१५

गोचारणं धेनुकासुर-वधः कालिय-विष-दूषिताम्बु-पानान् मृतानां गवां गोपानां च पुनर् उज्जीवनम् ।

॥ १०.१५.१ ॥

श्री-शुक उवाच—

ततश् च पौगण्ड-वयः-श्रितौ व्रजे

बभूवतुस् तौ पशु-पाल-सम्मतौ ।

गाश् चारयन्तौ सखिभिः समं पदैर्

वृन्दावनं पुण्यम् अतीव चक्रतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

ततः पञ्चदशे धेनु-पालनं धेनुकार्दनम् ।

कालिय-क्ष्वेडतो गोप-रक्षणं च निरूप्यते ॥*॥

अहि-वक्त्र-प्रवेशेन वृथा खिन्नान् सखीन् अतः ।

कृष्णः प्रावेशयत् पक्व-फलं तालालि-काननम् ॥**॥

पशु-पाल-सम्मतौ पशु-पालने सम्मतौ, पशु-पालानां वा सम्मतौ । ईषद्-वयो-बलातिरेकम् अनुकृतवन्ताव् इत्य् अर्थः । अतीव चक्रतुः सर्वतः प्रसर्पणेन ॥१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो ब्रह्म-स्तुतेर् अनन्तरम् । क्ष्वेडस् तु गरलं विषम् इत्य् अमरः ॥*॥ यतो वृथा खिन्नास् ततः कारणात् । तालानाम् आलिः पङ्क्तिर् यत्र कानने, तत् तथा । तृणराजाह्वयस् तालः इत्य् अमरः ॥**॥

पौगण्डं दशमावधिर् इत्य् उक्तेः । पञ्चम-वर्षतो दशमाब्दान्तं पौगण्डम्पशु-पालने संमतस्यापि पालकान्तरा-प्रीत्या तेषु प्रवेशो दुर्घट इति मत्वा समासान्तरम् । इत्य् अर्थ इति— वयो-बलाभावे पशूनां निवर्तन-स्थापनादि न सम्भवतीति भावः । गो-चारणस्य प्रथम-दिने कार्त्तिक-शुक्लाष्टमीति पाद्मे । तथा हि—

शुक्लाष्टमी कार्त्तिके तु स्मृता गोपाष्टमी बुधैः ।

तद्-दिनाद् वासुदेवोऽभूद् गोपः पूर्वं तु वत्सपः ॥ इति ॥१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च इति कथा-रीत्या वाक्यालङ्कारे । तद् वा, ततो वत्स-पालन-क्रीडानन्तरम् एवेति मध्ये क्रीडान्तरादिना विलम्बो निरस्तः । त्व्-अर्थे -कारो भिन्नोपक्रमात् । पौगण्ड-वयसा पूर्वतोऽधिक-रस-प्रकटन-योग्य-षष्ठाब्दारम्भ-काले श्रितौ सेवितौ सन्तौ । व्रज इति पौगण्ड-लीलाया अन्यत्राभावं बोधयन् व्रज-सम्बन्धेन तस्या माधुर्यं तत्रत्यानां च भाग्य-भरं सूचयति । एवम् अग्रेऽन्यत्रापि ज्ञेयम् ।

पशु-पालने सम्मताव् इति श्री-वृन्दावन-विहारार्थं1 साग्रजस्य श्री-भगवतो गो-पालनेच्छा2 चिरं जातास्ते, सा च बाल्य-दृष्ट्या श्री-नन्दादीनां स्नेह-भरेण सम्मता न स्यात्, अधुना च यथा-कालं किञ्चिद्-वयो-बलातिरेक-प्रकटनेन सम्मताभूद् इत्य् अर्थः । यद् वा, पशु-पालनां सर्वेषां गोप-जातीनाम् । किं वा, पशूनां पालानां च3 सम्मतौ सन्तौ गाश् चारयन्तौ बभूवतुः । श्री-भगवता पालितानां मुक्त-स्तन्यत्वेन मातृ-सङ्गे मिलितानाम् अपि तं त्यक्तुम् अशक्नुवतां वत्सानां तन्-माटॄणां च तद्-अनुगतेन वृषादीनाम् अपि, साहचर्येण निरुध्यमानानाम् अपि सर्वेषां तस्यान्तिके समागमनात् । तेन विना वने पशूनाम् अगमनाच् च । तत्र च द्वित्वं स्नेह-भरेण श्री-बलदेवेन सहाभेदात् सहचरत्वाच् च । गाश् चारयन्ताव् इति तयोर् गवं एव पालने उक्तेऽपि पशु-पाल-सम्मताव् इति तत्-सङ्गे महिष्य्-आदीनाम् अपि सर्व-पशूनां पालनापेक्षया ।

सखिभिः समम् इति वत्सपानाम् एव सर्वेषां तत्-सहचराणां गो-पालने प्रवृत्तेः । एवं ततः प्रभृति पूर्व-गो-पालन-कर्तारो गो-पालनान् निवृत्ता इति ज्ञेयम् । श्री-भगवतो गो-पालने प्रवृत्तिः कार्तिक-शुक्लाष्टम्याम् । तथा च कार्तिक-माहात्म्ये—

शुक्लाष्टमी कार्तिके तु स्मृता गोपाष्टमी बुधैः ।

तद्-दिनाद् वासुदेवोऽभूद् गोपः पूर्वं तु वत्सपः ॥ इति ॥4

पदैः स्वावतारार्थ-रोदनादि-प्रयत्न-कृच्-छ्री-धरण्य्-अनुग्रहाय पादुकाद्य्-अग्रहणात् साक्षाद्-उदितैर् वज्राङ्कुशाद्य्-असाधारण-लक्षण-युक्तैः श्री-पादाब्ज-चिह्नैः पुण्यं साक्षात् पुण्य-रूपं सुन्दरं वा । अतीव इति स्वभावतः पुण्यम् अपि वृन्दावनम् अधुना पूर्वापेक्षया सर्वतः प्रसर्पणेनात्यन्तं चक्रतुर् इत्य् अर्थः । यद् वा, श्री-वैकुण्ठाद् आधिक्याभिप्रायेण ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः पञ्चम-वर्ष-कीडानन्तरं त्व्-अर्थे च-कारो भिन्नोपक्रमात् व्रज इति पूर्ववत् एवम् अग्रे\ऽपि ज्ञेयम् । पशु-पाल-सम्मताव् इति समन्ततः श्री-वृन्दावन-विहारार्थ साग्रजस्य श्री-भगवतो गो-पालनेच्छा चिरं जातास्ति सा च बाल्य-दृष्टया श्री-नन्दादीनां स्नेहभरेण सम्मता न स्यात् अधुना च यथा-कालं किञ्चिद्-वयो-बलातिरेक प्रकटने सम्मताभूद् इत्य् अर्थः । पशु-पालानां वा सम्मतौ इति व्याख्या तु तयोः पशु-पालन-प्रावीण्य-सूचिका पण्डित-सम्मत इति वत् । किं वा पशूनां पालानां च सम्मतौ सन्तौ श्री-भगवता पालितानां मुक्त-स्तन्यत्वेन मातृ-सङ्गेमेलितानाम् अपि तं त्यक्तम् अशक्नुवतां वत्सानां तन् मातृणां च, तद् अनुगत्वेन वृषादीनाम् अपि साहचर्येण निरुध्यमानानाम् अपि सर्वेषां तस्यान्तिके समागमनात्, तेन विना वने पशूनाम् अगमनाच् च तत्र ताव् इति । युगलत्वेन निर्देशात् स्नेहभरद्योतना क्रीडा सौष्ठवार्था सखिभिः समम् इति ततः प्रभृति-पूर्वे गो-पालनानिवृत्ता इति ज्ञेयम्

ये खलु ततः प्रवयसो गोपाः इत्य्-आदौ वर्णिता इति ज्ञेयम् अयम्-भावः । पूर्व स्व-धर्म-रूपेण गो-चारणे तस्मिन् पुत्र-रूपस्य प्रतिनिधेर् अयोग्यत्वात् श्री-व्रजेश्वरेण स्वयम् एव गो-चारणं ततस् तत्-सङ्गानुरोधेन तत्-सवयस्कैर् एव स्व-स्व-गो-चारणम् अधुना तु श्री-कृष्णेन तद् आरम्भेण तत्-सङ्ग-योग्यस् तत्-स-वयस्कैर् एव तद् इति एतच् च कार्त्तिक-शुक्लाष्टम्यां तथा च पाद्मे कार्त्तिक-माहात्म्ये—

शुक्लाष्टमी कार्तिके तु स्मृता गोपाष्टमी बुधैः ।

तद्-दिनाद् वासुदेवोऽभूद् गोपः पूर्वं तु वत्सपः ॥ इति ।

पदैः तादृश-गो-सेवायाः गोप-जाति-स्व-धर्मत्वेन पादुकाद्य्-अग्रहणात् साक्षाद् उदितैः श्री-पादाब्ज-चिह्नः पुण्यं पुण्य-जनक सुन्दरं वा अतीवेति पूर्वापेक्षया [वैकुण्ठाद्य् अपेक्षया] वा सर्वतः प्रसर्पणेन ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

धेनूनां रक्षणे ज्येष्ठ-स्तुतिः स्वैः सह खेलनम् ।

धेनुकस्य वधो रक्षा विषात् पञ्चदशे गवाम् ॥

ततः पञ्चम-वर्ष-क्रीडानन्तरं पशूनां पालने सम्मतौ गोपैः सम्मती-भूतौ । तद्-दिनं तु पाद्मे कार्त्तिक-माहात्म्ये दृष्टम्—

शुक्लाष्टमी कार्तिके तु स्मृता गोपाष्टमी बुधैः ।

तद् दिनाद्-वासुदेवो\ऽभूद्-गोपः पूर्वं तु वत्सपः ॥ इति ।

पदैः पद-चिह्नैर् ध्वजादिभिः पुण्यं चारु अतीव इति पूर्वम् ऊनविंशति-चिह्नानां चरणयोर् लघुत्वाद् रेखाणाम् अतिसूक्ष्मत्वेन स्पष्टीभावात् ॥१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

धेनूनां पालनं पञ्च-दशे सङ्कर्षणस्तुति ।

स्वैः क्रीडाधेनुक-वधं सस्त्राणं च विषतोऽभवत् ॥

ततः पञ्चमाब्द-क्रीडान्तरं पौगण्डं वयः षाष्ठ्याब्दिकीम् अवस्थाम् आशृइतौ व्यञ्जयन्त्यौ तौ श्री-बल-कृष्णौ पशुपाल-सम्मतौ बभूवतुः । तद्-दिनं तु गोपाष्टमीत्य् उक्तम्—

शुक्लाष्टमी कार्तिके तु स्मृता गोपाष्टमी बुधौः ।

तद्-दिनाद् वासुदेवोऽभूद् ज्ञेयः पूर्वं तु वत्सपः ॥ इति पाद्म-कार्तिक-माहात्म्ये ।

पदैर् अङ्घ्रि-चिह्नैर् ध्वज-वज्रादिभिर् वृन्दावनम् अतीव पून्यं मनोज्ञं चक्रतुः, इदानीम् अङ्घ्रि-चिह्नानां प्रव्यक्त्या तत्र शोभाधिक्यात् ।

ननु, कृष्णस्य गोपस्यापि राज-पुत्रत्वात् गो-चारणं न युक्तम् इति चेत् तस्य परेशत्वेन तद्-औचित्यात्, स हि यज्ञ-पुरुषः मन्त्रैर् हविषा च गव्येन यज्ञ-सिद्धिर् इति गोपालनस्य यज्ञ-पुरुषता-सम्पादकत्वात् ॥१॥


॥ १०.१५.२ ॥

तन् माधवो वेणुम् उदीरयन् वृतो

गोपैर् गृणद्भिः स्व-यशो बलान्वितः ।

पशून् पुरस्कृत्य पशव्यम् आविशद्

विहर्तु-कामः कुसुमाकरं वनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-यशो गृणद्भिर् गोपैर् वृतस् तद् वनं प्राविशत् ॥२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बलान्वितः स-रामः । कुसुमाकरं पुष्प-खनि-रूपम् । तद्-वनं वृन्दावनम् । श्लेषेण माधव इति वसन्तवत् तद्-उल्लासक इत्य् अर्थः ॥२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सामान्येन द्वयोर् अपि गो-चारणादिकम् उद्दिश्याधुना विशेषतो विचित्र-मधुर-मधुर-क्रीडां वक्ष्यन्, तत्र च श्री-भगवतः प्राधान्यं द्योतयन् प्रथम-दिन-क्रीडाम् अन्यत्रातिदेशार्थम् आह5—तद् इत्य्-आदिना । तत् श्री-वृन्दावनाख्यम् । किं वा, सुप्रसिद्धम् अनिर्वचनीय-माहात्म्यम् वा । यद् व, श्री-बादरायणेः प्रेम-भरेण स्मरण-विशेषात् सर्वथार्थः स एव ।

माधवो लक्ष्मी-कान्त इति वृन्दावनस्य सर्व-सम्पद्-विस्तारणाभिप्रायेण । यद् वा, निजाशेष-भगवत्ता-प्रकटनार्थं मधु-वंशेऽवतीर्ण इति तस्य तद् उचितम् एवेति भावः । श्लेषेण माधवाख्य-वसन्तस्य प्रवेशेन यथा स्वत एव सर्वं वनं पुष्पादिभिः समृद्धं स्यात्, तथा तस्य प्रवेशेन तद् इति । किं वा, मधु मधुर-रसः, तेन क्रीडतीति माधवः, श्री-वृन्दावनस्य मधुर-रसोपभोगार्थम् इत्य् अर्थः ।

उच्चैर् ईरयन्, तद् इति श्रीमद् अधर-पल्लव-माधुर्येणैव वादयन्—तच् च श्री-वृन्डवन-वर्तिनां निज-प्रवेश-विज्ञापनेन प्रहर्षणार्थम् । किं वा, तद्-अन्तः-प्रवेशेन स्वस्यैव हर्ष-भरोदयात् स्वस्य । किं वा, स्वं निज-धन-रूपं यशो गृणद्भिः कीर्तयद्भ्र् इति विहारार्थं6 तस्य विहारेच्छया निज-प्रहर्षात् । पशून् इति सङ्गिनां महिष्य्-आद्य्-अपेक्षया, आविवेश प्रीत्यान्तः प्रविवेश । श्लेषेण पशु-पक्षि-वृक्षादयस् तत्रत्याः सर्वे श्री-कृष्णाविष्टा बभूवुर् इति । कुसुमानाम् आकरम् इति शरत्-काले बहुल-पुष्प-सम्पत्तेः । किं वा, श्री-वृन्दावनस्य स्वभावत एव सदा सर्व-पुष्प-समृद्धेः, अनेन तथा पशव्यम् इति स्वत एव पशूनां सुख-सिद्ध्या तत्-पालन-प्रयासाभावेन च, तथा गोपैर् वृत इति बलान्वित इत्य् एताभ्यां सुख-विहार-सामग्री दर्शिता ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सामान्येन द्वयोर् अपि गो-चारणादिकम् उद्दिश्याधुना विशेषतो विचित्र-मधुर-मधुर-क्रीडां वक्ष्यन्, तत्र च श्री-भगवतः प्राधान्यं द्योतयन् प्रथम-दिन-क्रीडाम् अन्यत्रातिदेशार्थम् आह—तद् इत्य्-आदिना । तत् श्री-वृन्दावनाख्यम् । किं वा, सुप्रसिद्धम् अनिर्वचनीय-माहात्म्यं वा । यद् वा, श्री-बादरायणेः प्रेम-भरेण स्मरण-विशेषात् सर्वथार्थः स एव ।

माधवो लक्ष्मी-कान्त इति वृन्दावनस्य सर्व-सम्पद्-विस्तारणाभिप्रायेण । श्लेषेण वसन्त इव तद् उल्लासकः उच्चैः ईरयन् वादयन् तच् च तद् अन्तः-प्रवेशेन स्वस्यैव हर्षोदयात् । श्री-वृन्दावन-वर्त्तिनां निज-प्रवेश-ज्ञापनेन प्रहर्षेणोत्सुक्याच् च स्वस्य यशो-गृणद्भिर् इति विहारारम्भे तेषां तत्-प्रेममय-हर्षभरोदयः सूचितः । आविशत् आविवेश प्रोत्यान्तः प्रविवेश श्लेषेण पशु-पक्षि-वृक्षादयः तत्रत्याः सर्वे श्री-कृष्णाविष्टा वभूवुर् इत्य् अर्थः । कूसुमानाम् आकरम् इति स्वभावत एव सदा सर्व-पुष्प-समृद्धेः अनेन तथा पशव्यम् इति स्वत एव पशूनां सुख-सिद्ध्या तत्-पालन-प्रयासाभावेन च तथा गोपैर्-वृत इति बलान्वित इत्य् एताभ्यां सुख-विहार-सामग्री दर्शिता अत एव विहर्तु-काम इत्य् एवोक्तम् ॥ २॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् वनं पशव्यं पशुभ्यो हितम् समन्ताद् विवेशमाधव इति श्लेषेण वसन्त इव तद्-उल्लासकः ॥२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद् वनं माधवः कृष्णः, श्लेषेण वसन्त इव तद्-उल्लास-कृत् ॥२॥


॥ १०.१५.३ ॥

तन् मञ्जु-घोषालि-मृग-द्विजाकुलं

महन्-मनः-प्रख्य-पयः-सरस्वता ।

वातेन जुष्टं शत-पत्र-गन्धिना

निरीक्ष्य रन्तुं भगवान् मनो दधे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् वनं निरीक्ष्य रन्तुं मनो दधे । कथं-भूतम् ? मञ्जु-घोषा येऽलि-मृग-द्विजा भ्रमर-मृग-पक्षिणः, तैर् आकुलं व्याप्तं महन्-मनः-प्रख्य-पयः-सरस्वता महतां मनसा प्रख्यं तुल्यं स्वच्छं पयो यस्मिंस् तत् सर आश्रयत्वेनास्ति यस्य, तेन वातेन इति शैत्यम् उक्तम् । शत-पत्र-गन्धिना इति परिमलवत्त्वम् । जुष्टं वनम् इति मान्द्यं सूचितम् ॥३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मञ्जु-घोषा मनोहर-शब्दाः । मनोज्ञं मञ्जु मञ्जुलम् इत्य् अमरः । महतां हरि-पराणां मनसा प्रख्यं तुल्यं स्वच्छं पयो जलं, विमर्दोत्थे परिमलो गन्धो जन-मनोहरे इत्य् अमरः । शतपत्रं कुशेशयम् इत्य् अमरः । वनस्य सघनत्वाद् वायोर् वेगस् तत्र मन्दीभवतीति भावः ॥३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यम् अपि तां वर्णयन् श्री-भगवतो विहारारम्भम् आह—तद् इति । महान्तो भगवद्-भक्तास् तन्-मनः-प्रख्यत्वेनात्यन्त-स्वच्छत्वं श्री-भगवद् विहार-योग्यत्वं चोक्तम् । जुष्टं सेवितम् इति श्लेषेण वायोर् अपि सेवकतया वनस्य माहात्म्यं च निरीक्ष्य सर्वतः प्रसन्न-दृष्टि-प्रसारणादिना दृष्ट्वा मनो दधे, प्रीत्या मनोऽभिनिविष्टं चक्रे, प्रारभतेत्य् अर्थः । भगवान् इति निज-भगवत्तां दर्शयितुम् इति भावः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्याम् अपि तां वर्णयन् श्री-भगवतो विहारारम्भम् आह—तद् इति । महान्तो भगवद्-भक्तास् तन्-मनः-प्रख्यत्वेनात्यन्त-स्वच्छत्वं श्री-भगवद्-विहार-योग्यत्वं चोक्तम् । जुष्टं सेवितम् इति, श्लेषेण वायोर् अपि सेवकतया वनस्य माहात्म्यं च निरीक्ष्य सर्वतः प्रसन्न-दृष्टि-प्रसारणादिना दृष्ट्वा मनो दधे, प्रीत्या मनो\ऽभिनिविष्टं चक्रे, प्रारभतेत्य् अर्थः । भगवान् इति निज-भगवत्तां दर्शयितुम् इति भावः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् पञ्चेन्द्रियाह्लादकं वनं निरीक्ष्य मञ्जु-घोषा अलयो मृगा द्विजाः पक्षिणश् च तैर् व्याप्तम् इति विविधेन सौस्वर्येण । श्रोत्रस्य वातेन जुष्टं सेवितम् इति व्यञ्जितेन मान्द्येन । महतां मनः-प्रख्यं मनः-सदृशं शीतल-मधुर-स्वच्छं पयो यत्र तत्-सर आश्रयत्वेनास्ति यस्य तेनेति । शैत्येन च त्वग्-इन्द्रियस्य माधुर्येण रसनायाः । शतपत्र-गन्धिना इति सौरभ्येण नासायाः शतपत्रस्थ-सौन्दर्येण नेत्रस्याप्य् आह्लादकम् ॥३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद् वनं वीक्ष्य भगवान् तत्र रन्तुं मनो दधे । कीदृक् ? मञ्जु-घोषा अलिनो मृगा द्विजाः पक्षिणश् च तैर् आकुलं व्याप्तम् इति विविध-सुख-रवत्वात् श्रोत्रेन्द्रियस्य वातेन जुष्टं सेवितं । कीदृशेन ? महन्-मनः-प्रख्यं साधु-चित्त-मयं शीतत्व-मधुर-स्वच्छं पयो यत्र तत् सरो यस्याश्रयत्वेनास्तीति, तेन मान्द्य-शैत्य-धारित्वात् त्वग्-इन्द्रियस्य, माधुर्येण रसनेन्द्रियस्य, शत-पत्र-गन्धिना इति सौगन्ध्यवत्त्वात् घ्राणेन्द्रियस्य च, शतपत्र-सौन्दर्य-धारित्वात् दृग्7-इन्द्रियस्य च, आह्लादकम् इतीन्द्रिय-पञ्चकाह्लदादि वनं सूच्यते ॥३॥


॥ १०.१५.४ ॥

स तत्र तत्रारुण-पल्लव-श्रिया

फल-प्रसूनोरु-भरेण पादयोः ।

स्पृशच्-छिखान् वीक्ष्य वनस्पतीन् मुदा

स्मयन्न् इवाहाग्र-जम् आदि-पुरुषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अरुण-पल्लव-श्रिया सह । स्पृशन्त्यः शिखाः शाखाग्राणि येषां तान् ॥४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदि-पुरुष इत्य् अनुजत्वेऽपि वस्तुतस् तद्-आदिर् एवेत्य् आह—स्मयन्न् इव विस्मित इव । वनस्पतीन् अत्र भक्ति-भर-भग्न-ग्रीवा नरा यथा पुष्पादिना हरि-चरणारविन्दम् अर्चयन्ति, तथैवेमे वृक्षा इति ध्वनितम् ॥४॥ [अवशिष्टं विश्वनाथस्यानुरूपम्]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्मयन्न् इवाहाग्रजम् इत्य्-आदि । आदि-पुरुषत्वेन अग्रज इति महान् उपपत्तिः, अत एव अग्रजं स्मयन्न् एवाग्रजम् उपलक्षी-कृत्य ॥४॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तत्र स्थाने स्थाने सर्वत्रैवेत्य् अर्थः । श्री सम्पत् । भरः भारः । अरुण**-**इति तैर् व्याख्यातम् । यद् वा, तया तेन च हेतुना कृत्वा वा । यद् वा, पादयोर् निज-अरुण-पल्लवाद् अपि श्रिया शोभया हेतुन् एवेति पराजयेन परम-सौन्दर्येण च, स्पृशच्-छिखान् इति भक्त्या स्पर्शनं बोधितम् । ततश् च पत्राणाम् अनुक्तिः फल-पुष्पवद् उपादेयत्वाभावात् । एवं तेषां तेषां श्रैष्ठ्येन वनानां पतीन् वनस्पतीन् महा-वृक्षान् इत्य् उक्तम् । स्मयन्न् इव इति स्वत एव सदा श्री-मुख-प्रसक्तेः [प्रसादात्] । यद् वा, अग्रजम् इवाह, वस्तुतः स्वतस् तस्मिन्न् एव तत्-तद्-वर्णनस्य पर्यवसानात् । आदि-पुरुष इति तस्याग्रजत्वासम्भवेऽपि क्रीडा-विशेषार्थम् अग्रजतया प्रादुर्भूतं तं प्रति तथा वक्तुं युज्यत एवेति भावः । एतद् अप्य् अग्रे आद्य8-रति-विशेषु चित्तोल्लासार्थं प्रथमम् एकं क्रीडनम् एव [पूर्व-श्लोके] रन्तुं भगवान् मनो दधे [१०.१५.३] इत्य् उक्तत्वात् । यद् वा, आदि-पुरुषः पुरुषोत्तम इति लोक-शिक्षणार्थम् अग्रज-सम्माननं तत्-तद्-विनोद-माधुर्यादिकं च सर्वं तस्य युक्तम् एवेति भावः ।

अत्रेदं तत्त्वम्—वनस्पतीनां प्रणति-विशेषेण सन्तुष्टः सन् तेभ्यस् तद् दातु-कामोऽपि सद्-गुण-गण-विनम्रो लज्जया तन् स्वस्मिन्न् अपि9 तेषां सेवा-परतां चानिर्दिशन्न् अग्रजस्य10 सम्मान-मिषेण तं प्रत्य् एव तां वर्णयन् तेषां तत्-तद्-गुण-वर्णन-द्वारा प्रथमं श्री-वृन्दावनान्तः-प्रवेशे तत्रत्यान् सर्वान् एव प्रति प्रसाद-विशेषम् अकरोद् इति ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तत्र स्थाने स्थाने सर्वत्रवेत्य् अर्थः । श्रीः सम्पत् भरो भारः अरुणेति तैर् व्याख्यातम् । यद् वा, तथा तेन च हेतुना करणेन वा स्पृशच्-छिखान् एव श्रेष्ठयेन वनानां पतीन् वनस्पतीन् महा-वृक्षान् इत्य् उक्तं । यद्यपि वानस्पत्यः फलेः पुष्पात् तैर् अपुष्पाद् वनस्पतिः इत्य् अमरोक्त्या वनस्पति शब्देन वृक्ष-सामान्यं नोच्यते तथापि लिङ्ग-समवाय-न्यायात्, तच्-छब्देन वानस्सत्या अपि गृह्यन्ते । स्मयन् इति नर्मद्योतकं कुर्वन्ति गोप्य इवेत्य्-आदौ तत्-प्राकट्यात् तत्-तद्-इति-चाञ्चल्य-क्रीडोपोद्वलकत्वेन एवम् इत्य्-आदिना । वक्ष्यमाणाच् च तच्-चैकात्म्येन स-वयस्कतया सह सर्वदा क्रोडापरत्वेन बाल्ये सख्यांश-प्राबल्यात् तथैवाग्रजस्य तदानीं गौणत्वम् आलम्ब्याह—अग्रजम् इवेति, अग्रजम् अपि स्मयन्न् इवेति च तथैवाभिप्रायः, दर्शयिष्यते च तद्-भाव-द्वये कस्यापि कदाचिद् उद्भूतत्व क्वचित् क्रीडा-परिश्रान्तम् इत्य्-आदिभ्यां अतो\ऽग्रज-भावांश-सद्भावेन नर्म चेदं स्तुतिर् ईत्य् ऐव कृतम् ।

नन्व् एवञ् चेत् श्रेष्ठत्वाद् अग्रजेनैव कथं न तस्मै नर्म निर्मितं तत्राह—आदिर् गुणादिना श्रेष्ठश् चासौ पुरुषश् चेति एवं कविना तु स-विनोदं तत्-तन्-नर्म-सङ्गीतमयी-स्तुतिर् अपि तस्मिन्न् एव पर्यावसायिता एतद् अपि कर्तव्येषु रमण-विशेषेषु चित्तोल्लासेन प्रथमम् एकं क्रीडनम् एव रन्तुं मनो दधे इत्य् उक्तत्वात् । एवं स-नर्म-वचनम् अपि भगवन्-निर्मितत्वात् सर्वं यथावद् एव ज्ञवम् ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्मयन्न् इति नर्म-द्योतकं कुर्वन्ति गोप्य इवेत्य्-आदौ तत्-प्राकट्यात् तत् तद् इति चापल्य-क्रीडोपोद्बलकत्वेन एवम् इत्य्-आदिना वक्ष्यमाणाच् च तच् च स-वयस्कतया सह सर्वदा क्रीडा-परत्वेनैकात्म्येन सख्यांश-भावात् तत्रैवाह—अग्रजम् इव इति । अतस्मत् तद्-भावेन नर्म चेदं स्तुति-रीत्यैव कृतम् । एवं स-नर्म-वचनम् अपि भागवतत्वात् सर्वं यथावद् एव ज्ञेयम् ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अरुण-पल्लवानां श्रीः शोभा अधो-मुखत्वेन पाद-स्पर्शनात् फलानां प्रसूनानांउरु-भरेण पादयोः स्पृशन्त्यः शिखा येषां, तान् वनस्पतीन् वृक्षान् विलोक्य स्मयन् स्मयमान इति विवक्षितस्य वनस्पतीनाम् उत्कर्षस्य पर्यवसानम् स्वोत्कर्ष एव स्यात्, स्वोत्कर्षस्य च स्वयम् उक्त्य्-अनौचित्यात् । मुदा इत्य् आनन्द-जनितेन गाम्भीर्याभावेनोक्त्या विना स्थातुम् अशक्तेश् च । रामे सख्य-भावोत्थेन स्मितेनानेन स्व-महोत्कर्षारोपस् तत्रैव व्यञ्जितः । अत एवाग्रिम-श्लोके आदि-पुरुष इति स्व-नाम्नापि तस्य सम्बोधनम् करिष्यते इति मद्-अभिप्रायम् इमं मद्-अग्रजो मा बुध्यताम् इति स्मित-निह्नववान्, न तु स्मयन्न् इत्य् अर्थः । तथा हि—

श्री-वृन्दावन-तद्-वासि-माधुर्योल्बण-चेतसा ।

तत्-स्तवे हरिणा लब्धे निजोत्कर्षावसायिनम् ॥

तम् आलोच्य ततो रामम् अपदिश्य व्यधायि सः ।

अतोऽत्र नैव तात्पर्यं रामोत्कर्षानुवर्णने ।

सख्य-भावात् तदा रामे नर्मणेदम् उदीरितम् ॥[ल।भा। १.५.३४५-३४६] इति

भागवतामृतीया-सार्ध-कारिकाः अदि पुरुष इति तद् अनुजत्वेऽपि स्वयं भगवत्त्वाद् आदिः ॥४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्र तत्र पर्यटन् स नन्द-सूनुर् आदि-पुरुषो वनस्पतीन् वीक्ष्य स्मयन्न् इव अग्रजम् आह इत्य् अन्वयः । कीदृशान् ? अरुणानां पल्लवानाम् अधो-मुखानां श्रिया शोभया सह फलादीनाम् उरु-भरेण हेतुना पादयोः स्पृशन्त्यः शिखा येषां, तान् अत्र वनस्पत्य्-उत्कर्षस्य स्वोत्कर्षे पर्यवसानात् तस्योत्कर्षस्य च स्वस्मिन्न् अभिधातुम् अयुक्तवाद् अग्रजं व्यपदिश्याभिधानं न दोषावहं मुदा स्मयन्न् इवेत्य् अतिगाम्भीर्यम् उक्तिं विना स्थातुम् अशक्तिश् च व्यज्यते ॥४॥


॥ १०.१५.५ ॥

श्री-भगवान् उवाच—

अहो अमी देव-वरामरार्चितं

पादाम्बुजं ते सुमनः-फलार्हणम् ।

नमन्त्य् उपादाय शिखाभिर् आत्मनस्

तमो-\ऽपहत्यै तरु-जन्म यत् कृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तरु-जन्म येन तमसा कृतं, तस्य तमसः पापस्य अपहत्यै नाशाय । अथवा येन त्वया ईश्वरेण सर्वोपकारकं तरु-जन्म कृतं तं त्वां नमन्ति । एवं श्लाघ्येऽपि जन्मनि यद् अज्ञान-रूपं तमोऽस्ति तस्य अपहत्यै ॥५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवाह—येन पापेन । न हि पापिनो भगवद्-दृष्टि-गोचरी-भवन्ति इत्य् अरुच्यार्थान्तरम् आह—अथवा इति । श्री-वृन्दावन-तरूणाम् उपासना-प्राप्त-द्रुम-रूपाणां, वृन्दावने किम् अपि गुल्म-लतौषधीनाम् [भा।पु। १०.१४.३४] इत्य्-आद्य्-उक्त-ब्रह्मादिभिर् इति प्रार्थ्यमान-जन्मनां तमोऽभावात्, लोके सजातीय-तरूणां यत् तमो-जन्यं जन्म तत् तमो\ऽपहत्यै इति वा ॥५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अदस्-शब्द-प्रयोगेणाह—अहो अमी इत्य्-आदि । तमो\ऽपहत्यै तमो-नाशाय । यत् यस्मात् तरु-जन्म वृन्दावणे कृतम् अङ्गी-कृतम् । आत्मन इति तृतीयार्थे षष्ठी । अथवा, आत्मनस् तरु-जन्म । यद् वा, तरूणाम् अन्येषां जन्म यत् कृतं, तस्य तमसो\ऽपहत्यै आत्म-साजात्याद् अन्येषां तरूणाम् अपि तमो-नाशका वृन्दावन-तरव इत्य् अर्थः । कुतः ? आत्मन आत्म-जातीय-हेतोः, न तु ते तमो-जन्मानः, तेषां मन्-मयत्वात् । तथा चोक्तं वैकुण्ठ-वर्णने कैवल्यम् इव मूर्तिमत् [भा।पु। ३.१५.१६] इत्य् एवम् उत्तर-श्लोके\ऽपि ॥५॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो इति प्रहर्षे । सादर-सम्बोधने वाश्चर्ये वा । अमी इमे स्थावर-योनयोऽपि । देव-वर ! हे पूज्य-श्रेष्ठ ! सर्व-देवोत्तमेति वा । अत एव सुमनः पुष्पं फलं च, तद् एव अर्हणम् अर्ह्यतेऽनेनेति पूजोपकरणम् । शिखाभिर् अग्र-भागैः कृत्वा उप समीपे उपढोकनत्वेन वा आदाय । सुमन इति श्लेषेण भाव-रूपता तस्य ध्वनिता । तमसो ऽज्ञानस्य अपहत्यैअमरैः सत्त्व-प्रधानैर् अर्चितम् इत्य् अन्वयः ।

यद् वा, अहो भ्रातः ! देव-वरैः श्री-ब्रह्मादिभिर् अमरैश् च मृत्युर् अहितैर् अप्य् अर्च्चितम्, तत्र मुक्तानाम् अज्ञानं मोक्ष-स्वीकारात् । यद् वा, आत्मनः शिखाभिर् लोके हि भक्त्यौपह्टोकन-द्रव्यं निज-शिरसि कृत्ववान् ईयेत । सामान्येन तरु-जन्म, सर्व-स्थावर-जातिः, महार्य्ता सर्व-स्थावरत्वम् एव प्रार्थनात्, तस्य कारणं यत्-तमः दुष्प्रारब्धं तस्यापहत्यै इति सामान्य-दृष्ट्योक्तम्—स्थावरत्वेन पशु-पक्ष्यादिवत् त्वत्-सङ्गे गमनाशक्तर् इति भावः ।

यद् वा, आत्मनस् तमः शोकस् तद् अपहत्यै । ननु तत् कुतः ? तत्राह—यद् यस्मात् त्वया तरु-जन्म कृतम् । अन्यत् समानम् । अत एते सदा त्वत्-सङ्गिनो भवन्त्व् इति वरो ज्ञेयः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो इति प्रहर्षे आश्चर्य वा, अमी इमे स्थावर-योनयो\ऽपि हे देव-वर ! सर्व-देवोत्तम ! सुमनसः पुष्पञ् च फलं च तद् एव्आर्हणं पूजोपकरणम् आत्मनः शिखाभिर् अग्र-भागैः श्लेषेण शिरोभिः उपादाय उपादेयत्वेन गृहीत्वा ते तव पादाम्बुजं नमन्ति नमस् कुर्वन्तः शिखाभिर् एव तव पादाम्बुजे समर्पयन्तीत्य् अर्थः । कीदृशं पादाम्बुजम् ? अमरा ब्रह्मादि-देवा मुक्ताश् च तैर् अप्य् अर्चितम् ।

ननु, कथं स्थावराणाम् ईदृशं ज्ञानं ? तत्राह—तम इति । येषाम् ईदृशो भावस् तेषाम् अज्ञानं नास्त्य् एव प्रत्युत तमो\ऽपहत्यै पश्यतां शृण्वतां च तमो-नाशाय यत् यः श्री-वृन्दावन-सम्बन्धि तरु-जन्म कृतम् अङ्गी-कृतम् । यद् वा, तमो\ऽपहत्यै पशु-पक्ष्यादिवत् त्वत्-सङ्गमासक्ति-दुःख-नाशाय नमन्ति के ते\ऽमी यत् यैस् तरु-जन्म कृतं प्रार्थितम् इत्य् अर्थः । एवं नित्य-सिद्धान् प्रति-विवक्षितं साधन-सिद्धान् प्रति तु आत्मनस् तमो\ऽपहत्यै तवाप्राप्ति-दुःख-नाशाय यद् इत्य्-आदि । यथा ब्रह्मणा प्रार्थितम् इति भावः । एवं सर्वत्र प्रचारेण मुहुः सर्वेषाम् एव सुखं कार्यम् इति स्वैर-विहारेच्छ्या प्रोक्तम् ॥ ५॥

———————————————————————————————————————

जीव-गोस्वामी (कृष्ण-सन्दर्भः १७२): आत्मनः सुमनः-फल-रूपम् अर्हणम् उपादाय आत्मन एव शिखाभिर् नमन्ति । यद् यैः । शृण्वतां पश्यतां च संसारिणां तमोऽपहत्यै तरु-जन्मै-तत्-कृतम् इति । यत्-कृतम् इति तृतीया-तत्-पुरुषो वा ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अहो इति ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ वृन्दावनस्य तर्व्-आदेर् अलौकिकतां स्व-सेवा-परायणतां च दर्शयितुं स्व-महिम-कथने स्वस्यानौचित्यम् इति बलदेव-व्यपदेशेनैव तस्य वृन्दावन-तर्व्-आदेर् आत्म-विषयां रतिं भगवान् प्रपञ्चयति—अहो इत्य्-आदि । स्मयन्न् इवाहाग्रजम् आदि-पुरुषः [भा।पु। १०.१५.४] इति पूर्वोक्त-श्लोक-पठितेन आदि-पुरुष-शब्देन स्वस्याग्रजवत्त्वाभावात् अग्रजवत्त्वं स्वयम् एव स्वीकृतम् इत्य् आयातम् । अतः स्मयन्न् इव प्रहास-पूर्वम् इवेति स्वाश्रयस्याराध्यत्वस्य तत्रारोपोऽवगन्तव्यः । एवम् एव धीरोदात्त-नायक-लक्षणां यद् आत्म-श्लाघा-पराङ्मुखता, तेनात्र अस्मच्-छब्द-प्रयोगे कर्तव्ये युष्मच्-छब्द-प्रयोगः ।

तथा हि—अहो आश्चर्ये । स्मयन्न् इवाहाग्रजम् आदि-पुरुष इति यद् आह, तस्य विवृतिम् । अहो आश्चर्यम् । हे देववर ! ते तव पादाम्बुजम् अमी तरवः सुमनः-फलार्हणम् आदाय शिखाभिर् नमन्ति । न फल-भरेण अमी नम्राः, अपि तु प्रणाम-चिकीर्षयैव नम्र-शिरस इत्य् अर्थः । अमी इति । के ते? इत्य् आशङ्क्याह—यत् यैस् तरुभिस् तमोऽपहत्यै द्रष्टॄणां तमो-नाशाय आत्मनस् तरु-जन्म कृतं गृहीतम् । कादाचित्कं तरु-जन्म ? अमरार्चितम्, अमरैर् ब्रह्मादिभिर् अप्य् अर्चितं स्पृहणीयम्, किम् अप्य् अटव्याम् [भा।पु। १०.१४.३४] इत्य् उक्तेः । एतेन वृन्दावन-तरूणां परम-भागवतत्वम् आयातम् ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वीय-पुष्प-फलादिभिः स्व-प्रभोः श्री-कृष्णस्य चरणाव् अर्चयाम इति मनो\ऽनुलापं युष्माकम् अहं जानामीति स्व-विज्ञत्वं परम-भक्तान् श्री-वृन्दावनीय-वृक्षान् कटाक्षेण ज्ञापयन्न् अग्रजम् आह—अहो इति । शिखाभिः स्व-स्व-शिरोभिर् उपायनं तत्-तद्-उपाय-पदाम्बुजं नमन्ति इति भक्त्या शिरोभिर् एव चरणयोस् तत् तद् अर्पयन्तीत्य् अर्थः । किम्-अर्थम्? आत्मनस् तमसोऽपराधस्य अपहत्यै, येन अपराधेन कृतम् उत्पादितं तरु-जन्म । "हन्त अस्माभिर् अपराध एव कश्चित् कृतः, यत् कृष्ण-सन्निधि-गमनासमर्थम् अस्माकं तरु-जन्म विधात्रा कृतम्" इति तेषाम् अनुरागोत्थं वचनम् एवान्ववोचद् भगवान् । वस्तुतस् तु ब्रह्मादिभिर् अपि प्रार्थ्यमानत्वाद् वृन्दावनीय-तरु-जन्म नापराध-फलम् इति ज्ञेयम् ॥५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अहो इति । हे देववर ! अमी तरवः सुमनः-फलार्हणम् आत्मनः शिखाभिः शिरोभिर् उपादाय तद्-रूपम् उपायनं गृहीत्वा अमरैर् विरिञ्चादिभिर् अर्चितं ते पादाम्बुजं नमन्ति । किम्-अर्थम् ? अस्मन्-नमस्कारं शृण्वतां तमसोऽज्ञानस्य अपहत्यै विनाशाय यद् यः पुष्पादिभ्स् तत्-पादार्हणाय तरु-जन्म कृतं स्वीकृतः । यद् वा, तमसः पशु-पक्ष्य्-आदिवत् त्वत्-सङ्गमाशक्ति-जन्य-दुःखस्यापहत्यै नमन्ति यद् येन ते पदाम्बुजेन तरु-जन्म कृतम्, न चैषाम् अज्ञानं शक्यं वक्तुं तादृग्-भाववत्त्वात् ब्रह्मादि-प्रार्थितत्वाच् च तज्-जन्मनः ॥५॥


॥ १०.१५.६ ॥

एतेऽलिनस् तव यशोऽखिल-लोक-तीर्थं

गायन्त आदि-पुरुषानुपदं भजन्ते ।

प्रायो अमी मुनि-गणा भवदीय-मुख्या

गूढं वनेऽपि न जहत्य् अनघात्म-दैवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे अनघ ! वने गूढम् अपि त्वां न त्यजन्ति । त्वयि मनुष्य-वेषेण निगूढे सति मुनयोऽप्य् अलि-वेषेण निगूढास् त्वां भजन्तीत्य् अर्थः ॥६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनघेति । गोप-वेषत्वेऽप्य् अपरिमितैश्वर्यत्वं तव इति सम्बुद्ध्य्-अभिप्रायः । अलिनो भ्रमराः, भ्रमराणां पक्ष-मूलम् अलम् आहुर् मनीषिणः इत्य् उक्तेः । अलम् अस्तु येषाम् इत्य् अलिनः । इत्य् अर्थ इति प्रकाशे प्रकाशं गुप्ते गुप्तम् इति न्यायेन गुप्तस्य गुप्त-वेषेणैव भजनम् उचितम् इति भावः । वेत्ता सर्वस्य वेद्यस्य मुनिः सद्भिर् उदाहृतः इत्य् उत्पलः । मुनि-गणा रहस्य-लीला-गमनार्थं भ्रमरी-भवन्ति । तेन “भो भ्रमराः ! मद्-अतिरहस्य-कुञ्जम् अपि प्रविश्यास्मत्-सौरभ्यम् आस्वादयत । मा सङ्कुचत !” इति तान् प्रति प्रसादो ध्वनितः ।

अखिल-लोकानां मुक्त-मुमुक्ष्व्-आदीनां तीर्थं सेव्यं शोधकं वा । यद् वा, अखिलोऽनल्पः लोको ज्ञानं येषां, तेषां सर्वज्ञानाम् अपि सेव्यम् । अनघानां निर्दुःखानां मुक्तानाम् आत्म-दैवं प्राप्यत्वेन निश्चितम् । मुक्तानां परमा गतिः इत्य् उक्तेः । दुःखानो-व्यसनेष्व् अघम् इत्य् अमरः । आदि-पुरुष-सर्व-कारण-कारणाभजने पातित्यं मा भूद् इत्य् अर्थः । आत्म-प्रभवम् ईश्वरम् न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टा पतन्त्य् अधः [भा।पु। ११.५.३३] इत्य् उक्तेः । पूर्वोक्त-मुनि-गण-पक्षेऽपि योजनास्येति ॥६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एते**\ऽलिनो** मुनीनां मनन-शिलानां गणा भवदीय-मुख्या पार्षद-प्रवरास् तव यशो गायन्ती मम यशो गायन्तीत्य् अर्थः । लोके च परम-गभीरो धीरोदात्त ईश्वरो भ्रातरं सखायम् अमात्यं वा लक्षी-कृत्यात्मनो महिमानं प्रकटयति । आदि-पुरुषस्य मम्आनुपथं भजन्ते इत्य् अनेनैवादि-पुरुष-शब्देनैतद् व्यज्यते । अलिनां तिर्यक्-जातीनाम् अपि मुनित्वे पार्षदत्वे अप्राकृतत्वम् । एवं तरूणाम् अपि कुतस् तमः ? ॥६॥

———————————————————————————————————————

सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.११३] इदानीं स्थावरेभ्यः श्रेष्ठानां जङ्गमानां मध्ये प्रथमं कीटानां माहात्म्यं पूर्ववद् भगवान् बलराम आह—एते अलिनः [भा।पु। १०.१५.६] इति । भ्रमरा इमे अनुपथं पथि पथि भजन्ते अनुसरन्ति त्वाम् । किं कुर्वन्तः ? तव यशो गायन्तः। यद् वा, अनुपथं गायन्तो भजन्त इति योज्यम् । सर्वत्रैव यशो-गान-लक्षणं भजनं कुर्वन्तीत्य् अर्थः ।

कीदृशम् ? अखिलं सम्पूर्णं लोकानां भुवनानां जनानां वा जीवानां तीर्थं सर्व-लोक-पावित्र्याप्यायन-कराशेष-तीर्थ-स्वरूपम् इत्य् अर्थः । यद् वा, अधिकारानपेक्षया सर्वेषाम् अपि लोकानां तीर्थं संसार-तारकं भगवद्-भक्ति-महिम-ज्ञान-प्रदायक-गुरु-रूपं वा । अविवक्षितत्वात् सन्ध्य्-अभावः ।

अमी मुनि-गणा एव । तत्र च नात्मारामाः, किन्तु भवदीया भवद्-भक्ताः । तेष्व् अपि मुख्या यतो वने वन्य-वेशेन गूढम् अपि निजेष्ट-देवं त्वां न त्यजन्ति । स्वयम् अप्य् अलि-वेशेन निगूढाः सन्तो गीत-प्रियं त्वां गीत-गानेन भजन्तीत्य् अर्थः

हे आदि-पुरुषेति तवादि-पुरुषत्वाद् एते\ऽपि आदि-सेवकाः । अत एव त्वल्-लीलानुसारेण सर्वदा त्वां भजन्ति । तथा हे अनघ ! सर्व-दोष-रहित ! सर्वापराधाग्राहक ! सर्व-दुःख-विमोचक ! इति वेत्य् अनेन त्यागानर्हतया अनवसरे भजने चापराध-भयाभावेनाशेष-दुःख-विमोचकत्वेन च कदाचिद् अपि त्वां न त्यजन्तीति युक्तम् एवेति भावः । प्राय इति बाहुल्ये । मुनि-गणैः समं गूढम् इत्य् अनेन वा, न जहाति इत्य् अनेन वा योज्यम् । तेन च कदाचित् कस्यचित् प्रेम-विशेषोदयेन गानादि-विरामाद् भक्त-वर-मुनि-गणेभ्यो\ऽपि श्रैष्ठ्यम् । कदाचित् पारमैश्वर्य-प्रकटनं वा रात्र्य्-आदौ विच्छेदो वा सूच्यते । यद् वा, प्राय इति वितर्के ।

ततश् चैतद् उक्तं भवति—यथा परम-वैष्णवा मुनयो वेद-वने निगूढम् अपि दुर्बोध-लीलत्व-दुर्लभत्वादिनापि हेतुना त्वां न त्यजन्ति, किन्तु कर्म-ज्ञानादि-मार्गेषु वर्तमाना अपि तत्र तत्र सार-भूतं त्वद्-यश एव परम-सेव्यत्वेन गायन्तो\ऽन्तर्यामि-रूपेण सर्व-जीव-पूज्यतम-परमेश्वर-रूपेण च प्रकाशमानं त्वां भजन्ते, साक्षाद् इव पश्यन्ति । किं वा, सर्व-परित्यागेन केवलं प्रेम्णा सेवन्ते तथैवैते अलिनो\ऽपि । अतो नूनं तत्र रेमे ॥११३॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एत इति श्रीमद्-अङ्गुल्या दर्शयति । अखिलानाम् अधिकारान पेक्षया सर्वेषाम् एव लोकानां जीवानां तीर्थं संसार-तारकं भगवद्-भक्ति-माहात्म्य-द्योतक-गुरु-रूपं वा । अनुपथं पथि पथि भजन्तेऽनुवर्तन्ते त्वाम् । यद् वा, अनुपथं गायन्तो यश एव सन्त आदि-पुरुषस्य श्री-ब्रह्मणोऽनुपथं भजन्ते, स्वभावं लभन्त इत्य् अर्थः । सदा यशो-गानाद् भवदीयाश् च ते । अतो मुख्याश् च मुनि-गणा इति मौनादि-लक्षणम् आत्मारामत्वम् अपास्य भगवद्-भजने प्रवृत्तेषु मुख्या इत्य् अर्थः । एवं श्लाघामिषेण वरो\ऽयम् एव, प्राप इति केषाञ्चित् स्वतः प्रथमत एव भक्तत्वात् । यद् वा, प्रायो गूढम् इत्य् अन्वयः । कदाचिद् ऐश्वर्य-प्रकटनात् प्रायः-शब्दः । न विद्यतेऽघम् अपराधो भक्तानां यस्मिन्, तेषां सर्वापराध-मर्षणात् तत्-सम्बोधनम् । यद् वा, अनघं च तम् आत्म-दैवं चेति । अयम् अत्यागे हेतुः । प्राय इति वितर्के वा । ततश् चेदम् उक्तं भवति—यथा परम-वैष्णवा मुनयो वेद-वचने निगूढम् अपि दुर्बोध-लीलत्व-सुलभत्वादिनापि हेतुना न त्वां त्यजन्ति, किन्तु कर्म-ज्ञानादि-मार्गेषु वर्तमाना अपि तत्र तत्र सार-भूतं त्वद्-यश एव परम-श्रेयो-बुद्ध्यानुक्षणं गायन्तः सर्व-परित्यागेन त्वां प्रेम्णा सेवन्ते, तथैवैतेऽलिनोऽपि, अतो नूनं त एवेमे इति ।

यद् वा, ननु, श्री-ब्रह्मणोऽप्य् अत्र किञ्चिन्-मात्र-जन्म-प्रार्थनया तस्माद् अप्य् अत्रत्यानां माहात्म्येनामी मुनि-गणा इति न सङ्गच्छेत ? अत आह—भवदीयेषु मुख्या इति श्री-नारदादय इत्य् अर्थः । अतो मुनयोऽप्य् अनुगा येषां ते मुनीश्वरा इत्य् अर्थः । अन्यत् समम् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एत इति । श्रीमद्-अगुल्या दर्शयति । अविशेषेणाखिल-लोकानां तीर्थं संसारमल-पावनं त्वद् भक्त्-इमाहात्म्यद् योतक-गुरु-रूपं वा, अनुपथं पथि पथि भजन्ते अनुवर्तन्ते त्वाम् अनुपदम् इति पाठे\ऽपि तथैव तच् च युक्तम् एवेत्य् आह—हे आदि-पुरुषति । सदा स्वतः सर्वेषां त्वत्-सेवकत्वाद् इति भावः । अत्रानु-मिमीत इव प्राय इति भवदीया भवतो नाना रूपस्योपासका ये तेष्व् अपि पूर्णस्य मद् अग्रज-रूपस्य भवत उपासकत्वान् मुख्या ये मुनयः परम-मनन-निश्चितै-तद्-रूपत्वद् भजनेन तत एवान्यत्र मौन-शीलत्वेन चानन्या इत्य् अर्थ । तेषां गणाः अत एव श्लेषेण मुनयो\ऽपि गणा अनुगा येषां ते मुनीश्वरा इत्य् अर्थः ।

श्री-ब्रह्मणापि दुर्लभस्य लाभात् ते वने श्री-वृन्दावने गढम् अन्य-रूपोपासकरैर् ज्ञातम् अपि अत्रेव क्वचित् क्रीडा-विशेषाय निलीय-स्थितम् अपि च न जहति तत्र हेतुः--आत्म-दैवम् इति । भवदीय-मुख्या इति च अनयोश् च मिथो हेतुत्वं हे अनघ ! न विद्यते भक्तानाम् अघं यस्मिन् सः । हे अपराधाग्राहिन् ! परम-कारुणिकेति यावत् अनघात्म-देवम् इत्य् एकं वा पदं तद् एवम् एषाम् अभीष्ट-सिद्धिः कार्येति भावः । प्राय इति वितर्के श्री-नारदादिवत् यशो-गान-परम-रहस्य-तद् अन्वेषणानुगत्यादि-साम्यात् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भवदीया भवतो नाना-रूपस्योपासका ये तेष्व् अपि पूर्णस्य मद्-अग्रज-रूपस्य भवत उपासकत्वात् मुख्या ये मुनयस् तेषां गणा वने श्री-वृन्दावने गूढम् अन्य-रूपोपासकैर् अवज्ञातम् इति न जहति । हे अनघ ! अपराधाग्राहिन् ॥६.७॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न केवलं तरव एवोपासते, भ्रमराश्चेत्य् आह—एनेऽलिनस् तव यश इत्य्-आदि । तवेति पूर्ववद् अस्मच् छब्द-प्रयोगे युष्मच् छब्दः । अतोऽमी मुनि-गणा मनन-शीलानां भागवतानां गणा मनन-धर्मत्वाद् यशो-गानस्यास्पष्टता समुचितैव । भवदीयानां भागवतानां मुख्या परम-भागवता इत्य् अर्थः । हे अनघ ! वने गूढम् अपि आत्म-दैवं न जहति, सहैव यशो गायन्तो भ्रमन्तीत्य् अर्थः ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रत्यान् जङ्गमान् स्तौति द्वाभ्याम् । एतेऽलिनो भ्रमराः अनुपथं त्वद्-अङ्ग-सौरभानुसारित्वात् । वने क्वचिद् रहस्य-लीलार्थं गूढं सहचराद्य्-अगम्यम् अपि त्वां न जहति न त्यजन्ति । हे अनघ ! इति तत्र गमनेऽप्य् एषां त्व् अघं त्वं न गृह्णासि । तस्माद् एते भवदीय-मुख्या एव मुनि-गणा रहस्य-लीला-मनन-शीला भ्रमरी-भवन्ति, तेन भो भ्रमराः ! मद्-अतिरहस्य-कुञ्जम् अपि प्रविश्यास्मत्-सौरभ्यम् आस्वादयत मा सङ्कुचतेति तान् प्रति प्रसादो ध्वनितः ॥६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ वृन्दावन-स्थान् जङ्गमान् स्तौति—एत इति द्वाभ्याम् । हे आदि-पुरुष ! एते अलिनः तव यशो गायन्तोऽनुपथ त्वद्-अङ्ग-सौरभानुसारेण त्वां भजन्ते । क्वचिद् रहस्य-लीलायै गूढं सखिभिर् अगम्यम् अपि त्वाम् आत्म-दैवं न जहति तस्माद् अमी भवदीयेषु मुख्या मुनि-गणास् त्वद्-रहस्य-मनन-शीलाः शुकादय एवं भवेयुः । हे अनघ ! तत्र गमनेऽप्य् एषाम् अघं न गृह्णासीति तत्रानुमतिश् च व्यज्यते ॥६॥


॥ १०.१५.७ ॥

नृत्यन्त्य् अमी शिखिन ईड्य मुदा हरिण्यः

कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन ।

सूक्तैश् च कोकिल-गणा गृहम् आगताय

धन्या वनौकस इयान् हि सतां निसर्गः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इयान् हि सतां निसर्ग इति । यद् अस्ति स्वस्मिंस् तद् गृहम् आगताय महते महा-पुरुषाय समर्पयन्तीति ॥७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सतां निसर्ग इति । नृत्य-सहर्षावलोक-प्रिय-वचनैर् गृहागतस्य साधोः संमाननम् इति सतां विदुषां स्वाभाविको धर्म इत्य् अर्थः । शिखिनो मयूराः । यद् वा, केश-शिखा-धारिणः । हरिण्यो मृग्यः । पक्षे, हरिं नयन्ति प्राप्नुवन्ति इति हरिण्यः हरि-भक्ताः । सूक्तैर् कर्ण-प्रियैर् वचोभिः । पक्षे, को ब्रह्मा, ओ विष्णुः, उ शिवः । तेषां किलो वार्ता येषां ते कोकिला इन्द्रादयः । तान् गणयति पूजनार्थम् इति कोकिल-गणा यज्ञादि-करण-शीलाः । वार्ता-सम्भाव्ययोः किलः इति शाश्वतः । इयान् एतावान् । सतां सास्त्र-श्रद्धावताम् । निसर्गः स्वभावः। यद् गृहागताय अतिथये सुदृष्टि-सुवचो-नमनादिना पूजनम् इति । अन्यथा,

अतिथिर् यस्य भग्नाशो गृहाद् याति ह्य् अपूजितः ।

तस्य पूर्व-कृतं पुण्यं नाशम् आयाति सर्वतः ॥ इत्य्-आदि-स्मृतिर् व्याकुप्येतेति ॥७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न केवलम् अलिनः, अमी शिखिनो\ऽपि इत्य् आह—नृत्यन्त्य् अमी इत्य्-अदि । न केवलं शिखिनो नृत्यन्ति, हरिण्यश् च ईक्षणेन प्रियं कुर्वन्ति । का इव ? गोपिका इव । न केवलं हरिण्यः, कोकिल-गणा अपि सूक्तैर् उपनिषत्-प्रयैः । एते हि वेद-मूर्तयः ॥७॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईड्य ! हे स्तुति-योग्य ! इति लज्जया विमुखी-भवन्तम् अग्रजम् अभिमुखी-करोति । यद् वा, ईड्यायाः श्लाघ्यायाः, मुदा परम-हर्षेणेत्य् अर्थः । अस्य सर्वैर् अप्य् अनुषङ्गः । प्रेम-नृत्य-कारिणो भवन्त्व् इति वरो ज्ञेयः । ईक्षणेन प्रसन्न-नेत्र-दृष्ट्या प्रियं प्रीति-भावं वा ते तव गृहम् आगताय अभ्यागतस्य प्रीत्यै तं प्रति निज-निजोत्तम-द्रव्य-समर्पणोपपत्तेः ।

यद् वा, ते तव गृहं प्रत्य् आगताय—भावे निष्ठा, स्व-स्व-गृहे तवागमनार्थम् इत्य् अर्थः । अत एता गोप्यो भवन्त्व् इति वरो ज्ञेयः, स्वभाव-निरीक्षणात्, स्त्रीत्वाच् च ।

यद् वा, गोप्य इवेति सर्वत्रैव दृष्टान्तः । एवं तासां तत्-तद्-अखिल-सम्पत्त्या सर्वेभ्यस् तेभ्यो वैशिष्ट्यम्, मयूरादीनां च परं नृत्यादिष्व् एव सौष्ठवं सूचितम् । ततश् च सदा त्वत्-प्रिय-रहस्य-गीत-विशेष-गायका भवन्त्व् इति वरः । धन्याः परम-भाग्यवन्तः । एषाम् एतद् उपयुक्तम् एवेत्य् आह—इयान् इति । हि यतः । स्वभावत एवैषां परम-साधुत्वाद् इति भावः ।

यद् वा, धन्याः परम-प्रेम-धन-युक्ता भवन्त्व् इति वृन्दावनीयान् सर्वान् एव प्रत्य् अयं वरः । हि यस्मात्, सतां प्रेम-भक्तानाम् एवेयान् स्वभावो भवतीति ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईड्य ! हे स्तुति-योग्येति लज्जया स्मित्वा विमुखी-भवन्तम् इवाग्रजम् अभिमुखी-करोति मुदेत्य् अस्य सर्वैर् अप्य् अनुषङ्गः ईक्षणेन प्रियं प्रीति भावं ते तुभ्यं जनयन्ति हच्यर्थानां प्रीयमाणः [भा।पु। १.४.३३] इति संप्रदानत्वं गोप्य इवेति वीक्षणस्य सुष्ठुतया प्रेम्णा च साम्यात् दैर्ग्द्य-चाञ्चल्य-स-प्रेमत्वादिना तत् स्मरणाच् च अत एव श्री-राम-प्रेयस्यो\ऽप्य् अन्या ज्ञेयाः । इत्थं पौगण्डम् आरभ्य तासु तस्य भावोदयः सूचितः । परम-तेजस्वित्वेन पौगण्ड एव कैशोरांशाविर्भावात् तासाम् अपि तादृशत्वात् सूक्तः श्रोत्र-सुखद-शब्दः तत्तत् कुतः ? गृहम् आगताय अभ्यागतायेत्य् अर्थः । तच् च वाक् चतुर्थी च सूनृता इति न्यायेन युक्तम् एवेत्य् आह—इयान् इति ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : गोप्य इव इति नेत्र-गुणेन तत्-स्मरणात् ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न केवलम् अलिन एव एतेषीत्य् आह—नृत्यन्त्य् अमीत्य्-आदि । अमी शिखिनो मुदा नृत्यन्ति । एतेन ते\ऽपि परम-भागवताः उन्मादवन् नृत्यति लाक-बाह्यः [भाआ।पु। ११.२.४०] इति तल्-लक्षणोक्तेः इति । हे ईद्य ! हरिण्योऽपि ईक्षणेन ते प्रियं कुर्वन्ति । ते इति पूर्ववत् । का इव ? गोप्य इव । अथवा, गोप्ये निर्जने स्थले । इव एवार्थः। एतेनैता अपि परम-भागवाः । यत् सर्वत्र तद्-ईक्षणम् [भा।पु। ७.५.५५]11 इत्य् उक्तेः । न केवलम् एता एव । कोकिला अपीत्य् आह—सूक्तैर् अपीत्य् आदि । कोकिल-गणा अपि सूक्तैः प्रियं कुर्वन्ति । एतेनैतेऽपि परम-भागवताः—निरन्तर-स्तवनात् । गृहम् आगताय अतिथय इवेति । इव-शब्द उभयत्र योज्यः । तद्-अर्थे अतिथि-निमित्तम् । वाक् चतुर्थी च सूनृता इत्य् उक्तेः । अतो वनौकसो वृन्दावनौकसो धन्या एव । तत्र हेतुः—इयान् हि सतां वैष्णवानां निसर्गः स्वभावः । एतेन्आमी वैष्णवा एवेत्य् अर्थः ॥७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते गृहम् आगताय त्वां गृहम् आगतं सम्मानयितुं सूक्तैः प्रियं कुर्वन्तीति पूर्वेणैवान्वयः । इयान् सतां निसर्ग इति नृत्य-सहर्षावलोकन-प्रिय-वचनैर् गृहागतस्य साधोः सम्मानम् इति सतां स्वाभाविको धर्म इत्य् अर्थः ॥७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गृहम् आगताय ते तुभ्यं त्वां सत् कर्तुम् इत्य् अर्थः । सूक्तैः प्रियं कुर्वन्तीति पूर्वेणैव सम्बन्धः । सतां निसर्गः इयान् स्व-गृहागतस्य साधोर् नृत्य-सहर्ष-वीक्षण-प्रिय-वचनैः सम्माननं सतां स्वाभाविको धर्म इत्य् अर्थः ॥७॥


॥ १०.१५.८ ॥

धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्-

पाद-स्पृशो द्रुम-लताः करजाभिमृष्टाः ।

नद्योऽद्रयः खग-मृगाः सदयावलोकैर्

गोप्योऽन्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तृण-वीरुधश् च तव पादौ स्पृशन्तीति तथा । करजाभिमृष्टा नखैः स्पृष्टाः । सदयैर् अवलोकनैःश्रीर् अपि यस्मै स्पृहयति केवलं, तेन भुजयोर् अन्तरेण वक्षसा गोप्यो धन्या इति ॥८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वक्षसा तत्-सम्बन्धेन लक्षित-लक्षणया भुजान्तरेण वक्षः-संयोगो लक्ष्यते । धन्येयं भूमिर् धन्याश् चात्रत्याः पदार्थाः इति भावः ॥ [विश्वनाथ- यद् वा, सन्न् अयः इत्य्-आदितः] ॥८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न केवलम् एते धन्याः, धरणी चेत्य् आह—धन्येयम् अद्येति । अद्य धरणी धन्यैव, यतस् त्वत्-पाद-स्पृश इत्य्-आदि पूर्ववत् । द्रुम-लताश्करजाभिमृष्टाः, अतो धन्याः । नद्यो\ऽद्रयश् चाभिमृष्टा इत्य् एक-देशेनानुवर्तनीयम् । खग-मृगाश्सदयावलोकैर् धन्याः । गोप्यो भुजयोर् अन्तरेण वक्षसा धन्याः, स्वात्मानं [प्रति] सर्वेय-मुक्तिः । तत्-प्रकाशः—यत् स्पृहा-श्रीर् इति वाक्याद् यानि यानि स्पृहयतीति यत्-स्पृहा, श्रीस् तु श्री-कृष्ण एव स्पृहावती, तेन तस्य सेवोपकरणेष्व् अपि तस्याः स्पृहा ॥८॥

———————————————————————————————————————

सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१०७] एवं सामान्येन व्रज-भूमेस् तद्-वासिनां च माहात्म्यं सङ्कीर्त्य, अधुना श्री-भगवद्-अभीष्टोत्तमतरम् एव बलरामं मत्वा, श्री-परीक्षिद् एकेनैव श्लोकेन सर्वेषाम् एव तेषां नामादि-विशेषेण संक्षेपतः सौभाग्यातिशयम् अगायत् । तथा हि—पौगण्डे गोपालन-लीलया वृन्दावने सर्वतः सञ्चरन् श्री-भगवान् तत्रत्य-सद्-गुणातिरेकेण परम-हृष्टो\ऽथ तद्-वर्णनोत्सुक-स्व-महिम-श्लाघा-दोष-दृष्ट्या लज्जया चात्मानं परिहृत्य, लोके ज्येष्ठ-संमानन-धर्मं प्रवर्तयन्न् इव, निजाग्रजं श्री-बलरामं लक्षीकृत्याह—धन्येयम् [भा।पु। १०.१५.८] इति ।

इयम् अनादि-कालतो\ऽनुवर्तमाना तदीय-विचित्र-विभूत्य्-अवतार-गण-विभूषितापि धरणी पूर्वं त्वया वराह-रूपेणोद्धृता रमिता च, सदा शेष-रूपेण शिरसि धार्यमाणापि अद्यैव धन्या परम-सौभाग्यवती जाता । यद् वा, भक्ति-लक्षण-धर्मो धनं भक्तिश् च प्रेम-लक्षणा । धर्म इष्टं धनं पुंसाम् [भा।पु। ११.१९.३९] इति । धर्मो मद्-भक्तिकृत् प्रोक्तः [भा।पु। ११.१९.२७] इति श्री-भगवद्-उक्तेः । ततश् च तुच्छीकृत-चतुर्-वर्गक-प्रेम-सम्पद्-युता बभूवेत्य् अर्थः ।

तद् एव प्रपञ्च्य दर्शयति—अस्यास् तृणानि वीरुधश् च गुल्मानि धन्याः, न तु स्वर्गादि-स्थिताः, यतः श्री-मथुरायाम् अवतीर्णस्य नन्द-व्रजे गोपालकस्य सतस् तव पादौ स्पृशन्तीति तथा । एतच् च धरण्यास् तृण-वीरुधाम् अपि धन्यत्वे कारणम् । अद्य इत्य् अस्य सर्वत्रैवानुषङ्गः । ततश् च श्री-रघुनाथादि-रूपेण दण्डकारण्यादि-विहारे पाद-स्पर्शं प्राप्ता अपि धरण्य्-आदयो\ऽद्यैव धन्या इत्य् अर्थः । यदि च इयम् इति पदं लिङ्ग-विभक्ति-व्यत्ययेन धन्येतिवद् यथा-योग्यं सर्वत्रानुवर्त्येत, तदा इमा इति साक्षाद् वर्तमाना अङ्गुलि-निर्देशादिना दर्श्यमाना वृन्दावन-गतास् तृणादयो ज्ञेयाः, एता एव धन्या नान्यत्रत्या इत्य् अर्थः ।

ततश् चाद्ये\ऽतिपौगण्ड-वयो\ऽतिरेकाभिव्यञ्जनेन विचित्र-गोपाल-लीलया सर्वतः सञ्चारेण किञ्चिद् रस-विशेषाविष्करणेन च पूर्व-कालापेक्षयाधुना धन्यत्वं सम्पन्नम् इति । द्रुमा लताश् च फल-पुष्पादि-ग्रहणेन भूषणाद्य्-अर्थ-पत्र-पल्लवादि-च्छेदनेन च तव करजैर् नखैर् अभिमृष्टाः संस्पृष्टाः सन्तो धन्याः । नद्यः श्री-यमुनाद्याः, अद्रयः श्री-गोवर्धनादयः। खगाः मयूरादयः, मृगाश् च कृष्णसाराद्याः । तव सदयैर् अवलोकैर् धन्याः ।

यद्यपि धरण्य्-आदिषु सर्वेष्व् अपि परम-दयालोस् तस्य स-दयावलोकाः सन्त्य् एव, तथापि नद्य्-अद्रिषु विशेषतस् तद् उक्तिर् जल-पानावगाहन-शिखरारोहण-गुहाशयनादि-विचित्र-विहार-सम्पत्त्य्-अभिप्रायेण सम्भवत्य् एव । यद् वा, नदी-श्रेष्ठायां प्रियतमायां श्री-यमुनायाम्, अद्रि-राजे च हरिदास-वर्ये श्री-गोवर्धने, तत्-तत्-साहचर्येणान्य-नद-नदी-पर्वतादिष्व् अप्य् अनुग्रह-विशेषतो घटत एव । खग-मृगेषु च तत्-तज्-जाति-स्वभावेन सदा भगवच्-चरणारविन्द-सन्निकर्षाभावात् केवलं कृपा-दृष्टीनाम् एव प्राधान्यात् तथोक्तिः ।

अथवा, दया-सहितैर् अवलोकैर् इति दया-शब्देन शिखण्डादि-ग्रहण-कोमल-कर-स्पर्श-मधुराह्वानादि कारुण्य-चेष्टितम् अपि खग-मृगेषूह्यम् । तथा यद्यपि पाद-स्पर्शो\ऽपि द्रुम-लता-नद्य्-अद्रिषु सम्भवति, तथापि सुन्दर-सल्-लक्षण-युक्तानि पाद-चिह्नानि भू-प्रदेश एव सम्यग् उदयन्त इत्य् अतो धरण्या एव विशेषतः पाद-स्पर्श-सौभाग्यं सम्पद्यते, न तथा अन्यद् इति । प्राधान्यात् तासु तस्यैव विशेषोक्तिः । एवम् अन्यत्राप्य् ऊह्यम् ।

अथ विचित्र-मधुर-लीलया पाल्यमानानां गवादीनां सहचराणां च गोपानां सौभाग्य-वर्णनं क्रम-प्राप्तम् अपि स्फुटतरत्वाद् वर्णयित्वा धन्यता-वर्णनेन हृदयाक्रान्त-परम-महा-धन्य-गोपी-गण-प्रेमाकृष्ट-चेताः सर्वतो\ऽधिकतया तदीय-सौभाग्य-सम्पत्तीः सङ्कीर्तयति—गोप्य इति । इयम् इत्य् अस्यानुवृत्तेः पूर्वोक्त-रीत्या इमा गोप्य इति सदा हृद्-गतत्वाद् अपरोक्षता । तथोक्तिश् च माथुर-व्रज-वर्ति-श्री-गोपी-गण-व्यतिरिक्त-गोपाली-व्यवच्छेदार्था । श्रीर् अपि यत्-स्पृहा यस्मै स्पृहयति केवलम् इत्य् अर्थः ।

तेन भुजयोर् अन्तरेण श्री-वक्षसा गोप्यो धन्याः धरण्य्-आदीनां गोप्य्-अन्तानां जात्य्-आदि-तारतम्येन पाद-स्पर्शादि-सौभाग्य-लाभे पूर्व-पूर्वत उत्तरोत्तरेषाम् आधिक्यं बोधव्यम्। अतः सर्वेभ्यो गोपीष्व् एवाधिक-धन्यता पर्यवस्यति । यद् वा, गोप्यो\ऽपीति अन्तरेणापीति वा अपि-शब्देनान्वयः । तद्-बलाच् च पाद-स्पर्शन-करजाभिमर्शन-सदयावलोकैर् अपि विशेषतो वक्षसालिङ्गनादिना च ता एव परम-महा-धन्या इति ज्ञेयम् । एवं सर्वथा सर्व-श्रैष्ठ्यम् एतासां स्वतः-सिद्धम् इति ॥८॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रथम-दृष्टाणां हृद्यतमानां विशेषतो माहात्म्यम् अभिवर्ण्य पुनर् हर्ष-भरेण सामान्यतः सर्वेषाम् अपि वर्णयति । यद् वा, किं विशेष-वर्णनेन ? सर्व एवात्रत्या धन्या इत्य् आह—धन्या इति । इयम् आदितो वर्तमाना विचित्रावतार-भूषिता श्री-वराहेणोद्धृत्य रमिता, शेष-रूपेण त्वया शिरसि धार्यमाणाप्य् अद्य श्री-मथुरायाम् अवतीर्णे त्वयि ।

किं वा, श्री-नन्द-व्रजे पौगण्ड-लीलया गोपाले सत्य् एव धन्या परम-भाग्यवती सर्वोत्तमाभूत् । अद्येइति सर्वत्राग्रेऽप्य् अनुवर्त्यम् । धन्येयम् इत्य् अपि वचनादि-व्यत्ययेन, तथा त्वद् इति समासान्तः प्रविष्टम् अपि यथा-स्थानम् आकर्षणीयम् । इमानि तृणानि इमा वीरुधश् च गुल्मिन्यो धन्याः । न च स्वर्गादि-वर्तिन्यो दण्डकादि-स्थिताश् च । तत्र हेतुः—त्वत्-पाद-स्पृशः । एवम् अग्रे\ऽपि व्याख्येयम् ।

धरण्या धन्यत्वे\ऽप्य् अयम् एव वा हेतुर् द्रष्टव्यः—असाधारण-सुन्दर-पदैर् गोष्ठाद्य् अक्षुण्ण-प्रदेशेषूदितैर् अलङ्कार-विशेष-सम्पत्तेः । द्रुमा लताश् च फल-पुष्पादि-ग्रहणेन, भूषणाद्य्-अर्थं पत्रादि-च्छेदनेन च नखैः स्पृष्टाः, नद्यः श्री-यमुनाद्याः, अद्रयः श्री-गोवर्धनादयः, खगा मयूरादयो, मृगाः कृष्णसारादयश् च, दूर-स्थिताः सदयैर् अवलोकैर् धन्याः । नद्य्-अद्रीणां पादाब्ज-स्पर्श-धन्यता-सद्भावे\ऽपि तथोक्तिः, प्रायो दूर-वर्तित्वात्, तथा धरण्य्-आदिषु सर्वेषु सदयावलोक-सम्भवे\ऽपि, तथा द्रुमादिष्व् अपि यथायथं पाद-स्पर्शादि-सम्भवे\ऽपि तेषु तेषु तत्-तत्-प्रधान्यापेक्षया तथोक्तम् । एवम् अग्रे\ऽपि । इमाः श्री-नन्द-व्रज-वर्तिन्यः । किं वा, सदा हृद्-वर्तित्वेनापरोक्षाः । भुजयोर् अन्तरेण आलिङ्गनेनेत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अपि-शब्दः समुच्चये, भुजयोर् अन्तरेण सदयावलोकादिभिश् च तासु धन्यता-कारणानं पाद-स्पर्शनादीनां सर्वेषाम् अपि प्राधान्येन सद्-भावाद् इति तासां सर्वतो\ऽधिकतर-धन्यतोक्ता । श्री-वैकुण्ठेशस्य वक्षसि नित्यम् एव वसन्ती लक्ष्मीस् त्वद्-वक्षस एव स्पृहयतीत्य् असङ्गतम् एव । तेनायम् अर्थः—कृष्णस्यासमोर्ध्वं माधुर्य-भरम् अवेक्ष्य तस्मै स्पृहयन्ती श्रीस् तपश् चकार । तच् च—यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इति नाग-पत्नीभिर् वक्ष्यते । अतः श्रियो\ऽप्य् अधिक-माहात्म्यं व्रज-सुन्दरीणां सुव्यक्तम् एव ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तत्-कतृक-सेवया तान् स्तुत्वा श्री-राम-कतृक-प्रसादेनापि धरण्यादि-सहितान् एव तान् स्तौति—धन्येति । इयम् आदितो वर्तमाना विचित्रावतार-स्पर्श-सौभाग्यवती विशेषतः श्री-वराह-शेष। प्रसादातिशय-लब्ध-माहात्म्यापि अद्य त्वद्-अवतार एव धन्या पर-प्रशंसनीयाभूत् आस्तां तावद् अस्या धन्यात्वं तत् संभवानां मध्ये लधिष्ठा इमाः श्री-वृन्दाव-वर्तिन्यः तृण-वीरुधस् तृण-रूपा लता दूर्वाद्या अपि धन्याः यतस् त्वत्-पाद-स्पृशः एवम् उत्तरत्र च धन्येयम् इति वचनं लिङ्ग-व्यत्ययेनानुवर्त्यं त्वद् इति । छान्दसो डसो लुक् । ततो यथा-स्थानम् आकर्षणीयं तथा द्रुमा लताश् च करजैर् अङ्गुलिभिः किसलयादीनां सौकुमार्य-स्पर्शाय भूषणाद्य्-अर्थच्-छेदनाय वा स्पृष्टाः सन्तः मालत्य् अदर्शि वः कच्चित् [भा।पु। १०.३०.८] इत्य्-आदिवत् करजाः नखा इत्य् अर्थे । तु तैर् अभिमर्षों नाम नावरता-सूचकः किसलयादौ लेनो ज्ञेयः ।

स च श्री-गोपीनाम् उद्दीपनार्थः पश्यतेमा लताः इत्य्-आदिवत् तथा एताः नद्यः एते\ऽद्रयो\ऽपि त्वत्-पाद-स्पृशः सन्त इति गम्यं योज्यं वा तेषु तस्यैव प्राधान्यात् नद्यस् तद् एत्य्-आदौ गृह्णन्ति । पादयुगलम् इति हन्तायम् अद्रिर् इत्य्-आदौ यद्-राम-कृष्ण-चरण-स्पर्श-प्रमोद इति वक्ष्यमाणाच् च अथ गोपी-पर्यायां श्याम-सारिवां तहि कञ्चित्-तद्-वक्षो-लग्नां दर्शयन् श्लेषणाह, गोप्य इति । मत्-पितृव्याद् अवतीर्णस्य पुनर्-मत्-पितुर् धर्मतां प्राप्तस्य गोप-कन्या-परिणयनम् एव भविष्यतीति सूचयन्त्य इति भावः तद् एवम् भावी । यस् तस्य प्रियात्वं प्राप्स्यन्तीभिः काभिश् चिद्-गोपीभिः सह विहारस् तस्य सूचना कृता यत्-स्पृहेति श्री-वैकुण्ठ-नाथ-वक्षस्थिता लक्ष्मीर् अपि यत्-स्पृहेत्य् अर्थः । न केवलं स्पृहा-मात्रं किन्तु वक्ष्यते चान्यन्न् आगपत्नीभिः यद्-वाञ्छ्या श्रीर् ललनाचरत्-त पः इति एवम् अप्य् अत्र श्री-गोकुले तद् अप्रातिः श्री-गोपीनाम् इव तद् अनन्यत्वाद्-भावात् तासु तद् अधिकारिणीष्व् अननुगतत्वाच् चेति भावः । अत्र सर्वेषां सर्वेषु सत्स्व् अपि तस्य तस्य प्रसादस्य परम-काष्ठा-प्रातत्वात् विशेषोक्तिर् इति ज्ञेयम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : गोप्य इवेति नेत्र-गुणेन तत्-स्मरणात् । अथ गोपी-पर्यायां श्याम-सारिवां तर्हि कथञ्चिद् वक्षो-लग्नां दर्शयन्—श्लेषेण गोप्य इति । नेत्र-गुणेन तत्-स्मरणात् राम-प्रियाभिः काचिद् रामस्य भावि-विलास-सूचनेयम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं च, एतेषां धन्यता तु नित्य-सिद्धैव, अप्राकृतत्वात् । धरण्य् अप्य् अद्य इदानीं धन्येत्य् आह—धन्येयम् इत्य्-आदि । अद्य इदानीम् इयं धरणी धन्यातृण-वीरुधश् च एतास् तृण-वीरुधो धरणी-सम्बन्धिन्य एव । पूर्वं तु, अहो अमी देव-वरामरार्चितम् [भा।पु। १०.१५.५] इत्य्-आदिना य उक्तास् तरवस् तेऽप्राकृताः । अद्येति कालस्य पार्थक्य-निर्देशात् ।

तत्रायं विचारः—वैकुण्ठं तु त्रिविधं भवति । भौमम् अभौमं भौमाभौमं चेति। भौमं भौम-स्वर्गवत् पुरुषोत्तम-क्षेत्रम्, वपुर् भूतं महात्मनः इत्य्-उक्तेः । अभौमं स्व-योग-शक्त्य्-आधारम् । भौमाभौमं व्रज-वृन्दावनादि । सान्निध्यं नित्यदा हरेः [भा।पु। १०.१.२८], यत्र सन्निहितो हरिः इत्य्-आदिना विहित-महिम-ख्यापनायान्तर्भूतत्वात् । भौमत्वं,

ततः प्रभृति नन्दस्य व्रजः सर्व-समृद्धिमान् ।

हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप ॥[भा।पु। १०.५.१८]

इत्य्-आदिना हरेर् निवासस्य परम-वैकुण्ठस्य भाव-गुणैः सह रमाक्रीडम् अभूत् । सर्व-समृद्धिमान्—अष्ट-सिद्धि-नव-निधिभिश् च समृद्ध इत्य् अनेनाभौमम् । तेनाद्येति काल-नियमः । अद्य मद्-अवतारे यद्यप्य् अंशेन सर्वदैव मम सान्निध्यम् एव, तथापि परिपूर्ण-भावेनाद्यावतीर्णोऽस्मीति पूर्ण-भावेन मल्-लोकोऽप्य् अवतीर्ण इति भौमाभौमत्व-सिद्धिः ।

धन्यत्वे हेतुः—त्वत्-पाद-स्पृशः । पूर्ववद् युष्मच्-छब्द-प्रयोगः । द्रुम-लता इति धरणी-सम्बन्धित्वात् पुनर् उपादानम् । न केवलं धरण्य्-आदय एव, नद्य्-आदयश् च । नद्यो यमुनाद्याः । अद्रयो गोवर्धनादयः । श्रीर् अपि यद् भावाय स्पृहयति । अतः श्री-शब्दोपादानाद् उक्तस्य सर्वस्य स्वाश्रयत्वं प्रकाशित-श्रियः सङ्कर्षण-परत्वेऽप्रसिद्धत्वात् ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं तत्-तत्-कर्तृक-सेवया तान् स्तुत्वा श्री-राम-कर्तृक-प्रसादेनापि तान् एवानुरक्तैर् अन्यैश् च सहितान् स्तौति—धन्येयं धरणी अद्य इत्य् अवतार-गत-स्थूल-कालम् आलम्ब्य उक्ति-वाचकेन पदेन त्वत्-स्वरूप-वराह-शेष-स्पर्शाद् अपि त्वत्-स्पर्शोऽस्या अतिसुखद इति द्योतितम् । कुतो धन्येयम् ? इति चेत्, धरणी-स्थानां तृणादीनाम् अपि त्वत्-सम्पर्काद् एवेत्य् आह—तृणानिवीरुधश् च तास् त्वत्-पादाभ्यां स्पृक् स्पर्शो यासां तथा-भूताः, यतः द्रुमा लताश्करजैः पुष्प-त्रोटनार्थं नखरैर् अभिमृष्टा स्पृष्टाः, यतः नद्य्-आदयश्स-कृपावलोकैः

यद् वा, सन् अयः शुभावहो विधिर् येभ्यस् तथा-भूतैर् अवलोकैः सहिता यतः किञ्चित् सुगन्ध-शीतलां गोपी-पर्यायां शारिवां वल्लीं वक्षसि कौतुकेन ध्रियमाणां विलोक्याह—गोप्यः श्याम-वल्ल्योऽपि भुजयोर् अन्तरं वक्षस् तेन सहिता यतः श्रीः शोभापि यस्मै स्पृहयति, तथा हि भागवतामृतीयाः कारिकाः—

सदा वक्षः-स्थलस्थापि वैकुण्ठेशितुर् इन्दिरा ।

कृष्णोरः-स्पृहयास्यैव रूपं विवृणुतेऽधिकम् ॥

पौराणिकम् उपाख्यानम् अत्र सङ्क्षिप्य लिख्यते ॥

श्रीः प्रेक्ष्य कृष्ण-सौन्दर्यं तत्र लुब्धाचरत् तपः ।

कुर्वतीं प्राह तां कृष्णः किं ते तपसि कारणम् ॥

विजिहीर्षे त्वया गोष्ठे गोपी-रूपेति साब्रवीत् ।

तद् दुर्लभम् इति प्रोक्ता लक्ष्मीस् तं पुनर् अब्रवीत् ॥

स्वर्ण-रेखेव ते नाथ वस्तुम् इच्छामि वक्षसि ।

एवम् अस्त्व् इति सा तस्य तद्-रूपा वक्षसि स्थिता ॥[ल।भा। १.५.३४९-३५१] इति ॥८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ वृन्दावन-भुवं तत्रत्यान् अन्यांश् च बलभद्र-प्रसाद-पात्रत्वेन स्तौति—धन्येयम् इति । इयं धरणी वृन्दावन-भूमिर् धन्या श्लाघ्या अद्य इति, त्वद्-अवतार-वराह-स्पर्शाद् अपि त्वत्-स्पर्शोऽस्या अतिहर्ष-कृद् इति सूच्यते । तद्-भवास् तृण-वीरुधस् तृण-रूपा लता-दूर्वाद्याश् च धन्याः, यतस् त्वत्-पाद-स्पृशः द्रुम-लताश् च धन्याः, यतस् त्वत्-करजैः पुष्प-त्रोटनार्थम् अपि तैर् अभिमृष्टाः स्पृष्टाः नद्य्-आदयश् च सन्, अयं शुभावहो विधिः येभ्यस् तैः स-कृपैर् वावलोकैर् धन्याः मरुता चलन्तीं श्यामलतां तद्-वक्षो-लग्नां वीक्ष्याह गोप्यः श्याम-लताः श्लेषेण व्रज-किशोर्यस् तव भुजयोर् अन्तरेण वक्षसा धन्याः । तद्-अनन्तरं कीदृशं ? श्रीर् यत्-स्पृहा इति लक्ष्मीर् यत् स्पृहयतीत्य् अर्थः । वक्ष्यते चैवं नाग-पत्नीभिः, यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इत्य्-आदिना व्रज-किशोरी-विषयकः पूर्व-रागोऽत्र पद्ये नन्द-सूनोः सूचितः ॥८॥


॥ १०.१५.९ ॥

श्री-शुक उवाच—

एवं वृन्दावनं श्रीमत् कृष्णः प्रीत-मनाः पशून् ।

रेमे सञ्चारयन्न् अद्रेः सरिद्-रोधःसु सानुगः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं श्रीमद् वृन्दावनं प्रति प्रीतः सन्न् अद्रेः समीप-वर्ति-सरित्-तटेषु पशून् सञ्चारयन् सानुगो गोपैः सह वर्तमानः प्रीत-मना रेमे ॥९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् एवं-प्रकारम् । अद्रेर् गोवर्धनस्य । यद् वा, इत्थम् अग्रजं परितोष्य गोप्योऽन्त्रेण भुजयोर् इति निजोक्त्यैवोद्दीप्त-कन्दर्पस् तत्-सङ्ग एव गाः सखीश् च नियुज्य, “भोः श्रीमद् ईक्षणम् अत्र सुबलेन सार्धं गोवर्धन-कन्दरा-रोधसि विश्रम्यागन्तास्मि त्वम् अग्रे कालिन्दी-रोधस्सु तावद् विहर” इत्य् उक्त्वा, ततो वियुज्य पौगण्डेऽपि कैशोराविर्भावाद् रहसि व्रज-बालाभिः सार्धं रेमे त्य् आह—एवम् अग्रजं स्तुत्वा तद्-द्वारैव पशून् वृन्दावनं सञ्चारयन्न् अद्रेः सरितो मानस-गङ्गाया रोधस्सु रेमे इत्य् अन्वयः । श्रीमती व्रज-योषिन्-मुख्या अस्यैव प्रीता प्रेमवता यस्मिन् सः । कुलाल-कर्तृको घट इतिवत् प्रीतेत्य् अस्य विशेष्यत्व-विवक्षया पर-निपातः । अत एव प्रीत-मनाः अनुगाभिः सखिभिः सहितः । व्याख्यानस्यास्य रहस्यत्वाद् एतस्यावरकं रत्नस्य कनक-सम्पुटम् इव व्याख्यान्तरम् अवतारिकां विनैवास्ति । तद् यथा श्रीमती बलदेवाद्याः प्रीता यस्मिन् । सानुगोऽनुगैः सहितः । अन्यत् समानम् ॥९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ईदृशं वर्णयन्न् इत्य् अर्थः । यद् वा, अनेन प्रकारेण, तत् प्रति प्रीतः सन्तुष्टः, कृत-प्रासाद इत्य् अर्थः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सनर्म-वर्णनादि-प्रकारेण वृन्दावनं व्याप्य प्रीतः सन् कालाध्व-भाव-देशानाम् इत्य्-आदिना कर्मत्वम् अद्रेः श्री-गोवद्धनस्य प्रीतत्व-प्रीतमनस् त्वयोः सामान्य-विशेषाभ्यां भेदः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं स-नर्म-वर्णनादि-प्रकारेण वृन्दावनं व्याप्य प्रीतः सन् ॥९-१०॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् इति स्पष्टम् । यद् वा, इत्थम् अग्रजं परितोष्य गोप्योऽन्तरेण भुजयोर् इति निजोक्त्यैवोद्दीप्त-कन्दर्पस् तत्-सङ्ग एव गाः सखींश् च नियुज्य, “भोः श्रीमद्-आर्य ! क्षणम् अहम् अत्र सुबलेन सार्धं गोवर्धन-कन्दरा-रोधसि विश्रम्यागन्तास्मि । त्वम् अग्रे कालिन्दी-रोधःसु तावद् विहर” इत्य् उक्त्वा, ततो वियुज्य पौगण्डेऽपि कैशोराविर्भावाद् रहसि व्रज-बालाभिः सार्धं रेमे इत्य् आह—एवम् अग्रजं स्तुत्वा, तद्-द्वारैव पशून् वृन्दावनं सञ्चारयन् अद्रेः सरितो मानस-गङ्गाया रोधःसु रेमे इत्य् अन्वयः । श्रीमती व्रज-योषिन्-मुख्या सैव प्रीता प्रेमवती यस्मिन् स कुलाल-कर्तृको घट इतिवत् प्रीतेत्य् अस्य विशेष्यत्व-विवक्षया पूर्वे निपातः । अत एव प्रीत-मनाः अनुगाभिः सखीभिः सहितः व्याख्यानस्यास्य रहस्यत्वाद् एतस्यावरकं रत्नस्य कनक-सम्पुटम् इव व्याख्यान्तरम् अवतारिकां विनैवास्ति। तद् यथा श्रीमन्तो बलदेवाद्याः प्रीता यस्मिन् स सानुगः अनुगैः सहितः । अन्यत् समानम् ॥९-१०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवम् अग्रज-स्तुति-विधया वृन्दावनं रेमे । अकर्मक-धातुना योगात् देशस्य कर्मत्वम् । श्रीमन्तो बलभद्रादयः प्रीताः यस्मिन् सः अनुगैर् भृत्यैः सहितः अद्रेर् गिरि-राजस्य सरितो मानस-गङ्गाया रोधःसु पशून् सञ्चारयन् । रहस्यार्थश् चायम्—एवम् उक्त-विधयाग्रजं स्तुत्वा गोप्यान्तरेणेति स्वोक्ति-समुद्दीपित-स्मरो धेनुर्-मित्राणि च तस्मिन् नियोज्य स-सुबलोऽहम् अद्रि-शोभां विलोक्य आगच्छामीति निवेद्य तद्-द्वारा पशून् वृन्दावनं सञ्चारयन् । श्रीमती प्रीता प्रेमवती यत्र तादृशः । तत एव प्रीत-मनाः सानुगस् तद्-अनुगाभिः सहितश् चाद्रेः सरिद्-रोधःसु रेमे इति ॥९-१०॥


॥ १०.१५.१० ॥

क्वचिद् गायति गायत्सु मदान्धालिष्व् अनुव्रतैः ।

उपगीयमान-चरितः पथि12 सङ्कर्षणान्वितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ताम् एव रतिम् आह—क्वचिद् इत्य्-आदि-दशभिः ॥१०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : या वृन्दावने रतिः कृता, ताम् इत्य् अर्थः । अनुव्रतैः सखिभिः । स्रग्वी वनमाला-धरः ॥१०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रीत-मनसो रतिम् एव दर्शयति—क्वचिद् इत्य्-आदिना । पूर्वं केचिद् वेणून् वादयन्तः [भा।पु १०.१२.७] इत्य्-आदिना बालकानाम् एव प्राधान्येन तत्-तत्-क्रीडोक्ता, इदानीं तु प्रीत-मनस्त्वेन साक्षच्-छ्री-कृष्णस्यैवेति विशेषः । क्वचित् कस्मिंश्चित् पथि । "स्रग्वी" इति पाठे कस्मिंश्चित् प्रदेशे कदाचिद् इति वा । एवम् अग्रेऽपि ।

मदेन श्री-वृन्दावन-पुष्प-रसस्य पानजेन श्री-भगवत्-सान्निध्य-सौभाग्यजेन वा अन्धेषु सुख-विशेषेण निमीलिताक्षेषु महामत्तेषु वा, तादृशेष्व् अलिष्व् इति गान-माधुर्यम् अभिप्रेतम् । सङ्कर्षण-शब्दः श्री-भगवता सह तस्यापृथक्तया गानाभिप्रायेण, तथा चोक्तम्—यदूनाम् अपृथग्-भावात् सङ्कर्षणम् उशन्त्य् अपि [भा।पु १०.८.१२] इत्य् अनुव्रतैस् तद् एक-प्रीति-परैर् गोपैर् उप समीपे, सर्वोपरितनत्वेन वा, गीयमानानि चरितानि यस्य । यद् वा, उपगीयमानम् अलि-गानाद् अपि उत्तमतया संश्लाघ्यमानं चरितम् अलि-गानानुकार-लक्षणं यस्य सः । एवम् इदं विशेषणम् अग्रेऽपि पद्य-पञ्चकं यावद् अनुवर्त्यम् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रीत-मनसो रतिं दर्शयन् वर्तमान-प्रयोगेण साधारण-दिन-गताम् एवाह—क्वचिद् इत्य्-आदिना । पूर्व केचिद् वेणून्वादयन्तः इत्या-दिना वालकानाम् एव प्राधान्येन तत्-तत्-क्रीडोक्ता, इदानीं तु प्रीत-मनस्त्वेन साक्षात् श्री-कृष्णस्यैवेति विशेषः, क्वचित् कस्मिश्चित् [पथि सङ्कर्षणान्वित इति वा पाठः] पथि स्त्रग्वीति पाठे कस्मिंश्चित् प्रदेशे कदाचिद् इति वा, एवम् अग्रे\ऽपि । मदेन श्री-वृन्दावन-पुष्प-रस-पानजेन श्री-भगवत्-सान्निध्य-सौभाग्यजेन वा, अन्धेषु महा-मत्तेषु तादृशेष्व् अलिष्व् इति गान-माधुर्यम् अभिप्रेतं सङ्कर्षण-शब्दः श्री-भगवता सह तस्यापृथक्तया गानाभि-प्रायेण अनुव्रतैः तद् एक-प्रीति-परोपैर् गोपैः अत्र भ्रमराणां स्व-जातीयस्य स्वर-मात्रस्य गानं श्री-भगवतस् तद् अनुसारि-स्वरस्य तद् उचित-रागस्य च अनुव्रतानां तु तयोर् गीत-बद्ध-तच्-चरितस्य चेति मिथो गानमेलनं ज्ञेयम् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं प्रथम-गोचारणादि-प्रसङ्गे साधारण-दिन-गतां लीलाम् आह—क्वचिद् इत्य्-आदिना ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पूर्व श्लोकस्य व्याख्या द्रष्टव्या।


॥ १०.१५.११ ॥

अनुजल्पति जल्पन्तं कल-वाक्यैः शुकं क्वचित् ।

क्वचित् स-वल्गु कूजन्तम् अनुकूजति कोकिलम् ॥13

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कल-वाक्यैर् इति शुकाद् अपि उत्तम-जल्पनं बोधयति। एवं वल्ग्व् इति च शरच्-छेषे\ऽपि कोकिल-कूजनं सर्वत्राश्रय-श्री-वृन्दावन-स्वभावात् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.१५.१२ ॥

क्वचिच् च कल-हंसानाम् अनुकूजति कूजितम् ।

अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बर्हिणं नृत्यन्तम् अनु अभिनृत्यति । बर्हिणम् अभिमुखो नृत्यतीति वा । सखीन् हासयन् ॥१२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बर्हिणं मयूरम् अभि नृत्यति तत्-तुल्यं नृत्यति सर्वतो वा । मयूर-तुल्यत्वं पक्षैर् विनासम्भवं मत्वार्थान्तरम् आह—अभिमुख इति । हासयन् हासं जनयन् ॥१२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च-शब्दो वल्ग्व् इति समुच्चिनोति, अर्थस् तथैव बर्हिणम् अभि लक्षीकृत्य नृत्यति, तद्-अभिमुखः सन् नृत्यति इत्य् अर्थः । स्फुटम् । आसयन् तम् एवोपवेशयन् । निर्जित्य नृत्याद् उपरमयन्न् इत्य् अर्थः । यद् व, "नायं साधु नृत्यति" इति बर्हिणम् एव प्रति सखीन् हासयन् ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पशून् इति श्लेषेण श्री-कृष्ण-पार्श्वतो दूरं गत्वा निर्बुद्धित्वं उक्तं । येन पूर्ववद्-आत्म-पश्चाद् एव तत् स्फुरणात् दूर-गत्व-ज्ञानम् अपि न जातम् इति भावः । मेघेति तद्-गर्जितं लक्ष्यते तद्वद्-गम्भीरयेति महा-पुरुष-स्वभावत एव ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : बर्हिणम् अभि लक्ष्यीकृत्य नृत्यति पशूनां दूर-गात्म-पश्चाद् एव श्री-कृष्ण-गमन-स्फूर्तेः सत्त्वानां मध्ये यो व्याघ्र-सिंहयोः भीतस् तद्वच् चानुरौति स्म, तेषाम् ईषद्-भय-दर्शन-कौतुकार्थम् इति भावः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बर्हिणम् अभि लक्ष्यीकृत्य नृत्यति । सखीन् हासयन्, बर्हिणाम् एव रसोल्लासयन् ॥१२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नृत्यन्तं बर्हिणम् अभि नृत्यति, सखीन् हासयन् ॥१२॥


॥ १०.१५.१३ ॥

मेघ-गम्भीरया वाचा नामभिर् दूरगान् पशून् ।

क्वचिद् आह्वयति प्रीत्या गो-गोपाल-मनोज्ञया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नामभिः प्रसूति-वार-प्रयुक्तादि-लक्षणैः—"हे सूर्ये, हे सोमे !" यद् वा, "हे अश्विनि, हे यमुने, हे पीते !" इत्य् एवं-रूपैः । गवां गोपालानां मनसः प्रियया ॥१४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पशून् गो-वृष-वत्सतर्यादीन् । यद् व, आत्मनो गवादीन् सर्वान् एव चतुष्पदो दूरगान् सतः पशून् इति । श्लेषेण श्री-कृष्ण-पार्श्वतो दूरं गतत्वान् निर्बुद्धित्वम् उक्तम् । नामभिर् गङ्गा-यमुना-हंसी-धवली इत्य्-आदि-तत्-तत्-संज्ञाभिः प्रीत्या आह्वयति । अत एव गवां तेषु प्रीति-विशेषेण । किं वा, उपलक्षणम् एतत् । सर्वेषाम् एव पशूनां च मनोज्ञया चित्ताकर्षिण्या वाचा वचनेनैव, न तु वंश्या । कथम्-भूतया ? मेघस्य गर्जितवद् गम्भीरया, सा च महा-पुरूष-स्वभावत एव । किं वा, दूरगाह्वानेऽत्र तद्-विशेषापेक्षया ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पशून् गो-वृष-वत्सतर्यादीन् । यद् वा, आत्मनो गवादीन् सर्वान् एव चतुष्पदो दूरगान् सतः पशून् इति श्लेषेण श्री-कृष्ण-पार्श्वतो दूरं गतत्वान् निर्बुद्धित्वम् उक्तम् । नामभिर् गङ्गा-यमुना-हंसी-धवली इत्य्-आदि तत्-तत्-संज्ञाभिः प्रीत्या आह्वयति । अत एव गवाम् तेषु प्रीति-विशेषेण । किं वा, उपलक्षणम् एतत् । सर्वेषाम् एव पशूनां च मनोज्ञया चित्ताकर्षिण्या वाचा वचनेनेव, न तु वश्या कथम्-भूतया ? मेघस्य गर्जितवद् गम्भीरया, सा च महा-पुरुष-स्वभावत एव । किं वा, दूरगाह्वाने\ऽत्र तद्-विशेषापेक्षया ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.१५.१४ ॥

चकोर-क्रौञ्च-चक्राह्व- भारद्वाजांश् च बर्हिणः ।

अनुरौति स्म सत्त्वानां भीतवद् व्याघ्र-सिंहयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चकोरादीन् अनुकृत्य रौति । कदाचिच् च सत्त्वानां मध्ये व्याघ्र-सिंहयोस् ताभ्यां भीतवद् भवति । सत्त्वेषु पलायमानेषु पलायत इत्य् अर्थः । तयोः सत्त्वानां बलोद्रेकाणां भीतवद् भवतीति वा ॥१४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः): चकोरो जीवं-जीवश् चन्द्र-प्रियः पक्षीः क्रौञ्चो जल-चरः पक्षी, चक्राह्वः कोकः, भारद्वाज उर्द्धवाश्चंचुश् चित्रिताङ्गः पक्षी । सत्त्वानां जीवानां सत्त्वं जीवे बले गुणे इति कोशात् । व्याघ्र-सिंहयोर् इति पञ्चम्य् अर्थे षष्ठी । इत्य् अर्थ इति । सत्त्वेषु मृगादिषु धावत्सु स्वयम् अपि तथैव धावति न तु भीत इति भावः । अन्ये\ऽपि सदियो भय-हेतवो बहवः संति द्वयोर् एवोपादानं कथम् इत्य् अस्वरसाद् अर्थान्तरम् आह—तयोर् याघ्र-सिंहयोः । सत्त्वानां सकाशाद्-भीतवद् इति । यद्यप्य् अन्ये भय-हेतवः सन्ति, न तेष्व् एतयोस् तुल्यं बलम् इति भावः ॥१४॥ अथ विश्वनाथः।

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्वचिद् इत्य् अनुवर्तत एव । चकोरश् चन्द्रिकापायी, क्रौञ्चश् चिञ्चोट-भक्षी, चक्राह्वश् चक्रवाको**, भरद्वाज** एव भारद्वाजः**,** स्वर्थेऽण्, व्याघ्राटाख्यः पक्षी । चकोरादीनां कञ्चित् क्वचिद् अनुकृत्य रौति, सर्व-शक्तिमत्त्वाद् इत्य् ऐश्वर्यं तत्रापि पूर्ववद् बोधव्यम् । भीतवद् इति क्रीडा-कौतुकेन वति-प्रत्ययस् तयोर् हिंस्रत्वाभावेनापि वस्तुतस् ताभ्यां भयाभावात् । यद् वा, यथान्यः कश्चिद् बालको भीतो भवेत्, तथैव भीतः स्याद् इत्य् अर्थः, बाल्य-लीला-स्वभावात् । स्म इति प्रसिद्धम् एवेदम्, नात्र संशयः कार्य इत्य् अर्थः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्वचिद् इत्य् अनुवर्तत एव । चकोरश् चन्द्रिका पायी, क्रौञ्चश् चिञ्चोटभक्षी, चक्राह्वश् चक्रवाको भरद्वाज एव भारद्वाजः—स्वार्थे\ऽण्, व्याघ्राटाख्यः पक्षी चकोरादीनां कञ्चित् क्वचिद् अनुकृत्य रौति, सर्वान् एव युगपद् अनुकृत्य रौति सर्व-शक्तिमत्त्वात् इत्य् ऐश्वर्य तत्रापि पूर्ववद् बोध्यं भीतवद् इति । क्रीडा-कौतुकेन वति-प्रत्ययस् तयोर् हिनत्वाभावेनापि वस्तुतस् ताभ्यां भयाभावात् स्मेति प्रसिद्धम् एवेदं नात्र संशयः कार्य इत्य् अर्थः । अत्र तेषाम् उत्तर-पक्षे व्याघ्रादि-बलातिशयानां सम्बन्धे भीतायत इत्य् अर्थः । यद् वा, सत्त्वानां मध्ये यो व्याघ्र-सिंहयोः सम्बन्धे भीतः तद्वच् चानुरौति तेषाम् ईषद्-भय-दर्शन-कौतुकार्थम् इति भावः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किन्तु सत्त्वानां प्राणिनां मध्ये व्याघ्र-सिंहयोः शब्देन भीतवद् भवति, सखीषु पलायमानेषु स्वयम् अपि पलायते । वस्तुतस् तु स्वस्य स्वाभाविक-शौर्येण भयाभावो वति-प्रत्ययेनोक्तः ॥१४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : चकोरादीन् अनुकरोति । कतिचिच् च सत्त्वानां प्राणिनां मध्ये व्याघ्र-सिंहयोः शब्देन भीतवद् भवति । सत्त्वेषु विद्रवत्सु स्वयम् अपि विद्रवति । वतिना भयाभावो दर्शितः, स्वयम् अतिशूरत्वात् । तच् च शूराणां सखीनां विद्रवणेन हासोऽयम् इति बोध्यम् ॥१४॥


॥ १०.१५.१५ ॥

क्वचित्14 क्रीडा-परिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।

स्वयं विश्रमयत्य् आर्यं पाद-संवाहनादिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आर्यम् अग्रजम् । विश्रमयति विगत-श्रमं करोति ॥१५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोपस्योत्सङ्ग उपविष्टस्य उरु-जङ्घा-योग उपबर्हणम् उपधानं शिरः-पीठं यस्य तम् ॥१५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदि-शब्दाद् वीजनादीनि ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आदि-शब्दाद् वीजनादीनि ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपबर्हणं शीर्षोपधानम् ॥१५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उपबर्हणं शीर्षोपधानं विश्रमयत्य् आश्रमं करोति ॥१५॥


॥ १०.१५.१६ ॥

नृत्यतो गायतः क्वापि युध्यतो वल्गतो मिथः ।

गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मिथो नृत्यादीन् कुर्वतो गोपान् प्रशशंसतुः ॥१६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृत्यत इत्य्-आदीनां चतुर्णां द्वितीयान्तानां गोपालान् इत्य् अनेन सम्बन्धः । वल्गतः प्लवतः वल्ग-प्लवने धातुः । स्खलनादि-विषये हसन्तौप्रशंसतुः तुष्टुवतुः ॥१६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्ण-लीला-प्रसङ्ग एव द्वयोर् अपि युगपद् एवाह—नृत्यत इति । क्वापि प्रशशंसतुर् वल्गतो गति-विशेषं कुर्वतो मिथोऽन्योऽन्यम् आसक्त्येत्य् अर्थः । यद् वा, अस्य युध्यत इत्य् अनेनैव परेण वान्वयः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, तौ क्वापि नृत्यतः, क्वापि गायत इत्य् एवं क्वापीति सर्वैर् अपि योज्यम् । किं च, क्वापि मिथो गृहीत-हस्तौ क्वापि हसन्तौ भवतः । यद् वा, पद-द्वयम् इदं विशेषणत्वेन सर्वत्रैव योज्यम् । क्वापि गोपालान् प्रशशंसतुः—"परम-विदग्धाः ! शूराः ! सुस्निग्धाः !" इत्य्-आदि-श्लाघां चक्रतुः । किं वा, नृत्यादिना प्रहर्षोदयेन हसन्तौ प्रशशंसतुः । किं वा, गोपालान् हसन्तौ—"अहो ! इमे गानेन गन्धर्व-गण-तिरस्कारिणः, नृत्येन विद्याधर-विडम्बकाः, युद्धेन त्रिलोकी-जित्वराः" इत्य्-आदि-परिहासं कुर्वन्तौ प्रशशंसतुर् एव, तत्त्वतो माहात्म्य-विशेष-ख्यापनात् ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहरिष्यन् विश्राम-क्रीडां वदन् गोपानां सौभाग्य-भरं वर्णयति, क्वचिद् इति त्रिभिः । पल्लवेत्य् उपलक्षणं कोमल-नव-दल-कोरक-पुष्पाणां तल्पेषु बहुत्वं पृथक् पृथक् पञ्चषैर् मिलित्वा निर्मितत्वेन बाहुल्यात् ततश् च बहुतरेष्व् अपि तेषु तेषां प्रीत्यै तत् तद् अलक्षितस् तत् तत् प्रेमोद्बोधितेन निज-शक्ति-विशेषण बहु-रूपतयैव शेत इति विज्ञापयति—एवम् ईश-चेष्टित इति वक्ष्यमाणमैश्वर्यम् अत्रापि सङ्गतं स्यात् । नियुद्धं तैर् एव सह बाहु-युद्धं तेन श्रमः श्री-गण्डादि-विषयक-मौक्तिक-सुन्दर-प्रस्वेदक-णिकोदयादिकरः तेन कर्शितो दुर्बल इव अनेन सखीनाम् अपि तादृशं बलवत्त्व सूचितम्, तथा चागमे गोपैः समान-गुणशील-वयोविलास-वेषैः इति तद् एवम् अपि तेषां स्वयम् असुर-मारणादौ यद् अप्रवृत्तिस् तत्रेदं पश्याम सर्वस्य वजस्य तेनापि गणेन श्री-कृष्णैक-सखतार्थ-लीला-शक्तिर् एव तेषाम् उद्यमं स्तभयतीति गोपेति ते किञ्चिद् अज्येष्ठा ज्ञेयाः । तत्रोपबर्हण-रचनं च तत्-सुख-लाभायैव तेन तत्-कृतं किं वा रचितस्यापि तेनैव तद् अर्थं त्यागो ज्ञेयः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हसन्तौ कृष्ण-रामौ नृत्यादीन् कुर्वतो गोपालान् प्रशंसतुः ॥१६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हसन्तौ राम-केशवौ मिथो नृत्यादीन् कुर्वतो गोपान् प्रशंसतुः ॥१६॥


॥ १०.१५.१७ ॥

क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः ।

वृक्ष-मूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नियुद्धं बाहु-ग्रहणादिना द्वन्द्व-युद्धम् ॥१७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१२३] अथ गोप-वर्गाणां श्री-गोपाल-देवे प्रेम-भक्ति-माहात्म्यं पौगण्ड-लीलायां गो-पालन-समये श्री-वृन्दावने वयस्यैर् गोपालैः सह सर्वतः गाश् चारयतः स्थाने स्थाने विचित्र-क्रीडां कुर्वतो भगवतो विश्राम-लीलां श्री-शुकदेव-पादा वर्णयामासुः—क्वचित् पल्लव**-** [भा।पु। १०.१५.१६] श्लोक-त्रयेण ।

क्वचित् कदाचित् कस्मिंश्चित् शीतल-वात-सेवित-यमुना-तीरादि-स्थाने नियुद्धेन मल्ल-लीलया यः श्रमः, तेन कर्षितो व्याप्त इव वृक्ष-मूलं सहज-निविड-सुस्निग्ध-च्छाय-कदम्ब-पादप-तलम् आश्रयो विश्राम-स्थलं यस्य तथा-भूतः सन् । क्वचित् पूर्वम् एव श्री-वृन्दा-देव्या विरचय्य स्थापितेषु । किं वा, तत्-कालम् एव प्रिय-सख-गणैर् विरचितेषु पल्लवेत्य् उपलक्षणं पल्लव-पत्र-पुष्पाणाम् अभिनव-कोमलानां तल्पेषु । बहुभिः रचितत्वाद् गौरवेण बहु-वचनम् । यद् वा, परस्पर-प्रीति-स्पर्धया सर्वैर् एकैकश्येन विरचितेषु बहुलेषु तेषु सर्वेषां तेषां प्रीत्यै विश्व-रूपेण तद्-अलक्षितः शेते इत्य् अर्थः । गोपस्य कस्यचित् प्रधानत्वात् श्री-राधा-भ्रातुः श्रीदाम्न उत्सङ्गः क्रोड एव उपबर्हणम् उपधानं यस्य सः ॥१७॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपसंहरिष्यन् विश्राम-क्रीडां वदन् गोपानां सौभाग्य-भरं वर्णयति—क्वचिद् इति त्रिभिः । पल्लव- इत्य् उपलक्षणं कोमल-नव-कोरक-पुष्पाणां तल्पेषु। किं वा, अविलम्बार्थं केवलं पल्लवैर् एव रचितेषु तल्पेषु । तत्र च तदानीम् एव प्रेम-सम्भ्रमेण त्वरया बहुभिर् वयस्यैर् विरचितत्वाद् गौरवेण बहुत्वम् । किं वा, प्रत्येकं प्रेम-दक्षैः सर्वैर् एव तैर् एकैकशो निर्मितत्वेन बाहुल्यात् । ततश् च बहुतरेष्व् अपि तेषु तेषां प्रीत्यै तद्-अलक्षितो निज-शक्ति-विशेषेण बहु-रूपतयैव शेत इति ज्ञेयम् । एवम् ईश-चेष्टितः [भा।पु। १०.१५.२०] इति वक्ष्यमाणम् ऐश्वर्यम् अत्रापि सङ्गतं स्यात् ।

नियुद्धं तैर् एव सह बाहु-युद्धाख्य-मल्ल-लीला, तेन श्रमो मौक्तिक-सुन्दर-श्री-गण्डादि-विषयक-प्रस्वेद-कणिकोदयादि-तल्-लक्षण-स्वीकारात्, तेन कर्शितः खिन्न इव । गोपः श्री-राधा-देव्याः भ्राता श्रीदाम-नामा प्रिय-सखः, तस्य उत्सङ्गः क्रीडम् एव उपबर्हणम् उपधानं यस्य सः । एवं श्रीदाम्नोऽपि तद्वत् तत् तत्र बहुत्वं ज्ञेयम् । यद् वा, गोपानाम् उत्सङ्गोपबर्हण इति कुत्रापि कस्यचिद् इत्य् एव बोध्यम् । तच् च तल्पाङ्गत्वेन यस्य कस्याप्य् उपबर्हण-स्थस् तैर् निजोत्सङ्गोपधानता-सुखार्थम् अवचितत्वात् । किं वा, रचितस्यापि तेनैव तद्-अर्थं त्यागात् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहरिष्यन् विश्राम-क्रीडां वदन् गोपानां सौभाग्य-भरं वर्णयति—क्वचिद् इति त्रिभिः । **पल्लव-**इत्य् उपलक्षणं कोमल-नव-दल-कोरक-पुष्पाणां तल्पेषु । बहुत्वं पृथक् पृथक् पञ्चषैर् मिलित्वा निर्मितत्वेन बाहुल्यात् । ततश् च बहुतरेष्व् अपि तेषु तेषां प्रीत्यै तत्-तद्-अलक्षितस् तत्-तत्-प्रेमोद्बोधितेन निज-शक्ति-विशेषेण बहु-रूपतयैव शेत इति विज्ञापयति—एवम् ईश-चेष्टितः [भा।पु। १०.१५.२०] इति वक्ष्यमाणम् ऐश्वर्यम् अत्रापि सङ्गतं स्यात् । नियुद्धं तैर् एव सह बाहु-युद्धं तेन श्रमः श्री-गण्डादि-विषयक-मौक्तिक-सुन्दर-प्रस्वेद-कणिकोदयादि-करः, तेन कर्शितो दुर्बल इव अनेन सखीनाम् अपि तादृशं बलवत्त्वं सूचितम् । तथा चागमे—गोपैः समान-गुण-शील-वयो-विलास-वेषैः [क्र।दी। ३.२१]15 इति । तद् एवम् अपि तेषां स्वयम् असुर-मारणादौ यद् अप्रवृत्तिस् तत्रेदं पश्यामः सर्वस्य व्रजस्य तेनापि गुणेन श्री-कृष्णैक-सुखतार्थ-लीला-शक्तिर् एव तेषाम् उद्यमं स्तम्भयतीति । **गोप-**इति ते किञ्चिद्-अज्येष्ठा ज्ञेयाः । तत्र उपबर्हण-रचनं च तत्-सुख-लाभायैव तेन तत्-कृतं । किं वा, रचितस्यापि तेनैव तद्-अर्थं त्यागो ज्ञेयः ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तल्पेष्व् इति । बहुत्वं तत्र तत्रानेकेन प्रकारेणेति द्योतकं महात्मनः महात्मानः परम-भाग्यवन्तः सुपां सुपो भवन्ति इत्य् उपसङ्ख्यानेन ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नियुद्धं सखिभिः सह भुज-युद्धं तेन श्रमः कपोलादि-गत-मौक्तिक-सुन्दर-स्वेद-कणादि-करः, तेन कर्शितः कृशवत् प्रतीतः, तेन तेषां च तत्-समं विक्रमत्वं सूचितं—गोपैः समान-गुण-शील-वयो-विलास-वेषैः इत्य् आगमोक्तेश् च श्रमत्वेन भृत्य-सेवाभिलाषाद् उदितस् तत्-सेवा रुचिर् एव तस्याः अष्टादश-दोष-विरह-स्मरणात् ॥१७॥


॥ १०.१५.१८ ॥

पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः ।

अपरे हत-पाप्मानो व्यजनैः समवीजयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यजनैः पल्लवादि-निर्मितैः ॥१८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पाद-सम्वाहनं चरण-मर्दनम् । तस्य हरेः । महात्मनः ब्रह्मादि-पूज्यस्य । केचित् सुबलादयः । अपरे श्रीदामादयः । हत-पाप्मानो जन्मान्तरार्जितानन्त-पुण्याः । व्यजनैः वस्त्र-पत्रादि-रचितैः ॥१८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१२४] एवं नियुद्ध-क्रीडा-पल्लव-शय्या-विरचनोत्सङ्गोप-बर्हणादिभिः सेवा-सौभाग्यं प्रदर्शितम् अधुना सहज-परम-स्नेहवन्तः तत्-परिश्रम-दर्शनेन व्याकुलास् तद्-अपनोदनाय वैयग्र्येण बहुधा परिचरन्तः स्नेह-भराविर्भाव-विवशा बभूवुर् इति परम-प्रेम-सम्पन्-महिमा प्रतिपाद्यते—पाद-संवाहनम् [भा।पु। १०.१५.१७] इति द्वाभ्याम् ।

तस्य श्री-भगवतः पादयोः श्री-चरण-पद्मयोः संवाहनम् केचित् कतिचित् महात्मन इति । महात्मानो महाशयाः । यद् वा, तस्यैव विशेषणम् अपरिच्छिन्नस्यापि चक्रुः केचिद् इति बहुत्वं समय-परिवर्तेन16 यथा-क्रमं श्री-चरणावयव-विभागशो वा विश्व-रूपाभिप्रायेण स्थाने स्थाने त्रि-चतुरतया वा अनेनैव बाल्य-लीलायाम् अपि परमैश्वर्य-प्रकटनाभिप्रायेणाग्र्य-श्लोकान्ते ईश-चेष्टित [भा।पु। १०.१५.२०] इति वक्ष्यते । यद् वा, दुस्तर्क्यानन्त-शक्तेर् भगवतः प्रिय-सख-वर्ग-प्रीत्ये श्री-नन्दनन्दन-रूपातिरस्कारेणैव तत्-तद्-अलक्ष्य-परमाश्चर्य-निजापरिच्छिन्नता प्रकटनेनैकत्रैव पाद-संवाहन-सेवायां युगपन् महा-यूथम् अपि घटते । अत एवात्र महात्म-शब्द-प्रयोगः ।

अथवा प्रेम-भराकुलानां संघर्षेण तत्रैव बहवो\ऽपि घटेर् अन्ततश् च तत्-तल्-लीलायाम् ईश-चेष्टितत्वं सृष्ट्य्-आदि-रूपाद् ईश-चेष्टिताद् अपि तस्याः तस्याः जगन्-मनोहरतर-माधुर्यादि-माहात्म्य-विशेषापेक्षया ज्ञेयम् । हतो\ऽपगतः पाप्मा येभ्यस् ते, यथा हि—धार्मिकाणां यद् धर्म-विपरीतं तद् एव पापम् । तथा भक्तानाम् अपि भक्ति-विरुद्धं सर्वम् एव पापम् । पाप्म-शब्देनात्र तद् एव गृहीतम् । अथवा श्री-भगवतेव श्रवण-कीर्तनादिना हतो नाशितो जगताम् एव पाप्मा यैः, अपरे कतिचित्-पल्लव-पत्र-बर्हादि-रचितैर् व्यजनैः सम्यक् शीतल-मन्दत्वादि-गुण-युक्ततया अवीजयन् ॥१८॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : केचिद् इति बहुत्वम् । क्रमेण परिवृत्या श्रीमत्-पदाब्जयोर् बहुभिः संवाहनात् । किं वा, बहुल-शय्यासु प्रत्येकं त्रिचतुरतया तत्र प्रवृत्तेर् अभिप्रायेण । किं वा, ऐश्वर्य-विशेषेणैकस्यापि तस्य बहुतरः संवाहन-सम्भवात् । महात्मन इत्य् आर्षम् । महात्मानह् परम-सौभाग्यवन्त इत्य् अर्थः । यद् वा, तस्यैव विशेषणम् अपरिच्छिन्नस्येत्य् अर्थः । स्वयम् एकेनैव शक्ति-विशेषतः सर्वास्व् अपि शय्यासु व्यापकत्वेन शयनात् । हतः, निज-कीर्त्य्-आदिना श्री-भगवतैव नाशितः पाप्मा जगताम् अपि यैस् ते तादृश-सेवा-सौभाग्य-ब्रह्मात्, वयं तु पापिष्ठा एवेति भावः । एवम् इदं पदं पूर्वेण परेणापि योज्यम् । सम्यक् मन्द-मन्द-मधुर-भ्रमणादि-मुद्रया अवीजयत् ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्यावसरस्य योग्यानि तस्य श्री-भगवतो\ऽपि सदृशानि वा भीतानीति शेषः । विशेषम् अप्य् आह—मनोज्ञानि चित्ताकर्षणानि विचित्राद्भुत-स्वर-तालादि-मयत्वात् शनैर् इति । विश्रामावसर-योग्यत्वाद् उत्तम-गानम् उदात्वाच् च स्नेह-क्लिनधीत्वस्यात्रैवोक्तिर् गान-स्वभावतस् तत्-प्राकट्य विशेषाभिप्रायेण । यद् वा, पद-द्वयस्यास्य सर्वान्ते निर्देशात पूर्व-श्लोके वाक्य-द्वयेनापि सम्बन्धो द्रष्टव्यः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य महा-गुण-गणस्येति हतः तादृश-तत्-सेवान्तराय-रूपः पाप्मा यैर् इत्य् आत्मानम् अधिक्षिपति तेषां नित्य-तादृशत्वेऽप्य् अयम् आत्मापहत-पाप्मेतिवत् तत्-प्रयोगः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सेवाम् आह—पादेति । हत-पाप्मानो दहरवन् नित्य-निवृत्त-दोषाः व्यजनैस् ताल-वृन्तैर् बाल-व्यजनैश् च ॥१८॥


॥ १०.१५.१९ ॥

अन्ये तद्-अनुरूपाणि मनोज्ञानि महात्मनः ।

गायन्ति स्म महा-राज स्नेह-क्लिन्न-धियः शनैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्**।**

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्ये मनः-सौख्यादयः । तद्-अनुरूपाणि तयोः प्रियाणि गीतानि । स्नेहेन क्लिन्ना रागवती धीर् यासां ते तथा ॥१९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य अवसरस्य श्री-भगवतोऽनुरूपाणि योग्यानि गीतानीति शेषः । महात्मन इति पूर्ववत् । यद् वा, समुद्र-कोटि-गभीरस्याक्षोभ्यतरस्यापि अस्य मनोज्ञानि चित्ताकर्षकाणि विचित्राद्भुत-स्वर-तालादिमत्त्वाच् छ्री-गोपी-गुणादि-मयत्वाच् च । हे महाराज ! इति । सम्राजोऽपि भवादृशस् तादृश-क्रीडा-सुखं न सिध्यतीति भावः । यद् वा, महाराजोऽत्यन्त-प्रकाशमानः परम-श्रेष्ठो यः स्नेह इत्य् अर्थः । तेन क्लिन्न-धिय आर्द्र-चित्ताः सन्तः । अत एव शनैर् बाष्प-रुद्धमान-कण्ठतया लघु लघु अगायन् । स्नेह-क्लिन्न-धीत्वस्यात्रैवोक्तिर् गान-स्वभावत्वेन तत्-प्राकट्य-विशेषाभिप्रायेण । यद् वा, पद-द्वयस्यास्य सर्वान्ते निर्देशात् पूर्व-श्लोके वाक्य-द्वयेनापि सम्बन्धो द्रष्टव्यः ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्यावसरस्य योग्यानि तस्य श्री-भगवतोऽपि सदृशानि वा भीतानीति शेषः । विशेषम् अपि आह—मनोज्ञानि चित्ताकर्षणानि विचित्राद्भुत-स्वर-तालादिमयत्वात् शनैर् इति विश्रामावसर-योग्यत्वाद् उत्तम-गानम् उदात्वाच् च स्नेह-क्लिन्न-धीत्वस्य अत्रैवोक्तिर् गान-स्वभावतस् तत्-प्राकट्य-विशेषाभिप्रायेण । यद् वा, पद-द्वयस्यास्य सर्वान्ते निर्देशात् पूर्व-श्लोके वाक्य-द्वयेनापि सम्बन्धो द्रष्टव्यः ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-अनुरूपाणि तद्-अवसरार्हाणि ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद्-अनुरूपाणि यशांसीति शेषः ॥१९॥


॥ १०.१५.२० ॥

एवं निगूढात्म-गतिः स्व-मायया

गोपात्मजत्वं चरितैर् विडम्बयन् ।

रेमे रमा-लालित-पाद-पल्लवो

ग्राम्यैः समं ग्राम्यवद् ईश-चेष्टितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश-चेष्टित इति । निगूढ-स्वभावत्वेऽप्य् अन्तरान्तरा ईशस्यैव चेष्टितानि दृश्यन्तेऽस्मिन् सः ॥२०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं गोप-लीलया । निगूढात्म-गतिः प्रच्छन्न् आत्म-स्वरूपः । ग्राम्यैर् गोपैः ग्राम्यो नैपुण्य-वर्जितः इति कोशः । ईशच् एष्टितः प्रादुष्कृत-निश्चर्यः । अन्तरान्तरा मध्ये-मध्ये दैत्य-दलनादिना स्वकीय-स्वरताम् अपि बोधयतीति भावः ॥१९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं निगूढात्म-गतिर् इत्य्-आदि । चरितैश् चेष्टितैर् एव गोपात्मजत्वं विडम्बयन्न् अनुकुर्वन्, न तु वस्तु-गत्या रमा-लालित-पाद-पल्लवो\ऽपि ग्राम्यैः समं ग्राम्यवद् ईश-चेष्टितः सन् रेमे । ग्राम्यो जनो ग्राम्यैः सह यथा रमते, तथा रेमे, न तु ते\ऽपि ग्राम्याः, स्वयम् अपि न ग्राम्यः, यत ईश-चेष्टितः, इदम् एव ईश-चेष्टितं यस्य ॥२०॥

———————————————————————————————————————

सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.५.८६] गोपात्मजत्वं निज-गोप-कुमार-लीलाम् इत्य् अर्थः । चरितैः स्व-चेष्टितैः । विडम्बयन् हेतौ शतृङ् विडम्बयितुं, इलयोर् एकत्वात् विलम्बयितुम् आश्रयितुम् । मायया निज-शक्ति-विशेषेण निगूढा संवृता बहिर् न प्रकटितेत्य् अर्थः । आत्म-गतिर् निजैश्वर्यं येन तथा-भूतः सन् रेमे चिक्रीड । ऐश्वर्याप्रकाशनेन गोपात्मज-सदृश-लीलया लौकिकत्वम् ऐश्वर्यं च तस्यां तस्याम् एव लीलायाम् अन्तर्-मधुरिम-विशेष-परम-काष्ठा-प्रदर्शनाद् ऊह्यम् । अत एव कैश्चिद् ग्राम्यैः समं यथा कश्चिद् ग्राम्यो रमते, तथैव महा-लक्ष्मी-लालित-पाद-पल्लवो\ऽपि रेमे । एवं ग्राम्य-दृष्टान्तेन लौकिकत्वं रमा-लालित-पाद-पल्लवत्वेन च स्वभावाद् ऐश्वर्यम् अपि सिद्धम् । तथा ईश-चेष्टित एव ग्राम्यवद् रेमे इत्य् अप्य् ऊह्यम् । ग्राम्यवत् क्रीडाम् अपि पूर्वोक्त-प्रकारेण ऐश्वर्यस्याप्य् अन्तर्-वृत्तेर् इति दिक् ॥८४॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुक्ताम् अप्य् अन्यं तस्मिन् दिने कृतां गोप-लीलाम् उद्दिशन् तद्-दिन-वन्य-क्रीडाम् उपसंहरति—एवम् इत्य् उक्त-प्रकारेण । किं वा, ईदृशैश् चरितैश् चेष्टितै रमा-लालित-पाद-पल्लवोऽपि रेमे रतिं प्रापेति महा-लक्ष्म्या पादाब्ज-लालन-सुखाद् अपि गोप-क्रीडा-सुखस्य माहात्म्यं सूचितम् । यद् वा, रमयति सदा तम् इति रमा श्री-राधा-देवी, तया लालित-पाद-पल्लवः सन्न् इति दिवारण्य-परिभ्रमण-श्रमापनोदनार्थ-संवाहनादिना रतेर् उपकारकत्वं दर्शितम् । किं कुर्वन् ? गोपात्मजत्वं विडम्बयन् प्रकटयन्न् इत्य् अर्थः । यद् वा, डलयोर् एकत्वात् स्थिरी-कुर्वन्न् इत्य् अर्थः । चरितैर् इत्य् अस्यात्रैव वान्वय इति श्री-नन्दाद् एव जातोऽस्मीति श्री-भगवद्-बुद्धिम् अपि बोधयति ।

ननु, प्रकट-तादृशैश्वर्यस्य कथं नाम तद्-विडम्बनं सिध्येत् ? तत्राह—स्वस्य मायया मायाख्य-शक्त्या कृपया वा, नितरां गूढा आच्छादिता आत्मनो गतिर् आत्मारामत्व-पूर्ण-कामत्वादि-लक्षणम् ऐश्वर्यं येन सः । यद् वा, नितरां गूढातिरहस्योपनिषदाम् अप्य् अगम्यात्म-गति-निज-माधुरी-विशेषो यस्य । अत एव कैश्चिद् ग्राम्यैर् बन्धुभिः समं कश्चिद् ग्राम्यः समो बन्धुः प्रभुर् इवेति परम-लौकिकत्वम्, तेन गोप-क्रीडा-माधुर्यं च बोधितम् ।

ननु, तर्हि सर्वत्रोच्यमानं भगवत्ता-प्रकटनं कथं तत्र सङ्गच्छताम् ? तत्राह—ईशस्य चेष्टितं यस्य सः, तत्-तच्-चरितानाम् एव लोकातीतत्वाद् इति भावः । इति लौकिकालौकिकत्वेन भगवत्ता विशेष-प्रकटनं पूर्ववत् सिद्धम् एव ।

अथवा, निगूढात्मनो गतिः श्री-वसुदेव-द्वारा गोकुले गमनं येन [सः] श्री-नन्दाद् एवात्मनो जन्म-ज्ञानात् तद्-अनुरूप-व्यवहाराच् चेति गोपात्मजत्व-विडम्बनस्य17 मुख्य-साधनम् उक्तम् । ईशं सर्वैश्वर्य-युक्तं चेष्टितम् अपि यस्य । यद् वा, ईश-चेष्टित ऐश्वर्य-चेष्टा-युक्तोऽपि ग्राम्यवत् रेम इतीशचेष्टिताद् अपि ग्राम्यवच् चरितस्य माहात्म्यं सूचितम् । अन्यत् समानम् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुक्ताम् अप्य् अन्यां गोप-लीलाम् उद्दिशन् तादृश-लीलायाश् च तद् अतिप्रियत्वं प्रतिपादयन्न् उपसंहरति—एवम् इति । स्वाविर्भावान्तरे रमा-लालित-पाद-पल्लवो\ऽपि एवं वृन्दावन-विहार-प्रकारेण रेमे रति प्राप तद् एवम् अत्र सखं तादृश-सुखस्याप्य् अनादरः सूचितः । किं कुर्वन् चरितैर् नन्दस् त्व् आत्मज उत्पन्न [भा।पु। १०.५.१] इत्य्-आदि-रूपैर् अलौकिकैर् लौकिकं गोपात्मजत्वं विडम्बयन् हीनोपमारूपं कुर्वन् अलौकिकं गोपात्मजत्वम् आत्मनि दर्शयन्न् इत्य् अर्थः ।

ननु, श्री-भगवतः कथम् आत्मजत्वं तत्राह, स्वे ये श्री-नन्द-यशोदादयः पित्रादि-रूपास् तेषां मायया कृपया वात्सल्यवशतयेत्य् अर्थः । अत एव नितरां गूढा सर्वेषाम् अप्य् अगम्या आत्म-गतिर्-महा-प्रणयमय-निज-माधुरी-विशेषो यस्य अत एव कैश्चिद्-ग्राम्यैर् बन्धुभिः समं कश्चिद् ग्राम्यो बन्धुर् इवेति आत्मजवत् सख्ये\ऽपि तादृशोपमत्वम् इति भावः । ननु, तर्हि सर्वत्रोच्यमानं श्री-भगवत्ता-प्रकटनं तत्र कथं सङ्गच्छतां तत्राह—ईशं सर्वैश्वर्य-युक्तं चेष्टितं यस्य तल्-लीला-शक्तिर् एव तादृशी सती श्री-भगवद् अनुसंहितापि सर्व सम्पादयतीत्य् अर्थः ॥१९॥

प्रीति-सन्दर्भः (१५१) : तत्र श्री-विग्रह-चेष्टा द्विविधाः । ऐश्वर्यमय्यो माधुर्य-मय्यश् चेति । तत्र निज-जन-प्रेममयत्वान् माधुर्य-मय्य एव रमणाधिक्ये हेतवः । यथैव परम-विस्मय-हर्षाभ्याम् आह—एवं निगूढात्म-गतिः इत्य्-आदि ।

श्री-नारायणादि-रूपेषु स्वाविर्भावेषु रमा-लालित-पाद-पल्लवोऽपि स्वेषु अलौकिकेष्व् अपि व्रज-वासिषु निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् [भा।पु। १०.१८.२७] इत्य्-आदौ हलधर ईषद् अत्र सत् इति न्याय-लब्धेन तल्-लीला-माधुर्य-विशेषावेशेन लौकिकवद् व्यवहरत्सु या माया कृपा, साधवो हृदयं मह्यं [भा।पु। ९.४.६८] इत्य्-आदि-न्यायेन तत्-कृतैक्य-व्यवहारः, तया निगूढात्म-गतिस् तिरोहित-पारमैश्वर्य-स्थितिः सन् लौकिकं यद् गोपात्मजत्वं तद् एव अलौकिक-गोपात्मजमयैश् चरितैर् विडम्बयन् अनुकुर्वन् रेमे स्वयम् अपि रतिम् उवाह । अतस् तादृश-रमणेषु यथा तद्-इच्छा, न तथा रमा-लालित-पाद-पल्लवत्वेऽपीति दर्शितम् ।

रमणम् एव दर्शयति । यथाधुनापि ग्राम्यैर् बालकैः समं कश्चिद् ग्रामाधिप-बालको रमते तद्वत् । तत्-तल्-लीला-प्रधान एव रमते, न त्व् ऐश्वर्य-प्रधान इत्य् अर्थः । दृश्यते च तत्-तल्-लीलावेशः--स जात-कोप-स्फुरितारुणाधरः [भा।पु। १०.९.६] इत्य्-आदौ, रहोऽपि जात-तादृश-भावात् । तान् वीक्ष्य कृष्णः [भा।पु। १०.१२.२७] इत्य्-आदौ बालानां स्व-करापच्युतता-जातानुतापाद् दिष्ट-कृतत्व-मननाच् च । अत एव तस्य तत्-तल्-लीलासु लोकानुसारि यद् यद् बुद्धि-कर्म-सौष्ठवं, तत् तत् सुष्ठु मुनिभिर् अपि स-चमत्कारं वर्ण्यते । यथोक्तं श्री-शुकेन जरासन्ध-युद्धान्ते—

स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः

समीहितेऽनन्त-गुणः स्व-लीलया ।

न तस्य चित्रं पर-पक्ष-निग्रहस्

तथापि मर्त्यानुविधस्य वर्ण्यते ॥ [भा।पु। १०.५०.३०] इति ।

तेषु चरितेषु यद् अलौकिकम् आसीत्, तद् अपि तत्-तल्-लीला-रस-मात्रासक्तस्य तस्य स्वभाव-सिद्धैश्वर्यत्वेन लीलाख्या शक्तिर् एव स्वयं सम्पादितवतीत्य् आह—ईशं तत्-तल्-लीलोचित-सुघट-दुर्घट-सर्वार्थ-साधकं चेष्टितं लीलैव यस्य स इति । यथोक्तम्—

अथोवाच हृषीकेशं नारदः प्रहसन्न् इव ।

योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम् ॥ [भा।पु। १०.६९.३७]

यथा च—

यद्य् एवं तर्हि व्यादेहीत्य् उक्तः स भगवान् हरिः ।

व्यादत्ताव्याहतैश्वर्यः क्रीडा-मनुज-बालकः ॥ [भा।पु। १०.८.३६]

सा तत्र ददृशे विश्वम् [भा।पु। १०.८.३७] इति । अत्र यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम् [भा।पु। १०.८.३५] इत्य्-अन्ता तदीय-सरस-कृतैव लीला पूर्वम् उक्ता । अव्याहतैश्वर्य इत्य्-आदिका तु तत्-तल्-लीला-शक्ति-कृतैव । सा च श्री-व्रजेश्वर्या वात्सल्य-पोषिके विस्मय-शङ्के पुष्णाति । नाहं भक्षितवान् अम्ब [भा।पु। १०.८.३५] इति सम्भ्रमेण मिथ्यैव कृष्ण-वाक्यं च सत्यापयति ।

एवं श्री-दामोदर-लीलायां यावत् तस्य बन्धनेच्छा न जातासीत् तावद्-रज्जु-परम्पराभ्यस् तस्मिन् द्व्य्-अङ्गुलाधिकत्व-प्रकाशः । तद् उक्तं तद्-दामा [भा।पु। १०.८.१५] इत्य्-आदिना । यदा तु मातृ-श्रमेण तद्-इच्छा जाता, तदा न तत्-प्रकाशः । तद् उक्तं—स्व-मातुः स्विन्न-गात्रायाः [भा।पु। १०.९.१८] इत्य्-आदिना ।

एवं श्री-कृष्ण-कृपा-दृष्टि-प्रभावेणैव विषमय-मोहात् सखीनां समुद्धरणं तद्-आवेशेनैव दावाग्नि-पाने चिकीर्षित-मात्रे स्वयं तन्-नाश इत्य्-आदिकं ज्ञेयम् । क्रीडा-मनुज-बालक इति क्रीडया लीलया मनुजा-बालक-स्थितिं प्राप्तोऽपीत्य् अर्थः । अन्यत्र च क्रीडा-मानुष-रूपिणः [भा।पु। १०.१६.६८] इति । एवं कार्य-मानुषः [भा।पु। १०.१६.६०] इत्य् अत्रापि कार्यं क्रीडैव । तस्मात् साधु व्याख्यातम् एवं निगूढात्म-गतिः इत्य्-आदि ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ श्री-कृष्णस्य लीला-वैचित्र्यं श्री-शुकः प्रपञ्चयति—एवम् इत्य्-आदि । निगूढा अप्रकटा आत्म-गतिर् आत्मनस् तत्त्वं सच्-चिद्-आनन्दादि-लक्षणः स्वभावो यस्य स तथा । कोऽर्थस् तस्मिन्न् एव विग्रहे सन्न् अपि सच्-चिद्-आनन्द-लक्षणो धर्मो मायया आवरिकाख्य-मायया अभक्तान् प्रति न प्रकाश्यते । ते तु मनुजार्भक एवायम् इति जानन्ति इति गूढ-शब्दस्यायं भावः । अत आह—चरितैर् गोपार्भकत्वं विडम्बयन्न् अनुकुर्वन्, चरितैर् एव, न तु श्री-विग्रहेण, स तु सच्-चिद्-आनन्द-लक्षणः । अत आह—रमा आनन्दिनी-शक्तिः, तया लालितः पाद-पल्लवो यस्य, गोप-बालकैः सह इत्य् अर्थः । कैः क इव ? ग्राम्यैः समं ग्राम्यवत् । ग्राम्यैर् बालकैः समं ग्राम्य-बालक इव, वस्तुतस् तु न तेऽपि ग्राम्याः । अयं तु नैवेत्य् एवाह—ईश-चेष्टित ईशेषु ईश-प्रायेषु तेषु तथा-विधैस् तैर् वा चेष्टितं चेष्टा यस्य । अन्यथा रमा-लालित-पाद-पल्लव इत्य् अनेनैवेश्वरत्व-सिद्धेर् ईश-चेष्टित इति पौनरुक्त्यम् । चरितैर् गोपार्भकत्वं विडम्बयन्न् इत्य् अनेन सहापि विरोधश् च स्यात् ॥२०-३७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-योग-मायया आवृतात्मैश्वर्यः स्वयं गोपात्मजोऽपि चरितैर् गोपात्मजत्वं भूपाल-पुत्रत्वं विडम्बयन् तिरस्कुर्वन् सोऽप्य् एवं लीलां कर्तुं न जानातीति भावः । गोपा गोपालके गोष्ठाध्यक्षे पृथ्वी-पताव् अपि इति मेदिनी । ऐश्वर्य-दृष्ट्या रमा-लालित-पाद-पल्लवोऽपि तद्-आवरणात् कैश्चिद् ग्राम्यैः बन्धुभिः सह कश्चिद् ग्राम्यो बन्धुर् इव रेमे न केवलम् आवृतम् एव तद् ऐश्वर्यम् इत्य् आह—असुर-मारणादि-प्रस्तावे ईशम् ऐश्वर्य-मयं चेष्टितं यस्य सः ॥२०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उपसंहरति—एवम् इति । एवं वृन्दाटवी क्रीडा-प्रकारेण रेमे रतिं प्राप तेन वैकुण्ठ-विहारेषु नेदृशी रतिर् इति सूच्यते । स्वेषु मायया कृपया नितरां गूढा मुकुराधर-चित्रवन्-नर-चेष्टान्तर्-अवस्थापिता गतिर् विशुद्ध-निजैश्वर्यं येन सः । स्वेभ्यो विशुद्धं तन् न रोचेतेति भावात् । स्वयं गोपात्मनोऽपि चरितैः पूतनादि-वध-रूपैर् अन्यद् गोपात्मजत्वं पृथ्वीपति-पुत्रत्वं वा विडम्बयन् तिरस्कुर्वन् तत्र तत्र तत्-तल्-लेशस्याप्य् अभावात् रमया एवं वृन्दावनं श्रीमद् इत्य्-आद्य् अधिगतया श्री-गोकुल-महा-लक्ष्म्या ललिता-वीप्सितौ पाद-पल्लवौ यस्य सः । यद्य् अपि निजैश्वर्यं तेनानिगूह्यते, तथापि क्वाप्य् असुर-मारणादौ तद् व्यक्तीभवेद् इत्य् आह—ईशम् ऐश्वर्यमयं चेष्टितं यस्य सः । स्वैः सार्धं विहारे तु तन् नास्तीत्य् आह—ग्राम्यैर् बन्धुभिः समं ग्राम्यो बन्धुर् यथा इति ॥२०॥


॥ १०.१५.२१ ॥

श्रीदामा नाम गोपालो राम-केशवयोः सखा ।

सुबल-स्तोक-कृष्णाद्या गोपाः प्रेम्णेदम् अब्रुवन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश-चेष्टितत्वम् एव दर्शयितुम् आह—श्रीदामा इति । स्तोक-कृष्णः क्वचित् ॥२१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शेष-कार्यम् आह—आद्य-शब्दात् वृन्दबन्धु-देवभद्र-विनोदार्जुन-कामकन्द-प्राणभानु-दृष्टिभानु-चन्द्रभानु-जयभानु-कलोत्तान-वीरसेन-कीर्तिसिन्धु-कमलाकर-सुखसागर-सञ्जयादयो ज्ञेयाः । श्रीदाम्नः प्राङ्-निर्देशः सखिषु मुख्यत्वात् । स्तोककृष्न इति चतुरक्षरम् एव नाम ज्ञेयम् । तत्र चेदम् एव लक्ष्यते बालस्यास्य रूपं कृष्णम् अनुगच्छद् एव वर्तते । तस्मान् नाम च तम् अनुगमिष्यत् प्रणय-विशेषाय सम्पत्स्य इति विचार्य सम्यग् उल्लसता तत् पित्रा तादृशं नाम प्रकाशितम् इति । प्रेम्णेति न तु ताल-फल-लोभेन, न तु दुष्ट-वधार्थं वेति, किं तु प्रिय-जन-प्रीति-विशेषार्थम् एवेति ॥२१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रथम-दिन-क्रीडयाप्य् अन्य-दिन-क्रीडाम् अपि उपलक्ष्याधुना कदाचिन् निज-प्रिय-जन-प्रीत्यै गो-पालने किञ्चिद् ऐश्वर्यम् अपि साक्षात् प्रकटितवान् इति प्रसङ्गाद् आह—श्रीदामेत्य् आदिना । सुबलाद्याश् च सखायः । श्रीदाम्नः प्राग्-निर्देशः सख्यातिशयेन शैष्ठ्यात्, तादृशोक्तौ तस्य मुख्यत्वाद् वा, स्तोक-कृष्ण-नामा कश्चिद्-गोपः कृष्ण-सनामत्वेन18 सखित्वाद्य् अर्थम् । यद् व, कृष्णात् प्राग्-जातस्य तस्य कृष्णेति नाम-करणात्, तथापि सर्वथा कृष्णतो लघुत्वेन स्तोक-कृष्ण इति ख्यातेः, आदि-शब्देनांश्वर्जुन-विशल-वृषभौजस्वि-देवप्रस्थ-वरूथप-भद्रसेनादय एते मुख्यतमा ज्ञेयाः । प्रेम्णेति, न तु ताल-फल-लोभेन, न च दुष्ट-वधार्थं वा, किन्तु प्रियजन-प्रीति-विशेषार्थम् एव किञ्चिद् इष्ट-द्रव्य-प्रार्थन-लाक्षण-प्रेम-स्वभावेनैवेत्य् अर्थः । यद् वा, दुष्ट-निग्रहादि-तत्-कीर्त्य् अनुरागेणैवेति ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं प्रथम-दिन-क्रीडयान्य-दिन-क्रीडाम् अप्य् उपलक्ष्याधुना कदाचिन् निज-प्रिय-जन-प्रीत्यै गोपालने किञ्चिद् ऐश्वर्यम् अपि साक्षात् प्रकटितम् इति प्रसङ्गाद् आह—श्रीदामेत्य्-आदिना । तत्र श्री-रामस्य सखेति निर्देशस् तद्-युद्धे तस्यैव प्राधान्यात् सुबलाद्याश् च सखायः श्रीदाम्नः प्राङ्-निर्देशः सखिषु मुख्यत्वेन ब्रजे तस्मिन्न् अन्यस्य केवल-कृष्ण-नाम्ना प्रचारणायाम् अन्याय्यत्वात् स्तोक-कृष्ण इति चतुरक्षरम् एव नाम ज्ञेयम् । तत्र चेद् एवम् एव लभ्यते बालस्यास्य रूपं कृष्णम् अनुगच्छद् एव वर्तते । तस्मान्-नाम च तम् अनुगमिष्यत् तत्-प्रणव-विशेषाय सम्पत्स्यत इति विचार्य सम्यग्-उल्लसता तत्-पित्रा तादृश-नाम-प्रकाशितम् इति प्रेम्णेति न तु ताल-फल-लोभेन न च दुष्ट-वधार्थं किं तु प्रिय-जन-प्रीति-विशेषार्थः, किञ्चिद् इष्ट-द्रव्य-प्रार्थन-लक्षण-प्रेम-स्वभावेनैव । यद् वा, स्व-व्याजेन श्री-कृष्ण-रागयोर् एव तादृश-भोजन-सम्पादनेच्छामयेनत्य् अर्थः । अत्र च सख्यमय-प्रेम्णेति लभ्यते सख्यं च साजात्येनैव भवतीति मिथः प्रभावादि-ज्ञानमयम् एव यथोक्तं तैः अस्मान् किम् अत्र ग्रसिता निविष्टानयं तथा चेद् वकवद्-विनङ्ख्यति [भा।पु। १०.१२.१४] इति वक्ष्यते चानन्तरं राम-रामेति ततो\ऽर्जुनेन तत्-तद्-युद्ध-साहाय्य-प्रार्थनावत् वीर-रस-स्वाभाविक-सख्यमय-प्रेमैवेदम् इति स्थितम् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं गोचारण-लीला-सामान्य-प्रसङ्गे कादाचित्कम् अप्य् आह—श्रीदामेति । स्तोक-कृष्ण इत्य् एव नाम न तु स्तोकेति विशेषणं तद्-अग्रे तन्-नाम-करणानर्हत्वात् प्रेम्णा प्रिय-जनोचित-प्रार्थना-मयेन स्व-व्याजेन तयोर् एव तादृश-भोजनेच्छा-मयेन च ॥२०.३४॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईश-चेष्टितत्वम् एव दर्शयितुम् आह—श्रीदामेति । प्रेम्णेति कृष्ण-रामावेव स्व-व्याजेन ताल-फलानि भोजयितुम् इत्य् अर्थः ॥२०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ईश-चेष्टितम् आह—श्रीदामेति । अयं श्री-राधायाः पूर्वजः पीठमर्दः सख्याप्रेम्णेति स्वव्याजेन तौ ताल-फलान्यास्वादयितुम् इति भावः ॥२१॥


॥ १०.१५.२२ ॥

राम राम महा-बाहो19 कृष्ण दुष्ट-निबर्हण ।

इतोऽविदूरे सुमहद् वनं तालालि-सङ्कुलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तालालि-सङ्कुलं ताल-पङ्क्तिभिर् व्याप्तम् ॥२२-२४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुष्टानां निबर्हण ! उन्मूलक ! अविदूरे निकटे । इतः अस्मात् प्रदेशात् । हे राम ! इति रमसे क्रीडसीति तन्-नाम-निरुक्तेर् एताम् अप्य् अशक्यां क्रीडां कुरु । किं वा, रमयसि क्रीडयसि सुखयसि वेति तयास्मान् रमयेति भावः । वीप्सादरे । महासत्त्व इति तव किम् अप्य् अशक्यं नास्तीति भावः । हे कृष्ण ! इति परमानन्द-प्रद-स्वभावत्वेन सर्वाकर्षकत्वाद् अस्माकम् अपि सुखं कर्तुम् अर्हसीति भावः । दुष्ट-निबर्हण ! इति । वत्सासुरादीनां तस्मात् साक्षाद् वध-दृष्टेः । इतो गोवर्धनाद् अविदूरे क्रोश-चतुष्टयान्तरे "तारफरा-तालसी" इति-ख्यात-प्रदेश-गतं वनम्

अस्ति तालवनं नाम धेनुकासुर-रक्षितम् ।

मथुरा-पश्चिमे भागे ह्य् अदूराद् एक-योजनम् ॥ इति वाराहोक्तेः ।

पश्चिमे पश्चाद्-भवे भागे नैरृत-कोण इति व्याख्येयं, तत्रैव दर्शनात् । श्लेषेण तालानाम् अलि-वर्णत्वेनाति-स्वादु-जातीयत्वं ध्वनितम् । हे राम ! तव महा-सत्त्व-परीक्षा । हे कृष्ण तवापि दुष्ट-निबर्हण-परीक्षा । अद्य-कर्तव्येति भावो\ऽयं तयोः सख्य-भावेन बलिष्ठत्व-ज्ञानान् न प्रेम्णि विरुध्यते, प्रत्युत वीर-रसोत्साहोद्दीपनत्वेन संरुध्यत एवेति ज्ञेयम् ॥२१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे रामेति रमसे क्रीडसीति निरुक्त्या ताल-वने गत्वा ताल-पातनादि-क्रीडां कुरु । किं वा, रमयसि क्रीडयसि सुखयसि वेति तयास्मान् रमयेति भावः—वीप्सा आदरे, स च ताल-फल-पातनाद्य् अर्थ-प्रोत्साहनार्थम्, अत-एवादौ तस्य सम्बोधनम् । हे महासत्त्वेति परम-बलिष्ठस्य तव किम् अप्य् अशक्यं नास्तीति भावः । कृष्णेति परमानन्द-घनत्वाद् अस्माकम् अपि सुखं कर्तुम् अर्हसीति भावः । हे दुष्ट-निवर्हणेति वत्सासुरादीनां तस्मात् साक्षाद्-वध-दृष्टेः, अतस् ताल-वन-रोधक-धेतुक-वधार्थम् अपि ताल-पातनादिकं20 युक्तम् एवेति भावः । एवं महा-सत्त्वतया दुष्ट-निवर्हणत्वं दुष्ट-निवर्हणतया च महा-सत्त्वत्वम् इति तत्-तद् अन्योऽन्यत्वयोर् उक्तम्21, तेन च तौ प्रति दुष्टतो निज-शङ्का स्वयम् एव निरस्ता, इतः श्री-गोवर्धनादित्य् अर्थः, प्रायस् तत्रैव तदा गो-चारणात्, तथा च श्री-हरिवंशे तत्-प्रसङ्ग एव—

आजग्मतुस् तौ सहितौ गोधनैः सह-गामिनौ ।

गिरिं गोवर्धनं रम्यं वसुदेव-सुतावुभौ ॥[वि।पु १३.२] इति ।

अविदूरेऽनतिदूरे श्री-गोवर्धन-पूर्वतः क्रोश-चतुष्टयान्तरे वृत्तेः, तथा च श्री-वाराहे—

अस्ति गोवर्धनं नाम क्षेत्रं परम-दुर्लभम् ।

मथुरा पश्चिमे भावे अदूराद् योजन-द्वयम् ॥[वरा।पु। ४०६] इति

तथा—

अस्ति ताल-वनं नाम धेनुकासुर-रक्षितम् ।

मथुरा पश्चिमे भागे अदूराद् एक-योजनम् ॥ इति ।

सुमहत्-क्रोश-द्वय-व्यापित्वात्, तद् विशेषश् च श्री-हरि-वंशे—

स तु देश समः स्निग्धः सुमहान् कृष्ण-मृत्तिकः ।

दर्भ-प्रायः स्थलीभूतो लोष्ट्र-पाषाण-वर्जितः ॥[ह।वं। २.१३.५] इति ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : [हे रामेति]{।मर्क्} [। रमसे क्रीडसीति निरुक्त्या । ताल-वने गत्वा ताल-पातनादि क्रीडां कुरु । किं वा, रमयसि क्रीडयति सुखयसि वेति तयास्मान् रमयेति भावः, वीप्सा आदरे, स च ताल-फल-पातनाद्य् अर्थं प्रोत्सानार्थम्, अत एवादौ तस्य सम्बोधनम् । हे महा-सत्त्वेति परम-बलिष्ठस्य तव किम् अय्य्शक्यं नास्तीति भावः । हे कृष्णेति परमानन्द-घनत्वाद् अस्माकम् अपि सुखं कर्तुम् अर्हसीति भावः । हे दुष्ट-निबर्हणेति वत्सासुरादीनां तस्मात् साक्षाद्-वध-दृष्टेः, अतस् ताल-वन-रोधेनुक-वधार्थम् अपि ताल-पातनादिकं युक्तम् एवेति भावः । एवं महा-सत्त्वतया दुष्ट-निबर्यणत्वं दुष्ट-निबर्हणतया च महा-सत्त्वत्वम् इति तत् तद् अन्यो\ऽन्यत्वयोर् उक्तम्, तेन च तौ प्रति दुष्टतो निज-शङ्का स्वयम् एव निरस्ता, इतः श्री-गोवर्धनाद् इत्य् अर्थः, प्रायस् तत्रैव तदा गोचारणात्, तथा च श्री-हरि-वंशे तत् प्रसङ्ग एव—]{।मर्क्}

[]{।मर्क्}

[आजग्मतुस् तौ सहितौ गोधनैः सहगामिनौ ।]{।मर्क्}

[गिरि गोवर्धनं रम्यं वसुदेव-सुतावुभौ ॥ [ह।वं। २.१३.२] इति ।]{।मर्क्}

[]{।मर्क्}

[अविदूरे\ऽनति-दूरे श्री-गोवर्धन-पूर्वतः क्रोश-चतुष्टयान्तरे वृत्तेः, तथा च श्रीवाराहे—]{।मर्क्}

[]{।मर्क्}

[अस्ति गोवर्धनं नाम क्षेत्रं परम-दुर्लभम् ।]{।मर्क्}

[मथुरा पश्चिमे भागे अदूराद् योजन-द्वयम् ॥[वरा।पु। ४०६] इति,]{।मर्क्}

[]{।मर्क्}

[तथा—]{।मर्क्}

[अस्ति ताव-वनं नाम धेनुकासुर-रक्षितम् ।]{।मर्क्}

[मथुरा पश्चिमे भागे अदूराद् एक-योजनम् ॥ इति ।]{।मर्क्}

[]{।मर्क्}

[सुमहत् क्रोश-द्वय-व्यापित्वात्, तद् विशेषश् च श्री-हरिवंशे—]{।मर्क्}

[]{।मर्क्}

[स तु देशः समः स्निग्धः सुमहान् कृष्ण-मृतिकः ।]{।मर्क्}

[दर्भ-प्रायः स्थली-भूतो लोष्ट्र-पासाण-वर्जितः ॥ [ह।वं। २.१३.५] ॥२२॥]{।मर्क्}

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इतो गोवर्धनाद् अविदूरे क्रोश-चतुष्टयान्तरे तारफरा इति तालसीति ख्यात-प्रदेश-गतं वनम्—

अस्ति ताल-वनं नाम धेनुकासुर-रक्षितम् ।

मथुरा-पश्चिमे भागे अदूराद् एक-योजनम् ॥ इति वाराहोक्तेः ।

पश्चिमे पश्चाद्-भवे भागे इति नैरृत-कोणे इति व्याख्येयम्, तत्रैव तद्-दर्शनात् । तालानाम् आलिभिर् व्याप्तं, श्लेषेण तालानाम् अलि-वर्णत्वेनातिस्वादु-जातीयत्वं ध्वनितम् । किन्तु धेनुकेन अवरुद्धानि वशीकृतानीत्यत एव हे राम ! तव महा-सत्त्व-परीक्षा हे कृष्ण ! तथापि दुष्ट-निबर्हणत्व-परीक्षाद्य कर्तव्येति भावोऽयं तयोः सख्य-भावेन बलिष्टत्व-ज्ञानान् न प्रेम्णा विरुद्ध्यते प्रत्युत वीर-रसोत्साहोद्दीपनत्वेन संरुद्ध्यत एवेतिज्ञेयम् ॥२२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : इतो गोवर्धनाद् अविदूरे योजनान्तरे—

अस्ति ताल-वनं नाम धेनुकासुर-रक्षितम् ।

मथुरा पश्चिमे भागे अदूराद् एक-योजनम् ॥

इति वाराह-वाक्यात् पश्चिमे पश्चाद्-भवे भागे नैरृत-कोणे इत्य् अर्थः । किन्तु धेनुकेन अवरुद्धानीति । हे राम ! तव महा-सत्वं हे कृष्ण ! तव दुष्ट-निबर्हणत्वं चाद्य परीक्ष्यम् इति भावः । न च भय-स्थान-प्रेरणं प्रेम-क्षतिकरं तस्य तत्-सखत्वेन तन्-महा-विक्रम-विज्ञानात् प्रत्युत वीर-रसोद्दीपकत्वेन तद् वद्धकम् एव ॥२२.२३॥


॥ १०.१५.२३ ॥

फलानि तत्र भूरीणि पतन्ति पतितानि च ।

सन्ति किन्त्व् अवरुद्धानि धेनुकेन दुरात्मना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तालवने । यद्य् अपर्येव पाकं गतानि तर्हि अस्माकं किम् ? इति चेत् तत्राह—पतितानीति । तर्ह्य् आनीय भुज्यताम् इति चेत्, तत्राह—धेनुकेन इति । तर्हि तं पृष्ट्वानीयताम् इति चेद् आह—दुरात्मना इति । प्रार्थितोऽपि दुरात्मा न प्रसीदतीति भावः ॥२२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पतन्ति पतितानि चेति पातन-प्रयासो निरस्तः । तालानां पक्वानां ससां स्वयम् एव पतनाद् इति प्रायो भाद्र-मासे क्रीडेयम् अवगम्यते, तस्मिन्न् एव सर्वेषां तालानां पाकात् । एवम् इयं लीला श्री-विष्णु-पुराणाद्य् उक्तानुसारेण ग्रीष्मे कृत-कालिय-दमनानन्तरं ज्ञेया ।

ननु, तर्हि युष्माभिर् गत्वा तान्यानीयन्ताम् ? तत्राहुः—अवरुद्धान्य् आवृतानि रक्षितानीत्य् अर्थः ।

ननु, तर्हि प्रार्थ्य नीयन्ताम् ? तत्राहुः—दुरात्मनेति । यद् व, कथं तर्हि परकीयाणि द्रव्याणि तानि ग्राह्याणि ? तत्राहुः—दुरात्मना दुष्ट-दैत्येनेत्य् अर्थः । अतस् तं हत्वा तद्-द्रव्याणि ग्रहीतुं युज्यन्त एवेति भावः । यद् वा, वन्यानि फलानि सामान्यतः22 सर्वेषाम् उपभोग्यानि, तेन केवलं दुष्ट-स्वभावतयैवावरुध्यन्ते, अतो ग्राह्याण्ये एवेति भावः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः किम् इत्य् आशङ्क्य साभिलाषम् अनुवदन्ति—फलानीति । पतन्ति पतितानि चेति निर्भर-स्वयम्-पक्वत्वेनातिमधुरत्वं वृथा नश्वरत्वं च व्यञ्जितं तथा पातन-प्रयासो\ऽपि निरस्तः इति । प्रायो भाद्र-मासे क्रीडेयं तस्मिन्न् एव सर्वेषां तालानां पाकात् एवम् इयं लीला श्री-विष्णुपुराणाद्य् उक्तानुसारेण ग्रीष्म-कृतकालिय-दमनानन्तरं ज्ञेयं । तत्र विष्णुपुराणे क्रम-प्राप्तत्वम् एव कारणं हरिवंशे तु दमिते सर्प-राजे तु कृष्णेन यमुना-ह्रदे इत्य् आरभ्य सा लीला वर्णितेति स्पष्टम् एव तद् इति ।

ननु, तहि युष्माभिर् गत्वा तानि वन्यत्वेन साधारणानि । स्वयम् आनीयन्तां तत्राहुः अवरुद्धानि ननु तस्य किं तैः प्रार्थ्यानीयन्तां तत्राहुः—दुरात्मनेति । अतस् तं हत्वा तानि ग्रहीतुं युज्यत एवेति भावः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोऽतिवीर्येत्य्-आदि तयोः पराक्रमोत्तेजनम् ॥२३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.१५.२४ ॥

सोऽतिवीर्योऽसुरो राम हे कृष्ण खर-रूप-धृक् ।

आत्म-तुल्य23-बलैर् अन्यैर् ज्ञातिभिर् बहुभिर् वृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र गत्वा प्रसह्य भुज्यन्ताम् इति चेद् आह—अतिवीर्य इति । एकाकिनं तं निष्कास्य पुनः स्व-कार्यं क्रियताम् इति चेद् आह—आत्म-तुल्य-बलैर् इति ॥२४॥

तत्र तु गमनम् एवास्माकं दुर्घटम् इत्य् आह—तस्माद् धेनुकात् । वनम् इति शेषः । त्वम् एव तादृशानां हन्तेत्य् आहुः—हे अमित्रहन् शत्रु-नाशक ॥२५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् भीत्या च न कैश्चिद् अपि तत्-फलानि भुक्तानि सन्तीत्य् उत्तेजयन्ति-स इति द्वाभ्याम् । अतिवीर्ये महा-बल इति रामं प्रत्य् उक्तिर् मात्सर्य-जननाय, गर्दभ-रूप-धृग् इति कृष्णं प्रत्युक्तिः—प्रिय-सखस्य रसिक-शिरोमणेस् तस्य हासाय । यद् वा, द्वौ प्रत्य् एव द्वयं खर-रूप-धृग् अप्य् अतिवीर्य इत्य् अतोऽवज्ञयानवहिताभ्यां न भाव्यम् इति भावः । किं च, ज्ञातिभिर् अन्यैश् च मित्रादिभिः, किम्वान्यैर् इत्य् उक्ते प्राप्तम् उदासीनत्वं निरस्यति—ज्ञातिभिर् इति ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् भीत्या च न कैश्चिद् अपि तत्-फलानि भुक्तानि सन्तीत्य् उत्तेजयन्ति-स इति द्वाभ्याम् । अतिवीर्ये महा-बल इति रामं प्रत्य् उक्तिर् मात्सर्य-जननाय, गर्दभ-रूप-धृग् इति कृष्णं प्रत्युक्तिः—प्रिय-सखस्य रसिक-शिरोमणेस् तस्य हासाय । यद् वा, द्वौ प्रत्य् एव द्वयं खर-रूप-धृग् अप्य् अतिवीर्य इत्य् अतोऽवज्ञयानवहिताभ्यां न भाव्यम् इति भावः । किं च, ज्ञातिभिर् इति तेषाम् अपि तत्रात्यन्त-साहाय्यं दर्शितम् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आवयोर् अग्रे तस्य तदीयानां चातिवीर्यं ख-पुष्पायमाणं भविष्यतीति चेत्, तर्हि चलनं तत्रत्यान्नरान् निर्भयान् तान् ताल-भोजिनश् च दत्त-युष्मद् आशिषः कुरुतम् इत्य् आहुः—तस्माद् इति ।

ननु, कस्यां दिशि तद् वनं तद् ब्रूतेत्यत आहुः, एष वै गन्धः भाद्र-मासीय-प्राच्य-समीरणेनानीत इति भावः ॥२४.२५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सोऽतिवीर्य इति तयोर् विक्रमोत्तेजनम् ॥२४॥


॥ १०.१५.२५ ॥

तस्मात् कृत-नराहाराद् भीतैर् नृभिर् अमित्र-हन् ।

न सेव्यते पशु-गणैः पक्षि-सङ्घैर् विवर्जितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तु गमनम् एवास्माकं दुर्घटम् इत्य् आह—तस्माद् धेनुकात् । वनम् इति शेषः । त्वम् एव तादृशानां हन्तेत्य् आहुः--हे अमित्र-हन् शत्रु-नाशक ॥२५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दुरात्मताम् एवाभिव्यञ्जयन्ति—कृत-नराहाराद् इति, ननु, तर्हि पर-स्निग्धा यूयं बत तादृशे कर्मणि किं मां प्रवर्तयथेत्य् आशङ्क्य श्री-कृष्णं प्रत्य् आह—हे अमित्र-हन्न् इति वकाघासुरादयो महा-दैत्या भवता लीलया हताः । एव गर्दभः कतमो नाम स्यात् ? विशेषतश् च दुष्टामित्र-घातादिना तव कीर्तिर् एव महती भवितेति भावः । इत्थम् अपि स्निग्धतराणां तेषां यद्य् अपि तत्र तत्-प्रेरणं नोपयुज्यते, तथापि सपरिवारं रावणं हत्वा श्री-जानकीं श्री-रघुनान्तिके नेतुम् इच्छन्तं श्री-हनुमन्तं प्रति श्री-रघुनाथेन स्वयं रावणे हते सति तस्य कीर्तिर्महती भवतीति सुन्दर-काण्डे तस्या वाक्यवत् तद् वीर्यानुभविनाम् एषाम् अपि तत्-कीर्ति-विशेषार्थं तद् घटेतैवेति दिक् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्माद् इति सार्द्धकम् दुरात्मताम् एवाभिव्यञ्जयन्ति-कृत-नराहाराद् इति । अत्र न सेव्यत इत्य् रद्धं पद्यम् अनेकत्र, किं त्व् अनन्वितं चकारात् स्वादुनि च अमुक्त-पूर्वाणाम् अपि सौरभ्येणैव साक्षाद् इवावेदयन्ति, एष इति । वै निश्चये गन्धो\ऽवगृह्यते उपलभ्यत इति प्रायो\ऽस्मिन् देशे भाद्रमासे वृष्ट्य्-अनुकूल-पौरस्त्यवातात् एवं फलानाम् उत्कृष्टत्वं निकटवर्तित्वं च सूचितं तद् एतत् सर्वं श्री-कृष्ण-रामयोर् अज्ञातम् इव मत्वा तैर् यज्ज्ञापितं तत् तु ताभ्यां नर्मणा तस्याज्ञातस्य् एव क्रमशः पृष्टत्वाद् इति ज्ञेयम् ॥२५ ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अस्मासु किं तस्य बलम् इति चेत् तर्हि गन्तव्यम् इत्य् आह—तस्माद् इति । जनोपकारश् च भावीति भावः ॥२५॥


॥ १०.१५.२६ ॥

विद्यन्तेऽभुक्त-पूर्वाणि फलानि सुरभीणि च ।

एष वै सुरभिर् गन्धो विषूचीनोऽवगृह्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विषूचीनः सर्वतः प्रसृतः ॥२६-२८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वा, कदाप्य् अस्माकं लोभो नासीत्, नवनीतादि-लुब्धस्यास्य सम्पकार्द् एव लोभित-चेतसो वयं जाता इति रामं प्रत्युक्तिर् गोपानाम् इत्य् आह—कृष्णस्य गधेन लाभितं चेतो येषां तेषां तथा गन्धो गन्धे हिंसने च लेश-सम्पर्कयोर् अपि इति कोशात् । अदनाकाङ्क्षा चेत् तर्हि कालान्तरं नेष्यामि तत्राहुः—वाञ्छेति ॥२६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च—कारात् स्वादूनि च, अभुक्त-पूर्वाणाम् अपि सौरभ्यं साक्षाद् वेदयन्ति—एष इति । वै निश्चये, गन्धऽवगृह्यते उपलभ्यत इति प्रायोऽस्मिन् देशे भाद्रमासे वृष्ट्य् अनुकूल-पौरस्त्यवातात् पूर्वदिग् वातात् । एवं फलानाम् उत्कृष्टत्वं निकटवर्तित्वं च सूचितम् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी, जीव-गोस्वामी क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नोऽस्मभ्यं प्रयच्छ यतोऽस्माकं वाञ्छास्ति ॥२६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, कियद्दूरे तद्-वनं तत्राह—एष वै इति । विषूचीनः सर्वतो विसारी ॥२६॥


॥ १०.१५.२७ ॥

प्रयच्छ तानि नः कृष्ण गन्ध-लोभित-चेतसाम् ।

वाञ्छास्ति महती राम गम्यतां यदि रोचते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं गम्यतां यदि रोचत इत्य् एव-प्रकारम् । प्रभू कृष्ण-बलदेवौ ॥२७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतः प्रयच्छ, यतो गन्धेन तालानां सौरभ्येण लोभित-चेतसाम्—चतुर्थ्य् अर्थे षष्ठी । हे कृष्णेति त्वं प्रति विशेषेणैवोक्तिः, परम-प्रैयतम एव तथा प्रार्थनस्य योग्यत्वात् । यद् वा, कृष्णस्य सर्व-चित्ताकर्षकस्य गन्धेन सम्बन्ध-मात्रेण । लोभित-चेतसाम् इतीयं रामं प्रत्य् एवोक्तिः, दुर्लभान्य् अपि तत् सम्वन्ध-प्रभावेण सुलभानि स्युर् इति भावः । श्लेषेणास्माकं कदापि कुत्रापि लोभो नासीत्, नवनीतादि-लुव्धस्यास्य सम्पर्केणैव लोभित-चेतसाम् इति नर्मणा निज-गामि-दुर्लभ24 प्रार्थना-दोषो निरस्तः । अतो महती वाञ्छा तेष्व् अस्माकं चिराद् अस्ति । गूढोऽयम् अर्थः—मया वत्सासुरादयः साक्षाद् वहवो हताः, अग्रजेन तु न कोऽपीति तस्य कीर्त्य् अर्थं धेनुकोऽयं तेन घातयितव्यः, गर्दभाच् चामुस्माद् अल्पवलात् काचिच् छङ्का नास्त्य् एवेति श्री-कृष्णस्येच्छा चिरं ज्ञातास्तीत्य् अतो गम्यताम्, तथापस्मत्-प्रेरणयैव दुष्टाक्रान्त-स्थाने न गन्तव्यम्, किन्तु निज-रुच्यैव गम्यताम् इत्य् आहुः—यदीति । अनुज-स्नेहाक्रान्त-चित्ताय तस्मै तत्र गमनं कदाचिद् एवारोचेतेत्य् आशङ्कया विशेषतस् तं प्रति तथोक्तिः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चतुर्थ्य् अर्थे षष्ठी कृष्णेत्य्-आदि मुहुर् उभय-सम्बोधनम् अतिवैयग्र्यं सूचयति—कृष्ण-गन्धेति । श्लेषेणास्माकं कदापि लोभो ना\ऽसीत् नवनीतादि-लुब्धस्यास्य सम्पर्केणैव लोभित-चेतसाम् इति श्री-रामं प्रत्येवोक्तिः तेन च नर्मणा निज-दुर्लभ-प्रार्थन-दोषो निरस्त एव मुहुः प्रार्थने\ऽप्य् अनङ्गी कारम् इवालाक्ष्य स-प्रणय-रोषम् आहुः—वाञ्छास्तीत्य्-आदि ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रहस्येत्य् अहो गर्दभोऽप्य् एवं बलीत्य् असम्भाव्यत्वान् मृषैव वा ब्रूथेति भावः ॥२७.२८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नोऽस्मभ्यं तानि प्रयच्छ तेषु वाञ्छा अस्ति ॥२७॥


॥ १०.१५.२८ ॥

एवं सुहृद्-वचः श्रुत्वा सुहृत्-प्रिय-चिकीर्षया ।

प्रहस्य जग्मतुर् गोपैर् वृतौ तालवनं प्रभू ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् गम्यतां यदि रोचत इत्य् एव-प्रकारम् । प्रभू कृष्ण-बलदेवौ ॥२८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुहृदां श्रीदामादीनां प्रियं निज-कीर्ति-विस्तारणादि, तस्य चिकीर्षया प्रकटम् उच्चैर् हसित्वेति तेषां सभयोक्ति-श्रवणात् । किं वा, तेषां शङ्का-निवारणार्थम्, अत-एवोक्तं श्री-कपिलदेवेन—हासं हरेर् अवनतखिललोकतीव्र-शोकाश्रुसागर विशेषणम् अत्युदारम् [भा।पु ३.२८.३२] इति । तथा वृतौ परितो वेष्टितौ स्नेहाकुलतया दुष्टतो भयात्, सार्धम् इति पाठेऽपि तथैवार्थः । प्रभु तेषां प्रहर्षार्थं स्व-सामर्थ्यं दर्शयन्ताव् इति । यद् वा, तेषाम् ईश्वरावतस् तेषां प्रीत्य् अर्थं तद् युक्तम् एवेति भावः ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वृतौ साहाय्यार परितो वेष्टिती प्रभू तेषां प्रहर्षार्थ स्व-सामर्थ्य दर्शयन्तौ ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रहस्येति सुहृत्-सुखाय गर्दभान् अपि प्रक्ष्याव इति भावः ॥२८.२९॥


॥ १०.१५.२९ ॥

बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् ।

फलानि पातयाम् आस मतङ्गज इवौजसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मतङ्गजो हस्ती । ओजसा अवष्टं भेन बलेन वा ओजोऽवष्टम्भ-बलयोः इति यादवः ॥२९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलदेवस्यादौ प्रवेशादिकम् अग्रजत्वेनाग्रतो गमनाद् अनुज-स्नेहाद् वा । किं वा, तत्-कीर्त्य् अर्थं श्री-कृष्णस्य तत्र गौण्यात् । तालान् इति बहुत्वम् एकस्य कम्पनेनैव सङ्घटितानां तेषां बहूनां कम्पात् । किं वा, बाहुभ्यां द्वाभ्याम् एव बहूनां तेषां युगपद्-ग्रहणात् । सम्यक् परितः कम्पयन्न् इति महा-बल-स्वभावेन । किं वा, चतुर्दिग्वर्ति-सर्व-फलानां सर्वदिक्षु तेषां पातनार्थम् ओजसा बलेन वेगेन वा पातयामास । मत्तो गज इवेति लीलया पातने दृष्टान्तः ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) बलदेवस्यादौ प्रवेशादिकम्-आदौ प्रार्थितत्वात् ततः श्री-कृष्णस्यापि तत्-कीर्तये तत्र गौणायमाणत्वात् तालानिति बहुत्वम् एकस्य कम्पनेनैव सङ्घट्टितानां तेषां बहूनां कम्पात् सम्यक् परितः कम्पयन् इति विकीर्य दूरे पतन्तु न तु शिरसीत्य् एतद् इच्छ्या, किं वा बाहुभ्यां द्वाभ्याम् एव बहूनां तेषां युगपद् ग्रहणात् सम्यक् परितः कम्पयन्न् इति महा-बल-स्वभावेन ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी, बलदेव-विद्यभूषणः वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.१५.३० ॥

फलानां पततां शब्दं निशम्यासुर-रासभः ।

अभ्यधावत् क्षिति-तलं स-नगं परिकम्पयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स-नगं स-वृक्षम् ॥३०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असुरश् चासौ रासभः खरः ॥३०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स-पर्वतं क्षिति-तलं सर्वा पृथ्वीं परितः कम्पयन्न् इति तस्य पूर्वोक्तम् अतिवीर्यत्वं दर्शितम् ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स-पर्वतं क्षिति-तलं सर्वां पृथ्वीं परितः कम्पयन्न् इति तस्य पूर्वोक्तम् अतिवीर्यत्वं दर्शितम् ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-नगं कुल-पर्वतैर् अपि सहितम् ॥३०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स नगं स-पर्वतम् ॥३०॥


॥ १०.१५.३१ ॥

समेत्य तरसा प्रत्यग् द्वाभ्यां पद्भ्यां बलं बली ।

निहत्योरसि का-शब्दं मुञ्चन् पर्यसरत् खलः25

श्रीधर-स्वामी (भावार्थ-दीपिका) : तरसा समेत्य प्रत्यग् द्वाभ्यां पद्भ्यां बलं उरसि निहत्य बली खलः का-शब्दं मुञ्चन् ॥३१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । शीघ्र-गति-द्योतनार्थं पर्यधावद् इति तु छदो-भङ्ग-भयान्नोक्तम् इति ॥३१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उरसि नितरां हत्वा प्रहृता, यतो बलीका-शब्दं कुत्सित-शब्दं गर्दभ-स्वभावत्वात्26पर्यसरत् पुनः पद्भ्याम् एव ताभ्यां हननाय श्री-बलभद्रस्याग्रे पश्चाद् भागं कृत्वाग्रतोऽधावद् इत्य् अर्थः । यतः खरो गर्धभस्य तादृश-स्वभावाद् इत्य् अर्थः, खलः इति पाठे दुष्टस् तादृश-दुश्चेष्टत्वात् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नितरां हत्वा प्रहृत्य यतो बली साधारण-देवतापेक्षया बलवत्वेन बलिमानीत्य् अर्थः । का-शब्दं कुत्सित-शब्दम् आर्षः कादेशः, पर्यासरत् पुनः पद्भया हनने छिद्रान्वेषणाय परितो बभ्राम यतः खलः तादृश-दुश्चेष्टः ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यग् द्वाभ्यां पश्चिमाभ्यां का-शब्दम् इति गर्दभ-शब्दानुकरणं पर्यसरत् परितोऽधावत् ॥३१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रत्यग् द्वाभ्यां पश्चिमाभ्यां द्वाभ्याम् इत्य् अर्थः । का शब्दम् इति रासभ-शब्दानुकरणं पर्यसरत् पारतोऽधावत् ॥३१॥


॥ १०.१५.३२ ॥

पुनर् आसाद्य संरब्ध उपक्रोष्टा पराक् स्थितः ।

चरणाव् अपरौ राजन् बलाय प्राक्षिपद् रुषा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपक्रोष्टा गर्दभः । पराक् प्रतिमुखः । अपरौ पश्चिमौ । बलाय बलं हन्तुम् ॥३२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपक्रोष्टेति । क्रोष्टुवद् अत्युच्च-ध्वनित्वात् । रासभे गौणी लक्षणा प्राहिणोत् चिक्षेप ॥३१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपक्रोष्टेति निकटे का-शब्द-मोचनाभिप्रायेणातः पराक् विमुखं स्थितः सन् पुनर् एत्य । हे राजन्न् इति प्रेम्णानिष्ट-शङ्कयान्तः सीदन्तं राजानम् आश्वासयति । यद् व, राजमानक्रोधेणाशेष-निज-तेजः-प्रकटनात् ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आसाद्य निकटीभूय उपक्रोष्टा निकटे का-शब्दं कुर्वन् पराक् विमुख स्थितः सन् पुनर् एत्य ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संरब्धः को\ऽपि उपक्रोष्टा निकट एव का-शब्दं कुर्वन् पराक पृष्ठी-कृत्य स्थितः ॥३२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : संरब्धः क्रुद्धः उप समीपे क्रोष्टा का-शब्दं मुञ्चन् पराक् पृष्ठी-कृत्य स्थितः, अपरौ पश्चिमौ ॥३२॥


॥ १०.१५.३३ ॥

स तं गृहीत्वा प्रपदोर् भ्रामयित्वैक-पाणिना ।

चिक्षेप तृण-राजाग्रे भ्रामण-त्यक्त-जीवितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तृण-राजस् तालः ॥३३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स बलः । तम् दैत्यम् । प्रपदोः पादाग्रयोः पादाग्रं प्रपदम् इत्य् अमरः ॥३२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ प्रक्षेप-काल एवेत्य् अर्थ इति पाद-प्रहारस्य वञ्चनं ज्ञेयम् । पूर्वं तु निहत्येति तस्यावलत्वं स्वस्य च महा-सामर्थ्यं दर्शयितुम् अवञ्चनात् हननार्थं प्रक्षिप्तयोः पादयोर् एव ग्रहणेन प्रहारासिद्धेः । तृण-राजेत्य् अतिस्थूलात्युच्चत्वाभिप्रायेण, महा-ताल इति वक्ष्यमाणत्वात् । तद् अग्रे क्षेपणं गोपानां प्रहर्षार्थम्, तस्य लघुताम् आत्मनश् च महावलिष्ठतां दर्शयितुं तथा लीलया ताल-पातनाद्य् अर्थं च ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकेनैव पाणिना पदयोर् गृहीत्वा भ्रामयित्वाप्रपदोर् इति पाठस् त्व् आर्षः, पादयोर् अग्र-भाग इत्य् अर्थः । पूर्व तु तत् प्रहाराङ्गीकारः स्वान-वधान् अप्रकाशनेन स्वस्य तेनाक्षो\ऽभ्यत्वं प्रख्यापयितुम् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं धेनुकं प्रपदोः पदयोर् अग्र-भागे इत्य् अर्थः । तृण-राज-स्तालः ॥ ३२ ॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :बलः प्रपदोः पादयोर् अग्र-भागे तं खरं गृहीत्वा तृण-राजस्य तालतरोर् अग्रे चिक्षेप ॥३३.३४॥


॥ १०.१५.३४ ॥

तेनाहतो महा27-तालो वेपमानो28 बृहच्-छिराः ।

पार्श्व-स्थं कम्पयन् भग्नः स चान्यं सोऽपि चापरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन खरासुर-देहेन । बृहच्छिराः अतितुङ्गः । भग्नः त्रुट्यन् । पार्श्वस्थम् तालम् ॥३४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेन खर-देहेन, स पार्श्व-स्थश् चान्यं स्व-पार्श्वस्थं कम्पयन् भग्न इत्य् अर्थः । एवम् अग्रेऽपि, -काराद् अन्योऽप्य् अपरम् इत्य् एवं बहवो बहून् कम्पयन्तो भग्ना इति ज्ञेयम् ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : च-काराद् अपरो\ऽपि परम् इत्य् एवं बहवो बहून् कम्पयन्तो भग्ना इति ज्ञेयम् ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी, बलदेव-विद्यभूषणः वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.१५.३५ ॥

बलस्य लीलयोत्सृष्ट- खर-देह-हताहताः ।

तालाश् चकम्पिरे सर्वे महा-वातेरिता इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्सृष्टेन खर-देहेन हतैर् आहताःचकम्पिरे अकम्पन्त ॥३५-३७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हतैर् भग्नैः । आहता भग्नाः ॥३५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सन्निकृष्टा भग्ना दूरस्थास् तु कम्पिता इत्य् आह—बलस्येति महा-सत्त्वेति [भा।पु। १०.१५.२२] पूर्वम् उद्दिष्टः श्री-बलदेवस्य बलातिशयो दर्शितः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सन्निकृष्टा भग्ना दूरस्थास् तु कम्पिता इत्य् आह—बलस्येति ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, जीव-गोस्वामी बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्सृष्टेन खर-देहेन हतैस् तालैर् आहताः प्राप्ताघाताः ॥३५.३६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उत्सृष्टेन क्षिप्तेन खर-देहेन इतैस् तालैर् आहता लब्धाघाताः ॥३५॥


॥ १०.१५.३६ ॥

नैतच् चित्रं भगवति ह्य् अनन्ते जगद्-ईश्वरे ।

ओत-प्रोतम् इदं यस्मिंस् तन्तुष्व् अङ्ग यथा पटः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्मिन्न् इदं विश्वम् ओतम् ऊर्ध्व-तन्तुषु पट इव ग्रथितम्, प्रोतं तिर्यक् तन्तुषु पटवद् एव सङ्ग्रथितम् । सर्वतोऽस्यूतं वर्तत इत्य् अर्थः ॥३६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् तालादि-पातनम् । यस्मिन् बल । इत्य् अर्थ इति । सर्वाधारत्वेन तस्य तन् नाद्भुतम् इति भावः । न तस्य चित्रं परपक्ष्य निग्रहस् तथापि मर्त्यानुविधस्य वर्ण्यते [भा।पु। १०.१५.३०] इत्य् एवं वक्ष्यमाण-रीत्या प्रतियोधाद्य् अनुकरण-मात्र-शक्ति-प्रकारिण्या नर-लिलयैवदं कृतम् इत्य् आश्चर्यत्वेन वर्ण्यते, न त्व् ऐश्वर्य-लीलयेत्य् आह—नैतद् इति । अचित्रत्वे हेतुः—भगवति शक्त्या समग्रैश्वर्यादि-युक्तेऽनन्ते स्वरूपतोऽप्य् अपरिछिन्ने तथोपाधि-संबन्धेनापि जगद् ईश्वरे ओतं प्रोतम् इत्य्-आदि-लक्षणे च दृष्टान्तेऽपि तन्तूनां कारणत्वेन पटाद् अन्यत्वम् । अत्र तादृश-भगवत्त्वादिकं श्री-कृष्णांशेषु मुख्यत्वाद् उक्तनेवेति भाव इति तोषिणी ॥३६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इदं च तस्य लोकेऽद्भुतम् अपि तत्त्व-दृष्ट्या न चित्रम् इत्य् आह—नेति । एतत् लीलया धेनुक-मारण-तद् देहोत्क्षेपणादि-कर्म-सामर्थ्यं वा, चित्रम् अद्भुतं भवति । कुतः ? भगवति सर्वैश्वर्य-युक्तेऽतोऽनन्तेऽपरिच्छिन्न-शक्त्यावत-एव जगद्-ईश्वरे । भगवत्त्वादिकम् एव दर्शयति—ओतः प्रोतम् इति । इदं च सर्वं श्री-भगवद् अवतारत्वेन तद् अभेदाद् उक्तम् । दृष्टान्त सर्वतोऽनुस्यूतत्व-मात्रे, न चभेद-विवक्षया । अन्यत् तैर् व्याख्यातम्

यद् वा, भगवतीत्य् अग्रजतया गौरव-विशेषेण सर्वज्ञत्वाभिप्रायेण वा, अनन्ते शेष-रूपेऽतो जगद्-ईश्वरे, शिरसि पृथ्वीधारणेन जगत्-पालनात् तद् एवाभिव्यञ्जयति—इदं भू-तलम् ओतं प्रोतं कारण-कऋयात्मकम् इत्य् अर्थः । यद् वा, पर्वतादिभिर् दैर्घ्ये विस्तारे च सर्वतो निविडी-भूतं यस्मिन् यन् मस्तकोपर्यस्ति । दृष्टान्तो नैविड्य-मात्रे ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इदं च न तस्य चित्रं पर-पक्ष-निग्रहस् तथापि मर्तानुविधस्य वर्ण्यते [भा।पु। १०.५०.२९] इत्य् एवं वक्ष्यमाण-रीत्या प्रति-योद्धाद्य् अनुरूप-मात्र-शक्ति-प्रकाश-धारिण्या नर-लीलयैव कृतम् इत्य् आश्चर्यत्वेन वर्ण्यते न त्व् ऐश्वर्य-लीलयेत्य् आह—नैतद् इति । अचित्रत्वे हेतुः भगवति भक्त्या समग्रैश्वर्यादि-युक्तं अनन्ते स्वरूपेणाप्य् अपरिच्छिन्ने तथोपाधि-सम्बन्धेनापि जगद्-ईश्वरे ओतं प्रोतम् इत्य्-आदि-लक्षणे दृष्टान्तेपि तन्तूनां कारणत्वेन कार्यात् पटाद् अन्यत्वम् अत्र तादृश-भगवत्त्वादिकं श्री-कृष्णांशेषु मुख्यत्वात् युक्तम् एवेति भावः ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः : किं च, इदं च न तस्य चित्रं पर-पक्ष-निग्रहस् तथापि मर्त्यानुविधस्य वर्ण्यते [भा।पु। १०.५०.२९] इति वक्ष्यमाण-रीत्या प्रतियोधाद्य्-अनुरूप-मात्र-शक्ति-प्रकाश-कार्यात् धारिण्या नर-लीलयैव कृतम् इत्य् आश्रयत्वेन वर्ण्यते, नैतद् इति, दृष्टान्ते ऽपि तन्तूनां कारणत्वेन कार्यात् पटाद् अन्यत्वम् ॥३५.३७॥

———————————————————————————————————————

बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्वम् ओतं अग्र-तन्तुषु पट इव ग्रथितं प्रोतं तिर्यक् तन्तुषु पटवद् एव ग्रथितं सर्वतो\ऽनुस्यूतं वर्तत इत्य् अर्थः ॥ ३५-३६ ॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : बलदेवस्येदं शौर्यन्न् आश्चर्यम् इत्य् आह—नैतद् इति । इदं विश्वं यस्मिन् तत् अमूर्ध-तन्तुपु पटवद् ग्रथितं प्रातं तियक् तन्तुषु तद् वद् ग्रथितं सर्वतोऽनुस्यूतम् अस्तीत्य् अर्थः ॥३६.३७॥


॥ १०.१५.३७ ॥

ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये ।

क्रोष्टारोऽभ्यद्रवन् सर्वे संरब्धा हत-बान्धवाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्रोष्टारः स्वजाति-स्वनं कुर्वाणाः । ततः धेनुक-पतनानन्तरम् संरब्धाः कुपिता संरभः कोपवेगयोः इति विश्वः । कृष्णाम् इत्य् आदाव् उक्तिः श्री-बलदेवस्य पराक्रम-दृष्ट्या भयात् तत्-त्यागेन तद् अभिद्रवणात् । यद् वा, अग्रज-प्रेम्णा स्वयम् एवाग्रे गमनात् रामञ्चेति पश्चाद् अनुज-स्नेहेन तस्यापि तत्-पार्श्वे गमनात् । अभिद्रवणे तु द्वयोर् अपि प्राधान्याच् चकारौ । क्रोष्टारः महा-क्रोशनं कुर्वाणाः हत-बान्धवा इति । शोकेनाप्य् अतिक्रोधाच् छक्त्य् अतिशयं कुर्वन्त इति भावः ॥३६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णम् इत्य्-आदाव् उक्तिः श्री-बलदेवस्य पराक्रम-दृष्ट्या भयात् तत्-त्यागेन प्राक् कृष्णं प्रत्यभिद्रवणात्, किम्वाग्रज-वात्सल्येन स्वयम् अग्रतो भवनात् [स्थितत्वात्] रामञ्चेति पश्चाद् अनुज-स्नेहेन रामस्यापि तत्-पार्श्वे गमनात् । अभिद्रवणे तु द्वयोर् अपि प्राधान्याच् चकारौ । क्रोष्टार इति महा-क्रोशनं कुर्वाणा हत-बान्धवा इति च । शोकेनातिक्रोधान् निज-शक्त्य् अतिशयं दर्शयन्त इति भावः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्रोष्टारः स्व-जाति-स्वनं कुर्वाणाः । ततः धेनुक-पतनानन्तरम् संरब्धाः कुपिता “संरभः कोप-वेगयोः” इति विश्वः । कृष्णाम् इत्य्-आदाव् उक्तिः श्री-बलदेवस्य पराक्रम-दृष्ट्या भयात् तत् यागेन तद्-अभिद्रवणात् । यद् वा, अग्रज-प्रेम्णा स्वयम् एवाग्रे गमनात रामञ्चेति पश्चाद् अनज-स्नेहेन तस्यापि तत् पार्शे गमनात् । अभिद्रवणे तु द्वयोर् अपि प्राधान्याच् चकारौ । क्रोष्टारः महा-क्रोशनं कुर्वाणाः हत-बान्धवा इति । शोकेनाप्य् अतिक्रोधाच् छक्त्य् अतिशयं कुर्वन्त इति भावः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी, बलदेव-विद्यभूषणः वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.१५.३८ ॥

तांस् तान् आपततः कृष्णो रामश् च नृप लीलया ।

गृहीत-पश्चाच्-चरणान् प्राहिणोत् तृण-राजसु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तास् तान् धेनुक-वान्धवान् । हे नृपेति । नृपा यथा नर-पालनार्थं दुष्टान् हन्तीत्य् एवं श्री-कृष्णेनापि तत्-कृतम् इति भावः । य्द् वा, नृपस्येव लीलया राजानोऽपि मृगया-क्रीडा-कौतुकेन मृगान् घन्तीत्य् अनायास एव तात्पर्यात् ॥३७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे नृपेति प्रहर्षोदयात् । यद् वा, नृपस्येव लीलया राजानो हि मृगयया क्रीडा-कौकुकेन मृगान् घ्नन्तीत्य् अनायासे एव तात्प्र्यम् । तृण-राजस्व् इत्य् आर्षम्—तृण-राजेषु ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे नृपेति प्रहर्षोदयात् । यद् वा, नृपस्य् एव लीलया राजानो हि मृगयया क्रीडा-कौतुकेन मृगान् घ्नन्तीति अनायास एव तात्पर्यम् । तृण-राजस्व् इति आर्षम्—समासान्त-विधेर् अनित्यत्वात् ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दैत्य-देहैर् उपलक्षिता भूः फल-प्रकर-सङ्कीर्णं यथा स्यात् तथा रराज नभस् तलं नभः-स्वरूपम् ॥३८.३९॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे नृप ॥३८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हे नृप ॥३८॥


॥ १०.१५.३९ ॥

फल-प्रकर-सङ्कीर्णं दैत्य-देहैर् गतासुभिः ।

रराज भूः स-तालाग्रैर् घनैर् इव नभस्-तलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : घनैर् नभ इव भुवस् तलं रराज । तत्र फल-प्रकर-सङ्कीर्णम् इति दैत्य-देहैश्स-तालाग्रैः सङ्कीर्णम् इत्य् अरुणश् चेत-नील-घन-सादृश्य-संपादनम् ॥३९.४०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भूर् इति । तलम् इत्य् अनेन व्यवहिते नापि संबन्ध्यते । षष्ट्य् अर्थे प्रथमा बोध्येत्य् आशयेन भुवस् तलम् इति स्वामी । फलानां प्रकरेण समूहेन सङ्कीर्णं मिलित्म् । तत्र भूतले । दैत्य-देहैर् इत्य् अनेन सङ्कीर्णम् इत्य् अस्य समासान्तर्गतस्यापि भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् इति-वत्संबन्धः । यद् वा, दैत्य-देहैः सह फल-प्रकर-सङ्कीर्णम् इति संबधः । पूर्णोपमेयम् उपमानोपमेय-सदृश्य-धर्मोपमा-वाचक-पदानां चतुर्णाम् एवोपादानात् । यद् व, नभस् तलं नभः-स्वरूपम् तलं स्वरूपाधारयोः इति विश्वः ॥३८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : फल-प्रकर-सङ्कीर्णम् इति । फल-प्रकर-सङ्कीर्णं यथा स्यात् तथा । भूः रराज । कैः ? गतासुभिर् देहैः । कैः किम् इव ? घनैर् नभस् तलम् इव ॥३८॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गतासुभिर् इति देहानाम् अस्पन्दनं बोधयति, अत एव रराज, भूर् भूमि-रूपम्, तलं तालानाम् अधोदेशः । किं वा, भूर् इत्य् अव्ययम्—भूर् लोकादिवत् ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गतासुभिर् इति देहानाम् अस्पन्दनं बोधयति, अत एव रराज श्री-कृष्ण-पक्षीयाणाम् आनन्द-जनकत्वात् भूः भूमि-रूपं तलं तालानाम् अधो देशः । किं वा, भूर् इत्य् अव्ययं भूर् लोकादिवत् । यद् वा, सुपांसु-लुग् इत्य्-आदिना ङसः सुभावः । अथवा सतालाग्रैर् दैत्य-देहे-रुप-लक्षिता भूः फल-प्रकर-सङ्कीणं यथा

स्यात् तया रराज नभस् तलं नभः-स्वरूपं तलं स्वरूपाधरयोः इति विश्वः ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ ताल-वन-क्रीडाम् आह—फल-प्रकरेत्य्-आदि । फल-प्रकर-सङ्कीर्णं यथा स्यात् तथा भू रराज । कैः ? गतासुभिर् दैत्य-देहैः । कैः किम् इव ? घनैर् नभः-स्थलम् इव ॥३९.५२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : फल-प्रकर-सङ्कीर्णं यथा स्यात् तथा भू रराज कैः दैत्य-देहैः निर्भिन्न-तालाग्र-सहितैः तेषां स्वतः श्यामत्वात् रुधिरोक्षितत्वाच् च घनैः श्याम-रक्तैर् नभस् तलम् इव तल स्वरूपाधारयोः इति विश्वः ॥३८.३९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : फल-प्रकरैः सङ्कीर्णं यथा स्यात्-तथा भूः रराज कैर् इत्य् आह—दैत्य-देहैर् भग्न-तालाग्र-सहितैः तेषां श्यामत्वाद्-रुधिर-निषिक्तत्वाच् च घनैः श्याम-रक्तैर् नभस् तलम् आकाशम् इव तल स्वरूपाधारयोः इति विश्वः ॥३९.४०॥


॥ १०.१५.४० ॥

तयोस् तत् सु-महत् कर्म निशाम्य विबुधादयः ।

मुमुचुः पुष्प-वर्षाणि चक्रुर् वाद्यानि तुष्टुवुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोः राम-कृस्णयोः । तद् दैत्य-हनन-ताल-पातन-रूपम् । नर-कृत्यायोग्यत्वान् महत् । आदिना ग्न्धर्वर्षयो ग्राह्याः ॥३९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपानाम् एव29 प्रीत्य् अर्थम् अपि तत्र तत् तद् अन्येषां30 जातम् इत्य् आह—तयोर् इति द्वाभ्याम् । सुमहद् इति देवादि –भयङ्करस्य महा-बलिष्ठस्य सपरिवारस्य तस्यावहेलयाशुमारणात् । आदि-शब्दाद्-विद्याधरादयो महर्यादयश् च, क्रमेण तेषां तत्-तत्-कर्म ज्ञेयम् । वाद्यैर् गीत-नृत्यान्य् अपि ज्ञेयानि, प्रायोऽन्योऽन्यं तेषां सङ्गत्वात् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपानाम् एव प्रीत्य् अर्थम् अपि तत्र तत् तद् अन्येषां जातम् इत्य् आह—तयोर् इति द्वाभ्याम् । सुमहद् इति देवादिभयङ्करस्य महाबलिष्ठस्य सपरिवारस्य तस्यावहेलयाशु-मारणात् । आदि-शब्दाद्-विद्या-धरादयो महर्ष्याद् अयश् च, क्रमेण तेषां तत् तत् कर्म ज्ञेयम् । वाद्यैर् जीत-नृत्यान्य् अपि ज्ञेयानि, प्रायो\ऽन्यो\ऽन्यं तेषां सङ्गतत्वात् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् वा, साधारण-मनुष्या एवादन्, न तु गोपाः मृत-गर्दभ-प्रसङ्गे घृणां विधायेति भावः ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनुष्यास् तत्रत्याः पुलिन्दादय एव न तु गोपालाः आदन् गर्दभ-रक्तोक्षितत्वेन फलेषु घृणोत्पत्तेः ॥४०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.१५.४१ ॥

अथ ताल-फलान्य् आदन् मनुष्या गत-साध्वसाः ।

तृणं च पशवश् चेरुर् हत-धेनुक-कानने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आदन्न् अभक्षयन् ॥४१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हत-धेनुकस्य कानने चेरुः बभक्षुः । मनुष्यास् तत्रत्याः पुलिन्दादय एव न तु गोपाला आदन्, गर्दभ-रक्तोक्षितत्वेन फलेषु घृणोत्पत्तेः ॥४१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ तद्-वधानन्तरं मनुष्या गोपा एव, गतं साध्वसं राम-कृष्ण-विषयकानिष्ट-शङ्का येषाम् । आदन् तत्रैवाभक्षयन् । यद् वा, ततः-प्रभृति गोपादयः सर्व एव मनुष्या धेनुकोत्पात-गत-भया अभूक्त-पूर्वाणि [भृपतितानि] तान्य् अभक्षयन्न् इत्य् अर्थः । किं वा, गोपास् ताल-फलान्य् आदन्, मनुष्या अन्येऽपि सर्वे गत-साध्वसा बभूवुर् इति । हत-धेनुकेति मनुष्याणाम् अगम्यतया घन-तृणादि-सञ्चये तत्र निर्भयत्वेन सर्वत्र सुखेन तृण-चरणादिकम् अभिप्रेतम् ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपाला इत्य् अनुक्त्वा मनुष्या इत्य् उक्तेस् ते तु मृत-गर्दभ-प्रसङ्गेन धृणां विधाय नादन् किं त्व् अन्य एव मनुष्या इत्य् अर्थः । हत-धेनुक-कानन इति तृण-बाहुल्यम् अपि सूचितम् ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनुष्यास् तत्रत्याः पुलिन्दादय एव न तु गोपालाः आदन गर्दभ-रत्तोक्षितत्वेन फलेषु घृणोत्पत्तेः ॥४१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मानुष्यास् तत्रत्याः शवशदयः एव्आदन् न तु गोपाः तेषां रासभ-रुधिरा-निषिक्तत्वेन तद्-दिने तद्-अस्वीकारात् ॥४१।


॥ १०.१५.४२ ॥

कृष्णः कमल-पत्राक्षः पुण्य-श्रवण-कीर्तनः ।

स्तुयमानोऽनुगैर् गोपैः साग्रजो व्रजम् आव्रजत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्ण इति व्रज-स्थानां चित्ताकर्षणं, कमल-पत्राक्ष इति नेत्र-नासयोर् अकर्षणम् । पुण्ये धन्ये कर्णौ यतस् तादृक् कीर्तनं वेणु-गानं यस्येति श्रोत्रस्याप्य् आकर्षणं सूचितम् । अनुगैः देव-रूपैर् इत्य् अर्थः ॥४२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रसङ्गाद् आपतितां तालीवन-क्रीडां निरूप्य पूर्वं प्रस्तुतां गो-पालन-प्रथम-दिन-कृईडाम् एव वदन् वन-विहारं समाप्य व्रजान्तर् विलासम् आह—कृष्ण इति षड्भिः । अथवा, तस्मिन्न् एव दिने तालीवन-क्रीडापि सा द्रष्टव्य, एक-देत्याद्य् अनुक्त्या क्रमेण तद् दिन-क्रीडाम् एव तत्-कथनात् । ततश् च कालेऽपि कार्तिक-शेषे पक्व-तालानां समृद्धिः सर्वर्त्वाश्रय-श्री-वृन्डावन-सम्बन्धात् । पुरो बातोऽपि शरद्-वृष्ट्य् अर्थम् एतद् देश-स्वभावाद्घटत एवेति दिक् । साग्रजः कृष्ण इति प्राधान्येन तस्य निर्देशः प्रायः सर्वत्र तस्यैव मुख्यत्वात्, विशेषतश् च व्रजागमने तस्यात्यन्तोत्साहात्, व्रज-जनानन्द-विशेषोत्पादनाच् च, तथाग्रतोऽभिगमिष्यन्तीभिः श्री-गोपिकाभिः सह सङ्गमोत्सवार्थम् अग्रे भवनाच् च । कृष्ण इत्य् अभिप्रेत-सर्व-चित्ताकर्षकत्वं दर्शयन् विशिनष्टि—कमलेत्य् आदिना । कमल-पत्राक्ष इति सौन्दर्यम्, पुण्ये श्रवण-कीर्तने यस्येति सर्व-सद्-गुण-कर्मादि-माहात्म्यम् । अनेन व्रज-स्थानं तच् छ्रवणाद् एव विरहार्त्युपशमः, स्तावकानां च चित्तोल्लासः सूचितः । एवं व्रजागमने व्रज-स्थानां प्रहर्षार्थं विशेषतो रूप-गुणादि-प्रकटनम् अभिप्रेतम् अतो निजाभीष्ट-सिद्धेश् च, गोपैः स्तूयमानो रूप-गुणादि-प्रदर्शनेन विशेषतश् च तद् दिन-कृत-धेनुक-वधादि-वर्णनेनानुगैः पश्चाद् वर्तिभिः सद्भिः, श्री-कृष्णस्य गोपीनां चान्योऽन्यं सम्यग् दर्शन-सिद्ध्य् अर्थम् । यद् वा, अनुगैः सेवकैर् गोपैश् च सहचरैर् इति प्रेमस्तवनं बोधयति । यद् वा, अनुगैः श्रीदामादिभिः सख्य-स्वभावत एव गोपैश् च व्रजस्थैर् अग्रतोऽभिगतैर् अन्यैर् बान्धवैस् तच् छ्रवणात् । स्तूयमान आव्रजद् इति गङ्गा-तीरे निविश्य31 कथयतोऽपि श्रीवादरायणेर् भाव-विशेषेणात्मनः प्रायो व्रजस्थत्व स्फुर्त्तेः ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं प्रसङ्गेन दिनान्तरस्य धेनुक-वध-लीलाम् अपि समाहत्य प्रथम-गोचारणदिन-सन्ध्या-लीलापि यथायुक्तम् इत्थं ज्ञेयेति । तद् दिन-सन्ध्या-लीलाम् आह षड्भिः—तत्र सामान्य-व्रज-जन-दृश्यमानत्वेन वर्णयति—कृष्ण इति । कृष्ण इत्य् अभिप्रेतं सर्व-चित्ताकर्षत्वं दर्शयन् विशिनष्टि-कमलेत्य्-आदिना । कमल-पत्राक्ष इति सौन्दर्यं शोणच् छविकोणतया विस्तीर्णता-कीर्णतया च कैशोरांश-व्यक्तिर् अपि पुण्ये श्रवण-कीर्तने यस्य स इति सर्व-सद्-गुण-कर्मादि माहात्म्यम् अनेन व्रज-नाथ-सन्तच् छ्रवणाद् एव विरहार्त्य् उपशमस्तावकानां च चित्तोल्लास सूचितः एवं स्वरूप-शोभा दर्शयित्वा आवरण-शोभाम् आह—स्तुयमान इत्य्-आदिना ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र सामान्य-व्रज-जन-दृश्यमानत्वेन वर्णयति—कृष्ण इति ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वनाद्-गोष्ठ-प्रवेश-लीलाम् आह त्रिभिः—कृष्ण इति । व्रज-स्थानां चित्तस्याकर्षणं कमल-पत्राक्ष इति नेत्र-नासयोः पुण्ये धन्ये श्रवणे कर्णौ यतस् तथा-भूतं कीर्तनं वेणु-नानं यस्य स इति श्रोत्रस्याप्य् आकर्षण ध्वनितम् ॥४२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वनाद्-व्रज-प्रवेश-लीलाम् आह—कृष्ण इति त्रिभिः ॥४२॥


॥ १०.१५.४३ ॥

तं गो-रजश्-छुरित-कुन्तल-बद्ध-बर्ह-

वन्य-प्रसून-रुचिरेक्षण-चारु-हासम् ।

वेणुम् क्वणन्तम् अनुगैर् उपगीत-कीर्तिं

गोप्यो दिदृक्षित-दृशोऽभ्यगमन् समेताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गो-रजोभिश् छुरितेषु कुन्तलेषु बद्धं बर्हं वन्यानि प्रसूनानि च यस्य । रुचिरम् ईक्षणं चारु-हासश् च यस्य, तं च तं च । दिदृक्षित-दृशो दिदृक्षिता दर्शनोत्कण्ठा-युक्ता दृशो यासां ताः ॥४३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं श्री-कृष्णम् । गो-रजोभिः छुरितेषु व्याप्तेषु कुन्तलेषु केश-पाशेषु बद्धं बर्हं मयूर-पक्षो यस्य स इत्य् उत्तरेण कर्म-धारयः । छुरितं व्याप्ति-भेदयोः इति धरणिः । दिदृक्षा जाता यासां ता दिदृक्षिता दृशः स्वयम् एव कर्तृत्वं भेजुः करणत्वं त्यक्त्वेति ध्वनिः । ताः दृशो यासां इति ॥४३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् सायन्तन-वन्य-वेष-विभूषितस्य श्री-भगवतो गोपीनां चान्योन्य-सन्दर्शन-सम्माननानन्दम् आह—तम् इति द्वाभ्याम् । कुन्तलाः केशा अलका वा । ईक्षणम् अवलोकनम् । एवम् उपरि मध्येऽधश् च सर्वतः श्री-मुखस्य सौन्दर्यम् उक्तम् । अन्यालङ्कारादि-सद्-भावेऽपि तत्-तन्-मात्रस्यैव वर्णनं सायं वन्य-वेशे तस्य तस्यैव मुख्यत्वात्, तेन तेन शोभा-विशेषोदयाच् च । वेणु-क्वणनं स्वभावत एव, विशेषतश् च निजागमन-विज्ञापनेन तासाम् आकर्षणार्थं प्रहर्षणार्थं चा । अत एव उप सामीप्येन वेणु-क्वणनं चोपगीयते, तेन वा गीता कीर्तिर् धेनुक-घातनादि-लक्षणा यस्य तम् । अयम् अपि दिदृक्षितत्वे हेतुर् एको द्रष्टव्यः । अभिगमनार्थं च तस्य व्रजागमन-ज्ञान-निर्धारे—गो-रज इति, वेणुं क्वणन्तम् इति, अनुगैर् उपगीत-कीर्तिम् इति च हेतु-त्रयम् । गोप्य उल्लङ्घित-बाल्यास् तत्-प्रियाः, अत एव श्री-बलदेवोऽपि दृढं व्यावर्तितस् ताभिः सहानुजस्यासङ्कोच-सङ्गम-सुखार्थं केनापि छलेन तस्य दूर-गमनात् ।

अभिगमने हेतु-विशेषः—दिदृक्षित-दृशः । अस्तु तावद् आत्मा मनो वा, द्रष्टुं परमोत्सुका दृशोऽपि यासां प्रथम-गो-चारणेन दूरागमनतो विविध-शङ्कोत्पत्तेस् तथा पूर्वं वत्स-पालनतोऽधुना गो-पालने काल-विलम्बेनागमनाच् च समेता अन्योऽन्यं मिलिताः सत्य ऐकमत्येन भय-लज्जादि-हानेः, अन्योऽन्यं सख्य-स्वभावाद् वा । यद् वा, स्व-स्व-गृहतोऽतिवेगेन सर्वासाम् एव धावनाद्-यौगपद्येन पथि । किं वा, पूर्वम् एव विरहार्त्या सर्वासाम् एकत्र32 सङ्गतः ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तद् उल्लङ्घित-बाल्यैः श्री-गोप-कुमारी-विशेषैर् अपि दृश्यमानत्वेन तं वर्णयस् तेषाम् अनुरागोत्पत्तिं स्पष्टयति—तम् इति द्वाभ्याम् । ईक्षणम् अवलोकनम् । गो-रज इत्य्-आदिना । उपरि मध्ये तले च श्री-मुख-शोभा दर्शिता अन्य-वेष-सद्भावे\ऽपि तत् तन् मात्रस्यैव वर्णनं सायं वनाद् आगतत्वेन वैशिष्ट्यात् । वेनु-क्वणनं स्वभावत एव विशेषतश् च तासां प्रहर्षणार्थम् आकर्षणार्थं च उपेतिर् आगमात्र-गानमय-वेणु-क्वणनोपगानत्वेन गीता कीर्तिर् यस्य तम् अत्र साग्रजतानुक्तिस् तस्य तत्रानुपयुक्त-प्रायत्वात् अत एव छलेन व्यवहितत्वात् गुरु-जन-सङ्गतौ हि तस्याग्रजताभाव एव प्रबलते तस्य व्रजागमननिर् धारे गोरजश् छुरितेति सूचित-गो-रज उद्धृतिर् वेणु-क्वणनम् अनुगोप-गीत-कीर्तित्वम् इति हेतुत्र् अयं ज्ञेयम् अभिगमने हेतुः, दिदृक्षिताः सजात-दिदृक्षा दृशो यासाम् इति, अत्र प्रथमतो गो-चरणेन दूर-गमनतो विविध-शङ्कोत्पत्तिः तथा पूर्वतोधुना गोपालते काल-विलं वनेनागमनं चोत्कण्ठा-वैशिष्टये हेतुः समेताः अन्योन्यं मिलिताः ऐकमत्येन सख्यात् तत एव भय-लज्जादि-हानेश् च तच् च स्व-स्व-गृहतः सर्वासाम् एव युगपद्-धावनाच् छ्री-कृष्णाध्वनि वा पूर्वम् एवागतानाम् उच्च-स्थान-विशेषे वा ज्ञेयम् ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एकेन अथ परम-तेजस्वित्वेन झटिति तद्वद् उल्लङ्घित-बाल्यैः श्री-गोप-कुमारी-विशेषैर् अपि दृश्यमानत्वेन वर्णयंस् तेषाम् अनुरागोत्पत्तिं स्पष्टयति—तम् इति द्वाभ्याम् ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रज-बालानां विशेषत आकर्षणम् आह—तं गोप्योऽभ्यगमन् गो-रजोभिश् छुरितेषु व्याप्तेषु कुन्तलेषु बद्ध-बर्हं वन्य-प्रसूनानि च यस्य रुचिरम् ईक्षणं चारु-हासश् च यस्य ईक्षणयोर् हासो वा यस्य तं दिदृक्षिताः सञ्जात-दर्शनेच्छा दृशो यासां ता इति गोपी-कर्तृकं लज्जा भव-धेनुकं वर्जनम् अमानयन्त्यो दृशस्पदाकरणत्वं परित्यज्य स्वतन्त्र-कर्तृत्वं प्राप्ता इति ध्वनिः । तेन च प्रतिवेशिनां श्रोत्र-घ्राणेन्द्रियाणां वेणु-सौस्वर्याङ्ग-सौरभ्य-सम्बल्-लाभम् आलक्ष्य मात्सर्येणैव स्वेषां रङ्कत्वम् असहमानाः स्वाश्रय-भूता गोपीः परित्यज्येव सपत्नी-भवितुम् इव चापल्यात् स्वयम् एव कृष्ण-पार्श्वं चलिता इत्य् उत्प्रेक्षा ध्वन्यते । समेता इति सर्वा एव कुल-वध्वः स्व-स्व-गृहान् विहाय चलन्ति "माम् एव किं त्वं वारयन्ती वधिष्यसि" इति स्व-स्व-श्वश्रूः प्रत्युत्तरयन्त्य इति भावः ॥४३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : किशोरीणां विशेषतः समाकर्षणम् आह—तम् इति । गोप्यस् तम् अभ्यगमन् तद्-दर्शनाय तद्-आगम-पथस्थ-प्रासाद-शिखराण्य् आरोहन्न् इत्य् अर्थः । कीदृश्यः ? दिदृक्षिताः सञ्जाता दिदृक्षा दृशो यासां ता इति करणानाम् अपि दृशां दिदृक्षायां कर्तृत्वं निर्देशात् लज्जा भय-हेतुकं तन्-निवारणं न मेनिरे इति । तद्-दृशस् तद्-अवश्या इति भावः । श्रोत्र-घ्राणयोस् तद्-वेणु-नाद-तद्-अङ्ग-सौगन्ध्य-लाभान् मात्सर्याद् इव दृशां तद्-रूप-लाभ-प्रवृत्तिर् इति सूच्यते । समेता मिथो मिलिता इति श्वश्रूणां न कृतेति व्यज्यते तं कीदृशं ? गो-रजोभिः छुरितेषु व्याप्तेषु कुन्तलेषु बद्धं बर्हं वन्यानि प्रसूनानि च यस्य रुचिरयोर् ईक्षणयोश् चारुर् हासो यस्य, तं च तं च तम् ॥४३॥


॥ १०.१५.४४ ॥

पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस्

तापं जहुर् विरह-जं व्रज-योषितोऽह्नि ।

तत्-सत्कृतिं समधिगम्य विवेश गोष्ठं

सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुकुन्दस्य मुख-पद्म-गतं सारघं मधु । अह्नि यो विरहः, तस्माज् जातं तापम् । स च तासां सत्कृतिं पूजाम् । कां सत्-कृतिं ? कथं वा कृतां ? ताम् आह—स-व्रीडेन स-लज्जेन हासेन विनयो यथा भवति तथा यद् एतत् । किं तत् ? अपाङ्ग-मोक्षं कटाक्ष-दर्शनम् । तथा तां सत्-कृतिं प्राप्येति ॥४४.५१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सरघाभिः सञ्चितं सारघम्, सरघा मधु-मक्षिका इति हलायुधः । मधु मकरन्दं, मुखं लक्षणया पद्मम् आह । सारघ-पदम् अपि लक्षित-लक्षणया मकरन्दम् आह ॥४३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च तस्य सन्दर्शनामृतेन तासां विरह-ज्वरो निरस्त इत्य् आह—पीत्वा इति । मुक्तिर् अपि कुत्सिता यस्माद् आनन्दात्, तं ददातीति मुकुन्द इति तन्-मुखस्यापि तादृशत्वम् अभिप्रेतम् । यद् व, कुखे कुन्दानि दन्त-रूपाणि यस्य, एवम् अरुणाधर-श्याम-सुन्दर-श्री-मुखस्य शोभा-विशेषः सूचितः । तस्य सारघम् अक्षि-भृङ्गैः पीत्वा इति तत्-सौन्दर्यं परमासक्त्या भृशं साक्षाद् दृष्ट्वा इत्य् अर्थः । यद्य् अपि भृङ्गाः स्वयम् एव मधु पिवन्ति, तथापि तेषां करणत्वम् अक्ष्णां चाञ्चल्यादिना सौन्दर्य-विशेषस् तथा श्री-मुखावयवेषु ततस् ततो मुहुर् दृष्टिश् च ध्वनिता । विरहजम् इति तद्-दिने विशेषतो विरहार्तिः । तच् च दिदृक्षित-दृशः इत्य् अत्रोक्तम् एव । व्रजस्था योषित इति तत्रैव हेतु-विशेषः । अह्नि इति रात्रौ विरह-तापाभावः सूचितः, तस्यां श्री-नन्द-गृहादौ तत्-सन्दर्शनादि-सिद्धेः । किं वा, अस्य परेणान्वयः । किञ्चिद् दिन-शेषे गोष्ठान्तः प्रविवेश, रात्रौ सम्यग्-दर्शनाद्य-सम्पत्तेः । ताम् अभिगमन-श्री-मुख-प्रेम-सन्दर्शन-लक्षणां तासां वा किञ्चिद् उपयनार्पण-पूर्वां गीति-रञ्जनादि33 लक्षणां सत्कृतिम् सम्यग् अधिकंप्राप्य । श्री-भगवतापि ताः प्रेम्णा सम्मानिता इत्य् आह—सव्रीड- इति । विनयोऽत्र चापल्याभावः, न च विनयतो मुख-नम्रतादिना तासु स-भाव-दृष्टि-विशेष-हानिर् इत्य् आह—यद् इति । अपाङ्ग-मोक्षं च यथा स्यात् तथा । यद् यस्माद् विवेश ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च यद् वृत्तं तद् आह—पीत्वेति । तैर् व्याख्यातम् । स्व-माधुरी-परिवेषणेन वियोग-दुःखान् मुक्तिं ददातीति मुखे कुन्दानि दन्त-रूपाणि यस्येति वा । मुकुन्दः तस्य मुखाब्ज-सारघम् अक्षि-भृङ्ग-स्वरूपैः पीत्वेति तत्-सौदर्य-परमासस्त्वा नेत्रमात्रात्मिकासत्यो भृशं वीक्ष्येत्य् अर्थः । प्रकृत्याभिरूप इत्य्-आदि-वत्तृतीया । किञ् च, भृङ्ग-रूपकेण श्री-मुखावयवेषु ततस् ततो मुहुर् दृष्टिश् च यद्-धवनिता व्रज-योषित इति समुत्कण्ठा-विशेषः । अह्नीति रात्रौ विहर-तापाभावः सूचितः । तस्यां व्रजेन्द्र-ग्रहादौ तत्-सन्दर्शनादि-सिद्धेः सत्-कृतिम् आह—सवीडो हासोपतादृशो\ऽपि विनयः रहस्य-प्रिय-जनोचित-व्यवहारोपत्रतादृशं यथा स्यात् तथा तद्-रूपाम् इत्य् अर्थः । यद् इत्य् एतत् प्रोक्ता तां किं रूपां अपाङ्ग-मोक्ष-कटाक्ष-दर्शन-रूपाम् इत्य् अर्थः । यद् वा, यद्य् आसां अपाङ्ग-मोक्ष एव सत्कारोपकरणत्वेन विद्यते । यत्र तादृशं यथा स्यात् तथा सत्कृति समधिगम्येति । यद् वा, यत् सद्-वृत्त्य्-अधिगमनं सव्रीडेत्य्-आदि-रूपं अपाङ्गस्य मोक्षो यत्र तद्-रूपं च क्लीबत्वम् आर्षं वा कंसात् कृतिं यः अपाङ्ग-मोक्ष इत्य् अर्थः । तद्-विशेषणं सवीड-हासेति यद् वा, व्रज्योषितः पूर्वोक्तास् तद्-विशेषाः मुकुन्दस्य सर्व-दुःख-मोचकत्वेन तादृश-नाम्नः श्री-कृष्णस्य मुख-सारघं मुख-कमलस्य सौन्दर्य-रूपं मकरन्दम् अक्षि-भृङ्गैर् अक्षिभिर् एव भृङ्गारैः पान-पात्रः पीत्वा समास्वाद्य अह्नि यो विरहस् तेन यस् तापस् तद् अप्रातिजा तृष्णा तां जहू रात्रि-जविर-हतापं तु प्रात-दर्शनेन जहुर् एवेति भावः । यत् यत्रैव सवीडो हास-विनयौ यत्र तादृशम् अपाङ्ग-मोक्षं कटाक्ष-निःक्षेप-रूपां तत् सत्कृति ताभिः कृतं सम्मानं समधिगम्य मत्वा गोष्ठं गोष्ठान्तर्-निज-गृहं विवेशेति ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अक्षीण्य् एव भृङ्गास् तत्-पाने स्वतः प्रवृत्तत्वात् तैः द्वार-भूतैः स्वयम् अपि पीत्वा सत्कृतिम् आह—सव्रीडो हासो यत्र तादृशो विनय-रहस्य-प्रिय-जनोचित-व्यवहारो यत्र एतादृशं यथा स्यात् तया यत् स्यात् तद्-रूपाम् इत्य् अर्थः । यद् इत्य् एतत् प्रोक्तां तां किं-रूपाम् अपाङ्ग-मोक्षां कटाक्ष-दर्शन-रूपाम् इत्य् अर्थः ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिगम्य किं चक्रुः ? इत्य् अत आह—पीत्वा इति । मुकुन्दस्य मुखे सारघं स्मित-रूपं मधु अक्षि-भृङ्गैः पीत्वा न त्व् अपाङ्ग-भृङ्गैः । पीत्वेत्य् अनेन कृष्णस्यादृष्ट-गोपीकस्यान्य-मनस्कस्यैव यत् साहजिकं स्मितं तत् ताभिर् निःशङ्कतया सम्पूर्ण-नेत्रैर् एव पीतम् इति गम्यते । ततश् च द्वितीय-क्षणे कृष्णस्य तत्रावधाने सति हर्षोत्थो हासस् तायां यद् एवाजनि, तदैवोद्भूतया [व्रीडया] लज्जया स सम्पूर्णावलोको हासश् चावृतः । वाम-कर-कृतम् अवगुण्ठनं च किञ्चित् संवृत्तं तत्-तद्-आवरण-व्यञ्जितो विनयश् चाभूद् इत्य् एतत् सर्व-माधुर्यम् एव कृष्णोऽनुबभूवेत्य् आह—तत्-सत्कृतिं तादृशावलोकन-रूपां सत्कृतिं ताभिः कृतं किञ्चिद् उपायन-प्रदान-रूपं सम्माननम् इत्य् अर्थः । समधिगम्य विदग्ध-शिरोमणित्वात् स-रसास्वाद स्वीकृत्य गोष्ठं विवेश । अत्र सत्कार-समधिगम-क्रिययोः क्रमेण स-व्रीडेत्य्-आदि-विशेषण-द्वयं । तेन च व्रीडया सहितो हासो विनयश् च यत्र, तत् यथा स्यात्, तथा तासां सत्-कृतिं यतः प्राप्नुवतः अपाङ्गस्य मोक्षो यत्र, तद् यथा स्यात्, तथा समधिगम्य गोष्ठं विवेश इत्य् अर्थः । ताभिः कृता स-व्रीड-हास-विनया तादृशावलोक-रूपा सत्कृतिः, तस्याधिगमः कृष्णेन तत् प्राप्नुवद् अपाङ्ग-मोक्ष-सहितः कृत इति फलितम् । अत्र सम्पूर्ण-नेत्राभ्यां दर्शने तासां लज्जया विमुखी-भावः स्यात्, अतस् तत्-कटाक्ष-प्राप्त्य्-अर्थम् एव कृष्णेनापाङ्ग-मोक्ष इति ज्ञेयम् । अर्थैतद्-विवरणं ताभिः प्रत्येकं स्व-नयनाञ्जनाव् औत्सुक्यं सञ्चारिणा स्व-परिजनेन आनीयावलोकन-कुसुमम् अर्पितं तथैव स्वाधर-पल्लवाञ्जलौ हर्ष-सञ्चारिणो\ऽप्य् आदीयार्पितं हास-कुसुमं च गृहीत्वा । एतद् वस्तु-द्वयम् एवास्मद्-गृहे तत्र भवते देवम् अस्ति तत् कृपया गृह्यताम् इति यदैव दर्शितं, तदैव तद् उपायन-द्वयम् आनेतुं कृष्णेन स्व-प्रेष्योऽपाङ्गो\ऽन्य् अयुज्यत स महा-चपलः पूर्वम् एव तद् अद्वयं तासाम् अन्तर्-गृह-गतम् अपि चोरयितुम् उद्यतोऽतः कृष्नेन बद्ध्वैव स्थापित आसीत्, ताभिस् तस्मिन्न् उपायन-द्वये प्रकटीकृत्य दित्सिते सति, स एव बन्धान् मोचितः सन् शर इव शीघ्रं गत्वा तद् यैव ग्रहीतुम् आरभत तत्-क्षण एव तासां कोषाधिकारिण्या सख्या व्रीडया प्रादुर्भूय तद् उपगायन-द्वयम् आवरीतुं प्रववृते ततश् च तयोर् विग्रहे प्रवृत्ते सन्ध्यर्थ्यं विनये च तासां परिजने समायाते स च बलवान् कृष्ण-प्रेष्योऽपाङ्गो व्रीडाविनयाभ्यां सहितम् एव सहासावलोकनम् उपायनम् आकृष्णानीय कृष्णाय प्रादात् स च तत्रिकम् अतिदुर्लभ-महा-रत्नम् इव प्राप्य स्वहृदय-मन्दिराभ्यान्तर एव स्थापयामासेति कथा सत्कार-व्याञ्जितोपलब्धा यद् वा व्रज-योषितोह्नितोऽह्नि तापं जहुः, कास्ता व्रज-योषितः ? यासाम् अपाङ्ग-मोक्षं ततां प्रसिद्धां सत्कृतिं समधिगम्य गोष्ठं विवेश कीदृशं सव्रीड-हास-विनयम् अत्र यत् पदस्योत्तर-वाक्य-गत-स्वान् न तत् पदापेक्षा ॥४३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अभिगम्य यच् चक्रुः, तद् आह—पीत्वा इति । मुकुन्दस्य विरह-दुःख-मुक्ति-दातुर् मुखे अरविन्दे स्मित-रूपं यत् सारघं मधु तद् अक्षि-रूपेण तु कटाक्ष-रूपैर् भृङ्गैः पीत्वा इति स्वकर्मकं तद्-अवलोकात् प्राकृत-स्वाभाव-सिद्धं तत् स्मितं ताभिर् निःशङ्कं निपीतम् इति भावः । अह्नि यो विरहः, तेन यस् तापः तद्-अप्राप्तिजा तृष्णा, तं जहुर् इति रात्रि-विरहजं तापं तु प्रातर् दर्शनेन जहुर् एवेति भावः । ततस् तत्-सत्कृतिं कृष्णः समाधिगम्य गोष्ठं स्व-भवनं विवेश । अत्र स-व्रीड- इति सत्कृति-क्रियाया विशेषणं यद् अपाङ्ग- इति तु समधिगम-क्रियाया बोध्यं, तेन च स-व्रीड-हासो विनयश् च यत्र, तद् यथा स्यात्, तथा ताभिः कृतां सत्कृतिं यतः प्राप्नुवतोऽपाङ्गस्य मोक्षो यत्र तद् यथा स्यात्, तथा समाधिगम्य गोष्ठं विवेश इत्य् अर्थः । ताभिः कृष्ण-मुख-चन्द्रे समवलोक्यमाने तत्र कृष्णावधाने सति हर्षेण हासस् तासाम् अभुदैत तदोद्भूतया लज्जया तत्-समवलोक-हासा व वृतौ मुख-पङ्कजानि चावगुण्ठितानीति सौशील्यरूपो विनयश् चाभूत् नेत्रोधराञ्जलि-धृतस्य अवलोक-स्मित-कुसुम-गुच्छस्य विनय-सौरभ्यादिग्-रूपस्यार्पणं कृष्णस्य सत्कारः । तं च यद् अपाङ्ग-मोक्षं समधिगम्य इति नेत्राभ्यां विलोकने लज्जया अन्तस् तिरोदध्युर् इति नेत्रास् तेनैव तद्-अवलोकनं तत्-कटाक्ष-लाभार्थकं । ततश् च तां सत्कृतिं महा-रत्न-सम्पदम् इव स्वहत्-कोषे निदधानो गृहं प्राप इति भावः ।

यद् वा, व्रज-योषितोऽह्नि तापं जहुः । ताः काः ? तत्राह—यासाम् अपाङ्ग-मोक्षं प्रसिद्धां सत्कृतिं समधिगम्य गोष्ठं विवेश । कीदृशं ? तत्राह—स व्रीड- इति । अत्र यच्-छब्दस्य उत्तर-वाक्य-गतत्वात् पूर्वत्र तच्-छब्दापेक्षा नास्ति ॥४४॥


॥ १०.१५.४५ ॥

तयोर् यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले ।

यथा-कामं यथा-कालं व्यधत्तां परमाशिषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयो राम-कृष्णयोः । यथा-कामं तद् इच्छानुसारेणेत्य् अर्थः । परमाशिषस् तद् वाञ्छितानि व्यधत्ताम् ॥४४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तासाम् आनन्दम् उक्त्वा द्वाभ्यां मात्रोर् द्वयोर् आह—तयोर् इति । पुत्रयोर् इति द्वयोर् अपि, द्वौ प्रत्य् एव स्व-पुत्र-भावेन स्नेह-भरं बोधयति । ततश् च काचित् कञ्चित् प्रति किञ्चिद् इत्य् एवं द्वे एव ते क्रमशो युगपच् च द्वयोस् तयोर् व्यधत्ताम् इति ज्ञेयम् । तथापि परम-स्निग्धत्वादिना व्रजेश्वर्या एव तत्र मुख्यत्वम् । श्री-रोहिण्याश् च साहाय्येन साहित्य-मात्रम् इति । यथा-कालम् इति विकाले सायं-प्रदोषादौ च समये विधेयानुसारेणेत्य् अर्थः । यद् वा, आदौ नीराजनम्, ततो वन्य-भूषणोत्तारणम्, ततोऽङ्गतो गो-धुलि-मार्जना34दिकम् इत्य् एवं क्रमेणेति । यथा-कामं पुत्रयोः स्वयोर् वेच्छानुसारेण । परमोत्कृष्टा आशिष उपभोगादीन् सम्पादितवत्यौ । यद् वा, परं केवलं तयोर् आशिष एव व्यधत् ताम्—न तद्-गृह-कृत्यं किम् अपि चक्रतुर् इत्य् अर्थः, यतः पुत्र-वत्सले—अनेन प्राग् अङ्कारोहणालिङ्गन-चुम्बनादिकं कुशल-प्रश्न-सर्वाङ्ग-निरीक्षणादिकं च तथा स्तन्य-स्रवार्द्र-वस्त्रत्वादिकम् अपि सूचितम् एव ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) एवं तासाम् आनन्दं द्वाभ्याम् उक्त्वा मात्रोर् द्वयोर् आह—तयोर् इति । पुत्रयोर् इति । द्वयोर् अपि द्वौ प्रत्य् एव स्व-पुत्र भादेन लालन-भरं बोधयति—यथा-कालम् इति । शरद्-आदौ सायं प्रदोषादौ च समये विधेयानुसारेणेत्य् अर्थः । यथा कामं पुत्रयोः स्वयोर् वा इच्छानुसारेण यथेत्यादिकयोर् विपर्ययेण पाठः । क्वचित् परमा उत्कृष्टा आशिषः उपभोगान् सम्पादितवत्यौ यतः पुत्र-वत्सले अनेन प्राग् अङ्कारोपणालिङ्गन-चुम्बनादिकं कुशल-प्रश्न-सर्वाङ्ग-निरीक्षणादिकञ् च सूचितम् ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : परमाशिषः उत्कृष्टोपभोगान् तत्र गोष्ठ-मध्ये निजावरोध-प्रासादे ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा-कामं पुत्रयोर् वाञ्छितं भक्ष्यादिकम् अनतिक्रम्य यथा-कालं प्रदोषादिकं भोजन-कालम् अनतिक्रम्य परमाशिषो भक्ष्य-परिधेयादि-भोगात् ॥४४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यथा-कामं पुत्र-वाञ्छाम् अनतिक्रम्य यथा-कालं प्रदोष-कालम् अनतिक्रम्य परमाशिषो भक्ष्य-परिधेयादीन् उत्तम-भोगान् ॥४५॥


॥ १०.१५.४६ ॥

गताध्वान-श्रमौ तत्र मज्जनोन्मर्दनादिभिः ।

नीवीं वसित्वा रुचिरां दिव्य-स्रग्-गन्ध-मण्डितौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अध्वनोऽयम् आध्वनः स चासौ श्रमश् चेत्य् आध्वन-श्रमः । गत आध्वन-श्रमो ययोः, तौ तथा ॥४६॥ [अत्र विश्वनाथः]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आशीर्-विधानम् एव प्रपञ्चयति—गत इति द्वाभ्याम् । तत्र गोष्ठ-मध्ये गृहे वा गत आध्वानः अध्व-सम्बन्धी वन-परिभ्रमण-भवः श्रमो ययोः । स-विसर्ग-पाठेऽलुक्-समास आर्षः, "गताध्वाहः-श्रमौ" इति पुण्यारण्य-श्रीपाद-धृतं पाठान्तरं चिन्त्यम् । आदि-शब्देन केश-प्रसाधन-गात्र-जल-मार्जनादीनि, स्नेह-भर-सम्भ्रमेण क्रमोल्लङ्घनान् मज्जनस्यादाव् उक्तिः । यद् वा, यथा-कालम् इत्य्-आदौ क्रमस्य सूचितत्वाद् अत्रानिर्दिष्टोऽप्य् असौ बोद्धव्य एव । यद् वा, उन्मर्दनं जल-मार्जनम् । आदि-शब्दान् निर्मञ्छनादयः । नीवीम् इति लक्षणया परिधान-वस्त्रम् उत्तरीयस्य ब्रह्मचर्यात् प्राग्-अनपेक्षत्वात्, अनुलेपादि-शोभा-व्यवधायकतया तस्याग्रहणाद् वा । यद् वा, एकत्वेनापि नित्य-संयुक्ततया वस्त्र-द्वयम् एव तद्-उपलक्ष्यम्, भूषणानाम् अनुक्तिर् वस्त्रादीनाम् इव म्लानत्वाभावेन तेषाम् अपरिवर्तनात् । किं वा, दिव्य-स्रग्-गन्धाभ्यां गृहे तान्य् अपि दिव्यान्य् उपलक्ष्यन्ते ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आशीर् विधानम् एव प्रपञ्चयति—गतेति युग्मकेन । गताध्वानेति न श्रमो अश्रमः स चेश्वरत्वात् श्रीमन्-नर-लीलाङ्गीकारेण तस्याभावस् त्व् अनश्रमः श्रम एवेत्य् अर्थः । सम्प्रति क्षणं विश्राम-लीलायां विगताध्व-श्रमाव् इत्य् अर्थः । आदि-शब्देन केश-प्रसाधन-जल-मार्जनादीनि स्नेहभर-संभ्रमेण क्रमोल्लङ्घनान् मज्जनस्यादाव् उक्तिः । यद् वा, जलेन धूलिम् अपसार्य पश्चात् सुगन्धिद्रव्येण तत् नीवीम् इति अजहल् लक्षणया परिधान-वस्त्रं च उत्तरीयस्य यज्ञोपवीतात् प्राग् अनपक्षत्वाद् अनुलेपनादि-शोभा-व्यवधायकतया तस्याग्रहणाच् च भूषणानाम् अनुक्तिः वस्त्रादीनाम् इव म्लानत्वाभावेन तेषामपरिवर्तनात् प्रातरेव तदाधिक्यौचित्याच्च जननीभ्या सुपहृतं परिविष्टं प्राश्य प्रकर्षेण सुखेनाशित्वा उपलालितौ ताम्बूलादि-मुख-वासार्पण-सुख-गोष्ठी-शिरोघ्राणादिभिः प्रति-लालितौ तत्र व्रजे तन्-मध्ये अवरोधान्त-महा-प्रासादे तथा च पाद्मोत्तरखण्डे वणितम्—

तस्मिश्ं च भवने श्रेष्ठे रम्ये दीपैर् विराजिते ।

श्लक्ष्णे विचित्र-पर्यङ्के नाना-पुष्प-विवासिते ॥

तस्मिन् शेते हरिः कृष्णः शेषे नारायणो यथा । इति ।

वर-शय्यायां दिव्य-पर्यङ्कोपरि संविश्य श्री-गात्रं प्रसार्य अनेन क्रीडार्थं निद्रायां क्षणं विलम्बो बोध्यते तद् एव सूचयति, सुखं यथा स्याद् इति सखि-दासादि-कृतोपस्कृत-ताम्बूल-समर्पण-चामरान्दोलन-पदाब्ज-सम्वाहन-नर्म-गोष्ठी-गीत-गानादि-सुख-प्रकारेणेत्य् अर्थः ॥४५-४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : गतः आध्वनः अध्व-सम्बन्धि श्रमो ययोः, टेर् अलोप आर्षः । स-विसर्ग-पाठे गताध्व-श्रमाव् इत्य् अर्थः । षष्ठ्य्-अलुक् छान्दसः । सम्प्रति क्षणं विश्रम-लीलाया विगत-श्रमाव् इत्य् अर्थः । एवं गो-पालन-भृङ्गाद्य्-अनुकरणोक्त-प्रकारेण ॥४६-४७॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न श्रमोऽश्रमः स चेश्वरत्वात् नर-लीलया तस्याभावस् त्व् अश्रमः गतोऽध्वनोऽनश्रमः एव ययोस् तौ । नीवीं परिध-वस्त्रम् ॥४६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गत- इति युग्मकम् । गतोऽध्वनो मार्ग-हेतुकः श्रमो ययोस् तौ श्रमः पूर्ववत् । नीवीं परिधान-वस्त्रं ॥४६॥


॥ १०.१५.४७ ॥

जनन्य्-उपहृतं प्राश्य स्वाद्व् अन्नम् उपलालितौ ।

संविश्य वर-शय्यायां सुखं सुषुपतुर् व्रजे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : संविश्य पतित्वा । यद्य् अपि सं-पूर्व-विशतेः शयने वृत्तिर् दृश्यते—स्वप्नः संवेश इत्य् अपि इत्य् अमरोक्तेः, तथाप्य् उपसर्गाणाम् अनेकार्थत्वाद् अत्र पत्तनेऽर्थे । वर-शय्यायाम् मृदु-वस्त्राच्छादित-पर्यङ्के ॥४६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जननीभ्याम् उपहृतं परिवेषितं प्राश्य प्राशन-रूपेण किञ्चित् किञ्चिद्-भुक्त्वा । यद् वा, प्रकर्षेणाशित्वा यतस् ताभ्याम् उपहृतमतः स्वादुउपलालितौ ताम्बुलादि-मुख-वासार्पण-सुख-गोष्ठी-मुख-चुम्बनादिभिः । वर-शय्यायां दिव्य-पर्यङ्कोपरि सम्बिश्य शयित्वा—अनेन क्रीडार्थं निद्रायां लक्षं विलम्बो बोध्यते । तद् एव सूचयति—सुखं यथा स्याद् इति श्री-गोपिकाभिर् उपस्कृत-ताम्बुल-समर्पण-चामरान्दोलन-पादाव्ज-सम्बाहन-नर्म-गोष्ठी-गीत-गानादि-सुख-प्रकारेणेत्य् अर्थः । तत् तद् विशेषः श्री-भागवतामृतोत्तर-खण्डे श्री-गोलोक-क्रीडा-प्रसङ्गतो ज्ञेयः ।

व्रजे गवां वास-मध्ये विविक्तत्वात् प्रियत्वाच् च, न च प्रासादादौ दास-दास्यादि-बहुल-लोक-सङ्कीर्णतया स्वाच्छन्द्याभावात् । यद् व, व्रज इति मुहुः पूर्वोक्ताभिप्रायम् एव, ततश् च महा-प्रसादान्तर् इति ज्ञेयम् । वर-शय्यायाम् इत्य् उक्तेः, अन्यथा पित्रोः सुखानुत्पत्तेश् च । सुयुपतुर् निद्रा-लीलां भेजतुः । एवम् एतत् प्रथम-दिन-क्रीडानुसारेण ताली-वन-क्रीडां विना प्रायोऽन्य-दिन-क्रीडाप्य् अनुमेया । सा चावशिष्ट-जीवनावध्यल्पतर-कालस्य श्रोतुः श्री-परीक्षितस् तत् तद् अशेष-कथनेन तात्-काल-गते सत्यन्यस्यावश्यकथास्य वृत्तस्यावकाशास्थिति-शङ्कया न किल श्री-वादरायणिना विस्तारिता । इत्थं नाम सायं व्रजागमनादि-क्रीडैव विशेषतो वर्णिता, न तु प्रातर् व्रजाद्-वन-गमन-वार्ता, तदानीं श्री-यशोदादीनां सर्वेषां व्रजस्थ-जनानां श्री-भगवद् विच्छेदेन शोक-वैकल्यादि-वृत्तस्य परम-दुःखापादकत्वाद् इति । तद् विशेषोऽपेक्ष्यश्चेत् सोऽपि तत एव विज्ञेयः ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) [: ]{।मर्क्}[जननीभ्याम् उपहृतं परिवेषितं प्रश्य प्राशन-रूपेण किञ्चित् किञ्चिद्-भुक्त्वा । यद् वा, प्रकर्षेणाशित्वा यतस् ताभ्याम् उपहृतमतः स्वादु । उपलालितौ ताम्बूलादि-मुख-वासार्पण-सुख गोप्ष्ठी मुख-चुम्बनादिभिः । करशय्यायां दिव्य-पर्यङ्कोपरि सम्विश्य शयित्वा, अनेन क्रीडार्थं निद्रायां क्षणं विलम्बो बोध्यते । तद् एव सूचयति—सुखं यथा स्याद् इति श्री-गोपिकाभिर् उपस्कृत ताम्बूल समर्पण चामरान्दोलन-पादाब्ज-सम्वाहन नर्म-गोष्ठी-गीत गातादि सुख-प्रकारेणेत्य् अर्थः । तत् तद्-विशेषः श्री-भागवतामृतोत्तर-खण्डे श्री-गोलोक-क्रीडा-प्रसङ्गतो ज्ञेयः । व्रजे गवां वास-मध्ये विविक्तत्वात् प्रियत्वाच् च, न च प्रासादादौ दासदादि-बहुल-लोक-सङ्कीर्णतया स्वाच्छन्द्याभावात् । यद् वा, व्रज इति मुहुः पूर्वोक्ताभिप्रायम् एव, ततश् च महा-प्रासादान्तर् इति ज्ञेयम्, वर-शय्यायाम् इत्य् उक्तेः, अन्यथा पित्रोः सुखानुत्पत्तेश् च सुषुपतुर् निद्रा-लीलां भेजतुः । एवम् एतत् प्रथम-दिन-क्रीडानुसारेण ताली-वन-क्रीडां विना प्रायो\ऽन्य-दिन-क्रीडाप्य् अनुमेया । सा चावशिष्ट-जीवनावध्यल्प-तरकालस्य श्रोतुः श्री-परीक्षितस् तत्-तद् अशेष-कथनेन तावत्काल-गते सत्पन्यस्यावश्यकत्थ्यस्य वृत्तस्यावकाशास्थिति-शङ्कया न किल श्री-बादरायणिना विस्तारिता । इत्थं नाम सायं व्रजागमनादि क्रीडेव विशेषतो वर्णिता, न तु प्रातर् व्रजाद्-वन-गमन-वार्ता, तदानीं श्री-यशोदादीनां सर्वेषां व्रजस्थ-जनानां श्री-भगवद् विच्छेदेन शोक-वैकल्यादि-वृत्तस्य परम-दुःखापादकत्वाद् इति । तद् विशेषो\ऽपेक्ष्यश् चेत् सो\ऽपि तत एव विज्ञेयः ॥४७॥]{।मर्क्}

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वर-शय्यायां दुग्ध-फेन-मृदुलायां रत्न-पर्यङ्कास् तृतायां सुषुपतुः विचित्र-लीला-विज्ञिष्टं स्वरूपानन्द-योग-निद्रया तु बभूवतुर् इत्य् अर्थः ॥४७॥


॥ १०.१५.४८ ॥

एवं स भगवान् कृष्णो वृन्दावन-चरः क्वचित् ।

ययौ रामम् ऋते राजन् कालिन्दीं सखिभिर् वृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्वचित् कदाचित् । रामम् ऋते बलभद्रं विना । एव कुर्वन्न् इति शेषः ॥४७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं निगूढैश्वर्यां लौकिकीं लीलाम् उक्त्वा ताली-वन-क्रीडा-प्रसङ्गेन प्रकटैश्वर्यान्तां वक्ष्यन् कालिय-दमनं वक्तुम् आरभते—एवम् इत्य्-आदिना । एवं पूर्वोक्त-प्रकारेण गोपालन-भृङ्गादि-विविधानुकरणादि-विचित्र-पौगण्ड-लीलयेत्य् अर्थः । व्रज-जनैक-जीवन-भूतो भगवान् निजैश्वर्यं साक्षात् प्रकटयन्न् इत्य् अर्थः । अतः कृष्णो जगच्-चित्ताकर्षकः । यद् वा, भगवान् सर्वज्ञो यतः कृष्णः सर्व-लोक-हितार्थं स्वयम् अवतीर्णः परमेश्वरः कालिय-दुष्टत्वादिकं ज्ञात्वा तस्माद् वृन्दावन-जीव-रक्षाद्य्-अर्थं तन्-निग्रहानुग्रहार्थं च ययाव् इति भावः । वृन्दावने चरन् सन् क्वचित् कदाचित् षष्ठ-वर्ष-वयोऽन्ते ग्रीष्म-काल इत्य् अर्थः । रामं विनेत्य् अन्यथा कालिय-ह्रद-प्रवेशादिनाशेष-व्रज-जनानाम् अनर्थापत्तेः । एतच् चाग्रे व्यक्तं भावि ।

एवं व्रज-जन-रमणाभिप्रायेण रामम् इत्य् उक्तम् । यद् वा, परम-स्निग्धेन तेन स्वाभिप्रेत-कालिय-ह्रदान्तर्-निपातस्य निवारणा-शङ्कया धैर्यार्थं सम्बोधयति । यद् वा, राजमानः सन् किं वा, तद्-दिने कालिय-ह्रद-जल-विहाराद्य्-अर्थम् उपयुक्ताल्प-भूषण-स्वीकारेण सर्वाङ्ग-शोभाभिव्यक्तेः । कालिय-दमनार्थं तेजो-विशेष-प्रकटनाद् वा । वृतो वेष्टितः श्री-मुख-सन्दर्शनाद्य्-अर्थं सर्वेषाम् एव प्रेम-सन्दर्शनाद्य्-अर्थं सर्वेषाम् एव प्रेम-स्पर्धया परितोऽन्तिकागमनाद् विशेषतः स्नेहेन व्रजेश्वर्या अनुशासनाच् च । कलिं कलि-काल-दोषम् अन्योऽन्य-कलहं च द्यत्य् अवखण्डयतीति कलिन्दस् तस्य पुत्रीम् इति तस्या अपि तादृशत्वम् अभिप्रेतम् । अतः कालिय-निःसारणार्थं तस्यां यानं युक्तम् एवेति भावः ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्राध्याय-समाप्त्य-करणं क्रम-प्राताम् अपि पूर्वत्र दुःखमयतया त्यक्तां कालिय-दमन-लीलामनुस्मृत्य वैचित्यात् अनुस्मृतायाञ् च । तस्याम् आवेशाद् एव तां प्रथम-भागतो वक्तुम् आरब्धाम् अपि तन् मात्रम् उक्त्वाध्यायः समापयिष्यते । पुनश् च विहरत्य् अपि तत्र स्वयं भगवति यमुनायाः स दोषो नापगत इति श्रोतृणाम् अपरितोषमाशय विलोक्य दूषितां कृष्णाम् इत्य् एकेनैव पद्येन सा लीला सूचयिष्यते । राज-प्रश्न-समुद्दीप्यमानावेशाद् एव तु विस्तारयिष्यते अथ तथैवोपक्रमे ते एवम् इत्य्-आदिना । एवं पूर्वोक्त-प्रकारेण गोपालन-भृङ्गाद्य् अनुकरणादिनेत्य् अर्थः । स व्रज-जनक-जीवन-भूतो वृन्दावन-चरो भगवान् कृष्ण इति भगवत्तायाम् अपि सार्द्र-चित्तस् तद्-विशेष स्मरन्ति, क्वचित् कदाचित् गोचारणारम्भ-वर्षस्य निदाघे रामं विनेति अन्यथा तेन तादृश-साहस-निषेधमय-मातृ-शिक्षया कालिय-ह्रद-प्रवेशो निवार्येतेति सम्भाव्य तस्मिन् दिन एव तत्र गत इति भावः । वृतो वेष्टितः श्री-मुख-सन्दर्शनाद्य् अर्थ । सर्वेषाम् एव प्रेमस्पर्द्धया परितो \ऽन्तिकागमनात् विशेषतः स्नेहेन व्रजेश्वर्या अनुशासनाच् च ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं कार्तिक-गोपाष्टमी-दिन-लीलां समाप्य तद् वर्षीय-निदाघ-गतस्य कस्यचिद् दिनस्य लीलाम् आह—एवम् इति । रामम् ऋते इति । जन्मर्क्ष-शान्तिक-स्नानार्थं मातृभ्यां तस्य तद् दिने गृह एवोपवेशितत्वात् ॥४८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं कार्त्तिक-गोपाष्टमी-दिन-लीलां समाप्य तद्-वर्षीय-ग्रीष्मर्तुर् गतस्य कस्यचिद् वासरस्य लीलामाहैवम् इत्य्-आदिभिः रामम् ऋते इति तस्मिन् वासरे तज्-जन्मर्क्ष-योगात् तन्-मात्रा ग्र्ह एव स्थापनात् ॥४८॥


॥ १०.१५.४९ ॥

अथ गावश् च गोपाश् च निदाघातप-पीडिताः ।

दुष्टं जलं पपुस् तस्यास् तृष्णार्ता विष-दूषितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निदाघो ग्रीष्मर्तुस् तत्-संबध्यातपो रविकरभवोष्णत्व-विशेषस् तेन पीडिता व्याकुला इत्य् अर्थः अथ कार्त्स्न्येन । अथेति मङ्गलानन्तरारम्भ-प्रश्न-कार्त्स्न्याधिकार-प्रतिज्ञा-समुच्चयेषु । दुष्टम् विकृति-जनकम् । तत्र हेतुः । विष-दूषितम् इति । तस्याः कालिन्द्याः ॥४८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ यान् आनन्तरम् एवेति विचारादिकं निरस्तम् । यद् वा, भिन्नोपक्रमेऽथ-शब्दः । महार्ति-वार्तोपसत्तेः । च-काराभ्याम् उभयेषाम् अपि प्राधान्यं बोध्यते । सर्वेषाम् एकदैव सह-पानात् । अन्यथा प्राक्-कृत-पानानां केषाञ्चिद् अनर्थापत्त्या पश्चाद् अन्येषां तत्र प्रवृत्त्य्-असम्भवात् । ननु, कृष्णं विना ते कुतो जलं पपुः ? तत्राह—निदाघेति । अत एव तृषार्ता इति । दुष्टत्वे कारणम् आह—विष-दूषितम् इति ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गावश् च गोपाश् च अथानन्तरम् एव पपुर् इति । गावस् तावद् अन्यत्र चालिता अपि निदाघातप-पीडितार सत्यस् तज् जलम् ऊर्ध्वात् यमुनातीरादृष्ट्वा पशुतया तद्-दोषाज्ञानाद् एव द्रुत-गत्या प्रविश्य पपुः । गोपाश् च तत् पीडिता एव किं तु प्रसिद्ध-तद्-दोष जानन् तासां मृतिं दृष्ट्वा शरीर-जिहासया पपुर् इति ज्ञेयम् । अत एव गोपाश् चेति तद्-अनन्तरम् उक्तं ताश् च ते चाग्रगामिनः कतिचिद् एव ज्ञेयार श्री-कृष्णस्य-काकित्वेन पश्चात् त्यक्तुं तैर् अशक्यत्वात् सङ्ख्यातीत-गो-चारणाय समन्तात् भागश एवं गन्तुं तेषां योग्यत्वात् पश्चाद् गामिना श्री-कृष्णेन दृश्यमानानां गवाम् अपि तत्-पानासम्भवात् दुष्टत्वे कारणमाह—विष-दूषिताम् इति ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दुष्टत्व-कारणम् आह—विष-दूषितम् इति ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गाव इति पश्चात् शनैर् आगच्छन्तं कृष्णम् अनपेक्ष्य तृषार्तत्वात् द्रुत-गामिण्यः तद् अनुद्रुता केचन गोपाश् च ॥४९.५०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गाव इति पश्चात् शनैर् आगच्छन्तं कृष्णम् अनपेक्ष्य तृष्णार्तत्वात् द्रुत-गामिन्यः तद्-अनुद्रुताः केचन गोपाश् च ॥४९॥


॥ १०.१५.५० ॥

विषाम्भस् तद् उपस्पृश्य दैवोपहत-चेतसः ।

निपेतुर् व्यसवः सर्वे सलिलान्ते कुरूद्वह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् दुष्टम् । विशेण युतम्भो विषाम्भो मध्य-पद-लोपी समाप्तः । दैवोपहत-चेतसः दिष्टन् आशित-ज्ञानाः । सलिलान्ते जल-निकटे । कृष्ण-कृपया कुरु-वंशेऽपि दुर्योधन-दत्त-विशेण भीमो जलान्ते पतित्वा यथोत्थितस् तथेमेऽप्य् उत्थास्यन्तीति । बोधयितुं सम्बोधयति महा-मुनिः—कुरूद्वहेति ॥५०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतच् च श्री-कृष्णं विना जल-पानं तेषां निदाघातप-पीडितत्वादिकं च सर्वं कालिय-निःसारणार्थं श्री-भगवद्-इच्छयैवेत्य् अग्रे व्यक्तं भावि । अत एवाह—दैवेन देवस्य भगवतो मनो-भावेन कालियस्य दैवेन वा, उपहतं चेतो ज्ञानं येषां ते इति । अत एवोपस्पृश्य किञ्चिद् आचम्य किं वा, समीपे स्पृष्ट्वैव । एवं तद्-विशेष-विवक्षयोक्त-पोष-न्यायेन विषाम्भ इत्य् आदेः पुनर्-उक्तिः । किं वा, निपातादौ तद्-एक-हेतुता-विवक्षया सर्वे गो-गोपाश् च, सलिलस्य तस्यान्ते समीप एव । यद् वा, स्वरूपेऽन्त-शब्दः सलिल एवेत्य् अर्थः । दुर्विष-जल-पानेन सद्यस् तत्रैव निपतनाद् अन्यत्र गन्तुम् अशक्तेर् व्यसव एव । एतद् अन्यच् च वक्ष्यमाणम् अशेषं श्री-भगवतोऽद्भुत-चेष्टितत्वम् इत्य् ऊह्यम् । कृष्णेनाद्भुत-कर्मणे [भा।पु। १०.१६.३५] इत्य् अन्ते वक्ष्यमाणत्वात् । तच् च तत्रैव विस्तार्यम् । कुरूद्वह हे कुरु-कुल-नन्दनेति विषीदन्तं राजानं सान्त्वयति ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतच् च सर्व श्री-भगवतो भावि-लीला-विशेषाधिष्ठातृ-शक्ति-वैभवम् एवेत्य् आह—देवो भगवान् तस्येदं देवं लीला-शक्ति-वैभवं । तेन उपहतं ज्ञानं येषां त इति तद् उक्तं ईशच् एष्टित इति वक्ष्यते च । कृष्णेनाद्भुत-कर्मणे [भा।पु। १०.१६.३५]इत्य् उपस्पृश्य किञ्चित् आचम्य विषाम्भ इति पुनर् उक्तिस् तद् विशेष-विवक्षया व्यसव इवात्र च तादृश-दैवम् एव कारणम् ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वानुपपत्ति-समाधानार्थम् आह—दैवेति । देवो भगवान् तस्येदं भावि-लीला-शक्तिः वैभवं दैवं व्यसन इव अत्र च तादृश-दैवम् एव कारणं ज्ञेयम् ॥५०.५१॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्**।**

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवो भगवांस् तस्येदं दैवं लीला-शक्ति-वैभवं तेन्ओपहत-बुद्धयः व्यसव इति लीला-सौष्ठवार्थं योग-माययैव नित्यानाम् अपि तेषाम् असद् आच्छाद्य तथा दर्शनात् ॥४९.५०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : देवस्य कृष्णस्य इदं दैवं तल् लीला-शक्ति-वैभवम् । वासव इति तद् वैभवेनैव तल् लीला-सिद्धये तद् असूनां मूर्छित-तद्-विधानात् बलभद्र-धीमोहवत् ॥५०॥


॥ १०.१५.५१ ॥

वीक्ष्य तान् वै तथा-भूतान् कृष्णो योगेश्वरेश्वरः ।

ईक्षयामृत-वर्षिण्या स्व-नाथान् समजीवयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् गो-गोपान् । तथा-भूतान् गत-प्राणान् । स्व आत्मैव नायो येषां तान् । मृत-सञ्जीवनं तु योगिनोऽपि, स तु योगेश्वर इति नात्राद्भुतम् इति भावः । ईक्षया दृष्ट्या ॥५०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तान् सर्वान् तथा-भूतान् तादृग्-अवस्था-गतान् । स्पष्टान् उक्तिर् अमङ्गलस्य पुनर् अतिव्यञ्जनायोग्यत्वात् स्नेह-भरोदयाद् वा । वै एव । वीक्ष्यैवेत्थम् अविलम्बं बोधयति । यतः स्व-नाथान् अनन्य-गतीन् अत एव्आमृत-वर्षिण्या दृष्ट्या परम-स्नेहावलोकनेनेत्य् अर्थः । अन्यथेच्छ-मात्रेणापि तत्-सिद्धेः । सम्यक् ग्लानि-शोकादि-निरासेन युगपद् एवाजीवयत् स्व-स्थान् अकरोत् । यतः कृष्णो व्रज-जनैक-बन्धुः पर-दुःख-कातरो वा । एतच् चाद्भुतं न स्याद् इत्य् आह—योगेश्वराणाम् अपीश्वर इति तदीय-शक्त्य्-अंश-गन्धेनैव योगेश्वराणाम् अपि तत्-तच्-छक्तेर् इत्य् अर्थः । यद् वा, योगेश्वरान् अपि परिपालयति किम् उत तान् व्रज-जनान् इति भावः ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै एव ईक्षणेत्य् अविलाबं बोधयति, यतः स्व-नाथान् अनन्य-गतीन् अत एव्आमृत-वर्षिण्या प्राकृतानां प्राकृतम् अमृतम् इव तेषां तदीयानाम् एकं जीवन-हेतुं कारुण्यं वर्षितुं शीलं यस्याः । यद् वा, अमृतं तादृशं कारुण्याजलं तद् वर्षिण्या यथोक्तं द्वितीये यद् वै व्रजे व्रज-पशून् विष-तोय-पीतान् पालान-जीवयद् अनुग्रह-दृष्टि-वृष्ट्या इति सम्यक ग्लानि-शोकादि-निरासेन युगपद् एव्आजीवयत् स्व-स्थान् अकरोत् तादृशी च शक्तिर् न कृत्रिमा किन्तु स्वाभाविक्येत्य् आह—योगेश्वरेश्वर इति । यद् उपासना-विशेषेणैव योगेश्वराणाम् अपि तत्-तच्-छक्तिर् इत्य् अर्थः ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथ-चक्रवर्ती सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सम-जिवयत् सुथ-प्राणान् व्यधात् ॥५१॥


॥ १०.१५.५२ ॥

ते सम्प्रतीत-स्मृतयः समुत्थाय जलान्तिकात् ।

आसन् सु-विस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सम्प्रति सद्य एव इता प्राप्ता स्मृतिर् यस् ते सम्प्रतीत-स्मृतयः

यद् वा सम्यक् प्रतीता प्रतिप्राप्ता स्मृतिर् यस् ते तथेति ॥५२.५३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आद्य-समासे क्लिष्ट-कलानां मन्वानः समासान्तरम् आह—यद् वेति । स्मृतिर् अत्र अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ इति गर्गाचार्य-वचन-स्मरणम् । केनापीदम् उक्तं वचनं तेन सर्वर्ज्ञातं श्री-कृष्णेनैव पुनर् जीविता वयम् इति ॥५२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुविस्मिताः सुषुप्तेर् इव सर्वेषाम् एकदैव सद्यः समुत्थानात्, परस्परं वीक्षमाणा इत्य् अत्यन्त-विस्मय-स्वभावात्, सर्वेषाम् ऐकम् अत्य् आर्थं वा ॥५२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुविस्मिताः सुषुप्तेर् इव सर्वेषाम् एकदैव सद्यः समुत्थानात्, परस्परं वीक्षमाणा इत्य् अत्यन्त-विस्मय-स्वभावात् ॥५२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते जलान्तिकात् समुत्थाय सुविस्मिता इति मृता एव वयं केन जीविताः केनाप्य् औषधेन विषहरम् अन्त्रेण वा परस्परम् इति सखे ! किन्त्व् अमेतद् रहस्यं जानासीति प्रत्येकं प्रश्नात् एवं महा-सन्देहे प्रवर्तमाने भो वयस्या आं मयैवैतत् कारणम् अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ इति गर्गाचार्य-वचन-स्मरणात् सम्यग् अवगतम् इति केनाप्य् उक्ते सति सर्वे एव सम्यक् प्रकारेण प्रतीता प्रतीत-विषयीकृता स्मृतिस् तदीया यैस् तथा-भूता आसन्न् इत्य् अन्वः ॥५२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ते सर्वे सुस्थाः केनास्माकं स्वास्थ्यं कृतम् इति परस्परं वीक्षमाणाः सम्प्रतीताः सम्यक् प्रतीति-विषयी-कृताघाहिवर्य-स्मृतिर् यैस् तादृशाः सन्तः सुविस्मिता आसन् ॥५२॥


॥ १०.१५.५३ ॥

अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम् ।

पीत्वा विषं परेतस्य पुनर् उत्थानम् आत्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विषं स-विषं जलं । विषं विद्यतेऽत्रेति मत्व्-अर्थीयोच्-प्रत्ययः । परेतस्य मृतस्यात्मनः यत्-पुनर् उत्थानं तद्-गोविन्दानुग्रहेक्षितम् । अन्वमंसत ज्ञातवन्तः । हे राजन्न् इति भवाद् दृशाम् एतद् उक्तम् इति भावः । यथा त्वम् आत्मनोश्वत्थामास्त्र-हतस्य पुनर् उज्जीवनं कृष्णानुग्रहं मनुषे तथा तेऽपीति भावः ॥५३॥

अत्र धेनुक-वध-लीलायां श्रुतिम् आह—समिद्र गर्दभं समृण इति । अर्थः—हे इन्द्रं गर्दभं तद् रूपं धेनुकं समृण मारयेत्य् अर्थः

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोविन्दस्य गोकुलेन्द्रस्य्आनुग्रहेणेक्षितं स्वीकृतम् । किं वा, ईक्षेक्षणं तत्-कृतम् इत्य् अर्थः । यद् वा, तद्-एक-कारणत्व-विवक्षयाभेदोपचारः—ईक्षितम् ईक्षणम् एव्ओत्थानम् अमन्यत । हे राजन्न् इति भवादृशानां भागवतोत्तमानां श्री-भगवद्-अनुग्रहं विन्आत्म-मङ्गले कारणान्तरा-मननाद् यथा भवत्-प्राणने श्री-युधिष्ठिरादीनाम् इति भावः ॥५३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पुनर् उत्थानं गोविन्दानुग्रहेक्षितं तद्-धेनुकम् अन्वमंसत ॥५३॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनु अनन्तरम् ऐकमत्येन व्रजेष्ट-देव-श्री-नारायणेनाविष्टय गोविन्दस्य अनुग्रहेक्षितम् एव कारणम् अमंसत यस्यात् पीत्वा विषम् इत्य्-आदि ॥५३॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

दशमेऽस्मिन् पञ्च-दशः सङ्गतः सङ्गत सताम् ॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अनु अनन्तरम् गोविन्दानुग्रहेक्षितम् तद् अमंसत किं तद् इत्य् आहुः पीत्वेति परेतस्य मूर्च्छित-प्राणस्य ॥५३॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे धेनुक-वधो नाम पञ्चदशोऽध्यायः ।

॥१०.१५॥


(१०.१६)


  1. स्वमत-श्री-वृन्डवन-विहारार्थं ↩︎

  2. पालनेच्छा ↩︎

  3. पशु-पालानां ↩︎

  4. नोत् फ़ोउन्द्। ↩︎

  5. क्रीडाम् अन्यत्रातिदेशा-पूर्व-सदृश-कथनार्थम् आह ↩︎

  6. विहारे ↩︎

  7. त्वग्- इति पाठो न स्वीकार्यः । ↩︎

  8. कार्य ↩︎

  9. स्व-स्मितम् अपि ↩︎

  10. निर्दिन्न् (?) अग्रजस्य ↩︎

  11. एतावान् एव लोके ऽस्मिन् पुंसः स्वार्थः परः स्मृतः ।

    एकान्त-भक्तिर् गोविन्दे यत् सर्वत्र तद्-ईक्षणम् ॥ ↩︎

  12. स्रग्वी इति तोषणी-धृत-पाठः। ↩︎

  13. थिस् वेर्से इस् नोत् फ़ोउन्द् इन् अल्ल् एदितिओन्स्। ↩︎

  14. अनुजल्पति जल्पन्तं कल-वाक्यैः क्वचित् । क्वचित् सवल्गु कून्तम् अनुकूजति कोकिलम् ॥

    [क्वचिद् अयम् अधिकः दृश्यते] ↩︎

  15. गोपैः समान-गुण-शील-वयो-विलास-

    वेशैश् च मूर्च्छित-कल-स्वन-वेणु-वीणैः ।

    मन्द्रोच्चतार-पट-गान-परैर् विलोल-

    दोर्-वल्लरी-ललित-लास्य-विधान-दक्षैः ॥ ↩︎

  16. परिवर्ततया ↩︎

  17. गोपात्मज-बिडम्बस्य ↩︎

  18. कृष्ण-समानत्वेन ↩︎

  19. महासत्त्व ↩︎

  20. ताव-वन-गमनादिकं ↩︎

  21. तत्-तद् अन्योऽन्यतया व्यक्तम् ↩︎

  22. रासभान्यतः ↩︎

  23. अत्म-साम्य ↩︎

  24. निज-दुर्लभ ↩︎

  25. पश्चात् ↩︎

  26. गर्दभ-स्वरूपत्वात् ↩︎

  27. महांस् तालम् ↩︎

  28. पतमानो ↩︎

  29. गोपालानाम् एव ↩︎

  30. तद् अन्येषां ↩︎

  31. विविच्य ↩︎

  32. सर्वामास्म् एवात्र ↩︎

  33. गीति-व्यजनादि ↩︎

  34. धूलि-मार्जना ↩︎