये यद्-वाञ्छतो यत्-तवाङ्घ्रिरजोऽभिलषत एव समक्षः साक्षाद्-वर्ती विभवः परम-पद-लाभः स्यात् । प्राप्तवतस् तु किम् उतेत्य् अस्य तव भृत्यत्वं सिद्धम् एवेति ॥३८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यैर् लक्ष्म्य्-आदिभिर् अपि किं च, सर्व-फल-मुकुट-भूतम् अपि त्वत्-पाद-रजः सकाम-जन्यस्य फल-साधनम् अपि भवतीत्य् आहुः—संसारेति । इच्छतः सकामस्य शरीरिणः यत् यतो विभवः समक्षः इच्छा-विषयीभूताद् अपि यतः अपेक्षिता सम्पत्तिः प्रत्यक्षैव भवतीत्य् अर्थः ॥३८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत् त्वत्-पाद-रजः अन्यैर् मयादिभिर् अपि दुरापं इच्छतः सकामस्य शरीरिणो जीवस्य यद् यतो विभवः समक्षः, तद्-रजो मे सेव्यं भूयाद् इति वाञ्छा विषयी-भूताद् अपि यस्माद् अपेक्षिताद् अपि यस्माद् अपेक्षिता सम्पत्तिः प्रत्यक्षा स्याद् इत्य् अर्थः ॥३८॥


॥ १०.१६.३९ ॥

नमस् तुभ्यं भगवते पुरुषाय महात्मने ।

भूतावासाय भूताय पराय परमात्मने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नमस् तुभ्यं भगवते ऽचिन्त्यैश्वर्यादि-गुणाय । तद्-उपपादनाय दशभिः श्लोकैर् विशेषणानि । पुरुषाय पूर्ष्व् अन्तर्यामि-रूपेण वर्तमानाय । महात्मने एवम् अपि नाति-परिच्छिन्नाय । कुतः ? भूतावासाय आकाशाद्य्-आश्रयाय । एतद् अपि कुतः ।? भूताय पूर्वम् अपि सते। कुतः ? पराय कारणाय । किं च, परमात्मने कारणातीताय ॥३९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् अचिन्त्यैश्वर्यादिएवम् अपि पूर्षु वर्तमानत्वेऽपि । नास्ति-परिच्छिन्नाय अतिशयेनापरिमितायेत्य् अर्थः तद् अपि । तत्र हेतुं शङ्कते—कुत इति । आकाशाद्य् आश्रयत्वम् अपि । कारणस्याप्य् आकाशाद् एतस् तन् मात्रा-कर्यत्वश्रुतेस् तस्यापि कारणान्तरेण भाव्यम् इत्य् आशङ्का-निवृत्त्य् अर्थम् आह—किं चेति ॥३९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्मात् कर्तुम् अकर्तुम् अन्यथा-कर्तुं सम्र्थाय नमस्ते इत्य् आह—नमस् तुभ्यम् इत्य्-आदि । यद् वा, पुरुषाणां नारायणादीनां त्रयाणामायो वुद्धिस् तत्-स्वरूपो यो मह उत्सव आनन्दस् तद् आत्मने । भूतवासाय भूतानि पृथिव्यादीनि तेषाम् आवासाय आनन्द-मात्र-विग्रहाय । भूताय भूः सत्ता तत्र उताय नित्य-विग्रहायेत्य् अर्थः । यतः पराय परमात्मने परमात्मा हि यः कथ्यते, तस्माद् अपि पराह ॥३९॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नाथेति [भ।पु। १०.१६.३८] सूचितम् अचिन्त्य-प्रभावत्वम् एव बहुधा दर्शयन्त्यो भक्त्या प्रणमन्ति, नम इति दशभिः । भगवते\ऽतर्क्यान् अन्तैश् चर्य-निधये, अत एव सर्वे विरोधास् त्वयि विलीयन्त इति स्तुवन्ति—पुरुषायेत्य्-आदिना । एतच् च प्रायो हेतु हेतु-मत्तादि-प्रदर्शनेन तैर् अपि व्यञ्जितम् एव । यद् वा, पुरुषायेत्य् आदि-विशेषणानां मध्ये प्रायो द्वाभ्यां द्वाभ्याम् अतिदुर्घटतया क्वचिद् एकेको विरोधः, क्वचित् तु विश्व-वैलक्षण्येन विस्मयो द्रष्तव्यः । तथा हि पुरुषायापि महात्मने व्यापकाय, भूतावासाय सर्व-जीवेष्व् अन्तर्यामितया नियामकाय, अथ च भूताय जीवानां तद् अङ्गत्वेनाभेदाज् जीव-रूपाय-तद् रूपत्वेन नियम्यायेत्य् अर्थः । यद् वा, भूतावासाय जन-निवासाय भूताय गृहीत जन्मने । तथा च वक्ष्यति स्कन्धान्ते—जयति जननि-वासो देवकी-जन्मवादः [भा।पु।१०.९०.४८] इत्य् अद्भुतत्वम् एव । पराय सर्व-नियन्त्रे\ऽथ च । परमात्मने सर्व-प्रवर्तकाय नियोजकस्याज्ञया कृतस्य कर्मणो नियोज्येषु दोषाद्य् अस्पृष्ट्या दण्डदि-नियमनम् अद्भ्भुतम् एव । यद् वा, पराय सर्वतो भिन्नत्वेन स्थिताय । अथ च सर्वेषां हृदि हृदि वर्तमानाय ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं दण्डम् अनुमोदमाना एवेदृशेऽप्य् एतावद् अनुग्रहेणाश्चर्यं मत्वातत् परिहाराय मिथो विरोधिनाना-धर्माश्रयत्वं दर्शयन्त्योऽतक्य-शक्तितास्फूर्त्या क्षमापणद् अन्येन च प्रणमन्ति—नम इति दशभिः । भगवते अतर्क्यानन्तैश्वर्य-निधये अत एव सर्वे विरोधास् त्वयि विलीयन्त इति स्तुवन्ति पुरुषायेत्य्-आदिना । एतच् च प्रायो हेतु-हेतुमत्तादि-प्रदर्शनेन तैर् अपि व्यञ्जितम् एव । यद् वा पुरुषायेत्य्-आदि-विशेषेणाणां मध्ये प्रायो द्वाभ्यां द्वाभ्याम् अति-दुर्घटतया क्वचिद् एकैको विरोधः क्वचित् तु विश्व-वैलक्षण्येन विस्मयो द्रष्टव्यः तथाहि पुरुषायापि महात्मने व्यापकाय भूतावासाय सर्व-जीवेष्व् अन्तर्यामितया नियामकाय अथ च भूताय जीवानां तद् अंशत्वेनाभेदात् जीवन-रूपाय तद् रूपत्वेन नियम्यायेत्य् अर्थः । यद् वा, भूतावासाय जननि-वासाय भूताय गृहीत-जन्मने तथा च वक्ष्यति स्कन्धान्ते जयति जननिवासो देवकी-जन्मावादः [भा।पु। १०.९०.४८] इत्य् अद्भुतत्वम् एव पराय सर्वतो भिन्नत्वेन स्यिताया अथ च परमात्मने सर्वेषां हृधि वर्तमानाय ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्मान्-निरुपम-करुणाय तुभ्यं नम इत्य् आहुः—नमस् तुभ्यम् इत्य्-आदि । तुभ्यं भगवते नमः । कीदृशाय ? महात्मने, मह उत्सव आनन्द इत्य् अर्थस्-तत् स्वरूप आत्मा विग्रहो यस्य तस्मै । अत एव पुरुषाय पुरुषोत्तमाय, भीमो भीमसेनवत् । अथवा अपुरुषाय पुरुषस्यापि पराय । अत एव भूतावासाय, भूतानां पृथ्यादीनाम् अवासायानन्द-मात्र-विग्रहाय । भूताय भूः सत्ता तद् रूपाय सत्तारूपाय, अतः पराय परमात्मने परम-परमात्मन इत्य् अर्थः ॥३९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

षड्भिः श्लोकैः कृपाम् एवं विवृत्य दशभिः पुनः ।

एकादश नतीश्चक्रुर् भक्त्या कालिय-योषितः ॥

भक्तेर् उपास्यत्वेनाहुः, भगवते अप्राकृत-षडैश्वर्यवते पुरुषाय नराकाराय महात्मने नराकृत्यापि सर्व-व्यापकाय योगिभिर् उपास्यत्वेनाहुः, सर्व-भूत-निवासाय भूताय पूर्वम् अपि सते ॥३९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ दशभिर् नमस् कुर्वन्ति—नम इत्य्-आदिभिः । भगवते नित्य-पूर्ण-षडैश्वर्याय, पुरुषाय नराकाराय तत्वेऽपि महात्मने व्यापकाय अतोभूतावासाय निखिल-प्राणिहृद्-गताय भूताय पूर्व-सिद्धाय पराय सर्व-श्रेष्ठाय परा चासौ मा च श्रीस् तद् आत्मने तद्-व्यापिने ॥३९॥


॥ १०.१६.४० ॥

ज्ञान-विज्ञान-निधये ब्रह्मणेऽनन्त-शक्तये ।

अगुणायाविकाराय नमस् ते प्राकृताय च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कारणत्वं कारणातीतत्वं च समर्थयितुम् आहुः—ज्ञान-विज्ञान-निधये । ज्ञानं ज्ञप्तिः, विज्ञानं चिच्-छक्तिः, उभयोर् निधये ताभ्यां पूर्णाय । कथं तथात्वम्? अत उक्तं ब्रह्मणेऽनन्त-शक्तये । कथं-भूताय ब्रह्मणे ? अगुणायाविकाराय । कथं-भूताय ? अनन्त-शक्तये । प्राकृताय प्रकृति-प्रवर्तकाय, अप्राकृतायेति वा, अप्राकृतानन्त-शक्ति-युक्ताय । अयम् अर्थः—अगुणत्वाद् अविकारं ब्रह्म-ज्ञप्ति-मात्रत्वात् कारणातीतं प्रकृति-प्रवर्तकोऽनन्त-शक्तिर् विज्ञान-निधित्वाद् ईश्वरः कारणं तद् उभयात्मने नम इति ॥४०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समर्थयितुं बोधयितुम् । तथात्वम् उभय-पूर्णत्वम् । उभय-पूर्णत्व-प्रतिपादनाय । अत इति चतुर्थ्यथे तसिः । उक्तम् पद-द्वयं ब्रह्मणे अन्तत-शक्तये इति । प्रकृति-प्रवर्तकत्वे तस्य प्रयोजकत्वं मत्वानोऽर्थान्तरम् आह—अप्राकृतेति । प्रकृति-कार्य-कतृत्वादि-वर्जिताय । अयम् अर्थ इति । व्यावहारिक-ज्ञानस्य सकारणत्वेऽपि परमार्थ-ज्ञानस्य कारणातीतत्वम् एव, अल्पज्ञस्य सृष्टि-कारणताभावेऽपि सर्वज्ञस्यानन्त-शक्तिमतः कारणता भवेत्य् एवेति निर्गलितोऽर्थः ॥४०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे नाथ ! कथं स्तोतव्यो\ऽस्माभिस् त्वम् अनिर्वाचुय-महिमा, वयं तिर्यं चः, तत्रापि स्त्रियस् तत्रापि शोकार्ताः, तदा कथं स्तोतव्यस् त्वम् ? त्वद्-वैभवं ब्रह्म इत्य् आहुः—ज्ञान-विज्ञान-निधये इत्य्-आदि । हे अनन्त अपरिच्छिन्न ! तव शक्तये शक्ति-रूपाय ब्रह्मणे नमः । किम्-भूताय ब्रह्मणे ? ज्ञान-विज्ञान-निधये इत्य्-आदि कृष्णाय नम इत्य् अन्तं सर्वं तुल्यम् ॥४०.४४॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ज्ञान-स्वरूपायाथ च विज्ञान-निधये ब्रह्मणे\ऽथचानन्त-शक्तये\ऽगुणत्वेनाविकारायाथच-प्रवृत्ति-प्रवर्तकाय । यद् वा, ज्ञानादि-निधे\ऽपि ब्रह्मणे\ऽनन्त-शक्तये\ऽप्य् अगुणायाविकारायाप्य् अप्राकृतायेत्य् अत्राद्भुत्वम् एव परत्राप्य् एवम् एव ज्ञेयम् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ज्ञान-स्वरूपाय अथ च विज्ञान-निधये कर्मधारयः ब्रह्मणे सजातीयादि-भेद-रहित-स्वरूपाय अथ च अनन्त-शक्तये अगुणत्वेनाविकाराय अथ च प्रकृति-प्रवर्तकाय इत्य् आत्राद्भुतत्वम् एव परत्राप्य् एवम् एव ज्ञेयम् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भो भगवन् ! ब्रह्मेति परे यत् परात्परं वदन्ति, तद् अपि त्वम् एव । त्वद् इतरन्न तद् इति ब्रह्मत्वेनापि तं स्तुवन्त्य आहः—ज्ञान-विज्ञान-निधये ब्रह्मणेऽनन्त-शक्तय इत्य्-आदि बहुभिः ॥४०.४४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञानिभिर् उपास्यत्वेनाहुः—ज्ञान-विज्ञानयोः सम्पदो निधिर् इव निधिस् तस्मै, पुनर् भक्तोपास्ये नराकारे तस्मिन् मन्द-धीभिः प्रसञ्जितान् गुण-विकारादि-दोषान् वारयन्त्य आहुः—अनन्त-शक्तये अतर्क्यानन्त-शक्ति-समुद्राय अगुणायाविकाराय प्राकृत-गुण-विकार-रहिताय अप्राकृताय अप्राकृत-गुण-विकार-सहिताय इत्य् अर्थः ॥४०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ज्ञान-विज्ञानयोर् निधिकारणाय ब्रह्मणे बृहद्-गुणाय अनन्ताः शक्तयो यस्य तस्मै न गुणा सत्वादयो यस्मिन् न विकाराः षोडश यस्मिन् अतोऽप्राकृताय ॥४०॥


॥ १०.१६.४१ ॥

कालाय काल-नाभाय कालावयव-साक्षिणे ।

विश्वाय24 तद्-उपद्रष्ट्रे तत्-कर्त्रे विश्व25**-हेतवे

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्त-शक्तित्वात् काल-शक्त्या विश्व-स्रष्टृत्वादि-रूपेण नमस्यन्ति । कालाय काल-स्वरूपाय । काल-नाभाय काल-शक्त्याश्रयाय । कालावयवानां सृष्ट्य्-आदि-समयानां साक्षिणे । ततश् च विश्वाय विश्व-रूपाय । तर्हि किं जडोऽहम् । नहि, तद् उपद्रष्टे । न च द्रष्टृ-मात्राय, किन्तु तत् कर्त्रे । न च कर्तृ-मात्राय, विश्व-हेतवे सर्व-कारक-रूपाय ॥४१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सतश् च सर्व-साक्षित्वाच् च यद्य् अहं विश्व-रूपस् तर्हि जडतापत्तिस् तत्राह—नहीति । ननु, केवलम् उपद्रष्टैवाहं तत्राहुः—न च किं त्विति संबन्धः । एवम् अग्रेऽपि ॥४१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कालाय काल-शक्तिकत्वेन तद् रूपायाथ च कालस्याश्रयाया । यद् व, कालाय, अतः काल-नाभाय तथापि कालावयवानां परमात्मादीनां द्विपरार्धान्तानां साक्षिण एव, न तु प्रवर्तकाय । प्रवर्तकत्वे संहारक-काल-सम्बन्धादिना निर्दयत्वादि-प्रसक्तेः, विश्वाय सर्व-कर्तृ-कर्म-करणादि-रूपाय तत् तच् छक्त्यादि-प्रदत्वात्, अथ च तद्-उपद्रष्ट्रे विश्व-साक्षि-मात्राय तत् तत्-कर्मभिर् अलिप्तायेत्य् अर्थः । यद् वा, विश्वाय विराड्-रूपाय मायाश्रवत्वात् अदुपद्रष्त्रे विश्वान्तर्यामिणे भूतादीनाम् आत्मनाम् आत्मने चेतयित्रे ज्ञान-प्रदायेत्य् अर्थः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कालाय काल-शक्तिकत्वेन तद् रूपाय अथ च कालस्य काल-चक्रस्य नाभये मध्यवलयाय तद् आश्रयायेत्य् अर्थः । समासान्तत्वम् आर्षं तथापि कालावयवानां साक्षिण एव न तु तेषु प्रसक्ताय विश्वाय विराड्-रूपाय तद् उपद्रष्ट्रे विश्वान्तर्यामिणे ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काल-विशेषे देश-विशेषे च प्रादुर्भवति तस्मिन् तत्-तत्-परिच्छेदादि-दोषान् वारयन्त्य आहुः, कालाय, काल-स्वरूपाय काल-नाभाय काल-शक्त्य्-आश्रयाय, तथापि कालावयवानां सृष्टादि-समवायानां साक्षिणे एव, नतु तेषु सक्ताय विश्वाय विश्वरूपाय तर्हि किं जडो ऽहं? न हि तद्-उपद्रष्ट्रे, न च द्रष्टृ-मात्राय किन्तु तत्-कर्त्रे । न च कर्तृ-मात्राय किन्तु विश्व-हेतवे विश्वस्य हेतु-समुदायाय ॥४१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कालाय कल-विल-विक्षेपे कलयति गुण-क्षोभ-लक्षणं विक्षेपं करोतीति तस्मै, ननौ, तं समयः करोति तत्राह कालस्य नाभये मध्य-वलयायाश्रयाय समासान्त आर्षः तेन तं करोषीत्य् अर्थः । कालावयवानां सृष्ट्यादि-समयानां साक्षिणो साक्षाद्-द्रष्ट्रो विश्वाय प्रधान-क्षेत्रज्ञ-शक्तिभ्यां जगद् रूपाय तस्य्ओप समीपे द्रष्ट्रे न च द्रष्टृ-मात्राय किन्तु उत्कर्त्रे न च कर्तृ-मात्राय किन्तु विश्वस्य हेतवे तद्-धेतुनिचय-रूपाय तन्-निचयस्य तद् अधीन-वृत्तिकत्वादिना ततो अनितरत्वाद् इति भावः ॥४१॥


॥ १०.१६.४२ ॥

भूत-मात्रेन्द्रिय-प्राण- मनो-बुद्ध्य्-आशयात्मने ।

त्रि-गुणेनाभिमानेन गूठ-स्वात्मानुभूतये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाहुः, भूत-मात्रेन्द्रिय-प्राण-मनो-बुद्ध्य्-आशयात्मने, आशयश् चित्तम्, भूतादि-रूपाय, अतः सर्व-कारक-रूपायेति । अहङ्कारात्मतया नमस्यन्ति, त्रि-गुणेनेति । एवं सृष्टे कार्ये यस् त्रि-गुणोऽभिमानस् तेन गूढा स्वंश-भूतानाम् आत्मनां जीवानाम् अनुभूतिर् येन तस्मै ॥४२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एव सर्व-कारक-रूपत्वम् एव । यतो भूतादि*-रूपो*ऽसि अतो हेतोः । एवम् उक्तरीत्या । सृष्टि-कऋये देहादौ । त्रिगुणोऽभिमानः सात्त्विकोऽहं ब्राह्मणोऽस्मीत्य् आद्याकारकाभिमानः । गूढाच्छादिता स्वांश-भूतानां जीवानाम् अनुभूतिर् ज्ञानम् ॥४२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ च गूढा आच्छादिता स्वांश-भूतानाम् अनुभूतिर् आत्म-तत्त्व-ज्ञानं येन तस्मै ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भूतादीनाम् आत्मने चेतयित्रे ज्ञान-प्रदायेत्य् अर्थः । अथ च गूढा आच्छादिता स्वंश-भूतानां जीवानाम् अनुभूतिर् आत्म-तत्त्व-ज्ञानं येन तस्मै ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च हेतुमात्रायापि, यतो भूतानाम् आत्मने चेतयित्रे सतो ऽद्भुतं ते चरित्रं यतो जडानपि चेतयसि चेतनान् अपि जडीकरोषीत्य् आहुः, त्रिगुणो यो ऽभिमानस् तेन गूडा आवृता शोभना आत्मनो जीवस्यानुभूतिर् ज्ञानं येन तस्मै ॥४२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न च हेतु-मात्राय किन्तु भूतादीनाम् आत्मने चितयित्रे जीव-ज्ञान-हरत्वं चाह त्रि-गुणो योऽस्भिमावोऽहङ्कारस् तेन गुढा आवृता शोभना आत्मनो ल्जीवस्यानुभूतिर् येन तस्मै त्वात्तो ज्ञानं हि जीवानां प्रमोयस् तेऽत्रशक्तिश् च इति वक्ष्यमाणात् ॥४२॥


॥ १०.१६.४३ ॥

नमो\ऽनन्ताय सूक्ष्माय कूट-स्थाय विपश्चिते ।

नाना-वादानुरोधाय वाच्य-वाचक-शक्तये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं त्व् अहङ्कारानावृत इति स्तुवन्ति । नमोऽनन्ताय, अहङ्कारापरिच्छेदात् । अतः सूक्ष्माय, अदृश्यत्वात् । अत एव कूट-स्थाय, उपाधि-कृत-विकाराभावात् । अत एव विपश्चिते सर्व-ज्ञाय । एवं वस्तुतः स्तुत्वाचिन्त्य-मायात्वेन स्तुवन्ति, नाना-वादानुरोधाय । अस्ति नास्ति सर्व-ज्ञः किञ्चिज्-ज्ञो बद्धो मुक्त एकोऽनेक इत्य्-आदि-नाना-वादान् अनुरुणद्धि माययानुवर्तते यस् तस्मै । किं च, वाच्य-वाचक-शक्तये । अभिधानाभिधेय-शक्ति-भेदाद् अपि नानात्वेन प्रतीयमानायेत्य् अर्थः ॥४३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहङ्कारापरिच्छेदात् अहङ्कार-कृत-परिच्छेदाभाववत्त्वात् । अतः परिच्छेदाभावात् । अत एव अदृश्यत्वाद् एव । अत एव उपाधि-कृत-विकाराभावाद् एव । अनुरुणद्धि अनुसरति । नानात्वेऽन्यद् अपि आह—किं चेति । इत्य् अर्थ इति । वाच्य-वाचक-भेदोऽपि नानात्वप्रतीतौ हेतुर् इति भावः ॥४३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनन्ताय परम-महते अथ-च सूक्ष्माय, कुट-स्थाय निर्विकाराय अथ-च विपश्चिते विचित्र-वैदग्धी-गुरवे । यद् वा, कुटं शाठ्यं तत्-स्थाय, अथ-च विवेकिने नानावाद-प्रवर्काय, यतो वाच्य-वाचकयोर् अर्थ-शब्दयोः शक्तिर् यस्मात् तस्मै ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनन्ताय परम-महते अथ च सूक्ष्माय कूट-स्थाय निर्विकाराय अथ च विपश्चिते विचित्र-वैदग्धि-गुरवे नानावादान् अनुरोधयति प्रवर्तयतीति तस्मै यतः वाच्य-वाचकयोः अथ-शब्दयोः शक्तिर् यस्मात् तस्मै ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, किम् अत्र तत्त्वम् तत्राहुः, अनन्ताय अस्यान्तं वयं न प्राप्नुम इत्य् अर्थः । तत्र हेतुः सूक्ष्माय दुर्ज्ञेयत्वाद् इत्य् अर्थः । ननु, जीवात्मानं मदभिन्नम् एव पण्डिता आहुस् तत् किम् अहम् आत्मानम् एव मोहयामि तत्र मैवं वादीरित्य् आहुः, कूटस्थाय एक-रूपतया तु यः, कालव्यापी स कूटस्थः [अमर-कोष] इत्य् अभिधानात् त्वम्-एकेनैवाप्रच्युत-स्वरूपेण सर्व-कालं व्याप्नोषि, स तु देव-मनुष्य-तिर्यग्-आदिभिर् अनेकैः प्रच्युतैः स्वरूपैः किञ्चिद् एव कालं व्याप्नोतीति कथं त्वद् अभिन्नः स इति भावः । देव-मनुष्यादित्वं वस्तुतो जीवस्य न स्वरूपम् इति चेत्-तद् अपि त्वत्तः स भिन्न एवेत्य् आहुः, विपश्चिते सर्वज्ञाय सतु अल्पज्ञ एव प्रसिद्ध इत्य् अर्थः । किं च, तद् अपि जीवात्मा ईश्वराभिन्न इति, जड इति, चेतन इत्य् एक इत्य् अनेक इत्य्-आदिना नानावादान् अनुरुणत्सि कौतुकार्थम् अवकाशयसीति तस्मै अत-एव त्वद्-इच्छावशाद् एव तत्र मिथो विवादिनो मिथः सम्वादिनश् चपण्डिताः शब्दम् एव प्रमाणी कुर्वन्तीत्य् आहुर् वाच्यानाम् अर्थानां वाचकानाञ् च शब्दानाञ् च नाना-विधाः शक्तयो यस्मात् तस्मै ॥४३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अनन्ताय अहङ्कार-प्रिच्छेद-रहिताय सूक्ष्माय प्रत्य्ग्-रूढाय कूटस्थाय सदैक-रूपाय विपश्चिते सर्वज्ञाय निर्गुणोऽभिन्न गुणो भिन्न-गुणा अमूर्तिर्-नित्य-मूर्तिर् आत्म-मूर्तिश् चेत्य्-अवनानावादाननु, रुणत्सि विनोदार्थम् अवकाशयसीति तस्मै एतद् एव स्पष्टयन्ति वाच्यानाम् अर्थानां वाचकानां च शब्दानां तत्-तद्-वाद-स्थायिकाः शक्तयो यतस् तस्मै ॥४३॥


॥ १०.१६.४४ ॥

नमः प्रमाण-मूलाय कवये शास्त्र-योनये ।

प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनावृतत्वम् एव हेत्व्-अन्तरेणापि सूचयन्त्यः स्तुवन्ति, नमः प्रमाण-मूलाय चक्षुर्-आदीनां चक्षुर्-आदि-रूपाय । अत एव कवये स्वयं तन् निरपेक्ष-ज्ञानाय । कुतः ? शास्त्र-योनये वेदात्मक-निःश्वासाय । किं च, प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥४४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनावृतत्वम् आवरण-हीनत्वम् । चक्षुरादि-रूपाय चक्षुषश् चक्षुरुत श्रोत्रस्य श्रोत्रम् इत्य्-आदि-श्रुतेः । यद् वा, प्रमाणानां प्रत्यक्षादीनां मूलाय प्रतिष्ठापकाय ।

प्रमाणम् इन्द्रिय-ग्रामे प्रत्यक्षादौ प्रमातरि ।

मर्यादा नित्य-शस्त्रेयत्तासत्ये हेतुम् आनयोः ॥ इति विश्वः ।

अत एव चक्षुरादि-प्रकाशकत्वाद् एव । तन् निरपेक्ष-ज्ञानाय चक्षुरादि-निरपेक्ष-ज्ञानाय । तत्र हेतुं शङ्कते—कुत इति । यद् वा, शास्त्रं योनिर् ज्ञप्ति-कारणं यस्य तथा । योनिः स्त्रीणां भगे स्थाने कारणे ताम्रके पणे इति यादवः । यद् वा, निर्देश-कारानाय इदं कुर्याद् इदं नेत्य्-आदि-निर्देशस्य कर्त्रे निर्देश-ग्रन्थयोः शास्त्रम् इत्य् अमरः । प्रमाणस्य वेदस्यापि मूलाय श्री-भागवत-स्वरूपाय, चतुश्लोक्य् उपदेशानन्तरम् एव ब्रह्म-मुखेभ्यो वेदानाम् आविर्भावात् । कवये तद् आविर्भाव-कर्त्रे व्यास-देवाय नम इत्य् अर्थः । व्यासः प्राकट्य-कृन्मतः इति सिद्धान्त-दर्पणोक्तेः । शास्त्रं श्री-भागवतम् एव प्रमाण ज्ञप्ति-साधनं वा यत्रेत्य् अपि विश्वनाथः । न हि केवलं शास्त्र-योनिर् एव किं तु तद् रूपम् अपि त्वम् इत्य् आह—किञ्चेति । प्रवृत्ताय प्रवृत्ति-मार्ग-प्रवर्तकाय विधि-रूपायेत्य् अर्थः । निवृत्ताय निवृत्ति-मार्ग-प्रवर्तकाय निषेध-रूपाय । याद् वा, सृष्टौ प्रवृत्ताय, प्रलये निवृत्ताय । निगमाय उभयेषां मार्गाय, विषयायेत्य् अर्थः, अयनं पदवी मार्गः पाद्या च निगमः पथि इति हलधरः । यद् वा, उभय-रूपत्वे हेतुः—निगमाय वेद-मूर्र्तेये निगमो निश्चये वेदे परे पथि वणिक्-पथे इति यादवः ॥४४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ-च प्रमाणं वेदा वैष्णव-सिद्धान्ता वा, तस्य मूलाय कारणाय आश्रयाय वा, कवये शास्त्र-कृते, अथ-च शास्त्रार्थाश्रयाय । यद् वा, स्वतः-सिद्ध-ज्ञानाय, अथ-च शास्त्र-पराय प्रवृत्त-निवृत्त-रूपाय, शास्त्राय निगमाय त्वद् आज्ञा-रूपाय तत्-तद् विहिताचाराय वा, अद्भुतत्वेन पुनर् नमो नम इति ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत प्रमाणं श्री-भागवत-शास्त्र-सार-सङ्ग्रहाः वेदाः तस्य मूलाय कारणायाभयाय वा कवये स्वतः सिद्ध-ज्ञानाय अथ च शास्त्र-योनये शाष्त्रम् एव योनिः प्रमाणं यस्य शष्त्र-योनित्वात् [भ्र्।सू।१.१.३] इत्य् अत्र तथा तथा व्याख्यानात् प्रवृत्तंनिवृत्तं च शास्त्रं तद् उभयस्माद् अपि निगम-रूपाय अद्भुतत्वेन पुनर् नमो नम इति ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शिष्ठ-शब्द-मात्रस्य प्रामाण्ये ऽपि श्री-भागवतस्य सर्वाधिक्यम् आहुः, प्रमाण-मूलाय श्री-भागवत-स्वरूपाय कवये तत्-कर्त्रे वेदव्यास-स्वरूपाय अत-एव शास्त्रस्य योनये प्रादुर्भावकाय, शास्त्रं श्री-भागवतम् एव योनिः प्रमाणं यस्य शास्त्र-योनित्वात् [भ्र्।सू।१.१.३] इत्य् अत्रैव व्याख्यानात् । तथा चतुर्वर्ग-प्रतिपादकं शास्त्रम् अपि प्रमाणम् इत्य् आहुः, प्रवृत्त-शास्त्राय निवृत्त-शास्त्राय तन् मूल-निगम शास्त्राय ॥४४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : चेद् एवं तर्हि वास्तवार्थक्षतिस् तत्राह—प्रमाणानां मूलाय चतुर्लक्षणी-रूपाय तेनैव हि । प्रमाणानि स्थिरतां लभन्ते तत्र हि श्रुतिर् मुख्यं प्रमाणां प्रत्यक्षानुमाने तु तद् अनुगृहीते एव प्रमाणो इति निर्णीतं श्रुतेस्तु शब्द-मूलत्वाद् इत्य् अनेन । कवये तद् आविर्भविकाय बादरायणाय शस्त्रं शासनं तस्य योनये कारणाय त्वत्त एव तत्-प्रवृत्तम् इत्य् अर्थः । प्रवृत्ताय ज्योतिष्टोमादि-रूपाय निवृत्ताय शमदमादि-रूपाय निगमाय तद् आवेदक-वेद-रूपाय ॥४४॥


॥ १०.१६.४५ ॥

नमः कृष्णाय रामाय वसुदेव-सुताय च ।

प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अनावृतैश्वर्यत्वाद् एव चतुर्-मूर्ति-रूपेण सर्वोपास्यत्वेन नमन्ति, नमः कृष्णायेति श्लोकेन । रामाय सङ्कर्षणाय । वसुदेव-सुताय च । वसुदेव-शब्दितं शुद्धं सत्त्वं तत्र प्रकाशमानाय वासुदेवायेत्य् अर्थः । सात्वताम् उपासकानां पतये सालोक्यादिना-पालकाय । एवं चतुर्-मूर्तये कृष्णाय तुभ्यं नम इति ॥४५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वेद-रूपत्वेऽपि भक्त-वत्सलतया चतुर्-व्यूहं दधर्थेत्य् आहुः—किं चेति । यद् वा, कृष्णाय सद्-आनन्द-रूपाय प्रपन्नाघकर्षकाय, दैत्यादिषु वह्नये नील-वर्णाय वा

कृष्णः सीसाद्य् अलोहेषु कृष्णे नीलेऽनले कलौ ।

शूद्रे काके पिके व्यासे ध्वन्ते पक्षेऽर्जुने हरौ ॥ इति यादवः ।

रामाय अभिरामाय । प्रद्युम्नाय प्रकृष्टधनाय द्यम्नं द्रविणं धनम् इति हलायुधः । ज्ञानं विना न निरुध्यते इत्य् अनिरुद्धस् तस्मै ॥४५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं ब्रह्म स्तुत्वा मनः-प्रसादाभावेन पुनः श्री-कृष्णम् एव स्तुवन्ति-नमः कृष्णायेत्य्-आदि । कूले रामं दृष्टा अयं सहायो भवत्व् इति तम् अपि स्तुवन्ति-नमो रामायेति । प्रभो ! त्वं नन्द-सुत एव, स्त्रियो\ऽपि वयं सर्वं जानीम एव, किन्तु वसुभिर् गोधनैर् दीव्यतीति वसुदेवः । वसुषु देव-भेदेषु दीव्यतीति वा द्रोणो वसूनां प्रवरः [भा।पु।१०.८.४८] इत्य् उक्तेः । वसुदेव इति नन्दस्य नामान्तरम् । तेन त्वं वसुदेव-सुताय चेति च-कारस्यार्थः । त्वम् एव प्रद्युम्नस् तज् जनकत्वात्, तम् एव्आनिरुद्धस् तत् पितामहत्वात् त्वम् एव सात्वतां पतिर् इत्य् आहुः—प्रद्युम्नायेत्य्-आदिना भावि-द्वारका-विलासो\ऽपि तदा स्तुतः ॥४५॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, कृष्ण एकोऽपि त्वं चतुर्-विध इत्य् आहुः—नमः कृष्णायेति । सात्वतानाम् उपासकानां पतय इति पतित्वेनैक्यम् एव साधितम्, अन्यथा नार्थापत्तिः, तथा चोक्तं पञ्चम-स्कन्धे श्री-लक्ष्मी-देव्या स वै पतिः स्याद् अकुतोभयं स्वयं, समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथोभयम् [भा।पु। ५.१८.२०] इति यद् वा, वृष्णीनां पतये इति श्री-यदु-कुलावतीर्ण-चतुर्णाम् एव परमाभिन्नत्वं दर्शितम् । ततश् च कृष्णाय वासुदेवायेत्य् अर्थः । रामस्य विशेषणं वसुदेव-सुतायेति तस्यैव सङ्कर्षणत्वात् ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, स्वयं भगवान् कृष्णोऽपि त्वम् एकश् चतुर्-विधश् चेति वदन्तस् तत्रैव नति पर्यवसाययन्ति—नम इति । सात्त्वताम् उपासकानं पतय इति पतित्वेनैक्यम् एव साधितम् अन्यथान् अर्थापत्तिः, तथा चोक्तं पञ्चम-स्कन्धे श्री-लकाष्मी-देव्या स वै पतिः स्याद् अकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथोभयम् [भा।पु। ५.१८.२०] इत्य् अन्यत् तैः । यद् वा, कृष्णायेति प्रस्तुतत्वात् श्री-नन्द-नन्द-रूपाय वक्त्रं व्रजेश-सूतयोः [भा।पु। १०.२१.७] इत्य्-आदि प्रसिद्ध्या रामाय च तत् तद् रूपाय वसुदेव-सुताय च तस्मै तस्मै तत् सहयोगेन प्रद्युम्नायानिरुद्धाय च तद् व्यूहान्तःपातिने एवम् अत्र कृष्णायेति वासुदेवान्तरस्य व्यावृत्त्य् अर्थम् । रामायेति सङ्कर्षणान्तरस्य अत एव वसुदेव-सुतायेति क्रमेण धर्म-पुत्रादेः दशरथ-पुत्रादेश् च तत् तत् सहयोगेन प्रद्युम्नानिरुद्धयोश् चान्वयोर् इति । तेन सात्वता यादवा एव तद् एवं नित्यत्वम् अपि सूचितं तथा च श्री-गोपाल-तापन्याम्—

प्राप्य मथुरां पुरीं रम्यां सदा ब्रह्मादि-सेविताम् ।

शङ्ख-चक्र-गदाशार्ङ्ग-रक्षितां मुसलादिभिः ॥

यत्रासौ संस्थितः कृष्णः त्रिभिः शक्त्या समाहितः ।

रामानिरुद्ध-प्रद्युम्नैः रुक्मिण्या सहितो विभुः ॥[पद्।पु। १] म्म् ४९

इति त्रिभिः रामादिभिः शक्त्या च रुक्मिण्येत्य् अन्वयः एवम् एवोक्तं मथुरा भगवान् यत्र [भा।पु। १०.१.२८] इति वसुदेव-सुताय चेति श्री-कृष्ण-पक्षे चकारात् श्रीमन् नन्द-गोप-कुमाराय प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [ग्च्प् ३३.४५] इति न्यायेन वसुदेव-सुताय चेत्य् अर्थः । श्री-राम-पक्षे तातं भवन्तं मन्वानः [भा।पु। १०.८.३४] इति वक्त्रं व्रजेश-सुतयोः [भा।पु। १०.८.३४] इति व्यवहारेण श्रीमन् नन्द-गोप-कुमाराय चेत्य् अर्थः ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्णाय रामाय च वासुदेवाय वसुदेव-सुतायेति वासुदेवादि-चतुर्-व्यूहान्तरं व्यावर्त्तितम् ॥४५.४६॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ब्रह्मत्वेन स्तुवन्त्यो भक्ति-वासनया सरसतया तथा स्तवने सन्तोषम् अलभमानाः पुनः स्वरूपेण स्तुवन्ति नम कृष्णाय रामायेत्य्-आदि । कृष्णाय परब्रह्मणे,

कृषिर् भू-वाचकः शब्दो णश् च निवृत्ति-वाचकः ।

तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥[ब्स्च्। ५.१]

रामादयोऽपि चत्वारो विग्रहास् त्वद्-भिन्ना एवेति दर्शयन्ति—रामाय

रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि ।

इति रामपदेनासौ परं ब्रह्माभिधीयते ॥[र्तु] च्च्। २.९.२९]

इति तुल्यार्थकत्वात् । वसुदेव-सुताय च, वसुदेव सुतोऽपि त्वम् सत्वं विशुद्धं वसुदेव-शब्दितम् [भा।पु ४.३.२३] तत्राविर्भूतेर् यो वासुदेवश् चित्ताधिष्ठाता, स च त्वम् एव । एवं प्रद्युम्नायेति प्रकृष्टं द्यम्नं द्यतिः परम-महस्-तस्मै । अनिरुद्धाय केनापि न निरुद्धः स्वच्छन्दत्वात् तस्मै । अतो वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धेभ्यः परः स त्वं श्री-कृष्ण इत्य् अर्थः । वक्ष्यति च स्वयम् एव सात्वतां नव-मूर्तीनाम् आदि-मूर्तिर् अहः-पराः [भा।पु ११.१६.३२] इति विभूति-योग-कथने विभूतित्वेऽप्य् उपचाराद् अहम् इति । अतः सात्वतां पतये नमः सात्वता हि केचिद्-वासुदेवादि-नव-मूर्तिवादिनस् तेषां पतित्वात् त्वम् एक एव वासुदेवादयो नव-मूर्तयः । अथवा, सात्वतां यदूनां पतये इत्य् अनेन भावि-द्वारका-विलासोऽपि स्तुतः ॥४५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-शास्त्र प्रतिपादित-सार-स्वरूपाणि तू तव चत्वार्य्-एवेत्य्-आहुर् नम इति । चकारान् नन्द-सुतायसात्वतां सात्वत-वंशोत्पन्न-शूरादीनां पर्जन्यादीनां च पतये पालकाय ॥४५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्राप्तनिर् णीतम् उपास्य-स्वरूपं दर्शयन्त्यो नमन्ति—नमः कृष्णायेति । रामाय ब्लभद्राय च नन्द-सुतायसात्वतां सात्वत-वंशोद्भवानां शूरादीआं पर्जन्यादीनां च पतये पालकाय ॥४५॥


॥ १०.१६.४६ ॥

नमो गुण-प्रदीपाय गुणात्म-च्छादनाय च ।

गुण-वृत्त्य्-उपलक्ष्याय गुण-द्रष्ट्रे स्व-संविदे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं चतुर्-मुर्तितेति तद् आहुः, नमो गुण-प्रदीपायेति । गुणा अन्तः-करणानि तानि प्रदीपयति प्रकाशयतीति तथा तस्मै । चित्ताद्य्-अधिष्ठातृत्वेन चतुर्-मूर्तितेत्य् अर्थः । ननु, तथाप्य् एकस्यैव कथं चतुष्ट्वम् अत आहुः, गुणात्म-च्छादनाय तैर् एव गुणैर् उपासकानां फल-वैचित्र्यायात्मानम् आच्छाद्य नानात्वेन प्रकाशम् आनायेत्य् अर्थः । ननु, तर्हि कथं प्रतीतिर् अत उक्तम्, गुण-वृत्त्य्-उपलक्ष्याय चित्तादीनां चेतनाध्यवसायादि-वृत्तिभिर् उपलक्ष्याय । उपलक्षणम् एवाहुः, गुण-द्रष्ट्रे तत् साक्षिणे । कथञ्चिद् उपलक्ष्य एव न ज्ञेय इत्य् आहुः, स्व-संविदे, अगोचरायेत्य् अर्थः ॥४६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् आहुःचतुर् मूर्तिभवने प्रकारम् आहुः । इत्य् अर्थ इति चतुर्व्यूहं विनान्तः-करण-चतुष्टयाधिष्ठातृत्वं कथं घटेतेति भावः । तत्राप्य् आशङ्कते—नन्व् इति । तथापि चतुर्मूर्तित्वेऽपि अतः अत्र । इत्य् अर्थ इति । शुद्ध-ब्रह्म-रूपत्वम् आच्छाद्य भक्तानां यथा यथा कामं तथा-तथा भवनशीलायेत्य् अभिप्रायः । आत्मानम् आच्छादयामि चेत् तर्हि कथम् अहं प्रतीय इत्य् आशङ्कते—नन्व्, इति इत्य् अर्थं इति । स्व-प्रकाशस्यान्य् अगाचरत्वे स्व-संवित्ता भ्रश्येतेति भावः । यद् वा, गुणाः सत्त्वाद्या भक्ति-ज्ञानाद्या वा तेषां ज्ञापकाय गुणात्मा प्रकृतिर् एव छादनम् आवरकं यस्य तस्मै गुणैर् इन्द्रियादिभिर् आत्मनो जीवान् आच्छादयतीति वा ॥४६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गुणा एव प्रदीपास् तमो-हन्तारो यस्य, गुणात्मनां ब्रह्मादीनाम् अपि छादनाय आच्छादनाय, गुण-वृत्तीनां सत्त्वादि-वृत्तीनाम् उपलक्ष्याय, अथवा, गुण-वृत्तयो\ऽप्य् उपलक्ष्या यस्माद्-गुप्ण-वृत्तीनाम् अपि प्रकाशाय । गूण-द्रष्ट्रे आदोस-दर्शिणे, स्व-संविदे स्वतः-सिद्ध-ज्ञानाय ॥४६॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सात्वत-पतित्वेन कारुण्यादि-गुण-प्रकाशकाय, अथ-च तत्-स्वभावाच् छादकाय, कदाचिद् अन्तर्धानादिना गुणानाम् इन्द्रियाणां वृत्तिभिर् उपलक्ष्याय, हृषीकेशत्वादिना तत्-प्रवर्तनेन लक्षणेन, अथ-च गुणानां तेषां द्रष्ट्रे साक्षिणे, किं च, स्व-सम्विदे स्व-प्रकाशाय । यद् व, गुण-प्रदीपताद् एव गुणैर् दामभिर् आत्मानम् आच्छादयतीति तथा तस्मै—दामोदरत्वे श्री-यशोदया बहुभिर् दामभिर् बन्धनात्, तथापि गुणानां भक्त-वात्सल्यादीनां दाम्नां वा, वृत्त्या वर्तनेन उपलक्ष्याय, बाल्य-लीलादिना स्वच्छन्दत्वेऽपि नलकुवर-मणिग्रीवाभ्याम् इव सर्वैः सल्लक्षयितुं शक्याय, किं च, गुण-द्रष्टे गुणानां दाम्नां तेषाम् एव द्रष्टे प्रीत्या मुहुर् दर्शनपराय । किं च, स्वेषु वयस्य-बालकेषु तदानीम् एव नवनीत-चौर्याद्य् अर्थं सम्विदः सङ्केता यस्येति, इदम् अप्य् अद्भुतम् एव नवनीत-चौर्यतो गुणैर् वद्धस्य तान् साक्षात् पश्यतोऽपि पुनस् तच् चौर्यार्थ-सङ्केतात् ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं भक्तान् प्रति गुण-प्रदीपाय स्व-रूप-भूतानाम् ऐश्वर्यादि-गुणानां प्रकाशकाय अभक्तान् प्रति तु गुणैः प्राकृतैर् आत्माच्छादनाय यद्यपि एवं तथापि सेषां प्राकृत-गुणानां जडानाम् अपि वृत्त्याप्रवृत्त्यापलक्ष्याय तत् प्रवर्तकत्वेनानुमेयाय तत् प्रवर्तकत्वम् एव कथं तत्राह—तद् द्रष्ट्रे वीक्षामात्रेणेति भावः । स्वयन्तु स्व-सम्विदे स्व-प्रकाश-स्वरूप-गुणाय । यद् वा, एवं यादव-सम्बन्धेऽपि गोकुल-सम्बन्ध एव गरीयान् इत्य् आहुः । प्रेमवश्यतादीनां गुणानां प्रकर्षेण प्रकाशकाय तादृश-गुण-प्रकाशनाप्य् आत्मच्छादनायआवृत-निजैश्वर्याय गुणैर् दामभिर् आत्मानम् आश्छादयसि तथा तस्मै वा दामोदरत्वे श्री-यशोदया बहुभिर् दामभिर् बन्धनात् तथापि गुणानां यमलार्जुन-मोचनादि-लाक्षतानां दाम्नाम् एव वा बहूनाम् अप्य् अपर्याप्तानां वृत्त्या प्रवर्तनेन ज्ञेयाय । किं च, गुण-द्रष्ट्रे दाम्नां तेषाम् एव द्रष्ट्रे भीत्या मुहुर् दर्शनपराय । अथ च स्वेषु वयस्य-बालकेषु तदानीम् अपि नवनीत चौर्याद्य् अर्थ-सम्विदः सङ्केता यस्येति इदम् अद्भुतम् एव ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अव्याकृत-विहाराय प्रपञ्चातीत-लीलाय ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे भगवन् तव गुणाः किं स्तोतव्याः यतस्त एव मोहान्धकारहारिण इत्य् आहुः—नमो गुण-प्रदीपायेत्य् आदि । गुणा एव प्रदीपास् तमोनुदा यस्य तस्मै, गुणात्मनो ब्रह्मादयस् तेषाम् अपि छादनाय स्व-तेजसावरकाय, गुणानां सत्वादीनां वृत्ति-रूप-लक्ष्याय हीन-लक्ष्याय्स गुण-वृत्तिभिर् अनङ्कितायेत्य् अर्थः—हीने उपश्च कथ्यते इति श्रुतेः । अत एव गुण-द्रष्ट्रे गुण-नियन्त्रे । स्वेषां भक्तानां सम्वित् सम्यक् वित् सत्ता यस्मात्, नित्य—पार्षदायेत्य् अर्थः ॥४६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतस् तेष्व् एव गुणानां प्रेम-वश्यत्वादीनां प्रकर्षेण प्रकाशकार तथा प्रकाशितेन प्रेम-वश्यत्व-गुणेन आत्माच्छादनाय आवृत-निजैश्वर्याय तदपि त्वं भक्ति-तत्त्वज्ञै ज्ञात-स्वरूप एव भवसीत्य् आहुः, गुणस्य भक्त-वात्सल्यातिशयस्य वृत्त्या असाधारण-सत्तया उपलक्षाय स्वयं भगवन्तं विना को ऽप्य् एवं न भवतीति ज्ञेयाय वतो गुण-द्रष्ट्रे स्व-भक्तस्य गुणम् एव पश्यति, नतु दोष-गन्धम् अपि यस् तस्मै अत-एव स्वेषु भक्तष्व् एव सम्विद् अनुभवो वस्य तस्मै ॥४६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तेष्व् एव प्रेमाधीनतादीनां गुणानां प्रदीपाय प्रदर्शकाय प्रदर्शितैस् तैर् गुणैर् आत्माच्छादनाय मुकुराधर-चित्र-न्यायेन स्वैश्वर्यावरकाय तथापि निहत-दैत्य-सौख्य-दातृत्वादीनां गुणानां वृत्या स्वयं भगवत्त्वेन्ओपलक्ष्याय बोध्याय गुण-द्रष्ट्रे भक्तस्य गुणम् एव तद् अनुदोषं यः पश्यति तस्मै अतः स्वेषु भक्तेषु सम्विद् अनुभवो यस्य तस्मै ॥४६॥


॥ १०.१६.४७ ॥

अव्याकृत-विहाराय सर्व-व्याकृत-सिद्धये ।

हृषीकेश नमस् तेऽस्तु मुनये मौन-शालिने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अगोचरत्वम् उपलक्ष्यत्वं च दर्शयन्त्यो नमन्ति, अव्याकृत-विहाराय, अतर्क्य-महिम्न इत्य् अर्थः । सर्व-व्याकृत-सिद्धये सर्व-कार्योत्पत्ति-प्रकाश-हेतुत्वेनोपलक्षण-योग्यायेत्य् अर्थः । उपलक्षणान्तरम् आहुः—हे हृषीकेश ! करण-प्रवर्तक ! किं विषयैप्सया ? न, मुनये आत्मा-रामाय । किं साधन-वशेन वा ? न हि, मौन-शीलिने मौनम् आत्मा-रामता तत्-स्वभावाय ॥४७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति व्याकृत-विहारस् तर्कितुं शक्यो भवतीति त्वं तु न तथेत्य् अर्थः । इत्य् अर्थः इति । कारणं विना कार्योत्पत्तेर् असम्भवादित्य् अभिप्रायः । प्रवर्तकत्वं कारणं विना मन्दोऽपि न प्रवर्तते इति न्यायात् किञ्चिद् अपेक्ष्यैव भवतीति शङ्कते—किम् इति । आत्म-रामतापि साधन-सम्पत्त्यैवेति पुनर् आशङ्कते—किम् इति । यद् वा, अव्याकृता व्याकर्तुम् अशक्याः सृष्ट्यादि-विहारा यस्य तस्मै । पर्वेषु भक्तेषु व्याकृता प्रकटिता सिद्धिः स्वरूपं येन तस्मै । मुनये सर्वज्ञाय मौन-शीलिनेऽसम्भावितोक्तिर् अहिताय ॥४७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आव्याकृता अप्राकृता विहारा यस्य, सर्वा-व्याकृतस्य सर्व-व्याकारस्य सर्व-पुरुषार्थस्य सिद्धये सिद्धि-रूपाय, तेषां सिद्धिर् यस्माद् इति वा, एतावता स्तवेनापि न किञ्चिद् वदसि त्वं मुनिर् इव तिष्ठसि, तस्मात् मौन-शीलिने मुनये नमः । उक्तं च मौनं चैवास्मि गुह्यानाम् [गीता १०.३८] इति । हृषीकेश इत्य् अस्यायं भावः—अस्माभिर् यद् उच्यते, तस्यापि त्वम् एव प्रवर्तकः, तदा कथं नानुमोदसे इति ॥४७॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याकृतः केनापि व्याख्यातो निर्वक्तुम् अशक्यो विहारो लिलापि यस्य तस्मै, तथा च श्री-विष्णु-पुराणे—अनाख्येय-प्रयोजन इति । अथ-च सर्वैः शास्त्रज्ञैः शास्त्रैर् व्याकृता26 निरुक्ता सिद्धिर् यस्य, न्याय-शास्त्रादौ सर्वत्र प्राग् ईश्वर-सिद्धेर् एव प्रस्तुतत्वात् । यद् व, अव्याकृतः प्रपञ्चातीति विहारो यस्य, अथ-च सर्वस्य लौकिकादि-कर्म-प्रपञस्य सिद्धिर् यस्मात् तस्मै, अत एव हृषीकेश हे तद् अर्थ-निज-सर्वेन्द्रिय-प्रवर्तकेति । मुनये आत्मा-रामाय, अथ-च अकार-प्रश्लेषेण अमौन-शीलिने धर्माद्याचरणाद्-गोपी-कुल-रमणाद् वा ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अव्याकृतः प्रपश्चातीतो विहारो यस्य अथ च सर्वत्र व्याकृते न तत् तल् लीलत्वेन सिद्धिः प्रसिद्धिर् यस्य सर्व-व्याकृतस्यैव सिद्धिस् तत् तल् लीला-साधकता यस्येति वा तद् उक्तं प्रपञ्चं निष्प्रपञ्चो\ऽपि इत्य् अव्याकृत-लीलत्वाद् एव

परिनिष्ठितो\ऽपि नैर्गुण्ये उत्तम-श्लोक-लीलया ।

गृहीत-चेता राजर्षे ! आख्यानं यद् अधीतवान् ॥

इत्य्-आदिकं घटत इत्य् आहुः, हृषीकेश हे स्वस्मिन्न् आत्मा-राम-पर्यन्तानां सर्वेन्द्रिय-प्रवर्तकेति मुनये आत्मा-रामाय अथ च अकार-प्रश्लेषेण अमौन-शीलिने तद् विपरीत-व्याख्याता सिद्धिस् तत् तच् चेष्टा-फलं दधि-पयो-भक्षणादिकम् अपि यस्य तस्मै, अहो तेन च सर्वेषां प्रीतिर् एवासीद् इत्य् आहौः—हृषीकेश हे सर्वेन्द्रिय-वशीकारिण-गुण-गणेति । किं च, तत्रोपालम्भादौ मुनये मौन-शीलिन इति स्वान्तः-करण-निहित-तादृश-वयुनापि बहिर् मौनेन सुप्रतीको यथास् त इत्य् एवम् उक्त-रूपो यस् तस्मा इत्य् अर्थः । श्लोक-द्वयेऽस्मिन्न् आर्थान्तराच्छन्नतयोक्तिर् इयं प्रभुतास्फुरणात् सङ्कोचेनेति ज्ञेयम् ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अव्याकृत-विहाराय प्रपञ्चातीत-लीलाय ॥४७.४८॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एव तव विहारा अपि स्तुतुं न शक्यन्त इत्य् आहुः अव्याकृत-विहारायेत्य् आदि-बहुभिः । अव्याकृता अप्राकृता विहारा यस्य, सर्व-व्याकृतस्य सर्व-पुरुषार्थस्य सिद्धिर् यस्मात् । हे हृषीकेशेत्य् अस्यायं भावः । सर्व-हृषीकेशत्वाद् अस्माकं येयमुक्तिस् तस्यापि त्वम् एव प्रवर्तकः, तत् कथं नानुमोदस ? इत्य् अर्थः । एतावता स्तवेनापि न किञ्चिद्-वदसि, तस्मान् मौनशालिने मुनये नमः । मौनञ्चापि तव सत्त्वम् एकम्, तेन तन् न जहासि, मौनं चैवास्मि गुह्यानाम् [गीता। १०.१८] इति श्री गीतासु स्वोक्तेः ॥४७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लीला-पूरुषोत्तमस्य तव लीला-माधूर्याधिक्यम् इत्य् आहुः, अव्याकृतः अनिर्वाच्यत्वाद् अव्युत्पादितः प्राकृतो वा विहारो यस्य तस्मै । यद् वा, न व्याकृतो विवाहादि-व्यापार-रहित एव विहारो यस्य सः । सर्वेषां भक्त-विशेषाणाम् एव व्याकृतानां तत्-सेवोचित-विशिष्टाकृतीनां सिद्धिर् यस्मात् तस्मै अत-एव हृषीकेश भक्त-सर्वेन्द्रियाकर्षक भक्ति-हीनेषु मुनये आत्मा-रामाय, अत-एव तेषु स्वाभीप्सित-प्रार्थकेषु सत्सु मौन-शीलिने न किम् अपि ब्रुवते तेभ्यः सुखं दुःखाभावञ् च न ददते ॥४७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अव्याकृतो विझ्ञान-घनो विहारो यस्य तस्मै नाम-रूपवन् मायिकं वस्तु व्याकृतम् उच्यते । तद्-भिन्नं नित्यम् अमायिकम् अव्याकृतं नित्य-विहारायेत्य् अर्थः । एको देवो नित्य-लीलानुरक्तः इति श्रुतेः सर्वेषां व्याकृतानां नाम-रूपिणां महद् आदीनां पृथिव्यन्तानां सिद्धिर् यतस् तस्मै । हे हृषीकेश ! मुनये देवहूती-पुत्राय कपिलाय मौन-शीलिने ब्रह्माणम् अपि साभिमानं प्रति किम् अप्य् अब्रुवते इत्य् अर्थः ॥४७॥


॥ १०.१६.४८ ॥

परावर-गति-ज्ञाय सर्वाध्याक्षाय ते नमः ।

अविश्वाय च विश्वाय तद्-द्रष्ट्रेऽस्य च हेतवे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः ? परावर-गति-ज्ञाय स्थूल-सूक्ष्माणां गति-ज्ञत्वेन, क्वापि सज् जमानायेत्य् अर्थः । अपि च सर्वाध्यक्षाय सर्वस्याधिष्ठात्रे । कुत एतत् ? अविश्वाय न विश्वं यस्मिंस् तन् निषेधावधये । विश्वाय च तद्-विवर्ताधिष्ठानायेत्य् अर्थः । किं च, तद्-दृअष्ट्रे अध्यासापवाद-साक्षिणे । अपि च, अस्य विश्वाध्यासस्य तद्-अपवादस्य चाविद्याविद्याभ्यां हेतवे

यद् वा, अविश्वाय विश्व-तैजसाद्य्-अवस्था-रहिताय । विश्वाय च माय्या स्वंशैस् तत्-तद्-अवस्थाय तद्-द्रष्ट्रे तासाम् अवस्थानां भावाभाव-साक्षिणे । अन्यत् समानम् । तस्मात् सर्व-गति-ज्ञत्व-सर्वाधिष्ठातृत्वात्मा-रामत्वादिभिर् निरतिशयैश्वर्याय तुभ्यं नम इति ।

विशेषणैर् असङ्कीर्णैः पञ्च-पञ्चा-शतान् अतः ।

अहि-स्त्रीभिः प्रसन्नो वस् तासाम् इव भवेद् धरिः ॥४८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मारामत्वे हेतुम् आशङ्कते—कुत इति । इत्य् अर्थ इति जीवेष्व् अपि ज्ञानिनो न कुत्राप्य् आसक्ता भवन्ति परम-ज्ञानिनस् तव तु कथम् आसक्तिर् भवेत् ? इति । तात्पर्यम् अन्यद् आह—अपि च इति सर्वाधिष्टातृत्वे हेतुम् आशङ्कते—कुत एतत् ? सर्वाधिष्ठातृत्वम् । इत्य् अर्थ इति न हि साक्षाद् विश्व-रूपत्वं, किं तु विवर्ताधिष्ठानत्वेन तद् अस्तीति भावः । तत् समर्थयति—किं च इति । तत्रैवान्यद् आह—अपि च इति । पूर्व-व्याख्याने क्लिष्ट-कल्पनां मत्वाह—विश्वे तूपलक्षणं तैजस-प्राज्ञयोः । तत् तत्-तद्-अवस्थाप विश्वादि-रूपाय । यतः आत्मारामादि-रूपोऽसि तस्माद् धेतोः असङ्कीर्णैः अमिलितैः पुनर्-उक्ति-दोष-वर्जितैः । वः युष्माकम् अध्येत्र्-अध्यापकानां श्रोतृवक्तॄणाम् । तासाम् इव नागाङ्गनानाम् इव ॥*॥४८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अविश्वाय विश्वातीताय, अथ च भक्तानां विश्वाय विश्व-देवत्वं भक्तानाम्, सर्वनामत्वाभाव आर्यः । तद्-द्रष्ट्रे विश्व-द्रष्ट्रे विश्व-हेतवे च ॥४८॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पराणाम् उत्कृष्टानाम् अवराणां च निकृष्टानां गतिं शुभाशुभ-लक्षणम्, तत्त्वं जानातीति तथा तस्मै । अथवा पराणाम् अवराणां च अध्याक्षाय स्वामिने, निकृष्णानाम् उपेक्ष्याणाम् अप्य् अध्यक्षत्वम् अद्भुतम्, अविशाय विश्व-तैजसाद्य् अवस्था-रहिताय, अथ-च विश्वाय तत् तद् अवस्था-स्वीकारिणे, तद्-द्रष्टे तत्-तद् अवस्थानां साक्षिणे, अथ-च तत्-तद् धेतवे, यद्य् अप्य् अन्येऽपि विविधा बहवो विरोधादयः श्री-भगवति वर्तन्ते, तथापीमे प्रसिद्धाः प्रायः शास्त्र-सिद्धा उक्ताः विरोधाद्य् अलङ्काराच् च परम-माहात्म्यम् एव पर्यवस्यति, किं च, एतद् एव भगवत्त्वम्, यत्र महोदधौ विचित्र-विचित्र-प्रवाह27 इव सर्वे विरोधाः प्रविशन्ति, यतो निर्गुणत्व-निर्विशेषत्वादयो ब्रह्मणः स-गुणत्व-सविशेषत्वादयश् च मायिक-प्रपञ्चस्य धर्माः परस्परं विरुद्धा अपि श्री-भगवतो निर्गुणत्वादाव् अपि सगुणत्वादिना सगुणत्वादाव् अपि निर्गुणत्वादिना सर्वेऽपि तस्मिन् सुखं लियन्त एव, सच्चिदानन्द-घन-विग्रहत्वात् । एतद् एव परब्रह्मत्वम् एव, तद् एव तर्कागम्यं तत्-प्रसादैर् विज्ञेयं भगवत्ताभिधेयं28 पारमैश्वर्यम् इति । एतच् च श्री-भागवतामृतोत्तर-खण्डे विवृतम् अस्ति । अतोऽशेष-विरोधाद्याश्रयात् श्री-वृन्दावनाश्रितस्य परमानुग्राह्यस्यापि निग्रहो युक्त एवेति भावः ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तादृश-तर्क्य-लीलत्वे हेतुः परावर-गति-ज्ञाय तत् तद् आत्मत्वेन तत् तत् तत्त्वज्ञाय न तु ज्ञेयाय तथापि सम्प्रति सर्वेषाम् अध्याक्षाय अक्षाण्यधिकृत्य वर्तत्त इति प्रत्यक्षाय किं च, न विद्यते विश्वं यत्र तस्मै तथापि विश्वाय तद् एव प्रतिपादयन्ति तद् द्रष्ट्रेऽस्य च हेतवे दृष्टृत्वात् दृश्याद् अस्माद् भिन्नाय उपादान-रूपात् त्वद् अव्यतिरिक्तम् इदम् इति विश्व-रूपाय श्री-गोपाल-लीला-पक्षेऽपि अद्यैव त्वद् दृतेऽस्य किं मम न ते [भा।पु। १०.१४.१८] इत्य्-आदि-दृष्ट्या तत् तत् सङ्गमनीयम् एवं सर्व-विरोधाश्रयत्वेनैवाचिन्त्य-शक्तित्वं तेनैव चैश्वर्यम् इति पूर्वम् अपि प्रतिपादितम् अतोऽशेष-विरोधाश्रत्वात् निग्राह्यस्यान्य् अनुग्रहो युक्त एवेति भावः ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नानाबाधानुरोधाय परिच्छिन्ना व्यापी विग्रहो नित्यः, एकोऽनेकः, निर्गुणः, स्वानन्द-गुणवान्, आनन्दो मूर्तः, इत्य् आदयो ये नानावादाः, तेष्व् अनुरोधो यस्य सर्व-वादसंवादक इति यावत् तस्मै । अविश्वाय विश्वस्माद् भिन्नाय, विश्वाय विश्व-प्रकाशकाय, तद्-द्रष्ट्रे तस्य हेतवे च ॥४८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतः परेषाम् उत्कृष्टानां भक्तानाम् अवरेषां निकृष्टानाम् अभक्तानां च गतिं प्राप्यं जानते सर्वाध्यक्षार सर्व-फलाध्यक्षत्वात् ज्ञात्वा तत् तत् समुचित-फलस्य दात्रे इत्य् अर्थः । कर्म-फल-दातृत्वे ऽपि न तव कर्म-सम्बन्धः यतो ऽविश्वाय प्रपञ्चातीताय तदपि माया-शक्त्या विश्वाय समये विश्वं स्रष्टुं तस्य विश्वस्य द्रष्ट्रे तथैवास्य विश्वस्य हेतुं प्रधानञ् च चेतयितुं विकारयितुं वा तस्य द्रष्ट्रे क्रियार्थोपपदस्य [पाण्। २.३.१४] इत्य्-आदिना चतुर्थी ॥४८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : परेषां ज्ञानिनाम् अवरेषां कर्मिणां च गतिं प्राप्यं जानातीति तस्मै । सर्वेषां मोक्ष-स्वर्गादीनां फलानाम् अध्यक्षाय स्वामिने तत्-तत् साधनानूसारेण तत्-तत् फलदायेत्य् अर्थः । अविश्वय न विश्वं यस्मिंस्-तस्मै तत्-स्पर्श-रहितायेत्य् अर्थः । तथापि विश्वाय तद् अन्तः-प्रविष्टाय विश्वतीति तद्-व्युत्पत्तेः एतद् ईशनम् ईशस्येत्य् [भा।पु। १.११.३८] आदि पूर्वोक्तेः अस्य विश्वस्य हेतवे हेतुं प्रधानं परिणमयितुं तद्-द्रष्ट्रे स ऐक्षत लोकान्नुसृजा [छा।उ। ६.२.३] इत्य्-आदि श्रुतेः क्रियार्थोपपदस्येति चतुर्थी ॥४८॥


॥ १०.१६.४९ ॥

त्वं ह्य् अस्य जन्म-स्थिति-संयमान् प्रभो

गुणैर् अनीहोऽकृत-काल-शक्ति-धृक् ।

तत्-तत्-स्वभावान् प्रतिबोधयन् सतः

समीक्षयामोघ-विहार ईहसे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तवद् दण्डानुमोदनेन नमस्कारैश् च भगवन्तं प्रसाद्येदानीं त्वद् अधीनानां प्राणिनां कोऽपराध इत्य् आशयवत्यः प्रार्थयन्ते, त्वं हीति । अस्य लोकस्य जन्मादि त्वम् एव अकृतऽकरोः, ततश् च तांस् तान् संस्कार-रूपेण सतः स्वभावान् घोरत्वादीन् प्रतिबोधयन्न् ईहसे क्रीडसि । यद् वा, अस्य जन्मादींस् त्वम् ईहस इत्य् अन्वयः । कथं-भूतः । अकृतानादिर्या काल-शक्तिस् तां धारयतीति तथा । अन्यत् समानम् ॥४९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तविधया । श्री-कृष्ण एव दोषमादधन्त्य आहुः त्वं हीति । गुणैः सत्त्वादिभिः । आदिना शान्तमू ढत्वे ग्राह्ये । त्वम् अकृत इह युष्मत् प्रयोगे प्रथम-पुरुषः चान्दसः । ऋजु-मार्गेण इति न्यायम् आश्रित्य् आह—यद् वेति । ईहसे करोषि धातूनाम् अनेकाथः स्वादीहिरत्र करणे ॥४९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद् एवाहुः—तं हस्येत्य्-आदि ॥४९॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् अयम् अपराधी निग्रह-योग्य एवेति चेत् तत्राहुः—त्वम् इति पञ्चभिः । हि एव, त्वम् एव विभो हे सर्वेश्वर ! गुणैः रज-आदिभिर् जन्मादीन् ईहसे करोषि, अनीहस् तद्-अनपेक्षोऽपि सतः पूर्वत एव वर्तमानान् इति वैषम्यं परिहृतम्, समीक्षया दृष्टि-मात्रेण परमापेक्षया वा ।

ननु, किम् अर्थं समीक्षा ? इत्य् अपेक्षायाम् आहुः—अमोघ-विहारः सदा क्रीडर्थम् इत्य् अर्थः । यद् वा, तत् तत्-क्रीडार्थम् इत्य् अर्थः । यद् वा, स्वभाव-प्रतिबोधन-रूप-त्वत्-क्रीडा केनापि न विहन्तुं शक्यत इत्य् आहुः-अमोघेति । यतः स्वाभाविक-काल-शक्ति-दृक्, ब्रह्मादिभिर् अपि कालस्यालङ्घ्यात्वात् ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् अस्य को दोषः सर्पत्वद् आतुर् ममैवेश्वरस्येत्य् आशङ्क्याहुः त्वम् इति पञ्चभिः । हि एव हे विभो, सर्वेश्वर ! अनीहः तत् तद् अभिलाष-शून्य एव त्वम् ईहसे करोषि नन्व् एतद् विरुद्धं तत्राहुः—सत इति । तत्र जन्मनि सतः प्रकृति-लीन-प्राचीन-कल्प-गत-साधक-भक्त-जनस्य समीक्षया तद् उद्बोधनाय तं द्रष्टुम् एव कृतेन प्रकृतीक्षणेनेत्य् अर्थः । स्थितौ जन्म-मध्येऽवतीर्य तम् एव सम्यक् कृपा-पूर्वकं साक्षाद् अवलोकितुम् इत्य् अर्थः । संयमे तम् एवालिङ्ग्यापि समीक्षितुम् इत्य् अर्थः । मद् भक्तानां विनोदार्थं करोमि विविधाः क्रियाः इति पद्मात् तत आनुषङ्गितयान्येषाम् अपि तत् स्याद् इति भावः ।

ननु, यद् अर्था समीक्षात एवोद्बुध्यन्तां तत्राहुः—अमोघ-विहारः यथा कथञ्चिद् अपि तत् सम्बन्धस्याव्यर्थत्वाद् इत्य् अर्थः । तेषाम् अपि उद्बोधने युक्तिः अकृत-काल-शक्ति-धृक् काल-स्वरूपया स्वाभाविक-शक्त्य् एत्य् अर्थः । तथा गुणैर् उपलक्षितान् स्वभावान् प्राचीन-कर्म-संस्कारान् प्रति बोधयन्न् इति तस्मात् तथा कृत-कर्मणोऽस्यैव दोषः न तु तव ईश्वरस् तु पर्जन्यवत् द्रष्टव्य इति न्यायाद् इति भावः ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् अस्य को दोषः? सर्पत्वद् आतुर्म्ममैवेश्वरस्येति चेद् इत्य् अत आहुस् त्वम् इति पञ्चभिः । हि एव हे विभो! सर्वेश्वर अनीहस् तत् तद्-अभिलाष-शून्य एव त्वम् ईहसे करोषि नन्व् एतद् विरुद्धं तत्राहुः सतः प्रकृतिलीन-प्राचीन-कल्प-गतः साधक-भक्त-वृन्दस्य समीक्षया तद् उद्बोधनाय तद्-द्रष्टुम् एव कृतेन प्रतीक्षणेनेत्य् अर्थः । मद् भक्तानां विनोदार्थं करोमि विविधाः क्रियाः इति पाद्मात् तत आनुषङ्गिकतयाऽन्येषाम् अपि तत् स्याद् इति भावः । तस्मात् तथा कृत-कर्मणस्यैव दोषो न तु भवेद् इति भावः ॥४९.५९॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : विश्वस्य न केवलं हेतुर् असि, तत्-पालननाश-हेतुर् अप्य् असीत्य् आहुः—त्वम् अस्य जन्मेत्य्-आदि । विश्वस्य जन्म-स्थिति-संयमान् ईहसे यद्यपि तथापि अमोघ-विहारो नित्य-लीलः । जगन्नाश-लीलायां तत्-स्थिति-लीलाया असम्भवाद् इति । तथा विहारस्य मोघत्वेऽपि अमोघ-लील एव, नित्यान्तरङ्ग-लीलत्वात्, इयन्तु बहिरङ्ग-लीला ॥४९.५७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-सृष्ट्या प्रधानं चेतन-युक्तं विकृतञ् च कृत्वा मम किं फलम् इति चेत् तत्राहुः--त्वम् इति । सतः प्रधानस्य समीक्षया अस्य विश्वस्य पूर्व-कल्पान्ते तत्रैव लीनस्य तत्-तत्-स्वभावान् तांस् तान् संस्कार-रूपेण सतः स्वतावान् घोरत्वादीन् प्रतिबोधयन् जन्मादीन् गुणैर् अज-आदिभिर् ईहसे करोषि गुणानां कर्तृत्वस्य त्वय्य्-उपचाराद् वस्तुतस् तु त्वम् अनीहः, अकृता क्षणादिर् या काल-शक्तिस् तां धारयतीति सः एवञ् च प्रधान-गत ईक्षण-रूपस् तव विहारो ऽमोघः ॥४९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ कृपालुतां दर्शयन्त्यः पत्युस्त्राणं प्रार्थयन्ते पञ्चभिः । ननु, प्रधान-परिणमनादिना मे किं फलं तत्राह—त्वम् इति । सतः प्रधानस्य समीक्षया अस्य विश्वस्य पूर्व-क्ल्पावसाने तत्रैव मोक्षणे विलोनस्य तत्-तत्-स्वभावान् घोरत्वादीन् प्रतिबोधयन् गुणैर् अजः-प्रभृतिभिर् जन्मादीन् ईहसे करोषि, कीदृशः ? अकृतां नित्यां काल-शक्तिं धरसीति सः अनीहो विश्व-सर्गादि-कर्म-फलस्य ईह-शून्यः तर्हि प्रधानेक्षण-तत्-परिणामनादि-प्रवृत्तिर् मेऽपार्था तत्राह—अमोघेति । तद् रूपो विहारस् तवामोघः जीव-भोगाद्य् अर्थत्वात् सफल इत्य् अर्थः । तथा च कृपालुत्वात् तेस्यापि नागस्य त्राणं युक्तम् इति ॥४९॥


॥ १०.१६.५० ॥

तस्यैव तेऽमूस् तनवस् त्रि-लोक्यां

शान्ता अशान्ता उत मूढ-योनयः ।

शान्ताः प्रियास् ते ह्य् अधुनावितुं सतां

स्थातुश् च ते धर्म-परीप्सयेहतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् तस्य तवैवामूस् तनवस् तन्यन्त इति क्रीडोपस्कराः । तथापि तवाधुना शान्ताः प्रियाः । कुतः ? सतां धर्म-परिपालनेच्छया ईहतः प्रवर्तमानस्य, अतस् तान् अवितुं स्थातुः स्थितस्य ॥५०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वम् एवास्य कारणमतो हेतोःतस्य कर्तुः । अमूः सर्पाद्याः । तथापि स्वीतनुत्वेऽपि । शान्तासात्त्विका देवादयः । अशान्ताः राजसा मनुष्यादयः । मूडयोनयः तमसा अस्मादादयः ॥५०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्रि-लोक्यां वर्तमानाः सर्व एवेत्य् अर्थः । अशान्ता घोराः, उत अपि, मूढ-योनयोऽपि हि हेतौ निश्चये वा, सतां वैष्णवानां धर्मो भक्ति-लक्षणस् तस्य परीप्सया प्रतिपालनेच्छया परितः सिद्धीच्छया वा, ते द्वयस्य वाक्य-द्वयेनान्वयाद् अपुनर् उक्ति-दोषः । अन्यत् तैर् व्याख्यातम् । यद् वा, ते व्रज-जनाः ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्माद् एवं साम्यं तस्मात् तस्यैव त इत्य्-आदि । त्रिलोक्यां वर्तमानाः सर्वा एवेत्य् अर्थः । अशान्ताः घोराः उत अपि मूढ-योनयोऽपि हि निश्चये विशेषस् त्व् अधुना शान्ता इत्य्-आदि, एवम् अपीदृश-दुष्टानुग्राहकस्य तव परम-कारुण्यम् एव तादृशेऽपि त्वय्य् अपराधिनोऽस्य परम-पामरत्वम् एवेति भावः । ते द्वयस्य वाक्य-भेदान् न पुनर् उक्ति-दोषः मध्यमं तु ते पदं शान्ता इत्य् अस्य विशेषणम् ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, जीव-गोस्वामी बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केनाभिप्रायेणैवं स्तुध्वे इति चेत् तत्राहुः, तस्यैव पूर्वोक्त-लक्षणस्य तव विश्व-हेतुत्वाद् विश्व-रूपस्य अमुः शान्ताद्यास् तनवः शान्तादि स्वभावान् त्वम् एव प्रतिबोधयसि चेत्-तत्र घोर-स्वभावो ऽयं कालियः स्व-स्वभावं क्रौर्यं कथं त्यक्तुं शक्नोत्विति ? भावः, तथापि तव्आधुना शान्ताः प्रियाः कुतः? सतां धर्म-पालनेच्छया ईहतः प्रवर्तमानस्य अतस् तम् अवितुं स्थातुः स्थितस्य ॥५०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तस्यैवेति । तस्यैव पूर्वोक्तस्य शक्तया जगद् आकारस्य तव्आमूः शान्ताद्यास् तनवः तन्यस्ते क्रीडा आभिर् इति व्युत्पत्तेः क्रीडोपस्करा इत्य् अर्थः । तत्र शान्ताः सात्विकाः अशान्ता घोराः राजस्य मूढ-योनयस् ताम् अस्यः तथापि तव्आधुना शान्ताः प्रियाः कुतः सतां धर्म-परीप्सया ईहतश् चेष्टमानस्य अतस् तान् सतोऽवितुं स्थातुः स्थितस्य तथा चास्य नागस्य त्वद्-रचित-क्रौर्य-स्वभावस्य स्वयं तत्-त्यागे असामर्थ्यात् त्वत्-कृपयैव तत्-त्यागो भावीति ॥५०॥


॥ १०.१६.५१ ॥

अपराधः सकृद् भर्त्रा सोढव्यः स्व-प्रजा-कृतः ।

क्षन्तुम् अर्हसि शान्तात्मन् मूढस्य त्वाम् अजानतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तवाप्रियाचरणाद्य्-अपराधस् तर्हि सोढव्य इति ॥५१.५२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वामि-धर्मं ज्ञापयन्त्यः । क्षमायन्तीत्य् आह—एवम् इति, पूर्वोक्तरीत्या । सोढव्यः क्षन्तुम् अर्हसीति द्विरुक्तिर् आदरार्था सम्भ्रमाद् वा । मूढस्य ताम् असस्य । अत्र हेतुः—त्वां सर्वेश्वरम् । शान्तात्मनाम् एतद् एवोचितम् इति संबुद्ध्यभिप्रायः । शान्त-लोक-विप्रियकारित्व-लक्षणोऽस्यापराधः सकृत्-सोढव्य इत्य् अधुना दण्डयित्वा शिक्षितोऽप्य् अयं त्वदीय-शान्त-जनेभ्यो यदि पुनर् परात्स्यति तदा न सोढव्य इति भावः । यद् वा, सकृद् अपि यो भर्ता तनापि, त्वं तु स्रष्टृत्वादिना नित्येश्वरोऽस्पतस् त्वया तु किम् उतेति भावः ॥५१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किन्तु, अपराधो\ऽयं त्वया क्षन्तुं युज्यत एवेत्य् आहुः—अपेति । भर्त्रा पोषकेण स्वस्य प्रजया पोष्येण कृतो\ऽपराधः सकृद् अपि सोढव्य एव । अतस् त्वं क्षन्तुम् अर्हस्य् एव, विशेषतः शान्त-स्वभावस्य तव क्षमोचितैवेत्य् आहुः—हे शान्तात्मन्न् इति । तत्र चाज्ञास्यावश्यं क्षन्तव्य एवेत्य् आहुः—मूढस्य तमोजाति-स्वभावेन ज्ञान-हीनस्य, तत्रापि त्वाम् अजानतः, त्वद् अद्भुत-लीलादिना त्वां ज्ञातुम् अशक्नुवतः, अथवा समृद् अपि यो भर्ता, तेनापि त्वन्तु स्रष्टृत्वादिना नित्येश्वरः । वयं च जीवाः सेवका एव, अतो मुहुर् अप्य् अस्माकपराधस् त्वया सोढुम् एव योग्य इति भावः, किं च, क्षन्तुम् इति । अन्यत् समानम् ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतस् त्वया क्षन्तुं युज्यत एवेत्य् आहुः—अपेति । भर्त्रा पोष्टृत्वात् पितृ-तुल्येन स्व-प्रजा-कृतोपराधः सकृद् अपि सोढव्यः सोढुं योग्यः तस्मात् क्षन्तुम् इत्य्-आदि त्वन्तु शान्तात्मत्वात् सर्वथा क्षन्तुम् अर्हसीत्य् अर्थः । किं च, मूढस्य तामस-जाति-स्वाभावेन ज्ञान-हीनस्य अत एव त्वाम् अजानतः त्वद्-भूत-लीलादि-दर्शनेनापि त्वां ज्ञातुम् अशक्नुवतह् । यद् वा, सकृद् अपि यो भर्ता तेनापि त्वं तु स्रष्टृत्वादिना नित्येश्वरः किम् उतेति ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः शान्त-लोक-विप्रियकारित्व-लक्षणो ऽस्यापराधो ऽभूद् एव स च सकृत् सोडव्य इत्य् । अधुना दण्डयित्वा शिक्षितो ऽप्य् अयं त्वदीय-शान्त-जनेषु यदि पुनर् अप्य् अपराध्यति, तदा न सोडव्य इति । भावः क्षन्तुम् अर्हसीत्य् अर्थ-पौनर् उक्त्यम् अतिवैयग्र्य-व्यज्ञकं क्षन्तुम् इत्य् अपराधम् इति शेषः । शान्तात्मन्न् इति क्षन्तृत्वे हेतुः मूटस्याजानत इति क्षन्तव्यत्वे हेतुः ॥५१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शान्त-जन-विप्रियकारित्वम् अस्यापराधः सकृत् सोढव्य एव पुनर् एवं कारित्वे तु न सोढव्य इति भावः । क्षन्तुम् अर्हसीति वैयग्र्यात् पुनर् उक्तिः शान्तात्मन्न् इति क्षन्तृत्वे मूढस्याजानत इति क्षन्तव्यत्वे हेतुः ॥५१॥


॥ १०.१६.५२ ॥

अनुगृह्णीष्व भगवन् प्राणांस् त्यजति पन्नगः ।

स्त्रीणां नः साधु-शोच्यानां पतिः प्राणः प्रदीयताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पद्भ्यां न गच्छत्य् अर्यादुरसा गच्छतीति पन्नग इत्य् अनेन तद् दैन्यं ध्वनितम् । साधुशोच्यानाम् इत्य् उक्तेः त्वं साधुवर्योऽसि पतिर् एव हि साध्वीनां नारीनां29 जीवनं स्मृतम् इत्य् आशयेनाह—प्राण इति । पति-जीवन-पर्यन्तम् एव साध्वीनां जीवनम्, पत्यन्ते तद् अनुगम-श्रवणाद् इति भावः । हे भगवन् परमादयालो । यद् वा, हे सर्वज्ञ निज-कारुण्य-महिमानं स्वमाया-वैभवं जीवानाम् अस्माकं दैन्यं च जानास्येवेति भावः ॥५२॥ अत्र विश्वनाथ, तोषिण्यां अपि

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं वक्तव्यम्, क्षमा कार्येति, अनुग्रह एव कर्तुं योग्य इत्य् आहुः--अन्व् इति । कुतः ? भगवन् हे परम-दयालो ! यद् वा, हे सर्वज्ञेति निज-कारुण्य-महिमानं स्वमाया-वैभवं च तत एव जीवानाम् अस्माकं दैन्यं च त्वं ज्ञानास्येवेत्य् अर्थः । तच् चाविलम्वेनेत्य्-आदि-निज-प्रतिज्ञां स्मरस्येवेत्य् अर्थः । आर्तत्वं दर्शयन्ति—प्राणान् इति । अहो बत न क्रियताम् अस्मिन्न् अनुग्रहः, अस्मास्ववश्यं कर्तुम् उपयुज्यत इत्य् आहुः—स्त्रीणाम् इति । साधुभिः शोच्यानां जात्यैव स्वातन्त्राद्य् अभावाद् इति परम-दैन्यं दर्शितम् । यद् व, साधु यथा स्यात् पुनर् अनपराधत्वादि-सम्पादनेनेत्य् अर्थः । पतिर् एव प्राणः जीवनम्, प्रकर्षेण शरीराक्षतत्वादिना च दीयताम् ॥५२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं वक्तव्यं क्षमा कार्येति अनुग्रह एव कर्तुं इत्य् आहुः—अन्विति । कृतः ? भगवन्, हे परम-दयालो ! यद् वा, हे सर्वज्ञेति ! निज-कारुण्य-महिमानं स्व-माया-वैभवं च तत एव जीवानाम् अस्माकं दैन्यं च त्वं जानास्येवेत्य् अर्थः । एतच् चाविलम्बेनेत्य् आहौः—प्राणान् इति । यद् वा, अन्नं हि प्राणिनां प्राणा, आर्तानां शरणं त्व् अहम् इत्य्-आदि-निज-प्रतिज्ञां स्मरस्वेत्य् अर्थः । आर्तत्वं दर्शयन्ति—प्राणान् इति । अहो बत न क्रियतां वास्मिन्न् अनुग्रहः अस्मास्ववश्यं कर्तुम् उपयोज्यत इत्य् आहुः—स्त्रीणाम् इति । साधुभिः शोच्यानां जात्यैव स्वातन्त्र्याद्य् अभावात् इति परम-दैन्यं दर्शितम् यद् वा, साधु यथा स्यात् पुनर् अनपराधत्वादि-सम्पादनेनेत्य् अर्थः । पतिर् एव प्राणः जीवनं प्रकर्षेण शरीराक्षतत्त्वादिना च दीयताम् ॥५२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, चिकित्सास्य साध्वेव कृता रोगो गत एव किन्तु रोग-शेष-दूरीकरणार्थं सप्ताष्टाः पार्ष्णिप्रहारा अवशिष्यन्ते, तेषु सम्मतिर्दीयताम् इत्य् अत आहुः, अनुगृह्नीष्वेति । स-दोषशेषो ऽनुग्रहामृतप्रदानेनैव नाशनीयोः नतु दण्ड-तीव्रषौध-पानेन यतोऽसौ सम्प्रति प्राणांस् त्यजति

ननु, त्यजतू प्राणान् किम् अनेन विगीतेन सर्प-शरीरेण, अतः परं दिव्य-देहो मद्-भक्त एव भविष्यति । तत्राहुः, स्त्रीणाम् इति । सून्दरीणाम् अस्माकं वैधव्ये सति कश्चिद् अन्यः पापिष्ठः सर्पो बलात् कामयिता भविष्यतीत्य् अतः शोच्यानाम् अस्माकम् अयम् एव सम्प्रत्य् उत्पन्न-वैष्णवताकत्वात् प्राणः स्नेहास्पदी-भवन् प्राण-तुल्यः ॥५२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, पञ्चषैः पार्ष्णि-प्रहारैर् अस्य दोष-शेषोऽपनेयः सन्मतिश् चेद्-भवतीनाम् इति चेत्-तत्राह—अनुगृहीष्व् एति । तच् छेषोऽनुग्रहाद् एवापगच्छेद् इति भावः । तैर् एष प्राणांस् त्यजति नन्व् अस्य दुष्टस्य प्राणने यद् उक्तानां वः कथम् आग्रहस् तत्राहुः--त्रीणाम् इति । स्त्रीभ्योऽस्मभ्यम् अयं पतिर् दीयतां इदानीं त्वं प्रपन्नत्वाद् अयम् अस्माकं इत्य् अर्थः । नः कीदृशानाम् इत्य् आह—साध्व् इति । एतस्मिन् मृते वैधव्येन वैरूप्ये सति साधुभिः शेष-देवादिभिः शोच्यानाम् इति तेभ्यो नैतद्-रोचेत इति भावः ॥५२॥


॥ १०.१६.५३ ॥

विधेहि ते किङ्करीणाम् अनुष्ठेयं तवाज्ञया ।

यच्-च्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : युष्मद्-अनुग्रहेऽन्येषां मृत्युर् एवेति चेत् तन् नेत्य् आहुः, विधेहीति । त्वद्-आज्ञया प्राणिनो नाद्याम् एति भावः ॥५३-५५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भिन्नान्वयात् ते तव योः पुनर् उक्तिर् न शङ्क्येति । अनुष्ठेयम्विधेहि आज्ञापय विपूवाधा करोत्य् अर्धे इति व्याङ्युक्तः । करोत्य् अर्थत्वेऽपि तम् उल्लङ्घ्यान्यार्थोऽपि प्रकृत-सङ्गत्या भवतीति बोधार्थम् अयम् अर्थः । यत् भवद् आज्ञप्तम्सर्व-तोभयात् संसारात् । इति भाव इति । प्राणि-हिंसा-परित्यागेन सद्-गतिं लप्स्यामह इति तात्पर्यम् ॥५३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तवाज्ञया यद् अनुष्ठेयम्, तवाज्ञयेत्य् अस्य परेण वान्वयः । त्वदाज्ञया चैतं हृदं परित्यज्य पूर्व-स्थानं गतानाम् अप्य् अस्माकं श्री-गरुडादिभ्यो भयं न भवितैवेत्य् आहुः—यद् इति । यद् यस्मात् तवाज्ञयानुटिष्ठन् कर्म कुर्वन् यद् अनुष्ठेयम् इति वा । वै प्रसिद्धौ, सर्वतः सर्वस्माद् अपि सर्वत्रापि वा । यद् वा, सर्वतो भयान् मुच्यत इति वैकुण्ठ-लोक-प्राप्तिर् एवाभिप्रेता ॥५३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तवाज्ञया यद् अनुष्ठेयं विधेयं तत् किङ्करीः प्रति समादिश यद् वा, तवाज्ञयेव तव किङ्करीणां सतीनाम् अस्माकम् अनुष्ठेयं तवाज्ञयेत्य् अस्य परेणान्वयः । यद् यस्मात् तवाज्ञया अनुतिष्ठन् कर्म कुर्वन् यद् अनुष्ठेयम् इति वा । वै प्रसिद्धो, सर्वतः सर्वस्माद् अपि सर्वत्रापि वा । यद् वा, सर्वतो भयात् मुच्यते इति भगवल् लोक-प्राप्तिर् एवाभिप्रेता ॥५३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवत्वयं युष्मभ्यं पतिर् दत्त एव किन्तु यन्-मयादिश्यते तत् कर्तव्यम् इति तत्र स-सम्भ्रमम् अवश्यम् एवेत्य् आहुः—विधेहीति । तच् इतः-स्थानाद् अन्यत्र शीघ्रं यातेत्य् अग्रे व्यक्ती-भविष्यति ॥५३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, दण्डोऽयं वः पतिः किन्तु मद् आज्ञायां स्थेयम् इति चेत् तत्र ससम्भ्रमम् अवश्यम् एवेत्य् आहुः—विधेहीति । तच् चेतः स्थानात् शीघ्रं यातेत्य् उपरिष्टात् स्पष्टी-भाविः ॥५३॥


॥ १०.१६.५४ ॥

श्री-शुक उवाच

इत्थं स नाग-पत्नीभिर् भगवान् समभिष्टुतः ।

मूर्च्छितं भग्न-शिरसं विससर्जाङ्घ्रि-कुट्टनैः30

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्घ्रि-कुट्टनैः पाद-मर्दनैः ॥५४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स स्तुति-मात्रपीतः श्री-वृन्दावन-स्वछन्द-सुख-क्रीडा-रसिको वा । यद् वा, परम-दुःख-कातरो भगवान् श्री-कृष्णोङ्घभ्यां कुट्टनैः प्रहारैर् भग्न-शिरसम्, अत एव मूर्च्छितं तज्याज, यद्यपि स इत्य्-आदिकं विसर्जने हेतुर् विभाति, तथाप्य् एतद् विशेषण-द्वयं तद्-दुष्टता-सम्यग् अपगम-बोधनार्थम् ॥ किं वा, अग्रे वक्ष्यमाण-कृप-विशेषार्थः, मूर्च्छतेः समुच्चयार्थत्वात् । यद् वा, लब्धानन्द-मोहम् इत्य् अर्थः । नाग-पत्नीभिर् इत्य् अस्यायं भावः—निज-दयालुत्वादिना तद्-दुखः-दृष्ट्यापि स्वतः प्रसन्नो\ऽपि तासां स्तुत्य् आधिकं सन्तुष्ट इति । प्रेम-विशेष-विस्तारणार्थैतद् अवतारे तद् अनुरूप-भावा योषितः प्रति प्रायः31 प्रसाद-विशेषात् । एतच् च प्रथम-स्कन्धम् आरभ्य पौरवेन्द्र-पुरन्ध्यादि32-स्तुत्य्-आदिना व्यक्तम् एव । अत-एवात्र सम्यक् अभितः स्तुत इत्य् उक्तम् ॥५४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स स्तुति-मात्र-प्रीतः श्री-वृन्दावन-स्वच्छन्द-क्रीडा-रसिको वा । यद् वा, पर-दुःख-कारतो भगवान् श्री-कृष्णः अङ्घ्रिभ्यां कुट्टनैः प्रहारैर् भग्न-शिरसम् अत एव मूर्च्छितं तत्याज ॥५४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अङ्घ्रिभ्यां कुटुनैः प्रहारैर् भग्न-शिरसं कालियं तत्याज तच्-छीर्षेभ्यः सहसैवावप्लुत्य तद्-अग्रे तस्थाव् इत्य् अर्थः ॥५४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विससर्जेति । सहसैव तन्-मूर्धन्योऽवप्लुत्य तद् अग्रे तस्थाव् इत्य् अर्थः ॥५४॥


॥ १०.१६.५५ ॥

प्रतिलब्धेन्द्रिय-प्राणः कालियः शनकैर् हरिम् ।

कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतिलब्धेद्रिय-प्राणः त्यक्त-मूर्च्छःकृताञ्जलिर् इति सर्वाङ्ग-व्यथावत्वाद् दण्डवद्-भूमौ निपत्य प्रणामासमर्थ इति ॥५५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विसर्जनेनानन्द-मूर्च्छापगमात् प्रति-लब्धेन्द्रियादि-वृत्तिर् इति, तत्त्वार्थः । निज-दुर्मदादि-दोषं हरतिति हरिम्, यतः कृष्णं साक्षाद् भगवन्तं कृपा-विशेषेण मनोहरं परमानन्दं चेति तत्त्वार्थः । एवम् अन्यद् अपि ऊह्यम् । दीनो गताभिमान आर्तो वा । अत-एवाशक्त्या पत्नीवन् न प्रणनामेति ज्ञेयम् । प्रकृष्टम् आहेति—भगवत्य् एव निज-दोषावर्जनात्, तच् चाग्रे व्यक्तं भावि ॥५५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निज-दुर्मदादि-दोषं हरतीति हरिं यतः कृष्णं साक्षात् भगवन्तं दीनश्चार्तः गताभिमानो वा, आर्तत्वाद् एवाशक्त्या पत्नीवन् न दण्डवत् प्राणनम् इति ज्ञेयं प्रकृष्टं दीन-जनानां वक्तुम् उचितम् आहेति अतो भगवति निज-दोषारोपणम् इति यत् करिष्यते तद् अपि दैन्येनैव स्वस्य तद् अधीनतायाम् एव तात्पर्यात् ॥५५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृच्छ्राद् इति कष्टाद् एव कथञ्चित् कृताञ्जलिः सर्वाङ्ग-व्यथावत्त्वात् न तु भूमौ दण्डवन् निपत्य प्रणाम-समर्थ इति भावः ॥५५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कृच्छ्रात् कष्टाद् एव कृताञ्जलिः कुट्टनैर् अतिव्यथित-गात्रत्वात् साष्टाङ्गं प्रणामं कर्तुम् असमर्थ इति भावः ॥५५॥


॥ १०.१६.५६ ॥

कालिय उवाच—

वयं खलाः सहोत्पत्त्या तामसा दीर्घ-मन्यवः ।

स्वभावो दुस्त्यजो नाथ लोकानां यद् असद्-ग्रहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् असद्-ग्रह इति । यतः स्वभावोऽसद्-ग्रह-रूपः । यद् वा, यतः स्वभावाद् असति देहादौ ग्रहः स दुस्त्यज इति ॥५६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असतां ग्रह इव बन्धकारी मिथ्या-हठ-रूप इति वा । स्वभावः स्वजाति-धर्मः । स्वभावस्य दुराग्रह-रूपत्वम् असम्भवं मत्वार्थान्तरम् आह—यद् वेति । यो ग्रहो ब्रह्मणोऽहम् इत्य् आद्यभिनिवेशः । हे नाथ हे ईश्वर तम् अपि त्वं खण्डयितुं समर्थ इति भावः ॥५६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दीनत्वेनान्यत् स्वयं रचयित्वा वक्तुम् अशक्नुवन् स्व-पत्नीभ्यः श्रुतार्थम् एव । किं वा, तासां तादृशोक्त्यैव प्रसन्नं मत्वा तथैवाह-वयम् इति चतुर्भिः । उत्पत्त्या सह जाति-स्वभावेनैवेत्य् अर्थः । नाथ हे ईश्वर ! इति त्वद् विहित एव स्वभाव इति भावः ॥५६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथवाह—वयम् इति चतुर्भिः । उत्पत्त्या सहज-जाति-स्वभावेनैवेत्य् अर्थः । नाथ, हे ईश्वरेति तम् अपि त्वं खण्डयितुं समर्थोसीति भावः ॥५६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यतो विरुद्धत्वेन ज्ञातस्यापि रागद्वेषादेर् ग्रहो ग्रहणं विदुषाम् अपि किं पुनर् मूडानाम् अस्माकम् इति भावः ॥५६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उत्पत्या सह जाति-स्वाभावेनैवेत्य् अर्थः । यद् यस्मात् स्वभावाद् असतो रागद्वेषादेर् ग्रहो विदुषाम् अपि भवति का कथा अस्माकं मूडानाम् इति भावः ॥५६॥


॥ १०.१६.५७ ॥

त्वया सृष्टम् इदं विश्वं धातर् गुण-विसर्जनम् ।

नाना-स्वभाव-वीर्यौजो-योनि-बीजाशयाकृति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणैर् विविधतया सृज्यत इति गुण-विसर्जनम् । तत्रापि नाना-स्वभावादयो यस्य तत् ॥५७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रापि गुण-विसर्गत्वेऽपि । नाना-स्वभावा अग्नेर् ऊर्ध्व-ज्वलनम् वायोस् तिर्यग् गमनम् इत्य् एवम् आकाराः । नाना-वीर्याणि मनुष्येऽन्यद्धस्तिन्यन्यद् इत्य् एवम् । ओजोऽवष्टम्भः, बीजं शुक्लादि, आशयोऽभिप्रायः, आकृतिर् आकार एते नानाविधा यत्र सन्ति तद् इत्य् अर्थः ॥५७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति त्वयेति सार्धेन । ननु, श्री-ब्रह्मणा सृज्यते, न तु मयेत्य् आशङ्क्याह—हे धातर् इति । त्वम् एव तद् रूपेण सृजसीति स्वभावः शान्तत्वादिः, वीर्योजसोर् देहेन्द्रिय-शक्ति-भेदेन भेदः, योनि-बीजयोश् च मातृत्व-पितृत्व-भेदेन33, आशयो वासना, आकृतिः रूपम्34 ॥५७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति—त्वयेति सार्धेन । ननु, ब्रह्मणा सृज्यते न तु मयेत्य् आशङ्क्याह—हे धातर् इति । त्वम् एव तद् रूपेण स्ऋजसीति भावः । स्वाभावः शान्तत्वादिः वीर्यौजसोर् देहेन्द्रिय-शक्ति-भेदेन भेदः योनि-बीजयोर् माता-पितृ-भेदेन आशयो वासना आकृतिः रूपम् ॥५७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो गुणै विविधं सर्जनं सृष्टि यत्र तत् विविधत्वम् आह—नाना स्वभावादयो यस्य तत् ॥५७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गुनैर्स् त्वद् अधीनैर् विविधतया सृज्यत इति गुण-विसर्जनम् इदं विश्वं तत्रापि नाना-स्वभावदयो यस्य तत् स्वभावः शन्तत्वादि वीर्यौजसोः शरीरेन्द्रिय-शक्ति-भेदाद्-भेदः योनि-बीजयोस्तु माता-पीतृ-भेदात् आशयो वासना आकृतिः रूपम् ॥५७॥


॥ १०.१६.५८ ॥

वयं च तत्र भगवन् सर्पा जात्य्-उरु-मन्यवः ।

कथं त्यजामस् त्वन्-मायां दुस्त्यजां मोहिताः स्वयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जात्या जन्मनैवोरुर् मन्युर् येषां ते वयं स्वयं कथं त्यजामः ॥५८

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र विश्वस्मिन् । त्वन् मायाम् क्रोधादि-रूपेण परिणताम् ॥५८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवन् हे सर्वेश्वर ! इति स्व-कर्मणैव सर्पा इति पक्षी निरस्तः-कर्मणाम् अपीश्वरत्वात् । यद् वा, द्वे परम-स्वतन्त्र ! इति कर्मादिनाम् अपि त्वद् अधीनत्वान् निजेच्छा-मात्रेणैव वयम् ईदृशा विहिताः, तत्र किं वक्तुं वराका वयं शक्नुम इति भावः । यद् वा, हे अनुलघ्य-शासन ! इति, अत उरु-मन्युमयीं त्वन् मायां कथं त्यक्तुं शक्नुम इत्य् अर्थः । स्वयम् इति यदि तां त्वया त्यज्यामहे, तद् एव ग्यागः सम्भवतीत्य् अर्थः । ननु, तत् त्यागाय मद् भजनोपायश् चिन्त्यताम्, तत्राह-मोहितास् त्वन् माययैव । यद् वा, स्वयं तयैव मोहिता इति ॥५८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवन् ! सर्वेश्वरेति स्व-कर्मणा एव सर्पा इति पक्ष निरस्तः कर्मणाम् अपीश्वरत्वात् तस्माद् अस्वातन्त्र्येणैवाम् अपराधो जात इति भावः । अतः कथम् इत्य् अन्यैर् अपि दुस्त्यजाम् ॥५८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं कालिये निःसारिते सद्य एव यमुना शुद्धासीद् इत्य् आह—तदैव सेत्य्-आदि । सा यमुना तदैवामृत-जलाभवत् । कुतः ? भगवतः श्री-कृष्णस्यानुग्रहात् । भगवत्-स्वरूपम् आह—क्रीडा-मनुज-रूपिणः । क्रिडा लीला च मनुज-रूपः नराकृतिश् च ते अस्य स्त इति नित्य-योगे इन्, नित्य-लीलो नित्य-मनुजाकृतिश् च यस् तस्येत्य् अर्थः नराकृति परं ब्रह्म इत्य्-आदि-उक्तेः । नराकृतित्वं द्विभुजत्वम् । द्वन्द-समासादि-षट्के वलयीत्य्-आदिवत् नित्य-योगेऽतिशायने संसर्गे च विवक्षायां मत्वाद्वयो भवन्त्यमी ति दुर्गः ॥५८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जात्या जन्मनैव बहु-कोपाः ॥५८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जात्या जन्मनैर् वोरुर् महान् मन्युर् येषां ते स्वयं कथं त्यजामः ॥५८॥


॥ १०.१६.५९ ॥

भवान् हि कारणं तत्र सर्व-ज्ञो जगद्-ईश्वरः ।

अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हि यस्मात् तत्र त्वन्-माया-त्यागे भवान् एव कारणम् इत्य् अनुग्रहं विधेहि ममाज्ञया खादन्तीति । ईश्वरत्वान् निग्रहं वा विधेहीति ॥५९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यन् मन्यसे तद् विधेहीति सम्वन्धः । अनुग्रहम् प्रसादम् । निग्रहम् दण्डम् । सर्वं निज-माया-वैभवादिकम् अस्माकं दैन्यादिकं च जानासीति सर्वज्ञ इत्य् अनुग्रहे हेतुः । जगदीश्वर इति, परम-स्वतन्त्र इति च निग्रहे । तथा च विष्णु-पुराणे यथाहं भवता सृष्टः [वि।पु ५.७.७०] इत्य्-आदि । यद् वा, सर्वज्ञ इति, निग्रहानुग्रहयोः कारणं वेत्सि, जगदीश्वर इति तयोर् एकं विधेहीति । सत्य् अपि निग्रह-कारणेऽनुग्रहम् अपि कर्तुं समर्थोसीति भावः ॥५९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति35-भवान् इति । कारणम् इति त्वया हेतुनैव सा त्याज्या स्याद् इति भावः । मन्यसे यम् इच्छसि, तम् एव विधेहीत्य् अर्थः । तत्र सर्व निज-माया-वैभवादिकम् अस्माकं च दैन्यादिकं जानातीति सर्वज्ञ इत्य् अनुग्रहे हेतुः, जगदीश्वरः परम-स्वतन्त्र इति च निग्रहे, तथा च श्री-विष्णु-पुराणे—यथाहं भवता सृष्टः [वि।पु ५.७.७०] इत्य्-आदि । अन्यत् तैर् व्यञ्जितम् । यद् वा, अतस् तत्र महद् अपराधे\ऽपि भवान् एव कारणम्, लज्जा-भयादिनापराध इति व्यक्तं न निर्दिष्टम्, तच् च त्व एव जानासीत्य् आह—सर्वज्ञ इति ॥ किं वा, किम् अन्यद्-वक्तव्यम्, सर्वं त्वम् एव जानासीत्य् अर्थः । जगताम् ईश्वरः, अतो\ऽयोग्येष्व् अपि निग्रहं कर्तुम् अर्हसीति भावः । अतो यं मन्यसे कर्तुम् इच्छसि, तद् इति तम् । यद् वा, यद् अन्यद् वा मन्यसे, तद् एवास्मान् प्रति विधेहि, तत्रास्माकम् इच्छया किं भवेद् इति भावः ॥५९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वयं त्याग-शक्तौ हेतुः भवान् इति त्वया हेतुना एव सा त्याज्या स्याद् इत्य् अर्थः । मन्यसे त्वम् इच्छसि तम् एव विधेहीत्य् अर्थः । तत्र सर्वं निज-माया-वैभवादिकम् अस्माकं च दैन्यादिकं जानासीति सर्व-ज्ञः इत्य् अनुग्रहे हेतुः जगद्-ईश्वरः परम-स्वतन्त्र इति च निग्रहे तथा च विष्णु-पुराणे यथाहं भवता सृष्टः [वि।पु ५.७.७०] इत्य्-आदि अन्यत् तैः ।

यद् वा, सर्वज्ञ इत्य् अनुग्रह-निग्रहयोः कारणं वेत्सि जगद्-ईश्वर इति तयोर् एकं विधेहीति वाक्यार्थः तत्र च जगदीश्वर इति सत्य् अपि निग्रह-कारणे अनुग्रहम् अपि कर्तुं शक्नोषीति भावः ॥५९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र मायात्यागे ॥५९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्र माया-त्यागे ॥५९॥


॥ १०.१६.६० ॥

श्री-शुक उवाच—

इत्य् आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः ।

नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।

स्व-ज्ञात्य्-अपत्य-दाराढ्यो गो-नृभिर् भुज्यतां नदी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो गोभिर् नृभिश् च नदी भुज्यत इति ॥६०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कार्य-मानुषो देव-कार्यार्थं धृत-नर-देहः । अत्र यमुना-ह्रदे । सार्धेनान्वयः । कार्यं जगद्-धितं तद्-अर्थं स्वेन मानुष-रूपेण प्रकटो यो भगवान् । यद् वा, कार्यं क्रीडा लीला, तयैव मानुषो, न तु तद्वद् भौतिक-देह-विषत्वेनेत्य् अर्थः । यद् वा, कार्या निज-प्रेम-भक्ति-विस्तरणादिना सम्पाद्या मानुषा येन मानुषेष्व् अवतारेण तेषाम् एव प्राधान्यात् । अतस् तस्य मूल-स्थाने श्री-वृन्डवने सर्पाणां स्थितिर् अनुचितेति भावः । यद् वा, काद् ब्रह्मणो\ऽप्य् आर्याः पूज्यतमा मानुषाः श्री-नन्दादयो यस्य सः । एवं तेषां सुखार्थम् इति भावः । हे सर्प ! इति तत्र स्थित्य्-अयोग्यत्वं याने समर्थत्वं चाह ॥६०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् आकर्ण्य इति । मया यद् आदिश्यते तद् अनेनावश्यं कार्यम् इति तद् अभिप्रायं ज्ञात्वेत्य् अर्थः । यद् वा, इति ईदृशं दैन्याद् अनुगृहीतं वचः कार्यं जगद्-धितं तद् अर्थं मानुष-रूपेण प्रकटो यो भगवान् । यद् वा, कार्या निज-प्रेम-भक्ति-विस्तारणेन सम्पाद्या मानुषा येन, मनुष्यत्वं हि श्री-भगवत् प्रेम-भक्त्यैव सम्पद्यते, अत एव देवानाम् अपि तद्-दुर्लभं प्रार्थ्यं च पूर्वं प्रायः प्रेम-भक्त्य्-अभावे न मनुष्यत्वं न वृत्तम् इव, अधुना श्री-भगवता तत् सम्पाद्यम् इत्य् अर्थः । अतस् तस्य मूल-स्थाने श्री-वृन्दावने सर्पाणां स्थितिर् अनुचितेति भावः ।

यद् वा, कात् ब्रह्मणो\ऽपि आर्याः पूज्यतमा मानुषाः श्री-नन्दादयो यस्य सः । एवं तेषां सुखार्थम् इति भावः । हे सर्प ! इति तत्र स्थित्य्-अयोग्यतां याने शक्तिञ् च दर्शयति । अत एव स्वस्य ज्ञात्य्-आदिभिर् युक्त इति स्व-शब्देन तेषां तादृशं दुर्विषमयत्वं तद्-अधीनत्वं च सूचितम् । त्वम् इति पाठे\ऽपि तस्य महा-दुष्टत्वादि-सूचनेन स एवार्थो\ऽभिप्रेतः । नदी प्रवाहवती श्री-यमुनेति त्वद्-अवस्थित्या लोकानाम् अपकारः स्याद् इति भावः ॥६०.६१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् आकर्ण्य इत्य् अर्धकम् । मया यद् अदिश्यते तद् अनेनावश्यं कार्यम् इति तद्-उक्त्य्-अभिप्रायं ज्ञात्वेत्य् अर्थः । कार्यं जगद्-धितं तद्-अर्थं स्वेन मानुष-स्वरूपेण प्रकटो यो भगवान् । यद् वा, कार्यं क्रीडा-मनुष्य-लीलयैव मानुषः ।

न तु, तद्वद् भौतिक-देह-विशेषत्वेनेत्य् अर्थः । यद् वा, कार्याः निज-प्रेम-भक्ति-विस्तारणादिना सम्पाद्या मानुषा येन मानुषेष्व् अवतारेण तेषाम् एव प्राधान्यात् अतस् तस्य मूल-स्थाने श्री-वृन्दावने सर्पाणां स्थितिर् अनुचितेति भावः ।

यद् वा, कात् ब्रह्मणापि आर्याः पूज्यतमा मानुषाः श्री-नन्दादयोः यस्य सः एवं तेषां सुखार्थम् इति भावः । हे सर्पेति तत्र स्थित्य् अयोग्यतां याने च शक्ति दर्शयति अत एव स्वस्य ज्ञात्य्-आदिभिर् युक्त इति स्व-शब्देन तेषां तादृश-दुर्विषमयत्वं तद् अधीनत्वं च सूचितम् ॥६०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कार्यं क्रीडा मनुष्य-लीला तयैव मानुषो न तु तद्वद् भौतिक-देह-विशेषत्वेनापीत्य् अर्थः ॥६०.६७॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कार्येषु ब्रह्म-रुद्रादि-दुष्करेष्व् अपि कालिय-निग्रहादि-कर्मसु मानुष एव, न तु तत्-तत्-कृत्य-समुचित-चक्र-पाण्य्-आदि-रूप इत्य् अर्थः । यद् वा, कार्यं क्रीडा लिला तेनैव मानुषः लीला-मय-मानुष-स्वरूप इत्य् अर्थः । यद् वा, कस्य ब्रह्मणोऽप्य् आर्यश् चासौ मानुषश् चेति सः । यद् वा, कार्यं मानुषस्येव यस्य सः, यदो गोभिर् नृभिश्नदी भुज्यते तट-प्रवाह-गत-घास-पत्र-फल-जलानां भोगौचित्यात् ॥६०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : इत्य् आकर्ण्येत्य् अर्धकम् । मद् उक्तमयं करिष्यत्येवेति तद् उक्ति-भावं विज्ञातेत्य् अर्थः । कार्यं लीला-मानुषेषु यस्य सः तेषां सुखायेति भावः । यद् वा, कार्याः स्व-प्रेम-वैशिष्टयेन सम्पाद्य मानुषा येन सः तेष्व् अवतारेण तेषाम् एव प्राधान्यात् ॥६०॥


॥ १०.१६.६१ ॥

य एतत् संस्मरेन् मर्त्यस् तुभ्यं मद्-अनुशासनम् ।

कीर्तयन्न् उभयोः सन्ध्योर् न युष्मद् भयम् आप्नुयात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न युष्मत्तो भयम् आप्नुयात् । तस्य युष्माभिर् भयं नोत्पादनीयम् इत्य् आज्ञा ॥६१.६२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-शब्देन तेषां तादृश-दुर्विषमयत्वं तद् अधीनत्वं च सूचितम्, यतो गवादिभिर् भुज्यते, न तु सर्पैर् अतस् त्वं याहीति पूर्वेण संबन्धः । मत्तोऽनुशासनं शिक्षा दण्डोऽयत्राध्याये तं मद् अनुशासनम्सन्ध्योः सन्ध्ययोः । सायं प्रातर् इत्य् अर्थः । तव पाद-स्पर्शे मम च दण्डे इत्य् आवयोः कीर्तिर् आचन्द्रार्कं स्थास्यतीत्य्—आह य इति । युष्मद् ब्हयम् आप्नुयाद् इति तेन पद्य-द्वयम् इदं सर्पोच्चाटन-मन्त्र एव ज्ञेयः । तथा चर्ग्वेदस्य मन्त्रान्तरम्

यमुना ह्रदे हि सो यातो यो नारायण-वाहनः ।

यदि कालि-कन्दतस्य यदि काकालिकाद् भयम् ॥

जन्म-भूमि-परिक्रान्तो निर्विषे याति कालिकः । इति ।

इतोऽप्य् अस्माद् अपि हेतोः । ममासमन्तान् क्रीडा यत्र तस्मिन् हृदे । आदिना ऋषि-पित्रादयो ज्ञेयाः । इति भाव इति । तवात्र स्थितौ पूर्ववत् कोऽपि नायास्यति स्नानादि तु दूरापास् तम् इत्य् अर्थः ॥६१.६२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वां प्रति मम अनुशासनं नात्र स्थेयम् इत्य्-आदि-लक्षणम् अपि, अस्तु तावद् अत्र क्रीडादिकं सन्ध्योः सन्ध्ययोः कीर्तयन् यः संस्मरेत् कीर्तयन् यो भवतीति वा । यद् वा, ग्रीष्म-वर्षा-सन्धौ विलतः प्रथम-निर्गम-समये वर्षा-शीत-सन्धौ च तत्र प्रवेश-समये क्षधार्त्या क्रुद्धेभ्यः सर्पेभ्यो भय-विशेषो भवतीति तद् अपेक्षया तयोर् अपि न भयम् आप्नुयाद् इत्य् उक्तम् ॥६१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वं प्रति मद् अनुशासनं नात्र स्थेयम् इत्य्-आदि-लक्षणम् अप्य् अस्तु तावद् अत्र क्रीडादिकं सन्ध्योः सन्ध्ययोः कीर्तयन् यः स्मरेत् तद् एवं नात्रेत्य् आदिपद्य-द्वयं सर्पोच्चाटने मन्त्र एव ज्ञेयः तथा च ऋग्-वेदस्थ-मन्त्रान्तरं

यमुना-हृदे हि सो जातो यो नारायण-वाहनः ।

यदि कालिक-दूतस्य यदि काः कालिकाद् भयं ।

जन्म-भूमि-परिक्रान्तो निर्विषो याति कालिकः ॥ इति ॥६१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तव मत् पाद-स्पर्शं मम च त्वद् दण्ड इत्य् आवयोः कीर्तिर् आचन्द्रार्कं स्थास्यतीत्य् आह—य इति । युष्मत्तो भयम् आप्नुयाद् इति तेन पद्य-द्वयम् इदं सर्पोच्चाटने मन्त्र एव ज्ञेयः । तथा च ऋग्-वेदस्य मन्त्रान्तरं

यमुमा-हृदे हि सो यातो यो नारायण-वाहनः ।

यदि कालिक-दन्तस्य यदि काकलिकाद् भयम् ।

जन्म-भूमि-परित्रातो निर्विषो याति कालिकः ॥ इति ॥६१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यतो गोभिर् नृभिश् च नदी भुज्यते तट-प्रवाह-गत-तृण-फल-जलानां भोगौचित्यात् ॥६१॥


॥ १०.१६.६२ ॥

योऽस्मिन् स्नात्वा मद्-आक्रीडे देवादींस् तर्पयेज् जलैः ।

उपोष्य मां स्मरन्न् अर्चेत् सर्व-पापैः प्रमुच्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इतोऽपि त्वया निर्गन्तव्यम् इत्य् आह—योऽस्मिन्न् इति । त्वयि स्थिते तन् न सम्भवतीति भावः ॥६२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्व श्लोकस्य व्याख्या द्रष्टव्य ।

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, दुष्टानाम् अस्माकं सङ्ग-दोषेण हृदो\ऽयं दुष्टताम् इव गतो\ऽस्ति कथं गो-नृभिर् भुज्यताम् इत्य् आशङ्क्य—तच् छोधनाय वरे तस्मै प्रदत्ते—य इति । जलैस् तर्पयेद् इति-विधादि-दोषापगमः सूचितः । उपोष्य एकादश्यादाव् उपवासं कृत्वा मां चिन्तयन् अर्चयेत् स सर्वैत्रिविधैः पापैः प्रकर्षेण वासना-राहित्येन मुच्च्यते । यद् वा, स सर्वैः पापैर् मद्-विमुख-जनैः प्रमुच्यते, अवैष्णव-दर्शनादिकं तस्य न स्याद् इत्य् अर्थः ॥६२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जलैस् तर्पयेद् इति विषापगमः सूचितः उपोष्य तीर्थोपवासं कृत्वा मां चिन्तयन् अर्चयेत् स सर्वैस् त्रिविधैः पापैः प्रकर्षेण वासना-राहित्येन मुच्यते ॥६२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इतोऽपि हेतोस् त्वया निर्गन्तव्यम् एवेत्य् आह—योऽस्मिन्न् इति । त्वयि स्थिते तन् न सम्भवतीति भावः ॥६२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तव सच्-चरण-स्पर्शे मम च त्वद् दण्ड इत्य् आवयोर् यशः सदा स्थास्यतीत्य् आह—य इति । न युस्मद् इति तेनेदं पद्य-द्वयं सर्पोच्चाटने मन्त्र-रूपं बोध्यम् ॥६२॥


॥ १०.१६.६३ ॥

द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः ।

यद्-भयात् स सुपर्णस् त्वां नाद्यान् मत्-पाद-लाञ्छितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न च तव गरुड-भयं भवेद् इत्य् आह—द्वीपम् इति ॥६३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य भयाभावं द्योतयति न चेति । यस्य सुपर्णस्य भयात् । नाद्यान् मा भक्षिष्यति, अपि तु मत्-पाद-चिह्नं दृष्ट्वा नंस्यतीति भावः ॥६३-६७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्वीपम् इति बृहत्त्वं बोधयति, रमयतीति रमणम् सञ्ज्ञायां कः इति सुखकारित्वं, एतच् च तत्-प्रोत्साहनर्थम् । एतं किञ्चिद् अधिकयो-जन-मात्रम्, तद्-दीपात् प्रामाणेन स्वल्पतरम् इत्य् अर्थः । उपश्रित इति नित्यावासत्वं निरस्तम् । नाद्यात् न भक्षयिष्यतीत्य् अर्थः, सम्भावनायां वा सप्तमी, स्वयम् एव न खादेद् इत्य् अर्थः । कुतः ? मत्-पादेन लाञ्छितं मूर्धसु चक्र-चिह्नैः शाभितम् इत्य् अर्थः । तच् च पूर्वम् एव नृत्य-गति-विलासेन । किं वा, अधुनैव प्रसादी-कृतम् ॥६३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रमयतीति रमणं संज्ञायां कन् इति सूखकारित्वं एतच् च तत् प्रोत्साहनार्थम् एतं किञ्चिद् अधिक-योजन-मात्रं तद् द्वीपात् प्रमाणेन स्वल्पतरम् इत्य् अर्थः । उपाश्रित इति नित्यावासत्वं निरस्तं नाद्यात् नात्तुं शक्नुयात् यतः मत् पादेति तच् च पूर्वम् एव नृत्यगति-विलासेन किम् वाधुनैव प्रसादी-कृतम् ॥६३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च ते गरुडाद् भयं भावीत्य् आह—द्वीपम् इति ॥६३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : इतोऽपि हेतोस् त्वया निर्यातव्यम् इत्य्—आह योऽस्मिन्न् इति । त्वयि स्थिते तन् न सम्भवेद् इति भावः ॥६३॥


॥ १०.१६.६४ ॥

श्री-शुक उवाच

मुक्तो भगवता राजन् कृष्णेनाद्भुत-कर्मणा ।

तं पूजयाम् आस मुदा नाग-पत्न्यश् च सादरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तो नाद्यादित्य् एवम् उक्तः । तं श्री-कृष्णम् । अद्भुत-कर्मणेति । कालियाद्-व्रजस्थ-जीवस्य त्राणं कालियस्यापि गरुडात् त्राणम् इति हिंस्य-हिंसकयोर् उभयोर् अपि कल्याणाम् इत्य् अद्भुतं कर्म । कृष्णेनेति स्व-भक्त-गरुडापराधस्य स्व-प्रिय-व्रजस्थ-जीवापराधस्य च कर्षणं परम-भक्त-कालिय-पत्नीप्रीत्य् अनुरोधात् कृतम् इति भावः । सादरम् इति । हे प्रभो दुष्टतायाः परमावधि-रूपे मयि कृपायाः परमावधिर् अर्पितस् त्वया प्रकृताप्राकृत-लोकेषु मद् अन्यः कोऽपि ध्वज-वज्राङ्कुशादि-चिह्नानि स्व-मूर्ध्नि न धत्ते, तद् अहं साम्प्रतं श्री-मद् अङ्गानि मद् दत्त-दंशोत्थ-विष-तापतप्तानि सुगन्ध-शितल-चन्दन-रसेन स-स्त्रीक एव पाणिभिः स्पृशन् लिम्पानि, ततोऽत्र दिव्यासने क्षणम् उपविशेत्य् उपवेश्य स्वाभीष्टं पूरयित्वा लब्ध-भगवत् प्रसादो निर्जगाम् एत्य् आह—दिव्येति सार्ध-द्वयेन ॥६४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुक्तो मूर्धतो\ऽवतरेण परित्यक्तः । यद् वा, विससर्जेति पूर्वम् एव मुक्तो\ऽस्ति, तद् अनुवाद-मात्रम् । अद्भुत-कर्मणेति निर्वासन-दमनादिना निगृहीततया प्रसिद्धो\ऽप्य् आसौ निज-पूर्व-सुख-वसति-स्थानं प्राप । यद् भयात् स्थानं तत्याज तद् अपगतम्, विशेषतश् च श्री-वैष्णवाग्र्यस्य तस्य सख्यं सम्मान्यत्वं च श्री-भगवत् पादाब्ज-चिह्नितो जातम्, किं च, ब्रह्मादि-सेव्य-लक्ष्मी-प्रार्थ्य-तत्-पादाब्ज-रेणुभिस् तादृश –नृत्य-लीलया पर्याचिताः सर्वे मूर्धानः सफला बभूवुः, तत्र च सर्वे फणास् तन् नृत्य-गङ्ग-स्थलाः प्रत्य् एकं वृत्ताः । श्री-ब्रह्माद्य् अपेक्ष्य श्री-भगवद् अनुशासनं लब्धम्, तेन च साक्षात् तन्-मधुर-वचनामृतं पीतम्, पश्चात् परम-भक्तवत् पूजादिकं च कृतम्, इत्थं बहिर् दृष्ट्या निग्रहस्याप्य् अनुग्रह-विशेषे क्रोधस्यापि परम-प्रसाद एव पर्यवसानात् । अपि च तादृशापराधिनो\ऽपि तत्र च दमितस्यैव सतो हृदा शरणागति-मात्रेण तादृशानुग्रहात्, किं च, श्री-वृन्दावने यमुना-तीरे सर्वत्र व्रज-जनैः सह स्वच्छन्द-सुख-क्रीडार्थं ततो निःसार्यस्यापि तस्य श्री-वृन्दावनाश्रितस्य निःसारणं साधुनाम् असम्मतम् इति तस्य सहज-दुष्टता-प्रदर्शनाय गो-गोपादीनां तद् विष-जल-पानेन तादृशावस्थायाः पर-दुःख-कारतस्यापि तस्य मूहूर्तं साक्षात् तद्-व्रज-जन-तादृश-दुःख-सहनात्, किं च—चलसि यद्-व्रजाच् चारयन् पशून् नलिन-सुन्दरं नाथ ते पदम् [भा।पु १०.३१.११] इत्य्-आदि-गीयमान-परम-सौकुमार्य-पादाब्ज-स्पर्शेन रत्न-निकराचित-तन् मूर्ध-वर्ग-चूर्णनात्, तथा तादृशैश्वर्य-प्रकटन-समये मुनि-सिद्धादि-साक्षाद् एव महा-नृत्य-कौतुकात्, तथापि परिभ्रमद् विलोलत् क्षण-गणेषु गति-कला-रक्षणम् इत्य्-आदिकम् अपि तस्यैवाद्भुत-कर्म त्वम् एवेति दिक् । अलम् अति-विस्तारेण ।

एतद् एव तस्य भगवत्त्वा-विशेष-प्रकटनम् इत्य् आह—भगवतेति । इदञ्चाशेषं सर्वज्ञत्वाच् छ्री-शुखदेवो\ऽवदद् इति श्री-ऋषिः सर्व-दर्शी । उवाचेति सूतोक्तिः । राजन् हे बुद्ध्यादिना प्रकाशमानेति, एतद् अद्भुत-कर्मत्व सहेतुकतया वुद्ध्यत एवेति भावः । यद् वा, राजन् श्री-भगवद् अनुग्रहेण सद्यो रुधिर-स्राव-ईडादि-निवृत्त्या तत्-पादाब्ज-स्पर्श-विशेषेण देह-शोभा-भव-सम्पत्त्या च द्योतमानः सन्न् इत्य् अर्थः । पूजयामास कालियः नाग-पत्न्यश् च इति पाठः स्पष्टः । मुदेति श्री-भगवत् तत् तद् अनुग्रहानुसन्धानात् पूजा-स्वभावाद् वा, सादरं स-प्रेमेति तासां भाव-विशेषोत्पत्तेः । अतस् तासां हस्तैर् एवाम्बरादि-परिधापनं गन्धानुलेपनं च ज्ञेयम् ॥६४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुक्त इति विससर्जेत्य् अस्यानुवाद-मात्रं एवम् उक्तो भगवतेति वा पाठः अद्भुत-कर्मणेति निज-पूर्व-सुखवसति-स्थानं प्राप यद् भयात् तत् स्थानं तत्याज तस्यात् तद् अपगं विशेषतश् च श्री-वैष्णवाग्रस्य तस्य सख्यं सम्मान्यत्वं च श्री-भगवत् पादाब्ज-चिह्नतो जातं ब्रह्मादि-सेव्यलक्ष्मी प्रार्थ्य-तत्-पादाब्ज-रेणुभिस् तादृशनृत्य-लीलया च पर्याचिताः सर्वे मूर्धानः सफला बभूवुः श्री-ब्रह्माद्य् अपेक्ष्यं श्री-भगवद् अनुशासनं लब्धम् । तेन च साक्षात् तन् मधुर-वचनामृतं पीतं पश्चात् परम-भक्तवत् पूजादिकं च कृतम् । इतीत्थं बहिर् दृष्ट्या निग्रहस्याप्य् अनुग्रह-विशेषत्वे क्रोधस्यापि परम-प्रसादत्व एव पर्यवसानात् । अपि च तादृशापराधिनोऽपि तत्र दमितस्यैव सतां हृदा शरणागति-मात्रेण तादृशानुग्रहात् चलसि यद्-ब्रजाच् चारयन् पशून् नलिन-सुन्दरं नाथ ते पदम् [भा।पु १०.३१.११] इत्य्-आदि-गीयमान-परम-सौकुमार्य-श्री-पादाब्ज-स्पर्शेन रत्न-निकराचित-तन् मूर्ध-वर्ग-चूर्णानात् तादृशैश्वर्य-प्रकटन-समये मुनि-सिद्धादि-श्री-गोपादि-साक्षाद् एव महा-नृत्य-कौतुकात् तत्रापि परिभ्रमद् विलोलत् फण-गणेषु गति-कला-रक्षणाच् चेति दिक् ।

एतच् च तस्य भगवत्ता-विशेष-प्रकटनम् इत्य् आह भगवतेति । इदं चाशेषं सर्वज्ञत्वात् श्री-शुक-देवोऽवदद् इति श्री-ऋषिः सर्व-दर्शी उवाचेति सूतोक्तिः राजन् हे बुद्ध्यादिना प्रकाशमानेति एतद् अद्भुत-कर्मत्वं सहेतुकं त्वया अवबुध्यत एवेति भावः । नागः कालियः मुदेति श्री-भगवत् तत् तद् अनुग्रहानुसन्धानात् सादरं सप्रेम अतस् तासां हस्तैर् एव गन्धानुलेपनादिकं ज्ञेयम् ॥६४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अद्भुत-कर्मणेति कालियाद् व्रज-स्थजी वस्य त्राणं कालियस्यापि गरुडात् त्राणम् इति हिंस्य-हिंसकयोर् उभयोर् अपि कल्याणम् इत्य् अद्भुतं कर्म कृष्णेनेति स्व-भक्त-गरुडापराधस्य च च कर्षणं परम-भक्त-कालिय-पत्नी-प्रीत्य् अनुरोधात् कृतम् इति भावः ॥६४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न च गरुडात् तव भयं भावीत्य् आह—द्वीपम् इति ॥६४॥


॥ १०.१६.६५ ॥

दिव्याम्बर-स्रङ्-मणिभिः परर्ध्यैर् अपि भूषणैः ।

दिव्य-गन्धानुलेपैश् च महत्योत्पलम् आलया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परार्ध्येः बहु-मूल्यैः । नाग-पत्न्यश् च जगन्नाथं श्री-कृष्णं पूजयामासुर् इति वचन-व्यत्यासेन योज्यम् । मणिभिर् इति । कृष्ण-प्रादुर्भाव-काले तद् वक्षस्स्थ एवासीद् यः कौस्तुभः स एव तस्य नर-लीलत्व-शोभा-व्यघाताभावार्थं तद् अलक्षितं कालिय-कोशागारे प्रविष्टोऽभूत् । अत एव बहु-रत्नालङ्कार-प्रदान-समये कालिय-पत्नीभिर् अप्रिचित एव स्वीय-रत्न-विशेष-ज्ञानेन कौस्तुभो दत्तः । तद् उक्तम्

कौस्तुभाख्यो मणिर् येन प्रविश्य ह्रदम् औरगम् ।

कालिय-प्रेयसी-वृन्द-हस्तैर् आत्मोपहारितम् ॥

इति गणोद्देश-दीपिकायाम् ॥६५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिव्येत्य्-आदि सार्ध-द्वयकम्36दिव्येत्य् आदि-विशेषणैर् मर्त-लोकीयतो वैशिष्टम्, । किं वा, तस्य सर्वस्व-सारार्पणम् अभिप्रेतम् ॥६५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दिव्येति सार्ध-द्वम् । दिव्येत्य् आदि-विशेषणैर् मर्त्य-लोकिकतो वैशिष्ट्यम् अत एव माल्यादीनां विष-दोषास्पर्शादिकं च ज्ञेयम् ॥६५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सादरम् इति पूर्व-श्लोकोक्तेर् । हे प्रभो ! दुष्टतायाः परमावधि-रूपे मयि कृपायाः परमावधिर् अर्पितं त्वया, यद् अहो प्राकृताप्राकृत-लोकेषु मद् अन्यः कोऽपि ध्वज-वज्राङ्कुशादि-चिह्नानि स्व-मूर्धिन न धत्ते तद् अहं साम्प्रतं श्री-मद् अङ्गानि मद् दन्त-दंशोत्पन्न-विष-दाह-तप्तानि सुगन्ध-सुशीतल-चन्दन-रसेन सस्त्रीक एव पाणिभिः स्पृशन्न्न् अनुलिम्पानि शृङ्गारजानि चेत्य् अतः क्षणम् अत्रैव दिव्यासने उपविशेत्य् उपवेश्य स्व-वाञ्छितं पूरयित्वा लब्ध-भगवत् प्रसादस् ततो निर्जगामेत्य् आह—दिव्येति सार्ध-द्वयेन । मणिभिर् इति कृष्ण-प्रादुर्भाव-काले तद् वक्षाः-स्थल एवासीत् यः कौस्तुभ स एव तस्य नर-लिलत्व-शोभा-व्यघाताभावार्थं तदैवालक्षितं कालिय-कोषागार-मध्ये प्रविष्टोऽभूत् अत एव बहु-रत्नालङ्कार-प्रदान-समये कालिय-पत्नीभिर् अपरिचित एव स्वीय-रत्न-विशेष-ज्ञानेन कौस्तुभो दत्तः यद् उक्तम् ।

कौस्तुमाख्यो मणिर् येन प्रविश्य हृदम् औरगम् ।

कालिय-प्रेयसी-वृन्द-हस्तैर् आत्मोपहारितः ॥ इति ।

गणोद्देश-दीपिकायां प्रसाद्येति भगवान् अपि कालि-मूर्ध-स्वभय-हस्त-तल-निधानेन तदीय-सर्वाङ्ग-व्यथाम् उपशमयामासेति भावः ॥६५.६७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अद्भुत-कर्मणेति कुसुम-सुकुमारयोः पादयोः स्पर्शेन रत्न-निकराचितानां मूर्द्द्नां चूर्णनात् परिभ्रम-विलोलेषु तेषु गति-कलाभिर् क्षणाच् च कालियाद् अव्रजस्य गरुडात् कालियस्य च परित्राणेन हिंस्य-हिंसकयोर् उभयोर् अपि मङ्गल-विधानाच् च ॥६५॥


॥ १०.१६.६६ ॥

पूजयित्वा जगन्-नाथं प्रसाद्य गरुड-ध्वजम् ।

ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः भगवत् पूजानन्तरम् । अब्धेद्वीपं रमणकम् प्रसाद्येति । भगवान् अपि-कालिय-मूर्ध-स्वभय-हस्त-तल-निधानेन तदीय-पर्वाङ्गार्तिमनाश-यद् इति भावः । गरुड-ध्वजं प्रसाद्येति । भो गरुड-वाहन प्रभो सम्प्रत्य् अहं गरुडस्य ज्येष्ठ-भ्रातृर् दासोऽभूवम् अतः कदाचिद्-दूर-देश-गमनेऽहम् अपि वाहनत्वेन स्मर्तव्यः, निमेष-मात्रेणैव शतकोटि-योजन-गामी दासानुदास इति तद् भक्तिर् गम्यते । अतः कालियारूढ एव कंस-निर्दिष्टः कृष्णो मथुरां जगामेति पुराणान्तरे कथा क्वचिद् छूयत इति ॥६६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूजयित्वेत्य् अनुवादः । यद् वा, प्रस्थानार्थं पुनः पुनः पूजयित्वा, जगतो नाथं पूजयित्वेऽपि तत्-पूजयैवेह लोके परत्र च जगति सर्वत्रैव स्वतो मङ्गलं वृत्तम् इति, तथा गरुढ-ध्वजं प्रसाद्येति तत् श्री-गरुडाद् अपि37 भयं समयङ्निवृत्तम्, तत्-प्रसादो\ऽपि सुतराम् अभूद्-रमणक-दीपे च शीघ्रं शुभ-गमनम् इति भावः । ततः पूजनन्तरम् एव, प्रीतः सन्तुष्ट-मनाः । यद् वा, तस्मिन् प्रीतो जगन्नाथे जट-प्रेमेत्य् अर्थः । यद्य् अपि तस्य गमनेन कलत्रादि-सहितस्यैव तस्य गमनं स्वत एवायाति, तथापि सकलत्रेति कलत्राणां श्री-भगवति भाव-विशेषम् आलक्ष्य तासां तत्-सम्बन्धेन पुत्रादीनाम् अपि तत्रावस्थितिम् आशङ्क्य तैः सहितः संहत्यैव जगाम—ज्ञात्य् अपत्य-दाराध्यः [भा।पु १०.१६.६१] इति श्री-भगवन् निदेशात् ॥६६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी): प्रायस् तेषां सङ्कल्प-सिद्धत्वं च जगतां नाथं पूजयित्वेति तत् पूजयैवेह लोके परत्र च जगति सर्वत्रैव स्वतो मङ्गलं वृत्तम् इति । गरुड-ध्वज प्रसाद्येति श्री-गरुडाद् अपि भयं निवृत्तम् इति भावः । प्रीतः सन्तुष्ट-मनाः यद् वा, तस्मिन् प्रीतः जात-प्रीतः यद्य् अपि तस्य गमनेन कलत्रादि-सहितस्यैव तस्य गमनं स्वत एवायाति तथापि सकलत्रेति ज्ञात्य् अपत्य-दऋआढ्य इति श्री-भगवन् निर्देशानुवर्तित्वं ज्ञापितम् ॥६६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गरुड-द्वजं प्रसाद्येति भो गरुड-वाहन ! प्रभो ! सम्प्रत्य् अहं गरुडस्य ज्येष्ठ-भ्रातुर् दासोऽभूवम् अतः कदाचिद् दूर-देशस्य गन्तव्यत्वे सत्य् अहम् अपि स्व-वाहनत्वेन स्मर्तव्यो निमेष-मात्रेणैव शत-कोटि-योजन-गामी दासानुदास इति तद् उक्तिर् गम्यते ॥६७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सादरम् इति पूर्वोक्तेः, हे भगवान् अतिदयालो ! चेद् ब्रह्मादि-दुर्लभानि स्वपाद-चिह्नानि मन्मूर्ध-स्वर्पितानि तर्हि अस्मतकरैर् मण्डनं स्वीकुर्विति दिव्यासने प्रभुमुपवेश्यालङ्कृत्य लब्ध-तत्-प्र्सादो हृदान् निर्जगामेत्य् आह—दिव्येति सार्धाभ्याम् । परार्धैर् अपि भूषणैर् इति जन्म-वेलायां यः कौस्तुभो वक्षस्यासीत् स एव कालिय-कोषे प्रवेश्यास्थात्, स च तत्-पत्नीभिः स्वरत्न-संसर्गेण प्रभवे निवेदित इत्य् आहुः—प्रसाद्येति । प्रसाद-वेलायां तन्-मूर्ध-स्वभय-हस्त-प्रदानेन तद्-व्यथायाः क्षतिर् आसीत् । गरुढ-ध्वजम् इति गरुडाद्-भयं च न्यवर्ततेति भावः ॥६६॥


॥ १०.१६.६७ ॥

स-कलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह ।

तदैव सामृत-जला यमुना निर्विषाभवत् ।

अनुग्रहाद् भगवतः क्रीडा-मानुष-रूपिणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदैव कालिय-निर्गमनावसरे सा यमुना अमृतम् इव स्वादु जलं यस्याः सा । तत्र हेतुः—निर्विषेति । यद् वा, अमृतं मोक्षकरं जलं यस्याः सा निर्गतं विषं विषवद् दुःख-हेतुः संसारो यया सा । तथा अमृतस्य विषनाशकत्व-प्रसिद्धेः न जलं यमुनावारि साक्षाद्-ब्रह्मैव केवलम् इत्य्-आदि-पुर्णाद्-ब्रह्म-ज्ञानवन् मोक्षदायिनीति भावः ॥६७॥ [अत्र विश्वनाथः]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : क्रीडा-मानुष-रूपिण इत्य् अस्यार्थः—क्रीडार्थम् । अमानुषा गोप-गोपी-प्रभृतयो यद् अवस्तान् रूपयितुं निरूपयितुं तत् तत् क्रीडायाम् अवधापयितुं शीलं यस्य स तथा तस्य ॥६७॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ह स्फुटम् एव, श्री-कालिन्दीतः कालियो नदी-वर्त्मना गङ्गया38 तत्-समुद्र-गमनस्य सर्वैर् एव साक्षाद् दर्शनात् । तदैव तस्मिन्न् एव क्षणे सा सर्वोपघातक-दुर्विषमय जलापि तत्र हृद-विशिष्टे-प्रदेशे निर्विषतापत्त्यैव तरस्या निर्विषत्वम् उक्तम्, न केवलं निर्विषा, अमृत-जला परमम् इष्टतोया च संसार-दुःख-निवर्तक-जलापि वा अभवत्, भगवत्, भगवतो निज-भगवत्तां प्रकटयत इत्य् अर्थः । अतः क्रीडा-युक्तं क्रीडार्थं वा यन् मानुष-रूपं तद्वतः, अतस् तद् विचित्र-क्रीडा-सौभाग्यं सा प्राप्स्यतीति भावः । यद् वा, रूपं सौन्दर्यं क्रीडा-युक्त-मनुष्य-सौन्दर्यवत इत्य् अर्थः, अतो यमुनापि तद् अनुरूपैव युक्तेति भावः । यद् वा, क्रीडा-मानुषा व्रज-जनास् तान् एव रूपयितुं सुखयितुं शीलम् अस्येति तद् एक-प्रियता तस्य बोधिता, अतस् तेषां सुख-क्रीडार्थम् इति भावः ॥६७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी): ह स्फूटम् एव सा सर्वोपघातक-दुर्विषमय-जलापि तत्र हृद-विशिष्टे प्रदेशे निर्विषतापत्यैव तस्या निर्विषत्वम् उक्तम्, न केवल निर्विषा अमृत-जला परम-मिष्ट तोया च श्री-भगवच् चरण-संसर्गेण परमानन्द-प्रद-जलापि वाभवत् तादृशं च सामर्थ्यं तस्य न किञ्चिद् अपीत्य् आह—भगवत इति । तत्र प्रयोजनं क्रीडेति क्रीडा-युक्तश् चासौ प्रसिद्ध-मानुषस्य् एव यद् रूपम् आकारस् तद् विद्यते यस्य स च तस्य तया च सा स्व-मानुष्य-लीलौपयिको स्याद् इति भावेनेत्य् अर्थः ॥६७॥

क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः- न व्याख्यातम्**।**

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत कालिया-रूढ एवं कंस-निर्दिष्टः कृष्णो मथुरां जगामेति पौराणिकी कथा क्वचित् श्रूयते इति क्रीडा-मानुष-रूपिण इति निति योगे इनिः ॥६७॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

दशमेऽस्मिन् षोडशः सङ्गतः सङ्गतः सताम् ॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यमुना निर्विषेति यद्यपि हृदो निर्विषस् तथापि तस्य यामुनत्वात् तद्-धर्मस् तस्याम् उच्यते इति बोध्यं क्रोडा-प्रधानो मानुष-रूपीति नित्य-योगे मतुत्व्-अर्थीयः मानुषस्य् एव रूपम् आङ्ग-संस्थान-सौष्टव-लक्षणं सौन्दर्यं यस्यास्ति तस्य ॥६७॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे कालिय-मोक्षणं

नाम षोदशोऽध्यायः ।

॥१६॥


(१०.१७)


  1. दुस्तरं इत्य् आकरे। ↩︎

  2. हरिवंशे न प्राप्तम्। ↩︎

  3. अन्विच्छन्तो ↩︎

  4. श्लिष्टानि ↩︎

  5. प्रविष्टां ↩︎

  6. कृतं ↩︎

  7. सर्वा यशोदया सार्धं विशामोऽत्र महा-ह्रदम् ।

    सर्प-राजस्य नो गन्तुम् अस्माभिर् युज्यते व्रजम् ॥ ↩︎

  8. अरम्यं ↩︎

  9. युक्त्या ↩︎

  10. तादृशत्व-साक्षाद् अवलोकनतः ↩︎

  11. तद्-ह्रदाप्रवेश-प्राप्तान्तर्दुःख ↩︎

  12. गतिः ↩︎

  13. देही ↩︎

  14. अभीस्पन्न् इत्य् अर्थः ↩︎

  15. परिभ्रमणेन ↩︎

  16. सहसोपसृत्या ↩︎

  17. अक्षिभिर् एव ↩︎

  18. पाद-रज-स्पर्श ↩︎

  19. सहज-नष्ट ↩︎

  20. भगवत्त्वात् ↩︎

  21. बालो\ऽबालम् इत्य् अर्थः ↩︎

  22. विभ्रंशः ↩︎

  23. कस्यानुग्रहोऽस्य ↩︎

  24. विश्व-रूपाय ↩︎

  25. तस्य ↩︎

  26. शास्त्रैर् व्याकृता ↩︎

  27. विचित्र-प्रवाह ↩︎

  28. भगताभिधेयं ↩︎

  29. नारीणाम् ↩︎

  30. कृट्टनैः ↩︎

  31. तद् अनुरूपभावायाश्रितः प्रतिपाद्यः ↩︎

  32. पुरस्त्र्यादि ↩︎

  33. माता-पितृत्व-भेदेन ↩︎

  34. स्वरूपं ↩︎

  35. स्वयं त्यागाशक्तौ हेतुः ↩︎

  36. सार्धकम् ↩︎

  37. गरुडध्वज-प्रसादेनैव श्री-गरुडाद् अपि ↩︎

  38. वर्त्मनाज्ञया ↩︎