ब्रह्मणा कृता भगवतः स्तुतिर् वत्स-वत्सपालानयनं च ।
॥ १०.१४.१ ॥
ब्रह्मोवाच—
नौमीड्य तेऽभ्र-वपुषे तडिद्-अम्बराय
गुञ्जावतंस-परिपिच्छ-लसन्-मुखाय ।
वन्य-स्रजे कवल-वेत्र-विषाण-वेणु-
लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय ॥१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
चतुर्दशेऽद्भुतं दृष्ट्वा पूर्वागन्तुक-निश्चयम् ।
अनीशः कर्तुम् अस्तौषीत् कृष्णं ब्रह्मा विमोहितः ॥
स्व-कृतापराधेन भिया स-कम्पतया भगवन्-महिमानम् अनवगाहमानस् तावद् दृष्ट-स्वरूपम् एव कीर्तयन्न् आह—नौमीति । हे ईड्य ! स्तुत्य, ते तुभ्यं नौमि स्तौमि । द्वितीयार्थे चतुर्थ्यः । अथ वा, नौमीत्य् उक्त्वा प्रस्तुतस्य भगवतः कर्मत्वे ज्ञाते, प्रयोजनापेक्षायाम् एवं-भूतो भगवान् एव प्रयोजनम् इति तादर्थ्ये चतुर्थी । यद् वा, तुभ्यां त्वाम् एव प्रसादयितुं त्वाम् एव स्तौमीत्य् अर्थः । अभ्रवद् वपुर् यस्य तस्मै । तडिद्-वद्-अम्बरं यस्य तस्मै । गुञ्जाभिर् अवतंसौ कर्ण-भूषणे परिपिच्छं च बर्हा-पीडं तैर् लसन् मुखं यस्य तस्मै । वन्याः स्रजो यस्य तस्मै । कवलादिभिर् लक्ष्मभिः श्रीः शोभा यस्य तस्मै । मृदू पादौ यस्य तस्मै पशुपस्याङ्गजाय ॥१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वस्मिन्न् अध्याये अगन्तुकं सम्प्राप्तं यद् भगवतो वत्स-पालीभूय पुनः सत्य-ज्ञानादि-रूपेण प्रतिभानं तस्य निश्चयं किम् इदं कथम् एतद् इति व्यवसितुम् अनीशोऽकल्पः । विमोहितो विशेषेण मोहितः ॥*॥ अनवगाहमानो याथातथ्येनाजानत् । छान्दसाश्रयणतो यत्नान्तरं वरम् इत्य् अभिप्रेत्य् आह—अथ वेति । प्रस्तुतस्य प्रसङ्गागतस्य । परानन्द-रसं त्वां विना पुरुषार्थान्तरयित्वासम्भवात्, त्वम् एव प्रयोजनम् इति धनाप्तये धनस्येव न हि तत्-प्राप्तये तत्-स्तुतिर् उचितेत्य् अस्वारस्याद् आह—यद् वेति । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी । अभ्रवन् मेघवत् श्याम-स्निग्ध-सुन्दरं सर्व-जीव-जीवनानन्दं साभिवर्षं वपुर् यस्य तस्मै । **तडिद्-**वत् स-चमत्कारे पीते चञ्चले अम्बरे वस्त्रे यस्य तस्मै । अवतंसः कर्ण-पूरे न स्त्रियां शेखरेऽपि च इति मेदिनी । वन्याः पत्र-पुष्प-मय्यः । स्रजो माला वेत्रं वेतस-दण्डम् । विषाणं शृङ्गम् । मृदू लक्ष्म्या अपि कर-स्पर्शासहौ, पाप-मर्दनशीलौ वा । पशुपो नन्दस् तस्याङ्गाज् जायते इति तथा तस्मै । यद् वा, पशुपो नन्दस् तस्याङ्गं मित्रं वसुदेवस् तज्-जाय । यद् वा, पशुपां गोपानां मध्ये गजाय मुख्याय, माने मतङ्गजे मुख्ये वस्तु-भेदे गजोऽचले इति धरणिः । यद् वा, पशुर् वै स देवानाम् इति श्रुतेः । पशवः कर्म-जडास् तान् पान्तीति पशुपा देवास् तेऽङ्गजा यस्य । यद् वा, पशुपो रुद्रः सोऽङ्गं शरीरं यस्य स पशुपाङ्गो ब्रह्मा तं ज्नयतीति तथा । मम जनकायेत्य् अर्थः । अत्र वैकुण्ठीयानर्घ्य-रत्नालङ्कारेभ्योऽपि वृन्दावनीय-गुञ्जादीनाम् उत्कर्षः । वन्या वृन्दावनीया एव पत्र-पुष्पमय्यः स्रजो यस्येति नैः-श्रेयस-वनस्थ-पारिजातादिभ्योऽप्य् उत्कर्षः सूचितः । कवलेत्य्-आदिना—तदीय-सर्वाचरणेभ्यो गोपाल-चरणस्यैव श्रैष्ठ्यम् । पशुपाङ्ग-जायेति वसुदेवादिभ्यः श्री-नन्द-राजस्य सौभाग्याधिक्यं व्यञ्जितम् इति चक्रवर्ती ॥१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नौमीड्येत्य्-आदि । त्वाम् इत्य् अध्याहार्यम् । भयेनातिक्षोभतया त्वाम् इति वक्तुं नाशकत् । ननु, स्तव्य एव स्तूयते, ब्रह्मणस् ते गोपालकोऽहं किं स्तव्यः ? तत्राह—हे ईड्य ! भवान् एव स्तव्य इत्य् अर्थः । अन्यत्र स्तवनम् अर्थ-वादः, त्वयि तु सर्वं यथार्थम् एवेति ।
किम्-अर्थं नौषि ? तत्राह—ते तुभ्यं त्वत्-प्राप्तये । यद्-अर्थम् इत्य् अवगतं, अहं निराकारं ब्रह्म । तर्हि तथत्वेनैव स्तूयताम् । नेत्य् आह—अभ्र-वपुषे मेघ-श्याम-विग्रहाय । तडिद्-अम्बराय पीत-वाससे । तर्हि नारायणः स्तूयताम् । सोऽपि तथा न, इत्य् आह—गुञ्जावतंस-परिपिच्छ-लसन्-मुखायेत्य्-आदि-विशेषणान्य् आसमाप्तेः । स त्व् एवं न भवति । यद् वा, हे ईड्य ! वपुषे एतद्-रूपाय वपुषे तुभ्यं वपु-रूप त्वद्-अर्थं त्वां नौमि । अस्मिन्न् एव वपुषि रतिर् भवत्व् इति फलम् उद्दिश्य नौमि ।
ननु, नारायणाज् जातोऽसि तं त्यक्त्वा कथं परं नौषि ? तत्राह—हे अभ्र ! अं नारायणं बिभर्तीति तथा-भूत-नारायणस्यापि भर्तः । नारायणोऽङ्गं [भा।पु। १०.१४.१४] इत्य् आदेर् अत्रैव वक्ष्यमाणत्वात् । स व-कार-पाठे, आपो नारा इति प्रोक्ताः [मनु १.१०] इत्य्-आदि अपाम् अयनत्वेनापो बिभर्तीति अब्-भ्र-शब्देन नारायण एवोच्यते । हे नारायण ! नारायण-नामा खलु त्वद्-भिन्ना न भवति, त्वयि स्तुते सोऽपि स्तुतः । यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१४] इत्य्-आदि । अब्-भ्र-शब्दह् सम्बोधन-तात्पर्यः । तदा सर्वाणि वपुर्-विशेषणानि ।
पशुपाङ्गजाय पशूनां पालं रक्षणं तद्-अर्थम् अङ्गजा चेष्टा यस्य वपुर् इति वपति परमानन्दम् इति जनि-धनि-वपि-प्रभृतिभ्यः ऊसौणादिकः । तडिद्-अम्बराय तडिद् इव गौरं चञ्चलं च पीताम्बरं यस्य, यदा पवन-स्पन्दो भवति, तदा दृश्यते, अन्यथा न दृश्यते इति तडिता सहोपमानम् । यद् वा, वपुषे वपुर्-निमित्तम् इति वपुषः किम् एतावद् गौरम् इत्य् आह—तड् इदम्, इदं वपुर् अनुस्वाराभावः सन्धि-विवक्षितत्वात् । किं वा, म-कारश् छान्दसः । तट्-शब्देन उच्छ्रितं सर्वोपरि वर्तमानम् इति यावत् । तड् उच्छ्राये इत्य् अतः क्विपि सिद्धेः परात्परम् इत्य् अर्थः । वपुषे कथं-भूताय ? वराय व्रियते वरम् इत्य् अभिलषणीयम् ।
हे गुञ्जावतंस ! गुञ्जा अव्यक्त-शब्दस् तस्य अवतंसः । परिपिच्छल ! परि परितः पी प्यानं वृद्धिर् यस्य तथा-भूतं छलं माया यस्य । पैङ् वृद्धौ ध्यापोर् इति सम्प्रषारणं, क्लीबत्वाद् ह्रस्वः, ग्रामणि-कुलम् इतिवत् पश्चात् समासः । सन्-मुखाय सत् प्रसन्नं मुखं यत्र वपुर्-विशेषणम् । सतां भक्तानां मुखं यत्र सन्-मुखम् इति वा ।
अथवा हे ईड्य ! ते तव मृदु-पदे नौमि । किम्-अर्थं ? वपुषे वपुर्-अर्थम् । एतद् एव वपुः सर्वदा स्फुरत्व् इति कृते । तदा सर्वं वपुर्-विशेषणम् ॥१॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवतैव नितराम् अनुकम्पितः श्री-चतुर्मुखः परम-मनोहर-रूप-गुण-लीला-वैभवं तम् अवलोक्य परम-प्रेम-रस-निमग्नः, साक्षाद्-दृश्यमानं तद्-रूपम् एवादौ वर्णयन् स्तौति—नौमीति । हे ईड्य ! इति त्वम् एव स्तुति-योग्यः, न ब्रह्मा, न च श्री-वैकुण्ठ-नाथो नापि त्वद्-अवतारादयोऽन्ये केचिद् इत्य् अर्थः । पर-ब्रह्मणि त्वय्य् एवावतारिणोऽवतारादेश् चाद्य दृष्टवान् । अतः स्तौमि त्वाम् । किम्-अर्थं ? ते तुभ्यं त्वत्-प्राप्त्य्-अर्थम् एवेत्य् अर्थः ।
ननु, ब्रह्म-रूपत्वेणान्तर्यामि-रूपत्वेन च मम स्वतः प्राप्तिर् अस्त्य् एव ? तत्राह—अपो बिभर्तीत्य् अभ्रं नवीन-श्याम-मेघः, तद्वत् स्निग्ध-कृष्ण-कान्तिर् वपुर् यस्य, तडिद्वत् पीतम् अम्बरं यस्य ।
ननु, ईदृशाः श्री-वैकुण्ठेश्वरः श्री-रघुनाथश् चेत्य् आशङ्क्य तद्-वैलक्षण्यार्थम् आह—गुञ्जेत्य्-आदि । परितः पिच्छानि यस्मिन् तत् परिपिच्छं बर्हापीडम् । वन्या वनोद्भवा नाना-वर्ण-पत्र-पुष्पादि-मय्यः स्रजो यस्य तस्मै । तत्र च विशेषतो बाल्य-लीलयाकृष्ट-चित्तस् ताम् एवोद्दिशति—कवलेति । तत्र कवलं दध्य्-ओदन-ग्रासो वाम-हस्ते, वाम-कक्षे वेत्र-विषाणे जठर-पट-सन्धो वेणुर् इति पूर्वोक्तानुसारेण बोद्धव्यम् । तान्य् एव लक्ष्माणि असाधारण-लक्षणानि । अत एव तैः श्रीः शोभा यस्य तस्मै । मृदु-पद इति बाल्यम् एवाभिप्रेतं, साक्षात् तद्-अनुक्तिः पितृत्व-गुरुत्व-प्रभुत्वादिना परम-गौरवात् ।
अनुक्तम् अन्यच् छ्री-वृन्दावन-विहारित्वं वन-धातु-विचित्रिताङ्गत्वादिकं च संगृह्णन्न् आह—पशुपस्य श्री-नन्दस्य अङ्गजाय पुत्राय, तत्-कुमारत्वेन स्वत एव नित्यं तत्-तत्-समवेतत्वाद् इत्य् एतच् छ्री-बाल-गोपाल-रूपं त्वाम् अत्र प्राप्तुं त्वाम् एव नौमीति परम-लालसया प्राग् एव प्रयोजनम् उद्दिष्टम् । स्तवनं चेदम् एवाभिप्रेतम् । एवम् अत्रापि विशेषणानाम् आसाम् उत्तरोत्तरम् उत्कर्षेण प्रतिपदादिकम् आश्चर्य्ं ऊह्यम् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-वृन्दावन-चन्द्राय नमः । एवं यस्य रूपस्य ज्ञात-परमैश्वर्य-माधुर्यस् तद्-रूपम् एव निज-परम-पुरुषार्थत्वेन स्तोतुम् उपक्रमते—नौमीति । हे ईड्य ! इति त्वम् एव स्तुति-योग्य इत्य् अर्थः । पर-ब्रह्मणस् तवैश्वर्य-माधुर्ययोर् एवाद्य-सर्व-प्रापञ्चिक-निर्गम-प्रवेश-दर्शनात्, अतः स्तौमि त्वाम् । किम्-अर्थं ? ते तुभ्यं त्वां प्राप्तुं, क्रियार्थोपपदस्य च कर्मणि स्थानिनः [पा। २.३.१४] इत्य् एधोभ्यो व्रजतीतिवच् चतुर्थी।
ननु, ब्रह्म-रूपेण रूपान्तरेण वा मत्-प्राप्तिः स्यात् ? तत्राह—अपो बिभर्तीत्य् अभ्रं नवीन-श्याम-मेघः, तद्वत् स्निग्धं कृष्ण-कान्ति-वपुर् यस्य, तडिद्वत् पीतम् अम्बरं यस्य तस्मै।
ननु, ईदृशाः श्री-वैकुण्ठेश्वरादयोऽपि सम्भवन्तीत्य् आशङ्क्याह—गुञ्जेत्य्-आदि । परितः पिच्छानि यस्य तत्-परिपिच्छं बर्हापीडं वन्या वनोद्भवा नाना-वर्ण-पत्र-पुष्पादि-मय्यः स्रजो यस्य तस्मै । तत्र च विशेषतो बाल्य-लीलयाकृष्ट-चित्तस् ताम् एवोद्दिशति—कवलेति । अत्र कवलं दध्य्-ओदन-ग्रासो वाम-हस्ते, वाम-कक्षे वेत्र-विषाणे जठर-पट-सन्धौ वेणुर् इति पूर्वोक्तानुसारेण बोद्धव्यम् । तान्य् एव लक्ष्माणि असाधारण-लक्षणानि । अत एव तैः श्रीः शोभा यस्य तस्मै । मृदु-पद इति बाल्यम् एवाभिप्रेतं साक्षात् तद्-अनुक्तिः पितृत्व-गुरुत्व-प्रभुत्वादिना परम-गौरवात् अनुक्तम् ।
अन्यद् वृन्दावन-विहारित्वं वन-धातु-चित्रिताङ्गत्वादिकं च संगृह्णन्, सर्वान्ते सर्व-विशेषणाश्रयम् अभीष्टं विशेषणम् आह—पशुपस्य श्री-नन्द-राजस्य अङ्गजाय पुत्राय तत्-कुमारत्वेन स्वत एव नित्यं तत्-तत्-समवेतत्वाद् इत्य् एतच् छ्री-बाल-गोपाल-रूपं त्वाम् अत्र प्राप्तुं त्वाम् एव नौमीति परम-लालसया प्राग् एव प्रयोजनम् उद्दिष्टम् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं बहूंश् चतुर्भुजान् दृष्टवान् अपि नराकार-श्रीमन्-नन्दनन्दन-चरणारविन्दम् एव परम-पुरुषार्थतया निश्चिन्त्य विशेषतस् तद्-रूपम् एव स्तोतुम् उपचक्रमे—नौमीति ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ ब्रह्मणः स्तुतिम् आह—नौमीत्य्-आदि । त्वाम् इत्य् अध्याहार्यम्। भीतस्योक्तौ न्यून-पदता गुणः, त्वां नौमीत्य् अर्थः । ननु, स्तुत्य एव स्तूयते, ब्रह्मणस् ते गोप्य-बालकोऽहं किं स्तुत्यः ? इत्य् आशङ्क्याह—हे ईड्य ! भवान् एवेड्यो नान्यः कोऽपीत्य् अर्थः । अन्यत्र स्तवनम् अर्थ-वादः । त्वयि तु सर्वं यथार्थम् एव ।
किम्-अर्थं नौमि ? इत्य् अत आह—ते तुभ्यं त्वद्-अर्थं त्वत्-प्राप्तय इत्य् अर्थः । ननु, मत्-स्वरूपम् एव किं यत् प्राप्त्य्-अर्थं स्तौषि ? इत्य् आह—अभ्र-वपुषे मेघ-श्याम-विग्रहाय । एवम् एव ते स्वरूपम् । तर्हि नारायण एव नूयताम्, सोऽपि तथा ? नेत्य् आह—गुञ्जावतंस-परिपिच्छ-लसन्-मुखायेत्य्-आदि-विशेषणान्य् आसमाप्तेः । स त्व् एवं न भवति, द्विभुजश् च न भवति, नराकृतिः इति । यद् वा, हे ईड्य ! वपुषे ते वपु-रूपाय तुभ्यं पूर्ववत् तादर्थ्ये चतुर्थी, त्वां नौमि ।
ननु, नारायणाज् जातोऽसि तं त्यक्त्वा कथं परं नौषि ? तत्राह—हे अभ्र ! अं नारायणं बिभर्तीति तथा, तस्य सम्बोधने नारायणस्यापि भर्तर् इत्य् अर्थः । नारायणोऽङ्गं [भा।पु। १०.१४.१४] इत्य् अत्रैव वक्ष्यमाणत्वात् । वपुष इत्य् अस्यैव सर्वाणि विशेषणानि । ते कीदृशाय ? पशुपाङ्गजाय नन्द-पुत्राय । तडिद् इव गौरम् अम्बरं यस्य । अथवा, यदा पवन-स्पन्दो भवति, तदा दृश्यते, अन्यदा न लक्ष्यते । अति सूक्ष्मत्वाद् गौरत्वाच् च तडिद्-उपमानम् । अथवा, वपुषे वपुर् निमित्तम् इत्य् उपस्थिते वपुषो महनीयत्वे तद् एव कथम् इत्य् आशङ्क्याह—तडिदम्, इदं वपुस् तट् उच्छ्रायवत् उच्छ्रायः सर्वोत्कर्षः ।
ननूच्चैर् इति वाक्यान्तरं हेतुत्वेनोत्थापनीयम् । तद् उच्छ्राये इत्य् अतः क्विपि सिद्धम् । सर्वोच्छ्रितं परात्परम् इत्य् अर्थः । ते कीदृशाय ? सर्व-श्रेष्ठाय । अथवा, वरायाभिमत-फल-दानाय इदं तद् उच्छ्रितम् इत्य् एकम् एव वाक्यान्तरम् । वृ वरणे वादिः प-वर्गीयः । तेनानुस्वारस्य पञ्चमः ।
हे गुञ्जावतंस ! गुञ्जि अव्यक्ते शब्दे गुञ्जोऽव्यक्त-शब्दः शब्द-ब्रह्म, अव्यक्तत्वाद् अपौरुषेय इत्य् अर्थः । तस्यापि अवतंस ! श्रुति-शिरोऽवतंस ! प्रत्यक्षतया स्वावतंसः स्वयं न दृश्यत इति शब्द-ब्रह्मागोचर इत्य् अर्थः । हे परिपिच्छल ! परि परितः पी प्यानं वृद्धिर् यस्य तत् परिपि । नपुंसकत्वात् ह्रस्वः । परिपि सर्वतो वृद्धं छलं माया यस्य सः सम्प्रत्य् एवानुभूतत्वात् । ध्याप्योर् इति क्विपि प्यैङ् धातोः सम्प्रषारणे पिः । सन्मुखाय सत्सु भक्तेषु मुखाय अभिमुखायेति ते इत्य् अस्य विशेषणम् । वपुषे इत्य् अस्य वा । अथवा ते तव मृदु-पदे नौमि । किम्-अर्थं ? वपुषे वपुर्-अर्थम् । एतद् एव वपुर् निरन्तरं स्फुरत्व् इति । काक्वा सर्वाण्य् एव वपुर्-विशेषणानि ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
भक्ति-ज्ञान-महैश्वर्य-माधुर्याब्धौ पतन् विधिः ।
अस्तौत् प्रीति-विधौ प्रश्नोत्तरं चोक्तं चतुर्दश ॥
मम रत्न-वणिग्-भावं रत्नान्य् अपरिचिन्वतः ।
हसन्तु सन्तो जिह्रेमि न स्व-स्वान्तर्-विनोद-कृत् ॥
श्रीमद्-गुरु-पदाम्भोज-ध्यान-मात्रैक-साहसम् ।
विधिस् तवाम्बुधेः पारं यियासति मनो मम ॥
निखिल-सच्-चिद्-आनन्द-स्वरूप-मूल-भूतं श्री-गोपेन्द्र-नन्दनं साक्षाद् अनुभूय, तत्रैवोद्भूत-भक्ति-निष्ठस् तम् एव विधि वर्णयति—नौमीति । हे ईड्य ! अधुनैव दृष्ट-ब्रह्मादि-स्तम्ब-पर्यन्त-सर्व-स्तुत ! वासुदेव ! सहस्रांशित्वेन परम-स्तव्य ! ते तुभ्यं नौमि । स्तुत्या त्वाम् अभिप्रैमि पत्ये शेत इतिवद् एतां स्तुतिं तुभ्यं ददामीत्य् अर्थः । यद् वा त्वाम् एव प्राप्तुं प्रसादयितुम् । वा, त्वां नौमि **अभ्र-**तुल्य-वपुषे तडिद्-अम्बरायेति भूतल-सन्ताप-हारित्वं भक्त-चातक-जीवनत्वं च । गुञ्जा चूडा-वर्तिनी अवतंसः पौष्पः चूडावर्ती श्रोत्रवर्ती च परिपिच्छम् उत्कृष्ट-बर्हं चूडाग्र-वर्ति तैर् लसन्-मुखं यस्येत्य् असाधारण-लक्षणवत्त्वम् । वैकुण्ठीयानर्घ्य-रत्नालङ्कारेभ्योऽपि वृन्दावनीय-गुञ्जादीनाम् उत्कर्षश् च । वन्या वृन्दावनीया एव पत्र-पुष्प-मय्यः स्रजो यस्येति निःश्रेयस-वनस्थ पारिजातादीनां निकर्षः । कवलादिभिर् लक्ष्मभिर् एव श्रीः शोभा यस्येति । गोप-बालोचिताचरणस्यैव तदीय-सर्वाचरणेभ्यः श्रैष्ठ्यम् । मृदु अतिसुकुमारौ पादौ यस्येति ताभ्यां वन-भ्रमण-दर्शिनां कारुण्य-प्रेम-मूर्च्छोत्पादकत्वम् । पशुपाङ्ग-जायेति श्री-वसुदेवादिभ्योऽपि श्रीमन्-नन्दस्य सौभाग्याधिक्यं व्यञ्जितम् ॥१ ॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
चतुर्दशे स्तुतः कृष्णः सर्वेशः परमेष्ठिनः ।
शुद्ध-प्रीति-विधौ प्रश्नोत्तरे च परिदर्शिनौ ॥
अष्टादशार्ण-मन्त्र-राजोपदेष्टृत्वेन गुरुं विश्वैश्वर्य-दातृत्वेन प्रभुम् उपदेश-वेलायां मञ्जु-महिम-दर्शनोत्तरं च गोप-वेषत्वेन दृष्टं कृष्णां विरिञ्चस् तद्-वेषम् एव तावत् स्तौति—नौमीति । हे ईड्य ! मञ्जु-महिम-शालित्वेन मम स्तुति-योग्य, ते तुभ्यं नौमि त्वाम् एव प्राप्तुं, त्वां स्तौमीत्य् अर्थः । पुष्पेभ्यो गाटित्व प्रयोगः कीदृशाय अभ्रम् इव वपुर् यस्य । तडिद् इवाम्बरं यस्येति । निखिल-ताप-हारित्वं स्व-भक्त-चातक-जीवातुत्वं च सूच्यते, गुञ्जा चावतंसश् च पौष्पश् चूडा श्रोत्र-वृत्तिः परिपिच्छं मन्त्र-शिखि-शिखण्डश् चूडाग्र-वृत्तिस् तैर् लसत् मुखं यस्येति । वन्या वृन्दावन-भव-पत्र-पुष्प-मयी स्रक् माला यस्य, कवलादिभिर् लक्ष्मभिः, गोप-चिह्नैः श्रीः शोभा यस्य, मृदू कोमलौ पादौ यस्य, पशुपस्य नन्द-गोपस्याङ्गाज् जाताय तद्-औरस्यायेतीत्थं च, तद् उ होवाच हैरण्यो गोप-वेषम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् । तद् इह श्लोका भवन्ति—
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । > द्विभुजं ज्ञान-मुद्राढ्यं वनमालिनम् ईश्वरम् ॥
गोप-गोपी-गवावीतम् इत्य्-आदि श्रुति-गीतं स्वयं भगवत्-पर-ब्रह्म गोपाल-रूपम् इह स्तुतम् ॥१॥
॥ १०.१४.२ ॥
अस्यापि देव वपुषो मद्-अनुग्रहस्य
स्वेच्छा-मयस्य न तु भूत-मयस्य कोऽपि ।\ नेशे महि त्व् अवसितुं मनसान्तरेण
साक्षात् तवैव किम् उतात्म-सुखानुभूतेः ॥२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, नौमीति प्रतिज्ञाय किं स्वरूपानुवाद-मात्रं क्रियते ? अत आह—अस्यापीति । भो देव ! अस्यापि सुलभत्वेन प्रकाशितस्यापि तव वपुषोऽवतारस्य महि महिमानम् अवसितुं ज्ञातुं कोऽपि को ब्रह्मा अहम् अपि नेशे न शक्नोमि । यद् वा, कश्चिद् अपि नेशे न समर्थ आसीत् । सुलभत्वाय विशेषण-द्वयम् । मद्-अनुग्रहस्य ममानुग्रहो यस्मात् तन् मद्-अनुग्रहं, तस्य । किं च, स्वेच्छा-मयस्य स्वीयानां भक्तानां यथा यथेच्छा, तथा तथा भवतः । तर्हि किम् इति ज्ञातुं न शक्यते ? अत आह—न तु भूत-मयस्य, अचिन्त्य-शुद्ध-सत्त्वात्मकस्य ।
यदास्यैवं, तदा कथं पुनः साक्षात् तव केवलस्य आत्म-सुखानुभूतेर् एव स्व-सुखानुभव-मात्रस्यावतारिणो गुणातीतस्य महिमानम् आन्तरेण निरुद्धेनापि मनसा को वा ज्ञातुं समर्थो भवेत् ?
अथवा, भूत-मयस्यापि तु विराड्-रूपस्य तव त्वन्-नियम्यस्य वपुषो महिमानम् एवावसितुं कोऽपि नेशे, तदा साक्षात् तवैवासाधारणस्य नियम्य-नियन्तृ-भेद-रहितस्योक्त-लक्षणस्यास्य महिमानम् अवसितुं कोऽपि नेश इति किम् उ वक्तव्यम् ? इत्य् अर्थः ॥२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शङ्कते—नन्व् इति । अनुवादः पुनः पुनः कथनम् । त्वं मा समर्थो भूः, अन्ये तु सन्तीति शङ्कापनोदन-व्याजेनार्थान्तरम् आह—यद् वा इति । इहाड-भाव आर्षः । सर्वान् विहाय तवानुग्रहे पक्ष-पातः स्याद् इति चेद् आह—किं च, इति । इह प्राधान्ये मयट् । यद्य् एतादृशः, तर्हि इति । अचिन्त्य-शुद्ध-सत्त्वात्मकस्य ज्ञानं दुर्घटम् इति भावः । यदास्य शुद्ध-सत्त्व-तनोर् एवं महिमा ज्ञातुम् अशक्यः, तदा को वा ? न कोऽपीत्य् अर्थः ।
भूत-मयस्यापि ज्ञानं न केवलं शुद्ध-सत्त्वाचिन्त्य-रूपस्यैवेत्य् अभिप्रेत्याह—अथवा इति । भूत-मयस्योक्त-लक्षणस्य विराज इत्य् अर्थः । तन् नियम्य-वपुषस् त्वद् आयत्तस्य इत्य् अर्थ । इति—कैमुत्य न्यायेन बोधयति भ्रह्मेति । ननु, भो ब्रह्मन् त्वं जगद्-ऐश्वर्यादि-पतिर् अहं तु वन्य-गोपाल-पुत्रः, त्वं पुरातनोऽहं तु बालः, त्वं वेदार्थ-तात्पर्यज्ञत्वात् परम-विद्वान्-सदाचार-परायणोऽहं तु वत्स-चारकत्वाज् ज्ञान-शुन्य-स्मार्ताचार-गन्धम् अप्य् अजानंस् तिष्ठन् भ्राम्यन्न् अपि ओदन-कवलं भुञ्जानः, त्वं मायी परम-सुखी साक्षात् पश्यसि एवाहं तु त्वन्-माया-मोहितो मनो-दुःखेन वनं पर्यटंस् तव स्तवं कर्तुं नार्हामीति ब्रह्मा तद्-उक्तिम् आशङ्क्य, सत्यम् अज्ञानान् महापराधम् अहम् अकरवम् इति व्यञ्जयन्न् आह—अस्येति । हे देव ! अस्यापि बाल-चेष्टा-मयस्य प्रकटित-मौग्धस्यापि तव वपुषो महिमानं ज्ञातुं नेशे, किम् उत कैशोर-लीलस्य प्रकटयिष्यमाण-महा-चातुर्यस्य वपुषः। किम् उत आत्मनो मनसो या सुखानुभूतिः, तस्या निरतिशयानन्द-मयोऽपि वत्स-चारणादिना यादृशं सुखम् अनुभवसि, तस्येति चक्रवर्ती ॥२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किं वा, स्तोतव्यं ज्ञातस्यैव वस्तुनः सम्भवति भवन्-महिमा तु न ज्ञायत एव इत्य् आह—अस्यापीत्य्-आदि । हे देव ! अस्य गोपस्य गोप-बालक-रूपस्य वपुषः “चिद्-एक-रूपत्वाद् एक-वचनम्” महि महिमानम् अवसितुं ज्ञातुं कोऽपि ब्रह्माप्य् अहं न ईशे, ईशो न भवामि, यतः सर्व एव सत्य-ज्ञानानन्तानन्द-मात्रैक-वपुषः, सर्व एव प्रत्येकं मदादिभिर् वन्द्यमानाः, कथम् एतद् घटताम् इति तव सच्-चिद्-आनन्द-प्रपञ्च-भूतस्य वत्स-वत्सपादि-व्यतिकरस्य महिमा न ज्ञातः । किम्-भूतस्य ? मद्-अनुग्रहस्य मम दर्प-हानि-रूपोऽनुग्रहो यत्र, स्वेच्छा-मयस्य स्वस्य तवेच्छा स्वेच्छा, तन्-मयस्य, तव नित्येच्छत्वात् तस्यापि नित्यत्वम् । अतो न तु भुत-मयस्य, तु-शब्द एवार्थः, आन्तरेण समाधि-निश्चलेन मनसापि, अस्तु तावद् वचसा वक्तुम् इति भावः । आत्म-सुखानुभूतेः साक्षात् प्रकटीभूतस्य तव सर्वेश्वरेश्वरस्य सान्द्रानन्द-विग्रहस्य महिमा, किम् उत वक्तव्यः । आत्म-सुखं वंशी-विलास-रसस् तत्रानुभूतिर् अनुगता भूतिः सम्पद्यस्य ॥२॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, नौमीति प्रतिज्ञातम् उत्कर्ष-वर्णनम् एव स्तुतिर् नाम । तत् किं स्वरूप-मात्रं वर्ण्यते ? तत्राह—अस्येति । वपुषोऽवतारस्योऽप्य् एकत्वम् अवतार-जात्य्-अपेक्षया । यद् वा, आत्मनः सुखेनानुभूतिः साक्षाज् ज्ञानं तस्या हेतोर् यदान्तरं बाह्य-विषयादि परित्यागेनान्तर्-मुखी-भूतं मनस् तेनापि । किम् उत साक्षात् तवावतारिणः । अन्यत् तैर् व्यञ्जितम् । अतस् तव यथा-दृष्ट-रूप-वर्णनम् एव स्तुतिर् इति भावः । यद् वा, यस्य कस्याप्य् एकस्येत्य् अर्थः । मद् अनुग्रहस्येत्य् अधर्मनाशन-धर्म-प्रवर्त्तन-द्वारा ब्रह्म-सृष्टेः पालनान् न तु भूत-मयस्य ज्योतिर्मय-देवतान्तर-देहवत् पाञ्च-भौतिकत्व-रहितस्येत्य् अर्थः ।
तर्हि कीदृशस्येत्य् अपेक्षायाम् आह—आत्म-सुखानुभूतेः पर-ब्रह्मात्मकस्येत्य् अर्थः । यद् वा, आत्मनः सुखेनानुभूतिः साक्षाज् ज्ञानं तस्या हेतोर् यद् आन्तरं बाह्य-विषयादि परित्यागेनान्तर्-मुखी-भूतं मनस् तेनापि, किम् उत साक्षात् तवावतारिणः । अन्यत् तैर् व्यञ्जितम् । अतस् तव यथाद्दिष्ट-रूप-वर्णनम् एव स्तुतिर् इति भावः । यद् वा, तव देव-वपुषः श्री-वैकुण्ठाधिष्ठातृ-दिव्य-रूपाद् अप्य् अस्य वपुषः श्री-बाल-गोपाल-रूपस्य । यद् वा, अस्य श्री-बाल-गोपाल-रूपिणस् तव महि कोऽप्य् अवसितुं नेशे, किम् उतात्म-सुखान्भूतेर् ब्रह्मणः सकाशात् सच्-चिद्-आनन्द-घन-दिव्य-चतुर्भुज-रूपाद् आत्म-सुखानुभूति-स्वरूपस्यात्मनस् तव ब्रह्मणस् तत्त्वस्य न्यूनत्वेन, किम् उतेति न्यायोक्तिर् दिव्य-रूपतोऽप्य् अस्य महिमाधिक्येन तस्याः [आत्म-सुखानुभूतेः] सकाशात् स्वत एव महिमाधिक्यता-सिद्धेः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्यापीति । तैर् व्याख्यातम् । तत्र नन्व् इत्य्-आद्य्-अन्ते उत्कर्ष-वर्णनम् एव हि स्तुतिर् नामेति हेतुर् अध्याहार्यः । तव वपुष इति चतुर्थ-चरणाद् अत्रापि तवेति योजनया साधितंस् तव यद् वपुषः कश्चिद् अप्य् अवतारस् तस्येत्य् अर्थः । कीदृशस्यापि तस्य तत्राह—अस्यापीति । जगति सुलभत्वेन प्रकाशितत्वात् तत्रेदन्ता-निर्देशं प्राप्तस्येत्य् अर्थः । मद्-अनुग्रहस्येति मदीय-सृष्टि-पालकत्वाद् इति भावः । तद् एतन्-मते तु । ननु, भूत-मयस्येति त-वर्ग-पञ्चम-द्वयादि-भाग-मय एव पाठः, न तु तत्-पञ्चम-प्रथमादि-भाग-मयः, न तु वा तत्-प्रथम-पञ्चमादि-भाग-मयः, उत्तर-व्याख्यायां तयोर् न तु तन्वोर् अस्पर्शात् तस्माद् यत् तु प्रथम-व्याख्यायां न त्व् इति व्याख्यातं, तत् खलु नु-कारस्यैव त-कारार्थतया स्वीकाराज् ज्ञेयम् । नेशे महि त्व् अवसितुम् इत्य् अस्मान् नञ्-आयोजनया वा अत्र न तु वितर्कार्थो ज्ञेयः ।
द्वितीयार्थे, ननु, निश्चयार्थो ज्ञेयः । नन्व् इति त-वर्ग-पञ्चमान्तर-पाठस् तु टीकायां मूले च प्राय सर्वत्र दृश्यते, तस्माद् अथवेत्य् अस्य पाठान्तर इत्य् एवार्थो ज्ञेयः, साक्षात् तवेति स्वयं भगवतस् तवेत्य् अर्थः । केवलस्येत्य् एव-कार-व्याख्या तत्-तद्-अवतारान् अतीत्य विराजमानस्येत्य् अर्थः । गुणातीतस्येति, तत्र च पुरुष-त्रि-देवीवन् न तु त्रैगुण्य-तत्-तद्-गुण-परिच्छिन्नाधिकारस्येत्य् अर्थः । स्व-सुखानुभूति-मात्रस्यापि तत्-तद्-अवतारित्वं महिमवत्त्वं च, एतस्यैवानन्दस्यान्यानि भूतानि मात्रानुपजीवन्ति [बृ।आ।उ। ४.३.३२] इति, को ह्य् एवान्याद् कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७.१]इति, परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इति श्रुति-प्रामाण्याद् गम्यते ।
न च “निर्विशेषतया तद् आविर्भाव-विशेषस्य" ब्रह्मण एव दुर्ज्ञेयताधिक्यम् अत्र प्रतिपाद्यते तथापि भूमन् महिमा-गुणस्य ते [भा।पु। १०.१४.६] इत्य्-आद्य्-उत्तर-वाक्य-द्वये स-विशेषस्यैव तद्-आधिक्यं व्याख्यास्यते अर्थवत्य् अत्र विराड्-रूपस्यापि दुर्ज्ञेयत्वोल्लेखः स्वयं भगवति तस्मिन् परम-कैमुत्यं प्रतिपादयति स्म अस्मिन्न् एव पक्षे तनु-भूतमयस्येति चित्-सुख-पाठः । सङ्गच्छते तनुभिः सूक्ष्मैर् आब्रह्म-स्तम्ब-पर्यन्तैर् व्याप्तत्वाद् इति हितद्-व्याख्या । पूर्वस्मिन् पक्षे तु तनु-सूक्ष्मम् अचिन्त्यं यद्-भूतं शुद्ध-सत्त्वात्मकं भगवत्-तत्त्वं तत्-स्वरूपस्येत्य् अर्थः । अस्य महतो भूतस्य [बृ।आ।उ। २.४.१०] इति श्रुतेः । लोकनाथो महद् भूतम् इति सहस्र-नाम-स्तोत्राच् च नियन्तृ-नियम्य-भेद-रहितस्येति विराड्-रूपस्य त्वन्-नियम्येत्य् उक्तत्वात्, न तस्य कश्चित् नियन्ता, न च स कश्चिन् नियम्य इति विवक्षया उक्त-लक्षणस्येति अभ्र-वपुर् आदि-विशेषणैर् दर्शि तस्येत्य् अर्थः।
अथ स्व-व्याख्या । ननु, ममैतादृशं स्वरूपम् अनूद्य किं स्तौषीत्य् आशङ्कया स-सम्भ्रमं तत्र निजासामार्थ्यम् आह—अस्यापीति । अस्य जगतो यद् देव-वपुर् आधिदैविक-रूपं नारायणाख्यं तव वपुर् अधुना दर्शितेषु चतुर्भुज-रूपेष्व् एकम् अपि वपुस् तस्यापीति योज्यम् । नारायणोऽङ्ग नर-भू-जलायनात् [भा।पु। १०.१४.१४] इति हि वक्ष्यते । वपुषो विशेषणानि मद्-अनुग्रहस्येत्य् आदीनि साक्षात् तवैवेति पूर्ववत् आत्मना स्वयम् एव कर्त्रा सुखानुभूतिर् यस्य अनन्य-वेद्यानन्दस्येत्य् अर्थः । यद् वा, अस्य तव यद् देव-वपुर् अधुनादर्शितेषु चतुर्भुजेष्व् एकम् अपि वपुस् तस्यापीति योज्यम् । अर मद्-अनुग्रहस्येति तद्-दर्शनाद् एव हि त्वन्-महिमा जात इति भावः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्व-महित्वं दृष्ट्वा विमूढस् तत्-स्तुतिम् उपेक्षमाण इव स-सम्भ्रमम् आह—अस्यापीति ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ यो यज् जानाति, स तत् स्तोतुम् अर्हति । नाज्ञातस्य स्तवः कर्तुं शक्यत इति । नौमीति यद् उक्तं तद् असम्भाव्यम् इत्य् आशङ्क्याह—अस्यापीति । हे देव ! सर्व-विजिगीषा-पर । अस्यापि वत्स-पाल-रूपस्य, वपुषश् चिद्-एक-रसत्वाज् जाताव् एक-वचनम्, महि महिमानम् अवसितुं ज्ञातुं कोऽपि ब्रह्माप्य् अहं नेशे न समर्थोऽस्मि, यतः सर्व एव चतुर्भुजाः, सर्व एव सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः, सर्व एव महद्-आदिभिः सेव्यमानाः, अतस् तथाविधस्यास्येति साक्षाद्-दृष्टस्य, सर्व-नाम्नो बुद्धि-वृत्तित्वाद् इदं शब्दः खलु वत्स-वत्सपादि-परः । कीदृशस्य ? मद्-अनुग्रहस्य मम दर्प-हानि-रूपोऽनुग्रहो यत्र । पुनः कीदृशस्य ? स्वेच्छामयस्य, स्वस्य तव इच्छा तन्-मयस्य, तथा प्रकटितस्य, अतो न तु भूतमयस्य । तुर् एवार्थः, अव्ययानाम् अनेकार्थत्वात् । अन्तरेणापि समाधि-निश्चलेनापि मनसा साक्षाद् अपरोक्षस्य आत्म-सुखानुभूतेर् विग्रह-रूप-परमानन्दावबोधस्य तव तु श्री-कृष्णस्य महि अवसितुं यन् न ईशे, तत् किम् उत, आत्मा यत्नो धृतिर् बुद्धिः स्वाभावो ब्रह्म वर्ष्म च अत्र वर्ष्म-परः । तेऽपि सत्य-ज्ञानादि-रूप-मूर्तयः अयं चात्म-सुखानुभूतिर् इति तुल्यत्वाद् अविशेषे साक्षाच्-छब्दः, वस्तुतस् तु तद्-इच्छामयत्वाद् ऐच्छिक्याः प्रकाशिकाख्याया मायाया एव विलासः, अयं तु साक्षात् तथाविधमाय इति विशेषः ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, भो ब्रह्मन् ! त्वं जगद्-ऐश्वर्याधिपतिः, अहं तु वन्य-गोपाल-पुत्रः । त्वं पुरातनः, अहं तु बालः । त्वं वेदार्थ-तात्पर्य-विज्ञत्वात् परम-विद्वान् सदाचार-परायणः, अहं तु वत्स-चारकत्वात् ज्ञान-शून्यः । स्मार्ताचार-गन्धम् अप्य् अजानंस् तिष्ठन् भ्राम्यन्न् अपि ओदन-कवलं भुञ्जानः । त्वं मायी परम-सुखी साक्षात् परमेश्वर एव, अहं तु त्वन्-माया-मोहितो मनो-दुःखेन वनं पर्यटंस् तव स्तवं कर्तुं नार्हामीति वक्रोक्तिम् आशङ्क्य सत्यम् अज्ञानान् महापराधम् अकरवम् इति व्यञ्जयन्न् आह अस्येति ।
हे देव ! अस्यापि बाल्य-चेष्टामयस्य प्रकटित-मौग्धस्य तव वपुषो महि महिमानम् अवसितुं ज्ञातुं नेशे न शक्नोमि, किम् उत कैशोर-लीलस्य प्रकटित-महा-चातुर्यस्य वपुषः। वपुषोऽपि महि ज्ञातुं नेशे, किम् उत तव आत्मनो मनसो या सुखानुभूतिस् तस्या निरतिशय-स्वानन्द-मयोऽपि वत्स-चारणादिना यादृशं सुखम् अनुभवसि तस्येत्य् अर्थः । तथा त्वत्-सहचाराणाम् अपि मनः-सुखानुभूतेर् महि ज्ञातुं नेशे, किम् उत साक्षात् तवैव अन्तरेण प्रत्याहृत्यान्तर्वशीकृतेनापि मनसा किम् उतास्थिरेण । तथा को ब्रह्माप्य् अहं नेशे, किम् उतान्ये इति कैमुत्य-पञ्चकम् अज्ञानातिशय-प्रतिपादकं ममापि ज्ञान-सम्भावनायां न शास्त्राभ्यास-तपो-योगादिकं हेतुः । किन्तु कृपा-कटाक्ष-कण एवेति ब्रुवन् वपुर् विशिनष्टि मय्य् अपराधिन्य् अप्य् अनुग्रहो महैश्वर्य-दर्शनोत्थ-मोहोत्तर-काल-दर्शन-दानाद् अनुमितो यस्य तस्य । अनुग्रहे हेतुः ।
स्वेच्छा-मयस्य स्वीयानां प्रेम-भक्तिमतां यथा यथा या या इच्छा दिदृक्षा-सिसेविषादिस् तन्-मयस्य भक्त-वत्सलत्वात् तत्-तत्-सम्पादकस्येत्य् अर्थः । अतो मय्य् अपि भक्त्य्-आभासवत्त्वाद् अपराधित्वेऽप्य् अनुग्रह-लेश-प्राप्त्य्-अधिकार इति भावः ।
नन्व् इच्छानुग्रहौ नर-वपुर्-धर्माव् इत्य् अत आह—न तु भूत-मयस्य भूत-मयं हि वपुर् जडं, न तु चिन्-मयम् । अत एव ब्रह्म-संहितायाम् उक्तम् अङ्गानि यस्य सकलेन्द्रिय-वृत्तिमन्तीत्य् एतच् च सर्वेन्द्रियवत्त्वं तद् एतस्य गोविन्दस्याङ्गानां यथा-कालम् अन्यान् अवतारान् प्रत्य् एव, न तु साक्षात् तं प्रति स तु स्व-चक्षुर्भ्याम् एव पश्यति स्व-श्रोत्राभ्याम् एव शृणोति स्व-मनसैव विचारयति, न तु स्व-पाणिभ्याम् अपि पश्यतीत्य् आदि विवेचनीयम् ।
अथवा अस्यापि देव-वपुषो देवाकारस्य अधुनैव तया दर्शितस्य वासुदेव-मूतेर् मद्-अनुग्रहस्य चतुः-श्लोकी भागवतोपदेष्टृत्वेन मय्य् अनुग्रहवतः स्वीयस्यांशिनस् तवेच्छा-सम्पादकस्य त्वद्-इच्छा-सम्पादकत्वेऽपि न वयम् इव भौतिका इत्य् आह—न तु भूत-मयस्य महि महिमानं को ब्रह्मापि स्व-व्यञ्जकान् वेदान् वेद-फलं श्री-भागवतं चाध्यापितोऽप्य् अहं ज्ञातुं नेशे किम् उत साक्षात् तवैव नर-वपुषः सर्वांशिनः स्वयं भगवतः कथम्-भूतस्य आत्मनः ? स्वस्य सुखेषु दधि-चौर्य-गोपिका-स्तन्य-पान-वत्स-चारण-बाल्य-चापल्याद्य्-उत्थेषु स्वावतारान्तरासाधारणेषु अनुभूतिर् यस्य तस्य ॥२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, गोप-कुमारे मयि किम्-ऐश्वर्य यत् सर्वज्ञेन जगत्-प्रभुणा विरिञ्चेनापि नूयेहम् इतिवत् तत्र कैमुत्थं दर्शयन्न् आह—अस्यापीति । देव सर्वाराध्यः ! अस्येदानीं त्वया प्रकटितस्य घनश्यामादि-लक्षणस्य वपुषो वासुदेव-व्यूहस्य महि महिमानम् अवसितुं बोद्धुं कोऽपि विरिञ्चोऽप्य् अहं नैशोसमर्थो नास्मि मत्-सृष्टस्यान्यस्य का कथेति भावः । कीदृशस्य मद्-अनुग्रहस्य सापराधेऽपि मयि व्येत्वस्य विमोह इत्य् अनुग्रहो यस्मात् तस्य स्वेच्छा-मयस्य स्वेषां भक्तानां या इच्छास् तन्-मयस्य तद्-अधीनस्य ममापि मृत्यत्वान् महैश्वर्यं मञ्जु महिमानं द्रष्टुं वाञ्छा-भू-देव तत्-पूरकस्येत्य् अर्थः ।
ननु, मायया तद्-वपूः केनचित् तव दर्शितं स्यात् तत्राह न तु भूत-मयस्येति सत्य-ज्ञानान्तनन्देत्य् आद्य् उक्तेर् विज्ञानानन्द-मयस्येत्य् अर्थः । आन्तरेण निरुद्धेनापि मनसा चेद् एवं, तर्हि साक्षात् तद्-अंशिनस् तवैव गोप-कुमारस्य महिमानम् अवसितुं नेशे इति किम् उत वाच्यम् इत्य् अर्थः । तव कीदृशस्येत्य् आह—आत्म-सुखेति । गोप-गोपी-गवावीतम् [भा।पु। १०.११.२८] इत्य्-आदि श्रवणादे गोपादि-विशिष्टस्यात्मनः सुखेषु तव सह-क्रीडोद्भूतेषु त्वद् असाधारणेष्व् अनुभूतिर् यस्येति त्वत्-स्वांशानां महिमानं वोद्धुम् असम स्वयं-रूपस्य तव महिमा कथं शक्यो बोद्धुम् इत्य् अर्थः ॥२॥
॥ १०.१४.३ ॥
ज्ञाने प्रयासम् उदपास्य नमन्त एव
जीवन्ति सन्-मुखरितां भवदीय-वार्ताम् ।
स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर्
ये प्रायशोऽजित जितोऽप्य् असि तैस् त्रि-लोक्याम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्ह्य् अज्ञाः कथं संसारं तरेयुः ? अत आह—ज्ञान इति । उदपास्य ईषद् अप्य् अकृत्वा सद्भिर् मुखरितां स्वत एव नित्यं प्रकटितां भवदीय-वार्तां स्व-स्व-स्थान एव स्थितास् तत्-सन्निधि-मात्रेण स्वत एव श्रूति-गतां श्रवणं प्राप्तां तनु-वाङ्-मनोभिर् नमन्तः सत्-कुर्वन्तो ये जीवन्ति केवलं यद्य् अपि नान्यत् कुर्वन्ति, तैः प्रायशस् त्रि-लोक्याम् अन्यैर् अजितोऽपि त्वं जितः प्राप्तोऽसीति । किं ज्ञान-श्रमेण ? इत्य् अर्थः ॥३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदि ज्ञातुम् अशक्यः, तर्हि तदा ऋते ज्ञानान् न मुक्तिः इति श्रुतेर् अज्ञानां कदापि संसार-विरामो न भवेद् इति चेत्, अत आह—ज्ञान इति । ज्ञान-साधने शम-दमादौ । इत्य् अर्थ इति—तव कथैव मोक्षदेति भावः ।
ज्ञाने त्वदीय-स्वरूपैश्वर्य-महिम-विचारे । स्थाने निवास एवाव्यग्रतया स्थिताः, न तु तीर्थ-यात्रादि-क्लेशान् कुर्वन्तः । तन्व्-आदिभिः सत्-कुर्वन्तः। तन्वा सत्-कारः श्रवणे समयेऽञ्जलि-बन्धादिः, वाचानुमोदनादिः, मनसा चास्तिक्यादिः । सन्-मुखरितां सन्तोऽनृतोक्त्यादि-परिहारार्थं प्रायो मौन-शीला अपि मुखरिता मुखरीकृता यया ताम् ।
यद् वा, भवदीयानां श्री-व्रज-राजादीनां वार्ताम् । यद् वा, भवदीय-वार्तां जीवन्ति उपजीवन्ति तद्-एक-जीवनत्वेन सद्भ्यः श्रुत्वा श्रावयन्ति । यद् वा, तन्व्-आदिभिस् तत्-तच्-चेष्टयाजित अप्राप्य स्व-प्रकाशेनेन्द्रियाद्य्-अगोचरत्वात् । यद् वा, तन्व्-आदिभिः कृत्वा तैर् अपि जितोऽसि तत्-तद्-वृतौ सदा स्फुरसीत्य् अर्थः । यद् वा, तन्व्-आदिभिर् एव साक्षात्-प्राप्तो भवसि । तत्र तन्वा प्राप्तिः स्व-हस्तादिना श्री-पादाब्जादि-स्पर्शादिः, वाचाह्वानादिना समागमनादिः, मनसा च सङ्कल्पेनैव दर्शनादिः । यद् वा, तन्व्-आदिभिः सह जितस् तव तन्व्-आदीन्य् अपि तैर् वशीकृतानि । तत्र तनोर् वशीकरणं तद्-भक्त-पार्श्वे सदावस्थित्य्-आदिः, वाचस् तद्-गुण-कथनादिः, मनसश् च तच्-चिन्तनादिर् इति तोषिण्याम् ॥३॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : तस्मात् साधनान्तरे श्रमं हित्वा जिज्ञासुना भक्तिर् एवानुसर्तव्येत्य् आह—ज्ञान इति । ज्ञाने ज्ञान-विषये प्रयासं श्रमाद्य्-अनुष्ठानं हित्वा भवदीयानां विष्णु-भक्तानां वार्तां कथां नमन्तः श्रवणादिभिर् आदिर्यमाणा एव जीवन्ति । नान्यत् कुर्वन्ति सन्तो मुखरिता यया वाचं-यमा अपि सन्तः कथा-सौन्दर्याद् वाचालतां भजन्तीत्य् अर्थः । स्थान एव स्थिताः, न तु तीर्थ-विशेषे । श्रुतिः कर्ण-वेदश् च प्रायश इति संशय-वचनं मुक्ति-विशेषार्थम् । यद्यपि तम् अन्यैर् अजितः, तथापि कथा-रूप-मर्म-ज्ञानाद् भक्तैर् जिते वशीकृतोऽसि ज्ञातोऽसीत्य् अर्थः ॥३॥ [मु।फ। ६.९]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ज्ञान-योगेनैव यन्-महिमा ज्ञातुं शक्यते, स ते नास्ति । कथं ज्ञातव्य इति चेत्, मम ब्रह्मणो भवान् एव ज्ञानोपदेष्टा, तेनापि किम् अपि नाभूत्, अतो ज्ञानं तन्-महिम-ज्ञान-कारणं न भवतीत्य् आह—ज्ञाने प्रयासम् इत्य्-आदि । स्थाने त्वयि स्थिताः, त्वयि भावं कुर्वन्त इत्य् अर्थः, स्थानाद् भ्रस्टाः पतन्त्य् अधः [भा।पु। ११.५.३] इत्य् उक्तत्वात् । तनु-वाङ्-मनोभिः तन्वा प्रणामादिना पूजादिना वा, वाचा उत्कीर्तनादिना, मनसा स्मरणादिना नमन्तः सत्-कुर्वन्तः सन्तो ये जीवन्ति, तैस् त्रि-लोक्यां त्वम् अजितोऽपि जितोऽसीति । सद्भिर् मुखरितां साक्षाद् वा भागवतादि-शास्त्र-द्वारा वा, किन्तु ज्ञाने प्रयासम् उदपास्य त्यक्त्वा ईषद् अप्य् अकृत्वेति स्वामिनः ॥३॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो यथा कथञ्चित् तव भजनेन त्वं वशीक्रियस इत्य् आह—ज्ञान इति। त्वत्-तत्त्व-वेदने “उत्” उच्चैर् अपास्य, तन्व्-आदिभिर् नमन्तः सत्-कुर्वन्तः। तत्र तन्वा सत्-कारः श्रवणे समयेऽञ्जलि-बन्धनादिः, वाचानुमोदनादिः, मनसा चास्तिक्यादिः । सन्-मुखरितां सन्तोऽनृतोक्ति-सर्वेन्द्रिय-क्षोभ-परिहाराद्य्-अर्थं प्रायो मौन-शीला अपि मुखरिता मुखरीकृता यया तां भवदीयां भवदीयानां वार्ताम् । परं तैर् व्यञ्जितम् ।
यद् वा, वार्तां जीवन्ति उपजीवन्ति जीविकार्थम् एव सद्भ्यः शृण्वन्तीत्य् अर्थः । हे तन्व्-आदिभिस् तत्-तच्-चेष्टय्आजित ! अप्राप्य ! स्व-प्रकाशत्वेनेन्द्रियाद्य्-अगोचरत्वात् । यद् वा, तन्व्-आदिभिः कृत्वा तैर् अपि जितोऽसि वशीकृतो भवसि, तत्-तद्-वृतौ सदा परिस्फुरसीत्य् अर्थः । यद् वा, तन्व्-आदिभिर् एव साक्षाद् एव प्राप्तो भवसि । तत्र तन्वा प्राप्तिर् हस्तादिना श्री-पादाब्जादि-स्पर्शनादिना, समनुभवादिर् वाचाह्वानादिना समागमनादिः, मनसा च सङ्कल्पेनैव सन्दर्शनादिः । यद् वा, सहार्थे तृतीया तन्व्-आदिभिः सहितो जितस् तव तन्व्-आदीन्य् अपि तैर् वशीकृतानीत्य् अर्थः । तत्र तव तन्वोर् वशीकरणं तद्-भक्त-पार्श्वे सदावस्थित्य्-आदिः, वाचस् तद्-गुण-कथनादि, मनसश् च तच्-चिन्तनादि । अन्यत् समानम् ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव भक्तास् तद्-अन्वेषण-श्रमं परित्यज्य भक्ति-विशेष-रूपतया त्वदीय-रूप-गुण-लीला-वार्ताम् एव शृण्वन्ति, तेन वशीकुर्वन्ति च तादृशम् अपीत्य् आह—ज्ञान इति । ज्ञाने त्वदीय-स्वरूपैश्वर्य-महिम-विचारे, स्थाने सतां निवास एवाव्यग्रतया स्थिता, न तु तीर्थ-यात्रादि-क्लेशान् सहन्तः । तन्व्-आदिभिर् नमन्तः सत्-कुर्वन्तः। तत्र तन्वा सत्-कारः श्रवणे समयेऽञ्जलि-बन्धनादिः, वाचानुमोदनादिः, मनसा चास्तिक्यादिः । सन्-मुखरितां सन्तोऽनृतोक्ति-सर्वेन्द्रिय-क्षोभ-परिहाराद्य्-अर्थं प्रायो मौन-शीला अपि मुखरिता मुखरीकृता यया ताम् । वाहिताग्न्य्-आदिषु [पा। २.२.३७] इति निष्ठायाः पर-निपातोऽपि भवदीयां भवदीयानां श्रीमद्-व्रज-राजादीनां वा वार्ताम् । अन्यत् तैः ।
यद् वा, भवदीय-वार्तां जीवन्ति उपजीवन्ति तद्-एक-जीवनत्वेन सद्भ्यः श्रुत्वा स्वादयन्तीत्य् अर्थः । हे तन्व्-आदिभिस् तत्-तच्-चेष्टय्आजित ! अप्राप्य ! स्व-प्रकाशत्वेनेन्द्रियाद्य्-अगोचरत्वात् । यद् वा, तन्व्-आदिभिः कृत्वा तैर् अपि जितोऽसि वशीकृतोऽसि तत्-तद्-वृतौ सदा परिस्फुरसीत्य् अर्थः । यद् वा, तन्व्-आदिभिर् एव साक्षात्-प्राप्तो भवसि । अत्र तन्वा प्राप्तिः हस्तादिना श्री-पादाब्जादि-स्पर्शनादिः, वाचाह्वानादिना समागमनादिः, मनसा च सङ्कल्पेनैव दर्शनादिः । यद् वा, सहार्थे तृतीया तन्व्-आदिभिः सहितो जितस् तव तन्व्-आदीन्य् अपि तैर् वशीकृतानीत्य् अर्थः । तत्र तनोर् वशीकरणं तद्-भक्त-पार्श्वे सदावस्थित्य्-आदिः, वाचस् तद्-गुण-कथनादिः, मनसश् च तच्-चिन्तनादिः । अन्यत् समानम् ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (भक्ति-सन्दर्भः (३७) : भक्ति-मार्गे तु श्रमो न स्यात् । तद्-वशीकारिता-रूपं फलं चापूर्वम् इत्य् आह—ज्ञाने प्रयासम् इत्य्-आदि ।उदपास्य इषद् अप्य् अकृत्वा स्थाने निवास एव स्थिता अपि यद् ऋच्छया सङ्गतैः सद्भिर् मुखरितां स्वत एव नित्यं प्रकटितां भवदीय-वार्तां तत् स्वत एव श्रुति-गतां श्रवणं प्राप्तां तनु-वाङ्-मनोभिर् नमन्तः सन्निधि-मात्रेण कुर्वन्तो ये जीवन्ति केवलं यद्यपि नान्यत् कुर्वन्ति तैः प्रायशस् त्रि-लोक्याम् अन्यैर् अजितोऽपि त्वं जितोऽसि वशीकृतोऽसि । अत एवोक्तं श्री-नृसिंह-पुराणे—
पत्रेषु पुष्पेषु फलेषु तोयेष्व् > अक्रीत-लभ्येषु सदैव सत्सु । > भक्त्या सुलभ्ये पुरुषे पुराणे > मुक्तौ किम्-अर्थं क्रियते प्रयत्नः ॥ इति ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्माद् एवं तस्माज् ज्ञान इति ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न तु भो ब्रह्मन् ! ज्ञान-योगेनैव महि ज्ञातुं शक्यते, स ते नास्ति । कथं ज्ञातव्यो भवता ? इति चेत्, मम तु ज्ञानोपदेष्टा श्री-नारायण एव, तथापि तव महिमा न ज्ञातः । अतो भवद्-अनुग्रहं विना ज्ञान-योगेऽपि तत् तव तत्त्व-ज्ञान-कारणं न भवतीत्य् आह—ज्ञाने प्रयासम् इत्य्-आदि । स्थाने त्वयि स्थिता त्वयि भावं कुर्वन्त इत्य् अर्थः, स्थानाद् भ्रस्टाः पतन्त्य् अधः [भा।पु। ११.५.३] इत्य् उक्तेः । ज्ञाने प्रयासम् उदपास्य उत्कर्षेण त्यक्त्वा सम्यक् त्यक्त्वेत्य् अर्थः । तनु वाङ्-मनोभिः—तन्वा प्रणामादिना, वाचा कीर्तनेन, मनसा स्मरणादिना भवदीय-वार्ता भवति, तं देशम् एव प्रणमेद् इति । तन् नेति तृतीया-विभक्तेर् व्यञ्जकता । अथवा, तनु-वाङ्-मनोभिर् जितोऽसीत्य् अन्वयः । वार्तां कीदृशीं ? सद्भिर् मुखरितां श्रुति-गताम् इति श्रवण-पथ-प्राप्त-मात्र एव तद्-अर्थाद्य्-अवधारणम् अप्य् अनवेक्ष्येत्य् अर्थः ॥३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तर्हि तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ३.८] इति श्रुतेर् अज्ञानाल् लोकाः कथं संसारं तरेयुः ? तत्राह—ज्ञान इति । उदपास्य ईषद् अप्य् अकृत्वा सन्-मुखरितां सन्तो मौन-शालिनोऽपि स्व-माधुर्येण मुखरिता मुखरीकृता यया तां भवदीयां भवदीयानां वा वार्तां स्थाने सतां निवास एव स्थिताः, न तु तीर्थान्य् अप्य् अटन्तः सन्तः, श्रुति-गतां तत्-सन्निधि-मात्रेण स्वत एव श्रुति-गतां श्रवण-प्राप्तां तनु-वाङ्-मनोभिर् आरम्भ-परिसमाप्त्योर् नमन्तः, तत्र तन्वा पाणिभ्यां सह शीर्ष्णा भूमि-स्पर्शेन, वाचा कृष्ण-कथायै तद्-आस्वादकेभ्यः वैष्णवेभ्यश् च नम इति वचनेन मनसा श्रुतायाः कथायाः अवधारिकया बुद्ध्या प्रणमन्तो ये जीवन्ति, केवलं यद्यपि नान्यत् कुर्वन्ति, तद् अपि तैः प्रायशस् त्रि-लोक्याम् अन्यैर् अजितोऽपि त्वं जितोऽपि वशीकृतोऽपि भवसि । ज्ञानाल् लब्ध-मुक्तिभिस् तु न वशीकृतो भवस्य् अतः संसार-तरणं कथा-श्रोतॄणां किं चित्रम् इति भावः । अतस् त्वत्-कथैक-देश-ज्ञानम् एव त्वज्-ज्ञानं तेन संसारम् अपि तरन्तीति श्रुत्य्-अर्थो ज्ञेय इति भावः ॥३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, त्वम् अपि चेन् महिमानं न जानासि, तर्ह्य् अज्ञाः कथं संसारं तरेयुः? श्रुतिस् तु ज्ञानाद् एव तत्-तरणम् आह—ज्ञात्वा देवं सर्व-पाशापहानिः [श्वे।उ। १.११]इत्य्-आदिकेति चेत्, तत्राह—अनन्त-स्वरूप-गुण-विभूतेस् तव स्वरूपादि-विषयके कृत्स्ने ज्ञाने ये प्रयासं श्रमम् उदपास्य परित्यज्य सन्तो मौनिनोऽपि मुखरिता यया तां भवदीयां वार्तां तन्व्-आदिभिर् नमन्त एव केवलं जीवन्ति नान्यत् किञ्चित् कुर्वन्तीत्य् अर्थः । स्थाने स्व-निवास एव स्थिता, न तु तीर्थानि पर्यटन्तः, श्रुति-गतां तत्-सन्धि-मात्रेण स्वत एव श्रोत्र-प्राप्तां, हे अजित ! त्रि-लोक्याम् अजितोऽपि त्वं तैस् त्वद्-वार्ता-श्रद्धालुभिः प्रायशो बाहुल्येन जितोऽसि वशीकृतोऽसीति त्वद्-वार्तयैव विज्ञातया संसारतो निस्तारात् किं कृत्स्न-विषयकेन ज्ञानेन तस्याशक्यत्वाच् च ॥३॥
॥ १०.१४.४ ॥
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तिं विना ज्ञानं तु नैव सिध्येद् इत्य् आह—श्रेयः-स्रुतिम् इति । श्रेयसाम् अभ्युदयापवर्ग-लक्षणानां स्रुतिः स्रवणं यस्याः, सरस इव निर्झराणाम् । तां ते तव भक्तिम् उदस्य त्यक्त्वा । श्रेयसां मार्ग-भूताम् इति वा । तेषां क्लेशलः क्लेश एव अवशिष्यते । अयं भावः—यथा अल्प-प्रमाणं धान्यं परित्यज्यान् अन्तः-कण-हीनान् स्थूलान्-धान्याभासांस् तुषान् वा अवघ्नन्ति, तेषां न किञ्चित् फलम् । एवं भक्तिं तुच्छीकृत्य ये केवल-बोधाय प्रयतन्ते, तेषाम् अपीति ॥४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भक्तिर् एव ज्ञान-हेतुउर् इत्य् आह—केवल-बोध-लब्धये इति । जीवोपाधि-त्यागेन केवलस्य शुद्ध-चिद्-आनन्द-घनस्य तव ज्ञानाय । अयं भाव इति । तण्डुल-प्राप्तये धान्यम् इव मुक्त्य्-अवाप्तये भक्तिर् एवादर्तव्येति भावः
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । > ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता १८.५५] > इत्य्-आदिनोक्तेः ।
भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.११] इत्य्-आदिनोक्त्या च । तप-आदि-पूर्तेस् तत्-फलस्य ज्ञानस्य च भक्त्य्-अधीनतया तेषां क्लेश एवेति तत्त्वम् ॥४॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : अथ पञ्चभिर् ज्ञान-योगाद् भक्तिम् उत्कर्षयन् तत्रैकेन भक्तिं विना आत्म-साक्षात्कारो न भवतीत्य् आह—श्रेयः-सृइतिम् इति । श्रेयः-सृतिं मुक्ति-मार्गम् उदस्य त्यक्त्वा क्लिश्यन्ति । शम-दमादीन् अनुतिष्ठन्तः श्राम्यन्ति । केवल-बोधो ब्रह्म-ज्ञानम् । क्लेशलः श्रम एव शिष्यते, न तु ज्ञानं स्वार्थे लच्-प्रत्ययः । मत्-त्र-स्वीयानाम् अपि स्वार्थिकत्वं भू-द्रुमादिवत् ॥४॥ [मु।फ। ६.७]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तर्हि ज्ञानं किं स्वतः श्रेयः-साधनं न भवति ? अथ किम्, न भवत्य् एवेति ज्ञापयन्न् आह—श्रेयः-सृतिम् इत्य्-आदि । हे विभो ! तव भक्तिम् उदस्य ये केवलं बोध-लभ्दये क्लिश्यन्ति, तेषां क्लेशलः क्लेश एव शिष्यतेऽवशिष्टो भवति, कर्म-कर्तरि प्रयोगः । भक्तिं कीदृशीं ? श्रेयः-सृतिं श्रेयसः सरणिम् । ज्ञानं तु न तथा । केवलं बोधः खलु मोक्षं जनयत्य् एव, कथं क्लेशः ? इति नाशङ्कनीयम्, तस्यापि क्लेशत्वं, भक्ति-शून्यत्वात् । तथा दृष्टान्तः—यथा स्थूल-तुषावघातिनां क्लेश एव फलं, नान्यत् किम् अपि । कथं भक्त्या मोक्षोऽपि भवति ? तथा च—अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः । तीव्रेण भक्ति-योगेन [भा।पु। २.३.१०] इत्य्-आदि भक्तेः काम-द्वयत्वात्, अतो भक्तिर् एव कार्या ॥४॥
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी): [ह।भ।वि। ११.६०८] भक्तिं विना तु ज्ञानं नैव सिध्येत्, अथ च केवलं दुःखम् एव स्याद् इत्य् आह—श्रेय इति । श्रेयसाम् अभ्युदयापवर्ग-लक्षणानां सृतिः स्रवणं यस्याः सरस इव निर्झराणाम् । तां ते तव भक्तिम् उदस्य त्यक्त्वा । श्रेयसां मार्ग-भूताम् इति वा । तेषां क्लेशलः क्लेश एव शिष्यते । अयं भावः—यथा स्वल्प-प्रमाण-धान्यं परित्यज्यान्तः-कण-हीनान् स्थूल-धान्याभासांस् तुषान् येऽवघ्नन्ति, तेषां न किञ्चित् फलम्, एवं भक्तिं तुच्छीकृत्य केवल-बोधाय ये प्रयतन्ते, तेषाम् अपीति ॥४॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं यथा-कथञ्चिद् भजनेनापि परम-फलम् उक्तम् । समग्रायाश् च भक्तेर् माहात्म्यं केन वर्ण्यतां ? तथाप्य् एतादृश-भक्ति-परित्यागेनात्म-तत्त्व-ज्ञानार्थ-यत्न-परा महा-दुःखिन एवेत्य् आह—श्रेय इति । श्रेयसां सर्वेषाम् एव सृतिम् इत्य् अवान्तर-फलत्वेन स्वत एवात्म-ज्ञानम् अपि भवितैव सूचितम् । तथा-भूताम् अपि उदस्योच्चैर् अवहेलया दूरे क्षिप्त्वात्यन्तम् अनादृत्येत्य् अर्थः । क्लिश्यन्ति यम-नियमादिभिः । श्रमं कुर्वन्ति, केवलस्य शुद्धात्म-तत्त्वस्य बोध-लब्धये । यद् वा, कथञ्चिद् अपि भक्त्य्-अमिश्रितस्य बोधस्यात्म-तत्त्व-ज्ञानस्य लब्धये । एव-कारेण स्वर्गादिकं चित्त-शुद्ध्य्-आदिकं च फलं निरस्तम् ।
ननु, योगाभ्यासादि-श्रमेण प्रतिष्ठाया धनस्य वावश्यं लाभो भविता ? तत्राह—नान्यद् इति । अन्यत् किञ्चिद् अपि न स्यात् । तत्रोपयुक्तो दृष्टान्तो, यथा स्थूल-तुषावघातेन लोकैर् मूर्ख इत्य् उपहस्यते, तुषा बुषाणि तेषाम् अप्य् अतिचूर्णितानां नाशः केवल-हस्तादि-वेदनैव स्यात् तद्वद् इत्य् अर्थः । विभो ! हे प्रभो ! इत्य् अवश्य-भजनीयतोक्ता । अतस् तेषां नरक-पातोऽपि स्याद् इति भावः । तथा चैकादश-स्कन्धे—
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् । > न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ [भा।पु। > ११.५.३] इति ॥४ ॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तद्-विधां भक्तिं त्यक्त्वा मन्-महिम-पर्यवसान-दर्शनाय तद्-उचित-श्रवण-मननादिभिः कञ्चिज् ज्ञानाभ्यासिनोऽपि दृश्यन्ते ? तत्राह—श्रेय इति । श्रेयसां सर्वेषाम् एव सृतिम् इत्य् अवान्तर-फलत्वेन स्वत एव ज्ञानम् अपि भवितैवेति सूचितम् । तथा-भूताम् अपि मधुर-रूपादि-वार्ता-मयीं भक्तिम् उदस्योच्चैर् अवहेलया दूरे क्षिप्त्वात्यन्तम् अनादृत्येत्य् अर्थः । केवलस्य तद्-विध-भक्ति-शून्यतया स्व-विज्ञता-मात्र-तात्पर्यस्य बोधस्य लब्धये क्लिश्यन्ति, तद्-उचित-श्रवण-मननाद्य्-अर्थम् इतस् ततो गमनादिभिर् यम-नियमादिभिश् च श्रमं कुर्वन्ति, तेषां क्लेशल एव शिष्यते, तेषु तवानुग्रहानुदयाद् इति भावः । एव-कारेण चित्त-शुद्ध्य्-आदिकं फलं च निरस्तम् ।
ननु, योगाभ्यासादि-श्रमेण सिद्धि-लाभस् तु भविता? तत्राह—नान्यद् इति । सर्वेषाम् अपि सिद्धीनां मूलं तच्-चरणार्चनं [भा।पु। ११.१५.३५] इति न्यायेन । अत एव वक्ष्यते स्वयं श्री-भगवता—
यस्यां न मे पावनम् अङ्ग कर्म > स्थिति-उद्भव-प्राण-निरोधम् अस्य । > लीलावतारेप्सित-जन्म वा स्याद् > वन्ध्यां गिरं तां बिभृयान् न धीरः ॥ [भा।पु। ११.११.२०]
इति तत्रोपयुक्तो दृष्टान्तः—यथा स्थूल-तुषावघातिनो लोकैर् मूर्खा इत्य् उपहस्यन्ते, तुषा बुषाणि तेषम् अप्य् अतिचूर्णितानां नाशः केवलं हस्तादि-वेदनैव च स्यात् तद्वद् इत्य् अर्थः । विभो ! हे प्रभो ! इत्य् अवश्य-भजनीयतोक्ता ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (भक्ति-सन्दर्भः (३७) : वस्तुतस् तु—श्रेयः-सृतिम् इति । टीका च—भक्तिं विना नैव ज्ञानं सिध्यतीत्य् आह श्रेय इति । श्रेयसाम् अभ्युदयापवर्ग-लक्षणानां सृतिर् यस्याः सरस इव निर्झराणां तां ते तव भक्तिम् उदस्य त्यक्त्वा तेषां क्लेशल एवावशिष्यते । अयं भावः । यथाल्प-प्रमाणं धान्यं परित्यज्यान्तः-कण-हीनान् स्थूल-धान्याभासान् येऽवघ्नन्ति, तेषां न किञ्चित् फलम् । एवं भक्तिं तुच्छीकृत्य ये केवल-बोधाय प्रयतन्ते तेषाम् अपि । इत्य् एषा ।
अत्र विभो इतिवत् केवल-शुद्ध इत्य् अपि सम्बोधनम् । असौ दृश्यमानः क्लेशलः सन्न्यासादीन्य् एवेति च ज्ञेयम् । श्री-गीतासु च श्री-भगवान् उवाच, अमानित्वम् अदम्भित्वं [गीता १३.७] इत्य्-आदिकं ज्ञान-योग-मार्गम् उपक्रम्य, मध्ये, तत्त्व-ज्ञानार्थ-दर्शनं [गीता १३.११] इति समाप्याह—एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतोऽन्यथा [गीता १३.११] इति । ततो भक्ति-योगं विना ज्ञानं न भवतीत्य् अर्थः । ततोऽन्तेऽप्य् उक्तं—मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते [गीता १३.१८] इति । अन्यत्र च—
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । > अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥ [गीता ९.३] इति ।
अस्य, सततं कीर्तयन्तो मां [गीता ९.१४] इत्य्-आदि-पूर्वोक्त-लक्षणस्येत्य् अर्थः । अत एवास्फुट-भक्तीनां मुद्गलादीनाम् अपि कृतचरी साधन-भक्तिर् अनुसन्धेया ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु, केचिद् भक्तिम् अपि परित्यज्य ज्ञाने प्रयतमाना दृश्यन्ते ? तत्राह—श्रेयः-सृतिम् इति ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, तर्हि किं ज्ञानं स्वतः-साधनं न भवति ? अथ किम्, न भवत्य् एवेत्य् आह—श्रेयः-सृतिम् इत्य्-आदि । हे विभो ! ते तव भक्तिम् उदस्य केवल-बोध-लब्धये ये क्लिश्यन्ति, तेषां क्लेशलः क्लेश एव शिष्यतेव्, अवशिष्टो भवति । श्यामादित्वात् स्वार्थे ल-प्रत्ययः । नान्यत् कैवल्यादि—भक्ति-सनाथेनैव ज्ञानेन कैवल्यं जन्यत इति नियमात् । भक्तिं कीदृशीं ? श्रेयः-सृतिं श्रेयसः सरणिम् । ज्ञानं तु न तथा । तत्र दृष्टान्तः—यथा स्थूल-तुषावघातिनां स्थूल-तुषावघाते हि क्लेश एव केवलम् । परेषाम् अपि कर्ण-काटवम् ॥४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रवण-कीर्तनादिनाम् एकतरयापि भक्त्या कृतार्थी-भवन्ति । यद् उक्तं नृसिंह-पुराणे—
पत्रेषु पुष्पेषु फलेषु तोयेष्व् > अक्रीत-लभ्येषु सदैव सत्सु । > भक्त्या सुलभ्ये पुरुषे पुराणे > मुक्त्यै किम् अर्थं क्रियते प्रयत्नः ॥ इति ।
तद् अपि ये तां परिहाय ज्ञाने प्रयासवन्तस् तेषां दुःखम् एव फलतीत्य् आह—श्रेयसाभ्युदयापवर्ग-लक्षणानां सृतिः सरणं यस्याः सरस इव निर्झराणां तां तव भक्तिम् उदस्येति श्री-स्वामि-चरणानां व्याख्या । श्रेयांसि ज्ञान-कर्मादि-नाना-साधन-साध्यानि फलानि ययैव स्युस् तां भक्तिं त्यक्त्वेत्य् अर्थः । तेषाम् असौ बोधः क्लेशलः क्लेशं लाति ददातीति सः । शिष्यते पर्यवसितो भवति । तत्र दृष्टान्तः—स्थूल-तुषावघातिनाम् अल्प-प्रमाणं तण्डुलं परित्यज्य यतस् ततः परिश्रम्यानीय पर्वत-प्रमाणं स्थूल-तुष-पुञ्जं सञ्चिन्त्य तस्यान्तः-करण-हीन-धान्याभासस्यावघातं कुर्वतां जनानां यथा स स्थूल-तुषः क्लेशलः केवलं हस्तादि-वेदना-मात्र-फल-प्रदः ॥४ ॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सुकरां भक्तिम् अननुष्ठाय कृत्स्न-ज्ञाने प्रयतमानानां क्लेशे भवतीत्य् आह—श्रेयसाम् अभुदयापवर्ग-लक्षणानां श्रुतिः प्रस्रवो यस्याः निर्झराणाम् इवाक्षयत् सरसः तां ते भक्ति त्वद् वार्ताश्रवणादिकाम् उदस्य ये केवल-बोध-लब्धये क्लिश्यन्ति तेषाम् असौ बोधः क्लेशलः सन्न् एव शिश्यते क्लेशं लाति ददातीति सः यथाल्प-प्रमाणं तण्डुलचयं विहाय तुष-राशिम् अवघ्नतां स तद्राशिः क्लेशलस् तद्वत् ॥४॥
॥ १०.१४.५ ॥
पुरेह भूमन् बहवोऽपि योगिनस्
त्वद्-अर्पितेहा निज-कर्म-लब्धया ।
विबुध्य भक्त्यैव कथोपनीतया
प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्त्यैव ज्ञानं नान्यथेत्य् अत्र सद्-आचारं प्रमाणयति—पुरेहेति । हे भूमन्न् ! अपरिच्छिन्न ! इह लोके पूर्वं योगिनोऽपि सन्तो योगैर् ज्ञानम् अप्राप्य पश्चात् त्वद्-अर्पितेहास् त्वय्य् अर्पिता लौकिक्य् अपीहा चेष्टा यैस् ते निज-कर्म-लब्धया, त्वद्-अर्पितैर् निजैः कर्मभिर् लब्धया । त्वय्य् अर्पिता ईहा निजानि कर्माणि च तैर् लब्धयेत्य् एकं पदं वा। कथोपनीतया कथया त्वत्-समीपं प्रापितया भक्त्यैव विबुध्य विश्व-व्यापकं आत्मानं ज्ञात्वा अञ्जः सुखेनैव ते परां गतिं प्राप्ताः ॥५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अत्र अस्मिन् स्थले । पृथक् पृथक्-समासे श्रमाद् आह—एक-पदं वेति । परां गतिं जीवन्-मुक्ति-रूपां परां भक्तिं वेति ॥५॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : उक्तेऽर्थे सदाचारं प्रमाणयति—पुरा इति । हे भूमन् व्यापिन् ! योगिनोऽपि इत्य् अपि-शब्दाद् योगेन विलम्बितां सिद्धिम् आलोक्य भक्ति-श्रिता इत्य् उक्तम् । त्वद्-अर्पिता इति विशेषण-त्रयेण तत् तु वाङ्-मनोभिर् इत्य् एतद् विवृतम् । तत्र ईहा मनश् चेति मनसो व्यापार उक्तः । निज-कर्मेति कायस्य । कथा इति वाचः । उपनीता निकटीकृता भक्त्यैव न साधनान्तरेण । विबुध्य ब्रह्मास्मीति निश्चयेन ज्ञात्वा । अञ्जः सुखेन परां गतिं यतः परां गम्यं नास्ति । ते अच्युतस्य गतिम् अच्युत-स्थानम् ॥५॥ [मु।फ। ६.१०]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भक्ति-जनितं ज्ञानं हि ज्ञानम् । तस्योपास्योपासकत्व-ज्ञान-रूपं, तेनैव निःश्रेयसाव् आप्तिर् इति दर्शयति—पुरेत्य्-आदि । हे भूमन् श्री-कृष्ण ! इह निःश्रेयस-लिप्सया योगिनश् चिरं योगाभ्यासे कृत-परिश्रमाः, नित्य-योगे इन्, योगैर् अकृतार्थाः सन्तः पश्चात् त्वय्य् अर्पितानीहानीहा चेष्टा-मात्रं देह-मात्राणि निज-कर्माणि शुभाशुभ-कर्माणि च तैर् लब्धया भक्त्यैव विबुध्य उपास्यत्वेन त्वां बुद्ध्वा अञ्जः सुखेन ते परां गतिं चरणारविन्द-लक्षणं परमं पदं प्रपेदिरे । गतिश् चरणम् । गम्यतेऽनेनेति, करण-बोधिकोक्तिः । कथोपनीतया कथा तव गुणानां गानं श्रवणं वा तयोपनीतया, अतः केवलेन योगेन न भवन्तीति भावः ॥५॥
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी): [ह।भ।वि। ११.५८८] भक्त्यैव वैकुण्ठ-प्राप्तिर् नान्यथेत्य् अत्र सद्-आचारं प्रमाणयति—पुरेति । भूमन् ! हे अपरिच्छिन्न-माहात्म्य ! इह लोके पूर्वं योगिनोऽपि सन्तो योगैर् ज्ञानम् अप्राप्य पश्चात् त्वद्-अर्पितेहाः, त्वय्य् अर्पिता लौकिक्य् अपीहा चेष्टा यैस् ते, निज-कर्म-लब्धया, त्वद्-अर्पितैर् निजैः कर्मभिर् धर्म-लक्षणैर् लब्धया । अर्पिता लौकिक्य् अपि ईहा च निज-कर्माणि च तैर् लब्धयेत्य् एकं वा पदम् । कथोपनीतया कथया त्वत्-समीपं प्रापितया ।
यद् वा, कथया उपस्थापितया कथा-प्रधानयेत्य् अर्थः । यद् वा, कथा-प्रवर्तितयेत्य् अर्थः । भक्त्यैव विबुध्य तत्त्वं ज्ञात्वा अञ्जः सुखेनैव ते परां परमां गम्यत इति गतिं गम्य-पदं प्राप्ताः ॥५॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रेयः सृतित्वं च न केवलं वाङ्-मात्रेण, किन्तु पूर्वं बहुशोऽनुभूतम् एवास्तीत्य् आह—पुरेति । हे भूमन् ! हे अपरिच्छिन्न-माहात्म्येति त्वद्-भक्तेर् एतद्-युक्तम् एवेति भावः । योगिनो मुक्ता अपि ते तव कथोपनीतया त्वत्-कथा-श्रवण-कीर्तनादि-रूपयेत्य् अर्थः । तत्र साधनम् आह—त्वद् इति ।
यद् वा, ननु, तथापि परम-गति-प्रापिका भक्तिर् दुर्घटा ? तत्राह—कथेति । त्वल्-लीला-कथनेनोपनीतया संस्कृतया ।
यद् वा, ते कथया कीर्त्योपनीतया त्वन्-माहात्म्येन प्रवृत्तितयेत्य् अर्थः । पराम् उत्कृष्टाम् । हे अच्युतेति । यतस् तव भक्त्या कथञ्चिद् अपीष्ट-सिद्धेश् च्युतिर् नास्त्य् एवेति भावः । अथवा, भक्त्यैव योगिनस् त्वत्-सङ्गिनः सन्तस् ते तव पराम् उत्कृष्टां गतिं पदं श्री-वैकुण्ठ-लोकादि-लक्षणं प्रेम-लक्षणं वा गतिं विबुध्य परम-फलत्वेनावधार्य ताम् एव प्राप्ताः । अन्यत् समानम् ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रेयः-सृतित्वं च न केवलं वाङ्-मात्रेण, किं तु पूर्वं बहुशोऽनुभूतम् एवास्तीत्य् आह—पुरेति । तैर् व्यञ्जितम् एव तत्र लब्धया—
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेन-कथासु यः । > नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥[भा।पु। १.२.१४]
इति न्यायेन कथा-रुचि-रूपया त्वत्-समीपं प्रापितया सतां प्रसङ्गाद् इत्य् आदौ, तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिः [भा।पु। ३.२५.२५] इत्य् अनुसारेण कथनीय-रुचि-रूपया आत्मानं परमात्मनं त्वां विज्ञाय, भक्तिर् विरक्तिर् भगवत्-प्रबोधः [भा।पु। ११.२.४३] इति न्यायेन प्रेम-वृद्धि-क्रमतोऽनुभूय पराम् अन्तरङ्गां तव गतिं सामीप्यं प्रपेदिरे प्रपत्ति-सहितं प्रापुर् इत्य् अर्थः । भूमन्! हे अपरिच्छिन्न-माहात्म्येति, त्वद्-भक्तेर् एतद्-युक्तम् एवेति भावः । हे अच्युत इति, यतस् तव भक्त्या कथञ्चिद् अपीष्ट-सिद्धेश् च्युतिर् नास्त्य् एवेति भावः । यथोक्तं काशी-खण्डे—
न च्यवन्तेऽथ यद् भक्त्या महत्यां प्रलयापदि ।\ > अतोऽच्युतः स्मृतो लोके त्वम् एको विष्णुर् अव्ययः ॥ इति ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (भक्ति-सन्दर्भ (९६) : हे भूमन्, इह लोके पूर्वं बहवो योगिनोऽपि सन्तो योगैर् ज्ञानम् अप्राप्य पश्चात् त्वयि अर्पितेहा लौकिक्य् अपि चेष्टा । तथा अर्पितानि यानि निजानि कर्माणि, तैर् लब्धया कथा-रुचि-रूपया, पुनश् च कथोपनीतया त्वत्-समीपं प्रापितया कथनीय-रुचि-रूपया भक्त्यैव अञ्जः सुखेन विबुध्य आत्म-तत्त्वम् आरभ्य श्री-भगवत्-तत्त्व-पर्यन्तम् अनुभूय तव पराम् अन्तरङ्गां गतिं प्राप्ताः । श्री-गीतोपनिषत्सु च, अहं सर्वस्य प्रभवो मत्तः [गीता १०.८] इत्य्-आदिभिः शुद्धां भक्तिम् उपदिश्याह—
तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः ।
\ऽ नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ॥ [गीता १०.११] इति ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : किं च, पुरेहेति । निज-कर्म-लब्धया कथा-रुचि-रूप-कथोपनीतया रुचि-रूपया आत्म-तत्त्वम् आरभ्य श्री-भगवत्-तत्त्व-पर्यन्तम् अनुभूय ते तव पराम् अन्तरङ्गां गतिं सामिप्यं प्रपेदिरे । स-प्रपत्तिकं प्रापुर् इत्य् अर्थः ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अत्र प्रमाणं दर्शयन्न् आह—पुरेह भूमन्न् इत्य्-आदि । हे भूमन् ! सर्वोपरि विराजमान ! इह निःश्रेयस-लिप्सायां योगिनश् चिरं योगं कृताभ्यासा अपि योगैर् अकृतार्थाः सन्त इत्य् अपेर् अर्थः । पश्चात् त्वय्य् अर्पितेहास् त्वय्य् अर्पित-मोह-मात्रं यैस् तथा सन्तो निज-कर्म-लब्धया त्वयीहार्पण-रूपं यन् निजं कर्म, तेन लब्धया प्राप्तया भक्त्यैव विबुध्य जाग्रद्-दृशां लब्ध्वा, हे अच्युत ! ते तव परां गतिं तव निजं धाम प्रपेदिरे । भक्त्यैवेत्य् एव-कारोऽन्य-योग-व्यवच्छेद-परः, न ज्ञानादिनेत्य् अर्थः । भक्त्या कीदृश्या ? कथोपनीतया, तव कथा-मात्रेणैव प्रस्तुतयेत्य् अनायास-साध्यत्वम् । एतेन, तेषाम् असौ क्लेशल एव शिष्यते [भा।पु। १०.१४.४] इति यद् उक्तं, तत् स-प्रमाणम् एव ॥५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं श्लोक-द्वयेनान्वय-व्यतिरेकाभ्यां भगवत्-प्राप्तौ भक्तिम् एव स्थिरीकृत्य तत्र सद्-आचारं प्रमाणयति—पुरेति । हे भूमन् प्रभो ! इह जगति योगिनो भक्ति-योगवन्तः एवं त्वय्य् एवार्पिता ईहा चेष्टा यैस् त्वद्-भक्त्य्-अर्थम् एव सर्वेन्द्रिय-व्यापारं कुर्वाणा इत्य् अर्थः । भक्ति-योग-श्रद्धावतां वर्णाश्रम-कर्मान् अधिकारान् निज-कर्म-श्रवण-कीर्तितनाद्य् एव, तेन लब्धया विशेषस् तु कथया श्रुत-कीर्तित-स्मृतया उप आधिक्येन नीतया प्रापितया भक्त्या प्रेम-लक्षणयैव विबुध्य विज्ञाय त्वद्-रूप-गुण-लीलादिकम् अनुभूयेत्य् अर्थः । परां प्रेमवत् पार्षदत्व-लक्षणां गताः प्राप्ताः ।
यद् वा, यथा केवल-बोधो यथा केवल-योगश् चेत्य् अत्र सद्-आचारं प्रमाणयति—पुरेति । बहु-कालं योगिनो भूत्वापि योगं निष्फलं ज्ञात्वा त्वयि अर्पिता ईहा चेष्टा च निज-कर्म च ताभ्यां लब्धया भक्त्या ज्ञान-मिश्रयैव विबुध्य त्वां ज्ञात्वा ॥५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अत्र सद्-आचारं दर्शयति—पुरेति । हे भूमन् ! इह जगति पुरा बहवोऽपि योगिनो योगैस् त्वत्-साक्षात्कार-सम्प्राप्य त्वय्य् अर्पिताभ्याम् ईह-निज-कर्माभ्यां लब्धया भक्त्या कथोपनीतया त्वद्-वार्ता-विवृद्ध्या त्वां विबुध्यानुभूय ते परां गतिं स्थानम् अञ्जः प्रपेदिरे प्राप्ताः । ईहा लौकिकी चेष्टा, निज-कर्म वैदिकम् अग्निहोत्रादि, ताभ्यां लब्धया कर्मोपसृष्टयेत्य् अर्थः ॥५॥
॥ १०.१४.६ ॥
तथापि भूमन् महिमा-गुणस्य1 ते
विबोद्धुम् अर्हत्य् अमलान्तर्-आत्मभिः ।
अविक्रियात् स्वानुभवाद् अरूपतो ह्य्
अनन्य-बोध्यात्मतया न चान्यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावत् स-गुण-निर्गुणयोर् उभयोर् अपि ज्ञानं दुर्घटम् इति त्वत्-कथा-श्रवणादिनैव त्वत्-प्राप्तिर् नान्यथेत्य् उक्तम् । इदानीं यद्यपि उभयोर् अविशेषेण दुर्ज्ञेयत्वम् उक्तं तथापि गुणातीतस्य ज्ञानं कथञ्चिद् भवेन् न तु सगुणस्य तव अचिन्त्यानन्त-गुणत्वाद् इति श्लोक-द्वयेन स्तौति—तथापीति । हे भूमन् ! अपरिच्छिन्न-गुणस्य ते महिमा अमलैर् अन्तरात्मभिः प्रत्याहृतेन्द्रियैर् विबोद्धुं बोध-गोचरी-भवितुम् अर्हति योग्यो भवति । अथवा विबोद्धुं ज्ञातुम् अर्हति अर्ह्यते शक्यत इत्य् अर्थः । यद् वा, महिमेति महिमानं कश्चिद् बोद्धुम् अर्हतीत्य् अर्थः । कथं ? स्वानुभवाद् आत्माकारान्तः-करण-साक्षात्कारात् ।
नन्व् अन्तः-करणम् अपि स-विकारम् एव विषयीकरोतीति कथम् आत्माकारता तस्य ? इत्य् अत आह—अविक्रियादीति । विक्रिया विशेषाकारस् तद्-रहितात् । विशेष-परित्याग एवात्माकारतेत्य् अर्थः । नन्व् अन्तःकरण-साक्षात्कार-विषयत्वेऽनात्मत्व-प्रसङ्गः स्याद् अत आह—अरूपत इति । रूपं विषयः । अविषयात् । वृत्ति-विषयत्वम् एवात्मनो न फल-विषयत्वम् । अतो नायं दोष इति भावः । कथं तर्हि स्फूर्तिः ? अनन्य-बोध्यात्मतया स्व-प्रकाशत्वेनैव, न त्व् अन्यथा इदं तद् इति विषयत्वेनेत्य् अर्थः । अथवा मा सर्वतोऽन्तरङ्गा लक्ष्मीर् अप्य् अगुणस्य ते महि महिमानम् अमलैर् अन्तर्वृत्तिभिर् इन्द्रियैर् अपि तथा यादृग् वस्तुतस् तेन रूपेण विबोद्धुं किम् अर्हति ? नार्हत्य् एवेत्य् अर्थः । कथं तर्ह्य् अर्हति ? तद् आह—स्वानुभवाद् इत्य्-आदिना । उक्तार्थम् एवैतत् ॥६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे भूमन् भूः प्रादुर्भावस् तद् उक्तै तन् मधुर-रूप-प्रादुर्भाववन् । अगुणस्य प्राकृत-गुण-रहितस्य तव महिमा महित्वं बृहत्त्व-रूप एको धर्मः । मदाय महिमानं च परब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं ने इति मत्स्यावतारे त्वद् उक्तेः, सा ब्रह्मणि स्वमहिमन्य् अपि नाथ मा भूत् इति ध्रुवोक्तेश् च महिम-शब्देन प्रसिद्धं परं ब्रह्म-स्वयम् एव विवाध्या भवितुम् अर्हति । पश्यते ओदनः स्वयम् एवेतिवत् कर्मणः कर्तृत्वम्, यथा कुठारः स्वयम् एव वृक्षां छिनत्तोत्य् अत्र करणस्य कर्तृत्वं विवक्षितम् । कस्मान् निमित्तात् । अमलैः शुद्धैर् अन्तरात्मभिः । स्व-कर्मकाद् अनुभवट् ।
नन्व्, अनुभवः खल्व्-अन्तः करण-वृत्तिः सा च सूक्ष्म-हेह-विकारमयी । नीर्विकारं ब्रह्म कथं विषयी-कुर्यादित्य् अत आह—अविक्रियात्, न विद्यते विकारो यथ तथा-भूतात् । विकारो हि माया-धर्मः स च विषयोपरमे कथं स्याद् इति लिङ्ग-देहाभाव एव व्यञ्जितः ।
ननु, तद् अपि ब्रह्मणोऽविषयत्वेनानुभव-विषयानौचित्याद् अतः पुनर् विशिनष्टि-अरूपतः, रूपं विषयस् तद् इतराद् विषयाकारत्व-रहिताद्-ब्रह्माकारादित्य् अर्थः । ब्रह्मणो ब्रह्माकारानुभव-विषयत्वं न दोष इति ।
नन्व्, अस्ति किं तद्-बोधः प्रकारान्तं तत्राह—अनन्य-बाध्यम् आत्म-स्वरूपं यस्य तत्-तथा । स विबोध्यो भवितुम् अर्हतीत्य् अवगन्तव्यम् । गुणातीतस्य निर्गुणस्य । सकर्मकस्याकर्मकत्वापादनम् अनुचितं मत्वार्थान्तरम् आह—अथ वेति । अत्रापि कर्त्रर्थक-प्रत्ययस्य कर्मत्वापादनं छान्दसाश्रयणं विना न सम्भवेद् इत्य् अस्वरसात्प्रकारान्तरम् आह—यद् वेति । इहापि द्वितीयार्थे प्रथमा ज्ञेया । आशङ्कते—नन्व् इति । इत्य् अर्थ इति तात्पर्यम् । पुनर् आशङ्कते—नन्व् इति । इत्य् अर्थः इति—अविषयत्वात् तस्येति भावः । वृत्ति-विषय-ज्ञेया । आशङ्कते—नन्व्, इति तात्पर्यम् । पुनर् आशङ्कते—नन्व्, इति । इत्य् अर्थ इति—अविषयत्वात् तस्येति भावः । वृत्ति-विषय-त्वम् इति फल-व्याप्यत्वम् एवास्य शास्त्रकृद्भिर् निवारितं वृत्ति-व्याप्यत्वम् एवास्य स्वीकृतं श्रौत-सम्मतम् । तथा चोक्तं विद्यारण्यैः—
बुद्धि-तत्स्थ-चिद्-आभासौ द्वावेतौ व्याप्नुतो घटम् । > तत्राज्ञानं धिया नश्यदाभासन-घटः-स्फुरेत् ॥ इति ।
इयं व्यवस्थानात्मनि, आत्मनि तु—
भ्मण्य-ज्ञान-नाशाय वृत्तिर् व्याप्तिर् अपेक्षिता । > स्वयं स्फुरण-रूपत्वान् नाभासस् तत्र युज्यते ॥
इति मनुष्यादिर् ज्ञातुं न शक्नोतीति नाद्भुतं किन्तु तद् अर्धाङ्ग्य् अपि लक्ष्मीः सापि ज्ञातुं न कल्पेति । इत्य् अर्थ इति—काकूक्त्या लभ्योऽर्थ इति । यद् वा—जिज्ञासुः कर्म-योगेन भक्त्या चामलैर् अन्तर्मुखैर् ब्रह्मादिभिः सम्पादितात् अविक्रियात् । विक्रियाभेद-हेतुर् जीवे सोपाधिस् तद् भागत्याग-रूपाद-विरुद्ध-चिद्-आनन्द-स्वरूपानुभवान् महावाक्य-प्रमाणज-प्रमारूपाद् विशेषेण प्रत्यग् अभेदेनापरोक्षतया बोद्धुम् अर्हति । अरूपत् इति—रूप्यते प्रकाश्यतेऽनेनेति रूपं चिद्-आभासः, वृतौ तत्-सत्त्वेऽपि स्व-प्रकाशे तद् अनुपयोगे तद् अज्ञानावरण-निवृत्ताव् एव वृत्तेर् उपक्षीणतया तज् ज्ञानं स्व-प्रकाशतयैव नेदन्तयेति भावः ॥६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवम्-भूतास्ते गुणा येषां कथयैव भक्तिर् उपद्यते, उत्पन्नया च तया सुखेन त्वत्-पद-प्राप्तिः, तथापि तव गुण-महिमा किं वक्तुं शक्यते ? नैवेत्य् आह—तथापीति । हे भूमन् अपरिच्छिन्न ! ते तव गुणस्य महि महिमानं विरोद्धुं मार्हति कोऽपीति शेषः । स कीदृशः अमलं निर्मलमन्तः अन्तः-करणम् आत्म-देहश् च तैर् विशिष्टोऽपि, विशेषणे तृतीया तर्हि किं मम गुण-महिमा अबोध्य एव ? तत्राह अनन्य-बोध्यात्मतया बोद्धुम् अर्हति, न चान्यथा । अन्यैर् भक्ति-व्यतिरिक्तैर् योगादिभिर् बोध्यः स चासौ आत्मा स्वरूपञ्चेति स तथा, न तथा अनन्य-बोध्यात्मा तस्य भावस् तत्तातया अन्य-प्रकारेण बोद्धुं नार्हत्य् एव । महि कीदृशम् ? अविक्रियाद् अविक्रिया ह्रास-वृद्धि-रूपा ताम् अततीति विक्रियात् न विक्रियात् अविक्रियात्, कुतः ? स्वानुभवात् स्व-प्रकाशाद् धेतोः, अरूपतोऽनिरूप्याद् धेतोः । रूप्यत इति रूपम् । अनिरूप्यत्वं कुतः ? अनन्य-बोध्यात्मतयेति वा, अनन्य-बोध्यात्मतया हेतुत्वं द्रढयति—न चान्यथा, नान्यप्रकारेणेत्य् अपरोऽर्थः । यद् वा, अगुणस्य प्राकृत-गुण-रहितस्य तव महि महिमा ब्रह्म अमलान्तर्-आत्मभिः पुरुषैस् तथा येन प्रकारेणैव विरोद्धुम् अपि प्रापि । कदा ? अर्हति योग्ये काले अर्हः प्रशंसायाम् इति शतॄ कोऽसौ प्रकारः ? तत्राह अविक्रियाद् इत्य्-आदि । त्रयो हेतवः प्रकाराः अनन्य-बोधयात्मतया च, न चान्यथा, एवम् आदिभिर् विशिष्टैर् एव विरोद्धम् अपि, न तु इदम् इत्थम् इति भावेन स्वरूप-निर्देशेन । न तु त्वम् अनुभूयमान-श्री-विग्रहः कदापि बोध्य इति निर्गलितोऽर्थः ।
यद् वा, आत्मभिर् आत्मभूतैर् अपि योगीन्द्रैर् अप्य् अमलान्तः अमलान्तः-करणेऽपि । कीदृशे ? अर्हति योग्ये । अतो ब्रह्मापि वरम् एवं प्रकारेण निर्वक्तुं शक्यते, तथापि न त्वम् इत्य् अर्थः । अथवा, तव महि माहात्म्यं विरोद्धुं मा लक्षीर् अहर्ति, नान्यः कीदृशी ? अमला कैर् अर्हति ? अन्तर्-आत्मभिर् अन्तः-करणैः, अन्तः-करणैर् अमलेति वा । कुतः ? स्वानुभवात् । कीदृशात् ? अविक्रियाखण्डात्, अरूपतोऽनिरूप्यात् रूप्यत् इति रूपम्, अनन्य-बोध्यात्मतया च सापि अनन्य-बोध्यात्मा अन्यथा न च अन्यथा तां विनेत्य् अर्थः, न च कोऽप्य् अर्हतीति ।
यद् वा, तव महि अगुणस्य प्राकृत-गुण-रहितस्येति पूर्ववत् कोऽपि विरोद्धुं मार्हतीति पूर्ववद् एव, किन्तु अनर्हत्वे हेतुः-अविक्रियात् स्वानुभवाद् अरूपतो ब्रह्मणो हेतोः ब्रह्मैव तव महिमा, तस्या विक्रियत्वदीनां हेतुत्वात्, अनन्य-बोध्यात्मकतया च हेतु-भूतया स्वयम् एव भवता बुध्यते, न चान्यैर् इति भावः । अन्यथा तु न, च-कारस्त्व् अर्थः । अन्य-प्रकारेण नेत्य् अर्थः ॥६॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईदृशं तव भक्ति-माहात्म्यं भजनीयस्य च तव महिमा केन वक्तुं शक्यतां ? अहो अस्तु तावद् गुणिनस् तव, त्वद्-एक-गुणस्यापि माहात्म्यं तत्त्वतो ज्ञतुम् अपि न शक्यत इत्य् आह । यद् वा, ईदृशे भक्ति-माहात्म्ये सत्य् अपि ज्ञाने परमाग्रहश् चेत्, तथाप्य् अनन्त-कल्याण-गुण-महोदधेस् तव ज्ञानं न स्याद् एव । कथञ्चिद् कस्यचिद् एकस्य तद्-गुणस्य माहात्म्य-ज्ञानं कस्यापि जनस्य भवेद् इत्य् आह—तथापीति । ते गुणाः करुणा-लक्षणास् तस्यापि महि महिमा, तस्य मा लक्ष्म्यः सम्पदः इत्य् अर्थः । ताः कश्चिद् विबोद्धुम् अर्हति । यद् वा, मा लक्ष्मीर् एव श्री-राधा-रूपा, बाल्येऽपि नित्य-लीलापेक्षयोक्तम् इदं, तथा तत्त्वतः । यद् वा, तेन प्रकारेण महि माहात्म्यं विशेषेण बोद्धुम् अर्हति ।
तत् प्रकारम् एवाह—स्वानुभवात् स्वस्य तद्-अनुभवतः परम-दयालोर् भगवतः स्वस्मिन् कारुण्य-विशेष-सम्पत्तेः । कृत्भावात् ? निर्विकारात् सम्पूर्णाद् इत्य् अर्थः । स कीदृशोऽनुभव इत्य् अपेक्षायाम् आह—अनन्य-बोध्यात्मतयात्मैक-ज्ञेय-स्वरूपत्वेनारूपतो रूप्यत इति रूपम् अनिरूप्याद् इत्य् अर्थः, न त्व् अन्यथा, स्वानुभवस्य व्यतिरेकेण विबोद्धुम् अर्हतीत्य् अर्थः । एवं श्री-भगवद्-गुणस्यापि ब्रह्म-रूपत्वम् अभिप्रेतम् ।
यद् वा, तद्-अनुभवतः कदा स्याद् इत्य् अपेक्षायाम् आह—स्व-प्रकाशतयानिरूप्याद् इति । तद् वक्तुं न शक्यत इत्य् अर्थः । अथवा त्वद्-गुणस्याप्य् एकस्य माहात्म्यं कथम् अपि ज्ञातुं न शक्यत इत्य् आह—मा लक्ष्मीर् अप्य् अविक्रयात् स्वानुभवाद् अपि विबोद्धुम् अर्हति किं ? काक्वा, अपि तु नैवेत्य् अर्थः । तत्र हेतुत्वेन सम्बोधनम्, भूमन् ! हे सर्वतोऽपरिच्छिन्न-माहात्म्येति । किं चानन्य-बोध्यात्मतया अ-काराख्यस्य विष्णो रूपतस् तत्-स्वरूपत्वात् इत्य् अर्थः । गुण-गुणिनोर् अभेदात् । न त्व् अन्यथा । अत्र च मिथ्यात्वं नास्तीत्य् अर्थः । अत एवोक्तं श्री-यामुनाचार्य-पादैः—उपर्य् उपर्य् अब्ज-भुवोऽपि पुरुषान्2इति ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं यद्यपि ज्ञाने प्रयासम् इत्य्-आदिना ज्ञान-मात्रस्यामृतत्वम् उक्तं, तथाप्य् अस्ति विशेष इत्य् आह—तथापीति द्वाभ्याम् । अगुणस्य क्वचिद् अधिकारिणि अप्रकाशित-गुणस्य सतः विबोद्धुं बुद्धौ प्रकाशितुं पचेर् विक्लिति-विक्लेदनावत् कर्म-निष्ठो विकारादिः कर्तृ-निष्ठश् च, तस्य हेतुत्व-लक्षणो भावः । सर्वम् अकर्मक-धातोर् गौणी-मुख्य-भावेन वाच्यो भवति अन्तर्-भूत-ण्य्-अर्थत्वात् । अतो बुध-धातोर् अपि प्रकाश-मात्रत्वम् इन्द्रिय-करण्क-प्रकाश-हेतुत्वं च विद्यते । तद् एवं कर्म-निष्ठ-प्रकाश-मात्र-विवक्षया ओदनः पचतीतिवत् विबोद्धुम् अर्हतीत्य् अपि स्यात् अर्हति अर्ह्यत इत्य् अन्येन बोध-गोचरीकर्तुं शक्यत इत्य् अर्थः । अन्य-कर्तृक-गोचरी-करणाय योग्यो भवतीत्य् उक्तेस् तथैव तात्पर्यात् महि महिमानम् अपि, सुपां सुलुग् इत्य्-आदिना सुभावात् अनन्य-बोध्यात्मतया चिद्-एकाकारांशेन जीवेशयोर् अभेद-भावनया । अन्यत् तैः ।
तत्र वृत्तिर् निर्विषयं चित्तम् एव फलं च विषयाकार-चिद्-आभास-युक्तं तद् एवेति ज्ञेयम् । यद् वा, यद्यपि भक्त्यैव विबुद्ध्येत्य् उक्तं तथाप्य् अनन्त-कल्याण-गुण-महोदधेस् तव सम्यग् ज्ञानं न स्याद् एव, किं तु कस्यचिद् एकस्य त्वद्-गुणस्य माहात्म्य-ज्ञानं कस्यापि जनस्य यत् किञ्चिद् एव भवेद् इत्य् आह—तथापीति । ते गुणाः करुणादि-लक्षणास् तेषाम् एकोऽपि तस्य महि महिमा तस्य मा लक्ष्म्यः सम्पदः इत्य् अर्थः । ताः कश्चिद् विबोद्धुम् अर्हति, तच् च स्वानुभवात् स्वानुभवं स्व-कीयानुशीलनम् अनुसृत्य यथा स्वानुभवः, तथा न तु सर्वथेत्य् अर्थः ।
कथम्-भूतात् कृत्-भावात् अविक्रियात् अभिलाषान्तर-शून्यात् स कीदृशोऽनुभवः ? इत्य् अपेक्षायाम् आह अनन्य-बोध्यात्मतया आत्मैक-ज्ञेय-स्वरूपत्वेन, अरूप्यत रूप्यत इति रूपः अनिरूप्याद् इत्य् अर्थः । न चान्यथेति न स्वानुभव-व्यतिरेकेण न च स्वानुभवातिरेकेण विबोद्धुम् अर्हतीत्य् अर्थः । एवं श्री-भगवद्-गुणस्यापि ब्रह्म-रूपत्वम् अभिप्रेतम् ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः ४) : यत्र योग्यता-वैशिष्ट्येनाविर्भाव-वैशिष्ट्यं वक्तुं ब्रह्माविर्भावे तावद् योग्यताम् आह—तथापीति । यद्यपि ब्रह्मत्वे भगवत्त्वे च दुर्ज्ञेयत्वम् उक्तम्, तथापि हे भूमन् स्वरूपेण गुणेन चानन्त ते तवागुणस्य अनाविष्कृत-स्वरूप-भूत-गुणस्य यो महिमा महत्त्वं बृहत्त्वं, ब्रह्मत्वम् इति यावत् । अथ कस्माद् उच्यते ब्रह्म बृंहति बृंहयति च [अ।शि।उ। ३.५] इति श्रुतेः । स तव महिमा अमलान्तर्-आत्मभिः शुद्धान्तः-करणैर् गुणैर् विबोद्धुम् अर्हति, तेषां बोधे प्रकाशितुम् अर्हति, समर्थो भवतीत्य् अर्थः ।
कस्मान् निमित्तात्? तत्राह—स्वानुभवात् शुद्ध-त्वं-पदार्थस्य बोधात् ।
नन्व् अनुभवः खल्व् अन्तः-करणस्य वृत्तिः । सा च स्थूल-सूक्ष्म-देह-विकार-मय्य् एव सती, कथं निर्विकारत्वम्-पदार्थः विषयं कुर्वीत ? तत्राह—अविक्रियात् त्यक्त-तत्-तद्-विकारात् ।
ननु, विषयाकार एवानुभवो विषयम् उपाददीत । शुद्ध-त्वम्-पदार्थस् तु न कस्यापि विषयः स्यात्, प्रत्यग्-रूपत्वात् । तत्राह—अरूपतः रूप्यते भाव्यते इति रूपो विषयः, तद्-आकारता-रहितात्। 3^अ^देह-द्वयावेश-विषयाकारता-राहित्ये सति स्वयं शुद्ध-त्वं-पदार्थः प्रकाशत इति भावः।
ननु, सूक्ष्म-चिद्-रूपत्वम्-पदार्थानुभवे कथं पूर्ण-चिद्-आकार-रूप-मदीय-ब्रह्म-स्वरूपं स्फुरतु ? तत्राह—अनन्य-बोध्यात्मतया चिद्-आकारता-साम्येन शुद्ध-त्वं-पदार्थैक्य-बोध्य-स्वरूपतया ।^५ब्^ यद्यपि तादृग्-आत्मानुभवानन्तरं तद्-अनन्य-बोध्यताकृतौ साधक-शक्तिर् नास्ति, तथापि पूर्वं तद्-अर्थम् एव कृतया सर्वत्राप्य् उपजीव्यया साधन-भक्त्य्-आराधितस्य श्री-भगवतः प्रभावाद् एव तद् अपि तत्रोदयत इति भावः ।
तद् उक्तं वदन्तीत्य्-आदि-पद्यानन्तरम् एव—
तच्-छ्रद्दधाना मुनयो > ज्ञान-वैराग्य-युक्तया । > पश्यन्त्य् आत्मनि चात्मानं > भक्त्या श्रुत-गृहीतया ॥ [भा।पु। १.२.१२] इति।
सत्यव्रतं प्रति श्री-मत्स्यदेवोपदेशे च—
मदीयं महिमानं च > परं ब्रह्मेति शब्दितम् । > वेत्स्यस्य् अनुगृहीतं मे
सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। ८.२४.३८] इति ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तथापि भूमन् यद्यपि विबुध्येत्य् उक्तम् । तथापि तव कथञ्चिन् निर्विशेष-ज्ञानं स्याद् अपि ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं-भूतास् तव गुणा येषां कथयैव भक्तिर् उत्पद्यते, उत्पन्नया च तया सुखेन त्वत्-पद-प्राप्तिः, तथापि किं तव गुण-महिमा इयान् एवेति वक्तुं न शक्य एव ? इत्य् आह—तथापीत्य्-आदि । हे भूमन् ! अपरिच्छिन्न-वैभव ! ते गुणस्य ऐश्वर्यादि-गुण-षट्कस्य महिमानं विबोद्धुम् अर्हति न समर्थो भवति कश्चिद् इति शेषः । अमलानि निर्मलानि अन्तर् अन्तः-करणानि आत्मा च येषां, तैर् विशिष्टोऽपि । विशेषणे तृतीया।
अथवा, आत्मानश् चेति बहु-वचनम् एव । आत्मा च आत्मा च आत्मा च आत्मान इत्य् एक-शेषः । धृति-बुद्धि-स्वभावा आत्मानः । आत्मा यत्नो धृतिर् बुद्धिः स्वभावः इत्य्-आद्य्-उक्तेः । पूर्ववत् तृतीया ।
महि कीदृशं ? अविक्रियात्—विक्रिया विक्रिया विकारस् ताम् अततीति विक्रियात्, न तथा अविक्रियात् विकार-शून्यम् इत्य् अर्थः । तर्हि किं बोध्यं न भवति ? तत्राह—स्वानुभवाद् अनन्य-बोध्यात्मतयैव बोद्धुम् अर्हति, स्वे भक्तास् तेषाम् अनुभवः स्वानुभवो भक्तानुभवस् तस्मात् । अनन्य-बोध्यात्मतया तन्-मात्र-बोध्यात्मकत्वेन बोद्धुम् अर्हति, न चान्यथा नान्य-प्रकारेण । कुतः ? अरूपतः, अनिरूपणात् हेतोः । “रूप निरूपणे” रूपणं रूपम्, न रूपोऽरूपस् तस्मात् । यद् वा, अमलान्तर्-आत्मभिः सात्वतैर् अगुणस्य प्राकृत-गुण-रहितस्य तव महिमा तथा तेनैव प्रकारेणापि प्राप्तः ।
कस्मिन् काले ? अर्हति योग्ये काले भक्ति-सम्पन्नतायां सत्याम् । “अर्ह” प्रशंसायाम् इत्य् अतः शतृ-प्रत्यये रूपम् । कोऽसौ प्रकारः ? इत्य् एवाह—अविक्रियात् अविकारात् स्वानुभवात् अरुपतश् चेत्य् अस्य पूर्ववन् निरुक्तिः । अनन्य-बोध्यात्मतया च भक्तैर् विना नान्येषां बोध्यस् तस्य भावस् तत्ता तया च, अत एव प्रकाराः, न चान्यथेत्य् उपसंहारः ।
अथवा, तव महिमा ब्रह्म अमलान्तर्-आत्मभिः पुरुषैस् तथार्हति, योग्ये काले बोद्धुम् अपि, न तु भवान् दृश्यमान-श्री-विग्रहस् तथा बोद्धुम् अपि । इति तम् एव प्रकारम् आह—अविक्रियाद् इत्य्-आदि पूर्ववत् ।
अथवा, आत्मभिर् आत्म-भूतैर् योगिभिस् तथा तेनैव प्रकारेणापि । कुत्र ? विमलान्तर् विमलेऽन्तः-करणे । कीदृशे ? अर्हति योग्ये । अन्यत् पूर्ववत् ।
अथवा, तव महि महिमानं मा लक्ष्मीर् वहति नान्यः । कीदृशी ? आत्मभिर् यत्न-धृति-बुद्धि-वर्त्मभिर् अन्तर्-विमला अन्तः-शुद्धिमती । कुतः ? स्वानुभवात् । कीदृशात् ? अविक्रियात् अखण्डात्, अरूपात् रूप्यत इति रूपम् । अनिरूप्याद् इत्य् अर्थः । सैवार्हति, नान्य इति को नियमः ? तत्राह—अनन्य-बोध्यात्मतया, तां विनान्येषाम् अबोध्य-स्वरूपतया, न चान्यथा, नान्येन प्रकारेण, सैवार्हति, नान्यः कोऽपीत्य् एवं-रूपेण प्रकारेण यावत् ॥६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं यद्यपि केवलया प्रेम-भक्त्यैव तव साक्षाद् एतत्-स्वरूपानुभवो भवति, तथापि केवल-ज्ञानस्य विगीतत्वाद् भक्ति-मिश्र-ज्ञानम् अपि तव निर्विशेष-ब्रह्म-स्वरूपानुभवे कारणं भवति, किन्तु ज्ञानं च मयि संन्यसेद् इति तद्-उक्तेर् ज्ञानं संन्यासानन्तरम् एवेत्य् आह—तथापीति । यद्यपि केवला भक्तिर् न स्यात्, तद् अपीत्य् अर्थः ।
हे भूमन् ! भूः प्रादुर्भावस् तद्-युक्त-मधुरैतद्-रूप-प्रादुर्भाववन् ! अगुणस्य प्राकृत-गुण-रहितस्य तव महिमा महत्त्वं बृहत्त्व-रूप एको धर्मः—
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । > वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। > ८.२४.३८]
इति त्वद्-उक्तेः, सा ब्रह्मणि स्व-महिमन्य् अपि नाथ [भा।पु। ४.९.१०] इति ध्रुवोक्तेश् च महिम-शब्देन प्रसिद्ध परं ब्रह्म विबोद्धुं स्वयम् एव विबोध्यो भवितुम्, अर्हति पच्यते ओदनः स्वयम् एवेतिवत् कर्मणः कर्तृत्वं, यथा कुठारः स्वयम् एव वृक्षं छिनत्तीत्य् अत्र करणस्य कर्तृत्वं विवक्षितं कम्सान् निमित्तात् ? अमलैः शुद्धैर् अन्तर्-आत्मभिः स्वानुभवात् स्व-कर्मकाद् अनुभवात् ।
नन्व् अनुभवः खल्व् अन्तः-करण-वृत्तिः सा च सूक्ष्म-देह-विकार-मयी निर्विकारं ब्रह्म कथं विषयीकुर्याद् इत्य् अतो विशिनष्टि—अविक्रियात् न विद्यते विक्रिया विकारो यत्र तथा-भूतात् विकारो हि माया-धर्मः स च मायोपरमे कुतः स्यात् ? इति लिङ्ग-देहाभाव एव व्यञ्जितः ।
ननु, तद् अपि ब्रह्मणोऽविषयत्वेनानुभव-विषयत्वानौचित्याद् इत्य् अतः पुनर् विशिनष्टि, अरूपतः रूपं विषयस् तद्-इतरात् विषयाकारत्व-रहितात् ब्रह्माकाराद् इत्य् अर्थः । ब्रह्मणा ब्रह्माकारानुभव-विषयत्वं न दोष इति ।
नन्व् अस्ति किं तद्-बोधे प्रकारान्तरं ? तत्राह—अनन्य-बोध्य आत्मा स्वरूपं यस्य तत् तया नैवान्यथा स विबोध्यो भवितुम् अर्हतीत्य् अन्वयः । यथा विषयाकारानुभव एव शब्द-स्पर्शादीन् विषयीकरोति, न ब्रह्म, तथैव ब्रह्माकारानुभव एव ब्रह्म-विषयीकरोति न शब्दादीन् इत्य् अर्थः ॥६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, भक्त्या विबुध्येत्य् उक्तेर् ज्ञानस्यापेक्ष्यत्वात् तत्-प्रयास-त्यागः कथं ? तत्राह—तथेति । हे भूमन् ! यद्यपि एवं, तथापि हे गुणस्य कारुण्याद्य्-एकतमस्य बहु-पल्लवस्यैवैकस्यापि महिमा माहात्म्य-सम्पदः कश्चिद् अतिप्रयासी विद्वान् अमलैर् विशुद्धैर् अन्तर्-आत्मभिर् अन्तः-करण-वृत्तिभिर् विबोद्धुम् अर्हति, न तु सर्वः ।
चतुर्मुखायुर् यदि कोऽपि वक्ता > भवेन् नरः क्वापि विशुद्ध-चेताः । > स ते गुणानाम् अयुतैकम् अंशं > वदेन् न वा देववर प्रसीद ॥ इति वाराहात् ।
ननु, चक्षुषां रूपम् इव मनसा तन्-महिमा बोध्यास्ते किं तच् छुद्ध्या ? इति तत्राह—न चान्यथेति शुद्धिं विना तद्-बोधो नेत्य् अर्थः । तच्-छुद्धिश् चापेक्ष्या आहार-शुद्धौ सत्त्व-शुद्धिः, सत्त्व-शुद्धौ ध्रुवा स्मृतिः [छा।उ। ७.२६.२] इत्य्-आदि-श्रवणात्, कस्मान् निमित्ताद् इत्य् आह—स्वानुभवात् स्व-कर्तृकाद् अनुभवात् यथा स्वानुभवस् तथैव, न तु सर्वथेत्य् अर्थः । कीदृशात् ? अरूपतः रूपं विषयस् तद्-रहितात् शब्द-स्पर्शादि-विषय-संसर्ग-शून्याद् इत्य्-आदि । अविक्रियात् गुणान्याभिलाषो विक्रिया, तद्-रहितात् । तथानुभवे प्रकारम् आह—अनन्येति । नान्यैर् उपनिष-भिन्नैः प्रमाणैर् बोध्य आत्मा स्वरूपं यस्य तत्तया घ्राणेन गन्ध इवोपनिषदैव तद्-गुणो बुध्यते इत्य् अर्थः । तथा च कृत्स्न-ज्ञाने प्रयासं हित्वा भक्तिर् एकाङ्गापि कार्या, तया विसतन्तुवद् अन्तर्-गत-ज्ञानया हृद्-विशुद्धि-पूर्वा तत्-पद-प्राप्तिर् इति भावः ॥६॥
॥ १०.१४.७ ॥
गुणात्मनस् तेऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर् वा विमिताः सुकल्पैर्
भू-पांशवः खे मिहिका द्युभासः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणात्मानो गुणानाम् आत्मनो गुणाधिष्ठातुस् ते तव पुनर् गुणान् विमातुम् एतावन्त इति गणयितुम् अपि के ईशिरे समर्था बभूवुर् दूरतस् तद्-विशेष-वार्ता । कथम्-भूतस्य तव ? अस्य विश्वस्य हिताय पालनाय बहु-गुणाविष्कारेणावतीर्णस्य । ननु, कालेन निपुणैः किम् अशक्यं ? अत आह—कालेनेति । वा-शब्दो वितर्के । सुकल्पैर् अतिनिपुणैर् बहु-जन्मना महता कालेन भू-परमाणवो विमिता विशेषेण गणिता भवेयुः । तथा खे नभसि मिहिका हिम-कणा अपि तथा द्यु-भासो दिवि नक्षत्रादि-किरण-परमाणवोऽपि ॥७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निपुणाह् सर्वं कर्तुं समर्था इत्य् आशाङ्कते—नन्व् इति । प्रालेयं मिहिकाः चाथ इत्य् अमरः । दिवि भासन्त इति द्यु-भासः गुणा आत्मा स्वरूपं यस्य तसेति गुणानां नित्यत्वम् अप्राकृतत्वं चोक्तम् । तथा च ब्रह्म-तर्के—गुणैः स्वरूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः इति । ईशिरे इहाम्-अभावस् त्व् आर्षः। किं च—
सत्त्वादयो न सन्तीशे > यत्र च प्राकृता गुणाः । > स शुद्धः सर्व-शुद्धेभ्यः > पुमान् आद्यः प्रसीदतु ॥ [वि।पु। १.९.४४] इति वैष्णवे च । > मां भजन्ति गुणाः सर्वे > निर्गुणं निरपेक्षकम् । > सुहृदं सर्व-भूतानां
\ऽ साम्यासङ्गादयो गुणाः ॥[भा।पु। ११.१३.४०] इत्य् एकादशे वक्ष्यति चेति तोषणी ॥७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वरम् अविक्रियाद् इत्य्-आदि प्रकारेण ब्रह्मापि निर्वक्तुं शक्यते, तथापि न ते गुणा इत्य् आह—गुणात्मन इत्य्-आदि । ते तव गुणात्मान्ः सच्-चिद्-आनन्दादि-गुणानाम् आत्मनः कृपा-मैत्री-प्रभृतिकान् गुणान् विमातुं क ईशिरे? न केऽपीत्य् अर्थः । ममेति किं ब्रह्मणो नारायणस्य वा ? तराह—अस्य पुरो दृश्यमानस्य हिताय भक्तानाम् मङ्गलायावतीर्णस्य ॥७॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषतः स्वयम् अवतीर्णस्यास्य तव गुणानां माहात्म्यम् इयत्त्वम् अपि न केनचिद् अपि ज्ञातं स्याद् इत्य् आह—गुणात्मन इति । गुणानाम् आत्मनश् चेतयितुः पूर्वम् अप्रकटनेन प्रसुप्तानाम् अपि गुणानाम् अधुना प्रकटनेन प्रबोधनाद् गुणान् प्रकटयत इत्य् अर्थः । तथाभूतस्यापीति गुणानां व्यक्ततया विमान-योग्यतोक्ता, विशेषेणैतावन्-माहात्म्या इयत् सङ्ख्यावन्तश् चेति मातुं गणयितुं क ईशिरे ? अपि तु न केऽपीत्य् अर्थः । तत्र हेतुः—अस्य जगतः सर्वेषाम् एव जीवानां हितायावतीर्णस्य । अयम् अर्थः—यस्य जीवस्य येन यथा हितं स्यात्, तथासौ गुणस् तद्-अर्थं प्रकटयितुम् अपेक्ष्यते, तत्र जीवानाम् आनन्त्यं, तत्र च तत्-तत्-स्वभावानाम् आनन्त्यं, तत्राप्य् अवस्थादि-भेदेनानन्त्यं, अतस् तद्-अर्थं गुणानाम् अपि आनन्त्यं, तत्-तद्-विध-भेदेन च परमानन्त्यं स्याद् एवेति तद्-गणना न सम्भवेत् । यैर् विमितास् तेऽपि नेशिरे इति पूर्वेणान्वयः । भू-पांश्व्-आदीनां यथोत्तरं सूक्ष्मतयानन्त्यं ऊह्यम् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गुणात्मान इति । तत्र पूर्वस्मिन्न् अर्थे पूर्वैर् अवतारिका उत्तरस्मिंस् त्व् इयं यथा विशेषतः स्वयम् अवतीर्णस्यास्य तव गुणानां माहात्म्यम् इयत्त्वम् अपि न केचिद् अपि ज्ञातुं स्याद् इत्य् उपक्रमवत् श्री-कृष्ण एवावान्तर-प्रकरणस्याप्य् अर्थं पर्यवसाययति—गुणेति । यद् वा, गुणानाम् आत्मनश् चेतयितुः पूर्वम् अवतारान्तर-जगत्य् अप्रकटनेन प्रसुप्तानाम् अपि गुणानाम् अधुना प्रकटनेन प्रबोधनात् । गुणान् प्रकटयत इत्य् अर्थः । यद् वा, गुणा आत्मानः स्वरूप-भूता यस्येति नित्यत्वम् अप्राकृतत्वं चोक्तम् । तथा च ब्रह्म-तर्के—
गुणैः स्वरूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः । > न विष्णोर् न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥ इति ।
तथा श्री-विष्णु-पुराणे—
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । > स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ [वि।पु। > १.९.४४] इति । > ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः । > भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि।पु। ६.५.७९] > इति ।
पाद्मोत्तर-खण्डे—
योऽसौ निर्गुण इत्य् उक्तः शास्त्रेषु जगद्-ईश्वरः ।
प्राकृतैर् हेय-संयुक्तैर् गुणैर् हीनत्वम् उच्यते ॥ [प।पु। > ६.२५५.३९]
एकादशे च—
मां भजन्त्य् अगुणाः सर्वे निर्गुणं निर्विशेषकम् । > सुहृदं सर्व-भूतानां साम्यासङ्गादयो गुणाः ॥4[भा।पु। > ११.१३.४०]
व्याख्यातं च तैर् एव—अगुणा गुण-परिणामा न भवन्ति, किं तु नित्या इत्य् अर्थः । विशेषेण एतावन्-माहात्म्या इयत्-सङ्ख्यावन्तश् चेति मातुं गणयितुं के ईशिरे ? अपि तु न कोऽपीत्य् अर्थः। तत्र कैमुत्यम् अस्य जगतः सर्वेषाम् एव जीवानां हितायावतीर्णस्य तद्-अर्थं प्रकटित-गुणस्यापि अयम् अर्थः—यस्य जीवस्य येन यथा हितं स्यात्, तथासौ गुणस् तद्-अर्थं प्रकटयितुम् अपेक्ष्यते, तत्र जीवानाम् आनन्त्यं, तत्र च स्वभावानाम् आनन्त्यं, तत्राप्य् अवस्थादि-भेदेनानन्त्यं, अतस् तद्-अर्थं गुणानाम् अपि आनन्त्यं, तत्-तद्-विध-भेदेन परमानन्त्यं स्याद् एवेति । तद्-गणना न सम्भवेत्, किम् उत काल-देशाद्य्-अपरिच्छिन्ने स्व-लोके विहरत इति यैर् विमितास् तेऽपि न ईशिरे इति पूर्वेणान्वयः । यद्यपि भूपांस् त्व् आदीनाम् अपि यथोत्तरं सूक्ष्मतयानन्त्यं, तथापि श्री-सङ्कर्षणादि-ज्ञानेन तद्-गणनम् अपि सम्भाव्यते, ब्रह्माण्डेन परिच्छिन्नत्वात् । अनन्त-कोटि-ब्रह्माण्ड-परमाणु-प्रमाणाश्रय-रोम-कूप-विवर-गवाक्षस्य महा-पुरुषस्याप्य् अंशिनस् तव तत् कथं स्यातिति भावाह् ।
श्लोक-द्वयेऽस्मिन् स-गुणस्य श्री-कृष्णस्यैव महिम्नि दुर्बोधतातिशयो दर्शितः तस्माद् अप्य् अनेन कृत-विवृताव् अस्यापि देव-वपुष इत्य् अत्र निर्गुणस्य ब्रह्मणो नासाव् अङ्गीकृतः । एतद्-द्वयानुसारेण विराट्-प्रस्तावस् तु स्वतो बहिर्-भूत एवेति सोऽपि नादृतः । तस्मात् तैर् अप्य् अस्यापीत्य् आदि-श्लोक-द्वय-व्याख्या-द्वयम् इति पूर्व-पक्षतया दर्शयित्वा, श्लोक-द्वये त्व् अस्मिन्न् उत्तर-पक्षः कृत इति नासामञ्जस्यं मन्तव्यम् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (प्रीति-सन्दर्भः ११७) : तद् एतद् दिङ्-मात्र-दर्शनं, यत आह—गुणात्मन इत्य्-आदि । स्पष्टम् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : गुणात्मन इति । हितावतीर्णस्य कृपया प्रकटित-गुणस्यापि ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वरम् अविक्रियाद् इत्य्-आदि प्रकारेण तव महिमा ब्रह्मा च ज्ञातुं शक्यते, तथापि न तवावतारस्य मत्स्यापि रूपस्यापि गुणान् विमातुं क ईशिरे? न केऽपीत्य् अर्थः । भवतस् तु यन् नेशेरंस् तत् किम् उतेत्य् अर्थः । तव कीदृशस्य ? हितावतीर्णस्य हितं स्व-शक्ति-प्राकट्यं, क इत्य् अस्य किं-शब्दस्य यच्-छबेन पुनः प्रतिनिर्देशं करोति । कालेन यैर् वेत्य् आदि । सुकल्पैर् योग्यैः सर्वज्ञैर् इति यावत् । अन्यत् सुगमम् ॥७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अप्राकृत-कल्याण-गुण-मयं तवेदं भगवत्-स्वरूपं तु प्रेम-भक्त्या विना विज्ञातुं केऽपि माया-सिन्धूत्तीर्णा अपि विद्यावन्तोऽपि न शक्नुवन्ति यद् इमे जगज्-जना अस्मद्-आदयस् त्वां पश्यतोऽपि न जानन्तीति किं वक्तव्यं ? तव महा-मधुरान् गुणान् अपि सङ्ख्यातुम् अपि न शक्नुवन्ति तन्-माधुर्यानुभव-वार्ता दूरे वर्तताम् इत्य् आह—गुणा आत्मानः स्वरूप-भूता यस्येति गुणानां नित्यत्वम् अप्राकृतत्वं चोक्तम् । तथा च ब्रह्म-तर्के—गुणैः स्वरूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः इति । अपिस् त्व्-अर्थे । गुणात्मनस् तु तव गुणान् विमातुम् एतावन्त इति गणयितुं क ईशिरेशक्नुवन्ति, अपि तु नैव आम्-अभाव आर्षः। अस्य विश्वस्य हिताय संसार-रोग-निवृत्तये अवतीर्णस्य । वेति वितर्के यैः सुकल्पैर् अतिनिपुणैः सङ्कर्षणादिभिर् भू-परमाणवो रेणवोऽपि विमिता गणितास् तथा ततोऽप्य् अधिकाः खे मिहिका हिम-कणा अपि तथा ततोऽप्य् अधिका द्यु-भासो दिवि सूर्यादीनां किरण-परमाणवस् तथापि ते सङ्कर्षणाद्या यान् अद्यापि गायन्तो गायन्तः सीमानं नैवाप्नुवन्तीत्य् अर्थः । यद् वा, गुणे त्रिगुण-मये जगति आत्मा पालनार्थं मनो यस्य तथाभूतस्यापि तव गुणान् विमातुं न ईशिरे किं पुनर् गुणातीत-महा-चमत्कारि-दधि-चौर्यादि-क्रीडात्मन इति ॥७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : समस्तानां गुणानां ज्ञानं तु कस्यापि न भवेत् तेषाम् अनत्याद् इत्य् आह—गुणात्मनः इति, गुना आत्मानः, समस्त-कल्याण-गुणात्मकोऽसौ [वि।पु। ६.५.६४] इत्य्-आदि-श्री-वैष्णवात् । स्वरूपान् अतिरेकिणो यस्य तस्य ते गुणान् विमातुं सङ्ख्यातुम् अपि के ईशाञ्चक्रिरे ? आम्-अभाव आर्षः । तद्-अनुभव-वार्ता तु दूरेऽस्त्व् इत्य् अर्थः । कीदृशस्य ? अस्य जगतो हितायावतीर्णस्य । ननु, निपुणैः कालेन किम् अशक्यं ? तत्राह—कालेनेति । वेति वितर्के । यैः सुकल्पैर् अतिनिपुणैर् महता कालेन भू-पांसवः पृथ्वी-परमाणवो विमिताः सङ्ख्याता भवेयुः । खे नभसि मिहिका हिम-कणा दिवि भासो नक्षत्र-किरणाश् च तैर् अपि शेषादिभिस् त्वद्-गुणा विमिता नेति ॥७॥
॥ १०.१४.८ ॥
तत् तेऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्म-कृतं विपाकम् ।
हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते
जीवेत यो मुक्ति-पदे स दाय-भाक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् भक्तिर् एव सङ्गच्छत इत्य् आह—तत् तेऽनुकम्पाम् इति । सुसमीक्षमाणस् तव कृपा कदा भविष्यतीति बहु-मन्यमानः स्वार्जितं च कर्म-फलम् अनासक्तः सन् भुञ्जान एव, नातीव-तप-आदिना क्लिश्यन्न् एवं यो जीवेत स मुक्तौ दाय-भाग् भवति । भक्तस्य जीवन-व्यतिरेकेण दाय-प्राप्ताव् इव मुक्तौ नान्यद् उपयुज्यत इति भावः ॥८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वम् अनन्त-कल्याण-गुण-निलयो भजतां मोक्षदोऽसि तस्माद् भक्तिर् एवेति । तद् इत्य् उक्तार्थः । हृद्-वाग्-वपुर्भिर् इत्य् अनेन साष्टाङ्ग-नतिर् लक्ष्यते—
दोर्भ्यां पदाभ्यां जानुभ्याम् उरसा शिरसा दृशा । > मनसा वचसा चैव प्रणामोऽष्टाङ्ग ईरितः ॥ [ह।भ।वि। ८.३६०]इति > लक्षणात् ।
इति भाव इति । भक्तिं कुर्वतो जीवतोऽपि मोक्षो, देहावसाने तु तच् छङ्कैव नास्तीति भावः । भुञ्जान एव समये दुःखं सुखं च भगवद्-अनुकम्पा-फलम् एवेदम् इति जानन् । पिता यथा स्व-पुत्रं समये दुग्धं पाययति, निम्बं च भक्षयति । आश्लिष्य चुम्बति, पाणि-तलेन प्रहरति चेत्य् एवं मम हिताहितं पुत्रस्य पितेव मत्-प्रभुर् एव जानाति, न त्व् अहम् । मयि तद्-भक्ते नास्ति काल-कर्मादीनां केषाम् अप्य् अधिकार इति, स एव कृपया सुख-दुःखे भोजयति च स्वं सेवयति चेति विमृश्य, यथा चरेद् बाल-हितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुं [भा।पु। ४.२०.३१] इति पृथुर् इव प्रत्यहं भगवन्तं विज्ञापयन् हृद्-आदिभिर् नमस्कुर्वन् नातीव क्लिष्यन् यो जीवेत, स मुक्तिश् च पदं च तयोर् द्वन्द्वैक्यं, तस्मिन् संसार-मुक्तौ त्वच्-चरण-सेवायां चेत्य् आनुषङ्गिक-मुख्य-फलयोर् दाय-भाग् भवति, यथा पुत्रस्य दाय-प्राप्तौ जीवनम् एव कारणं, तथा भक्तस्य जीवने । तच् च भक्ति-मार्ग-स्थितिर् एव दृतय इव श्वसन्त्य् असु-भृतः [भा।पु। १०.८७.१७] इति वेद-स्तुत्य्-उक्तेर् इति विश्वनाथः ॥८॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : एवं ज्ञान-योगाद् उत्कर्षम् उक्त्वोपसंहरति—तद् इति । तत् तस्माद् आत्म-कृतं स्व-कर्म-विपाकं विविध-फलं भुञ्जान एव, न त्व् अन्यायारभमाणः । दाय-भाग् इति वाचो-युक्त्या मुक्तेर् दायवद् अनपह्नुवनीयत्वाद् आवश्यकत्वम् उक्तम् ॥८॥ [मु।फ। ६.११]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतो भक्तिर् एव श्रेयस्करी, यद्-अर्थं भक्त-हितायावतरसि, अतः सैव कार्येत्य् आह—तत् तेऽनुकम्पाम् इत्य्-आदि । एवं-भूतः सन् यो जीवति, स ते दाय-भाक् । कुत्र ? पदे चरणारविन्दे अमुक्ति अकैवल्यं यथा भवति तथा, नित्य-पार्षदः सन् चरणारविन्द-सेवी भवति ॥८॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुसमीक्षमाणः सुष्ठ्व्-अपेक्षमाणः । एव-शब्दो यथापेक्षम् अग्रेऽप्य् अनुवर्तनीयः । आत्मना कृतम् अजितम् इत्य् अवश्य-भोग्यतोक्ता । अतस् तत्र सुख-दुःखादिकं न मन्तव्यम् इति भावः । विपाकं विविध-कर्म-फलम् । हृद्-वाग्-वपुर्भिर् नमो विदधद् इति तत्रैवासक्तिः कार्या, नान्यत्रेति भावः । मुक्ति-पदं मोक्षो महा-काल-पूरं वा । यद् वा, मुक्ति-रूपं पदं श्री-वैकुण्ठाख्यं स्थानं पादाब्जं वा । यद् वा, अ-कार-प्रश्लेषेण न मुक्तिर् भक्तानां यस्मात् । यन् माहात्म्यामृतार्णव-निमज्जनेन मुक्तिर् लवणाम्बु-कणवत् तुच्छीक्रियते । तस्मिन् पदे पादाब्जे तत्-प्रेम-लक्षणे वा दायो दानम्, तद्-भाक् तद्-दाता भवतीत्य् अर्थः । हृद्-वाग्-वपुर्भिर् इत्य् अस्यात्रैव वान्वयः । ततश् च हृदा दाय-भाक् सङ्कल्प-मात्रेणैवान्येभ्यो मुक्ति-पदं ददाति, तथा वचन-मात्रेण देह-स्पर्शनादिना चेत्य् ऊह्यम् ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् त इति । एव-शब्दो यथाऽपेक्ष्यम् अग्रेऽप्य् अनुवर्तनीयः आत्मना कृतम् अजितम् इत्य् अवश्य-भोग्यतोक्ता । अतस् तत्र सुख-दुःखादिकम् अमन्यमान इत्य् अर्थः । विपाकं विविध-कर्म-फलम् । पुरेह भूमन्न् [भा।पु। १०.१४.५] इत्य्-आदि-रीत्या तद्-विध-कथयाभिरुचिती-कृताय तुभ्यं हृद्-वाग्-वपुर्भिर् नमो विदधद् इति तत्र त्व् आसक्तिं कुइर्वन्न् इति भावः । उपलक्षणं चैतद् दैन्यात्मकस्य भक्तान्तरस्य मुक्ति-नामकं पदं चरणारविन्दं,
येनापवर्गाख्यम् अदभ्र-बुद्धिः > भेजे खगेन्द्र-ध्वज-पाद-मूलं [भा।पु। १.१८.१६] इति प्रथमे ।
यद् वा, अत्र सर्गो विसर्गश् च [भा।पु। २.१०.१] इत्य् आदौ नवम-पदार्थ-रूपाया मुक्तेर् अपि पदे आश्रये दशम-पदार्थ-रूपं, दशमे दशमं लक्ष्यं [भावार्थ-दीपिका १०.१.१] इत्य्-आदि-निर्णीते त्वयि स दाय-भाक् भवति भ्रातृ-वण्टन इव त्वम् एव तस्य दायत्वेन वर्तसे, अतो वराक्या मुक्तेर् वा का वार्तेत्य् अर्थः । अत्र तद्-व्याख्यायां नान्यद् इति बुद्धि-पौरुषादिकं निषिद्धं तद् विनापि जीवतः पुत्रस्य दाय-प्राप्ते अत्रापि जीवत्वं भक्ति-मार्ग-स्थितत्वं ज्ञेयम् । दृतय इव श्वसन्त्य् असु-भृतः [भा।पु। १०.८७.१७] इत्य्-आद्य्-उक्तेः ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (भक्ति-सन्दर्भः (३०३) : तद् एतद्-वन्दनं यथा—तत् तेऽनुकम्पाम् इति । यस्माद्, गुणात्मनस् तेऽपि गुणान् विमातुं [भा।पु। १०.१४.७] इत्य्-आदिना तादृशत्वम् उच्यते । तत् तस्मात् । नमो नमस्कारम् । मुक्ति-पदे नवम-पदार्थस्य मुक्तेर् अपि आश्रये परिपूर्ण-दशम-पदार्थे । यद् वा, मुक्तिर् इह पञ्चम-स्थ-गद्यानुसारेण5 प्रेमैव, तत्-पदे तद्-विषये परिपूर्ण-भगवल्-लक्षणे त्वयि दाय-भाग् भवति । भ्रातृ-वण्टन इव त्वं तस्य दायत्वेन वर्तस इत्य् अर्थः । मुक्ति-मात्रं तु सकृन् नमस्कारेणैवासन्नं स्यात् । यथा विष्णु-धर्मे—
दुर्ग-संसार-कान्तारम् अपारम् अभिधावताम् । > एकः कृष्णे नमस्कारो मुक्ति-तीरस्य देशिकः ॥ इति ।
तत् ते इत्य् अत्र सुसमीक्षमाणः इति टीका । यद् वा प्रतिक्षणं निरुपाधि-कृपयैव प्रभुणा तथा तथा क्रियमाणाम् अनुकम्पां सुष्ठु-रूपाम् ईक्षमाणस् तत्रानन्दीभवन् तां सम्यक् पश्यन् विभावयन् तथा हृदा यद् वा वाचा यद् वा वपुषा नमो विदधज् जन इत्य्-आदि व्याख्या ज्ञेया । नमस्कारेऽप्य् अपराधाश् चैते परिहर्तव्याः विष्णु-स्मृत्य्-आदि-दृष्ट्या । ये खलु एक-हस्त-कृतत्व-वस्त्रावृत-देहत्व-भगवद्-अग्र-पृष्ठ-वाम-भागात्यन्त-निकट-गर्भ-मन्दिर-गतत्वादि-मयाः ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत् ते इति ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतः केऽपि ते तत्त्वं न जानन्त्य् एव बहिरङ्गत्वात् । भक्तास् तु यत् किञ्चिज् जानन्ति अन्तरङ्गत्वात् । न यावद् इति तत्-प्रशंसाम् आह—तत् तेऽनुकम्पाम् इत्य्-आदि । तत् तस्मात् ते तव्आनुकम्पाम् अनुग्रहं सुष्ठु सम्यक्त्-प्रकारेणेक्षमाणोऽनुभवन् । सर्वे दर्शनार्था ज्ञानार्थाः । हृद्-वाग्-वपुर्भिस् ते तुभ्यं नमो विदधत् काय-वाङ्-मनोभिर् भजन् यो जीवेत जीवति, स मुक्ति-पदे मुक्ति-लक्षणे नित्य-पार्षद-रूपे दाय-भाक् । अथवा, अमुक्ति अकवैलयं यथा स्यात् तथा पदे चरणारविन्दे दाय-भाक् । ममोपास्यम् इदम् एवेति मम-कार-परस्परं दाय-भाग् भवति । अथवा, मुक्ति-पदे मुक्ति-रूपे पदे स दाय-भाक् खण्डन-कृद् भवति । दो अवखण्डदे इति घञि रूपम् । इतः परं मुक्ति-सुखम् अन्यन् नास्तीति निश्चिनोति ।
ननु, कथम् एवं पूर्व-कर्म-भोगे दुर्निवारे सति तेन बाध्यमानो हृद्-वाग्-वपुर्भिर् जनो मां भजताद् इत्य् आह आत्म-कृतं विपाकम् अभुञ्जान एव । तवानुकम्पानुभवेनैव तस्य प्रारभ्द-क्षयात् तद्-अभोगः ॥८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवम् अन्यत् सर्व-साधनं परित्यज्य भक्तिम् एव कुर्वंस् त्वां लभते इति प्रकरणार्थोऽवगतस् तत्र कीदृशः सन् कुर्याद् इत्य् अपेक्षायाम् आह—तत् ते इति । यस्माद् एवं तत् तस्माद् आत्म-कृतं विपाकं धर्मस्य ह्य् आपवर्गस्य नार्थोऽ र्थायोपकल्पते [भा।पु। १.२.९] इत्य् अत्र प्रतिपादयितुं भक्तेर् अप्य् अननु, संहितं फलं सुखं, तद्-अपराध-फलं दुःखं च भुञ्जान एव तं तव्आनुकम्पां सुष्ठु-सम्यग्-ईक्षमाणः समये प्राप्तं सुखं दुःखं च भगवद्-अनुकम्पादि-फलम् एवेदम् इति जानन् । पिता यथा स्व-पुत्रं समये समये दुग्धं निम्ब-रसं च कृपयैव पाययति । आश्लिष्य चुम्बति पाणि-तलेन प्रहरति चेत्य् एवं मम हिताहितं पुत्रस्य पितेव मत्-प्रभुर् एव जानाति, न त्व् अहं । मयि त्वद्-अभक्ते नास्ति काल-कर्मादीनां केषाम् अप्य् अधिकार इति स एव कृपया सुख-दुःखे भोजयति च स्वं सेवयति चेति विमृश्य, यथा चरेद् बाल-हितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुं [भा।पु। ४.२०.३१] इति । पृथुर् इव प्रत्य् अहं भगवन्तं विज्ञापयन् हृदादिभिर् नमस्कुर्वन् नातीव क्लिष्यन् यो जीवेत स मुक्तिश् च पदं च तयोर् द्वन्द्वैक्यं तस्मिन् संसारान् मुक्तौ त्वच्-चरण-सेवायां चेत्य् आनुषङ्गिक-मुख्य-फलयोर् दाय-भाग् भवति, यथा पुत्रस्य दाय-प्राप्तौ जीवनम् एव कारणं तथा भक्तस्य जीवनं तच् चेह भक्ति-मार्गे स्थितिर् एव, दृतय इव श्वसन्त्य् असु-भृतो यदि तेऽनुविधा [भा।पु। १०.८७.१७] इत्य् उक्तेर् इति भावः ॥८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तस्माज् ज्ञाने प्रयासं हित्वा भक्तिर् एव यथा-शक्ति कार्येत्य् आह—तद् इति । ते अनुकम्पा कदा स्याद् इति सुष्ठु समीक्षमाणः आत्म-कृतं स्वार्जितं विपाकं कर्म-फलं सुख-दुःखं स्वामिनैव पायस-निम्ब-रसं पित्रेव हितेच्छुना दत्तं भुञ्जान एव ह्रद्आदिभिर् नमो विदधत् कुर्वन् व्रतादिभिर् नातीव क्लिश्यन् यो जीवेत सत्-सम्प्रदाये तिष्ठेत्, स मुक्तिश् च पदं च तयोर् द्वन्द्वैक्यं तस्मिन् मोक्षे तद्-अङ्घ्रि-सेवने च दाय-भाक् भवेत्, जीवन्न् एव हि पितुः सम्पत्तौ दायं भजेन् नाजीवन्न् एव वेदोक्त-तद्-भक्ति-वर्त्मनि तिष्ठंस् तद्-अङ्घ्रि-दाय-भाक् नान्य इति भावः ॥८॥
॥ १०.१४.९ ॥
पश्येश मेऽनार्यम् अनन्त आद्ये
परात्मनि त्वय्य् अपि मायि-मायिनि ।
मायां वितत्येक्षितुम् आत्म-वैभवं
ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं स्तुत्वा भगवन्तं क्षमापयितुं स्वापराधं निवेदयति—पश्य इति । हे ईश ! मेऽनार्यं दौर्जन्यं पश्य । यद् अहं मायिनाम् अपि मायिनि विमोहके त्वय्य् अपि स्व-मायां प्रसार्य आत्म-वैभवम् आत्मैश्वर्यम् ईक्षितुम् ऐच्छम् अभिलषितवान् । अहो एवं कर्तुं त्वय्य् अहं कियान् ? न किञ्चित् । यथाग्नेर् उद्भूता ज्वाला अग्नौ न किञ्चित् तद्वद् इति ॥९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् तदा । ईक्षितुं द्रष्टुम् । अहं तु भक्ति-लेशम् अपि न कुर्वेऽपि त्व् अपराध-पुञ्जम् इति सानुशयम् आह—हे ईश ! इति ॥९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भक्ताभावे यद् दूषणं, तत्-स्वाचरितेनैव दर्शयति—पश्येश इत्य्-आदि । त्वय्य् अपि परमात्मनि आत्मनोऽपि ब्रह्मणोऽपि परे ॥९॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पश्ये इत्य् अनार्यस्य प्राकट्यादिकं बोधितम् । हे ईश ! इति स्व-प्रभौ तत्र च अनन्ते अपरिच्छिन्न-माहात्म्ये, तत्राप्य् आद्ये पितरि, तत्रापि परमात्मनि परम-गुरौ, हृदि सर्व-वेद-प्रकाशनात्, तत्रापि मायिनाम् अपि मायिनि, तत्रापि त्वयि श्री-कृष्णेऽपीति माया-विस्तारणस्यायोग्यता, तत्रापि यथोत्तरम् आधिक्येनोक्ता । आत्मनस् तव वैभवं माहात्म्यम् ईक्षितुम् ऐच्छं, द्रष्टुं मञ्जु-महित्वम् अन्यद् अपि [भा।पु। १०.१३.१५] इत्य् उक्तेः । हि निश्चये खेदे वा । कियान् इति यद्यपि एवं तत्त्वतोऽपराधो न स्यात् । तथाप्य् एवम् अपि कर्तुं को वा वराकोऽहम् ? इत्य् अर्थः ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र ज्ञानस्याप्रयोजकत्वे स्वम् एव दृष्टान्तीकुर्वंस् तत्रैव स्वापराधम् अपि क्षमापयितुम् उपक्रमते—पश्य इति । आर्यः सुजनः, तस्य भाव आर्यं, तत् तु विज्ञत्वम् अपि क्रोडीकरोति । अतस् तद्-विपरीतं दौर्जन्यं मूढत्वं च्आनार्यं पश्य इति तस्य प्राकट्यादिकं बोधितम् । तत्र ईशे स्व-प्रभौ, तत्र च आद्ये पितरि, त्वय्य् अपि इति दौर्जन्यम्, अनन्ते अपरिच्छिन्न-महिमनि, परमात्मनि आत्मनोऽप्य् आत्मनीति मूढत्वं तत्-तद्-अज्ञानत्वेऽपि मायि-मायिनि मायां वितत्य इति परम-मूढत्वम् । किं तत् ? आत्मनस् तव वैभवं माहात्म्यम् ईक्षितुम् ऐच्छं, यद् द्रष्टुं मञ्जु-महित्वम् अन्यद् अपि [भा।पु। १०.१३.१५] इत्य् उक्तेः । हि निश्चये ।
ननु, मम माहात्म्यं द्रष्टुं चेत् तर्हि को दोषः ? तत्राह—त्वन्-माहात्म्यं द्रष्टुं तत्रापि मायां वितत्य द्रष्टुं कियान् को वराकोऽहम् ? इत्य् अर्थः । कियत्त्वे दृष्टान्तः अग्नौ अर्चिर् इव इति। यद् वा, आत्मनः स्वस्य वैभवं द्रष्टुम् इति दैन्येन पूर्वार्थम् आच्छाद्य प्रोक्तम् ॥९॥
———————————————————————————————————————
लोचन-रोचनी २.४.१९**[अपराधात् विषादः]:** आर्यः सुजनः, तस्य भाव आर्यं, अतस् तद्-विपरीतं दौर्जन्यम् अनार्यम् । किं तत्? आत्मनस् तव वैभवं माहात्म्यम् ईक्षितुम् ऐच्छं यत्, द्रष्टुं मञ्जु महित्वम् [भा।पु। १०.१३.१५] इत्य्-उक्तेः । नन्व् एवं चेत्, तर्हि को दोषः ? तत्राह—त्वन्-माहात्म्यं द्रष्टुं तत्रापि मायां वितत्य द्रष्टुं कियान् को वराकोऽहम् इत्य् अर्थः । कियत्त्वे दृष्टान्तः—अग्नौ अर्चिर् इव इति ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पशेति, आर्यः सुजनस् तस्य भाव आर्यं, तेन विज्ञत्वम् अपि गम्यते । तद्-विपरीतं मूढत्वं च तत् तद् दौर्जन्यम् आह—आद्य त्वय्य् अपि इति । मूढत्वम् अनन्ते परात्मनि इति परम-मूढत्वं मायि-मायिनि मायां वितत्य इति यद्यपि द्रष्टुं मञ्जु महित्वं [भा।पु। १०.१३.१५] इत्य् उक्तं, तत्रापि स्व-गर्वः पर्यवस्यतीत्य् आह—आत्मेइति । कियत्त्वे दृष्टान्तः—अग्नौ अर्चिर् इव इति । विष्णोस् तु त्रीणि रूपाणि [सात्वत-तन्त्र] इत्य्-आद्य्-अनुसारेण प्रथम-पुरुषतया स्तौति ॥९.१०॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, त्वम् अपि यद् भक्तत्वाद् दाय-भाग् एवासि ? मैवं, यदि भक्त एवाभविष्यम्, तदा कथम् एवम् अतिमौग्ध्यं मेऽभविष्यद् इति स्व-मौग्ध्यं प्रदर्शयति—पश्येश मे इत्य्-आदि । हे ईश ! मे मम अनार्यं मौढ्यं पश्य । किं तत् ? इत्य् आह—त्वय्य् अपि इति त्वयापि अनन्ते आद्ये परमात्मनि मायां वितत्य आत्म-वैभवम् ईक्षितुम् ऐच्छं मायिनाम् अपि मायिनि मायिनोऽपि मोहयितुं समर्थे । नन्व् अहम् इव त्वम् अपि एकोऽसि ? नेत्य् आह—हि इत्य्-आदि । हि निश्चितम् । अहं कियान् क्षुद्र एव ? तत्र दृष्टान्तः—अग्नौ सति अर्चिर् इव, अग्न्य्-आद्य्-अपेक्षया अर्चिः क्सुद्र इव ॥९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहं तु भक्ति-लेशम् अपि न कुर्वे, प्रत्युतापराध-पुञ्जम् एवेति सानुतापम् आह—पश्य इति । हे ईश ! मे अनार्यम् आर्यः सुजनो विज्ञश् च, तस्य भाव आर्यं, तद्-विपरीतम् अनार्यं दौर्जन्यं मौढ्यं च पश्य इत्य् अवधार्य समुचितं दण्डं क्षमां वा कुरुष्व, अन्यथा मादृशानां दौर्जन्य-मौढ्ये एव वर्धिष्येते इति भावः । किं तद् दौर्जन्यं मौढ्यं च ? इत्य् अत आह—आद्ये स्व-कारणत्वात् पितरि, तत्रापि त्वयि सुखेन सहचरैः सह भुञ्जान एवेति दौर्जन्यम् अनन्ते अपरिच्छिन्नैश्वरे परात्मनि आत्मनोऽप्य् आत्मनीति मूढत्वं मायि-मायिनि इति परम-मूढत्वम् । एवम्-भूतेऽपि त्वयि मायां प्रसार्य आत्मैश्वर्यम् ईक्षितुम् अहम् ऐच्छं । हि अहो अहं त्वयि कियान् किम्-परिमाणकः अर्चिर् ज्वाला यथा महाग्नेर् उद्भूय तम् एव दग्धुम् इच्छेत् ॥९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भक्तस् त्वयि दाय-भाक् अहं त्व् अपराधीति सानुतापि आह—पश्य इति। हे ईश ! मे अनार्यं दौर्जन्यं मौढ्यं च पश्येत्य् विचार्य दण्डं क्षमां वा कुर्व् इत्य् अर्थः । ते द्वे दर्शयति—आद्ये स्व-कारणत्वात् पितरि त्वयि सखिभिः सह सुखेन भुञ्जान इति दौर्जन्यम्, अनन्ते अनवच्छिन्नैश्वर्य-परात्मनि मायिनाम् अपि मायिनि विमोहके इति विमूढत्वम् । ईदृशो मायां वितत्य अहम् आत्मनस् तव वैभवम् ऐश्वर्यम् ईक्षितुम् ऐच्छम् । अहो त्वय्य् एवं कर्तुम् अहं कियान् ? न किञ्चित्, यथा अग्नेर् उद्भूत्आर्चिर् ज्वाला तस्मिन्न् अकिञ्चित् तद्वत् ॥९॥
॥ १०.१४.१० ॥
अतः क्षमस्वाच्युत मे रजो-भुवो
ह्य् अजानतस् त्वत्-पृथग्-ईश-मानिनः ।
अजावलेपान्ध-तमोऽन्ध-चक्षुष
एषोऽनुकम्प्यो मयि नाथवान् इति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रजो-भुवो रजसो जातस्य, अतोऽजानतोऽत एव अजावलेपान्ध-तमोऽन्ध-चक्षुषः अजोऽहं जगत्-कर्ताहम् इति मदेन गाढ-तमो-रूपेणान्धीभूते नेत्रे यस्य, अतस् त्वत्तः पृथग्-ईश-मानिनः । अन्यत्र प्रभुत्वेन वर्तमानोऽपि मयि नाथे सति नाथवान् मद्-भृत्य एवायम् अत एषोऽनुकम्प्य इति मत्वा क्षमस्व इत्य् अर्थः ॥१०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वं महान्, अतो हेतोः क्षमस्व, क्षान्तिर् महीयसी इत्य् उक्तेः । अतो राजसत्वात् । अत एवाज्ञत्वाद् एव । ध्वान्तं गाढान्ध-तमसम् इत्य् अमरः । अन्धीभूत-नेत्रस्य नष्ट-ज्ञानस्य । अतो ज्ञान-हीनस्य अजानत इत्य् अत्र सामान्यतोऽज्ञस्य । इह तु विशेषतोऽज्ञस्येति न पुनर् उक्तिः । इत्य् अर्थ इति—अपराधेऽप्य् अज्ञ-भृत्योपरि कृपैवोचितेति भावः ॥१०॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्माद् अयं ममापराधः क्षन्तव्य एवेत्य् आह—अत इत्य्-आदि । न केवलं ममापराध-क्षमापनम् एव मेऽभिमतम्, अपि त्व् अयम् अनुग्राह्योऽपि । तत्र हेतुम् आह—मयि नाथवान् इति यद् भृत्यत्वाद् भृत्यापराधः स्वामिनैव क्षम्यते ॥१०॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो मद्-अतितुच्छत्वान् निजात्यन्त-माहात्म्याच् च क्षमस्व । अतितुच्छत्वम् एव दर्शयति—रज इत्य्-आदि-विशेषणैः । अप्य्-अर्थे हि-शब्दः सर्वैर् एवान्वेति । हे अच्युत इति । यथा कथञ्चिद् अपि प्रपन्नस्य सर्वेऽपराधाः क्षम्यन्त इत्य्-आदि माहात्म्यतः कथम् अपि कुतोऽपि कदापि च्युतिर् नास्ति यस्येत्य् अर्थः । एषोऽहम् अनुकम्प्यः । कथं ? नाथवान् इति दास इत्य् एवम् । ननु, परमेष्ठिनस् तव दास्यं किम्-अर्थं ? तत्राह—मयि भगवति निमित्ते त्वद्-एक-प्राप्त्य्-अर्थम् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, तत्र तत्र हेतुः—अजया मायया अवलेपो व्याप्तिः । स एव वा अन्धतमस् तेन अन्ध-चक्षुषः ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत इत्य् अस्य टीकायां प्रभुत्वेनेति प्रभुं-मन्यत्वेनेत्य् अर्थः । यद् वा, अतो ममातितुच्छत्वात् तवातिमहत्त्वाच् च क्षमस्व । अतितुच्छत्वम् एव दर्शयति—रजो भुव इत्य्-आदिभिः । अजानत इति तमोऽंशश् च व्यञ्जितः । पश्यताम् अपि मच्-चक्षुषां च ताभ्याम् एव सगर्वत्वम् आन्ध्यं च जातम् इत्य् आह—अज- इति । हि प्रसिद्धौ, त्वम् अपि जानासीति भावः । हे अच्युत ! इति त्वम् एवाच्युत-नामा । अतः सकृद् एव प्रपन्नो यः इत्य्-आदि—रूप-व्रताद् अपि तवाच्युतिर् योग्यैव अस्माकं च तन्-नामतानर्हत्वाद् एव तादृश-च्युतिर् अपि न सम्भवतीति भावः । एषोऽहम् अनुकम्प्यः । कथं ? नाथवान् इति दास इत्य् एवम् । ननु, परमेष्ठिनस् तव दास्ये किम्-अर्थं ? तत्राह—मयि भगवति निमित्ते मद्-एक-प्राप्त्य्-अर्थम् इति ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (लोचन-रोचनी **२.४.२४) : [**अपराधेन दैन्यम्] अजो जगत्-कर्ताहम् इति मदेन गाढ-तमो-रूपेण अन्धीभूत-नेत्रस्य, अतस् तत् पृथग् ईश-मानिनः । अन्यत्र प्रभुं-मन्यत्वेन वर्तमानोऽपि । त्रयोऽहम् अनुकम्प्यः । कथं ? नाथवान् दास इत्य् एवम् । ननु, परमेष्ठिनस् तव दास्यं किम्-अर्थं ? तत्राह—मयि भगवति निमित्तं मद्-एक-प्राप्त्य्-अर्थम् इत्य् अर्थः ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्व श्लोकस्य व्याख्या द्रष्टव्या।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्माद् अयं मेऽपराधः क्षन्तव्य एवेत्य् आह—अतः क्षमस्वेत्य् आदि । अतः क्षुद्रत्वात् क्षुद्रयापराधो महद्भिः क्षम्यत एव । हे अच्युत ! रजो-भुवो मे मम अजावलेपान्ध-तमः क्षमस्व । अजा अविद्या तत्-कृतो योऽवलेपो गर्वः, स एवान्ध-तमो गाढं तमः, समासान्त-विधेर् अनित्यत्वाद् अज-भावः । अत एवान्ध-चक्षुषः । अत एव अज्ञानतस् त्वन्-महिमानम् इत्य् अर्थः । कुतः ? त्वत्-पृथग्-ईश-मानित्वात् । अजावलेपान्ध-तमोऽन्ध-चक्षुष इत्य् एकं वा पदम्, तदा क्षमस्वेत्य् अस्य कर्माध्याहार्यम् । क्षमायां युकितिं वक्ति—मयि नाथवान् इति । मदीय एवायम् इति कृत्वा स्वामिना हि भृत्यापराधः क्षम्यते ॥१०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दौर्जन्योचितस्य दण्डस्य मौढ्योचितायाः क्षमायाश् च सम्भवेऽपि महा-कृपालोस् तव क्षमैवोचितेत्य् आह—अत इति । हे अच्युत ! यतस् त्वं महा-कृपालुत्वादि-गुणेभ्यश् च्युति-रहितः । अहं च महा-नीचः । अतो ममापराधं क्षमस्व । नीचे दयाधिके स्पर्धेति नीतेर् इति भावः । महा-नीचत्वम् आह—रजो-भुवः, श्लेषेण रजसो धूलेः पुत्रस्य । अत एव अज्ञस्यात एव त्वत्तः पृथग् एव ईशोऽहम् इत्य् अभिमानवतः । ईश-मानित्वं विवृणोति—अजावलेपः अजन्यत्व-मद एव्आन्ध-तमः समात्सान्ताभाव आर्षः । तेनान्धानि चक्षूंषि यस्य तेन मयि त्वत्-कारुण्य-चन्द्रोदयेनैव मद्-गर्व-तमस्य् अपहृते सति त्वं दृश्यो भविष्यसि, नान्यथेति भावः । केन विचारेण क्षमे ? इति चेत् तत्राह—एष ब्रह्मा अनुकम्प्यः मद्-अनुकम्पार्हः, यतोऽन्यत्र नाथत्वाभिमानवान् अपि मयि तु नाथवान् दास एव । यद् वा, मौढ्यान् मय्य् अपि स्वातन्त्र्यं कुर्वन्न् अपि वस्तुतो मन्-मायाधीनत्वाद् अधीन एवेति मत्वा । पर-तन्त्रः पराधीनः परवान् नाथवान् इत्य् अमरः ॥१०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : दण्डोऽपि मयि क्षमैव ते महा-कृपालुत्वाद् भविष्यतीत्य् आह—अत इति । हे कारुण्याद् अच्युत ! रजो-भुवो रजो-गुणाश्रयस्य अतोऽजानतोऽज्ञस्य अज-परेश-पुत्रो जगत्-कर्ताहम् इति योऽवलेपो गर्वस् तद्-रूपेणान्ध-तमसेन गाढ-तिमिरेण समासान्ताभाव आर्षः । अन्धानि चक्षूंषि यस्य अतस् त्वत्-पृथग्-ईश-मानिनो मे अपराधं क्षमस्व । केन विमर्शेन क्षमे ? तत्राह—एष विरिञ्चो ममानुकम्प्यः, यतोऽन्यत्र स्वतन्त्रत्वेन वर्तमानोऽपि मयि मद्-अन्तिके नाथवान् पर-तन्त्रो भृत्य एवेत्य् अर्थः । पर-तन्त्रः पराधीनः परवान् नाथवान् इत्य् अमरः ॥१०॥
॥ १०.१४.११ ॥
क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू-
संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः ।
क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या-
वाताध्व-रोम-विवरस्य च ते महित्वम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, ब्रह्माण्ड-विग्रहस् त्वम् अपीश्वर एव ? इति चेत् तत्राह—क्वाहम् इति । तमः प्रकृतिः, महान् महत्-तत्त्वम्, अहङ्कारः, खम् आकाशः, चरो वायुः, अग्निः, वार् जलम्, भूश् च । प्रकृत्य्-आदि-पृथिव्य्-अन्तैर् एतैः संवेष्टितो योऽण्ड-घटः स एव तस्मिन् वा स्व-मानेन स्अप्त-वितस्तिः कायो यस्य सोऽहं क्व ? क्व च ते महित्वं ? कथम्-भूतस्य ? ईदृग्-विधानि यान्य् अविगणितान्य् अण्डानि, त एव परमाणवः, तेषां चर्या परिभ्रमणं तद्-अर्थं वाताध्वानो गवाक्षा इव रोम-विवराणि यत्र तस्य तव । अतोऽतितुच्छत्वात् त्वयानुकम्प्योऽहम् इति ॥११॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्माण्डं विग्रहे वपुषि यस्य स त्वं ब्रह्माण्डाविर्भावयितापीश्वर इति चेद् भवद्-उक्तिः स्यात्, तत्र तद्-उक्तौ ब्रह्माह । तद्-अन्तर्गत-प्रतीतेस् तस्मिन्न् अण्डे घटे वा । वितस्तिर् द्वादशाङ्गुलम् इत्य् अमरः । द्वौ क्व-शब्दौ महद्-अन्तरं सूचयतः । ईदृग्-विधानि मत्-स्वरूप-भूत-ब्रह्माण्ड-सदृशानि, मद्-अधिकरणी-भूताम्बु-सदृशानि वा । त एवेति विधेयापेक्षं पुंस्त्वम् । तद्-अर्थं भ्रमणार्थम् । वातायनं गवाक्षोऽथ इत्य् अमरः । यतस् त्वं महान्, अहं न अतो हेतोः । तेन ममैश्वर्यं पराक्रमो वा त्वां प्रति शलभस्य गरुडं प्रतीव न गणनार्हम् इति भावः ॥११॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : त्वं ब्रह्माण्डाधिकारी, अहं गोप-बालकः । कथं मयि नाथवान् ? इत्य् आह—क्वाहम् इत्य्-आदि । अत्यन्तासम्भावनायां क्व-द्वयम् । हे नाथ ! सम्यग् उक्तम्, किन्तु यद्य् अहम् अधुना कोटि-कोटि-ब्रह्माण्डाधिकारिणो मद्-अतिरिक्तान् प्रत्येक-बालक-पदोपसेविनो नालोकयिष्यम्, तदायं सन्देहोऽभविष्यद् इति मद्-वाक्यार्थः ॥११॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो ममातितुच्छतमत्वाद् अहं परम-महत्तमे त्वय्य् अपराधं क्षमापयितुम् अपि नार्हामीत्य् आह—क्वाहम् इति । ब्रह्माण्डस्य घट-रूपकत्वं श्री-भगवन्-माहात्म्यापेक्षयातितुच्छत्वाभिप्रायेण । महित्वं माहात्म्यं, अतः स्वयम् एवानुकम्पां कर्तुम् अर्हसीति भावः ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो अतितुच्छतमोऽहं परम-महत्तमं त्वां क्षमापयितुम् अर्हामि, यत आस्तां तावत् सर्व-प्रपञ्च-व्यापक-वासुदेवत्वं सर्व-प्रपञ्च-नाथत्वेऽपि त्वत्तो मम बह्व्-अन्तरम् इति वक्तुं सङ्कर्षण-विशेष-महत्-स्रष्टृ-प्रथम-पुरुषत्वेन स्तौति—क्वाहम् इति । ब्रह्माण्डस्य घट-रूपकत्वं स्वल्प-कालत एव नश्वरताभिप्रायेण कायस्य सप्त-वितस्तित्वं निकृष्ट-पुरुषत्व-विवक्षया महा-पुरुषस्य तु नव-वितस्तित्वम् अवात मुहुः सृष्टि-प्रलययोर् निष्क्रम-प्रवेशाभ्याम् ईदृग्-विधेत्य्-आद्य्-उक्तं रोम-विवरत्वम् । तद् उक्तं श्री-विष्णु-पुराणे—यस्यायुतायुतांशांशे विष्णु-शक्तिर् इयं स्थिता [वि।पु। १.९.५३] इति महित्वं माहात्म्यम् । अतः स्वयम् एवानुकम्पां कर्तुम् अर्हसीति भावः ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भ (३०] तद् एवं परिच्छिन्नस्यैव तद्-आकारस्य विभुत्वं पुनर्-विद्वद्-अनुभवेनोक्त-न्यायेन दर्शयितुं प्रकरणम् आरभ्यते । तत्रैकादश-पद्यान्य् आह—क्वाहम् इति स्पष्टम् ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : विष्णोस् तु त्रीणि रूपाणीत्य् आद्य् अनुसारेण प्रथम-पुरुषतया स्तौति—क्वाहम् इति ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, त्वं ब्रह्माण्डाधिकारी जगत्-स्रष्टा । अहं गोप-बालकः । कथं मयि नाथवान् असि ? मैवम् । कोऽहं क्षुत्रतमः ? तथा हि, यद् इदं ब्रह्माण्डं तत्र पेश्यां पक्षिपोत इवाहं सप्त-वितस्ति-मात्रम् । एवं-विधानन्त-कोटि-ब्रह्माण्डानि पराणु-रूपेण यद् रोम-कूपेषु तथा-भूतस् त्वम् असीत्य् आह—क्वाहं तमो-महद् इत्य्-आदि । अहं क्व, तव महित्वं च क्व, अहं कीदृशः ? तमः-शब्दो गुण-त्रय-परः । तेन प्रकृतिर् एवोच्यते । तम-आदिभिः खादिभिश् च संवेष्टितो योऽण्ड-घटो ब्रह्माण्ड-भाण्डं तत्र सप्त-वितस्ति-मात्रः कायो यस्य सः, तथा ते । कथम्-भूतस्य ? ईदृग्-विधान्य् उक्त-प्रकाराण्य् अविगणितान्य् असङ्ख्यानि यान्य् अण्डानि ब्रह्माण्डानि तान्य् एव पराणवः परमाणवस् तेषां चर्या सञ्चरणं तस्य वाताध्ववद् गवाक्षवद् रोम-विवरा यस्य । एतेन परिच्छिन्नवद् दृश्यमाणोऽपि परिमाण-त्रय-विलक्षणः परिच्छिन्नोऽपि व्यापकश् चेति तव महित्वं क्व ? अहं वा क्वेत्य् असम्भावनाधिक्ये क्व-द्वयम् । तस्मान् ममायम् अपराधः क्षम्यताम् ॥११॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, विश्व-स्रष्टातिप्रसिद्ध एव न त्वम् ईश-मानी मम तु किम् ऐश्वर्यं तद् ब्रूहीत्य् अत आह—क्वेति । तमः प्रकृतिश् च महांश् च अहम् अहङ्कारश् च खम् आकाशं चरो वायुश् च अग्निश् च वार् जलं च भूश् चेत्य् एभिस् तत्त्वैः संवेष्टितो योऽण्ड-घटस् तस्मिन् पातालादि सत्य-लोकास् तैः स्व-मानेन सप्त-वितस्तिर् निकृष्ट-लक्षणः कायो यस्य सोऽहं क्व, ईदृग्-विधान्य् यान्य् अविगणितान्य् अण्डानि तान्य् एव परमाणवस् तेषां चर्या निष्क्रम-प्रवेश-रूपं परिभ्रमणं तद्-अर्थं वाताध्वानो गवाक्षा इव रोम-विवराणि यस्य तस्य तव महित्वम् ऐश्वर्यं क्वेति ? महत्-स्रष्ट्रा प्रथम-पुरुषेण कृष्णस्यैक्य-विवक्षयोक्तम् । तेन ममैश्वर्यं विक्रमो वा त्वां प्रति शलभस्य गरुडं प्रतीव न गणनार्हम् इति भावः ॥११॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, जगद्-अण्ड-विग्रहः सर्व-कर्ता त्वम् अपीश्वरोऽसीति चेत्, तत्राह—क्वाहम् इति । तमः प्रकृतिर् महान् अहम् अहङ्कारः, खं नभः, चरो वायुः, अग्निस् तेजः, वार् जलम्, भूश् चेत्य् एतैस् तत्त्वैः संवेष्टितो योऽण्ड—घटः, तस्मिन् पातालादि-सत्यान्ते स्व-मानेन सप्त-वितस्तिर् निकृष्टः कायो यस्य सोऽहं क्व, क्व च ते महित्वं, कीदृशस्येत्य् आह—ईदृग्-विधानि यान्य् अविगणितान्य् अण्डानि ते एव पराणवस् तेषां चर्या प्रवेश-निर्गम-रूपः परिभ्रमस् तद्-अर्था वाताध्वानो गवाक्षा रोम्णां विवराणि यस्येति कारणोदयशयेनैक्य-विवक्षयैतत् । तथा च गरुडे शलभस्य् एव त्वयि मे वैभवम् इति ॥११॥
॥ १०.१४.१२ ॥
उत्क्षेपणं गर्भ-गतस्य पादयोः
किं कल्पते मातुर् अधोक्षजागमे ।
किम्-अस्ति-नास्ति-व्यपदेश-भूषितं
तवास्ति कुक्षेः कियद् अप्य् अनन्तः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च गर्भ-गतस्य शिशोः पादयोर् उत्क्षेपणं मातुः किम् अपराधाय भवति लोके ? अस्ति-नास्ति-व्यपदेशाभ्यां भावाभाव-शब्दाभ्यां स्थूल-सूक्ष्म-कार्य-कारण-शब्दैर् वा भूषितम् अभिहितम्, एतेषां शब्दानां भुवि विषय उषितं स्थितम् इति वा । सर्वं वस्त्व् इत्य् अर्थः । हे अधोक्षज ! तव कुक्षेर् अनन्तर् बहिः कियद् अपि किञ्चिन्-मात्रम् अपि किम् अस्ति ? न किञ्चिद् अस्तीत्य् अर्थः । अतः सर्वस्य तव कुक्षि-गतत्वेन ममापि तथात्वान् मातृ-वद् अपराधः सोढव्य इति भावः ॥१२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुकम्प्यत्वे कारणान्तरम् आह—अपि चेति । इन्द्रिय-गोचरी-भूत-पदार्थानाम् अस्तित्वे व्यपदेशेऽपि तद्-अगोचराणां परमाण्व्-आदीनां नास्तित्व-व्यपदेशो मा भूद् इत्य् एतद् अर्थम् आह—स्थूलेत्य्-आदि । भूषित-शब्दस्य कथने वृत्तेर् अनुपलब्धेः प्रकारान्तरेण व्याचष्टे—एतेषां किम् अस्ति नास्तीत्य् एतेषाम् । भुवि लोके, एकत्वं सामान्याभिप्रायं, भूः स्थान-मात्रे कथितो धरण्याम् अपि योषितीति मेदिनी ।
इत्य् अर्थ इति—वस्तु-मात्रस्य लोकान्तर्-गतत्वाद् इति तात्पर्यम् । अक्षेभ्योऽधोऽधोक्षजम् इन्द्रिय-विषयं ब्रह्माण्डं तज् जनयति जानाति वेत्य् अधोक्षजस् तत्-सम्बुद्धौ, तथा हे सर्व-जनक सर्वज्ञ वेति । एतेन सर्वज्ञस्य तव ज्ञापनम् अपि पुनर् उक्तिर् एवेति सूचितम् । यद् वा, अन्तर् मध्ये न विद्यते यत् तद् अनन्तः, सह सुपा इति शास्त्रात् समासः । अन्तर्-मध्येऽर्थेऽव्ययम् ।
इत्य् अर्थ इति—सर्व-जनकत्वात् तवेति भावः । अतः सर्व-जनकत्वात् । तथात्वात् तव कुक्षि-गतत्वात् । इति भावः इति—मातृवद् आनन्द एव विधेयो, न तु कोप इति तात्पर्यम् । अत्र विश्वनाथः—ममापराराधोऽवश्यं सोढव्यो यतस् त्वं माता सर्वस्य त्वत्-कुक्षि-गतत्वात् पिताहम् अस्य जगतो माता धाता पितामहः [गीता ९.१७] इति त्वद्-उक्तेः ॥१२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तर्ह्य् अयम् अपराधः क्षमापयितुम् अशक्य एव ? नैवम् इत्य् आह—उत्क्षेपणम् इत्य्-आदि । उत्क्षेपणं कुक्षि-गतत्वात् सर्वस्य त्वं माता, तर्हि कथम् अयम् अपराधो न क्षन्तव्यः ? ॥१२॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, मादृशैः क्रियमाणोऽप्य् अपराधस् त्वयि न घटेतैवेत्य् आह—उत्क्षेपणम् इति । अधोक्षज ! हे शकटस्याधस् तदीयेऽक्षे पुनर् जातोपम ! तथा च श्री-हरि-वंशे—
अधोऽनेन शयानेन शकटान्तर-चारिणा । > राक्षसी निहता रौद्रा शकुनी-वेश-धारिणी ॥३०॥ > पूतना नाम घोरा सा महा-काया महा-बला । > विष-दिग्ध-स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥३१॥ > ददृशुर् निहतां तत्र राक्षसीं वन-गोचराः । > पुनर् जातोऽयम् इत्य् आहुर् उक्तस् तस्माद् अधोक्षजः ॥[ह।वं। > २.१०१.३०-३२] इति ।
व्याख्यातं च तदीय-टीका-कारैः—अधः शकटस्याक्षे पुनर् जात इवेत्य् अधोक्षजः, इत्य् अनेन व्रज-राज-कुमारता-प्रतिपादनेन महा-लीलत्व-सूचनात् । आगसोऽकल्पने हेत्व्-अन्तर-गर्भं सम्बोधनम् । लोके हि लीलावन्तः कृत-महापराधस्यापि चौरादेर् अपराधं क्षान्त्वा प्रत्युत प्रसादं कुर्वाणा दृश्यन्ते भवता इति तात्पर्यम् ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, मादृशैः क्रियमाणोऽप्य् अपराधस् त्वयि न घटेतैव, यतस् तादृशानन्त-कोटि-ब्रह्माण्ड-नाथोऽपि त्वम् अस्मत्-कृपयैतद् एक-ब्रह्माण्डम् अपि मातेवोदरे विधाय विराजस इति द्वितीय-पुरुष-भेद-हिरण्य-गर्भान्तर्यामि-प्रद्युम्न-विशेष-पुरुषत्वेन स्तौति—उत्क्षेपणम् इति । अधोक्षजेति, स्व-नियम्यत्वेन अधः कृतम् अक्षजम् इन्द्रियं सामर्थ्यं येन हे तादृशेति, ममेन्द्रियस्यापि त्वद्-वशत्वान् न मयि मूढे दीनेऽपराधो गृहीतव्य इति भावः । कुक्षि-शब्देनात्र समष्टि-जीवस्य सूक्ष्म-देह-रूप-हिरण्य-गर्भ-स्थूल-देह-रूप-विराजोर् व्यापकोऽचिन्त्य-शक्ति-मयस् तद्-देह एवोच्यते ।
यद् वा, गर्भ-गतस्य गर्भ-प्रविष्टस्येति अतिगूढता द्योतिता यथा तस्य, तथैव ममेत्य् अर्थः । तस्य पादयोर् उत्क्षेपणं, ताभ्यां ताडनं यथा मातुर् जठरे मातुर् आगसेऽपराधायेति किं कल्पते ? किं तु न कल्पते, न मन्यते, अपि तु हर्षाय भवति, मम गर्भोऽस्तीति जीवन्त्य् एवेत्य् अर्थः, तथा त्वयापि माननीयं नापराधायेति भावः ।
ननु, स तद्-उदर-स्थो वर्तते त्वं किं ममोदरे तिष्ठसि ? इति चेत्, तत्राह—किम् अस्तीति । अस्तीदम् इति मीमांसकाः वदन्ति । नास्तीति साङ्ख्या वदन्ति । विशेषेण अपदेश-मात्र-भूषितं वन्ध्या-पुत्रवत् इत्य् अनीश्वर-साङ्ख्या वदन्ति । एतैः शास्त्र-वादैः प्रत्यक्षतश् च यद् भूषितं प्रकाशितं तत् कियद् अपि तव हिरण्य-गर्भान्तर्यामिणः पुरुषस्य कुक्षेर् उदरस्य अनन्तर् बहिर् एव्आस्ति किं वद, नास्त्य् एव बहिः सर्वाधिष्ठानत्वात् अहम् अपि तर्ह्य् एवास्मीति अपराधः क्षन्तव्यः इति भावः ।
यद् वा, अस्ति नास्ति व्यपदेशेन कथनेन भूषितं स्व-स्व-मत्या शोभितं, तद् अन्यद् अपि कियत् अस्मद्-आदिकं सर्वम् अपि तव कुक्षेर् बहिर् नास्त्य् एवेत्य् अर्थः । अस्ति जन्म नास्ति नाशो व्ययो नास्त्य् एवेत्य् अर्थः । भूषितम् इति ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भ (३१) : अतः सर्वस्य तव कुक्षि-गतत्वेन ममापि तथात्वान् मातृवद् अपराधः सोढव्य इति भावः॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : द्वितीय-पुरुषतया स्तौति—उत्क्षेपणम् इति ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, कथम् एतावान् अपराधः क्षन्तव्यः ? सत्यं यद्यपि महान् एवायम् अपराधस् तथापि त्वयि करुणामये नापराधाय कल्पत इति सदृष्टान्तम् आह—उत्क्षेपणम् इत्य्-आदि । त्वद्-उदर-वर्तित्वात् त्वं सर्वस्यैव मातेत्य् आह—किम् अस्तीत्य् आदि । अस्ति नास्ति व्यपदेश-भूषितम् अस्ति नास्तीति यो व्यपदेशस् तस्य भूर् भूमिस् तत्त्र उषितं स्थितं यत् कियत् यत् किञ्चित् तत् तव कुक्षेर् अनन्तर्-बहिर् इति यावत्, तत्र किम् अस्ति नैवेत्य् अर्थः । भावाभाव-रूपं यत् किञ्चित् तत् सर्वं त्वत्-कुक्षाव् एवेति यावत् । अतो मातृ-गर्भ-स्थ-शिशोः पादोत्क्षेपो मातरि, यथा आगसे न कल्पते, तथा ममापीति क्षन्तुम् उचित एवायम् अपराधः ॥१२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, ममापराराधोऽवश्यं सोढव्यो यतस् त्वं मातेति द्वितीय-पुरुषेण पद्मनाभेन सहैक्यं भावयन्न् आह—उत्क्षेपणम् इति । गर्भ-गतस्य शिशोः पादयोर् उत्क्षेपणं मातुः किम् अपराधाय भवति, नैव अस्तीति नास्तीति वा व्यपदेशेन भूषितं परमतं विखण्ड्य स्व-मत-स्थापनं समुचितोपपत्तिभिः सत्यत्वेन मिथ्यात्वेन वा सु-स्थिरी-कृतं वस्तु जगद्-रूपं कियद् अपि एकत्व-भुवनात्मकम् अपि, किं तव कुक्षेर् अनन्तर्-बहिर् अस्ति, अपि त्व् अन्तर् एव अतो ममापि त्वत्-कुक्षि-गतत्वात् पुत्रस्य मात्रा त्वया अपराधः सोढव्य एव । पिताहम् अस्य जगतो माता धाता पितामहः [गीता ९.१७] इति त्वद्-उक्तेर् इत्य् अर्थः ॥१२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : किं चावश्यं सोढव्यस् त्वया ममापराध इत्य् आह—उद् इति । गर्भ-गतस्य बालस्य पादयोर् उत्क्षेपणं किं मातुर् आगसेऽपराधाय कल्पते ? नैव । कथं मे गर्भगः ? तत्राह—अस्तीति व्यपदेशश् चेतन-वाचि-शब्दः, नास्तीति व्यपदेशस् तु जड-वाची, तयोर् भुवि विषये उषितं स्थितं चिज्-जडात्मकं जगत् तव कुक्षेर् अनन्तर्-बहिः कियद् अपि किञ्चिद् अपि किम् अस्ति नास्त्य् एवेत्य् अर्थः । अस्ति-नास्ति-शब्दयोर् एवम् अर्थता ज्योतींषि विष्णुर् इत्य् आदौ श्री-वैष्णवे प्रसिद्धा । अतो जगद्-अन्तः-पातिनो ममापि त्वत्-कुक्षि-गतत्वान् मात्रा त्वया अपराधः सोढव्य एव । पिताहम् अस्य जगतो माता धाता पितामहः [गीता ९.१७] इति त्वद्-उक्तेर् एव । एतच् च गर्भोदशयेनैक्य-विवक्षया ॥१२॥
॥ १०.१४.१३ ॥
जगत्-त्रयान्तोदधि-सम्प्लवोदे
नारायणस्योदर-नाभि-नालात् ।
विनिर्गतोऽजस् त्व् इति वाङ् न वै मृषा
किन्त्व् ईश्वर त्वन् न विनिर्गतोऽस्मि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, विशेषतोऽपि त्वत्तो मम जन्म प्रसिद्धम् इत्य् आह—जगत्-त्रयेत्य्-आदि । जगत्-त्रयस्यान्ते प्रलये य उदधीनां संप्लवः संश्लेषः, तस्मिन्न् उदे उदके नारायणस्योदरे नभिः, तस्य नालाद् अजो विनिर्गत इति या वाक् सा तावन् मृषा न भवति । वै निश्चितम् । तथापि तु, हे ईश्वर ! त्वत्तोऽहं किं न विनिर्गतो नोत्पन्नोऽस्मि ? अपि तु त्वत्त एवोत्पन्न इत्य् अर्थः ॥१३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्व-जन-प्रख्यात-प्रवृत्तम् आह—किं चेति । विशेषतः सर्वापेक्षया । त्वत्तो भवतः । नालात् पद्म-दण्डात्, नालं नाली-पद्मदण्डे इति सात्वतः । तावद् इदानीम् । इत्य् अर्थ इति—तव नाभ्युद्भूत-कज्जाज् जातोऽपि त्वत्त एव जात इति भावः ॥१३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु, सर्वस्य कुक्षि-गतत्वेनैव यथाहं सर्वस्य माता, तथा तवापि, ततो यदा सर्वस्यापराधः क्षम्यते, तदा तवापि क्षन्तव्य इत्य् आह—जगत्-त्रयेत्य् आदि। अहं त्वत्त एव जातः, सर्वेषाम् इव नान्यः पिता मेऽस्ति । अतः सर्व-जीव-साम्यं कुतो ममेति । अन्यच् च—काचिन् माता कश्चित् पिता, त्वं तु मे पिता च माता च, अतः क्षन्तव्य एवायम् अपराधः ॥१३॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषतश् च साक्षात् पित्रा त्वया पुत्रस्य ममापराधः क्षन्तव्य एवेत्य् आह—जगद् इति । नालं कमल-दण्डः, तेन कमलं लक्ष्यते । यद् वा, नलिने तु नलं मतम् इति विश्वोक्तेर् नलं कमलं स्वार्थे तद्धितः, तस्मात् । यद् वा, तदीय-मध्य-भागाद् इत्य् अर्थः। तु-शब्देनान्यतो विशेषं बोधयति । साक्षात् तस्माद् एवोत्पन्नत्वात् । अत एव वि-शब्दश् च, तत्रापि निर्गत इति चिरम् उदरान्तः-स्थितिः सूचिता । हे ईश्वर्एति पुनर् भगवति पितृ-दृष्टिम् अयोग्यां मन्वानो भक्त्या प्रभुत्वेन सम्बोधयति । यद् वा, हे ईश्वर ! नारायणाद् विनिर्गमेऽपि त्वत्त एव विनिर्गतोऽहम् ईश्वरत्वान् नारायणेन महा-भेदाद् इत्य् अर्थः ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषतश् च कृपया पितॄणाम् अपि प्राप्तेन त्वया क्षन्तव्यम् एवेति द्वितीय-पुरुष-भेदान्तराऽनिरुद्ध-विशेष-विराड्-अन्तर्यामि-पुरुषत्वापि स्तौति—जगद् इति । जगत्-त्रयस्य सावरण-ब्रह्माण्डस्यान्ते प्राकृत-प्रलये तद्-अवसान इत्य् अर्थः । तत्र ब्राह्म-कल्पादौ यद्-उदधि-सम्प्लवस्योदम् अवशिष्टम् उदकं तत्रेत्य् अर्थः । इति तेषाम् अभिप्रायः । यद् वा, जगत्-त्रयस्य योऽन्तः सर्वाधो-भागः, तत्र तद्-उदधि-सम्प्लवोदकं गर्भोदकाख्य एकार्णवस् तत्रेत्य् एवार्थः । व्याख्यान्तरं ब्रह्मणो जन्म-कालं ब्राह्म-कल्पादिकं न बोधयतीति उदर-शब्दस् तदानीं तद्-गतं सर्वं सूचयति । नालं कमल-दण्डः, तेन कमलं लक्ष्यते । यद् वा, नलिने तु नलं मतम् इति विश्व-कोषान् नलं कमलं स्वार्थे तद्धितः, तस्मात् । तु-शब्देनान्यतो विशेषं बोधयति । विनापि मातृ-व्यवधानम् उत्पन्नत्वात् । अत एव वि-शब्दश् च, अत एव निर्गत इति चिरम् उदरान्तः-स्थितिः सूचिता । हे ईश्वरेति पुनर् भगवति पितृ-मातृ-दृष्टिम् अयोग्यां मत्वा ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भ (३२) : किं च, विशेषतस् तु त्वत्तो यज् जन्म प्रसिद्धम् इत्य् आह—जगद् इति । तथापि त्वत् त्वत्तः किं तु नोत्पन्नोऽस्मि ह अपि तु त्वत्त एवोत्पन्नोऽस्मीत्य् अर्थः ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र स्वस्य विशेषतः पुत्रत्वम् एव स्थापयति—जगत्-त्रयेति ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, सर्वस्य कुक्षिगतत्वेन यथाहं माता, तथा तवापि, ततो यदा सर्वस्यैवापराधः क्षम्यते, तदा तवापि क्षन्तव्य इति चेत् सर्वेषां तव कुक्षिगतत्वं परम्परया, मम तु साक्षाद् एवेति विशेषं दर्शयन्न् आह—जगत्-त्रयान्त इत्य्-आदि । जगत्-त्रयास्ते महा-प्रलये य उदधि-संप्लवस् तस्योदके नारायणस्योदर-नाभि-नालाद् विनिर्गतोऽस्मि, जातओऽस्मि।
ननु, त्वम् अज एव, कथं जातोऽस्मीत्य् उच्यते ? नैवम् इत्य् आह—अजस्त्विति वाक्, वै प्रसिद्धम्, न न मृषा ? अपि तु मृषैव । अजस्त्वम् एव नाहम्, नु भो ईश्वर ! त्वद्-विनिर्गतोऽस्मि, त्वत्त एव जातोऽस्मि, नाजः, अतः सर्व-जीव-साम्यं ममेति वाक्यार्थः ॥१३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, पुत्रो हि मातुः कुक्षेर् उद्गच्छति, न तु सदा कुक्षाव् एव तिष्ठतीति चेद्, अत आह—जगत्-त्रयस्यान्ते प्रलये य उदधीनां सम्प्लवः एकी-भावस् तद्-उदके अजस् त्व् इत्य् अन्यो निर्गतोऽस्तु न वास्त्व् इत्य् अर्थः । नु भोस् तद् अपि त्वत्तोऽहं न विनिर्गतः? अपि तु निर्गत एवेत्य् अर्थः ॥१३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, मातुः कुक्षेर् निर्गतः पुत्रो भवति त्वं, कदा मत्-कुक्षेः निर्गतः ? तत्राह—जगत्-त्रयस्यान्ते प्रलये य उदधीनां सम्प्लवः एकी-भावस् तद्-उदके नारायणस्योदरे नाभिस् तस्य नालाद् अजो ब्रह्मा विनिर्गत इति वाक् । वै निश्चये । मृषा न भवति । तथा सति हे ईश्वर त्वत्तः किम् अहं न विनिर्गतः ? अपि तु निर्गत एवेत्य् अर्थः ॥१३॥
॥ १०.१४.१४ ॥
नारायणस् त्वं न हि सर्व-देहिनाम्
आत्मास्य् अधीशाखिल-लोक-साक्षी ।
नारायणोऽङ्गं नर-भू-जलायनात्
तच् चापि सत्यं न तवैव माया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि नारायणस्य पुत्रः स्यास् त्वं, मम किम् आयातं तत्राह—नारायणस् त्वम् इति । न हीति । काक्वा त्वम् एव नारायण इत्य् आपादयति । कुतोऽहं नारायणः ? इति चेत्, अत आह—सर्व-देहिनाम् आत्मासीति । एवम् अपि किं नारायणो न भवसि ? नारं जीव-समूहोऽयनम् आश्रयो यस्य, स तथेति । त्वम् एव सर्व-देहिनाम् आत्मत्वान् नारायण इति भावः । हे अधीश, त्वं नारायणो न हि ? इति पुनः काकुः । अधीशः प्रवर्तकः । ततश् च नारस्यायनं प्रवृत्तिर् यस्मात्, स तथेति पुनस् त्वम् एवासाव् इति । किं च, त्वम् अखिल-लोक-साक्षी अखिलं लोकं साक्षात् पश्यसि । अतो नारम् अयसे जानासीति त्वम् एव नारायण इत्य् अर्थः ॥१४॥
नन्व् एवं नारायण-पद-व्युत्पत्तौ भवेद् एवं तत् त्व् अन्यथा-प्रसिद्धम् इत्य् आशङ्क्याह—नारायणोऽङ्गम् इति । नराद् उद्भूता येऽर्थास् तथा नराज् जातं यज् जलं, तद् अयनाद्यो नारायणः प्रसिद्धः, सोऽपि तवैवाङ्गं मूर्तिः । तथा च स्मर्यते,
नराज् जातानि तत्त्वानि नाराणीति विदुर् बुधाः । > तस्य तान्य् अयनं पूर्वं तेन नारायणः स्मृतः ॥ इति ।
तथा,
आपो नारा इति प्रेक्ता आपो वै नर-सूनवः । > अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ इति च ।
ननु, मन्-मूर्तेर् अपरिच्छिन्नायाः कथं जलाश्रयत्वं ? अत आह—तच् चापि सत्यं नेति ॥१४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हि भगवन्-नाभि-कमलोद्भूतत्वे, स्याः त्वं भवेः । मम नन्दनन्दनस्य किम् आगतं ? तत्र तदा । इति भाव इति । सर्वात्मन एव मात्रात्म-पदार्थत्वम् इति तात्पर्यम् । पुनर् अर्थान्तरेणापि तत् समर्थयति—अधीश इति । त्वम् एव नन्दात्मज-रूप एवासौ नारायण इति । पुनस् तथैवाह—किं चेति । इत्य् अर्थ इति—सर्वज्ञत्वात् त्वम् एव स इति भावः । यशोदा-सूनुर् आशङ्कते—नन्व् इति । व्युत्पत्तौ व्युत्पादने । एवम् उक्त-प्रकारेणाप्य् अर्थो भवेद् एव । तत् नारायणत्वं भगवतः । अन्यथा उक्तार्थ-व्यतिरेकेण प्रसिद्धं न त्व् अनेन पूर्वोक्त-व्युत्पादनेन । आशङ्क्य स्वयम् एव शङ्कित्वा पुनर् आह—एतद् अर्थ-स्वीकारे भगवान् आशङ्कते—नन्व् इति । अपरिच्छिनाया देश-काल-वस्तु-परिच्छेद-त्रय-शून्यायाः, तच् चापि जलाश्रयं वपुर् अपि ॥१४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु, ब्रह्मन् ! यस्य नाभेर् उद्भूतोऽसि, स तु नारायण एव । नाहं ते पितेत्य् आह—नारायणस् त्वम् इत्य्-आदि । ननु, भो ब्रह्मन् ! नारायणोऽपि नाहं, त्वम् अपि तस्य नाभि-नाले नाभूः, सर्वं तन्-मायिकम्, अतो मत्-पुत्रतापि ते मृषा इत्य् आशङ्क्याह—तच् चापि सत्यं, तत् सकलं सत्यम् एव, नैव मायया कृतम्, भवल्-लीलाया मायिकत्वाभावात् । अतस् त्वद्-अङ्गम् एव नारायणः, तद्-उद्भवत्वाद् अहम् अपि ते पुत्रः । अतः पुत्रस्य ममापराधः क्षन्तव्य एवेति निर्गलितोऽर्थः ॥१४॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अङ्गं तवैव रूपम् एकम् । ननु, नर-भू-जलायनाद् उपाधेर् नारायण इति चेत्, तर्ह्य् उपाधेर् असत्यतया नारायणत्वस्याप्य् असत्यता प्रसज्येत ? तत्राह—तद् अपि जलं सत्यम् एव, न च तव मायया । यथ्आङ्गं सत्यं, तथा तद् अपीति अपि-शब्दार्थः । त्वल्-लीलायाः सत्यतयायतस्य तथा तद्-उपकरणत्वेन, अत एव श्री-भगवद्-अवतारान् नराज् जातत्वेन च जलस्यापि सत्यता सिद्धेः, अतो मायिकत्वाभावेन तस्यापरिच्छिन्नत्वान् नारायण्स्याप्य् अपरिच्छिन्नत्वं स्वत एवाव्याहतम् । अथवा, नारायणाद् अप्य् अधिकतमं श्री-कृष्णस्य महिमानम् अनुभूय तस्य नारायणत्वोक्त्या भीतः स-सम्भ्रमम् आह—नारायणस् त्वं नेति । हे अधीश ! ब्रह्माण्ड-मण्डलाधीश्वर ! त्वं नारायणो न भवसि । हि यतो नर-भू-जलायनाद् यो नारायणः, स च तवाङ्गम् अंशः ।
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः > पुरं विराजं विरचय्य तस्मिन् । > स्वांशेन विष्टः पुरुषाभिधानम् > अवाप नारायण आदि-देवः ॥ [भा।पु। ११.४.३]
इत्य् उक्तत्वात् नारायणोऽत्रावतारी श्री-पुरुषोत्तमः पुरुषाभिधानम् अवाप । जल-शायी नारायणो बभूवेत्य् अस्यार्थः । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनं [भा।पु। १०.१४.३२] इति वक्ष्यमाणत्वात् कृष्णस् तु पूर्णः पुरुषोत्तम एव । अत एव त्वम् अखिल-लोक-साक्षी, अखिला लोका भुवनानि, येषु तान्य् अखिल-लोकानि ब्रह्माण्डानि तेषां साक्षी, क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या [भा।पु। १०.१४.११] इत्य्-आद्य्-उक्तत्वात् । तदैव वृन्दावनान्तर् ब्रह्माण्ड-कोटीनां स्वयम् एव दृष्टत्वाच् च । नारायणस् त्व् एकस्यैवास्य ब्रह्माण्डस्य इत्य् अतः सर्व-देहिनां सर्वे देहिनो व्यष्टि-जीवो येषु ते सर्व-देहिनो वैराजास् तेषाम् अनन्त-कोटि-ब्रह्माण्ड-वर्ति-समष्टीनाम् आत्मासि । शेषं पूर्ववत् ।
ननु, —
ब्रह्मा तद्-उपधार्याथ सह देवैस् तया सह । > जगाम स-त्रि-नयनस् तीरं क्षीर-पयो-निधेः ॥ > तत्र गत्वा जगन्नाथं देव-देवं वृषाकपिम् । > पुरुषं पुरुष-सूक्तेन उपतस्थे समाहितः ॥ [भा।पु। १०.१.१९-२०]
इति विराद्-अन्तर्यामिनः क्षीराब्धि-शायिनो नारायणाख्यस्य पुरुषस्यैवोपस्थानात् तस्यैव कृष्ण-रूपेणावतरणात् कृष्ण एव नारायणाख्यः पुरुष इत्य् अवसीयते । तत् कथं त्वं नारायणो नेत्य् उच्यते ? सत्यम् । बाढम् अत्रावधीयताम् ।
जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः । > सम्भूतं षोडश-कलम् आदौ लोक-सिसृक्षया ॥ > यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः । > नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्व-सृजां पतिः ॥ > यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः । > तद् वै भगवतो रूपं विशुद्धं सत्त्वं ऊर्जितम् ॥ [भा।पु। > १.३.१-३] > पश्यन्त्य् अदो रूपम् अदभ्र-चक्षुषा > सहस्र-पादोरु-भुजाननाद्भुतं [भा।पु। १.३.४]
एषाम् अर्थः—भगवान् श्री-पुरुषोत्तम आदौ सर्गादौ स्व-वीक्षया सृष्टैर् महद्-आदिभिर् लोक-सिसृक्षया पौरुषं रूपं जगृहे प्रादुश्चकार । कृत्भावं ? सम्भूतं षोडश-कलं,
अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमेशिता । > तथा कामावशायित्वं वशितेत्य् अष्ट-सिद्धयः ॥[वि।पु। ६.५.७४] इत्य् > अष्ट । > ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । > ज्ञान-वैराग्ययोश् चैव षण्णां भग इतीङ्गना ॥[वि।पु। ६.५.७४] > इति षट् । > लीला-कृपाभिधौ विष्णोः स्व-परार्थौ गुणाव् उभौ । > लीला स्वस्यैव सौख्याय परेषां तु कृपा स्मृता ॥ इति द्वौ ।
एताः षोडश-कला गुणा यत्र, तत् इदम् आद्यं तु महतः पुरुष-रूपम् उक्तम् । द्वितीयं त्व् अण्ड-संस्थितं पुरुष-रूपम् आह—यस्येति । ब्रह्माण्ड-सृष्ट्या तद्-अनुप्रवेशेनाम्भसि शयानस्य यस्य नाभि-ह्रदाम्बुजाद् ब्रह्मासीत् । कीदृशात् ? नाभि-ह्रदाम्बुजस्यावयववैः कर्णिका-पत्रादिभिर् लोक-विस्तरः कल्पितस् तस्मात् । कथम्-भूतं नारायण-रूपं ? तद् आह—तद् वा इति । न ह्य् अम्भः-शायिनः सकाशात् क्षीराब्धि-शायी सोऽन्योऽवतारो मन्तव्यः । यत् तस्यैव लोक-पद्म-प्रविष्टत्वात् । तल् लोक-पद्मं स उ एव विष्णुः प्रावीविशत् सर्व-गुणावभासं [भा।पु। ३.८.१५] इति तृतीय-स्कन्धे हि कथितं पुरुषस्यास्यस, एव प्रथमं देवः कौमारं सर्गम् आस्थितः [भा।पु। १.३.६] इत्य्-आद्या कल्क्य्-अन्ता द्वाविंशत्य्-अवताराः प्रोक्ताः । ततः कृष्णस्यापि तद्-अन्तः-पातित्वेन पुरुषावतारत्वे प्राप्ते विशेषम् आह—एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इति पुंसः पुरुषस्यैते कुमाराद्या अंश-कलास् तद्-विवेकस् तैर् एव कृतः ।
कृष्णस् तु भगवान् इति । तु-शब्दो भिन्नोपक्रमे । यो भगवान् पौरुषं रूपं जगृहे, स एव कृष्णः । तत्रापि स्वयं स्वातन्त्र्येण, न तु दीपाद् उत्पन्न-दीपवत् इति न्यायेन । न तस्यान्यतः प्रादुर्भूतत्वम् । किन्तु मुख्य-दीप-स्थानीयत्वम् एव कृष्णस्य । तथा च ब्रह्म-संहितायां—
यस्यैक-निश्वसित-कालम् अथावलम्ब्य > जीवन्ति लोम-विलजा जगद्-अण्ड-नाथाः । > विष्णुर् महान् स इह यस्य कला-विशेषो > गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.३०] इति ।
इत्य् अस्यावतारि-वरस्याप्य् अवतार-मध्ये गणनं नान्य-लीलाद्य्-अवतार-माधुरी-विशेषापेक्षया ।
ननु, भवतु कृष्णस्य सर्वथा पूर्णत्वम् । क्षीराब्धि-शायिनश् चतुर्थ-व्यूहानिरुद्धत्वेन पद्म-पुराण-मोक्ष-धर्मादिषु कथितत्वात् कथम् अंशत्वं ? सत्यम्, वासुदेवादयश् चत्वारो व्यूहा अस्यासमोर्ध्व-माहात्म्य-भरस्य कृष्णस्यापेक्षयांश-विशेषा एव, तत्राप्य् अनिरुद्धादयो नितराम् एव यस्य महा-नारायणस्यामी व्यूहाः, तस्याप्य् आविर्भाव-पदं कृष्ण इत्य् उक्तम् एव, यस्यैक-निश्वसित [ब्र।स्। ५.४८] इत्य्-आदिना यच् चोक्तं क्षीराब्धि-शायिन उपस्थानात् स एव कृष्ण इति, तत्र क्षीराब्धि-तीर एव तद्-अनुग्रहस्य देवैः सुलभत्वात् तथोक्तम्, न तु तद्-अवतारत्व-विवक्षया । अनुग्रहाय देवानां तत्र सन्निहितो हरिः इति पाद्मादिषूक्तत्वत् । वस्तुतस् तु देवानां तत्रोपस्थानात् सर्वैः स्वरूपैः सम्भूय श्री-पुरुष एवावतीर्ण इति निरूपितम् एव । एतच् च श्री-स्वामि-पादानाम् अपि सम्मतम् एव । तथा च, अथाहम् अंश-भागेन [भा।पु। १०.२.९] इत्य् अत्र तैर् व्याख्यातम्—अंशेन पुरुष-रूपेण भागो मायाया भजनम् ईक्षणं येन तेन इति ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अङ्गं तवैव रूपम् एकम्, अतो मुख्यस्य नारायणस्य तवाङ्गत्वाद् एव, तस्य च नारायणत्वं नाराश्रयत्वे, न तु गौणम् इत्य् आह—तच् चेति । अतोऽचिन्त्य-शक्त्त्यैव तद्-विग्रहस्य परिच्छिन्नापरिच्छिन्नत्वं, न तु नाराश्रयत्वेन नार-परिच्छिन्नत्वम् इति भावः । अन्यत् तैः । तत्र तच् चेति जलाद्य्-आश्रयत्वम् इत्य् अर्थः । यद् वा, पुनस् तत्-प्रस्ताव-व्याजेन तादृशे श्री-कृष्ण एवावान्तर-प्रकरणम् इदं पर्यवसाययति—अधीश ईशो महत्-स्रष्टा प्रथमः पुरुषः । हे स्वयं भगवत्त्वात् तस्याप्य् उपरि-विराजमान ! यथोक्तं द्वितीये—आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४१] इति तैर् व्याख्यं च—परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तकः । यस्य सहस्र-शीर्षा इत्य् उक्तो लीला-विग्रहः स आद्योऽवतारः इति । अतो नराणां तृतीय-पुरुष-भेदानां तत्-तद्-भूत-स्थानां तथा तत्-तद्-अण्ड-संस्थितानां द्वितीय-पुरुष-भेदानां च समूहो नारम्, तच् च तत्-समष्टि-रूपो महत्-स्रष्टैव । ततस् तस्याप्य् अयनं प्रवृत्तिर् यस्मात् इति त्वम् एव मुख्यो नारायण इत्य् अर्थः । अतः सर्व-देहिनाम् आत्मा सर्व-भूत-स्थ-तृतीय-पुरुषः । तथ्आखिल-लोक-साक्षी अण्ड-स्थ-द्वितीय-पुरुषः, तथा नर-भू-जलायनात्, नराज् जातानि तत्त्वानीत्य् [भ।स्। ३५] अनुसारेण ये नर-भुवो महद्-आदयस् तत्-साहित्य-पाठाज् जलं च नर-प्रभवम् एव । ततो आपो नाराः इत्य्-आद्य्-अनुसारेण तद्-रूपश् च यः कारण-जलार्णवस् तद्-आश्रयत्वात् प्रथम-पुरुषश् च यो नारायणः, स त्वं हि निश्चितम् । किन्तु तत्-तद्-रूपो नारायणस् तवाङ्गं त्वं पुनर् अङ्गीत्य् अर्थः । यथोक्तम्—
विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः । > एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् । > तृतीयं सर्व-भूत-स्थं तानि ज्ञात्वा विमुच्यते ॥[सात्वत-तन्त्र] > इति ।
अतस् त्वद्-अङ्गोत्पन्नत्वाद् अपि तवैव पुत्रो भवेयम् इति भावः । एवम् एव द्वितीये, भूमेः सुरेतर [कृष्।स्। ६३] इत्य् आदौ, कलया सित-कृष्ण-केशः जात [भा।पु। २.७.२६] इत्य् अत्र श्री-ब्रह्म-वाक्ये यः सित-कृष्ण-केशः, यत्र तत्-तद्-वर्ण-सूचकौ सित-कृष्णौ केशौ देवैर् दृष्टौ सोऽपि यस्यांशेन स स्वयम् एव जातः सन्न् इत्य् अर्थः । सित-कृष्ण-केशत्वं च मोक्ष-धर्मीय-नारायणोपाख्यान-दर्शित-नाना-रश्मि-च्छवि-मयत्वात् । तथा च सहस्र-नाम-भाष्य-धृतं भारतीयं भगवद्-वचनम्—
अंशवो ये प्रकाशन्ते मम ते केश-संज्ञिताः । > सर्वज्ञाः केशवं तस्मान् माम् आहुर् मुनि-सत्तम ॥ इति ।
एवम् एव च प्रथमे—
जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः । > सम्भूतं षोडश-कलम् आदौ लोक-सिसृक्षया ॥ > यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः । > नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्व-सृजां पतिः ॥ > यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः । > तद् वै भगवतो रूपं विशुद्धं सत्त्वं ऊर्जितम् ॥ [भा।पु। > १.३.१-३] > पश्यन्त्य् अदो रूपम् अदभ्र-चक्षुषा > सहस्र-पादोरु-भुजाननाद्भुतं [भा।पु। १.३.४]
इत्य् उक्त्वा, स एव प्रथमं देवः कौमारं सर्गम् आश्रितः [भा।पु। १.३.६] इत्य्-आदिना द्वाविंशत्य्-अवतारांश् च प्रोच्य कृष्णस्यापि तद्-अन्तः-पातित्वेन साधारण्ये प्राप्ते विशेषम् आह—एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इति । एषाम् अर्थः भगवान् परम-पुरुषोत्तमः लोकानां ब्रह्माण्डानां सिसृक्षया हेतुना पौरुषं रूपं जगृहे प्रादुश्चकार । कथम्-भूतं ? महद्-आदिभिः सम्भूतं मिलितम् अन्तर्-भूत-महद्-आदि-तत्त्वं प्रलयादौ, सोऽन्तः शरीरेऽर्पित-भूत-सूक्ष्मः [भा।पु। ३.८.११] इति तृतीय-स्कन्धात् षोडश-कलं,
श्रीर् भूः कीर्तिर् इला लीला कान्तिर् विद्येति सप्तकम् > विमलाद्या नवेत्य् एता मुख्याः षोडश-शक्तयः ॥
इति भक्ति-विवेकोक्तेस् ताः षोडश-कला यस्य तत् । इदम् आद्यं पुरुष-रूपम् उक्त्वा द्वितीयम् आह—यस्याम्भसीति । ब्रह्माण्ड-सृष्ट्या तद्-अनुप्रवेशेन अम्भसि प्रलय-कालीन-गर्भोदके शयानस्य यस्य कीदृशान् नाभि-ह्रदाम्बुजाद् इत्य् अत आह—यस्याम्भसीति । यस्य नाभि-ह्रदाम्बुजस्य किं स्वरूपं पौरुषं रूपं तद् वै प्रसिद्धौ विशुद्ध-सत्त्वाख्य-स्वरूप-शक्ति-विशेषाभिव्यक्तत्वात् । को ह्य् एवान्यात् [तै।उ। २.७.१] इत्य्-आदि-श्रुतेः । तस्याकारम् आह—पश्यन्त्य् अद इति । तस्यावतारान् आह—स एव गर्भोद-शायि-पुरुष एवेति । अथात्रैव तस्य पुरुषस्याप्य् अवतारिणं श्री-भगवन्तं परिचाययति—एत इति । पुंसः पुरुषस्य एते कौमार-सर्गाद्याः अंश-कला, तद्-विवेकस् तत्र तैर् एव कृतः, कृष्णस् तु भगवान् [भा।पु। १.३.२८] । तु-शब्दो भिन्नोपक्रमे । यः पौरुषं रूपं जगृहे, श्री-कृष्ण एव स इत्य् अर्थः । तत्रापि स्वयम् आत्मनैव, न तु तत्-प्रतिरूपत्वेन दीपाद् दीपवत्, एवं च स्वयं श्री-स्वामि-पादैर् अपि, अथाह्म् अंश-भागेन इत्य् अत्र व्याख्यातम्—अंशेन पुरुष-रूपेण भागो मायाया भजनम् ईक्षणं येन तेन सर्वथा परिपूर्ण-रूपेण इति विवक्षितम् इति । तथा च वर्ण्यते श्री-वसुदेवेन, यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः[भा।पु। १०.८५.३१] इति तैर् एव व्याख्यास्यते च, यस्यांशः पुरुषः, तस्यांशो माया इत्य्-आदि । यथा ब्रह्म-संहितायां श्री-कृष्ण-स्तवे—
यस्यैक-निश्वसित-कालम् अथावलम्ब्य > जीवन्ति लोम-विलजा जगद्-अण्ड-नाथाः । > विष्णुर् महान् स इह यस्य कला-विशेषो > गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.३०] इति ।
तस्मात् साधूक्तं नारायणोऽङ्गम् इति । दृष्टं च तथैव, तावत् सर्वे वत्स-पाला इत्य् आदौ वक्ष्यते च, अद्यैव त्वद्-ऋतेऽस्य [भा।पु। १०.१४.१८] इत्य् आदौ ।
अथ प्रकृतम् अनुसरामः । ननु, मायिक-जलान्तः-पातेन तद् अपि ममाङ्गम् । किम् उ जगद् इव मायिकं ? नहि नहीत्य् आह—तच् च तवाङ्गं सत्यम् एव, न तु माया मायिकम् इत्य् अर्थः । अपीति सम्भावितम् एवेदम् इत्य् अर्थः ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भ (३३) : ननु, यद्य् अहं प्रलयोदधि-शायी नारायणः स्यां, तर्हि मत्तस् त्वम् उत्पन्नोऽसीत्य् अपि घटते । तत् त्व् अन्यथैवेत्य् आशङ्क्याह—नारायण इति । हे अधीश ! ईशस्य सर्वान्तर्यामिणो नारायणस्याप्य् उपरि वर्तमान ! हे भगवन् ! इत्य् अर्थः । हि निश्चितम् । स नारायणस् त्वं नासि, किन्तु नारायणोऽसौ तवैवाङ्गम् अंशः । यद्यपि एवम्, अथापि मम तद्-अङ्गोत्पन्नत्वाद् अङ्गिनस् त्वत्त एवोत्पत्तिर् इति भावः ।
कथम् असौ नारायण उच्यते ? कथं वा मम तस्माद् वैलक्षण्यं ? तत्रह—योऽसौ देहिनाम् आत्मा अन्तर्यामि-पुरुषः । अत एव नारस्य जीव-समूहस्य अयम् आश्रयो यत्रेति तस्य नारायणत्वं, साक्साद् भगवतस् तव तु तद्-अन्तर्यामितायाम् अप्य् औदासीन्यम् इति भावः । किं च, अखिल-लोक-साक्षी, यस्मात् अखिलं लोकं साक्षात् पश्यति, तस्मात् । नारम् अयते जानातीति नारायणोऽसौ, त्वं पुनस् तेनांशेनैव तद्-द्रष्टा, न तु साक्षाद् इति तस्माद् विलक्षण इत्य् अर्थः ।
तर्हि स नारायणस् त्वं न भवसीति ममाप्य् अन्यथा नारायणत्वम् अस्तीति भवताभिप्रेतं, तत् कथं ? इत्य् अस्योत्तरं तेनैव सम्बोधनेन व्यञ्जयति, अधीशेति । ईशः प्रवर्तकः । ततश् च नारस्य अयनं प्रवृत्तिर् यस्मात्, स नारायणः । ततोऽप्य् अधिकैश्वर्याद् अधीशस् त्वम् अपि नारायणः । यथा मण्डलेश्वरोऽपि नृपतिस् तेषाम् अधिपोऽपि नृपतिर् इति । श्री-कृष्णस्यैव साक्षात्-स्वयं-भगवत्त्वेन तस्माद् अपि परत्वं कृष्ण-सन्दर्भे प्रबन्धेन दर्शयिष्यते।
ननु,
नराज् जातानि तत्त्वानि नाराणीति विदुर् बुधाः । > तस्य तान्य् अयनं पूर्वं तेन नारायणः स्मृतः ॥ [भ।स्। ३५] इति > ।
तथा,
आपो नारा इति प्रोक्ता आपो वै नर-सूनवः । > अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥[भ।स्। ३३]
इति तस्यापि नारायणत्वम् अन्यथा-प्रसिद्धम् इत्य् आशङ्क्याह—नर-भू-जलायनात् तच् चापीति । नराद् उद्भूता येऽर्थास् तथा नराज् जातं यज् जलं, तद्-अयनात् यच् च तच् चापि नारायणत्वं भवति ।
तर्हि कथं प्रसिद्धि-परित्यागेनान्यथा निर्वक्षि ? इत्य् अत आह—सत्यं नेति । तत्-प्रलयोदधि-जलाद्य्-आश्रयत्वं सत्यं न, किन्तु तथा-ज्ञानं तवैव मायेत्य् अर्थः । मायात्र प्रतारण-शक्तिः, माया दम्भे कृपायां च इति विश्व-प्रकाशात् । दुर्वितर्क्य-स्वरूप-शक्त्यैव परिच्छिन्नापरिच्छिन्नायास् त्वन्-मूर्तेर् जलादिभिर् अपरिच्छेदाद् इति भावः
श्लोक-चतुष्टयेऽस्मिन् यस्य नारायणस्यान्ततं मद्-आदिकं सर्वम् एव जगत्, सोऽपि तवान्तर्भूत इति तात्पर्यम् । नारायणस्य तादृशत्वे मन्त्र-वर्णः—
यच् च किञ्चिज् जगत् सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥[नारा १३] इति ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : नारायणस् त्वम् । यद् वा, अधीश-प्रथम-पुरुषस्याप्य् उपरि वर्तमानो नारायणस् त्वम् । नराणां द्वितीय-तृतीय-पुरुष-भेदानां समूहो नारम् । तत्-समष्टि-रूपः प्रथम-पुरुष एव तस्याप्य् अयनं प्रवृत्तिर् यस्मात् सः । अतः स्अर्व-देहिनाम् आत्मा यस् तृतीय-पुरुषः, यश् च्आखिल-लोक-साक्षी द्वितीय-पुरुषः, यश् च नर-भू-जलायनात् प्रथम-पुरुषो नारायणः सन्न् असि, किन्तु स स तव्आङ्गम्, त्वं पुनर् अङ्गीत्य् अर्थः ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, भो ब्रह्मन् ! तथापि नारायणाद् एव जातोऽसि । कुतो मत्त इत्य् उच्यते ? सत्यं, त्वं च नारायणः, यस्माद् अहम् अभवम्, स तवाद्य्-अवतारश् च । नारायण इत्य् अभिन्नत्वात् त्वद्-उत्पन्न एवेति श्री-कृष्णस्यैव मूर्ति-विशेषो नारायण एव, यतस् त्वं स्अर्व-देहिनाम् आत्मासि, अखिल-लोक-साक्षी चासि ।
ननु, तर्हि यस्य नाभि-नालात् त्वम् उत्पन्नोऽसि, स तावत् क्व ? इत्य् आशङ्क्याह—नारायणोऽङ्गम् इत्य्-आदि । स नारायणः खलु तव्आङ्गं मूर्तिर् आद्यावतारत्वात् । ननूभयोर् एव नारायणत्वे कथं त्वज्-जनकस्य मद्-अङ्गत्वम् इत्य् आह—नर-भू-जलायनात् । नारायण-शब्दस्य व्युत्पत्ति-द्वयम्—नर-भूर् नरोत्पत्तिः, जलं च । तद्-अयनात् तत्-स्थानात् । एकस् त्वं नरोत्पत्त्य्-अयनान् नारायणः, नर-शब्दोऽत्र जीव-परः । अन्यस् तवाङ्गं जलायनात्, आपो नारा इति [भ।स्। ३३] प्रोक्ताः, इति तेन सर्वे जीवा नारं, तद्-अयनात् त्वं नारायणः, जल-शायित्वात् तवाङ्गं नारायण इत्य् एष विशेषः ।
ननु, जल-शायित्वं तस्य मायिकं ? नेत्य् आह—तच् चापि सत्यम्, तज्-जल-शायित्वं तस्य च सत्यम् । सत्य-लीलात्वात् तवैव । न तव माययैव । अतः पूर्वोक्तं त्वद्-उद्भवत्वं मम सिद्धम् ॥१४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि त्वं नारायणस्य पुत्रः स्याः ? तेन मम किं ? तत्राह—नारायणस् त्वं नहीति काक्वा नारायणो भवस्य् एवेत्य् अर्थः । हे अधीश ! ईशानाम् अप्य् अधिपते! विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४१] इति त्वद्-उक्तेः सर्व-देहिनाम् आत्मासि आत्मत्वाद् एव्आखिल-लोक-साक्षी च, स च नारायणो जीव-मात्रान्तर्यामिवाद् आत्मा साक्षी चेत्य् अतस् त्वद्-एकांश एव सोऽवगम्यते इति त्वम् एव स इत्य् अर्थः ।
ननु, ब्रह्मन्न् अहं कृष्ण-वर्णत्वात् कृष्ण-नामा वृन्दावन-स्थः, स तु नार-शब्दोक्त-जल-स्थत्वान् नारायण-नामेत्य् अतः कथम् अहम् एव सः ? इति तत्राह—नर-भू-जलायनात् ।
आपो नारा इति प्रोक्ता आपो वै नर-सूनवः । > अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥[भ।स्। ३३]
इति निरुक्तेर् नरोद्भूत-जल-वर्तित्वात् यो नारायणः स तव्आङ्गं त्वद्-अंशत्वाद् इति भावः । अतस् तत्-कुक्षि-गतोऽप्य् अहं त्वत्-कुक्षि-गत एव । किं च, स्वेच्छामयस्य न तु भूत-मयस्येत्य् उक्त्या तव बाल-वपुर् वासुदेव-वपुश् च सच्-चिद्-आनन्द-मयत्वेनैव वर्णितं तथा तच् चाप्य् अङ्गं नारायणाख्यं सत्यं, सर्व-काल-देश-वर्ति-शुद्ध-सत्त्वात्मकम् एव, न तु वैराज-स्वरूपम् इव मायया मायिकम् इत्य् अर्थः । च-काराद् अन्यद् अपि मत्स्य-कूर्माद्य्-अङ्गं सत्यम् ॥१४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, भव त्वं नारायणस्य पुत्रः, तेन मे नन्द-सूनोः किम् आगतं ? इति तत्राह—नारायणस् त्वं न हीति काक्वा त्वं नारायणो भवस्य् एवेत्य् अर्थः । कुतः ? इत्य् अत्राह—सर्व-देहिनाम् आत्मा व्यापको यद् असि नारं जीव-समूहम् अयसे व्याप्नोषीति तद्-व्युत्पत्तिः । अखिलेति—अखिलान् लोकान् साक्षात् पश्यसीति नार जीव-समूहम् अयसे जानासीति तद्-व्युत्पत्तिः ।
ननु, नारायण-पदस्य व्युत्पत्तिर् अन्यथेति चेत् तत्राह नारायणोऽङ्गम् इति । नर-भू-महद्-आदि-तत्त्व-वर्गस् तत्-सह-पाठाज् जलं च तद्-उद्भवम् एव कारणाम्भस् तद्-अयनात् तद्-वर्तित्वात् यो नारायणः ख्यातः प्रथम-पुरुषः सोऽपि तवाङ्गं त्वत्-स्वांश एव । एवम् आह स्मृतिः—
नराज् जातानि तत्त्वानि नाराणीति विदुर् बुधाः । > तस्य तान्य् अयनं पूर्वं तेन नारायणः स्मृतः ॥ इति ।
तथा,
आपो नारा इति प्रेक्ता आपो वै नर-सूनवः । > अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ इति च ।
हे अधीश ! ईश्वरेश्वर स्वयं भगवन् ! तथा च महद्-आदि-तत्त्वान्तस्थः कारणोद-शय एव गर्भोद-शयानो मत्-पिता तस्य च त्वद्-अंशांशत्वात् त्वत्-सन्तानोऽहम् अस्मीति क्षन्तव्यं मद्-आग इति भावः । तच् च नारायणाख्यं त्वद्-अङ्गं सत्यं पारमार्थिकं सर्व-देश-काल-वृत्ति-चिद्-घनम् एव, न तु मायया वैराज-स्वरूपम् इव मायिकं नेत्य् अर्थः । अपिर् अत्र सम्भावनायाम् इदम् एव सम्भावितम् इत्य् अर्थः ॥१४॥
॥ १०.१४.१५ ॥
तच् चेज् जल-स्थं तव सज् जगद्-वपुः
किं मे न दृष्टं भगवंस् तदैव ।
किं वा, सुदृष्टं हृदि मे तदैव
किं नो सपद्य् एव पुनर् व्यदर्शि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपरिच्छेदम् एवोपपादयति—तच् चेद् इति । जगद्-आश्रय-भूतं तव तद् वपुर् जल-स्थम् इत्य् एवं यदि सत् सत्यं स्यात् तर्हि तदैव कमल-नाल-मार्गेणान्तः प्रविश्य संवत्सर-शतं विचिन्वतापि मया, हे भगवन्न् अचिन्त्यैश्वर्य ! तत्र किम् इति न दृष्टं ? हृद्य् अपि किम् इति नो व्यदर्शि न दृष्टं ? तदैव तपः-करणानन्तरं सपद्य् एव सुदृष्टम्, अतो मायैव । अतस् त्वन्-मूर्तेर् देश-विशेष-परिच्छेदः सत्यो न भवतीत्य् अर्थः ॥१५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदैव प्रलयोत्तर-काले एव । तत्र जले । चक्षुर्-विषयं तन् नेत्य् आह—किन्त्व् इति । तदा तदात्वेऽन्तःकरण-दृश्यत्वे इति यावत् । पुनस् तदैवेति व्याख्यातम् एवात्र । यतः कादाचित्कोऽतो हेतोर् मायैव भावाभाव-विषयिणी मात्रात्म इति लक्षणात् सत्यं नेत्य् अर्थः । यतो मात्रात्मतो हेतोः । इत्य् अर्थ इति—न हि सिकता-तोयस्य शीतत्वादि ज्ञातुं शक्यम् असत्यत्वाद् एवम् अत्रापि वपुषो मात्रात्मत्वे तत्-परिच्छेदस्य सुतरां मायात्वम् इति भावः ॥१५॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यदि सत्यं तत् तदा कथं नेदृशी ? इत्य् आह—तच् चेद् इत्य्-आदि । तव तु वपुर् जल-स्थम् एव सद् इति चेत्, तदा कथं न मया दृष्टं ? अतस् तस्य जलस्थता अनित्या, न तु तद्-वपुः । त्वद्-विग्रहस्य देश-काल-परिच्छिन्नता तु न सत्या, व्यापकत्वात् । व्यापकत्वं च द्वेधा—परिच्छिन्नाकारम् अपरिच्छिन्नाकारं च । परिच्छिन्नाकारं च द्वेधा—एकतयानेकतया च । तद् एवाह—किं वा, हृदि सुदृष्टं तत्राप्य् अनियतत्वम्, व्यापक-धर्मत्वात् । अत आह—किं वा, नो पुनर् यद् अदर्शि ? किं वा, सज् जगद्-वपुः सन्ति जगन्ति यत्र तत् सज्-जगत् । जल-स्थम् एव तत् तदा कथं न मे दृष्टं ? हृदि सुदृष्टं चेत् तदा कथं पुनर् नो व्यदर्शि ? अतो जले वा हृदये वा कुत्रापि तत् नियतं न भवति । किं वा, तव वपुः किं जल-स्थं नैव ? कीदृशं ? सज्-जगच् चेतयति भुवनम् इति चेत् यदि जल-स्थम् अभविष्यत्, तदा किं न मे दृष्टम् इत्य्-आदि पूर्ववत् । यद् वा, जल-स्थं तव वपुर् जगन्-निवासत्वेन जगद् इत्य् उपचारः । सत् सत्यं, तर्हि त्वया कथं न दृष्टं ? तत्राह—हे भगवन् ! अचिन्त्य-महिमन् ! मया न दृष्टं तत् किं वा, ? तेन किं वा, इत्य् अर्थः । किं वा, सुदृष्टं हृदि हृदये दृष्टं तेन वा किं ? तेन चेत् स तदा कथं पुनर् नो व्यदर्शि वा किं ? अतो मद्-दर्शने नासद् इति नैव । वस्तुतः सद् एव तद् इत्य् अर्थः ॥१५॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सत्यत्वम् एवोपपादयति—तद् इति । प्राकृत-जलस्थम् अहो बहिर् दृष्ट्यापि नैव दृष्टम् इत्य् आह—किं वेति । सु-शब्देन तप तप इत्य् आज्ञा-श्रवण-रूप-मात्र-दर्शनम् । तदैवेत्य् अनेन च महा-प्रयासतश् चिर-कालेनैव दृष्टम् इति सूच्यते । न च प्रयास-साध्यम् अपीत्य् आह—किं नो इति । हृद्य् अपि किम् इति न दृष्टम् इति । पुनर् इति श्री-ब्रह्मणे वरं दत्त्वा ध्याने वा सुकृद्-आत्मानं दर्शयित्वा श्री-भगवत्य् अन्तर्हिते सति तद्-विरहाकुलो ब्रह्मा पूर्ववत् तद्-दर्शनार्थं पुनर् अपि तपश् चक्रे, तथापि हृदि न ददर्शेति सूचयति—सपद्य् एवेति, कालान्तरे स्वत एव हृदि दृष्टम् इति परिच्छेद-परिवार-साहित्यादिनादर्शि नो किं ? अपि तु दृष्टम् एव । एवं श्री-भगवद्-वपुष इव तत्-क्रीडा-परिच्छद-जलादेर् अपि स्व-प्रकाशत्वम् अभिप्रेतम् । यद्यपि जलाद्य्-उपाधेर् असत्यत्वेऽपि सदा तत्-सम्बन्धाभावेऽपि सदा सत्यं नारायणत्वं सुसिध्येद् एव, तथापि तल्-लीलाया नित्यत्वादिना तत्-परिकरादेर् ऐप् सत्यताद्य्-अपेक्षया तथा व्याख्यायते ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्भावनाम् एव दर्शयति—तच् चेद् इति । तत् तव सत् पारमार्थिक-सत्यम् एव वपुर् जल-स्थं चेत् तत एव जगद् इति जगद्-आत्मकं चेत् तत् तदा किं मया समष्टि-जीवतया सर्व-जगद्-आत्मकेनापि न दृष्टं ? तथा किं वा, हृदि तृतीयोक्तानुसारेण दृढ-समाधि-योग-विरूढ-बोधेन मया सु सुष्ठु, नातः परं परम यद् भवतः स्वरूपं [भा।पु। ३.९.३] इत्य्-आदि तत्रत्य-मद्-उक्तानुसारतः सच्-चिद्-आनन्द-घनत्वेन दृष्टं ? वा-शब्दस्यान्वयात् पुनश् च किं वा, बहिर् वृत्तौ सत्यां नो व्यदर्शीति ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः (३४) : तन्-मूर्तेर् जलादिभिर् अपरिच्छेदे स्वानुभवं प्रमाणयति—तच् चेद् इति । जगद्-आश्रय-भूतं नारायणाभिधं तव तद्-वपुः जल-स्थम् एवेत्य् एवं यदि सत् सत्यं स्यात्, तर्हि तदैव कमल-नाल-मार्गेणान्तः प्रविश्य संवत्सर-शतं विचिन्वतापि मया, हे भगवन्न् अचिन्त्यैश्वर्य, तत् किम् इति न दृष्टं ?
यदि च तद्-वपुर् माया-मात्रं, माया स्याच् छाम्बरी-बुद्ध्योर् इति त्रिकाण्ड-शेष-रीत्या मिथ्याभिव्यञ्जक-कला-विशेष-दर्शित-मात्रं स्यात्, तर्हि किं वा, रूढ-समाधि-योग-विरूढ-बोधेन मया हृदि तदैव सुष्ठु सच्-चिद्-आनन्द-घनत्वेन दृष्टं ? समाध्य्-अनन्तरं किं वा, पुनः सपद्य् एव नो व्यदर्शि न दृष्टं ? अतस् त्वन्-मूर्तेर् माया-मयत्वं देश-विशेष-कृत-परिच्छेदश् च सत्यो न भवतीत्य् अर्थः । एतद्-व्याख्यान-निदानं तृतीय-स्कन्धेतिहासो द्रष्टव्यः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तच् चेज् जल-स्थम् इत्य् आद्य् अष्टकम् ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : जलस्थस्य नारायण-रूपस्य सत्यत्वं पुनः प्रतिपादयन्न् आह—तच् चेत् जलस्थम् इत्य्-आदि । तत् प्रसिद्धं जल-स्थं नारायणाक्यं वपुः सत् सत्यम् । कीदृशं ? चेतयति सर्वम् इति चेत् । पुनः कीदृशं ? सज् जगत् सन्ति जगन्ति यत्र तत् तथा । तर्हि तन् नारायणाख्यं माययैव न, अपि तु सत्यम् एवेत्य् अर्थः । ननु, तस्य सत्यत्वे किं प्रमाणं ? इत्य् आह—किं मे न दृष्टं न ज्ञातं ? अपि तु दृष्टं ज्ञातम् एवेति, मद्-अनुभव एव प्रमाणम् । सत्यं चेद् भवता कथं न विलोकितं ? तत्राह—हे भगवन् ! तदैव सपद्य् एव साक्षाद् एव पुनर् व्यदर्शि, अपि त्व् अदर्शि । अतोऽनुभवेन प्रत्यक्षणं च सिद्धम् एव, तत् सत्यत्वम् ॥१५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, नारायण-स्वरूपं तत् यदि शुद्ध-सत्त्वात्मकं, तर्हि प्राकृते गर्भोद एव परिच्छिन्नं कुतः सदा दृश्यते ? न हि सर्व-व्यापकस्य तस्य गर्भोद-मात्र-परिच्छेदः सम्भवेत् तत्र तस्य तज्-जलस्थत्वम् एव न नियतम् इत्य् आह—तत् नारायणाख्यं वपुस् तव सज् जगत् सत् वर्तमानं जगत् यत्र तत् जल-स्थम् एव चेत् तर्हि कमल-नाल-मार्गेणान्तः प्रविश्य संवत्सर-शतं विचिन्वतापि मया हे भगवन्न् अविचिन्त्य-योग-मायैश्वर्य् ! किं न दृष्टं ?
ननु, तत् तत्र जल एव स्थितं त्वया त्व् अज्ञानान् न दृष्टम् इति चेत्, तदा त्वां ध्यायता मया तदैव हृद्य् अपि सुष्ठु किं वा, दृष्टं तत्-क्षण एव तत्रापि किं पुनर् न व्यदर्शीत्य् अतस् तद्-वपुस् तव जल-स्थत्वेन परिच्छिन्नम् अप्य् अचिन्त्य-शक्त्या स्व-कुक्षी-कृत-जगत्कत्वेनापरिच्छिन्नं च सर्वत्रैव देशे काले च वर्तमानम् एवापि त्वदीय-योग-मायया आवरण-प्रकाशाभ्याम् एव दृश्यते, न दृश्यते चेत्य् अवगतम् ॥१५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, गर्भोदे शयानस्य न पारमार्थिकं परिच्छिन्नत्वात् विभु परमाणु च तथा स्वीक्रियते एवं कारणोदे शयानस्याचित्-तत्त्वं न स्याद् इति चेत्, तत्राह—यच् चेद् इति । तन् नारायणाख्यं वपुस् तव सद् विद्यमानं जगद् यत्र तादृशं चेज् जल-स्थम् एव तर्हि मे मया कमल-नाल-मार्गेणान्तः प्रविश्य संवत्सर-शतं विचिन्वता तदा किं न दृष्टं, हे भगवन् अतर्कैश्वर्य ! ननु, तस्मिन् जल एव स्थितम् अज्ञानात् त्वया न दृष्टम् इति चेत्, ध्यायता मया तदैव हृदि किं वा, सुष्ठु दृष्टं सपदि तत्-क्षण एव पुनः किं नो व्यदर्शि न दृष्टम् इति तथा च जल-स्थम् अपि तद्-वपुः कुक्षि-गतं जगत्कं विभु चेति पारमार्थिकं तत् एवं च कारणोद-शयं च व्याख्यातं कृपौदासीन्ये एव दर्शनादर्शनयोर् हेतु एव भावः ॥१५॥
॥ १०.१४.१६ ॥
अत्रैव माया-धमनावतारे
ह्य् अस्य प्रपञ्चस्य बहिः-स्फुटस्य ।
कृत्स्नस्य चान्तर् जठरे जनन्या
मायात्वम् एव प्रकटीकृतं ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च, यदि जलादि-प्रपञ्चः सत्यः स्यात्, तर्हि तेन तव परिच्छेदो भवेत् । स तु माया-विलसित इति त्वयैव दर्शितम् इत्य् आह श्लोक-त्रयेण—हे माया-धमन मायोपशमन ! अत्रैवावतारे बहिः स्फुटस्यापि स्व-जठर-मध्ये जनन्याः प्रदर्शनेन ॥१६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इहैव विमर्शेन तम् एवार्थम् आह—अपि चेति । तेन प्रपञ्चेन । स तु प्रपञ्चस् तु । विलसितः प्रकाशितः ॥१६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सज्-जगद् इति यद् उक्तं तन् मृषा, मम वपुषि कथं जगद् उद्वर्ततां ? तत्राह—अत्रैवेत्य्-आदि । अस्तु दूरत उदाहरणम् । हे माया-धमन ! बहिः स्फुटस्याप्य् अस्य कृत्स्नस्य प्रपञ्चस्यान्तर्-जठरे मायत्वं प्रकटीकृतं जनन्या इति चतुर्थ्य्-अर्थे षष्ठी । एवं नारायण-वपुषि यज् जगत्, तद् अपि मायैव । यद् वा, तस्य विश्वस्यान्तर्-जठरेऽवतारे सति बहिः स्फुटस्य मायात्वम् आदर्शितम् । बहिर् यद् दृश्यते, तन् मायिकम् । नान्तः । तद् एव नारायण-वपुस् त्वय्य् एव जनन्यै च दर्शितम् ॥१६॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तर्हि तज्-जलादि-सत्यत्ववज् जलादिमयस्यास्य प्रपञ्चस्यापि सत्यता घटेत, तथा सति च सच्-छास्त्रेण सद्-अनुभवेन च विरुद्ध्येत ? सत्यम् । प्रपञ्चोऽयं मायिक एवेत्य् आह—अत्रैवेति द्वाभ्याम् ।
माया-धमनो योऽवतरस् तस्मिन् नित्य-तद्-अवतार-सम्बन्धिनां सर्वेषाम् अप्य् अमायिकत्वं, तथैतद् अवतारोपासकानाम् अपि मायापगमादिकम् अभिप्रैति । किं च, अपि-अर्थे एव-शब्दो माया-धमनावतारेऽपि । हि निश्चितम् । मायात्वं प्रकटीकृतम् इति परम-मायिकत्वं सूचयति । ते जनन्या श्री-यशोदया प्रकटीकृतम् इति परमाप्तत्वेन तत्र प्रामाण्यं च । अपि-अर्थे च-कारः, कृत्स्नस्यापि । किं वोक्त-समुच्चये । त्वद्-अन्तर्-जठरे वर्तमानस्य चेति दृष्टान्तः । सिद्धस्य साध्यान्तिके निर्देशात् । अयम् अर्थः—सत्यतया साक्षाद् अनुभूतस्यापि तस्य क्षणान्तेऽदर्शनाद् यथा स्वान्तिकेन्द्रजालिकादिवन् मायिकत्वं, तथा तादृशस्य बहिः-स्फुटत्वेन वर्तमानस्यापि मायिकत्वम् एव सङ्ग-च्छेतेति तया श्री-नन्दादिष्व् अभिव्यञ्जितम् इत्य् अर्थः । एतच् च स्तन्य-पाने जृम्भया विश्व-दर्शनावसर इति बोद्धव्यम् । यद् वा, श्री-ब्रह्मणः सर्वज्ञत्वात् सम्प्रति श्री-भगवद्-अनुग्रह-विशेषाच् च तद्-वार-द्वय-वृत्त-ज्ञानम् एव वृत्तम् । ततश् च जनन्या तद्-द्वारा तस्यां प्रदर्शनेन त्वया व्यक्तीकृतम् इत्य् अर्थः॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, पूर्व-रीत्या जगतस् तद्-अन्तर् अपि स्थितत्वात् तद्वत् पारमार्थिक-सत्यत्वं कथं न स्यात् ? तत्राह—अत्रैवेति । पूर्वोक्ते मायाधिष्ठातरि नारायण-देहे समाधि-मात्रानुभूते मया पूर्वं तद् असत्यत्वम् अनुभूतं, बहिर्-दृष्ट्य्-अनुभूते जगति नेति । आस्ताम् अत्रैव माया-धमनार्थम् अवतारे स्वयं भगवत्तया प्रकाशे हि निश्चितम् अस्य कृत्स्नस्य प्रपञ्चस्य जगतस् त्वत्तो बहिः-स्फुटस्य दृश्यमानस्य तथा तव जठरेऽपि स्फुटस्य दृश्यमानस्य सर्वम् अनुभूतवत्या ते तव जनन्यापि कर्त्र्या मायात्वं मायिकत्वम् एव प्रकटीकृतं व्यञ्जितम् अहं ममासाव् इत्य् आदौ तथापि, यन्-माययेत्थं कुमतिः स मे गतिः [भा।पु। १०.८.४२] इत्य् अनेन यद्यप्य् अहं ममासाव् इत्य्-आदि तथापि यन्-माययेत्थं स्व-सुतान्तर्-जगद्-दर्शन-रूपा कुमतिर् मम जाता स एव मम गतिर् इत्य् अर्थ एव हि तत्-तत्-सम्बन्धः । अतस् तद् अपि तवाङ्गं न जलाद्य्-आश्रयं नापि जगद् इति निश्चितं तत्र त्वम् एवं दृष्टान्त इति व्याजेन पुनः श्री-कृष्ण-विग्रहम् एव परम-तत्त्व-रूपत्वेन साधयति—अत्रैवेति त्रिभिः ।
माया-धमनावतार ! इति तत्-सम्बन्ध-मात्रं न सोढम् अघादीनाम् अपि तत्-सम्बन्धापाकरण-दृष्टेर् इति भावः । तच् च युक्तं स्वयं भगवत्त्वेन परात् परत्वात् तथा चैकादशे, नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते [भा।पु। ११.१५.१६] इत्य् अत्र व्याख्यातं तैर् एव—
विराड् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः । > ईशस्य यन्त्रिभिर् हीनं तुरीयं तत् पदं विदुः ॥ इति ।
अस्य बहिः-स्फुटस्य प्रपञ्चस्य निजान्तर्-जठरे जनन्यास् तां प्रति दर्शनेनेत्य् अर्थः । मायात्वं पूर्वोक्तं यत् तदीय-जलादि-प्रपञ्चाश्रयत्वस्य मायिकत्वं तद् एव व्यक्तीकृतम् । यद् वा, विशेषेण तात्पर्यं जगद् इदं बहिर् एव स्फुटं नान्तरित्यस्यार्थस्येति अथो\ऽमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्म-योग इति तथैव स्वाभाविकाचिन्त्य-शक्ति-मय-परिच्छेदा परिच्छेद-निर्णयात् देव-मायात्वस्य परिहारत्वाच् च श्री-शुकेन, न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य्-आदिना तादृशत्व-निर्णयात् जगतः स्वाभाविकम् एव त्वद्-आश्रयकत्वं न सम्भवतीति भावः ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः (३५) : अत्र तच् चापि सत्यं [भा।पु। १०.१४.१४] इत्य् अत्र, तच् चापि अङ्गं सत्यम् एव, न तु विराड्वन् मायेति । तच् चेज् जलस्थे [भा।पु। १०.१४.१५] इत्य् अत्र च, तज्-जलस्थं सद्-रूपं तव वपुर् यदि जगत् स्यात्, प्रपञ्चान्तः-पाति स्यात् इति व्याकुर्वन्ति, तस्माद् एवं नारायणाङ्गकस्य भगवद्-विग्रहस्य विश्वोऽपि प्रपञ्चोऽन्तर्भूत इति स्वयं भगवता दर्शितम् । श्रीमत्या जनन्यैवानुभूतम् इत्य् आह—अत्रैवेति ।
अत्रैव तावत् श्री-कृष्णाख्ये मायोपशमनेऽवतारे प्रादुर्भावे, बहिश् चान्तर्-जठरे च स्फुटस्य दृष्टस्य कृत्स्नस्य जगतः सम्बन्धे पूर्वोक्तं यन् मायात्वम्, प्रपञ्च-कृत-त्वत्-परिच्छेद्यत्वस्य मिथ्यात्वम् । तज्-जनन्या जनन्यै ते त्वया प्रकटीकृतं दर्शितम् । तस्माद् भवान् जगद्-अन्तःस्थ एव, जगत् तु भवद्-बहिर्-भूतम् इत्य् एवं माया-धर्मः । वस्तुतस् तु दुर्वितर्क्य-स्वरूप-शक्त्या मध्यमत्वेऽपि व्यापकोऽसीति भावः ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, तस्य सज्-जगत्त्वं त्वया कथम् अवगतं ? तस्य तन्-मायिकम् एव ? मैवम् । यस्यांशांशेन सृज्यते देव-तिर्यङ्-नरादयः [भा।पु। १.३.५] इत्य् उक्तेस् तस्य सर्व-बीजत्वाद् अन्ते च सर्वश्रयत्वात् स एव भुवन-द्रुमः, त्वद्-उदरे यज् जगत् तद् एव न माया त्वं तु केवल-घनानन्द इत्य् आह—अत्रैव माया-धमनेत्य्-आदि । हे माया-धमन ! अत्रैवावतारे बहिः स्फुटस्य कृत्स्नस्य प्रपञ्चस्यान्तर्-जठरे जठरस्यान्तर्-जनन्यै मायात्वं दर्शितम् । बहिर् वर्तमानत्वेऽपि यद् अन्तर्-वर्तित्वं प्रपञ्चस्य तन् मायैव । जनन्याः चतुर्थ्य्-अर्थे षष्ठी । नारायणान्तर्-वर्तित्वं तु तस्य सर्गादौ महा-प्रलये चेति तव तस्यायम् अपि भेदोऽन्यः ॥१६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, यस्यैव जगतोऽन्तर्-वर्तिनि जले तद् वपुः स्थितं तद् एव जगत् तत्-कुक्षौ तिष्ठतीत्य् असङ्गतं न हि गृहस्यान्तर्-वर्तिनि घटे तद् एव गृहं तिष्ठेद् इत्य् अतः शुद्ध-सत्त्वात्मक-वपुषि तस्मिन्न् अस्मान् मायैकाद् अन्यद् अमायिकम् अन्यद् एव वा जगद् भवेद् इत्य् अवसीयते । एवं च सति न त्वं मत्-कुक्षि-गत इत्य् आशङ्क्य कुक्षि-गतस्य जगतो बहिः-स्थ-जगद् ऐक्यं वदन्न् एव मायिकत्वं प्रतिपादयति द्वाभ्यां—अत्रैवेति ।
हे माया-धमन ! मायोपशमक ! अस्य बहिः स्फुटस्यैव प्रपञ्चस्य कृत्स्नस्यापि अन्तर्-जठरे प्रदर्शनया इति शेषः । अनन्याः जननीं श्री-यशोदां प्रतीत्य् अर्थः । मायात्वं मायिकत्वम् अतो दुस्तर्क्य-योगमायैव त्वद्-वपुर् जगद्-अन्तर्-वर्त्य् अपि सर्व-जगद्-व्यापकं युगपद् एवेति ध्वनिः । तेन साक्षात् तवापि कुक्षि-गतोऽहम् अधुनापि वर्ते इति साक्षात् त्वम् अपि मन्-मातेत्य् अनुध्वनिः ॥१६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, जगद्-अन्तर्-वर्ति-जल-स्थं वपुः कुक्षि-गतं जगत्कम् इति विरुद्धः ? तत्राह—अत्रैवेति । हे माया-धमन ! प्रकृति-नियन्तः ! अत्रैव स्वयं भगवत्य्-अवतारे अस्य कृत्स्नस्य प्रपञ्चस्य त्वज्-जठराद् बहिः स्फुटस्य दृश्यमानस्यान्तर्-जठरे जनन्याः श्री-यशोदायास् तां प्रति प्रदर्शयता ते त्वया मायात्वम् अचिन्त्य-शक्तित्वम् एव प्रकटीकृतम् । मया विज्ञातम् । तथा च त्वद्-वपुषो जगद्-अन्तः-स्थत्वम् अन्तर्-गत-जगत्कत्वं चेति द्वयम् अचिन्त्य-शक्ति-सिद्धम् इत्य् अधुनापि मे त्वत्-कुक्षि-स्थत्वात् मात्रेवापराधः सोढव्य इति भावः ॥१६॥
॥ १०.१४.१७ ॥
यस्य कुक्षाव् इदं सर्वं सात्मं भाति यथा तथा ।
तत् त्वय्य् अपीह तत् सर्वं किम् इदं मायया विना ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, बहिः सत एवान्तर्-जठरे प्रतिबिम्बोऽस्तु, कुतः सर्वथा मायात्वं ? तत्राह—यस्येति । यस्य तव कुक्षौ सर्वम् इदं यथा भाति, तत् सर्वम् इहापि बहिर् अपि तथैव भाति । किं च, सात्मं त्वत्-सहितं तद् इदं सर्वं त्वयि मायया विना किं घटते ? अयं भावः—त्वयि प्रतिबिम्बश् चेद् बाह्याद् विलोमतया प्रतीयेत, न तु तद् अस्ति, तव चादर्श-स्थानीयस्य त्वयि प्रतीतिर् न स्यात् । अतः सर्वथा मिथ्यात्वम् एवेति ॥१७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते नन्व् इति । सतो विद्यमानस्य । तत्र आक्षेपे । अद्भुतम् आह—किं चेति । अयं भाव इति । तद् विलोमतया दर्शनम् । यत् तस् त्वम् अप्य् अत्र प्रतीयसे अतो हेतोः । न हि प्रतिबिम्बाधिकरणम् अपि प्रतिबिम्बावलोकने युगपत् प्रतीयतेऽन्यथादर्शेऽप्य् आदर्शः प्रतीयते इति तात्पर्यम् ॥१७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तज् जगत् तु न मायेति प्रपञ्चयति—यस्येत्य्-आदि । यस्य नारायणस्य कुक्षौ इदं सर्वं विश्वं सा जननी आ आत्मम् आत्मानम् अभिव्याप्य । आत्मं समान-लक्षणो दीर्घत्वं, व्रजं सहात्मानं [भा।पु। १०.८.३९] इति पूर्वोक्तेः । यथा भाति, तथेहि बहिर् अपि तद् विश्वं सा च भाति, तत् तु अये हे कृष्ण ! मायया विना किं घटत इति शेषः । यद् वा, आत्मं त्वत्-सहितं तवैव कुक्षौ विश्वं भाति, बहिर् अपि च त्वत्-सहितं भाति । अतः प्रति विश्वतया त्वयि भातीत्य् अपि न घटते, न ह्य् आदर्शः प्रतिविश्वं लभते, नापि प्रतिविश्वः प्रातिलौम्यं जहाति । इदं सर्वं हि अनुलोमम् एव दृश्यते । अतः किम् इदं त्वय्य् अचिन्त्य-परमैश्वर्ये किम् अपि विस्मय-करं न भवति । किम् अपि प्रश्न-भूतस्योत्तरं मायया विना यद् भवति, तद् एवेदम् । तत् तु लीलैव, तेन वक्ष्यमाण-वासे रास-विलासे च नानेव या लीला, सापि न माया इति भावः ॥१७॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, अस्यैव प्रतिबिम्बत्वेन तस्य मिथ्यात्वम् आस्ताम् अयं सदा साक्षाद्-अनुभूयमानः सत्य एवेति चेत्, तत्राह—यस्येति । सात्मं सात्मकम् । अन्यत् तैर् व्याख्यातम् । यद् वा, अयम् अपि सत्यः । सोऽपि सत्य इति द्वयम् एव सत्यम् अस्तु ? तत्राह—यस्येति । सर्वथा द्वयोर् एक-रूपत्वेन बिम्ब-प्रतिबिम-न्यायापत्त्यैकस्य मिथ्यात्वम् एव सेत्स्यतीति भावः । यद् वा, सर्वथैक-रूपस्य प्रपञ्चयस्याश्रवणाप्रसिद्धेर् एको मिथ्यैव कल्पते । यदि वा वक्तव्यं, क्वेदृग्-विधाविगणिताण्ड- [भा।पु। १०.१४.११] इत्य्-आदि-वचनतः प्रपञ्चस्य बाहुल्यं मन्तव्यम् इति । तथापि सर्वेषाम् एव सत्यतया भगवदीयानाम् अन्येषां च प्राकृतानां विभूतेः साम्यम् एवापद्यते । तच् चायुक्तम् । किं च, सतां स्वप्न-मनोरथादिवन् मिथ्यात्वानुभवेन बहुल-श्रुति-स्मृत्य्-आदि-वचनैश् च विरोधः स्याद् इति सर्वथास्य मायिकत्वं युक्तम् एव । अत एवोक्तं—तत् सर्वम् इति ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवोपपादयति—यस्येति । यस्य सावरणस्य ब्रह्माण्डस्य कुक्षाव् इदं सर्वं सात्मं त्वत्-सहितं भाति, तद्-ब्रह्माण्डम् इह एतद्-रूपे त्वय्य् अपि भाति, तत् तस्मात् दुस्तर्कत्वान् मायया विना किं सम्भवति ? तेन त्वत्-सम्बन्धाभावान् न सम्भवत्य् एवेत्य् अर्थः । तस्माच् च न्एदं त्वम् इव पारमार्थिकं सद् इति भावः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः (३६) : माया-धर्मेनेति यद् भवता कृपया दृष्ट-प्रमाणेऽपि श्री-विग्रहे सर्वोऽपि प्रपञ्चोऽन्तर्भूत इति दर्शितं तत् सत्यम् एवेति द्योतनार्थं भगवत्य् अप्य् अन्यथा प्रतीति-निरसनार्थं च पूर्वम् एवार्थम् उपपादयति—यस्येति । यस्य तव कुक्षौ सर्वम् इदं सात्मं त्वत्-सहितं यथा भाति, तत् सर्वम् इह बहिर् अपि तथैव त्वयि भातीत्य् अन्वयः
अयम् अर्थः—स्वस्य व्रजेऽन्तर्भूतता-दर्शनेनैव समं व्रजस्य स्वस्मिन्न् अन्तर्-भूततां दर्शयन् तच् चान्तर् बहिर् दर्शनं किं, स्वप्न एतद् उत देवमाया [भा।पु। १०.८.४०] इत्य् आदौ श्री-जनन्या एव विचारे स्वाप्निकत्व-मायोलत्व-बिम्ब-प्रतिबिम्बत्वानाम् अयोग्यत्वाद् एकम् एवेत्य् अभिज्ञापयन्, किं स्वप्न इत्य् आदाव् एव, यः कश्चन औत्पत्तिक आत्मयोग [भा।पु। १०.८.४०] इत्य् अनेन चरम-पक्षावसितया दुर्वितर्क-स्वरूप-शक्त्यैव मध्यम-परिमाण-विशेष एव सर्व-व्यापकोऽस्मीति स्वयम् एव भवान् जननीं प्रति युगपद् उभयात्मकं निज-धर्म-विशेषं दर्शितवान् । अत एव द्वितीये, गृह्णीत यद् यद् उपबन्धम् अमुष्य माता इत्य् आदौ प्रतिबोधितासीत् [भा।पु। २.७.३०] इत्य् उक्तम् । तस्मात् तव कुक्षौ सर्वम् इदं यथा भाति, इह बहिर् अपि तथा, तद्-अन्तर्भूतोऽपि तद्-व्यापकोऽसीति प्रकारेणैव तव मायया स्व-याथार्थ्यावरण-शक्त्या विना किं सम्भवति ? नैव सम्भवतीत्य् अर्थः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : त्वत्-कुक्षि-गतं यज् जगत् तन् मायेति यद् उक्तं, तत् प्रकारानरेण पुनः स्थापयति—यस्या कुक्षाव् इत्य्-आदि । इदं बहिः स्थितं विश्वं सर्वे सात्मं, सान्तर्यामि चिज्-जडात्मकं, यस्य कुक्षौ यथा तथा याथातथ्येन भाति तन् नारायणाख्यं च वस्तु दृश्यमाणं त्वयि भाति । अत इहापि त्वयि तत् सर्वं जगत् सर्वांश-परिपूर्णे सर्वांशान्तर्गतस्यान्तर्भावः । इत्य् अपि तवैव प्रकाशिकाया मायायाः शक्तेर् विलास इत्य् आह—किम् इदं मायया विना, प्रकाशिका नाम मायैवैतत् सर्वं, न कुहकम् इत्य् अर्थः । यद् वा, यस्य तव कुक्षौ इदं विश्वं सा तव जननी, आ आत्मम् आत्मानम् अभिव्याप्य । अव्ययी-भावे समान-लक्षण-दीर्घे, अध्यात्मवद् यथा भाति, व्रजं सहात्मानं [भा।पु। १०.८.३९] इत्य् उक्तेः । तथा तत् सर्वं जगज्-जननी च बहिश् चभाति, इह-शब्दो बहिर्-अर्थः । तत् तु अयि हे श्री-कृष्ण ! मायया विना किम् इदं माया-वैभवम् एवैतत् । यद् वा, किम् इदं किम् एतद् इति सन्देःअः पुनर् मायया विना कोऽर्थः ? मायया विना यद् भवति, तद् एवेदम् इति निश्चयः । इदं मिथ्या न भवति, किन्तु स्व-योग-शक्ति-वैभवम् एवैतत् ।
यद् वा, सात्मम् आत्मना सहितम् । आत्म-शब्दः सम्बोध्यस्य नारायणाख्य-मूर्ति-परः नारायण-सहितम् इत्य् अर्थः । कुतः ? स हि सज्-जगद्-वपुर् इत्य् उक्तः, स त्वय्य् एव वर्तते, तेन जगच् च त्वद्-उदर एव पूर्व एवार्थो यथा भाति, तथा इहापि बहिर् अपि, तत् सर्वं किम् इदं मायया विना ? माया-शब्दो न मिथ्या-परः, अपि तु ऐच्छिकी प्रकाशिकाख्या मायेति या पूर्वम् आख्याता, तस्या एव विलसितम् एतत् । न मिथ्या न च बहिर् गतस्य विश्वस्य प्रति विश्वस् तथा सति प्रातिलौम्यम् अस्याद्रक्ष्यत् । न हि प्रतिविश्वः प्रातिलौम्यं जहाति, नापि विधान्तरं, असम्भवात् । तत उक्त-प्रकार-योग-शक्ति-विलसितम् एवेति ॥१७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुक्षिस्थ-बहिःस्थयोर् जगतोर् अनयोः सर्वथैवाभेदाद् एवैक्यम् ऐक्याद् एव कुक्षि-स्थस्य मायिकत्वम् अवधारितम् इत्य् आह—यस्य तव कुक्षौ इदं विश्वं यथा भाति तथैव इह बहिर् अपि स्थितं विश्वं भाति । ननु, बहिः-स्थितस्य कुक्षौ प्रतिबिम्ब एवायं ? तयाह—सात्मं त्वत्-सहितम् एव, न हि दर्पणे दर्पणो दृश्यते इति भावः । तेन बहिः-स्थितं मायिकम् एव विश्वं त्वत्-कुक्षौ दृष्टं, त्वयीति यथा कुक्षि-गतं विश्वं त्वद्-अधिकरणकः, तथा बहिष्थम् अपि विश्वं त्वद्-अधिकरणकम् इत्य् अर्थः । तत् तस्माद् वैलक्षण्य-गन्धस्याप्य् अभावात्, इदं जठर-गतं विश्वं किं मायया विना, अपि तु मायिकम् एव । अत्र त्वज्-जनन्य्-अनुभवो मद्-अनुभवश् च प्रमाणम्, अतो मायिक-जगन्-मध्य-वर्त्य् अहं त्वत्-कुक्षि-गत एव भवामीति मुहुर् विज्ञाप्यते, उत्क्षेपणं गर्भ-गतस्य [भा।पु। १०.१४.११] इत्य्-आदि । अतः क्षमस्वेति भावः ॥१७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, उज्ज्वले सद्-विग्रहे बहिस्थम् एव जगत् प्रतिबिम्बितं मन्-मात्रा दृष्टं मुखम् इव मुकुरे, न तु तद्-अन्तस् तद् अस्तीति, तत्राह—यस्येति । यस्य ते कुक्षाव् इदं विश्वं यथा भाति, तथैवेह त्वत्-कुक्षेर् बहिर् अपि भाति, तच् च सात्मं त्वत्-सहितम् इति प्रतिबिम्बो निरस्तः । नहि मुकुरे मुकुरो दृश्यते, त्वयीति तथा कुक्षि-स्थं विश्वं त्वद्-आधारकं तथा बहिष्ठम् अपीति तत् तस्माद् वैलक्षण्य-लेशस्याप्य् अभावात् तद् इदं सर्वं द्विविध-दर्शनं किं मायया अविचिन्त्य-शक्त्य्-अशक्त्या विना भवति, तयैवैतद् भवतीत्य् अर्थः ॥१७॥
॥ १०.१४.१८ ॥
अद्यैव त्वद्-ऋतेऽस्य किं मम न ते मायात्वम् आ-दर्शितम्
एकोऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि ।
तावन्तोऽसि चतुर्भुजास् तद् अखिलैः साकं मयोपासितास्
तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च, न केवलं जनन्या ममापि तथैव दर्शितम् इत्य् आह—अद्यैवेति । त्वद्-ऋते त्वां विना अस्य विश्वस्य मायात्वं त्वया ममैव च, तद् अप्य् अद्यैव किं न दर्शितं ? किन्तु दर्शितम् एव । तथा हि, एकोऽसीत्य्-आदि । तत् ततो मया सह्आखिलैस् तत्त्वादिभिर् उपासितास् तावन्तश् चतुर्-भुजा असि । जगन्ति ब्रह्माण्डानीति प्राग् अनुक्तम् अपि दृष्टम् इति ज्ञातव्यम् ॥१८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इहैवान्यद् आह—अपि चेति । तथैव मातृवत् । तत् तद्-अनु ॥१८॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इमम् एवार्थं प्रपञ्चयति—अद्यैव ते इत्य्-आदि । ते त्वया अद्यैवास्य विश्वस्य मायात्वं मम मह्यं न आदर्शितं ? दर्शितम् एव, किन्तु त्वद्-ऋते त्वां विना । त्वं तु माया-बहिर्-भूत एव । अतस् त्वद्-ऋते इति मिलितस्यैव सर्वस्य त्वद् इति पञ्चम्य्-अन्तेन निर्देशः । एवं चेन् मायात्वं कस्य यद् दर्शितं तद् एवेत्य् आशङ्क्याह—तद् अखिलैः सार्धं ममोपासितास् तावन्त्य् एव जगन्त्य् अभूर् इति यत् तन् माया अखिलैस् तत्त्वादिभिः सह मायोपासिताः । तेन हि, सत्य-ज्ञानानन्तानन्द- मात्रैक-रस-मूर्तयः [भा।पु। १०.१३.५४] इति यत् पूर्वम् उक्तं, तेन सह सङ्गतिः । अतो बालादि-रूपं शुद्ध-चैतन्यम् एव । अत आह—तद् अमितं ब्रह्माद्वयं शिष्यते । तद्-बालादि-रूपम् अमितम् अपरिच्छिन्नं ब्रह्म अद्वयं शिष्यते । तव वैभवत्वेनैव द्वितीय-शून्यं सत् शिष्यत इत्य् अर्थः । ननु, ब्रह्मणः कथम् इदं घटताम् । नानात्वम् अपि मे मद्-अभिन्नत्वात् शुद्ध-चैतन्यम् एव यद् उच्यते इति नाशङ्कनीयम्, यतोऽस्य विग्रहस्य तथैव काचिच् छक्तिः, वस्तु-महिमनि हेत्व्-अन्तरापेक्षा न क्रियते ॥१८॥
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.४.१६४] अस्य प्रपञ्चस्य यन् मायात्वं मिथ्यात्वं, तच् च स्वप्न-मनोरथादौ माया-मये\ऽत्र प्रपञ्चे वर्तमानाद् अपि तथा विचित्र-बहुल-रूपतया तत्र तत्र दृश्यमानाद् अपि त्वत्तो विनैवेति न किं मे मां प्रति अद्य त्वया आदर्शितं सम्यग्-बोधितम् अपि तु त्वां विनैवेत्यादर्शितम् । यतः स्वयं त्वं यद् भवसि तत् तत् सर्वं सत्यम् एव पर-ब्रह्म-रूपत्वाद् इत्य् आह—एको\ऽसीति । प्रथमम् एक एवासीः, आसीः सामीप्ये वर्तमाना, ततः पश्चाद् व्रज-सुहृदः गोप-बालका वत्साश् च समस्ता अप्य् असि । ततश् च तैः कार्य-कारण-रूपैर् अखिलैः साकं मया मत्-सहितैर् उपमिताश् चतुर्भुजास् तावन्तः वत्स-बाल-परिमिता एवासीः । एवं प्रत्येकं निखिल-ब्रह्माण्ड-कार्य-कारण-वर्ग-सेवितत्वेन, तावन्ति वत्स-बाल-परिमितान्य् एव जगन्ति ब्रह्माण्डानि अभूः । तत् ततः अमितम् अपरिच्छिन्नं ब्रह्म अद्वयम् एकम् एव शिष्यते पश्चात् पर-ब्रह्म-रूपस् त्वम् एक एवावशिष्टो\ऽभूर् इत्य् अर्थः । तेषां सर्वेषाम् एकत्वेनैव दर्शनात् ॥१८॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, सर्वं तत् तन् मायिकं चेत्, तर्हि तत्रात्र च वर्तमानस्य ममापि मायिकतैव प्रसज्येत, न प्रपञ्चान्तर्गतत्वेऽपि तव भावकानां च सत्यता त्व् अधुना साक्षान् मयैवानुभूतेति पुनर् मायिक-पक्षम् एवानुसृत्य साहङ्कारम् आह—अद्यैवेति । यद् अस्य प्रपञ्चस्य मायात्वं, तच् च त्वत्तः स्वप्न-मनोरथादौ माया-मये प्रपञ्चे वर्तमानाद् अपि तथा विचित्र-बहु-रूपतया दृश्यमानाद् अपि विनव्येत्य् अद्यैव किं ते त्वया मं नादर्शितं, न सम्यग् दर्शितं ? अपि तु दर्शितम् एवेत्य् अर्थः । कथं ? तत्राह—**एकोऽसीत्य्-**आदिना । सुहृदः सखायो बालाः । न च तत्-तन्-मायिकामायिकम् इत्य् आह—तत् तद् यद् अभूस् तत् सर्वम् अमितं बालक-वत्सादि-भेदेन परिच्छिन्नत्वेऽप्य् अपरिच्छिन्नम् एव । अद्वयं तत्-तन्-नाना-विधत्वेऽप्य् एकम् एवातो ब्रह्मैव शिष्यते स्वयं पर्यवस्यति, सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः [भा।पु। १०.१३.५४] इत्य्-आदि-स्वरूपतया दर्शनात् ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जनन्य्-अनुभवोऽप्य् आस्ताम् इत्य् आह—अद्यैवेति । त्वत्-पदेनात्र साक्षाद्-रूपं बाल-वत्स-चतुर्भुजादि-लक्षणं साक्षात्-तद्-रूपम् अपि उच्यते—पुरोवद् आब्दं क्रीडन्तं ददृशे सकलं हरिं [भा।पु। १०.१३.४०] इति,
तावत् सर्वे वत्स-पालाः पश्यतोऽजस्य तत्-क्षणात् । > व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥ [भा।पु। > १०.१३.४६] इति,
सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः [भा।पु। १०.१३.५४] इति चोक्तत्वात् अस्येत्य् अनेन चात्र तद् अन्यद् उच्यते—
आत्मादि-स्तम्ब-पर्यन्तैर् मूर्तिमद्भिश् चराचरैः । > नृत्य-गीताद्य्-अनेकार्हैः पृथक् पृथग् उपासिताः ॥ [भा।पु। > १०.१३.५१]
इति-आदौ, स्व-महि-ध्वस्त-महिभिर् [भा।पु। १०.१३.५३] इति-उक्तत्वात् साकं मयेत्य् अनेन स्वाधिष्ठान-ब्रह्माण्डस्यापि तद्-अन्तः-पातो विवक्षितः । ततश् च त्वद्-ऋते त्वां त्वत्-साक्षाद्-रूप-बाल-वत्स-चतुर्भुजाद्यं च विना यद् अखिलं दर्शितम् अस्य जगतस् त्वन्-महिम-ध्वस्त-महिमतया दर्शितस्य किं मायिकं न सम्यग् दर्शितं, किन्तु दर्शितम् एवेत्य् अर्थः ।
अथ सर्वम् एव तद् दर्शितं विवृणोति—एकोऽसीत्य्-आदिना । तत्र मायिकामायिक-सर्व-दर्शनाद्य्-अन्तः-स्थितं यद् ब्रह्म तद् अपि एतद् एवेति द्योतितं, न स्थानतोऽपि परस्योभय-लिङ्गं सर्वत्र हि [वे।सू। ३.२.११] इति न्यायात् । वक्ष्यते च स्वयम् एव, अहो भाग्यम् अहो भाग्यं [भा।पु। १०.१४.३२] इत्य्-आदिना ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः (३७) : मयाप्य् एवम् एवानुभूतम् इत्य् आह—अद्यैवेति । अद्यैव ते त्वया किम् अस्य विश्वस्य त्वद्-ऋते त्वत्तो बहिर् मायात्वं माययैव स्फुरणं भवतीति मम मां प्रति न दर्शितं ? अपि तु दर्शितम् एव । एतन् नराकार-रूपात् त्वत्तो बहिर् एवेदं जगद् इति यन् मुग्धानां भाति । तन्-माययैवेत्य् अर्थः । कथम् एतद् आकार-रूपस्य मम तादृशत्वं ? तत्राह—एकोऽसीति । व्रज-सुहृदादि-रूपं यद् यस्माद् आविर्भूतं, तत् तद् अखिलम् अधुना तिरोधान-समये येन पुनर् अनेन श्री-विग्रह-रूपेणावशिष्यते, तद् अद्वयं ब्रह्मैवेत्य् अर्थः । अशेष-प्रापञ्चिकाप्रापञ्चिक-वस्तूनां प्रादुर्भाव-स्थिति-तिरोभाव-दर्शनेन तल्-लक्षणाक्रान्तत्वाद् इति भावः । ततश् चास्य ब्रह्मत्वे सिद्धे व्यापकत्वम् अपि सिध्यतीति तात्पर्यम् ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् इदं कुत्रोपयुज्यते ? सत्यम् । किं नाना भवति ? न हि सत्यस्य नानात्वम् इति न्यायात् । नैवम् इत्य् आह—अद्यैव त्वद्-ऋते इत्य्-आदि । अद्यैव इदानीम् एव त्वद्-ऋते त्वां विना त्वद्-बहिरङ्गस्यास्यापराद्धुर् मम मह्यं मायात्वं किम् आदर्शितं ? न । यद् दर्शितं तत् किं माया, कुहकं ? नेत्य् अर्थः । कुतो न मायात्वं ? तत्राह—एकोऽसि प्रथमं, तन् मायैव, न एकात्वं सजातीय-शून्यत्वं तव स्वरूपम् एव, ततो व्रज-सुहृद्-वत्सा इति यत् तद् अपि न कुहकं ? नेत्य् अर्थः । कुतो न मायात्वम् ? तत्राह—एको\ऽसि प्रथमम्, तन् मायैव, न एकात्वं सजातीय-शून्यत्वं तव स्वरूपम् एव, ततो व्रज-सुहृद्-वत्सा इति यत् तद् अपि न कुहकम् । कुतः ? तत्राह—तावन्तश् चतुर्भुजा असि, त्वम् एव स्थितायाम् । सत्य-ज्ञानानन्तानन्द- मात्रैक-रस-मूर्तयः [भा।पु। १०.१३.५४] इत्य्-आद्य्-उक्तेः । कथं कुहकं ? तद् इत्य् अव्ययम् । तत् ते अखिलैर् महद्-आदिभिः सार्धं मयोपासिता इति यत् तद् अपि न कुहकम्, तेषां मम च तथा तथा भवितुम् असामर्थ्यात् । स्वयम् एव भवता तथा तथा भूतम् इति कुहकम् । तावन्त्य् एव जगन्त्य् अभूर् इति चेत्, तद् अपि न कुहकम् अभूर् इत्य् उक्तेस् तेषां त्वत्वात् तद् अपरं पश्चाद् अद्वयं ब्रह्म भवान् एक एव यत् तद् अपि न कुहकम्, ब्रह्मत्वात् । अतः पूर्वं यद् उक्तं, किम् इदं मायया विना [भा।पु। १०.१४.१७] इति यत् तद् एवेति तत् सत्यम् एवेति वाक्यार्थः ॥१८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वत्-कुक्षि-गतं जगत् बहिः-ष्ठं तवादि-पुरुषस्य रोम-कूप-गतं च जगत्-सहस्रं सर्वं मायोपादानकत्वान् मायिकम् एवेत्य् एतावत् काल-पर्यन्तं मया अवधारितम् एव, किन्तु अतर्क्य-महा-महैश्वर्यस्य तव त्वदीय-स्वरूप-शक्त्य्-आत्मकं चिन्-मयम् अपि जगत्-सहस्रम् अस्तीत्य् अद्यैवानुभूतम् इत्य् आह—अद्यैव अस्य मञ्जु-महिमनि मद्-दृष्टस्य जगत्-सहस्रस्य किं त्वद्-ऋते जगत् सहस्र-सम्बन्धि किं वस्तु त्वद्-विना-भूतं, अपि तु सर्वम् एव त्वत्-स्वरूप-भूतम् एवेत्य् अर्थः । अत एव मम मां प्रति ते त्वया अस्य न मायात्वम् आदर्शितं, किन्तु चिन्मयत्वम् एव दर्शितम् इति भावः ।
कुतः ? इत्य् अत आह—एकोऽसीति । प्रथमम् एकस् त्वम् असि, ततः स्वरूप-शक्त्यैव व्रज-सुहृदो बालाः वत्साः समस्ता अपि त्वम् एवाभूः, ततो योग-माययैव तान् आच्छाद्य प्रकाशाः स्वरूप-शक्ति-मयाश् चतुर्भुजास् त्वम् अभूः ।
कीदृशाः ? अखिलैर् आत्मादि-स्तम्ब-पर्यन्तैश् चिन्मयैर् एव मया मादृशेन ब्रह्मणापि चिन्मयेनैवोपासितास् ततश् च तावन्त्य् एव जगन्ति चिन्मय-ब्रह्माण्डान्य् अभूः, तत् तओ योग-मायैव त्वद्-इच्छया तान् सर्वान् आच्छाद्य प्रकाशितम् अमितम् अपरिमित-सौन्दर्यम् अनुपम-ब्रह्म-पूर्णम् अद्वयम् एकं शिष्यते, सम्प्रत्य् अपि मद्-भाग्याद् योग-मायया मद्-दृष्टीः प्रत्यनावृतम् एव भवान् वर्तत इत्य् अर्थः ।
अत्र त्वम् अभूस् त्वम् अभूर् इति निर्देशेन व्रज-सुहृद्-आदीनां जगद्-अन्तानां भगवता माया-शक्तिं विनैवाविर्भावितत्वाच् चिन्-मयत्वम् अवधारणीयम् । माययाभूर् इत्य् अनुक्तेस् त्वद्-ऋते किम् इत्य् उक्तेश् च जगतां तु सुतराम् एव ॥१८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अपि च त्वत्-कुक्षौ ततो बहिश् च जगत् त्वन्-मात्रा दृष्टं, तव कारणोदशयस्य रोम-कूपेषु च जगत्-कोटयः परिभ्रमन्ति, तत् सर्वं त्वन्-मायया त्रिगुणया विरचितम् इत्य् एतावत् कालं मया निश्चितम् एव । अद्य त्वद्-विचिन्त्य-पराख्य-शक्तेस् तव विज्ञानानन्द-मयो निर्विकारः सर्गोऽस्तीत्य् अनुभूतम् इति सरोमाञ्चं निवेदयति—अद्यैवेति । अस्य मञ्जु-महिमनि दृष्टस्य वासुदेव-निवहस्य सम्बन्धि तत्रत्य-परिच्छद-रूपं वस्तु किं त्वद्-ऋते त्वां विना-भूतं, अपि तु त्वद्-आत्मकम् एव सर्वम् इत्य् अर्थः । मम मां प्रति ते त्वया अस्य सन्निवहस्य मायात्वं नादर्शितं, किन्तु पराख्य-शक्ति-मयत्वम् एव दर्शितम् इत्य् अर्थः । कथम् इत्य् आह—प्रथमम् एकत्वम् असि, ततो व्रज-सुहृदां बालाः समस्ता वत्सा अपि त्वम् एवाभूः, ततस् तान् आच्छाद्य प्रकाशितास् तावन्तश् चतुर्भुजास् त्वम् अभूः । कीदृशास् ते मया लक्ष्म्या साकम् अखिलैस् तत्त्वैर् उपासिताः, तावन्ति जगन्ति विज्ञान-मयान्य् अण्डानि चाभूः, तत् ततस् तानि सर्वाण्य् आच्छाद्य अमितम् अन्तर्गत-तत्-सर्वत्वाद् विभु ब्रह्मावशिष्यते अद्वयम् इति प्राग्वत्, अत्र त्वद्-ऋते किं त्वम् अभूस् त्वम् अभूर् इति निर्देशान् मायया अभूर् इत्य् अनुक्तेश् च पराख्य-शक्त्यैव व्रज-सुहृद्-आदि-जगद्-अन्ततया नन्दसूनोर् आविर्भावो दर्शितः। एष खलु नारद-पाञ्चरात्रे शुद्ध-सर्ग-शब्देनोच्यते, शुद्ध-सर्गम् अहं देव ज्ञातुम् इच्छामि तत्त्वतः इत्य्-आदिभिः ॥१८॥
॥ १०.१४.१९ ॥
अजानतां त्वत्-पदवीम् अनात्मन्य्
आत्मात्मना भासि वितत्य मायाम् ।
सृष्टाव् इवाहं जगतो विधान
इव त्वम् एषोऽन्त इव त्रिनेत्रः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, ब्रह्मंस् तव मया दर्शितं शुद्धम् एव चैतन्यं कथं प्रपञ्चवन् माया ? इत्य् उच्यते, सत्यम्, किन्त्व् अद्वितीये त्वयि नानात्वं गुणावतार-मत्स्याद्य्-अवतारेष्व् इव कार्य-वशेन स्वतन्त्र-माया-निबन्धनम् इत्य् आह श्लोक-द्वयेन—अजानताम् इति । त्वत्-पदवीं तव स्वरूपम् अजानताम् अनात्मनि प्रकृतौ स्थित आत्मैव त्वम् आत्मनैव स्वातन्त्र्येण मायां वितत्य भासि । कथं ? जगतः सृष्टाव् अहम् इव ब्रह्मेव, विधाने पालने च एष त्वम् इव, अन्ते त्रि-नेत्र इवेति ॥१९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवतः शङ्कान्तरम् आह—नन्व् इति । स्वीकृत्य किञ्चिद् आह—सत्यं, किं त्व् इति । स्वतन्त्र-माया-निबन्धनं स्वाधीन-माया-हेतुकम् । त्रिनेत्रो रुद्रः ॥१९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एतद् अजानन्तो हि मुह्यन्तीत्य् आह—अजानताम् इत्य्-आदि । त्वत्-पदवीम् अजानतां त्वन्-महिमानम् अविदुषां मध्ये अनात्मनि अनात्मीये भक्तं भवे आत्मना स्वयम् एव मायां वितत्य भासि, यद्यपि सर्व एव ते महिमानम् अभिज्ञास् तथापि भक्तेषु मायां न करोषि । भक्तास् तव माया-हता न भवन्तीत्य् अर्थः । मायाम् एवाह—सृष्टौ अहम् इव, वस्तुतस् तु त्वम् एव सृजसि, पासि, लुम्पसि च । “अहं विद्वान् अहम् एव जगत्-कर्ता” इति यद् अभिमानम् आवहामि, विधाने पालने एष त्वं विष्णु-रूपी यः, त्वाम् अचक्षानस् त्वम् अन्ते त्रिनेत्रः । एतेषां पार्थक्यं हि मायया ॥१९॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईदृश-त्वन्-माहात्म्यान् अभिज्ञेषु त्वद्-अभक्तेषु त्वम् अन्यथैव स्फुरसीत्य् आह—अजानताम् इति । उक्तां तव पदवीं तत्त्वं भक्ति-मार्गं वा अनात्मनि जडे देहे आत्मा स्वयम् एव त्वम् आत्मना जीव-रूपेण प्रकाशसे । ननु, जीवेश्वरयोः परम-वैलक्षण्यं श्रुति-स्मृति-प्रतिपाद्यमानं ते कथं नावगच्छन्ति ? तत्राह—वितत्य मायाम् इति । अभक्तत्वेन त्वन्-माया-मोहितत्वाद् इत्य् अर्थः । अत एव जगत्-सृष्टि-निमित्तं योऽहं स इव भासि । एवम् अग्रेऽपि । एष त्वम् इति मन्वन्तर-पालकावतार-श्री-विष्णुना सहाभेदाद्य्-अभिप्रायेण—अहम् एव ब्रह्मा विष्णुः शिवश् चेति ते जानन्तीत्य् अर्थः । सृष्ट्य्-आदि-प्रयोजन-निर्देशेन तेषाम् अज्ञतैव दर्शिता । सृष्ट्य्-आदि-कर्तृत्वेन जीवतः परम-वैलक्षण्येऽपि तत्-तद्-अभिमानात् सृष्ट्य्-आदि-क्रमापेक्षया ब्रह्मादि-क्रमेण निर्देशः । यद् वा, यथा सृष्ट्य्-आदि-निमित्त-महद्-आदि-रूपेण मायां वितत्य भासि तथेत्य् अर्थः, तत् ततस् तवैव सृष्ट्य्-आदि-कर्तृत्वात्—जन्माद्य् अस्य यतः [वे।सू। १.१.२] इत्य्-आद्य्-उक्त्या ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं गुणावतार-लीलावतारेष्व् अपि त्वम् एव मूलम् इत्य् आह—अजानताम् इति द्वाभ्याम् । त्वम् इत्य् अस्य भासीत्य् अनेनान्वयः कर्तुः । क्रियान्वयस्यैव मुख्यत्वात् विधाने पालने एष इव एतत्-कार्य-परिच्छिन्न इव पालन-मात्र-कर्तेवेत्य् अर्थः । विष्णोस् तद्-ऐक्यान् न ब्रह्मादिवत् तन्-नामोक्तिर् इति ज्ञेयम् । यथा द्वितीये श्री-ब्रह्मणैवोक्तम्—
सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः । > विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ [भा।पु। २.६.३१] > इति ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः (३८) : ननु, सृष्ट्य्-आदौ ब्रह्म-विष्णु-महेश्वरा भिन्ना एव कारण-भूताः, तथा स्थितौ केचिद् अन्येऽवताराश् च, तत् कथं ममैवं सर्व-कारणत्वम् उच्यते ? तत्राह—अजानताम् इति ।
त्वम् इत्य् अस्य भासीत्य् अनेनान्वयः, कर्तृ-क्रिययोर् अन्वयस्यैव प्राथमिकत्वात् । कर्त्रा चात्र त्वम् इत्य् एव मध्यम-पुरुषेण युज्यते । तस्माद् अत्र नेव-शब्दः सम्बध्यते, किन्त्व् “एष” इत्य् अत्रैव । ततश् च श्री-विग्रहोऽयं वाच्यः, स्वयं भगवत्त्वेनास्य गुणावतारत्वाभावात्, अद्यैवत्वद्-ऋतेऽस्य [भा।पु। १०.१४.१८] इत्य् अनेनाव्य्ववहित-वचनेन विरुद्धत्वाच् च ।
तस्माद् अयम् अर्थः—त्वत्-पदवीं तव तथाभूतं स्वरूपम् अजानताम् अजानतः प्रति । आत्मा तत्-तद्-अंशि-स्वरूपस् त्वम् एव । आत्मना तत्-तद्-अंशेन, मायां सृष्ट्य्-आदि-निमित्त-शक्तिम् । अनात्मनि जड-रूपे महद्-आद्य्-उपादाने प्रधाने । वितत्य प्रवर्त्य, तत्-तत्-कार्य-भेदेन भिन्न इव भासीत्य् अर्थः ।
कथं ? जगतः सृष्टाव् अहं ब्रह्मैव, विधाने पालने एष इव एतत्-कार्य-परिच्छिन्न इव, पालन-मात्र-कार्य इवेत्य् अर्थः, अन्ते त्रि-नेत्र इवेति । वस्तुतस् त्वम् एव तत्-तद्-रूपेण वर्तसे, मूढास् तु त्वत्तस् तान् पृथक् पश्यन्तीति भावः । यतो द्वितीये ब्रह्म-वाक्यम्—
सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥[भा।पु। २.६.३२] इति
अतो भगवत्-स्वरूपैकत्वेन न ब्रह्मादिवद् विष्णुर् इवेति निर्दिष्टम् ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किन्तु ये तु तन्-महिमानं न जानन्ति, ते मायैवेयम् इति वदन्ति, न पुनर् अनिर्वचनीयं तव स्व-योग-शक्ति-विलसितं तथा-विधम् एवेति दर्शयन्न् आह—अजानतां त्वत्-पदवीम् इत्य्-आदि । त्वत्-पदवीं तव वर्त्म अजानतां जनानाम् अज्ञानतो जनान् अनादृत्य । अनादरे षष्ठी । अना अपुरुष ईश्वरस् त्वम् आत्मा चेद् आत्मना इच्छा-शक्त्या आत्मनि स्वभावे मायां योग-मायां नामैच्छिकीं प्रकाशिकाख्यां शक्तिं वितत्य भासि । त्वत्-पदवीम् अजानन्तस् ते तन् न विदन्तीति तेष्व् अनादरः ।
ननु, तर्हि विश्व-सृष्ट्य्-आदि-लीलापि प्रकाशिकायाः शक्तेर् विलसितम् एवास्तु, न त्व् आवरिकायाः ? नैवेत्य् आह—सृष्टाव् इवाहम् इत्य्-आदि । जगतः सृष्ट्य्-आदौ योऽस्माकम् अभिमानः, स त्व् आवरिकाया एव प्रभावोऽस्मद्-आदि-रूपेण त्वम् एव करोषि, तत् तु तव लीलैव, न कुहकम् । यथा वत्स-वत्सपादयस् त्वद्-रूपा एव न कुहकम्, अहं ब्रह्माख्यः कश्चन, विधाने पालने त्वम् इव विष्णुर् इव विष्णुर् नाम कश्चन, अन्ते नाशे त्रि-नेत्रे इति रुद्राख्यः कश्चनेति । वस्तुतस् तव लीलैव, न तु कुहकम् इदम् । तद्वद् वत्सपालादिकं तद् दर्शितं तद् अपि न कुहकम् । तत् ते ऐच्छिकाख्य-प्रकाशिका योग-मायैव सृष्ट्य्-आद्य् अप्य् अस्मद्-आदि-रूपेण त्वम् एव करोषि । तत्रास्मद्-आदीनां योऽभिमानः, स एवावरिकाख्याया विलसितम्, न त्व् अस्मद्-आदिस् त्वद्-रूपत्वात्, यथा वत्सपादय इत्य् अन्योन्योपमा-व्यङ्ग्या तेन नेदं ते कुहकम् इति पूर्वानुवादः ॥१९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्गम-महिम्नस् तव चिन्मय-जगतां वार्ता दूरे तावद् आस्ताम् । बहिर्मुखानां मते तु त्वम् अपि मायोपाधिर् मायामय एव भवसीत्य् आह—अजानताम् इति । त्वत्-पदवीं त्वत्-प्रापकं वर्त्म भक्ति-योगम् अजानतां ज्ञान-मानिनां तु मतं त्वम् अनात्मनि प्रकृतौ स्थित एव आत्मैव त्वम् आत्मनैव स्वातन्त्र्येणैवेति तव जीवाद् विशेषः मायां वितत्यइव भासि, आकार-शून्योऽप्य् आकारवत्त्वेन भातो भवसि । सृष्टौ रजो-गुणेन यथाहं, विधाने पालने सत्त्वेन एष त्वं विष्णुर् इव, अन्ते तमसा त्रि-नेत्रो रुद्र इवेति निराकारस्याप्य् आत्मना मायिकाकारा यथा ब्रह्म-विष्णु-रुद्राः, तथा मायिकम् एव जलस्य नारायण-रूपम् अवताराश् च सर्वे मायिक-रूपा माययैव वत्स-बाल-चतुर्भुजादीन् क्षणिकान् दर्शयामासेति ते प्राहुर् इत्य् अर्थः ॥१९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, ब्रह्मन् ममत्थं भावम् अन्ये न वदन्ति यथा त्वम् आत्थेति चेत् सत्यं येषु तवात्यन्तिकी कृपा त एवंतं विदन्ति अन्ये त्व् ईश्वरः कश्चिद् अस्ति स जगत्-कार्यार्थी ब्रह्मादि-रूपः सृष्टय् आदि । वामनादि-रूपस् तु सुर-साहाय्यञ्च करोतीत्य् एतावद् एव जानन्ति नान्यद् इत्य् आह—अजानताम् इति द्वाभ्याम् । त्वत्-पदवीं त्वत्-पराख्य-शक्ति-विलास-सिद्धान्त-पद्धतिम् अजानताम् अनुपासित-तज् ज्ञानां तान् प्रत्यग् आत्मनि प्रकृती नियन्तृतया आत्मा स्वयम् अवस्थितस् त्वम् आत्मना स्वातन्त्र्येण मायां ताम् एव वितत्य भासि, कथं ? जगतः सृष्टाव् अहं विरिञ्चिर् इव विधाने पालने एष त्वम् इव विष्णुना सहाभेदान्नामान् उल्लेखः अन्ते विनाशे त्रि-नेत्रो रुद्र इव ॥ १९ ॥
॥ १०.१४.२० ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुरेषु उपेन्द्रः । ऋषिषु परशुरामः । नृष्व् अपि रामः ॥२०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुरेषु उपेन्द्रः । ऋषिषु परशुरामादिः । तथैव देवादिष्व् इव । तिर्यक्षु वाराहादिः । यादःसु मत्स्यादिः । यादांसि जल-जन्तवः इत्य् अमरः । असतां रावणादीनाम् ॥२०॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं नानावतारोऽपि ते एव पृथक्त्वेन यया भासते, सा माया । वस्तुतस् तु त्वं सुरादिर् न भवसि । अत उक्तं, स वै न देवासुरः [भा।पु। ८.३.२४] इत्य्-आदि । तत्-तद्-भावस् तु मायेत्य् आह—सुरेष्व् इति । एष तव जन्म प्रादुर्भावः । स खलु असतां दुर्मद-निग्रहाय च, तेषु यत् पार्थक्यं, यश् च चतुर्जातीयावतारस् तन् माया । नरेषु पृथ्व्-आदिषु । न तु एते मे दृष्टाः सत्य-ज्ञानानन्तानन्दादि-विशेषण-विशिष्टा वा नास्ति न माया ।
नन्व् अहम् अपि नरत्वम् अङ्गीकृतवान् अस्मीति नैवं तवैतत् स्वरूपम् एव, नराकृति परं ब्रह्म, गूढं परं ब्रह्म मनुष्य-लिङ्गं [भा।पु। ७.१५.५८] इत्य् उक्तम् । यस्माद् एते सत्य-ज्ञानानन्तानन्दादि-मूर्तयः प्रादुर्भूताः, तस्य तव नरत्वे का कथेति पूर्वापर-सङ्गतिः ॥२०॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेषाम् अपि हिताय निरुपाधिक-करुणया त्वं बहुधावतरसीत्य् आह—सुरेष्व् इति । अजनस्य—जननं जनः, न विद्यते जनो जन्म-लक्षण-संसारो भक्तानां यस्मात् तस्य ।दुर्मदः—«अहं शास्त्रार्थ-ज्ञो योगाभ्यास-रतः सिद्धः» इत्य्-आदि-रूपः । तस्य निग्रहाय निरसनाय, तत्-तल्-लीला-श्रवणेन भक्त्या स्वत एव तद्-अपगमात् । न केवलं तेषाम् एव हितार्थं साधूनां सन्तोषणार्थम् अपीत्य् आह—सद् इति । असद्-दुर्मद-निग्रहेण सद्-धर्म-प्रवर्तनं तथा तत्-तन्-मधुर-लीलादि-प्रकाशनम् एव तत्-स्वनुग्रहस् तस्मै।
ननु, असत्सु कथम् ईदृशी कृपा ? तत्राह—प्रभो ! हे परम स्वतन्त्रेत्य् अर्थः । विधातः ! हे तत्-तद्-अवतार-कर्तर् इति प्रकृतोपयोगित्वाद् अवतारित्वेन सम्बोधनम् । अथवा माया-मोहितत्वात् ते त्वद्-अवतारेषु जीववद् दृष्टिं च कुर्वन्ति, जन्मादि श्रवणात् । तत्त्वतस् तु वयम् इव ते तव प्रादुर्भाव-रूपा एवेत्य् आह—सृष्टाव् इति सार्धेन । सृष्ट्य्-आदि-निमित्तं यथा वयं त्रयस् तथा तेऽपि तत्-तद्-अर्थम् अतो न जीववत् तेषां जन्मादीत्य् अर्थः । ततश् च सुरेषु धर्मादिषु श्री-नर-नारायणादयो ज्ञेयाः । अथवा, तर्हि भक्तेषु कथं भासीत्य् अपेक्षायां त्वद्-ऋते [भा।पु। १०.१४.१८] इत्य् उक्तम् । तत् सत्यत्वम् एव दर्शयन्न् आह—सृष्टाव् इत्य्-आदि । सृष्ट्य्-आदि-निमित्तं ब्रह्मादि-रूपेण तत्-तद्-अर्थं च श्री-नर-नारायणादि-रूपेण त्वम् एव तेषु भासीत्य् अर्थः । तद्-अर्थं प्रपञ्चान्तर्गतम् अपि त्वां ते सत्यम् एवानेकम् अपि एकम् एव जानन्तीति भावः ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अजनस्य प्राकृतवज् जन्म-रहितस्य स्वरूप-शक्त्या स्वयम् आविर्भावात्, तच् च केवलं भक्त-परिपालनायेति माया-कार्यानासक्तिम् आह—असताम् इति । प्रभो ! हे अविचिन्त्य-शक्ति-युक्त ! विधातः ! हे अनन्तावतार-कर्तः ! अत्राजानताम् इत्य् आदौ या टीकावतारिका । ननु, ब्रह्मन्न् इत्य् आद्या तत्रायम् अभिप्रायः ईश्वरः खलु स्वाधीनया मायया प्रपञ्च-विलक्षणं शुद्ध-सत्तात्मकं स्व-विग्रहादिकं भजति, ततस् तत्राविष्टश् च न भवति शुद्ध-सत्त्वस्य स्वच्छत्वेन शुद्ध-चैतन्य-तादात्म्यापन्नत्वात् तद्-रूपम् एव तत् सर्वम् । जीवस् त्व् ईश्वराधीनया माययाधीनीकृतः प्रपञ्चात्मकं रजस्-तमो-मयं विग्रहादिकं प्राप्नोति, ततस् तत्राविष्टश् च भवति } रजस्-तमसोर् अस्वच्छत्वेन चिद्-रूपत्वानाविष्काराज् जड-रूपम् एव तत् सर्वम् इत्य् अतो भवेद् एव वैलक्षण्यम् इति । किं तु माया-शब्दस्य स्वरूप-शक्ति-वाचित्वेनापि प्रतिपादयिष्यमाणत्वात् तन्-मत-स्व-मतयोर् एकत्वम् एव दर्शयिष्यते ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः (३९) : एवं यथा गुणावतारास् तथान्येऽप्य् अवतारा इत्य् आह—सुरेष्व् इति । अजनस्य जन्मेत्य् अनेन प्रादुर्भाव-मात्रं जन्मेति बोधयति ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं तव मत्स्याद्य्-अवतारा अपि न कुहकम् । ऐच्छिक्या एव प्रकाशिकाया योग-शक्तेर् विलसितम् एवास्मद्-आदिवत् स वत्सपादिवद् इत्य् आह—सुरेष्व् ऋषिष्व् ईशेत्य्-आदि । सुरेषु यज्ञादि-रूपेण, ऋसीषु नर-नारायणादि-रूपेण, नृसू पृथ्व्-आदि-रूपेण, तिर्यक्षु वराहादि-रूपेण, यादःसु मत्स्य-कूर्मादि-रूपेण अजनस्यापि तव जन्म प्रादुर्भावोऽसतां दुर्मद-निग्रहाय, सद्-अनुग्रहाय च । हे ईश ! कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थ ! प्रभो सर्वेश्वरेश्वर ! सर्व-विधातः ! विधा विधिस् तस्मात् प्रयोजनाद् एव विधा प्रकारस् ततो वा, विधातर् इति सम्बोधनं वा, न तु तत् कुहकम् । पूर्ववत् प्रकाशिकाख्य-योग-शक्ति-विलसितम् एव ॥२०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतस् तैः स्व-भक्तानां पराभवाभावार्थं यत् स्व-पदवी-ज्ञापनं प्रायस् तद्-अर्थम् एव तव सर्वेऽवतारा इत्य् आह—सुरेष्व् इति । असताम् असाधूनां वयम् एव ज्ञानवन्त इति यो दुष्टो मदस् तस्य निग्रहाय सतां भक्तानां स्वीय-सच्-चिद्-आनन्द-मय-रूप-गुण-लीलानुभावनयानुग्रहाय । यद् उक्तं—सत्त्वं न चेद् धातर् इदं निजं भवेत् [भा।पु। १०.२.३५] इत्य्-आदि ॥२०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अजनस्यापूर्व-देह-योग-शून्यस्य ते सुरादिषु जन्म सुरेषु वामनः, ऋषिषु भार्गवः, नृषु श्री-रामचन्द्रः, तिर्यक्षु क्रोडः, यादःसु मत्स्यः ॥२०॥
॥ १०.१४.२१ ॥
को वेत्ति भूमन् भगवन् परात्मन्
योगेश्वरोतीर् भवतस् त्रिलोक्याम् ।
क्व वा कथं वा कति वा कदेति
विस्तारयन् क्रीडसि योगमायाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, च स्वातन्त्र्ये कथं कुत्सितेषु मत्स्यादिषु जन्म ? कथं वा वामनाद्य्-अवतारे याच्ञादि कार्पण्यं ? कथं वास्मिन्न् एव कदाचिद् भय-पलायनादि ? अत आह—को वेत्तीति । अन्वर्थैः सम्बोधनैर् दुर्ज्ञेयत्वम् एवाह—भूमन्न् इत्य्-आदिभिः । भवत ऊतीर् लीलास् त्रि-लोक्यां को वेत्ति ? क्व वा, कथं वा, कदा वा, कति वा ? इति । अचिन्त्यं तव योग-माया-वैभवम् इति भावः ॥२१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते—नन्व् इति । अतः अत्र । अन्वर्थैर् अर्थानुगतैर् यथार्थैर् इति यावत्। क्व कुत्र । कथं केन प्रकारेण । कदा कस्मिन् काले । कति कियत् सङ्ख्यका ऊतीः करोति चक्रे करिष्यति वेत्य् अर्थः । इति भाव इति—अघटन-घटना-पटीयस्या मायातोऽपि योग-माया प्रबला, परास्य शक्तिर् विविधैव श्रूयते [श्वे।उ। ६.८] इत्य्-आदि-श्रुतेर् इत्य् अर्थः । [विश्वनाथ-टीका] ॥२१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्व् एवं कथं घटतां ब्रह्मणो नराकृतित्वं, यद् उच्यते इति न वक्तव्यम् । अतस् त्वम् अचिन्त्यानुभावोऽसि । तव महिमानं को वेत्तीत्य् अर्थः । हे भूमन्! भगवन् ! परात्मन् ! योगेश्वर ! इति चत्वारि विशेषणानि सम्बोधन-पराण्य् अचिन्त्य-महिमा-ख्यापकानि । यतस् त्वं योग-मायां भुवि तन्वन् क्रीडसि भूमन्न् इत्य् अपरिच्छिन्नत्वे, क्वेति भगवन्न् इत्य् अचिन्त्य-महिमत्वे, कथम् इति परात्मनः सर्वेषां पुरुषादीनाम् अपि आत्मन्न् इति, कतीति योगेश्वरेति नाना-रूपत्वे, कदेति तस्मात् तव महिमा कैर् अपि वक्तुं न शक्यते । तवावताराणां वा नित्यत्वादिकं कैर् निरस्यताम् ॥२१॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तर्हि त्वद्-अवतार्ण् कस्यापि जीववद् अत्यन्त-लौकिकी चेष्टा नोपपद्यते ? तत्राह—को वेत्तीति । भूमन् अपरिच्छिन्न ! भगवन् सर्वैश्वर्य-युक्त ! परात्मन् सर्वान्तर्-निगूढ ! योगेश्वर दुर्घट-घटन-समर्थ ! सम्बोधनानाम् एषां यथोत्तरं दुर्ज्ञेयत्वे श्रैष्ठ्यं ऊह्यम् । योग-माया सच्-चिद्-आनन्द-विलास-रूपो भगवच्-छक्ति-विशेषः, तां विस्तारयन्न् इति तद्वतीनाम् अपि सत्यता सूचिता । एतच् च श्री-भागवतामृतोत्तर-खण्डे विस्तरतोऽस्ति । अन्यत् तैर् व्याख्यातम् । यद् वा, योग ऐश्वर्यं तद्-युक्तां मायां, भक्तेषु कृपाम् । एवं ऊतीनाम् अप्य् ऐश्वर्यमत्त्वेनानन्तत्वेन चाज्ञेयत्वं युक्तम् एवेति भावः ।
यद् वा, कथं तथाद्यापि दुर्वासना ग्रस्ता बहवो दृश्यन्ते ? तत्राह—को वेत्तीति । तव योग-माया-विस्तारणेन तत्-तल्-लीलानां दुर्वितर्क्यत्वात् ते प्रायो मुह्यन्त्य् एवेत्य् अर्थः । तच् चाचितम् एवेति सम्बोधन-चतुष्टयेनोक्तम् एव । एवं भगवतो दुर्वितर्क्यत्वात् तल्-लीलानाम् अपि दुर्वितर्क्यत्वं सिद्धम् एव । तत्-तल्-लीला तत्त्व-ज्ञानाय त्वद्-भक्तान् प्रपन्नाः सन्त एव ते निस्तरन्ति, न चान्यथेति भावः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सर्वम् इव निरूप्य सम्भ्रमेणाह—को वेत्तीति । भूमन् ! हे अपरिच्छिन्न ! भगवन् ! हे सर्वैश्वर्य-युक्त ! परमात्मन् ! हे सर्वान्तर्यामिन् ! सर्व-कारण-स्वरूपेति वा । योगेश्वर ! हे स्वाभाविक-योग-शक्त्या सर्व-काल-व्यापक ! भवत ऊतीर् लीला अहो विस्मये क्व कथं वा, कति वा, कदा वा स्युर् इति को वेत्ति, किं त्व् अपरिच्छिन्नत्वाद् अपरिच्छिन्नानाम् आधारं सर्वैश्वर्य-युक्तत्वात्, तासां प्रकारं परमात्मत्वात्, तासाम् इयत्तां सर्व-काल-व्यापकत्वात् तद्-अवसरम् अपि त्वम् एव वेत्सीत्य् अर्थः । तत्र सर्वत्र हेतुः—योग-मायां महा-स्वरूप-शक्तिम् इति ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः (४०) : ननु, ब्रह्मन् किम् अत्र विचारितं भवता ? यद् एकस्या एव मम मूर्तेर् व्यापकत्वे सत्य् अन्यासां दर्शन-स्थानं न सम्भवति ? इति । तथा जड-वस्तूनां घटादीनाम् एव प्राकट्य-प्रकारो लोके दृष्टः, कथं तद् इतर-स्वभावानां चिद्-वस्तूनां मम श्री-मूर्त्य्-आदीनां ? इति । यथा यावत्यो विभूतयो मम भवता दृष्टाः, तावतीभिर् एव भवान् विस्मितो, नापराः सन्तीति सम्भावयन्न् इव तत्-परिमितताम् अधिगतवान् अस्ति ? इति । तथा ये ममांशाः पूर्वं बाल-वत्सादि-रूपाः, त एव चतुर्भुजा अभवन्न् इति कस्यापि रूपस्य कदाचिद् उद्भवः कस्यापि कदाचिन् न ? इति । किं च, सत्य-ज्ञानानन्तानन्दैक-रस-मूर्तित्वाद् युगपद् एव सर्वम् अपि तत्-तद्-रूपं वर्तत एव, किन्तु यूयं सर्वदा सर्वं न पश्यथेति तत्र च यौगपद्यं कथं ? इति तत्राह—को वेत्तीति ।
क्व वा, कथं वा, कति वा, कदा वा, योग-मायां दुस्तर्क्यां चिच्-छक्तिं विस्तारयन् तथा तथा प्रवर्तयन् क्रीडसीति भवत ऊतीर् लीलास् त्रि-लोक्यां को वेत्ति? न कोऽपीत्य् अर्थः । यस्यामतं तस्य मतं मतं यस्य न वेद सः [केन।उ। २.३] इति भावः ।
अत्र दुर्ज्ञेयता-पुरस्कृतेनैव सम्बोधन-चतुष्टयेन चतुर्षु युक्तिम् आह—हे भूमन् ! क्रोडीकृतानन्त-मूर्त्य्-आत्मक-श्री-मूर्ते ! अयं भावः—एकम् अपि मुख्यं भगवद्-रूपं युगपद् अनन्त-रूपात्मकं भवति। तथैवाक्रूरेण स्तुतं, बहु-मूर्त्य्-एक-मूर्तिकं [भा।पु। १०.४०.७] इति । तथा श्रुतिः—एकं सन्तं बहुधा दृश्यमानम् इति ।
ततो यदा यादृशं येषाम् उपासना-फलोदय-भूमिकावस्थानं, तदा तथैव ते पश्यन्ति। तथा च, प्रज्ञान्तर-पृथक्त्ववद् दृष्टिश् च तद् उक्तिं [वे।सू। ३.३.५०] इत्य् अत्र ब्रह्म-सूत्रेमध्व-भाष्यम्, उपासना-भेदाद् दर्शन-भेद इति दृष्टान्तश् च । यथैकम् एव पट्टवस्त्र-विशेष-पिच्छावयव-विशेषादि-द्रव्यं नाना-वर्णमय-प्रधानैक-वर्णम् अपि कुतश्चित् स्थान-विशेषाद् दत्त-चक्षुषो जनस्य केनापि वर्ण-विशेषेण प्रतिभातीति । अत्राखण्ड-पट्ट-वस्त्र-विशेषादि-स्थानीयं निज-प्रधान-भासान्तर्-भावित-तत्-तद्-रूपान्तरं श्री-कृष्ण-रूपं, तत्-तद्-वर्ण-च्छवि-स्थानीयानि रूपान्तराणीति ज्ञेयम् । यथा श्री-नारद-पञ्चरात्रे—
मणिर् यथा विभागेन नील-पीतादिभिर् युतः । > रूप-भेदम् अवाप्नोति ध्यान-भेदात् तथा विभुः ॥ इति ।
मणिर् अत्र वैदुर्यं नील-पीतादयस् तद्-गुणाः । तद् एवं क्वेत्य् अस्य युक्तिर् उक्ता। एवम् एव श्री-वामनावतारम् उपलक्ष्य श्री-शुक-वाक्यम्—
यत् तद् वपुर् भाति विभूषणायुधैर् > अव्यक्त-चिद्-व्यक्तम्म् अधारयद् धरिः । > बभूव तेनैव स वामनो बटुः > संपश्यतोर् दिव्य-गतिर् यथा नटः ॥ [भा।पु। ८.१८.१२]
अर्थश् चायम्—यद् वपुः शरीरं न केनापि व्यज्यते या चित् पूर्णानन्दस् तत्-स्वरूपम् एव यद् विभूषणायुधैर् भाति । तद् वपुस् तदा प्रपञ्चेऽपि व्यक्तं यथा स्यात् तथा अधारयत् स्थापितवान् । पुनश् च तेनैव वपुषा वामनो बटुर् बभूव हरिः । एव-कारेण परिणाम-वेषान्तर-योगादिकं निषिद्धम् । कदा ? पित्रोः सम्पश्यतोः । तेनैव वपुषा तद्-भावे हेतुः । दिव्याः परम् अचिन्त्याः, यद् गतं भवच् च भविष्यच् च [बृ।आ।उ। ३.८.३] इत्य्-आदि-श्रुतेः । स्वस्मिन्न् एव नित्य-स्थितान् नाना-संस्थानां प्रकाशना-प्रकाशन-रूपा गतयश् चेष्टा यस्य सः ।
तत्रालक्सित-स्वधर्म-मात्रोल्लासांशे दृष्टान्त-लेशः, यथा नट इति । नटोऽपि कश्चिद् आश्चर्यतमः दिव्या परम-विस्मापिका गतिर् हस्तक-रूपा चेष्टा यस्य तथाभूतः सन् । तेनैव रूपेण वैषम्यादिकम् अनुरीकृत्यापि नानाकारतां यथा दर्शयति । स्वर्ग्यो नटो वा दिव्य-गतिः । ततश् च तत्-तद्-अनुकरणं तस्यात्यन्त-तद्-आकारम् एव भवति । अत्र परमेश्वरं विना अन्यस्य सर्वांशे तादृशत्वाभावात् न च दृष्टान्ते खण्डत्व-दोषः प्रपञ्चनीयः । यथा भक्षित-कीट-परिणाम-लाला-जात-तन्तु-साधनोऽप्य् ऊर्ण-नाभः परमेश्वरस्य जगत्-सृष्टाव् अनन्य-साधकत्वे दृष्टान्तः श्रूयते, यथोर्ण-नाभिर् हृदयाद् [भा।पु। ११.९.२१] इत्य्-आदि तद्वत् ।
तद् एवं श्री-ब्रह्मणापि सर्व-रूप-सद्-भावाभिर्पायेणैवोक्तम्—
त्वं भक्ति-योग-परिभावित-हृत्-सरोज > आस्से श्रुतेक्षित-पथो ननु, नाथ पुंसाम् । > यद् यद्-धिया त उरुगाय विभावयन्ति > तत् तद् वपुः प्रणयसे सद्-अनुग्रहाय ॥ [भा।पु। ३.९.११] इति ।
प्रणयसे प्रकर्षेण नयसि प्रकटयसि । श्रुतेक्सित-पथ इत्य् अनेन कल्पनाया निरस्तत्वात्। सर्व-रूपत्वेऽपि भक्तान् अभिरुचित-रूपत्वेऽपवादः श्री-कर्दम-वाक्येन—
तान्य् एव तेऽभिरूपाणि रूपाणि भगवंस् तव । > यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः ॥ [भा।पु। ३.२४.३०]
यानि यानि च त्वदीय-स्व-भक्तेभ्यो रोचन्ते तानि नान्येव तव रूपाणि ते तव अभिरूपाणि योग्यानि, नान्यानीत्य् अर्थः । अन्यानि च, यादृशं रन्तिदेवाय कुत्सित-रूपं प्रपञ्चितं तादृशानि ज्ञेयानि । तादृशस्य च मायिकत्वेअम् एव हि तत्रोक्तम्—
तस्य त्रि-भुवनाधीशाः फलदाः फलम् इच्छताम् । > आत्मानं दर्शयाञ्चक्रुर् माया विष्णु-विनिर्मिता ॥ इति [भा।पु। > ९.२१.१५]
टीका च—त्रि-भुवनाधीशाः ब्रह्मादयः मायास् तदीय-धैर्य-परीक्षार्थं प्रथमं मायया वृषलादि-रूपेण प्रतीताः सन्त इत्य् अर्थः । इत्य् एषा ।
अनभिरूपत्वे हेतुः । अरूपिण इति । प्राकृत-रूप-रहितस्येति । टीका च—अप्राकृतत्वेन कुत्सितत्वासम्भवाद् इति भावः ।
अथ प्रकृत-पक्षस्य कथं वेत्य् आदित्रय-युक्तयेऽवशिष्टं सम्बोधन-त्रयं व्याख्यायते । हे भगवन्न् अचिन्त्य-शक्ते! अचिन्त्यस्य भगवन्-मूर्त्य्-आद्याविर्भावस्यान्यथा-नुपपत्तेर् अचिन्त्या स्वरूप-शक्तिर् एव कारणम् इति भावः । इयं कथं वेत्य् अस्य युक्तिः ।
तथा, हे परमात्मन्! परेषां प्रत्येकम् अप्य् अनन्त-शक्तीनां पुरुषाद्य्-अवताराणाम् आत्मन्न् अवतारिन्, त्वयि तु तेषां सुतराम् अनन्तत्वात् । तद्-आविर्भाव-विभूतयः कति वा वाङ्-मनसोऽगोचरत्वम् आपद्येरन्न् इति भावः । इयं कति वेत्य् अस्य युक्तिः ।
तथा हे योगेश्वर! एकस्मिन्न् अपि रूपे नाना-रूप-योजना-लक्षणाया योग-नाम्न्याः स्वरूप-शक्तेस् तया वा ईशन-शील । अयं भावः—यथा तव प्रधानं रूपम् अन्तर्-भूतानन्त-रूपं तथा तवांश-रूपं च, ततश् च यदा तव यत्रांशे तत्-तद्-उपासना-फलस्य यस्य रूपस्य प्रकाशनेच्छा, तदैव तत्र तद् रूपं प्रकाशसे इति । इयं कदेत्य् अस्य युक्तिः ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, त्वम् एवेदं वेत्सि, किम् उतान्येऽपीत्य् आशङ्क्य न कोऽपि तव लीलां वेत्तीत्य् आह—को वेत्तीत्य्-आदि । हे भूमन् ! देशतोऽपरिच्छिन्न ! विश्वव्यापक हे भगवन् ! अचिन्त्य-सर्वैश्वर्य-सम्पन्न ! हे परात्मन्, अनन्त-गुण-कर्मन् ! हे योगेश्वर ! कालतोऽपरिच्छिन्न ! तव ऊतीर् लीलाः । अहो आश्चर्यम् । क्व वा को वेत्ति ? देशतोऽपरिच्छिन्नत्वात् । क्वेत्य् असिद्धम् । अथवा, को वेत्ति, अचिन्त्य-परमैश्वर्यत्वात् । कति वा को वेत्ति ? अनन्त-गुण-कर्मत्वात् । कदा वा को वेत्ति ? कालतोऽपरिच्छिन्नत्वात् इति । देश-प्रकार-सङ्ख्या-काल-वचनैः क्वेत्य्-आदिभिश् चतुर्भिर् भूमन्न् इत्य्-आदि-सम्बोधन-चतुष्टयम् असम्भावनायां हेतुमद् हेतु-भावेन समन्वेतव्यम् । एतेन सर्वथैव ते महिमा ज्ञातुम् अशक्य इति वाक्यार्थः ॥२१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, कृष्णस्य मम भू-भार-हरणार्थम् एव जन्म, रामस्य रावण-वधार्थम् एव, शुक्लाद्य्-अवतार-गणस्य तत्-तत्-समय-धर्म-प्रवर्तनार्थम् एवेति प्रसिद्धिर् न तु ज्ञानि-मानिनां दुर्मद-नाशार्थम्, सत्यम् । तव प्रादुर्भावादि-लीलानां कुत्र कुत्र विषये किं किं प्रयोजनं कदा कदा वा कियत्यो वा ता इति कार्त्स्न्येन ज्ञातुं कोऽपि न प्रभवतीत्य् आह—को वेत्तीति । भूमन्, हे विश्व-व्यापकानन्त-मूर्ते ! हे भगवन् ! भूमत्वेऽपि षड्-ऐश्वर्य-परिपूर्ण ! हे परात्मन् ! भगवत्त्वेऽपि परमात्म-स्वरूप ! हे योगेश्वर ! योग-माययैवानुभाव्यमान-भूमत्वादि-महा-महैश्वर्य ! ऊतीर् जन्मादि-लीलाः त्रि-लोक्यां त्रिलोकी मध्यवर्तिनीर् लीलाः को वेत्ति ? न कोऽपि । यतः क्वा हो इत्य्-आदि ।
ननु, तवानन्ता एव मूर्तयो विश्व-व्यापिकाः षड्-ऐश्वर्यवत्यः परमात्म-स्वरूपा, न तु भौतिक्यः त्रैलोक्यान्तर्वर्तिनीर् एव भक्त-विनोदनार्था लीलाः कुर्वत्यः, सर्वा एव सदैव युगपद् एव क्रीडन्तीति कथं सम्भवेद् इत्य् अत आह—विस्तारयन्न् इति । अचिन्त्य-शक्त्या योग-माययैव तत्-तद्-उपासक-भक्तान् प्रति तेषां यथा समयं प्रकाशनावरणाभ्याम् एव क्रीडा-निर्वाह इत्य् अर्थः ॥२१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, परया योग-मायया मम विज्ञान-मयः सर्गः पूर्वोक्त-लक्षणः कियति स्थाने, केन विधिना, कियता कालेन भवेत् ? स च कियान् इति वेत्य् न वेत्ति चेत्, तत्राह—को वेत्तीति । हे भूमन् ! विश्व-व्यापकासङ्ख्य-मूर्ते ! हे भगवन् ! पूर्ण-षड्-ऐश्वर्य ! हे परात्मन् ! बद्ध-मुक्त-सर्व-जीवान्तर्यामिन् ! हे योगेश्वर योगायाः परायाः स्वामिन् ! भगवतस् तव त्रि-लोक्यां ऊतीस् तत्-सङ्ग-सिद्धा जन्मादि-लीलाः को वेत्ति न कोऽपीत्य् अर्थः । यतः क्वाहो कथं वेत्त्य् आदि न त्व् असङ्ख्यताभिः षड्-ऐश्वर्य-पूर्णाभिस् तव मूर्तिभिस् ता ऊतयो युगपद् एव कथं सम्भवेयुः ? तत्रायोगमायां विस्तारयन्न् इति स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युत इत्य्-आदि-श्रुत्य्-उक्तयाचिन्त्यया अनया तत् सर्व-निर्वाह इत्य् अर्थः ॥२१॥
॥ १०.१४.२२ ॥
तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं
स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम् ।
त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते
मायात उद्यद् अपि यत् सद् इवावभाति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, भवत्व् अवताराणाम् अचिन्त्यो महिमा, प्रपञ्चस्य ह्य् असत्त्वे कथं सत्त्व-प्रतीतिः ? इतीमाम् आशङ्कां स-परिकरम् उपसंहरन् परिहरति—तस्माद् इति । अस्त-धिषणं निरस्त-प्रतिभासम् । त्वय्य् एवोद्यद् उद्भवद् अपि यत् नश्यत् सद् इवेत्य् उपलक्षणम् एतत् । नित्यम् इव, सुखम् इव, चेतनम् इव, चाधिष्ठान-भूतस्य तव गुणैस् तथा तथा भातीत्य् अर्थः ॥२२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् अङ्गीकृत्याप्य् आशङ्कते—नन्व् इति । स-परिकरं सानुबन्धम् । तत्रसत्यत्व-प्रतीतौ । इत्य् अर्थ इति—अधिष्ठान-गुणेन प्रपञ्चे सत्-प्रतीतिः, न तु स्वत इति भावः ॥२२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यद्-अधिष्ठाने प्रपञ्चोऽपि सन्न् इव प्रतीयते इत्य् आह—तस्माद् इत्य्-आदि । त्वय्य् एव नान्यत्र, एव-कारोऽन्य-योग-व्यवच्छेद-परः । त्वयि श्री-यशोदा-नन्दने यशोदा यज् जगद् अपश्यत्, तत् सद् इव, सद् एवावभाति, मायातोऽचिन्त्य-शक्तित उद्यद् अपि । त्वयि कीदृशे ? नित्य-सुख-बोध-तनौ नित्या सुख-स्वरूपा बोध-स्वरूपा तनुर् यस्य तस्मिन्, यत् किञ्चित् तद् एव सद् इति प्राग् उक्त-पर-मत-खण्डनम् । अथवा, इदं विश्वं मायात उद्यद् अपि मायिकम् अपि त्वयि त्वद्-विषयकं यदि भवति, तदा सद् इव सद् एवावभाति, इव-शब्द एवार्थः ॥२२॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो किं वक्तव्यं तवावतार-वर्ग-तत्-तल्-लीलादीनां सत्यतादि, मिथ्यादि-रूपोऽप्य् अयं प्रपञ्चस् त्वत्-सम्बन्धात् सत्यादि-रूपेण विद्योतत इत्य् आह—तस्माद् इति । योग-माया-विस्तारणेन तव क्रीडनाद् धेतोः ।
यद् वा, अत्रैव [भा।पु। १०.१४.१६] इत्य्-आदि-पद्य-त्रयेण जगतो मिथ्यात्वम् उक्त्वा, तद्-अन्तरा-पतिताशङ्कां त्रिभिर् निरस्याधुनोपसंहरन्न् आह—तस्माद् इति । जनन्यां मयि च तन् मिथ्यात्व-प्रदर्शनाद् धेतोः । अस्याद्य-पादेनैवान्वयः । अन्तो-नाशस् तद्-रहित इति नित्य-सत्तोक्ता, अतोऽसत्-स्वरूपम् अप्य् अनन्तस्य सम्बन्धात् सत् । स्वप्नाभम् अनित्यम्, नित्यस्य सम्बन्धान् नित्यम् । अस्त-धिषणं बोधस्य सम्बन्धाच् चेतनम्, पुरु-दुःख-दुःखं च सुखस्य सम्बन्धात् सुखम् इति विवेचनीयम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, एवं सत्य् अपि त्वत्-सेवया तेषाम् अपि परम-मङ्गलं भवतीत्य् आह—तस्माद् इति । यस्मात् तव त्वद्-अवतार-वर्ग-तत्-तल्-लीलादीनाम् अचिन्त्यो महिमा, तस्माद् असत्-स्वरूपं प्रायोऽसल्-लोक-मयत्वात्, स्वप्नाभं नश्वरत्वेनानित्यत्वात्, अस्त-धिषणं प्रायो भगवन्-माहात्म्याज्ञानात् । तत्र तत्र हेतुः—मायात उद्यद् इति । तथा-भूतम् अपि यद्यपि त्वयि निमित्ते त्वत्-प्राप्त्य्-अर्थं भवति, त्वत्-सेवां करोतीत्य् अर्थः, तदा सद् इवावभात्य् उत्तमतां प्राप्नोतीत्य् अर्थः । इवेति लौकिकोक्ति-न्यायेनानधिकार्थम् । यद् वा, सद्-वस्तु श्री-वैकुण्ठ-पदं तद्वद् विराजत इत्य् अर्थः । अन्यत् समानम् ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्माद् एवं त्वम् एवैष सर्व-कारणं, तस्मान् मायातः प्रधानत उद्भवत् प्रलीनं, भवच् च त्वय्य् एव त्वाम् आश्रित्यैव सद् इव त्वदीयं स्वरूपम् इदं नित्य-धाम वा यत् सद् वस्तु, तद् इवावभाति, त्वदीय-तत्-तत्-सत्तयैव यत् किञ्चित् तत् सत्तां प्राप्नोतीत्य् अर्थः । मायाया अपि त्वच्-छक्तित्वेन त्वद्-आश्रयता-मात्रतः सद्-भावाद् इति भावः। तादृश-त्वद्-व्यतिरेकं तु असत्-स्वरूपं शश-विषाण-तुल्यं त्वद्-अन्येऽपि त्वद्-अस्फूर्तौ स्वप्नाभं, स्थिरार्थ-प्राप्त्य्-अभावात् । तत एवास्त-धिषणम् इत्य्-आदि नित्या सुख-बोध-रूपा च येयं पर-ब्रह्म-भावेन निर्णीता तनुः तत्-स्वरूपे, सच्-चिद्-आनन्द-रूपाय कृष्णाक्लिष्ट-कारिणे इति तापिनी-श्रुति-हयशीर्ष-पाञ्चरात्रयोः ।
अत्र एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा [वि।पु। १.२२.५६] इत्य्-आदि-वक्ष्यमाण-विष्णु-पुराण-वाक्यं, वैधर्म्याच् च न स्वप्नादिवद् [वे।सू। २.२.२९] इति वेदान्त-सूत्रं च विचार्य अत्रैतद् अपि उक्तं भवति—माया-शब्देन क्वचिन् मिथ्याभिव्यञ्जकः शिक्षा-विशेष उच्यते, क्वचिद् दुर्वतर्क-सत्य-व्यञ्जकः शक्ति-विशेषोऽप्य् उच्यते । तत्र प्रथमम् इन्द्रजाल-पर्यायस् तद् विज्ञेषु दृष्टः । स च स्व-प्रत्यायित-जलादिना । तेषां तु न भ्रमं करोति स्वाश्रयाव्यामोहकत्वात्, अन्येषां चापात-मात्रे भ्रमेऽपि न दृष्ट्य्-आदिकं हरति मृगतृष्णा-तुल्यत्वात् । द्वितीयस् तु मुनि-देवादौ श्रुतः, यथा तृतीये श्री-सनकादि-वैकुण्ठ-गमने तदीय-योग-माया-शब्दः स्वामिभिर् व्याख्यातः स चायं न पूर्व-तुल्यः श्री-कर्दमादीनां तत्-कल्पित-विहार-विमानादिभिः स्वार्थ-करत्वात् श्री-प्रद्युम्नादीनां युद्धादौ शत्रु-च्छेदादि-दर्शनाच् च सोऽयं मुन्य्-आदिषु तव आदिमयः श्री-भगवति तु स्वाभाविकः, यथा—
सर्व-भूतेषु सर्वात्मतया शक्तिर् अपरा तव । > गुणाश्रया नमस् तस्यै शाश्वतायै सुरेश्वर ॥ [वि।पु। १.१९.७६]
इति श्री-विष्णु-पुराणोक्ताया अपराख्य-शक्तेः, अस्मान् मायी सृजते विश्वम्, एतत् तस्मिंश् चान्यो मायया सन्-निरुद्धः [श्वे।उ। ४.९] इत्य्-आदि-श्रुतौ मायाख्यया कथितया स्वाभाविकत्वम् अमिथ्या-व्यञ्जकत्वं विष्णु-पुराण एव दर्शितम्—
शक्तयः सर्व-भावानाम् अचिन्त्य-ज्ञान-गोचराः । > यतोऽतो ब्रह्मणस् तास् तु सर्गाद्या भाव-शक्तयः । > भवन्ति तपसां श्रेष्ठ पावकस्य यथोष्णता ॥ [वि।पु। १.३.२] > इति, > एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । > परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् ॥ [वि।पु। > १.२२.५६] इति च ।
मायां तु प्रकृतिं विद्यान् मयिनं तु महेश्वरं [श्वे।उ। ४.१०] इति श्रुतिश् च । प्रकृति-शब्देन स्वभावम् आह—न तु तत्-पर्यायं विद्याद् इति ज्ञापन-तात्पर्यतयानूद्य विधेयत्व-प्राप्तेः पर्याय-मात्र-कथने लीलत्वाभावाज् ज्ञानासिद्धेः, मयिनं तु महेश्वरम् इत्य् अत्रानूद्य विधेयत्वस्यैव लब्धेश् च, किं तु, मयिनं तु महेश्वरम् इति महेश्वरस्य माययाश्रितत्वं बोधयति । ततश् च महेश्वरत्वम् एवान्तरङ्गं तद् अकृत्रिमं चेत्य् आयाति । इन्द्रो मायावान् पुरुषः शूर इतिवत् मायया बहिरङ्गत्वेऽपि स्वाभाविकत्वम् ।
एकदेश-स्थितस्याग्नेर् [वि।पु। १.२२.५६] इति दृष्टान्तेनैव लब्धं मायाया बहिरङ्गत्वे च न तद्-दोषेण महेश्वरत्वं लिप्तं स्यात्, यथोक्तं प्रथमे श्रीमद्-अर्जुनेन—
त्वम् आद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः । > मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि ॥ [भा।पु। > १.७.२३] इति,
सेयम् एव चिच्-छक्तिः परात्वेन विष्णु-पुराणे प्रोक्ता—
सर्व-भूतेषु सर्वात्मन् या शक्तिर् अपरा तव । > गुणाश्रया नमस् तस्यै शाश्वतायै सुरेश्वर ॥ > यातीत-गोचरा वाचां मनसां चाविशेषणा । > ज्ञानि-ज्ञान-परिच्छेद्या वन्दे ताम् ईश्वरीं पराम् ॥ [वि।पु। > १.१९.७६-७]इति ॥
अस्या एव परात्वेनान्तरङ्गत्वं परमाचिन्त्यत्वं विविध-वृत्तित्वं महेश्वरता पर्यापकत्वम् अपि उद्दिष्टम्,
न तस्य कार्यं करणं च विद्यते > न तत्-समश् चाभ्यधिकश् च दृश्यते । > परास्य शक्तिर् विविधैव श्रूयते > स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.८]
अत्र खलु, न तत्-समश् चाभ्यधिकश् चइति परात्वस्यारोपोपजीव्य-वस्त्व्-अन्तराभाव-ज्ञापितस्य स्वाभाविकत्वस्य परमाचिन्त्यत्वस्य च बोधकं, तृतीये [३.१५.२६] श्री-सनकादि-वैकुण्ठ-गमने योगमायेति निर्दिष्टा चिच्-छक्तित्वेन स्वामिभिर् व्याख्याता । तत्त्व-वादिभिश् च स्व-भाष्ये—
योग-माया च माया च तथेच्छा-शक्तिर् एव च । > माया-शब्देन भण्यन्ते शब्द-तत्त्वार्थ-वेदिभिः ॥
इति शब्द-महोदधिम् उदाहृत्य स्वरूप-भुतया नित्य-शक्त्या मायाख्यया युतः, अतो मायामय्ं विष्णुं प्रवदन्ति सनातम् इति श्रुतिम् अपि प्रमाणी-कृत्य योग-माया-शब्दवन् माया-शब्दोऽप्य् एतद्-वाचित्वेन सम्मतः श्री-रामानुजाचार्य-चरणैश् च—माया वयुनं ज्ञानम् इति निघण्टु-स्थित-पर्याय-शब्दाः स्व-भाष्ये लिखिताः । तृतीये स्वामिभिश् च—सा वा एतस्य सन्द्रष्टुः शक्तिः सद्-असद्-आत्मिका । माया-नाम [भा।पु। ३.५.२५] इत्य् अत्र ददृश्यानुसन्धान-रूपा इति । आत्मेच्छानुगता वात्मेत्य् अत्रात्मेच्छामायेति—
काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः । > पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् । > ततोऽभवन् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् । [भा।पु। > ३.५.२६-२७]
इत्य् अव्यक्तम् अपि माया-शब्देन चोच्यते स्म । प्रायो मायास्तु मे भर्तुर् नान्या मेऽपि विमोहिनी [भा।पु। १०.१३.३७] इत्य् आदौ मोहिनी शक्तिर् अपि स्यात् । माया दम्भे कृपायां च इति विश्व-प्रकाशे, स्यान् माया शाम्बरी-बुद्ध्योः इति त्रिकाण्ड-शेषे च, कृपादयोऽपि तत्-पर्याया दृश्यन्ते । अत्रैव च तम्यां तमोवन् नैहारं [भा।पु। १०.१३.४५] इत्य् आदौ माया-शब्देन प्रभाव-मात्रम् अभिप्रेतम् । सत्यं तत्-प्रकाशनेऽपि दोषाविशेषात् दृष्टान्ते तस्य च तादृशत्वात् तदैवं तत्र तत्र यथायथं माया-शब्दो योजनीयः श्री-स्वामि-व्याख्या चेति सर्वं समञ्जसम् ।
अत्र च प्रकरणे माया-शब्देन दुस्तर्क्य-शक्तेर् एवाभिधानम् । तद् उक्तं—
मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः । > न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥[गीता ९.४-५] > इति ।
अतो यत्र यस्य स्पर्शो नास्ति, तत्र तस्य स्थितत्वं मिथ्येति मिथ्यात्वम् अपि तद् व्याख्यातं युक्तं किं च, या पराख्य-शक्तित्वेनोक्ता सैव वैकुण्ठादौ स्वरूप-विभूति-व्यञ्जिका, यथा न यत्र माया किम् उतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः [भा।पु। २.९.१०] इति द्वितीये, दर्शयामास लोकं स्वं गोपानां तमसः परं [भा।पु। १०.२८.१४] इत्य् अग्रे, इतीरेशेऽतर्क्ये इत्य्-आदिकं सत्य-ज्ञानेत्य्-आदिकं च पूर्वत्र एतन्-मयी विभूतिश् चानश्वरा यथा द्वितीये तत्रैव न च काल-विक्रम [भा।पु। २.९.१०] इति । श्रीविष्णु-पुराणे—
कला-काष्ठा-निमेषादि-काल-सूत्रस्य गोचरे । > यस्य शक्तिर् न शुद्धस्य प्रसीदतु स मे हरिः ॥[वि।पु। १.९.४५] > इति । > कला-मुहूर्तादि-मयश् च कालो > न यद् विभूतेः परिणाम-हेतुः [वि।पु ४.१.८४] इति च ।
अत्र शुद्धस्येत्य् उक्तत्वात् भगवत्-स्वभावैषा महती शक्तिः या त्व् अपरा, सा न तादृशी किं तु यथा तत्रैव, यस्यायुतायुतांशांशे विष्णु-शक्तिर् इयं स्थिता [वि।पु। १.९.५३] इति, सर्गाद्या भाव-शक्तयः [वि।पु। १.२.२] इति च । एकादशे च—एषा माया भगवतः सृष्टि-स्थित्य्-अन्त-कारिणी [भा।पु। ११.३.१६] इति तद् एवम् अपि यथार्हं विवेचनीयम् ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः (४१) : तस्मात् तत् तत् सर्वम् अपि तस्मिन् श्री-कृष्ण-रूपेऽन्तर्-भूतम् इत्य् एवम् अत्रापि तात्पर्यम् उपसंहरति—तस्माद् इति । यस्माद् एवं प्रपञ्चाप्रपञ्च-वस्तूनां सर्वेषाम् अपि तत्त्व-विग्रहोऽसि तस्माद् एव नित्य-सुख-बोधन-लक्सणा या तनुस् तत्-स्वरूपेऽनन्ते त्वय्य् एव्आशेषम् इदं जगद् अवभातीत्य् अन्वयः ।
कथम्-भूतं ? सत् उद्यद् अपि यत् मुहुर् उद्भवत् तिरोभवच् च । यद्यस्मिन् मुहुर् जायते लीयते च, तत् तस्मिन्न् एवावभाति, भुवि तद्-विकार इवेति भावः ।
तर्हि किं मम विकारित्वं ? नेत्य् आह—मायातो मायया त्वदीयाचिन्त्य-शक्ति-विशेषेण विकारादि-रहितस्यैव, श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.१७] इत्य् आदौ परिणाम-स्वीकारात् । मुहुर् उद्भव-तिरोभवत्वाद् एव स्वप्नाभं तत्-तुल्यं, न त्व् अज्ञान-मात्र-कल्पितत्वाद् अपि,वैधर्म्याच् च न स्वप्नादिवत् [वे।सू। २.२.२९] इति न्यायेन । तथा, अविद्या-वृत्तिक-माया-कार्यत्वाच् च अस्त-धिषणं जीव-परमात्म-ज्ञान-लोप-कर्तृ । उभयस्माद् अपि हेतोः पुरु-दुःख-दुःखं, तदीय-सुखाभासस्यापि वस्तुनो दुःख-रूपत्वात् । विना त्वत्-सत्तया असत्-स्वरूपं, शश-विषाण-तुल्यम् ।तद् एवं-भूतम् अपि सद् इवानश्वरम् इवाभाति, मुग्धानाम् इति शेषः । उपलक्षणं चैतद् व्यवहार-ज्ञान-मय-महद्-आद्य्-आत्मकत्वात् ज्ञानोद्बोधकम् इव स्वर्गाद्य्-आत्मकत्वात् सुखम् इव च ।
तद् एवम् अन्यस्य तत्-परिच्छेद्यत्वात् स्वरूप-शक्त्यैव परिच्छिन्नम् अपरिच्छिन्नं च तवेदं वपुर् इति प्रकरणार्थः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यतस् त्वद्-अवतारास् तल्-लीलाश् च तवैच्छिक-प्रकाशिकाख्य-योग-माया-शक्ति-विलसितत्वान् नित्या एव तस्मात् तद्-व्यतिरिक्तं सर्वं जड-जातं मिथ्या दुःखं चेत्य् आह—तस्माद् इदम् इत्य्-आदि । इदं जगज् जड-मयः प्रपञ्चः, अशेषं सर्वम् एवासत् । असत्त्वे हेतुः—स्वप्नाभम् । कुतः ? अस्त-धिषणं ज्ञान-शून्यम्, जडत्वात् । अत एव पुरु-दुःख-दुःखम् । पुरूणि यानि दुःखानि तैर् दुःस्थितानि निखिलानीन्द्रियाणि यस्मात् तथा ।
ननु, यदीदं सर्वम् असद् एव, तदा कथं मद्-उदरे मन्-मात्रा सर्वं दृष्टं ? तत्राह—नित्या शाश्वती सुख-स्वरूपा आनन्द-मयी बोध-स्वरूपा ज्ञान-घना तनुर् विग्रहो यस्य सः । तथा तस्मिन् त्वय्य् एव श्री-नन्द-कुमार एव मायातः पूर्वोक्त-रूपैच्छिक-प्रकाशिकाख्य-योग-मायात उद्यद्-आविर्भवद् अपि सम्भावनायां, सद् इव सद् एवावभाति । इव एवार्थः । त्वय्य् एवेत्य् एव-कारस्यान्य-योग-व्यवच्छेदकत्वेन बहिर् वर्तमानस्यासत्त्वम् इति भावः । त्वयि तु सच्-चिद्-आनन्द-घनेऽसद्-रूपस्य तु न सम्भवः। त्वद्-विग्रह-मात्रस्यैवायं स्वभावः । उक्तं चाष्टमे—
योगेन धातः सह नस् त्रि-लोकान् । > पश्याम्य् अमुष्मिन्न् उ ह विश्व-मूर्तौ [भा।पु। ८.६.९-१०] इति ।
त्वयि स्थितस्य नित्य-रूपस्य प्रपञ्चवद् दृश्यमानस्य निज-लोकस्य वर्तमानत्वान् नित्यत्वम् एव, अस्य न मृषात्वम् इत्य् अर्थः ॥२२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् इदं-कारास्पदं जगद् एव मायिकं मध्यम-परिमानवत्त्वेऽप्य् एतत्-परिच्छेदकं त्वद्-वपुस् तु शुद्ध-सत्त्वात्मकम् एवेति प्रकरणम् उपसंहरति—तस्माद् इति । असत् सार्वकालिक-सत्ता-रहितं स्वरूपं यस्य तत् । अत एव स्वप्नाभं स्वप्नवद् अल्प-काल-वर्ति, न तु स्वाप्निक-वस्तुवद् अस्य जगतो मिथ्यात्वं व्याख्येयम् । प्रधान-पुम्भ्यां नर-देव सत्य-कृत् [भा।पु। ७.१.११] इति सप्तमोक्तेः । सत्यं ह्य् एवेदं विश्वम् असृजत् इति माध्व-भाष्य-प्रमाणित-श्रुतेश् च । अस्ता लुप्ता धिषणा ज्ञानम् अविद्यया यस्य तत् नित्यम् इति सन्धिनी सुखम् इति ह्लादिनी बोध इति संविदत एतत् स्वरूप-शक्ति-त्रितयात्मकत्वात् सद्-आनन्द-चिन्-मय्यस् तनवा यस्य तस्मिन् त्वयि अधिष्ठाने मायातः कारणाद् उद्यत् उद्गच्छत् अपि यत् अस्तं गच्छद् अपि सद् इव सार्वकालिकम् इव । यद् वा, यस्मात् सद् अनुग्राहकाणि त्वत्-स्वरूपाण्य् एव मङ्गलानि तस्माद् इदं जगद् एव असत्-स्वरूपं, अमङ्गलात्मकम् ।
ननु, मिथ्या-भूतस्य जगतः किं भद्राभद्र-विचारेण ? तत्राह—स्वप्नाभं स्वप्नवन् न भातीति, तत् मिथ्यात्वेन न प्रतीतिम् इत्य् अर्थः । किं तु अस्त-धिषणत्वात् पुरु-दुःख-दुःखत्वाद् अभद्रम् अपि सद् इव विषयानन्द-दृष्ट्या उत्तमम् इवाभाति ॥२२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मया अधिष्ठितं जगत् तु प्राकृतत्वाद् अनित्यम् इत्य् आह—तस्माद् विज्ञान-मयात् सर्गाद् अन्यद् इदम् अशेषं जगत् असत् स्वरूपम् अशोभन-वपुः स्वप्नाभम् अल्प-काल-वर्तीत्य् अर्थः । अस्ता विलुप्ता धिषणा ज्ञानं यत्र तत् अतः पुरु-दुःखेति प्रचुर-दुःख-स्वरूपम् एव तत्रत्य-सुखस्यापि विष-सम्पृक्त-मधु-न्यायेन दुःखत्वाद् इति भावः । कुत ईदृक् ? तत्राह—त्वय्य् आश्रये स्थिताया मायातस् त्रि-गुणायाः कारणाद् उद्यद् उद्भवत् अपि यत् तत्रैवास्तं गच्छत् तथापि अज्ञानिनां सद् इव शोभनम् इवावभाति । त्वयि कीदृशी ? इत्य् आह—नित्येति । नित्य-सुख-बोध-रूपं यद् ब्रह्म, सा तनुर् मूर्तिर् यस्य तस्मिन् ब्रह्म-विग्रहे इत्य् अर्थः ॥२२॥
॥ १०.१४.२३ ॥
एकस् त्वम् आत्मा पुरुषः पुराणः
सत्यः स्वयं-ज्योतिर् अनन्त आद्यः ।
नितिओऽक्षरोऽजस्र-सुखो निरञ्जनः
पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वम् एव तु सत्य इत्य् आह—एकस् त्वं सत्यः । कुतः ? आत्मा । दृश्यम् असत्यं दृष्टं न चात्मा दृश्यः, अतः सत्यः । किं च, यद् विकारवत् तद् असत्यं, न च त्वयि जन्मादयो विकाराः सन्तीत्य् आह—आद्यं कारणम्, अतो न जन्म । आद्यत्वे हेतुः—पुराणः पुरापि नवः । कार्यात् पूर्वम् अपि वर्तमान इत्य् अर्थः । अत्र हेतुः—पुरुष इति । तथा च श्रुतिः—पूर्वम् एवाहम् इहासम् इति तत् पुरुषत्वम् इति । जन्मानन्तरास्तित्व-लक्षणं विकारं वारयति—नित्य इति । सनातन इत्य् अर्थः । पूर्णोऽजस्र-सुखोऽक्षरोऽमृत इति चतुर्भिः पदैः क्रमेण वृद्धि-विपरिणामापक्षय-विनशान् वारयति । पूर्णत्वे हेतुः—अनन्तोऽद्वय इति च । देश-काल-परिच्छेद-रहितो वस्तु-परिच्छेद-रहितोऽपीत्य् अर्थः । अमृतत्वोपपादनाय चतुर्-विध-क्रिया-फलत्वं वारयति स्वयं-ज्योतिर् निरञ्जन उपाधितो मुक्त इति पद-त्रयेण । अयं भावः—तत्रोत्पत्तिर् आद्य इत्य् अनेनैव निराकृता, प्राप्तिर् अपि क्रियया ज्ञानेन वा भवेत्, क्रियया प्राप्तिर् आत्म-पदेनैव निराकृता, ज्ञानतः प्राप्तिं वारयति स्वयं-ज्योतिर् इति । विकृतिर् अपि तुषापाकरणेनावघातेन व्रीहीणाम् इवोपाध्य्-अपाकरणेन भवेत्, तत्त्व-सङ्गत्वान् न सम्भवतीत्य् आह—मुक्त उपाधित इति । संस्कारोऽपि किम् अप्य् अतिशयाधानेन मलापाकरणेन वा । तत्रातिशयाधानं पूर्णत्वेनैव निराकृतम् । मलापाकरणं निवारयति—निरञ्जन इति । निर्मल इत्य् अर्थः ॥२३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं जगतो मिथ्यात्वेन बाधा-सामानाधिकरण्ये, न ऐतदात्म्यम् इदं सर्वं [छा।उ। ६.८.७] इत्य्-आदि-श्रुति-सिद्धं विजातीय-भेदाभावम् अभिधाय, सृष्टाव् इवाहम् इत्य् अत्र स्व-गत-भेदं च वारयित्वा जीवैर् मुख्याभेदं दर्शयन् सजातीय-भेदम् अपनुदति—एक इति । अतो दृश्यत्वात्। सत्यत्वेऽन्यद् अपि आह—किं चेति । अतः परम-कारणत्वात् । इत्य् अर्थ इति—पुराण-शब्दोऽत्र जीर्णार्थ-परो नेत्य् अर्थः । इहास्य जगत इति यत् पूर्व-भवनं तद् इति श्रुति-पदार्थः । इत्य् अर्थ इति—सनातनस्यैव नित्य-पदार्थत्वाद् इति भावः । परिच्छेदः परिमितिः । उत्पाद्याप्य-विकार्य-संस्कार्य-रूपाणि चतुर्विधानि क्रिया-फलानि । अयं भाव इति—तत्र चतुर्षु आत्मनो विनैव क्रियां स्वरूपत्वेन प्राप्तत्वात्, स्वयं-प्रकाशस्य ज्ञानाविषयत्वाद् इत्य् आह—ज्ञानत इत्य्-आदि । तुषाणाम् अपाकरणं य्न अवघातेनावहननेन । तच् चौपाध्य्-अपाकरणम् । तत्र तयोः । इत्य् अर्थ इति—निर्मले मल-सत्त्वे निर्मलत्व-व्याघाताद् इत्य् अर्थः ॥ (अत्र विश्वनाथः॥।) ॥२३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं चेद् अवताराणां सत्यत्वं, तर्हि किम् अहं नाना इत्य् आशङ्क्याह—एकस् त्वम् इत्य्-आदि । त्वम् एकः । परमात्मा सर्वात्म-रूपः । तर्हि किम् अहं नीरूपः ? तत्राह—पुरुषो दृश्यमान-पुरुषाकारः । तत् किम् अहम् अर्वाक् ? तत्राह—पुराणः । एवं-रूपेण प्राक्-सिद्धः, अत एव सत्यः । तर्हि कथं नन्द-सुतः ? तत्राह—स्वयं-ज्योतिर् नन्द-गृहे स्वयं-कृत-प्रकाशः, न तु तत्-सुतः । तर्हि किम् एवाहं परिच्छिन्नः ? तत्राह—अनन्तोऽपरिच्छिन्नः परिच्छिन्न इव दृश्यते । अधुनैव तवानन्तता च दृष्टा, न केवल्म् अनन्त आद्यश् च सर्व-कारण-कारणम् । अत एव नितिओऽक्षरः क्षरतीति क्षरा माया, न विद्यते सा यस्य स तथा, अत एव अजस्र-सुखः । अतो निरञ्जनोऽज्यतेऽनेनेत्य् अञ्जनं प्रमाणं प्रमाणान् निर्गतोऽप्रमेय इत्य् अर्थः । अतः पूर्णोऽद्वयः, न विद्यते द्वयं प्रपञ्चो यस्य । उपाधितो मुक्त उपाधि-शून्यः । अमृतोऽमृत-रसवद् आस्वाद्यः । एवं-विधं त्वां केचिद् एव विरला जानन्तीति भावः ॥२३॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्वोक्तं श्री-भगवतः सत्यत्वम् एवोपपादयन् जीव-तत्त्व-वैलक्षण्येन भगवतस् तत्त्वम् आह—एक इति । एकोऽपि त्वम् आत्मा व्यापक-पुरुषः सर्व-जीवानां प्रत्येकम् अन्तर्यामी, पुरि शयनात् पुरुषः इत्य् उक्तेः । पुराणश् च पूर्वतो निजैश्वर्येण वर्तमानोऽपि नव एवेति परम-महा-शक्तिमान् ईश्वर इत्य् अर्थः । एवं पर-ब्रह्मणः परमात्मत्वं परमेश्वरत्वं च क्रमेणोक्तम् । न चैश्वर्यादिकं मायिकम् इत्य् आह—सत्य इति ।
ननु, साकारत्वेन दृश्यत्वात् कथं सत्यता ? तत्राह—स्वयं-ज्योतिः स्व-प्रकाशस् त्वत्-कृपयैव दृश्यत्वात् । किं च, अनन्तः उत्तरावधि-रहितः । आद्यः पूर्वावधि-रहितः । एवम् अपरिच्छिन्न इत्य् अर्थः । यद् वा, अनन्तोऽपरिच्छिन्नः, आद्यो जीववज् जन्म-रहितः, नित्यः सदैक-रूपः सर्व-विकाराभावात् । अक्षरः स्थिरः । यद् वा, प्रपञ्चातीतः, क्षरः सर्वाणि भूतानि [गीता १५.१६] इति श्री-गीतोक्तेः । अजस्र-सुखो नित्यानन्द आनन्द-घन-मूर्तिर् इत्य् अर्थः। निरञ्जनो निर्मलो विशुद्ध इत्य् अर्थः । पूर्णः सम्पूर्णोऽनन्यापेक्ष इत्य् अर्थः । अद्वयो विजातीय-सम्बन्ध-रहितः उपाधितो मुक्तो निरुपाधिर् अकारण-सर्व-जीव-निरन्तर-हित-कारी । यद् वा, स्वत एव तत्-तद्-गुणादि-युक्त इत्य् अर्थः । अमृतोऽविनाशी । यद् वा, न विद्यते मृतं मृतिर् मरण-लक्षण-संसारो भक्तानां यस्मात् सः ।
एवं मूर्तित्वेन जीववत् प्रसक्तं पर-प्रकाश्यत्वं परिच्छिन्नत्वं गर्भ-वासादि-पूर्वक-जायमानत्वम् अवस्थादि-भेदेन विविध-रूपत्वम् अस्थिरत्वम् अल्प-सुखत्वम् अविशुद्धत्वं विजातीय-सम्बन्धत्वं सोपाधिकत्वं संसारित्वं च निरस्तम् । एतेषां यथायथं हेतु-हेतुमत्तोह्या ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् अवान्तर-प्रकरणं तथैवोपसंहरति—एक इति । यस्मान् नारायणस् त्वम् [भा।पु। १.५.४८] इत्य्-आदि, एकोऽसीत्य्-आदि च, तस्मात् स-पाणि-कवलोऽयं त्वम् एक एवात्मा सर्वेषां प्रापञ्चिकाप्रापञ्चिकानां मूलं स्वरूपं, तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहं [गो।ता।उ। २.३३] इति, साक्षात्-प्रकृति-परो योऽयम् आत्मा [गो।ता।उ। २.२३], कथं त्व् अवतीर्णो भूम्यां हि वै [गो।ता।उ। २.२३] इति च श्री-गोपाल-तापिनी-श्रुतेः । वक्ष्यते च—सर्वेषाम् एव भावानां [भा।पु। १०.१४.५७] इत्य्-आदि, कृष्णम् एनम् अवेहि त्वं [भा।पु। १०.१४.५५] इत्य्-आदि च तवात्मत्वम् एव साधयति—पुरुष इत्य्-आदिना ।
तत्र पुरुषः, योऽसाव् उत्तमः पुरुषो गोपालः [गो।ता।उ। २.९२] इतितच्-छ्रुतेः । पुराणो गूढः, पुराण-पुरुषो वन-चित्र-माल्यः [भा।पु। १०.४४.१३] इति वक्ष्यमाण-वचनात्। सत्यः, सत्य-व्रतं सत्य-परं त्रि-सत्यं [भा।पु। १०.२.२६] इत्य्-आद्य्-उक्तत्वात् ।
स्वयं-ज्योतिः—
यो ब्रह्माणं विदधाति पूर्वं > यो विद्यास् तस्मै गोपायति स्म कृष्णः । > तं ह देवम् आत्म-बुद्धि-प्रकाशं > मुमुक्षुर् वै शरणम् अमुं व्रजेत् ॥[गो।ता।उ। १.२२] इति तच्-छ्रुतेः > ।
अनन्तः, न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य्-आदि, योऽयं कालस् तस्य ते [भा।पु। १०.३.२६] इत्य्-आद्य्-उक्तत्वात् ।
आद्यः,
ईश्वरः परमः कृष्णः सच्-चिद्-आनन्द-विग्रहः । > अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ [ब्र।सं। ५.१] इति > ब्रह्म-संहितायाम् ।
विदितोऽसि भवान् साक्षात् [भा।पु। १०.३.१३] इत्य्-आदि-श्री-वसुदेव-वाक्यादेः ।
नित्यः,
नितिओ नित्यानां चेतनश् चेतनानाम् > एको बहूनां यो विदधाति कामान् । > तं पीठगं येऽनुभजन्ति धीरास् > तेषां सिद्धिः शाश्वती नेतरेषाम् ॥[गो।ता।उ। १.२०] > एतद् विष्णोः परमं पदं ये > नित्य-मुक्ताः संयजन्ते न कामान् । > तेषाम् असौ गोप-रूपः प्रयत्नात् > प्रकाशयेद् आत्म-पदं तदैव ॥[गो।ता।उ। १.२१] इति तच्-छ्रुतेः ।
अक्षरः, यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः [गीता १५.१८] इति श्री-गीताभ्यः ।
अजस्र-सुखः, कृष्णात्मको नित्यानन्दैक-रूपः [गो।ता।उ। २.४०] इति तच्-छ्रुतेः । केवलानुभवानन्द- स्वरूपः [भा।पु। १०.३.१३] श्री-वसुदेव-वाक्यादेः ।
निरञ्जनः, विशुद्ध-विज्ञान-घनं स्व-संस्थयासमाप्त-सर्वार्थं [भा।पु। १०.३७.२३] इति श्री-नारद-वाक्यात् ।
पूर्णः, ते होचुर् उपासनम् एतस्य परमात्मनो गोविन्दस्याखिलाधारिणो ब्रूहीति [गो।ता।उ। १.१७] इति तच्-छ्रुतेः । को वेत्ति भूमन् [भा।पु। १०.१४.२१] इति ब्रह्म-वाक्यादेः ।
आद्यः, अद्वितीयाय महते श्री-कृष्णाय नमो नमः [गो।ता।उ। १.४२] इति तच्-छ्रुतेः ।
मुक्त उपाधितः, साक्षात् प्रकृति-परः [गो।ता।उ। २.२३] इति तच्-छ्रुतेः ।
अमृतः, गोविन्दान् मृत्युर् बिभेति [गो।ता।उ। १.३] इति तच्-छ्रुतेः । मर्त्यो मृत्यु-व्याल-भीतः पलायन् [भा।पु। १०.३.२७] इत्य्-आदि-वाक्यादेः । तथा, जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् अच्छेद्योऽयं, योऽसौ सौर्ये तिष्ठति, योऽसौ गोषु तिष्ठति, योऽसौ गोपान् पालयति, योऽसौ गोपेषु तिष्ठति [गो।ता।उ। २.२२] इति तच्-छ्रुतेर् एव ।
अत्र टीकायां पद-त्रयेण चतुर्विधं क्रिया-फलं वारयतीति, तद्-वारणं समापयतीत्य् अर्थः ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : एकस् त्वम् ॥२३.२४॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यद्यपि तवावताराः सर्वे नित्याः, यद्यपि वत्स-वत्सपादि-रूपेण सम्प्रत्य् एव सत्य-ज्ञानादि-वपुर्भिर् नाना दृष्टोऽसि, तथापि त्वम् एक एव, यत इदानीं तत् तत् सर्वम् अन्तर्धाप्यैक एव वर्तसे, तेन सजातीय-विजातीय-द्वैत-शून्यत्वाद् एक एवासीत्य् आह—एकस् त्वम् आत्मेत्य्-आदि । त्वम् एकः यद् इदं सर्वं दृष्टम्, तत् त्वम् एव, न तत् सजातीयं विजातीयं वा । त्वत्तः पृथग्, न शरीरम् । तर्हि किं नीरूपः ? नेत्य् आह—पुरुषो दृश्यमान-पुरुषाकारतया श्री-नन्द-किशोर एव । तर्हि किम् अहम् अर्वाचीनः ? नेत्य् आह—पुराणः । तर्हि कथं नन्द-पुत्रः ? तत्राह—सत्यः । एवं-रूपेणैव सत्यः, एवं-रूपेणैव नन्दादयोऽपि सत्या इत्य् अर्थः । कुत इयं सङ्गतिः ? तत्राह—स्वयं-ज्योतिः स्व-प्रकाशः । तव स्वयं ज्योतिष्ट्वेन सर्वम् एव सङ्गच्छते, अचिन्त्य-परम-शक्तित्वात् । तर्हि किम् अहं परिच्छिन्नः ? तत्राह—अनन्तः । एवं-रूपेणैव व्यापकत्वात् ।
ननु, पुराण इति यद् उक्तं, तत् किं प्राचीनः ? नेत्य् आह—आद्यः । न तु तथाप्य् आदौ भवत्वात् आदि-शब्दस्य च सावधित्वात् सृष्टेः प्राग्-जातत्वम् आयातम् । तथा सति प्राचीनत्वम् एवायाति, न तु मे नित्यत्वम् इत्य् आशङ्क्याह—नित्यः । तर्हि किम् अहम् आकाशवन् नित्यः ? नेत्य् आह—अक्षरः । स तु क्षर एव—क्षरः सर्वाणि भूतानि [गीता १५.१६] इत्य् उक्तेः । अत एव्आजस्र-सुखो निरन्तरानन्दः । तर्हि कथं भवतापहृतेषु मे दुःखं ? तत्राह—निरञ्जनोऽलिप्तः । तेनापि लिप्तो न भवसि । तर्हि निर्विशेषं ब्रह्मैव ? नेत्य् आह—पूर्णः । परिपूर्णं ब्रह्म बृहद् ब्रह्मेत्य् अर्थः । अत एव अद्वयः, द्वयम् अपूर्णता नास्ति यस्य, यत उपाधितो मुक्तः, अतोऽमृतः । अमृतम् आसाद्यं यत् किञ्चित् तद् अस्यास्तीत्य् अर्श आदित्वाद् अच् । एतत् सर्वाण्य् एव विशेषणानि, विशेष्यं तु त्वम् इति त्वच्-छब्द-वाच्यं श्री-कृष्ण-रूपम् । तेन त्वद्-रूपस्यानिर्वचनीयत्वे तात्पर्यम् ॥२३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तवानन्त-मूर्तित्वेन त्वम् अचिन्त्य-शक्त्या एक-मूर्तिर् एवेत्य् आह—एक इति । त्वम् एक आत्मा परमात्मा इत्य् अर्थः । जीवात्मनां बहुत्वेनैकत्व-भावात् । ननु, परमात्मा निराकार एव, न पुरुषः पुरुष-शब्दस्याकृतिमत्य् एव पदार्थे रूढेः किम् अन्यः पुरुष इवार्वाचीनः, न पुरातनः । ननु, नन्द-पुत्रत्वाद् अर्वाचीनोऽप्य् अहं पुरातनो भवतः स्तुत्यैवाभूवं, न तु यथार्थतयेति । तत्राह—सत्यः, त्वं नन्द-पुत्रोऽपि सत्यः त्रैकालिक-सत्तावान् पुराण-पुरुष इत्य् अर्थः । ननु, अस्य पुरुषस्य काल-कर्मादि-प्रकाश्यत्वाद् अहम् अपि किं तथैव ? न, स्वयं-ज्योतिः । त्वं तु स्व-प्रकाशः किं सूर्यादिवत् परिच्छिन्नः ? न, अनन्तः, न विद्यतेऽन्तः कालतो देशतश् च यस्य सः ।
ननु, अन्येऽप्य् अवतारा एवं-भूता एव तेषाम् अहं कतमः ? तत्राह—आद्यः, त्वं तेषाम् अपि मूल-भूतोऽवतारीत्य् अर्थः । नन्व् अहं द्विपरार्धान्ते किम् एतत्-स्वरूपेणैवावस्थास्यामि न वा ? इत्य् अत आह—नित्यः, जगद् इदं पुरातनम् अपि सत्यम् अपि द्विपरार्धान्ते स्वरूपेणास्थायित्वाद् अनित्यम् उच्यते । त्वं तु तदापि नन्द-पुत्राकारेणापि स्थास्यसीति नित्य उच्यसे । त्वद्-आकारस्य पूर्ण-ब्रह्म-स्वरूपत्वात् । योऽसौ सौर्ये तिष्ठति [गो।ता।उ। २.२३] इत्य् आदौ यः साक्षात् पर-ब्रह्मेति गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भू-रुह-तलासीनम् इति तापनी-श्रुतेः । ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इति त्वद्-उक्तेश् च ।
नन्व् आकारवतः षड्-विकारवत्त्वेन प्रतिक्षण-क्षरत्वाद् अहम् अपि किं तथैव ? न, अक्षरः। नन्व् आकारवन्तो ह्य् अवश्यम् एव सुख-दुःख-धर्माणो भवन्ति ? तत्राह—अजस्र-सुखः । ननु, मम बाल्ये गोपी-स्तन्य-दुग्ध्-दधि-घृतादिषु लोभः पौगण्डे कालियादिषु कैशोरे गोपिकासु काम इत्य् अहं कामादि-मालिन्य-युक्त एव ? न, निरञ्जनः, त्वत्-कामादीनाम् अपि चिन्मयत्वात् । ननु, तद् अपि गोपिकादि-सापेक्षत्वाद् अपूर्णस् तु भवाम्य् एव ? इति तत्राह—पूर्णः, प्रेमि-भक्त-सापेक्षत्वं हि न पूर्णत्वं व्याहन्तीत्य् अर्थः । नन्व् एवं-भूतो मद्-विधः कोऽप्य् अन्यो वर्तते न वा ? इति तत्राह—अद्वयः ।
ननु, सत्यम् अद्वयत्वात् पूर्ण-ब्रह्मैवाहं, तद् अपि केचिन् मां विद्योपाधिं मन्यन्ते । तत्राह—उपाधितो मुक्त इति । विद्याविद्याभ्यां भिन्नः [गो।ता।उ। २.२१] इति गोपाल-तापनी-श्रुतेः । यतस् त्वम् अमृत इति, अमृतं शाश्वतं ब्रह्म इति श्रुत्य्-उक्तम् अमृत-शब्द-वाच्यं निरुपाधि-ब्रह्मैव, श्लेषेण न विद्यते मृतं मृत्युर् यस्मात् स इति ॥२३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : चिज्-जडात्मकस्य जगतः स्वरूपम् अशोभनं स्वप्न-सदृशं दुःखाकुलम् उक्तं त्वय्य् एव नित्येत्य् उक्तं भगवत्-स्वरूपं तु विशिष्य दर्शयति—एकस् त्वम् इति । एक आत्मा त्वं व्रज-सुहृदादि-बहु-रूपत्वेऽप्य् ऐक्यात्यागात् । श्रुतिश् च—एकोऽपि सन् बहुधा योऽवभातीति । स्मृतिश् च—एकानेक-स्वरूपाय इति ।
नन्व् आत्मा किं तार्किकानाम् इवाकृति-हीनः ? न, पुरुषः, मुख-पाद-करोदरादिमान् आनन्द-मय-वाक्ये पुरुष-विध इति श्रवणात् । ननु, किम् इतर-पुरुषवद् आधुनिकः ? न पुराणः पुरातन इत्य् अर्थः । ननु, नन्द-पुत्रत्वाद् अहम् आध्हुनिक एव ? न, सत्यः, त्रैकालिकः, पुरापि तत्-पुत्र इत्य् अर्थः । नन्व् इतर-पुरुषवत् किं कालादि-प्रकाश्यः ? न, स्वयं-ज्योतिः स्व-प्रकाश इत्य् अर्थः । ननु, किं दीपादि-प्रकाशवत् परिच्छिन्नः ? न, अनन्तः, सर्व-देश इत्य् अर्थः । नन्व् ईदृशा मत्स्यादयोऽप्य् अवतारास् तेषु कतमोऽहं ? तत्राह—आद्यः इति, तेषाम् अवतारी स्वयं-रूपत्वम् इत्य् अर्थः । कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इति स्मरणाच् च ।
ननु, महा-प्रलयेऽप्य् एवम् एव स्थास्यामि न वा ? इति चेत्, तत्राह—नित्यः सदैक-रसः । तदाप्य् एवम् एव स्थास्यसीत्य् अर्थः । नन्व् आकृतिमतो भावस्य विकार-दर्शनात् ममापि स स्यात् ? न, अक्षरः, निर्विकार इत्य् अर्थः । ननु, तादृशस्य कदाचिद् दुःखस्यापि दर्शनान् ममापि तत् स्यात् ? न, अजस्र-सुखः । ननु, बाल्ये दध्य्-आदिषु लोभः, पौगण्डे कालियादिषु क्रोधः, कैशोरे गोप-किशोरीषु मे कामश् चेति लोभादि-मालिन्यवान् अहं ? न, निरञ्जनः, तल्-लोभादीनां स्वरूप-धर्मत्वान् निर्मलस् त्वम् इत्य् अर्थः ।
ननु, मध्यादीनां गोप-किशोरीणां चापेक्षणाद् अपूर्णोऽहं ? न, पूर्णः, तेषां तासां च तद्-विभूतित्वाद् इति भावः । अद्वय इति प्राग्वत् । ननु, माम् अन्ये सोपाधिम् आहुः ? न, उपाधितो मुक्तः, साक्षात् प्रकृति-परोऽयम् आत्मा गोपालः [गो।ता।उ। २.२३] इति श्रुतेः । उपासितः सन्न् अमृतः ? न, विद्यते मृतं मृत्युर् यस्माद् इति मुक्ति-प्रद इत्य् अर्थः । गोविन्दान् मृत्युर् बिभेति [गो।ता।उ। १.३] इति श्रुतेः ॥२३॥
॥ १०.१४.२४ ॥
एवं-विधं त्वां सकलात्मनाम् अपि
स्वात्मानम् आत्मात्मतया विचक्षते ।
गुर्व्-अर्क-लब्धोपनिषत्सु चक्षुषा
ये ते तरन्तीव भवानृताम्बुधिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् एवं-भूत-ज्ञानान् मुच्यन्त इत्य् आह—एवं-विधम् इति । त्वां ये विचक्षते सम्यक् पश्यन्ति । कथं ? आत्मात्मतया आत्मा प्रत्यक् तस्य स्वरूपेण । न चैतत् पुत्रादिष्व् इव गौणम् इत्य् आह । स-कलात्मनाम् अपि स्वात्मानम् । केन ? गुरुर् एव्आर्कस् तस्माल् लब्धा उपनिषज्-ज्ञानं, तद् एव सु-चक्षुः, तेन । भव एवानृताम्बुधिस् तं ते तरन्तीव ॥२४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्मात् त्वं सर्व-विकारादि-शून्यः, तस्माद् धेतोः । एवं-विधं सत्य-ज्ञानादि-रूपम् । प्रत्यक् जीवः । आत्म-शब्दोऽत्र स्वरूप-परः । एतत् आत्म-दर्शनम् । पुत्रे आत्म-दृष्टिर् यथा गौणी न तथेत्य् आह—सकलेति । अनृतत्वाद् एव तरन्तीवेत्य् उक्तम् ॥२४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ये तु एवं-विधं त्वाम् अविज्ञाय केवलेनैवात्म-ज्ञानेन भवाम्बुधिं तितीर्षन्ति, तेषां केवलं कृच्छ्रम् एवेत्य् आह—एवं-विधं त्वाम् इत्य्-आदि । तरन्तीव, न तु तत् तरन्ति । यद् वा, एवं-विधं दृश्यमान-श्री-नन्द-किशोर-विग्रहं परम-प्रेमास्पदं त्वां ये हि आत्मतयैव विचक्षते, ते तरन्त्य् एवेति भावः ॥२४॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतादृश-त्वज्-ज्ञानेन भक्त्यानायासेनैव संसारान् मुच्यन्त इत्य् आह—एवम् इति । सर्व-जीवानां स्वात्मानं परम-नियन्तारमय्य् आत्मनोऽपि सकाशाद् आत्मतया प्रियतया । यद् वा, सर्व-जीवानां स्वात्मानं परमात्मानम् अपि आत्मनो ममैवात्मान्तर्यामी तत् तयापि किम् उत प्रियत्वादिना विचक्षते सम्यग् जानन्ति, ते त्वद्-भक्ता मिथ्या-भूतोऽपि संसार एवाब्धिर् दुस्तरत्वात् तं तरन्ति । अनृतेति तत्त्वतोऽकिञ्चित्करत्वाद् अज्ञान-मात्रोत्पन्नत्वाद् वा । इवेति च्आत्म-ज्ञानस्य भगवज्-ज्ञानान्तर्-गततया तज्-ज्ञानस्यानायस-सिद्धत्वात् ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतादृश-त्वज्-ज्ञानेनानायासेनैव संसारान् मुच्यते इत्य् आह—एवम् इति । एवं-विधं पूर्वोक्त-प्रकारकं त्वां श्री-कृष्णं सकलात्मनाम् अपि जीव-भेदानां पूर्वोक्त-पुरुष-त्रय-भेदानां चापि रश्मीनां स्वैक-देशानां च सूर्य-मण्डलम् इव स्वात्मानं परम-स्वरूपम् आत्मात्मतया सकलेत्य्-आदिना यथोक्तं तथैव न तु केवल-शुद्धात्मादितयेत्य् अर्थः । विचक्षते आत्मादितः सर्वतः परम-प्रेमास्पदत्वेनानुभवन्ति साक्षात् त्वद्-उपदेष्टृत्वात् तादृशो गुरुर् एवार्कः, न त्व् अन्योपदेष्टृवद् दीपादि-स्थानीयः, तद्-विधश् च, कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनां [भा।पु। १०.१४.५५] इत्य् अनुसारेण श्री-शुकदेवादिः उपनिषच्-छ्री-गोपाल-तापिन्य्-आद्या, योऽसौ ब्रह्म परं ब्रह्म गोपालः इत्य्-आदि-रूपा भवो जन्म-मरणादि-मयः संसारः, अस्यानृतत्वात् त्वद्-आश्रयेण च, त्वय्य् अम्बुजाक्ष [भा।पु। १०.२.३०] इत्य्-आदि-रीत्या गो-वत्स-पदायमानत्वाद् इव-शब्दः ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ये त्व् एवं-विधे तव श्री-विग्रहे आत्म-बुद्धिं कुर्वन्ति, न पुनः शरीर-बुद्धिं, त एव निस्त्रन्तीत्य् आह—एवं-विधं त्वाम् इत्य्-आदि । एवं-विधम् एवं-प्रकारं त्वां श्री-विग्रह-रूपं ते आत्मात्मतया आत्मनाम् अपि आत्मतया विदन्ति, परमात्मत्वेन जानन्ति । किं वा, आत्मा विग्रहः, स एवात्मा चिद्-रूपस् तत् तया । ते भवानृताम्बुधिं तरन्तीव, तरन्त्य् एव । इव एवार्थः । कीदृशं ? सकलात्मनाम् अपि आत्मानम् । केन ? गुर्व्-अर्क-लब्दोपनिषत्-सुचक्षुषा, गुरु एवार्कस् तेन लब्धा अधिगता या उपनिषत् तत्त्वं रहस्यम् इति यावत्, सैव सुष्ठु शोभनं चक्षुस् तेन ।
अथवा, एवं-विधं परमाचिन्त्य-महैश्वर्यं त्वां ये आत्मनः स्वयात्मतया स्व-जीवन-बुद्ध्या विचक्षते, ते तरन्तीव, तरन्त्य् एवेति पूर्ववत् । यद् वा, एवं-विधं परम-प्रेमास्पद-विग्रहं त्वां ये ज्ञानिन आत्मा आत्मेत्य् एव विचक्षते, न तु श्री-नन्द-किशोरोऽयं प्राणनाथ इत्य्-आदि-रूपेण ते भवानृताम्बुधिं तरन्तीव, न तु भवन्ति, इव-शब्दोऽसम्भवानार्थः ॥२४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वदीय-निर्विशेष-ब्रह्म-स्वरूपोपासका अपि त्वयि पुरुषाकार-स्वरूपे परमात्मत्वेन भक्त्या भाग्य-वशाद् यदि प्राप्त-निष्ठा स्युः, तर्हि ते शान्त-भक्ताः सङ्गीयन्ते इत्य् आह—एवं-विधम् उक्त-लक्षणं त्वां सकलात्मनां स्वात्मानं मूर्तत्वेन मनो-नयनाह्लादकत्वात् शोभनम् आत्मानं पुरुष-स्वरूपम् एव आत्मात्मतया परमात्मत्वेन भक्त्या ये पश्यन्ति, परमात्मतया कृष्णे जाता शान्ती रतिर् मता इति श्री-भक्ति-रसामृतोक्तेः । केन ? गुरुर् एवार्कः, तस्माल् लब्धाध्ययनेन प्राप्ता या उपनिषत्, सैव सुचक्षुस् तेन तद्-अर्थावगाहनोत्थेन ज्ञानेन भव एव अमृताम्बुधिस् तं तरन्तीव ॥२४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : त्वां भजताम् अश्रमा मुक्तिर् इत्य् आह—एवम् इति । एवं-विधम् उक्त-लक्षणं त्वां सकलात्मनां निखिल-क्षेत्रज्ञानां स्वात्मानं दिव्य-पुरुषत्वात् शोभनम् आत्मानम् आत्मात्मतया स्वान्तर्यामितया स्व-स्वामितया च ये विचक्षते धायन्ति । केन ? गुरुर् एवार्कस् तस्माल् लब्धा अध्ययनेन प्राप्ता, एष त आत्मान्तर्याम्य् अमृत [बृ।आ।उ। ३.७.४] इत्य् उपनिषत् सैव सुचक्षुस् तेन तद्-उत्थेन निर्णयेनेत्य् अर्थः । ते भव एव्आनृताम्बुधिर् दुष्कर्म-फल-सिन्धुस् तं तरन्ति, ऋतं पिबन्तौ [क।उ। १.३.१] इत्य् आदाव् ऋत-शब्दः । सुकर्म-फल-परो दृष्टः त्वद्-आश्रयेण तस्य गो-वस्त-पद-तुल्यत्वाद् अनायास-तरण-सूचनाय इव-शब्दः । उपनिषद्-अर्थस् तु, एष आत्मा विज्ञानानन्दः ते तवान्तर्यामी अमृतो नित्य इत्य् अन्तर्यामित्वं तस्य नित्यम् इत्य् अर्थः । न चैष ते तवात्मेति सम्बन्धनीयं तथा सति षष्ठ्य्-अर्थस्यौपचारिकत्वापत्तेः ॥२४॥
॥ १०.१४.२५ ॥
आत्मानम् एवात्मतयाऽविजानतां
तेनैव जातं निखिलं प्रपञ्चितम् ।
ज्ञानेन भूयोऽपि च तत् प्रलीयते
रज्ज्वाम् अहेर् भोग-भवाभवौ यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र च ज्ञानेन तरन्तीति, तच् च तरन्तीवेति, तच् चात्मात्मतया ज्ञानेन, इत्य् अर्थ-त्रयं प्रतिज्ञातं क्रमेणोपपाद्यते । तत्रात्मानम् एवात्मतयेत्य् अनेन श्लोकेन ज्ञानेन तरन्तीत्य् उपपाद्यते । अज्ञान-संज्ञाव् इत्य् अनेन तरन्तीवेत्य् एतत् । त्वाम् इत्य्-आदि-श्लोक-द्वयेन त्वातिमात्मतयेत्य् एतद् उपपाद्यते । ननु, ज्ञानेन कथं भवं तरन्तीति तस्याज्ञान-मूलत्वाद् इत्य् आह—आत्मानम् एवेति । तेनैवाज्ञानेनैव प्रपञ्चितं प्रपञ्चः । रज्ज्वाम् अहेर् भोग-भवाभवौ सर्प-शरीरस्याध्यासापवादौ यथेति ॥२५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र भव-सन्तरणेऽर्थ-त्रयं प्रतिज्ञातम् इति योजनीयम् । तत्र तेषु । ज्ञानेन संसार-तरणे शङ्कते—नन्व् इति । तस्य संसारस्य ॥२५॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अज्ञानेन प्रपञ्चः, ज्ञानेन तन्-नाश इति प्रपञ्चस्य भवाभवौ पर-श्लोकेन दर्शयित्वा भव-बन्ध-तन्-मोक्षयोर् अज्ञान-कल्पितं संञ्जा-मात्रम्, न तु वस्तुतः सत्तेत्य् अपि तत्-परश्लोकेन दर्शयित्वा त्व् आत्मानं परं मत्वा [भा।पु १०.१४.२१] इत्य्-आदिना तत्-प्रश्लोकेन तथाविधानाम् अज्ञतां प्रतिपाद्य अन्तर्भवेऽनन्त [भा।पु १०.१४.२८] इत्य्-आदिना असद् अपवादेनाधिष्ठानतत्वम् अनुभवन्तः सन्तोऽप्य् अन्तर्भवे मृगयन्त्य् एव, न तु पश्यन्तीति श्री-कृष्णतत्त्वस्य दुर्ज्ञेयतां प्रतिपाद्य भक्ता एव तत्तत्वं जानन्तीति सर्वापवादेन दर्शयति—अथापीत्य् आदि । किं च, पूर्वोक्तं ज्ञाने प्रयासम् उदपास्य नमन्तः [भा।पु १०.१४.३] इत्य्-आदिना, श्रेयसृतिं भक्तिम् [भा।पु १०.१४.४] इत्य्-आदिना चान्वयव्यतिरेकाभ्यां ज्ञानाद्-भक्तेः प्राधान्यं यत् सूचितम्, तस्यैव विवरणं कुर्वन् पञ्चभिः श्लौकैर् ज्ञानस्य निःश्रेयसकरत्वं प्रयास-बहुलत्वं भक्तेस् त्वयत्नसाव्यत्वम् इति क्रमेण दर्शयति तथा हि एवम्-विधं त्वाम् एवम्-विधं दृश्यमानं सुखध्येयं सुखोपास्य परम-प्रेमास्पदं सर्वेन्द्रिय-रसायनं ये आत्मतयैव विचक्षते, ते भवाम्वुधिं तरन्तीव, न तु सम्यक् तरन्ति ।
ननु, आत्मानम् आत्मतया यदि न जानीयात्, तदा कथं संसाराभावः ? तत्राह—आत्मानम् एवट्मतयेत्य्-आदि । अयम् अर्थः—आत्मतया अज्ञानेन प्रपञ्चः, ज्ञानेन तन्-नाशः, एतावता किं मिथ्याभूतस्य प्रपञ्चस्य स्थित्या वा ? नाशेन वा किम् अर्थः, यथा रज्ज्वां सर्प-भावाभावौ द्वावेव मृषेति दर्शयति—तद्-भावे बन्धः, तद् अभावे मोक्षः एवेत्य् एव महत् फलम् इति चेत् बन्ध-मोक्षाव् अपि मृषा इति दर्शयति—अज्ञान-संज्ञाव् इति । अथाज्ञानिनां पन्थाः अज्ञानिनस्तु त्वां न जानन्त्य् एव ? ॥२५.२६॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनायास-सिद्धत्वम् एवाह—आत्मानम् इति । आत्मतया ब्रह्मत्वेन कर्तृत्व-भोक्तृत्वादि-रहित-स्वरूपत्वेनात्मानम् अविजानताम् एव, तेनात्म-तत्त्वाज्ञानेनैव जातम् इति तेनैव प्रपञ्चस्यात्मन्य् अध्यासेन भासमानत्वात्, अथवात्मानं भगवन्तम् आत्मतया प्रियतया भगवत्तया वाविजानतां प्रपञ्चितं संसारः । यद् वा, अहम् एवेश्वरः, भगवांश् चाहम् एव इत्य्-आदि-माया-विस्तारस् तादृश-ज्ञान-मात्रेणैव प्रकर्षेण लीयते नश्यति । च-कारान् मुमुक्षादिकं च प्रलीयते, किं वक्तव्यं भवानृताम्बुधिर् इति । भूयोऽपीति भूयिष्ठम् अपि प्रपञ्चितम् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् आत्मा खलु शुद्धावस्थो जीव एव मूलं ततस् तद् अज्ञानेनैव जातः प्रपञ्चः तज् ज्ञानेनैव नश्येत् किं भगवज् ज्ञानेनेति विप्रतिपन्नान् निराकरोति—आत्मानम् एवेति । आत्मानं स्वम् एवात्मतया मूल-स्वरूपत्वेन विजानतां जीवानां भवन्तं तु तद् रूपत्वेनाप्य् अविजानताम् इत्य् एवकारार्थः । तेनैव मूलेन भगवद् अजानेनैव हेतुना निखिलं प्रपञ्चितं जातं तं दोषम् असहिष्ण्वा भवद् भक्त्या मायया विस्तारितं देहादिकं तेषां जातं स्व-रूपास्फूर्ति-पूर्वक-तद् अध्यासेन तदीयतया सम्पन्नं तस्माज् ज्ञानेन मूलेन भगवद् अज्ञानच्छेदकेन भगवज् ज्ञानेनैव स्वरूप-ज्ञानं तद् अध्यास-हेतुर् अज्ञानम् अपि प्रलीयते तत् प्रलयम् एव दृष्टान्तेन स्पष्टं बोधयति रज्ज्वाम् इति । अत्रैकदेश द्विशेषो द्रष्टव्यः—
भयं द्वितीयभिनिवेशतः स्याद् ईशाद् अपेतस्य विपर्ययोऽमृतिः । > तन् माययाऽतो बुध आभजेत् तं भक्त्यैकयेश गुरु-देवतात्मा > ॥[भा।पु। ११.२.३७]
इति तैश् च व्याख्यातं यतो भयं तन् मायया भवेत् ततो बुधो बुद्धिमान् तम् एवाभजेत् उपासीत ।
ननु, भयं द्वितीयाद्य् अभिनिवेशतो भवति स च देहाङ्कारतः स च स्वरूपास्फुरणात् किम् अत्र तस्य माया करोति अत आह, ईशाद् अपेतस्येति । ईश-विमुखस्य तन् मायया अस्मृतिः स्वरूपास्फूर्तिर् भवति ततो विपर्ययो देहोऽस्मीति ततो द्वितीयाभ्यिनिवेशाद् भयं भवति एवं हि प्रसिद्ध लौकिकीष्व् अपि मायासु उक्तं च श्री-भगवता
दैवी ह्य् एषा गुणमयी मम माया दुरत्यया । > माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥[गीता ७.१४]
इत्य्-आदि यद्य् अपि एवं तथापीश्वरतस् त्वमात्रस्यापेक्षया तत्र च प्रतिपत्ति-मात्रस्य न चांशिनः न चानुभवस्य श्री-राम-नान्मापि तच् छ्रवणात् तस्मात् तत्र जीव-स्वरूपानुभव एष सम्यग् अपेक्षते परिपूर्णाविर्भावस्य स्वयं भगवतस् तज् ज्ञानं परमं महद् एवेति तस्य च फल त्वयि च परम-प्रेमादय एवेति भावः ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न-त्वात्मा खलु शुद्धावस्थो जीव एव मूलं ततस् तज्-ज्ञानेनैव जातः प्रपञ्चस् तज्-ज्ञानेनैव नश्येत् तत्र तादृशम् अतज् ज्ञानां किम् इति केषाञ्चिन् मतम् इत्य् आशङ्क्याह—आत्मानम् इति ।ँँ आत्मानं शुद्ध-जीवम् एवात्मतया मूल-स्वरूपत्वेन विजानतां त्वां तु तद् रूपत्वेनाविजानताम् इत्य् एवकारार्थः । तेनैव मूलेल्न त्वद् अज्ञानेनैव हेतुना लब्धच्छिद्रया मायया निखिलं देहादिकं प्रपञ्चितं शुद्धे जीवे अहं ममतयाध्यस् तं जातं तस्माज्-ज्ञानेन मूलत्वाद् अज्ञानच्छेदकेन त्वज्-ज्ञानेनैव तद्ध्यास-हेतुर् अज्ञानम् अपि प्रलीयते तत्-प्रलयम् एव दृष्टान्तेन बोधयति—रज्ज्वाम् इति । तथा चैकादशे वक्ष्यते, भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य [भा।पु। ११.२.३७] इत्य्-आदि ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ हे भगवन् ! तवायं श्री-विग्रह एवात्मा, अस्यान्-आत्मत्व-ज्ञाने संसृतिः, स्वरूप-ज्ञाने संसृति-नाशश् चेति दर्शयति—आत्मानम् एवात्मतयेत्य्-आदि । आत्मानं तव श्री-विग्रहम् आत्मतया चिद्-रूपतय्आविजानतां जनानां निखिलं प्रपञ्चितं, निखिल-प्रपञ्चो जायते, तेनैव ज्ञानेन आत्मता-ज्ञानेन भूयोऽपि तत्-प्रपञ्चित-निखिलम् एव प्रलीयते । तत्र दृष्टान्तः—रज्ज्वाम् इत्य्-आदि । रज्जौ यथा रज्जू-ज्ञानाभावे अहि-भोगस्य भवः, अहिर् एवायम् इति प्रतीतिः, रज्जू-ज्ञाने सति तस्याभवः, तथा शुद्ध-ज्ञानानन्द-घने तव श्री-विग्रहे नर-विग्रह-सादृश्यान् नर-विग्रहोऽयम् इति भ्रान्तिः । उत्तर-कालं भवद्-अनुग्रह-वशाद् यदा शुद्ध-ज्ञानानन्द-घनोऽयम् इति ज्ञाने सति प्रमा-भ्रान्त्या संसृतिः, प्रमया तन्-नाश इति वाक्यार्थः ॥२५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तरन्त्य् एव ते किम् इति तरन्तीवेति ब्रूषे ? तथा भवस्य चानृतत्वं वा कुतस् तत्र तेषां ज्ञानिनाम् आश्रयणीये विवर्त-वाद-मते जगद् इदम् अनृतम् एव, तत् तरणम् अप्य् अनृतम् एवेत्य् अतस् तरन्तीवेत्य् उच्यते । इत्य् आह द्वाभ्याम् । आत्मानं जीवम् आत्मतया ज्ञानानन्द-मयात्मत्वेन अविजानतां, किन्तु अविद्यया आवरणात् ज्ञातुम् अशक्नुवतां नैव जानतान्तेनैवाज्ञानेन निखिलं प्रपञ्चितं सर्वः संसारोऽभूत् भूयः पुनश् च साङ्ख्य-योग-वैराग्य-तपो-भक्तिभिर् आत्मनो देह-व्यतिरिक्तत्वेन यज् ज्ञानं तेन तत् सर्वं प्रपञ्चितं विलीयते, यथा रज्ज्वाम् अहेर् भोगस्य सर्प-शरीरस्य अज्ञान-ज्ञानाभ्यां भवाभवौ अध्यासापवादौ ॥२५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एतद्युपनिषज्-ज्ञान-विहीनानां सांसृतिर् दुवारेत्य् आह—आत्मानम् इति । अतति प्रकाशते अत्यते गम्यते मुक्तैर् इरि निरुक्तेर् विज्ञानानन्दं त्वाम् अतति व्याप्नोति सर्वम् इति निरुक्तेर् आत्मतया स्व-व्यापितया स्व-स्वामितया चाविजानतां पुंसां तेनैव तादृशत्वाविज्ञानेनैव तद् वैमुख्येनेति यावत् निखिलं प्रपञ्चितं ज्ञातं देह-गेहादिष्व् अहन्ताममतालक्साणः सर्वो विस्तारोऽभवत्, भूयः पुनः पुनः, भयं द्वितीयाभिनिवेशतः स्याद्-ईशाद्-अपेतस्य विपर्ययोः [भा।पु। ११.२.३७] स्मृतिर् इत्य् आदेः ज्ञानेनोक्त-लक्षणेन त्वद्-विषयकेन तत्-प्रलीयते विनश्यति, अत्र दृष्टान्तः रज्ज्वाम् इति यथा रज्जु-स्वरूपाज्ञानात् तस्याम् अहि-भोगस्य भवः तज् ज्ञानात् तु तस्याम् अहि-भोगस्याभवस् तद्वत् । ये तु रज्जू-रग-दृष्टान्ताद् अतात्त्विकान्यथाभावं विवर्तम् इह विरिञ्चि-रूपादिशत् रज्जोर् अज्ञानाद् उरगो यथा भासते तज्-ज्ञानात् तु विनश्यति भानकालेऽपि स मिथ्यैव, तद् वद् अद्वितीय-चिन्-मात्रात्माज्ञानात् प्रपञ्चो भासते, तज्-ज्ञानात् तु विनश्येत् भानकालेऽपि मिथ्यैवेत्य् आःउः ते प्रष्टव्याः, क्वेदम् अज्ञानं कस्य भासते ? इति । ब्रह्मण्य् एव तद् एव प्रतीतिः चेन् न, सत्यं ज्ञानम् अनन्तं ब्रह्म्, यः सर्वज्ञः सर्ववित् [तै।उ। २.१.१] इति श्रुति-व्याकोपात् आत्मेतरस्य सर्वस्य मिथात्वेन यतो वा [तै।उ। ३.१.१] इत्य् आदेः वेदस्य एष वन्ध्यासुतो भाति इत्य्-आदितौल्येन तद् वादिनो नास्तिकतापत्तेस् तस्यापि मिथ्यात्वेन तद् वादस्यापि शुन्यत्वापत्तेशेति यत् किञ्चिद् एतत् तस्माद् भगवद् वैमुख्याद् अस्य संसारस् तत्-साम्मुख्यात् तु तद् विनाश इत्य् एतद् अंशम् एव दृष्टान्तो ग्राहयतीति सुस्थं विशेषस् तु तद् अनन्यत्वाधिकरण-भाष्ये पीठके च द्रष्टव्यः ॥२५॥
॥ १०.१४.२६ ॥
अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ
द्वौ नाम नान्यौ स्त ऋत-ज्ञ-भावात् ।
अजस्र-चित्य् आत्मनि केवले परे
विचार्यमाणे तरणाव् इवाहिनी ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, ज्ञानेन तरन्त्य् एव किम् इदम् उच्यते तरन्तीवेति तत्राह—अज्ञान-संज्ञाव् इति । अज्ञानेन संज्ञा ययोस् तौ भव-बन्ध-मोक्षौ भवेन बन्धस् तन् मोक्षश् च तौ द्वौ नाम प्रसिद्धौ ऋत-ज्ञ-भावात् ऋतश् चासौ ज्ञश् च यो भावस् तस्माद् अन्यौ न स्तः । ननु, कथं महान् अपलापः क्रियते, परमार्थ-विचाराद् इत्य् आह—अजस्रेति । अखण्डानुभव-रूपे परे शुद्धे आत्मन्य् अज्ञानं न च बन्धः । अत एव न ज्ञानं न च मोक्षः । तरणौ सूर्ये रात्र्य्-अहनी इवेति ॥२६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कते—नन्व् इति । तत्र तस्मिन्न् आक्षेपे ऋतः सत्यः ज्ञो ज्ञान-रूपः यो भाव आत्मा, भाव-शब्द आत्म-वाचकोऽप्य् अस्ति व्युत्पादितम् अधस्तात् । सद् अन्यत्वे त्व् असत्त्वापत्तैः ज्ञ-भेदे भानापत्तेश् च्आन्यैस् न स्तः । पुनर् आशङ्कते—नन्व् इति । अपलापो निह्नवः । परमार्थ-विचारात् सत्य-विमर्शात् । अज्ञानस्यैव बन्धकत्वात् तद् अभावे बन्धाभावः स्फुट एव । अत एव बन्धाभावाद् एव । बन्द्ध एव मुच्यते न त्व् अबद्धोऽपीति तस्य स्वत एव मुक्तत्वादित्य् अर्थः । तरणौ नित्य-प्रकाश-रूपे सूर्ये रात्र्य्-अभावात् तद् विविक्तदिनस्याप्य् अभावात् । अहनी रात्रिश् चाहश् चाहनी, एक-शेषस् त्व् आर्षः । सम्बन्धस्य मृषात्वेन तद् विविक्त-मोक्षणुपपत्तेर् द्वौ न स्त इति भावः अजस्रचिति व्यभिचारिण्य-वस्थात्रयेऽपि निरन्तरं तत् साक्ष्षि-चिद्-आत्मना भासमाने ॥२६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पूर्व श्लोकस्य व्याख्या द्रष्टव्या।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : संसार-तरणस्यातितुच्छताम् एवाभिव्यञ्जयन् मोक्षस्यापुरुषार्थताम् आह—अज्ञानेति । ऋत-ज्ञ-भावात् सत्य-ज्ञानाद् अन्यौ न स्तः, तत्त्वतो मिथ्या-भूताव् एवेत्य् अर्थः । अजस्र-चिति नित्य-ज्ञान-रूपे केवले शुद्धे परे प्रपञ्चातीत आत्म-तत्त्वे विचार्यमाणे सति, यथा बन्द्धो मिथ्यैव, तथा सति विचारान् मोक्षोऽपि मिथ्यैवेत्य् अर्थः । तत्र दृष्टान्तो यथा रवौ न रात्रिस् तद्-अभावाद् विचारेण दिनम् अपीत्य् अर्थः । एव्ं संसाराभाव-मात्रत्वेन मोक्षस्य तुच्छतया न पुरुषार्थता-सिद्धिर् इति भावः । अथवा परे परमेश्वरे केवले एकस्मिन्न् एवात्मनि मनसि विषये विचार्यमाणे सत्य् एव ।
ननु, तद्-विचार-मात्रेणैव कथं तौ मिथ्या भवतः ? तत्राह—अजस्र-चितीति । नित्य-ज्ञान-घने तद्-विचार-प्रवृत्त्यैव तयोस् तत्त्व-ज्ञानोदयाद् इति भावः । मिथ्यात्वे दृष्टान्तः—सूर्ये रात्रि-दिने इव, रातेर् अभावेन तत्-परिच्छेद्य-दिवा-भागस्याप्य् अभावात् ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनृतत्वं दर्शयति—अज्ञानेति । ऋत-शब्देनात्रा-व्यभिचार्युच्यते ज्ञ-शब्देन ज्ञाता भाव-शब्देन पदार्थ-विशेषः, ऋतश् चासौ ज्ञश्चेति ऋतज्ञः स चासौ भावश् चेति ऋतज्ञ-भावः, एष एव्आजस्र-चित्य् आत्मनीत्य् अनुभदिष्यते तत्र ऋताजस्रयोर् एकत्वं व्यक्तम् एव अचितोर् एकत्वं प्रकाश-रूपस्य सूर्यादेः प्रकाशमानत्ववच् चितोऽपि चेतन-रूपत्वात् यत् खलु स्व-प्रकाशम् अज्ञान-रहितं च तज् ज्ञातृ स्याद् एव भावात्मनोर् एकत्वन्तु भावयति प्रकाशयति चेतयतीति निरुक्तेः आत्मनीत्य् आत्मानम् इत्य् आभ्यां जीव-स्वरूपम् एवात्र पूर्वत्र च पद्ये लभ्यते तत्रैवाज्ञान-ज्ञान-बन्ध-मोक्ष-विचारार्हत्वात् प्रकरणेऽस्मिन्न् आभ्याम् अन्यत्र भगवद् वाचित्वात् युष्मद् भवच् छब्दयोः सर्वत्र प्रयुक्तत्वाच् च तस्माद् अयम् अर्थः । यौ भव-बन्ध-मोक्षावृतज्ञ-भावात् अन्यौ स्तः मायावृत्तित्वात् तौ तस्मिन्न् अजस्र-चिद्-आत्म-रूपे ऋतज्ञ-भावे तु विचार्यमाणे न स्तः तत्रानयाः सम्बन्धोऽस्ति नास्ति वेति विचारे क्रियमाणे तु तत्र न सम्भवत इत्य् अर्थः । तर्हि कथं तौ स्फुरतः तत्राह—अज्ञानेनैव सञ्ज्ञा-प्रतीतिर् ययास् तौ तथा दृष्टान्तेन दर्शयति, ये अहनी लिङ्ग-समवाय-न्यायेन रात्र्य्-अहनी तरणेर् अन्यौ स्तः काल-वृत्ति-रूपत्वात् ते तु तरणौ तथा विचार्यमाणे यथा न सम्भवत इत्य् अर्थः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अनृतत्वम् एव दर्शयति—अज्ञान-सज्ज्ञाव् इति । आत्म-शब्देनात्र पूर्वत्र च पद्ये शुद्ध-जीवश्चोच्यते न तु श्री-भगवान् तत्रैव्आज्ञान-बन्ध-मोक्ष-विचारार्हत्वात् प्रकरणेऽस्मिन्न् आभ्याम् अन्यत्र भगवद् वाचित्वाय युष्मद् भवच् छब्दयोः सर्वत्र युक्तत्वात् ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तवायम् इति श्री-विग्रहो नित्य-सुख-बोध-स्वरूपः, एतस्यैवंविधो ज्ञान-मूलको हि भव-बन्धो मोक्षश् चेत्य् आह—अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ इत्य्-आदि । अजस्र-चिति केवले परे परात्परे आत्मनि तव श्री-विग्रहे विचार्यमाणे सति ऋत-स्वभावद् धेतोर् भव-बन्ध-मोक्षौ अज्ञान-सञ्ज्ञौ अज्ञानेन सज्ज्ञां ययोः वस्तुतस् तु बन्धोऽपि अज्ञानजः मोक्षोऽपि बन्धस्य मिथात्वात्, तथा असति बन्धे कः मोक्षः ? द्यौ अन्यौ न स्तः ऋतु-स्वभाव एवास्ति, न तौ ऋत-स्वाभावो हि पार्षद-रूप-लक्षणः, तस्माद् धेतोर् न बन्धो न च मोक्षः । तत्र दृष्टान्तः—तरणाव् इवाहनी, तरणी सूर्ये सत्य् एव अहनी रात्रि-दिने, तरणाव् असति न रात्रिर् न च दिनम्, एतेन तव यथार्थ-ज्ञाने सति भव-बन्धश् च मोक्षश् च, यथार्थ-ज्ञाने तु न बन्धो न मोक्षश् च, केवलं भक्तत्वम् एव ॥२६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव भवस्यानृतत्वम् अनृतत्वाद् एव तत्-तरणस्याप्य् अनृतत्वं स्पष्टयति—अज्ञानेति । अज्ञानेन संज्ञा ययोस् तौ भव-बन्ध-मोक्षौ भवः संसारस् तद्-रूपो बन्धश् च तन्-मोक्षश् च तौ द्वौ नाम ज्ञ-भावो ज्ञातृत्वं ज्ञानम् इति यावत् ऋतश् चासौ ज्ञ-भावश् च तस्माद् अन्यय् यौ स्तः, तौ ऋत-ज्ञ-भावे तस्मिन्न् अजस्र-चित्य् आत्मनि तत्-स्वरूपे जीवे केवले देहादि-सङ्ग-रहिते । विचार्यमाणे सति न स्तः, न सम्भवत इत्य् अन्वयः । दृष्टान्तेन दर्शयति—ये अहनी लिङ्ग-समवाय-न्यायेन रात्र्य्-अहनी तरणेर् अन्यौ स्तः, ते तु तरणौ तथा विचार्यमाणे यथा न सम्भवत इत्य् अर्थः ॥२६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : परमात्मत्वेन त्वज्-ज्ञानाभावाज् जीवस्योक्त-लक्षणः संसारः स च तत्त्वेन त्वज्-ज्ञानाद्विनश्येत् परमात्मा तु नित्यम् असंसारीत्य् आह—ज्ञानेति । ऋतश् चासौ ज्ञश् च स चासौ भावश् च पदार्थः सोत्यज्ञा नगुणको जीव इत्य् अर्थः । तस्मात् तं लक्षीकृत्येति ल्यप् लोपे पञ्चमी अज्ञानेन यथार्थ-ज्ञान-विरोधिना अन्यसादृश्यत्वज्-ज्ञानेन संज्ञाप्यते विबुध्यते निरूप्यते इति यावत् भव-बन्धो देह-गेहादाव्-अहन्ता-ममता-लक्षणः । संसारः मोहश् च तद् विनाशस्तौ द्वौ प्रयोजकत्वेन प्रतियोगित्वेन चज्ञान-निरूप्यौ न्आन्यौ नाम नाज्ञान-निरपेक्षौ जीव एव स्तः भवतः परमात्मनि लये तु तौ नेत्य् आह—अजस्रेति । नेत्य् अनुवर्तनीयं अजस्र-चिति निरन्तरसार्वज्ञ्ये यः सर्वज्ञ सर्ववित् इत्य्-आदि श्रुतेः । न खलु परमात्मनः स्वस्मिन् विरुद्ध-धीर् अस्ति येन संसारः स्यात् तद् अभावाद् एव तद् विनाशी मोक्षश् च नेत्य् अर्थः । आत्मनि सर्व-व्यापके सर्व-स्वामिनि च केवले विशुद्धे परे सर्वान्तर्गतत्वेऽपि सर्वास्पृष्टे विचार्यमाणे योगिभिर् निःश्रेयसार्थिभिर् ध्यायमाने इत्य् अर्थः । दृष्टान्तम् आह—तरणाव् इवेति । सूर्ये यथा अहनी रात्रि-दिवसौ न स्तस् तद्वत् ॥२६॥
॥ १०.१४.२७ ॥
त्वाम् आत्मानं परं मत्वा परम् आत्मानम् एव च ।
आत्मा पुनर् बहिर् मृग्य अहो अज्ञ-जनाज्ञता ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, परमार्थ-ज्ञानाद् अज्ञान-कृतो बन्धो निवर्तताम्, आत्मात्मतयैव ज्ञानाद् इति कोऽयम् आग्रह इत्य् आशङ्क्य, यद्-अध्यासाद् आत्मनः पर-रूपा-स्फुर्तिस् तद्-अपवादेन तत्रैव ज्ञानं युक्तम् इतीमम् अर्थं विस्मयेनाक्रोशन्न् इवाह—त्वाम् इति । त्वाम् आत्मानं परं देहादि-रूपं मत्वा आत्मनि देहादिम् अध्यस्य, तथा परं देहादिम् आत्मानं मत्वा देहादाव् आत्मानम् अध्यस्यात्र नष्ट आत्मा बहिर् मृग्य इति चित्रम् । न हि गृहे नष्टं वने मृग्यत इत्य् अर्थः ॥२७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कते—नन्व् इति । आग्रहो हठः । यस्याध्यासात्, अन्यत्रान्य-दृष्टिर् अध्यासः । तद् अपवादेन अध्यस् तापवादेन । अपवादस्त्वारोपितापाकरणम् । तत्रैव यत्रापवादः कृतस् तस्मिन्न् एव । आक्रोशन् उच्चैर् वदन् । अध्यस्य प्रकल्प्य । अत्र देहे । बहिर् वनादौ । मृग्यतेऽन्विष्यते । इत्य् अर्थ—इति भावः । ये आत्मविन् मन्याः पुरुषाकारं त्वां नाद्रियन्ते त एव पूर्वोक्ताः स्थूल-तृषावघातिन इत्य् आह-त्वाम् इति । चोऽप्य् अर्थे, परमात्मानम् एवापि त्वां पुरुषाकारं परं शुद्ध-परमात्मतोऽप्य् अन्यं माया-शबलम् आत्मानं मत्वा आत्मा परमात्मा पुनस् त्वत्तो बहिर् एव मृग्यः, अहो तस्या अज्ञजनताया अज्ञतात्यद्भुतेत्य् अर्थः । [विश्वनाथ] ये तु सकलात्मनाम् अपि आत्मानं त्वाम् आत्म-मात्रया विचक्षते ते त्व् अतिमूर्खा एवेत्य् आह—त्वाम् इति । परमात्मानम् एव त्वां परं केवलम् आत्मानं शुद्ध-जीव-रूप मत्वा । अप्य् अर्थे चकारः । आततत्वाच् च मातृत्वाद् आत्मा हि परमो हरिः [तन्त्र स्रिधर्, भा।पु। ११.२.४५] इति । स भवान् अप्य् अपुनर् बहिर् मृग्यः स्यात् । अभावे नह्यनो ना च इत्य् अमरः । न पुनर् बहिर् वृन्दावने मृग्यते किन् तु शुद्ध-जीव-स्वरूप-भेदेन देहान्तरे एव मृग्यते इत्य् अर्थः । आहो विस्मये । इयम् अज्ञजनताया पूर्वोक्तस्य विविध-वैलक्षण्यस्य हानान् अनुसन्धानात् ।
यद् वा, आत्मानं सर्वेषां मूल-स्वरूपं त्वां परमात्मानं मत्वा तथा परं त्वत्तोऽन्यम् एव तादृशम् आत्मानं मत्वा यः कश्चिद् अन्यो भवेद् इति कल्पयित्वा बहिस् त्वत्-पादाब्ज-सदनाद् अस्माद् अन्यत्रात्मा मृग्यो भवति मृग्यत इत्य् अर्थः । इयम् अहो अज्ञ-जनताया अज्ञता ।
यद् वा, त्वं केवलम् आत्मान जीवस्य शुद्ध स्वरूपम् एव मत्वा तत उत्कर्षाव् आप्तौ परमात्मानम् अन्तर्यामि-मात्रं च त्वां तथा-तथा वा यदि मन्यते तद् आपीत्य् अर्थः । अज्ञ-जनताया अज्ञतैव परिशिष्यते । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इति भगवद् वक्यान् अनुसन्धानात् । यश् चात्मा मुख्य वृत्त्या तत्-तच्-छब्द-वाच्यो बहिर् मृग्य एवेति तर्जनी-युगलेन चरण-कमल-युगलं दर्शयति । यद्य् एवं न स्यात् तदाहम् अपि स्व-सदन एव स्थित्वा मनसि समाधास्यं न पुनर् अत्र श्री-वृन्दावने समायास्यम् । न हि गृहे नष्टं वने मृग्यत इति भावः । सन्धिश् छन्दोनुरोधेन । जन्मन्यज्ञानताया अज्ञतेति वा ।
यद् वा, ये जीव-तत्त्वेश्वर-तत्त्व-विदोऽपि सर्वं परित्यज्य तादृशं श्री-कृष्णं सम्प्रति श्री-वृन्दावन एव मृगयन्ते तान् स्तौति । प्रथमं तावत् परं केवलम् अद्वैतोपासनया त्व् आत्मात्मानं जीव-स्वरूपान् अतिरिक्तम् अनुभूय ततः परमात्मानञ्चानुभूय पुनर् अधुना आत्मा तल् लक्षणं सर्वेषां मूल-स्वरूपं बहिर्श् चक्षुरादि-गोचरे मृग्यः सम्पद्यते । तस्माद् अहो विज्ञजनताया विज्ञतेति । अज्ञजनताज्ञता इति क्वचित् पाथः । तत्राज्ञ-शब्देनानुत्तम-शब्दवद् विज्ञ एवात्र व्याख्येयः । अत्र मृग्ये । अहो इत्य् अत्र रोरुत्वाभावः । सदैन्य-रोदन-वचनत्वेन मृग्य इत्य् आकारस्य प्लुतत्वात् अतो रोरप्लुताद् अप्लुते [६.१.११३] इति सूत्रं न प्रवर्तते इति ॥२७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तत् तत्त्वे आत्मतत्त्वे प्रपञ्च-तत्त्वे च विचिन्तिते\ऽपि6 ये त्वाम् आत्मानम् एव मन्यन्ते, न त्व् आत्म-विलक्षणो भिन्नो\ऽप्य् असीति ते परम-ज्ञा एवेत्य् आह त्वाम् इति । परमात्मानम् एव त्वं परं केवलम् आत्मानं क्षेत्रज्ञम् एव मत्वा, अप्य् अर्थे च शब्दः, अत-एवात्मा अन्तर् बहिश् च व्यापको\ऽपि त्वम् अपुनर् बहिर् मृग्यं स्याः, अभावे नह्य नापि इत्य् अमरः, न पुनर् बहिर् वृन्दावनादौ मृग्यते\ऽसद्भिः, किन्तु देहान्तरे वेत्य् अर्थः । अहो विस्मये । इयम् अज्ञ-जनताया अज्ञता, पूर्वोक्त-विविध-वैलक्षणस्य व्यापकत्वस्य च हान्य् अनुसन्धानात् । अकार-लोपश् छन्दो\ऽनुरोधेन । अज्ञ-जनाज्ञतेति क्वचित् पाठः ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ये तु सकलात्मनाप्य् आत्मानं त्वाम् आत्म-मात्रतया विचक्षते ते त्व् अतिमूर्खा एवेत्य् आह—त्वाम् इति । परमात्मानम् एव त्वा परं केवलम् आत्मानं शुद्ध-जीव-स्वरूपं मत्वा अप्य् अर्थे च-कारः आत्मा आततत्वां च मातृत्वादात्मा हि परमो हरिः इति स भगवान् अप्य् अपुनर् बहिर् मृग्यः स्यात् अभावे न हि अनो ना च इत्य् अमरः न पुनर् बहिः श्री-वृन्दावने मृग्यते, किन्तु शुद्ध-जीव-स्वरूप-भेदेन देहान्तरेव मृग्यतः इत्य् अर्थः । अहो विस्मये इयम् अज्ञजनता वा अज्ञता पूर्वोक्तस्य विविध-वैलक्षण्यस्य हान्य् अननु, सन्धानात् । यद् वा, आत्मानं सर्वेषां मूल-स्वरूप त्वां परम् अनात्मानं मत्वा तथा परं त्वतोन्यम् एव तादृशम् आत्मानं मत्वा यः कश्चिद् अन्योवेद् इति कल्पयित्वा बहिस् त्वत् पदाब्ज-सदनाद् अस्माद् अन्यत्र आत्मा मृग्यो भवति मृग्यत इत्य् अर्थः । इयम् अहो अज्ञजनताया अज्ञतेति ।
यद् वा त्वां केवलम् आत्मानं जीवस्य शुद्ध-स्वरूपम् एव मत्वा तत उत्कर्षावाप्तौ परमात्मानम् अन्तर्यामि-मात्रं च त्वां मत्वा तथा तथा वा यदि मन्यते तदापीत्य् अर्थः । अज्ञजनताया अज्ञतैव परिशिष्यते, विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इति भगवद्-वाक्याननु, सन्धानात् यश् च आत्मा मुख-वृत्ततच् छब्द-वाच्यो बहिर् मृग्य एवेति तर्जनी-यूगलेन चरण-कमल-युगलं दर्शयति—यद्यैवं न स्यात् तदाहम् अपि स्व-सदन एव स्थित्वा मनसि समाधास्यं न पुनर् अत्र श्री-वृन्दावाने समायाम्यं न हि गृहे नष्टं वने मृग्यत इति भावः । सन्धिश् छन्दोऽनुरोधेन ज्ञम्म् अन्यजनताया अज्ञतेति वा ।
यद् वा, ये जीव-तत्त्वेश्वर-तत्त्वविदोऽपि सर्वं परित्यज्य तादृशं श्री-कृष्णं संप्रति वृन्दावन एव मृगयन्ति, तान् स्तौति प्रथमं तावत् परं केवलम् अद्वैतोपासनया त्वाम् आत्मानं जीव-स्वरूपान् अतिरिक्तम् अनुभूय ततः परमात्मानम् एव चानुभूय पुनर् अधुना आत्मा तल् लक्षणं सर्वेषां मूल-स्वरूपं बहिश् चक्षुर्-आदि-गोचरे मृग्यः संपाद्यते तस्माद् अहो विज्ञजनतायाः विज्ञतेति अहो अज्ञजनाज्ञतेति क्वचित् पाठः । तत्र चाज्ञ-शब्देनानुत्तम-शब्दवद् विज्ञ एवात्र व्याख्येयः । अत्र मृग्य अहो इत्य् अत्र रोरुत्वाभावः सदैन्य-रोदन-वचनत्वेन मृग्य इत्य् आकारस्य प्लुतत्वात्, अतो रोरप्लताद् अप्लुते [६.१.११३] इति सूत्रं न प्रवर्तते इति ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (परमात्म-सन्दर्भः (५८) : त्वाम् आत्मानं सर्वेषां मूल-रूपं परम् इतरं तद्-विपरीतं मत्वा, तथा परम् इतरं जीवम् एव च मूल-रूप्आत्मानं मत्वा साङ्ख्य-विद इव तस्य तथा मन्यमानस्य पुनः स जीव्आत्मा बहिर् मृग्यो भवति । तस्य तेनैव हेतुना लब्ध-च्छिद्रया मायया देहात्म-बुद्धिः कार्यत इत्य् अर्थः । अहो अज्ञ-जनताया अज्ञता क्रमाज् ज्ञान-भ्रंश इत्य् अर्थः ॥५८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, ब्रह्मन् ! माम् एव त्वं परमात्मानं ब्रवीषि, न चैव मन्ये इति चेत् तत्र साक्षोपमाह—त्वाम् इति । च-कारोऽप्य् अर्थ परमात्मानम् एवापि त्वां परं माया-शबलम् आत्मानं मत्वा त्वत्तो बहिः पुनर् आत्मा परमात्मा मृग्यः अहो इत्य् आश्चर्ये ज्ञजनताया विज्ञमन्य-जन-समूहस्याज्ञता आश्चर्येत्य् अर्थः । अधीत-शास्त्राया अपि तस्याः संसारो दुर्वार इति भावः ॥२७॥
॥ १०.१४.२८ ॥
अन्तर्-भवेऽनन्त भवन्तम् एव
ह्य् अतत् त्यजन्तो मृगयन्ति सन्तः ।
असन्तम् अप्य् अन्त्य् अहिम् अन्तरेण
सन्तं गुणं तं किम् उ यन्ति सन्तः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विवेकिनस् तु प्रत्यक् स्वरूपे एव परमात्मानं विचिन्वन्तीत्य् आह—अन्तर्-भव इति । भवतीति भवश् चिज्-जडात्मकं शरीरं तन्-मध्य एव त्वां मृगयन्ति । अतज् जडं त्यजन्तोऽपवदन्तः । ननु, सतो ज्ञानेनालं, किम् असतोऽपवादेनेत्य् आशङ्क्य अध्यस्तापवादं विना अधिष्ठान-तत्त्वं न ज्ञायत इति सतां व्यवहारेणाह—असन्तम् इति । अन्ति समीपे असन्तम् अप्य् अहिम् अन्तरेण तन् निषेधं विनेत्य् अर्थः । सन्तं गुणं रज्जुं सन्तः किम् उ यन्ति जानन्ति । अन्ति सन्तम् अपि गुणम् इति वा । न जानन्तीत्य् अर्थः । तस्माद् आत्मात्मतयैव ज्ञानान् मुक्तिर् इति भावः ॥२८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्यक् स्वरूपे जीवे । विचिन्वन्ति पश्यन्ति । तत्-त्वम् असि [छा।उ। ६.८.७] इत्य्-आदिषु तच् छब्दश् चेतन-परस् तद्-भिन्न-मतत् । अत्राक्षिपति—नन्व् इति । तत्त्वं स्वरूपम् । असन्तम् अविद्यमानम् अपि । तन्-निषेधं नायं सर्प इत्य् एवं रूपं निषेधम् । इत्य् अर्थ इति—अन्तरेणेत्य् अव्ययस्य वर्जनार्थत्वाद् इह तृतीयाभ्रमो न कार्य इति तात्पर्यम् । गुणास् त्व् आवृत्ति-शब्दादि-ज्योन्द्रिया-मुख्यतन्तुषु इति वैजयन्ती । तं तु शब्देन लक्ष्यतेऽत एव गुणं रज्जुम् । असतः समीपत्वासम्भव मन्वानः प्रकारान्तरेण याजयति—अन्तीत्य् आदि । इत्य् अर्थ इति—किमुना निपात-द्वयेन प्रकृति-विरुद्धार्थो द्यातत इति भावः । यस्माद् अध्यस् तापवादो वस्तुयाथात्म्यबोधी तस्मात् । आत्मतया स्वरूपतया । इति भाव इति । अहं ब्रह्मास्मीत्य् एवं जीव-भावनापरित्याग-पूर्वकं स्वस्मिन् ब्रह्म-भावेनैव मोक्ष-हेतुर् इति तातपर्यम् । पूर्वत्र हेतुम् अःअ—हे अनन्त सर्व-व्यापिन्, हि यस्माद् अन्तर्-भवे व्यष्टि-समष्टि-रूपस्य भवस्य जगता मध्ये सन्तो विवेकवन्तो भवन्तं श्री-कृष्णम् एव मृगयन्ति सर्व-दोष-हीनं सर्व-गुण-पूर्णम् एव प्राप्तुं तेषां मनोरथः स्वयं भगवान् भवान् एव च तादृश इति । किं कुर्वन्तः । अतत् तद् व्यतिरिक्तम् अन्यद् अन्यद् अपरितोषेण त्यजतः ।
ननु, जगद् एव ममावरणं तत्-कम् अत्र मत्-प्राप्तिस् स्यात्, उच्यते—भवेद् एवम् अविवेकिनां, विवेकिनां तु गूढस्य कारणस्य तव तत् तद्-गुण-केशाभास-भावितं तद् एव कार्य-भूतं प्रत्यायकं, तव चास्तु नाम सद् रूपम् असद् रूपम् अन्विष्यन्, तद् आश्रय-लाभो दृश्यते इत्य् आह—असन्तम् अपीति । सन्त इति साधारण-विवेकिनः पूर्वेषां तद् विशेषाणां दृष्टान्ताः । अत्र च तद् अंश-त्यागे व्यष्टि-प्रक्रियेयं—प्रथमतो देहादीनां जड-मलिनादित्वात् क्रमशस् त्यागेन तच् चेतनादि—हेतुः शुद्ध आत्मोपलभ्यते । निर्विशेष-ब्रह्म-दृष्टिस्तु, या निर्वृतिस् तनुभृतां तव पाद-पद्म-ध्यानाद् भवज् जन-कथा-श्रवणेन वा स्यात् । सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् [भा।पु। ४.९.१०] इत्य्-आदि-ध्रुव-वाक्यादिभ्यः, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्य्-आदि-श्री-गीतादिभ्यश् च परिहृतैव । ततः शुद्ध-जीवस्यापि प्रकाशकः, केचित् स्व-देहान्त-हृदयावकाशे प्रादेश-मात्रं पुरुषं वसन्तम् । चतुर्भुजम् [भा।पु। २.२.८] इति द्वितीयोक्तेस् तद् अन्तर्यामी तस्यापि तत्राल्प-गुणोल्लासेन ततः पूर्णोदशायी तृतीये वर्णितः । समष्ट्य्-अन्तर्यामी तद् अवतारश् च ततोऽपि सर्व-ब्रह्माण्ड-समष्ट्य्-अन्तर्यामी, आद्योवतारः पुरुषः परस्य इति सूचितः ।
कारणार्णवशायी प्रथम-पुरुषः तथः, विष्टभ्याम् इदं कृत्स्नम् [गीता १०.४२] इत्य्-आदि यस्यातुतायुतांशांशे विश्व-शक्तिर् इयं स्थिता इत्य्-आदि-दृष्ट्या साक्षात् त्वम् एव । अथ समष्टाव् अपि पूर्वम् इन्द्रि-चन्द्रादि-मयं विराड्रूपं माम् एवेश्वरं मन्यन्ते, पश्चात् तस्यापि नश्वरत्वादिना तद् अन्तर्यामीत्य् आदि पूर्ववत् । तस्माद् अधुना केनापि भाग्योदयेन साक्षात् तवैव लाभे सति साधूक्तं—त्वाम् आत्मानम् इत्य्-आदि । अत्रेयं श्री-वैष्णव-प्रक्रिया—यर् ह्य् एव यद् एकं चिद्-वस्तु मायाश्रयं विद्यामयं तर्ह्य् एव तन्-माया-विषयम् अविद्या-परिभूतं चेत्य् उक्तम् अयुक्तम् इति जीवात्म-परमात्मनोर् विभागोऽवगतः । ततश् च स्वरूप-सामर्थ्य-वैलक्षण्येन तद्-द्वितयं मिथो विलक्षण-स्वरूपम् एवेत्य् आयातम् । न च परिच्छेदेप्रतिबिम्बादि-व्यवस्थया विभागः स्यात्, तत्र यद्य् अनादि-विद्यकत्वेनोपाधेर् वास्तवत्वं तर्ह्य् अविषयस्य तस्य कथम् अपि परिच्छेद-विषयत्वासम्भवः । निर्धर्मकस्य व्यापकस्य निरवयवस्य प्रतिबिम्बत्वायोगोऽप्य् उपाधि-सम्बन्धाभावात् प्रतिबिम्ब-भेदाभावात् दृश्यत्वाभावाच् च । उपाधि-परिच्छिन्नाकाशस्य ज्योतिर् अंशस्यैव प्रतिबिम्बो दृश्यते न त्व् आकाशस्य । दृश्यत्वाभावाद् एव तथा वास्तव-परिच्छेदादौ सति सामानाधिकरण्य-ज्ञान-मात्रेण न तत् त्यागाश् च भवेत्, शास्त्रे क्वचित् प्रतिबिम्बत्वाद्य् अङ्गीकारस् तु तत्-सादृश्येनैव अम्बुवद् गृहणात् । वृद्धि-ह्रास-भाक्त्वम् अन्तर् भावाद् उभय-सामञ्जस्याद् एवेति न्यायेन । उपाधेर् आविद्यकत्वे तु वास्तव-परिच्छेदाद्य् अभावात् प्राक्तनो मायाश्रयम् इत्य् उभयात्मको विरोधस् तद् अवस्थ एव स्यात् । यथा शुद्धायां चितावविध्याकलितोपाधौ तस्याम् ईश्वराख्यायां विध्येत्य् असमञ्जसा च कल्पना स्याद् इत्य् आद्य् अनुसन्धेयम् । तस्माद् एकम् एव तत्-परमतत्त्वं स्वाभाविकाचित्य् अशक्त्या सर्वदैव चतुर्धावतिष्ठते । सूर्यान्तर् मण्डलस्थ-तेज इव बहिर् मण्डल-तद् बहिर् गत-रश्म्यादि-रूपेण । अचिन्त्य-शक्तित्वं च मणि-मन्त्र-महौषधादीनां कारण-गुण-कारणे तस्मिन्न् आश्चर्यम् । श्रुतेश् च शब्द-मूलत्वात् [वे।सू। ३.४.४६] इति । आत्मनि चैवं विचित्राश् च हि [वे।सू। २.१.२८] इति च न्यायेन, आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः [भा।पु। ३.३३.३] इति षष्ठेऽप्य् तद् दर्शितम् । अतस् तत्-तत्-समावेशाद्य् अनुपपत्तिश् चाचिन्त्य-शक्तित्वेनैव पराहता, दुर्घट-घटकत्वम् अचिन्त्यत्वं, येन खलु सा शक्तिर् अपरिच्छिन्नम् अपि परिच्छिन्नत्वेन दर्शयति । यथैव दर्शयिष्यते, एक-देश-स्थितस्याग्नेः [वि।पु। १.२२.५६] इति । सा शक्तिश् च त्रिधा । अन्तरङ्गा, तटस्था, बहिरङ्गा चेति । अत्रान्तरङ्गया स्वरूप-शक्त्याख्यया पूर्णेनैव स्वरूपेण वैकुण्ठादि-वैभवेन चावतिष्ठते । तटस्थया रश्मि-स्थानीय-चिद् एकात्म-रूप-शुद्ध-जीव-रूपेण बहिरङ्गया मायाख्यया आभास-गत-वर्ण-शाबल्य-स्थानीय-तदीय-बहिरङ्ग-वैभव-जडात्म-प्रधान-स्वरूपेण चेति चतुर्धात्वम् । यथोक्तं श्री-वैष्णवे—
एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । > परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् ॥[वि।पु। १.२२.५६] > इति ।
श्रुतौ च—यस्य भासा सर्वम् इदं विभाति [मु।उ। २.२.११] इति । अत एव तद् आत्मत्वेन जीवस्यैव तटस्थ-शक्तित्वं, प्रधानस्य मायान्तर्-भूतत्वम् अभिप्रेत्य शक्ति-त्रयं तत्रैव दर्शितम्
विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा । > अविद्या-कर्म-सञ्ज्ञान्या तृतीया शक्तिर् इश्यते ॥[वि।पु। ६.७.६१] इति > ।
तत्र पराः, यातीत-गोचरा वाचाम् [वि।पु। १.१९.७७] इत्य् अनेनोक्ता । क्षेत्रज्ञाख्या जीव-भूता सेयम् अपरा, प्रथमा-तृतीययोर् मध्यवर्तिनी तृतीया सेयम् अपि परेति वा । तथा च श्री-गीतासु, भूम्यादितया भेदं प्राप्ता प्रकृतिर् अष्टवा इत्य् उक्त्या प्राह, अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूताम् [गीता ७.३] इति सर्व-भूतेषु सर्वात्मन् [भा।पु। ३.२४.४५] इत्य् अनेनोक्ता तु अविद्या कर्म कार्यं यस्याः । अपरायाः सा तत्-सञ्ज्ञा मायेत्य् अर्थः । अत एव जीवस्य रश्मि-स्थानीयत्वात् । मण्डल-विलक्षणं माया-व्यवधान-तिरोधापनीयत्व-वैभवत्वं युक्तम् ।
तद् अन्तरं ह्य् उक्तम्, यथा क्षेत्रज्ञ-शक्तिः सा तारतम्येन वर्तते इति । अत्रान्तरङ्गत्व-तटस्थात्व-बहिरङ्गत्वादिनैव तेषाम् एकात्मकानां तत्र साम्यं न तु सर्वात्मनेति तत्-तत्-स्थानीयत्वम् एवोक्तं न तु तत् तद् रूपत्वं ततस् तत्र दोषा अपि नावकाशं लभन्ते । अत्र विशेष-विवेकाः श्री-भागवत-सन्दर्भ-तट्टीकयोर् अवलोकनीया इति दिक् ॥२८॥ अत्र विश्वनाथ
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : साधवस् तु बहिर् अन्तश् च व्यापकतया वर्तमानं त्वां मृगयन्तीत्य् आह—अन्तर् इति । अनन्त ! हे अपरिच्छन्न ! अन्तर् बहि-व्यापकेत्य् अर्थः । सन्तस् त्वद्-भक्तास् त्व् अन्तर्-भवे स्व-देहान्तरेव भवन्तं मृगयन्ति किम् ?—काक्वा । नैव, किन्तु बहिर् अपि मृगयन्तीत्य् अर्थः । कथम् ? अतद् वस्तु मिथ्या-भुतम् असद्भिस् त्व् असत्तया ज्ञायमानम् आत्मतत्त्वं त्यजन्तः परिहरन्तो यत्स् तत्-त्यागं विना विशुद्ध-ज्ञानं न भवतीत्य् आशयेनाह—अन्तम् इति । अन्तरेण तन् निषेधं विनेत्य् अर्थः । नाहं सः, किन्तु तदीयो\ऽस्मीति बुद्ध्या प्रथमम् आत्मनो मिथ्येश्वरत्व-ज्ञानं निरस्यैव सन्तो\ऽपि प्राप्नुवन्तीति भावः ।
यद् वा, अत-सद्-वस्तु निर्वाणम् इत्य् अर्थः । अवस्तु-त्यागेन विना सद्-वस्तु न प्राप्यत इत्य् आह—असन्तम् इति । अथवा, ननु, तर्हि कथम् अभिज्ञा मृगयन्ते ? तद् आह—अन्तर्-भवतीत्य् अन्तर्-भवं हृदय-कमलं तस्मिन् । अतत् त्वन् मार्गण-व्यतिरिक्तं सर्वं त्यजन्तः । ननु, भगवत् स्मरणात् स्वयम् एव तद् अपयास्यति, किं तत् त्यागाग्रहेण ? अत्राह—असन्तम् इति । विना विषयादि-परित्यागम्, विना च कर्म-ज्ञानादि-परित्यागम्, भगवत् स्मरणं न सिद्ध्यतीति भावः । अन्यत् समानम् ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वत्र हेतुम् आह—हे अनन्त ! सर्व-व्यापिन् ! हि यस्मात् अन्तर्-भवे व्यष्टि-समष्टि-रूपस्य भवस्य जगतो मध्ये सन्तो विवेकवन्तः भवन्तं श्री-कृष्णम् एव मृगयन्ति सर्व-दोष-हीनं सर्व-गुण-पूर्णम् एव प्राप्तुं तेषां मनोरथः स्वयं भगवान् भवान् एव च तादृश इति । किं कुर्वन्त ? अतत् त्वद् व्यतिरिक्तम् अन्यद् अन्यद् अपरितोषेण त्यजन्तः ।
ननु, जगद् एव ममावरणं तत् कथम् अत्र मत् प्राप्तिः स्यात् ? उच्यते भवेद् एवम् अविवेकिवां-विवेकिनान्तु गूढस्य कारणस्य तव तत् तद् गुण-लेशाभास-भाषितां कार्य-भूतं तद् एव प्रत्यायकं तत्र चास्तु नाम सद् रूपम् असद् रूपम् अप्य् अनन्विश्यन् तद् आश्रय-लाभो दृश्यत इत्य् आह—असन्तम् अपीति । सन्त इति साधारण-विवेकिनः पूर्वेषां तद् विशेषाणां दृष्टान्ताः अत्र च तद् अंश-त्यागे व्यष्टि-प्रक्रियेयं प्रथमतो देहादीनां जड-मलिनादित्वात् क्रमशस् त्यागेन तच् चेतनादि-हेतुः शुद्ध आत्मोपलभ्यते । निर्विशेष-ब्रह्म-दृष्टिस् तु, या निर्वृतिस् तनु-भृतां तव पाद-पद्म-ध्यानाद् भवज् जन-कथा-श्रवणेन वा स्यात् । सा ब्रह्मणि स्व-महिमन्य् अपि नाथ ! माभूत् [भा।पु। ४.९.१०] इत्य्-आदि श्री-ध्रुव-वाक्यादिभ्यो, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्य्-आदि श्री-गीतादिभ्यश् च परिहृतैव ततः शुद्ध-जीवस्यापि प्रकाशकः केचित् स्व-देहान्तर् हृदयावकाशे प्रादेश-मात्रं पुरुषं वसन्तं चतुर्भुजम् इति द्वितीयोक्तेस् तद् अन्तर्यामी तस्यापि तत्राल्प-गुणोल्लासेन ततः पूर्णो गर्भोदशायी तृतीये वर्णितः समष्ट्य् अन्तर्यामी तद् अवताराश् च ततोऽपि सर्व-ब्रह्माण्ड-समष्ट्य् अन्तर्यामी, आद्योवतारः पुरुषः परस्य इति सूचितः, कारणार्णवशायी प्रथम-पुरुषः ततो, विष्टभ्याहम् इदं कृत्स्नम् [गीता १०.४२] इत्य्-आदि, यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थिता इति दृष्ट्या साक्षात् त्वम् एव । अथ-समष्टाव् अपि पूर्वम् इन्द्र-चन्द्रादिमयं विराड-रूपं माम् एवेश्वरः मन्यन्ते, पश्चात् तस्यापि नश्वरत्वादिना तद् अन्तर् यामीत्य्-आदि पूर्ववत्, तस्माद् अधुना केनापि भाग्योदयेन साक्षात् तवैव लाभे सति साधूक्तं त्वाम् आत्मानम् इत्य्-आदि ।
अत्रेयं श्री-वैष्णव-प्रक्रिया यर्ह्य् एव यद् एकं चिद् वस्तु मायाश्रयं विद्यामयं तर्ह्य् एव तन् माया-विषयम् अविद्या-परिभूतं चेत्य् उक्तम् अयुक्तम् । इति जीवात्म-परमात्मनोर् विभागोऽवगतः ततश् च स्वरूप-सामर्थ्य-वैलक्षण्येन तद्द्वितयं मिथो-विलक्षण-स्वरूपम् एवेत्य् आगतं न च परिच्छेद-प्रतिबिम्बत्वादि-व्यवस्थया विभागः स्यात् तत्र यद्य् उपाधेर् अनादि-विद्यकत्वेन वास्तवत्वं तर्ह्य् अविषयस्य तस्य कथम् अपि परिच्छेद-विषयत्वासम्भवः निर्धर्मकस्य व्यापकस्य निरवयवस्य प्रतिबिम्बत्वायोगोऽपि उपाधि-सम्बन्धाभावात् । प्रति-बिम्ब-भेदाभावात् दृश्यत्वाभावाच् च उपाधिपरिच्छिन्नाकाशस्य ज्योतिर् अंशस्यैव प्रतिबिम्बो दृश्यते नत्वाकाशस्य दृश्यत्वाभावाद् एव तथा वास्तव-परिछेदादौ सति सामानाधिकरण्य-ज्ञान-मात्रेण न तत् त्यागश् च भवेत् । शास्त्रे क्वचित् प्रतिबिम्बत्वाद्य् अङ्गीकारश् च तत् तादृश्येनैव, अम्बुवद् अग्रहणात् तु न तथात्वम् [वे।सू। ३.२.१९] वृद्धि-ह्रास-भाक्तम् अन्तर् भावाद् उभय-सामञ्जस्याद् एवम् [वे।सू। ३.२.२०] इति न्यायेन उपाधेर् आविद्यकत्वे तु वास्तव-परिच्छेदाद्य् अभावात् प्राक्तनो मायाश्रयम् इत्य् आद्य् उभयात्मको विरोधः तद् अवस्थ एव स्यात् । तथा शुद्धायां चित्य-विद्या तद् अविद्या-कल्पितोपाधौ तस्याम् ईश्वराख्यायां विद्येत्य् असमञ्जसाश् च कल्पना स्याद् इत्य्-आद्य् अनुसन्धेयम् । तस्माद् एकम् एव तत् परम-तत्त्वं स्वाभाविकाचिन्त्य-शक्त्या सर्वदैव चतुर्धावतिष्ठते सूर्यान्तर् मण्डलस्थ-तेज इव बहिर् मण्डल-तद्-बहिर् गत-रशम्यादि-रूपेण अचिन्त्य-शक्तित्वं च मणि-मन्त्र-महौषध्यादीनां कारण-गत-कारणे तस्मिन्न् आश्चर्यम्, श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] आत्मनि चैवं विचित्राश् च हि [वे।सू। २.१.२८] इति च न्यायेन, आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः [भा।पु। ३.३३.३] इति षष्ठेऽप्य् एतद् दर्शितम् अतस् तत् तत् समावेशाद्य् अनुपपत्तिश् चाचिन्त्य-शक्तित्वेनैव पराहता दुर्घट-घटकत्वं ह्य् अचिन्त्यत्वं येन खलु सा शक्तिर् अपरिच्छिन्नम् अपि परिच्छिन्नत्वेन दर्शयति, तथैव दर्शयिष्यते, एक-देश-स्थितस्याग्नेः [वि।पु। १.२२.५६] इति शक्तिश् च सा त्रिधा अन्तरङ्गा तटस्था बहिरङ्गा चेति, तत्रान्तरङ्गया स्वरूप-शक्त्याख्यया पूर्णेनैव स्वरूपेण वैकुण्ठादि-स्वरूप-वैभवेन चवतिष्ठते । तटस्थया रश्मि-स्थानीय-चिद् एकात्म-शुद्ध-जीव-रूपेण । बहिरङ्गया मायाख्यया आभास-गत-वर्ण-शाबल्य-स्थानीय-तदीय-बहिरङ्ग-वैभव-जडात्म-प्रधान-रूपेण चेति चतुर्धात्वम् यथोक्तं श्री-वैष्नवे
एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । > परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् ॥[वि।पु। १.२२.५६] > इति ।
श्रुतौ च यस्य भासा सर्वम् इदं विभाति [मु।उ। २.२.११] इति । अत एव तदात्मत्वेन जीवस्यैव तटस्थ-शक्तित्वं प्रधानस्य च मायान्तर्भूतत्वम् अभिप्रेत्य शक्तित्रयं तत्रैव दर्शितं
विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा ।\ > अविद्या कर्म-सञ्ज्ञान्या तृतीयाशक्तिर् इष्यते ॥ इति ।
तत्र परा यातीतगोचरा वाचाम् इत्य् अनेनोक्ता क्षेत्रज्ञाख्या जीव-भूता सेयम् अपरा प्रथम-तृतीययोर् मध्यवर्तिनी तृतीयापेक्षया सेयम् अपरेति वा, तथा च श्री-गीतासु भूम्यादितया भेदं प्राप्ता प्रकृतिर् अष्टधेत्य् उक्त्या प्राह, अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूताम् [गीता ७.३] इति, सर्व-भूतेषु सर्वात्मन् [वि।पु। १.१९.७६] इत्य् अनेनोक्ता अविद्या-कर्म-कार्यं यस्याः अपरायाः सा तत् सञ्ज्ञा मायेत्य् अर्थः । अत एव जीवस्य रश्मि-स्थानीयत्वात् मण्डल-विलक्षणं माया-व्यवधान-तिरोधापनीय-वैभवत्वं युक्तं तद् अन्तरं ह्य् अयुक्तम्, यया क्षेत्रज्ञ-शक्तिः सा तारतम्येन वर्तते [भा।पु। ६.७.६२] इत्य् अत्रान्तरङ्गत्व-तटस्थत्व-बहिरङ्गत्वादिनैव तेषाम् एकात्मकानां तत्र साम्यं न तु सर्वात्मनेति तत् तत् स्थानीयत्वम् एवोक्तम्, न तु तत् तद् रूपत्वं ततस् तत् तद् दोषा अपि नावकाशं लभन्ते अत्र विशेष-विवेकाः श्री-भागवत-सन्दर्भ-तट्-टीकयोर् अवलोकनोया इति दिक् ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अज्ञानां रीतिस् तूक्ता, विज्ञास् तु भवन्तम् एव हृदये विचारयन्ति, न तु सम्यक्त् पश्यन्तीत्य् आह—अन्तर्-भवेऽनन्त इत्य्-आदि । हे अनन्त ! अपरिच्छिन्न ! सन्तो विज्ञा अतद् अवस्तु त्यजन्तः सन्तोऽनर्भवे हृदयान्तरे भवन्तम् एव मृगयन्ति, न तु लभन्ते । स्वरूपेण तव तत्त्वं न विन्दन्ति । तत्र दृष्टान्तः—असन्तम् अपीत्य् आदि । असन्तं मिथ्या-रूपम् । अहिम् अन्तरेण विना सन्तं सत्यं गुणं किं सन्तस् तम् अहिं यन्ति जानन्ति ? न जाणन्त्य् एव । उ सम्बोधने । तेन समुचितम् एव ते अतद् अज्ञान-कृतम् अवस्तु त्यक्त्वा वस्तु-भूतं त्वाम् अवस्तुतया पुनर् जानन्ति, यथा सन्तं गुणं गुणम् एव जानन्ति, न पुनर् असन्तम् अहिम् ॥२८ ॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विज्ञास् तु त्वां मायोपाधित्वेन न मन्यन्ते, किन्तु जीवात्मानम् एवातस् तम् एव माया-मालिन्यतो विच्युती-कर्तुं तम् एव केवलं शुद्धं मृगयन्तीत्य् आह—अन्तर्-भवे । स्व-शरीर-मध्य एव वर्तमानम् अनन्त-भवम् अनन्ता असङ्ख्या भवा, नाना योनिषु जन्मानि यस्य तं प्रसिद्धम् अल्पज्ञं जीवात्मानं मृगयन्ति । किं कुर्वन्तः ? अतत् आत्मा-भिन्नं मायिकं मायां च त्यजन्तः अपवदन्तः ।
ननु, चिन्-मयस्य जीवात्मनो ज्ञानेनालं किं चिद्-भिन्नस्यापवादेनेत्य् आशङ्क्याध्यस्तस्यापवादं विना अधिष्ठान-तत्त्वं न सम्यक् ज्ञायत इति सतां व्यवहारेणाह असन्तम् इति । अस्ति समीपे असन्तम् अप्य् अहिम् अन्तरेण नायम् अहिर् इति तद्-अपवादं विनेत्य् अर्थः । सन्तं गुणं रज्जुं सन्तः किम् उ यन्ति जानन्ति ? नैव जानन्ति तथैव, असङ्गो ह्य् अयं पुरुषः [बृ।आ।उ। ४.३.१५] इति श्रुतेर् जीवात्मनः स्थूल-सूक्ष्म-देह-सम्बन्धो नैवास्ति तत्-सम्बन्धाभावाद् एव देहो दैहिकाः शोक-मोहादयश् च तस्य नैव सन्ति तद् अप्य् अविद्ययैव तस्मिन् जीवात्मनि देहोऽध्यस्तः । ततश् च कदाचिद् उद्भूतेन ज्ञानेन नायम् आत्मा देह इति तस्य देहस्यासतोऽप्य् अपवादं विना सत्यं शुद्धं जीवात्मानं किं जानन्ति । नैव जानन्तीत्य् अर्थः ॥२८ ॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तर्हि मे परमात्मता जगति विलुप्ता तत्राह—अन्तर् इति । हे अनन्त विभो ! अन्तर्-भवे शरीर-मध्ये हृदि सन्तो वैष्णवास् तु भवन्तं त्वाम् एव नन्द-सुतं मृगयन्ति परमात्मत्वन ध्यायन्तीत्य् अर्थः । अततः परमात्मत्वाद् भिन्नम् अन्य-सादृश्य-प्रतीतं माया-शबलत्वं पादादि-गतैर् अङ्कैः पूतनादि-मोक्ष-दानैश् च विशेषैस् त्यजन्तः परिहरन्तः मार्गणेऽतत्त्यजनम् आवश्यकम् । इति दृष्टान्तेनाह—अन्ति समीपेऽसन्न-विद्यमानम् अप्य् अहिम् अन्तरेण तन्-निषेधं विना सन्तं विद्यमानम् अपि तं गुणं सन्तः पण्डिताः किम् यन्ति जानन्ति नेत्य् अर्थः यथा रज्जाव् उरगस्याभावेऽपि तद्-बुद्धि-विगमं विना तस्याः स्वरूपं न स्फुरेद् एवं नन्द-सुते त्वयान्यस्य प्रतीततच् छबलत्व-बुद्धि-विगमं विना परमात्मत्वं न स्फुरेत् अतस् तद्वद् अतत्त्य-जनम् आवश्यकम् इत्य् अर्थः । यथा च भ्रान्तैः प्रतीतं तच्-छबलत्वं निर्धूय तवैव परमात्मता प्रचार्यन्त्य् अतः प्रगल्भन्त इति ॥२८॥
॥ १०.१४.२९ ॥
अथापि ते देव पदाम्बुज-द्वय-
प्रसाद-लेशानुगृहीत एव हि ।\ जानाति तत्त्वं भगवन् महिम्नो
न चान्य एकोऽपि चिरं विचिन्वन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं ज्ञानैक-साध्ये मोक्षे किम् इति भक्तिर् उद्बोधितात आह—अथापीति । यद्य् अपि हस्त-प्राप्यम् इव ज्ञानम् उक्तं तथापि हे देव, तव पादाम्बुज-द्वय-मध्ये एक-देशस्यापि यः प्रसाद-लेशोऽपि तेन्आनुगृहीत एव भगवतस् तव महिम्नस् तत्त्वं जानाति । हे भगवन्, ते महिम्नस् तत्त्वम् इति वा । एकोऽपि, कश्चिद् अपि, चिरम् अपि, विचिन्वन्न् अपि, अतद् अंशापवादेन विचारयन्न् अपीत्य् अर्थः ॥२९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कते—नन्व् इति । एवम् उक्तरीत्या । ज्ञानैक-साध्ये केवल-ज्ञान-निर्वत्ये । श्रेयः-श्रुतिम् [भा।पु। १०.१४.४] इति, भक्त्याहम् एकया लभ्यः [भा।पु। ११.१४.२१] इत्य्-आदि-व्याक्यैः उद्घोषिता विशेषेण कथिता । यतो भक्तिर् एव ज्ञान-जनिकातो हेतोः । समासे पुनर् उक्तिम् आशङ्क्यावग्रहेणाह—हे इति । इहापि-शब्दोऽस्यैव भार्येति वक्ष्यमाणैवकार-सम्बन्धवच् चतुर्भिः सम्बध्यते सूत्र-मणिन्यायेनेति । इत्य् अर्थ इति । अतद् अंशापवादस्यैव विचारपदार्थत्वाद् इति भावः । हे देवेति । सर्व-प्रकाशक सर्वत्र प्रकाशमानेति । यद् वा, दीव्यति सदा वृन्दावने क्रीडतीति । हे भगवन्न् इति हे निज-कारुण्यादि-गुण-प्रगटन-परेत्य् अर्थः । किं च, तस्य जीवस्य ब्रह्म-सुखानुभवस्तु केवलेन त्वद् भक्तिलेशे नापि भवति नान्यथेत्य् आह—तथापीति । यद्य् अपि मायामायिक-समस्तांश-विच्युतः स्यात् तथा स जीवात्मा तद् अपि तव पदाब्ज-प्रसाद-लेशेनानुगृहीत एव भगवतस् तव यो महिमा महिम-शब्द-वाच्य ब्रह्म, तस्य तत्त्वं जानाति । तद् उक्तं त्वयैव मत्स्य-रूपेण—मधीयं महिमाणं च परं ब्रह्मेति-शब्दितम् । वेत्स्यस्य् अनुगृहीतग्मे [भा।पु। ८.२४.३८] इत्य्-आदि । व्याख्यातं च तैः । तथा च श्री-गितासु, ज्ञानं च मयि सन्यसेत् इति । ज्ञानम् अपि त्वक्त्वा तत उर्वरितां भक्तिम् एव केवलां बहुलां बहु मानयंस् ताम् एवाभ्यसेत् । यो ज्ञानी, तम् एव प्रसाद-लेश-रूपो भक्ति-योगोऽनुगृह्नतीत्य् अर्थः । यस्तु फल-प्राप्ता सत्यां न साधनोपयोग इति मत्वा ज्ञानं भक्तिं च त्यक्त्वा केवल-ब्रह्मानुभव एवोद्यतः स एकोऽपि मुख्योऽपि ज्ञानि-सहस्र-गुरुर् भवन् न पीत्य् अर्थः । चिरं विचिन्वन् बहु-शास्त्राभ्यास-योगाभ्यासाभ्यां विचारयन्न् अपि ॥२९॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : [XXX]{।मर्क्}
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) अथापीत्य्-आदि । अथ ज्ञानाद्य् अनन्तरं हि देव ! ते तव पदाम्बुज-द्वयस्य प्रसाद-लेशेनाप्य् अनुगृहीत एव हि एव हीति निर्धारणातिशये, जानात्य् एव हि निर्धारण-शब्दाव् उत्तरत्रानुवर्तनीयौ । हे भगवन् ! न चान्य एको\ऽपि मुख्यो\ऽपि चिरम् एव हि विचिन्वन्न् एव हि । एतेन ज्ञान-मार्गर् अनूद्य भक्तिर् एव परम-पुरुषार्थ इति सिद्धान्तितम् ॥२९॥
किं च, पूर्वोक्तं ज्ञाने प्रयासम् उदपस्य नमन्तः [भा।पु। १०.१४.३] इत्य्-आदिना, श्रेयः-सृतिं भक्तिं [भा।पु। १०.१४.४] इत्य्-आदिना चान्वय-व्यतिरेकाभ्यां ज्ञानाद् भक्तेः प्राधान्यं यत् सूचितं, तस्यैव विवरणं कुर्वन् पञ्चभिः श्लोकैर् ज्ञानस्य निःश्रेयस-करत्वं प्रयास-बहुलत्वं भक्तेस् त्व् अयत्न-साध्यत्वम् इति क्रमेण दर्शयति—तथा हि एवं-विधं त्वाम् एवं-विधं दृश्यमानं सुख-ध्येयं सुखोपास्यं परम-प्रेमास्पदं सर्वेन्द्रिय-रसायनं ये आत्मतयैव विचक्षते, ते भवाम्बुधिं तरन्तीव, न तु सम्यक् तरन्ति
ननु, आत्मानम् आत्मतया यदि न जानीयात्, तदा कृतथा संसाराभावः ? तत्राह—आत्मानम् एवात्मतयेत्य्-आदि । अयम् अर्थः—आत्मतया अज्ञानेन प्रपञ्चः, ज्ञानेन तन्-नाशः, एतावता किं मिथ्या-भूतस्य प्रपञ्चस्य स्थित्या वा । नाशेन वा किम्-अर्थः, यथा रज्ज्वां सर्प-भावाभावौ द्वाव् एव मृषेति दर्शयति । तद्-भावे बन्धः, तद्-अभावे मोक्ष एवेत्य् एव महत् फलम् इति चेत्, बन्ध-मोक्षाव् अपि मृषा इति दर्शयति—अज्ञान-संज्ञाव् इति ।
अथाज्ञानिनां पन्थाः, अज्ञानिनस् तु त्वां न जानन्त्य् एव ? तत्राह—त्वाम् आत्मानम् इत्य्-आदि । त्वां श्री-कृष्णम् आत्मानं परम-प्रेयांसं परं मत्वा भिन्नं ज्ञात्वा आत्मा बहिर् मृग्यः । बहिर् एव दृश्यते । देहादिष्व् आत्म-भावं कुर्वन्ति, अहो अज्ञानाम् अज्ञता ! अयम् अज्ञानां पन्थाः । सन्तस् तु सारासार-विवेकिनः । ते तु उभयं विचारयन्तः अतत्, अवस्तु त्यजन्तो भवन्त्तं विचारयन्त्य् एव, न तु लभन्त इत्य् आह—अन्तर्-भवे इत्य्-आदि । मृगयन्ति, न तु लभन्ते । तर्हि के लभन्ते ? इत्य् आह—अथापीत्य् आदि ।
अथ ज्ञानाद्य्-अनन्तरं हि, देव ते तव पदाम्बुज-द्वयस्य प्रसाद-लेशेनाप्य् अनुगृहीत एव हि, एव हीति निर्धारणातिशये । जानात्य् एव हि निर्धारण-शब्दाव् उत्तरत्रानुवर्तनीयौ । हे भगवन् ! न चान्य एकोऽपि मुख्योऽपि चिरम् एव हि विचिन्वन्न् एव हि । एतेन ज्ञान-मार्गम् अनूद्य भक्तिर् परम-पुरुषार्थ इति सिद्धान्तितम् ॥२९॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद्य् अपि एवं त्वन् माहात्म्यं प्रस्फुटम् एव7, तथापि त्वत् प्रासादेनैवानुभूतं सत् तथेत्य् आह—अथापीति । देव ! हे सर्व-प्रकाशक ! सर्वत्र प्रकाशमानेति वा । यद् वा, दीव्यति श्री-वृन्दावने सदा कृईडतीति देवस् तस्य सम्बोधनम् । यद् वा, देवेति तथैव पदाम्बुज-विशेषणम् । प्रसादः प्रसन्नता कृपा वा, तस्य लेशेणानुगृहीत इति । यद् वा, प्रसादस् तत् सम्बन्धि-तुलस्यादि-महा-प्रासादः । हि निश्चितम् । भगवन् ! हे निज-कारुण्यादि-गुण-प्रकटन-परेत्य् अर्थः—अयं प्रसादे हेतुर् ऊह्यो\ऽन्यः प्रसाद-हीनः । यद् वा, पूर्वं भ्क्तेः प्रकृतत्वात् तद् अन्तरापतित-वितर्क-कुल-परिहारे सत्य् अपि निरन्तर-श्लोके भक्तेर् एव प्रार्थनाद्-भक्ति-लक्षणस्य महिम्न इति ज्ञेयम् । तत्त्वम्—कीदृक्, कियान् वेति । एव एकाकी निःसङ्गः सन्न् अपीत्य् अर्थः, श्रेष्ठो रुद्रादिर् अपीति वा, विचिन्वन् शास्त्राभ्यासेन विचारयन् योग्याभ्यासेन च मृगयन्न् अपीत्य् अर्थः । यद्य् अपि सम्पूर्ण-प्रसादेनैव तत् तत्त्व-ज्ञानं स्यात्, तथापि लेशेत्य् उक्तिस् तस्य दौर्लभ्याद्य् अभिप्रायेण ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यपि एवं त्वन्-माहात्म्यं प्रस्फुटम् एव, तथापि त्वत्-प्रसादेनैवानुभूतं स्यात् । तथेत्य् आह अथापीति । देव ! हे सर्व-प्रकाशक ! सर्वत्र प्रकाशमानेति वा । यद् वा, दीव्यति श्री-वृन्दावने सदा क्रीडतीति देवस् तस्य सम्बोधनम् । यद् वा, देवेति तथैव पदाम्बुज-विशेषणम् । प्रसादः प्रसन्नता कृपा वा । तस्य लेशेनानुगृहीत इति । यद् वा, प्रसादस् तत्-सम्बन्धि-तुलस्य्-आदि-महा-प्रसादः । हि निश्चितम् । भगवन् ! हे निज-कारुण्यादि-गुण-प्रकटन-परेत्य् अर्थः । अयं प्रसादे हेतुर् ऊह्योऽन्यः प्रसाद-हीनः । यद् वा, पूर्वं भक्तेः प्रकृतत्वात् तद्-अन्तरापतित-वितर्क-कुल-परिहारे सत्य् अपि निरन्तर-श्लोके भक्तेर् एव प्रार्थनाद् भक्ति-लक्षणस्य महिम्न इति ज्ञेयम् । तत्त्वम्—कीदृक् कियान् वेति । एक एकाकी निःसङ्गः सन्न् अपीत्य् अर्थः । श्रेष्ठो रुद्रादिर् अपीति वा । विचिन्वन् शास्त्राभ्यासेन विचारयन् योगाभ्यासेन च मृगयन्न् अपीत्य् अर्थः । यद्यपि सम्पूर्ण-प्रसादेनैव तत्-तत्त्व-ज्ञानं स्यात् । तथापि लेशेत्य्-उक्तिस् तस्य दौर्लभ्याद्य्-अभिप्रायेण ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तथापि तद् विवेकस्य त्वत्-पर्यन्त-गमनं त्वत्-प्रसादेनैव स्याद् इत्य् आह—अथापिति । भक्त्या पदाम्बुज-शब्द-प्रयोगः लेशेत्य् उक्तिस् तस्य वर्धिष्णोः क्रमेण पूर्ण-प्राप्तय् अभिप्रायेण महिम्नः ऐश्वर्य-माधुर्यादि-रूप-माहात्म्यस्य मम तु तादृश-प्रसादस्य फलं यज् ज्ञानं तस्यापि यत् फलम् उपासनम् तस्यापि यत् फलं साक्षात्कारः स एव सहसा संवृत्तस् तस्माद् एतद् एव प्रार्थय इति ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं विज्ञयोः पन्थानं दर्शयित्वा विज्ञस्य चान्वेषण-मात्रम् । न तु स्वरूपतो ज्ञानम् इति यद् उक्तम् । तत् तु व्यतिरेक-मुखेन पुनर् निश्चाययति—अथ्पीत्य्-आदि । अज्ञ-विज्ञयोर् वर्त्म-दर्शनानन्तरं यद् उच्यते । तद् अवधीयताम् इत्य् आनन्तर्यार्थ-वचनोऽथ-शब्दः । तत्-स्वरूप-ज्ञान-योग्यता त्वां विचिन्वतोऽपि नास्तीति स्वरूपज्ञातुर् असम्भावनायां स्वरूपज्ञाता कोऽप्य् अस्तीति, पुनः सम्भावनायाम् अपि-शब्दः । हे देव ! सर्व-जिगीषा-शालिन् ! ते तव पदाम्बुज-द्वय-प्रसाद-लेशानुगृहीत एव हि प्रसादस्य लेशेनापि, किम् उत सम्यक्-प्रसादेन । एव हीति निर्धारणाधिक्यम् । भगवत्-तत्त्व-ज्ञानं न लौकिक-प्रमाण-गम्यम् । तथा हि न तावत् प्रत्यक्षस्य साक्षात्कारि, प्रमाकरणत्वात् । नाप्य् अनुमान-गम्यम् । तस्य च प्रत्यक्षोपजीवित्वात् । नाप्य् उपमान-गम्यम्, सादृश्याभावात् । नापि शब्द-गम्यम्, तस्य शक्ति-लक्षणाभ्याम् अविषयत्वात् । तेनालौकिकं किम् अपि प्रमानान्तरम् अन्वेषणीयम् । तच् च भगवत्-प्रसाद-जन्यानुभवः । तथा चोक्तं स्वयम् एव—
यावान् अहं यथाभावो यद् रूप-गुण-कर्मकः । > तथैव तत्त्व-विज्ञानम् अस्तु ते मद्-अनुग्रहात् ॥[भा।पु। २.९.३१] > इति ।
तेन सम्य एवोक्तम्—न चान्य एकोऽपि चिरं विचिन्वन्न् अपि । अन्यस् त्वत्-प्रसादाभाजनम् । एकः प्रधानतमोऽपि सर्व-शास्त्र-तत्त्वज्ञोऽपीत्य् अर्थः ॥२९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तस्य जीवात्मनो ब्रह्म-सुखानुभवन्तु केवलेन त्वद्-भक्ति-लेशेनापि भवति नान्यथेत्य् आह—अथापीति । यद्यपि माया-मायिक-समस्तांश-विच्युतः स्यात् तथा स जीवात्मा । तद् अपि तव पदाब्ज-प्रसाद-लेशानुगृहीत एव भगवतस् तव यो महिमा महिम-शब्द-वाच्यं ब्रह्म तस्य तत्त्वं जानाति । यद् उक्तं त्वयैव मत्स्य-रूपेण—
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥[भा।पु। ८.२४.३८] इति ।
व्याख्या च तत्रत्या श्री-स्वामि-पादानां—मे मया अनुगृहीतं तुभ्यं प्रसादीकृतं पर-ब्रह्म वेत्स्यस्यीति, अत्र प्रसाद-लेशो गुणी-भूत-भक्ति-योगो ज्ञानिनां पूर्व-सिद्धो वर्तत एव । तेनानुगृहीत इत्य् अविद्यायाम् उपरतायां विद्यायाश् चापरम् आरम्भे ज्ञानं च मयि संन्यसेत् [भा।पु। ११.१९.१] इति भगवद्-उक्तेर् ज्ञानम् अपि त्यक्त्वा तत ऊर्वरितां भक्तिम् एव केवलां बहु मानयंस् ताम् एवाभ्यसेत् यो ज्ञानी तम् एव प्रसाद-लेश-रूपो भक्ति-योगेऽनुगृह्णातीत्य् अर्थः। यस् तु फल-प्राप्तौ सत्यां न साधनोपयोग इति मत्वा ज्ञानं भक्तिं च त्यक्त्वा केवल ब्रह्मानुभव एवोद्यतः स्यात् स एकोऽपि मुख्योऽपि ज्ञानि-सहस्र-गुरूभवन्न् अपीत्य् अर्थः । चिरं विचिन्वन् बहु-शास्त्राभ्यास-योगाभ्यासाभ्यां विचारयन्न् अपि ॥२९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, गुरूपलब्धया अन्तर्याम्य् उपनिषदा मे परमात्मतां विदित्वा संसारं तरिष्यन्ति, किं विबुध्य भक्त्यैवेति [भा।पु। १०.१४.५] मत्-कथा-श्रवणादि भक्त्याग्रहेणेति चेत् तत्राह—अथेति । यद्य् अपि सा उपनिषल् लब्धा तथापि कथा-श्रवणादि-हेतुकेन ते पदाम्बुज-द्वयस्य प्रसाद-लेशेनाप्य् अनुगृहीत एव सन् जनो महिम्नस् त्त्वं स्वरूपं जानाति, न चान्यस् तद्-धेतुक-तत्-प्रसाद-लेश-शून्य एकोऽपिति पाण्डित्येन मुख्यस् ताम् उपनिषदं चिरं विचिन्वन् विचारयन्न् अपि तथा च भक्त्यैव निस्तारो ज्ञानन् तु विष-तन्तु-न्यायेन तद् एतद् एवोत्पद्येतेति किं तद् आग्रहेणेति ॥२९।
॥ १०.१४.३० ॥
तद् अस्तु मे नाथ स भूरि-भागो
भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।
येनाहम् एकोऽपि भवज्-जनानां
भूत्वा निषेवे तव पाद-पल्लवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्मात् भूरि-भागो महद्-भाग्यम् । अत्र भवे ब्रह्म-जन्मनि तिरश्चाम् अपि मध्ये यज् जन्म, तस्मिन् वा येन भाग्येन भवदीयानां जनानाम् एकोऽपि यः कश्चिद् अपि भूत्वा निषेवेऽत्य् अर्थं सेवेयेति ॥३०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो भवत् पद-सेवैव मुक्ति-हेतुस् तस्माद् इति । भो ब्रह्मन् साध्य-साधन-तत्त्वज्ञ-शिरोमणेस्तुत्यैव व्यञ्जित-लक्षणयोर् भक्ति-ज्ञानयोर् मध्ये तव कुत्र स्पृहात आह—तद् अस्त्व् इति । हे नाथेति सम्बन्धनेनैव व्यञ्जितायां सत्याम् अपि दास्यस्पृहायां भो ब्रह्मन् उत्कर्ष-निकर्षौ सम्यग् विचार्यैव सर्वोत्कृष्टं वस्तु स्पष्थं प्रार्थयस्वेति चेत् स एव मे भूरि-भागो महद् एव भाग्यं मनसा निर्धारितम् एव वर्तते इति भावः । येन भूरि-भागेनात्र भवे ब्रह्म-जन्मनि वा तिरश्चाम् अपि मध्ये यज् जन्म तस्मिन् वेति । ब्रह्म-जन्मारभ्य तिर्यग् योनि-पर्यन्तं यावन्ति जन्माति सम्भवन्ति तेष्व् अपि क्वापि जन्मनीति भागः । गजो गृध्रो वणिक्-पथः [भा।पु। ११.२.६] इति वचनात् तिर्यग् योनाव् अपि भक्ति-श्रवणात् । तिरश्चाम् अपीति बहु-वचनेनापि-शब्देन च मोक्षाय जलाञ्जलिं दत्त्व स्वस्य त्व् अत्रार्थे सहस्र-जन्म-प्रार्थनापि व्यञ्जिता । भवदीयानां जनानां मध्ये एको यः कश्चिद् अपि नितरां साधकत्व-सिद्धत्व-दशयोः सेवेत । तद् एवम् नौमीड्य ते [भा।पु। १०.१४.१] इत्य् एकेन माधुर्यम् अस्यापि देव [भा।पु। १०.१४.२१] इत्य्-आदिभिः तद् अस्तु मे नाथ [भा।पु। १०.१४.३०] इत्य् अन्तैः पद्यैर् ऐश्वर्यं विवृतवता ब्रह्मणा तन् मध्य एव ज्ञाने प्रयासम् [भा।पु। १०.१४.३] इति तत्-तेऽनुकम्पाम् इत्य् आभ्यां केवलाया भक्तेर् उत्कर्षः । त्वाम् आत्मानं परं मत्वा [भा।पु। १०.१४.२७] इत्य् अजानतां त्वत् पदवीम् [भा।पु। १०.१४.१९] इत्य् आभ्यां केवल-ज्ञानस्यापेक्षेपः । श्रेयः-स्रुतिम् [भा।पु। १०.१४.४] इति पुरेह भूमन् [भा।पु। १०.१४.५] इत्य् आभ्यां केवलयोर् ज्ञान-भक्त्योर् वैफल्य-साफल्ये । अन्तर्भवेऽनन्त [भा।पु। १०.१४.२८] इत्य् अथापि ते देव [भा।पु। १०.१४.२९] इत्य् आभ्यां भक्ति-मिश्रं ज्ञानम् । एवम्-बिधं त्वाम् इत्य् अनेन शान्त-भक्तिः । तद् अस्तु मे [भा।पु। १०.१४.३०] इत्य् अनेन दास्य-भक्तिश् चाभ्यधायि । अतः पर माधुर्य-सिन्धाव् एव निपतिष्यता ब्रह्माणा अहोतिधन्याः इत्य्-आदिभी रागात्मक-वात्सल्यादिर् अतिमन्त एव स्तोष्यन्त इति स्तुत्य् अर्थ-तात्पर्य-निष्कर्षः । अत्र तोषिणी-मम तु तादृश-प्रसादस्य फलं यज् ज्ञानं तथापि यत्-फलम् उपासनं तस्यापि यत्-फलं साक्षात्कारः स एव सहसा सम्बृत्तस् तस्माद् एतद् एव प्रार्थयते इति । नौमि [भा।पु। १०.१४.१] इत्य्-आदि-प्रतिज्ञाम् एव सङ्गमयन् सर्वं प्रकरणं तादृशे श्री-कृष्ण एव पर्यवसाययन्न् आह—यावत् समाप्ति ।
तत् तस्मान् नाथ हे सर्व-काम-परिपूरक । पारमेष्ठ्य-पद-प्रापकं यन् मे भाग्यं तन् महन् न भवति किन्तु स एव भूरि-भागः यद् भवज् जनानां मध्ये एकोऽपीति सेवायाः सम्यक् त्व् आपेक्षया, अत एव नि-श्शब्दः, तत्र च त ब्रह्म-जन्मनि, अन्यत्र तत्-प्रतियोगि-हरिणादि-तिर्यग्-योनौ वा मम ग्रहः, किं तु त्वद्-भत्ताव् एवेति-वा-शब्दाभ्यां सुच्यते । हरिणादि-योनौ सेवा च स्नेहेन रज-आदि-मार्जनायावहेलनादि-रूपा गम्या, सा च तद् विधानाद् दृष्टैव किल प्रार्थ्ये । पद्य-द्वयम् इदम् इत्थं वा सङ्गमनीयम्—यद्य् अपि एवं तव महिमाथापि त्वत् पदाम्बुज-द्वयस्य यः प्रसादोऽनुग्रहस् तस्य लेशोऽपि यत्र, किमुत पूर्णः, स तेनानुगृहीत एव भवज् जनानाम् अनुगत-रूप एकोऽपि कश्चनापि भूत्वेति च ॥३०॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : तद् इति । तत् तस्मात्, यस्माद् भक्त्या सुलभत्वं । भूरि-भागो बहु-भाग्यः । भवो जन्म। अत्र गोकुले येन भवेन तिरश्चां तिर्यग्-जातीयानां । भवज्-जनानां मध्ये अहम् अप्य् एको भूत्वा तव पाद-पल्लवं निषेवे ॥३०॥ [मु।फ। १८.१०]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भो ब्रह्मन् ! किं तेऽभिलषितं ? ज्ञानं भक्तिर् वा ? तत्राह—तद् अस्त्व् इत्य्-आदि । एकोऽपि ब्रह्मापि भूत्वा । यद् वा, भवज्-जनानां मध्ये एकोऽपि यः कोऽपि भूत्वा तव एकोऽपि मुख्योऽपि भवज्-जनानां पाद-पल्लवम् इति वा ॥३०॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वत् प्रसादस् तु त्वद् दास्ये सत्य् एव सिध्यतीति दास्यं प्रार्थयते—तद् इति । नाथ ! हे सर्व-काम-परिपूरक ! पारमेष्ठ्य-पद-प्रापकं यन् मम भाग्यम्, तन् महद् भाग्यं न भवति, किन्तु स एव भूरि-भागो महद् भाग्यम्8—त्वज् ज्येष्ठ-पुत्रस्य मम स एव श्रेष्ठो भाग इति शेषार्थः । भवज् जनानाम् एको\ऽपीति सेवाया सम्यक् त्व्-आद्य् अपेक्षया, अत एव नि-शब्दस् तत्र चात्र ब्रह्म-जन्मन्य् अन्यत्रान्यस्मिन् ब्रह्म-जन्मनि वा ।
यद् वा, अन्यत्र तत् प्रति-योगि-कीटादि-तिर्यग् योनौ वा न ममाग्रहः, किन्तु त्वद् भक्ताव् एवेति, अत्रान्यत्र-शब्दाभ्यां9 सूच्यते । अन्यत् तैर् व्याख्यातम् । यद् वा, त्वत् प्रसादस् तु तावकानां निषेवयैव सिध्येद् इति याचते—तद् इति । एक इति पूर्ववत्, तव भवतो ये जनाः सद्यो भक्तौ प्रवृत्ता नूतन-भक्ता इत्य् अर्थः, तेषाम् अपि पाद-पल्लवम् ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मम तु तादृश-प्रसादस्य फलं यज् ज्ञानन्तस्यापि यत्-फलम् उपासनं तस्यापि फलं यत् साक्षात्कारः स एव सहसा संवृत्तस् तस्माद् एतद् एव प्रार्थय इति नौमीत्य्-आदि प्रतिज्ञाम् एव सङ्गमयन् सर्व प्रकरणं तादृशे श्री-कृष्ण एव पर्यवसाययन्न् आह—यावत् समाप्ति, तत् तस्मात् नाथ ! हे सर् व-काम-परिपूरक ! पारमेष्ठय-पद-प्रापकं यन् मम भाग्यं तन् महन्न भवति, किं तु स एव भूरि-भागः महद्-भाग्यं यत् भवज् जनानाम् एको\ऽपीति सेवायाः सम्यक्त्वाद्य् अपेक्षया अत एव निशब्दः तत्र च तत्र ब्रह्म-जन्मनि अन्यत्र तत्-प्रतियोगि-हरिणादि-तिर्यग्-योनौ वा न ममाग्रहः । किं तु त्वद्-भक्ताव् एवेति वा शब्दाभ्यां सूच्यते । हरिणादि-योनी सेवा च स्नेहेन रज-आदि-मार्जना याव-हेलनादि-रूपा गम्या सा च तद्-विधानां दृष्टव किल प्रार्थ्यते पद्य-द्वयम् इदम् इत्थं वा सङ्गमनीय यद्यप्य् एवं तव महिमा तथापि त्वत्-पदाम्बुज-द्वयस्य या प्रसादो\ऽनुग्रहः तस्य लेशो\ऽपि यत्र किमुत पूर्णः सः तेनानुगृहीत एवेति भवज्-जनानाम् अनुगत-रूपः एको\ऽपि कश्चन अपि भूत्वेति च ॥ ३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : नौमीत्य्-आदि-प्रतिज्ञाम् एव सङ्गमयन् सर्व-प्रकरणं श्री-कृष्ण एव पर्यवसाययितुम् आह—तद् अस्त्व् इत्य्-आदिना । यावत् समाप्ति, अन्यत्र हरिणादि-योनौ वा सेवा चात्र स्नेहेन रज आदि-मार्जना याव-हेलनादि-रूपा सा च तद् विधानां दिष्ट्यैव किल तत् प्रार्थ्यते ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्माद् अवगतम् । हे नाथ ! भवद्-अनुगृहीता एव भव-तत्त्व-विदः । ततो भवद्-अनुगृहीती-भवितुं क्व मे तादृशी योग्यता ? भवज्-जनानां मध्ये यः कश्चिद् अपि भूत्वा भजनं करोमीत्य् आह—तद् अस्तु मे नाथेत्य् आदि । तत् तस्मात् हे नाथ, स भूरि-भागो महद्-भाग्यं मेऽस्तु । कोऽसौ ? तत्राह—येन भूरिणा भागेन भवज्-जनानां मध्ये एकोऽपि भूत्वा तव पाद-पल्लवं निषेवे । अथवा, तव विभूति-मध्ये एकोऽपि मुख्यतमोऽपि भूत्वा भवज्-जनानां पाद-पल्लवं निषेवे । नितरां सेवे ॥३०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो ब्रह्मन् ! साध्य-साधन-तत्त्व-शिरोमणे ! स्तुत्यैव व्यञ्जित-लक्षणयोर् भक्ति-ज्ञानयोर् मध्ये तव कुत्र स्पृहेत्य् अत आह—तद् अस्त्व् इति । हे नाथेति सम्बोधनेनैव व्यञ्जितायां सत्याम् अपि दास्य-स्पृहायां भो ब्रह्मन् ! उत्कर्ष-निकर्षौ सम्यक्तया विचार्यैव सर्वोत्कृष्टं वस्तु स्पष्टं प्रार्थयस्वेति चेत्, स एव मे भूरि भागो महद् एव भाग्यं मनसा निर्धारितम् एव वर्तत इति भावः । येन भूरि-भाग्येन अत्र भवे ब्रह्म-जन्मनि वा तिरश्चाम् अपि मध्ये यज् जन्म तस्मिन् वेति ब्रह्म-जन्मारभ्य तिर्यग्-योनि-पर्यन्तं यावन्ति जन्मानि सम्भवन्ति तेष्व् अपि क्वापि जन्मनीति भावः । गजो गृध्रो वणिक्-पथ [भा।पु। ११.२.६] इति वचनात् तिर्यग्-योनाव् अपि भक्ति-श्रवणात् । तिरश्चाम् अपीति बहु-वचनेनापि-शब्देन च मोक्षाय जलाञ्जलिं दत्त्वा स्वस्य तु अत्रार्थे सहस्र-जन्म-प्रार्थनापि व्यञ्जिता । भवदीयानां जनानां मध्ये एको यः कश्चिद् अपि नितरां साधकत्व-सिद्धत्वयोर् दशयोः सेवे ।
तद् एवं नौमीड्य ते [भा।पु। १०.१४.१] इत्य् एकेन माधुर्यं, अस्यापि देव [भा।पु। १०.१४.२] इत्य्-आदिभिः, तद् अस्तु मे नाथ [भा।पु। १०.१४.३०] इत्य् अन्तैः पद्यैर् ऐश्वर्यं विवृतवता ब्रह्मणा तन्-मध्य एव ज्ञाने प्रयासं [भा।पु। १०.१४.३] इति, तत् तेऽनुकम्पां [भा।पु। १०.१४.८] इत्य् आभ्यां केवलाया भक्तेर् उत्कर्षः । त्वाम् आत्मानं परं मत्वा [भा।पु। १०.१४.२७] इति, अजानतां त्वत्-पदवीं [भा।पु। १०.१४.१९] इत्य् आभ्यां केवल-ज्ञानस्याक्षेपः, श्रेयः-सृतिं [भा।पु। १०.१४.४] इति, पुरेह भूमन् [भा।पु। १०.१४.५] इत्य् आभ्यां केवलयोर् ज्ञान-भक्त्योः क्रमेण वैफल्य-साफल्ये, अन्तर्-भवे अनन्त [भा।पु। १०.१४.२८] इति, अथापि ते देव [भा।पु। १०.१४.२९] इत्य् आभ्यां भक्ति-मिश्रं ज्ञानम्, एवं-विधं त्वां सकलात्मनां [भा।पु। १०.१४.२४] इत्य् अनेन शान्त-भक्तिः । तद् अस्तु मे [भा।पु। १०.१४.३०] इत्य् अनेन दास्य-भक्तिश् चाभ्यधायि । अतः परं तु माधुर्य-सिद्धाव् एव निपतिष्यता ब्रह्मणा अहोऽतिधन्या [भा।पु। १०.१४.३१] इत्य्-आदिभी रागात्मक वात्सल्यादि-रतिमन्त एव स्तोष्यन्ते इति स्तुत्य्-अर्थ-तात्पर्य-निष्कर्षः ॥३०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं विरञ्चिर् माधुर्यैश्वर्य-गुणिकां स्तुतिं हरेर् विधाय तस्मिन् भक्तिम् एव मुख्यापायम् अभिधाय ताम् एव प्रार्थयते—तद् इति । हे नाथ गोपालस्वामिन् । स भूरि-भागो मे अस्तु येनाहम् अत्र भवे ब्रह्म-जन्मनि गजो गृध्रो वणिक्-पथ [भा।पु। ११.२.६] इति तिर्यक्-योनाव् अपि भक्ति-स्मरणात् तिरश्चाम् अपि मध्यो यो भवस् तस्मिन् वैतद्-भवाद् अनात्र भवज्-जनानाम् एको भूत्वा तव पादपल्लवं निषेवे नीचानुसन्धिर् भक्ति-वर्धन इति तिरश्चाम् इत्य् उक्तं, कुत्रापि जन्मास्तु तव भक्तिश् च भूयाद् इत्य् एवम् उक्तं श्री-नारदं प्रति जितन्त-स्तोत्रे—
यत्र कुले वासो येषु केषु भवोऽस्तु मे । > तव दास्यैकभावे स्यात् सदा सर्वत्र मे रतिः ॥ इति ॥३०॥
॥ १०.१४.३१ ॥
अहोऽतिधन्या व्रज-गो-रमण्यः
स्तन्यामृतं पीतम् अतीव ते मुदा ।
यासां विभो वत्सतरात्मजात्मना
यत् तृप्तयेऽद्याप्य् अथ नचालम् अध्वराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवादि-जन्मनोऽपि यत्र कुत्रचित् त्वद्-भक्तिमज्-जन्मैव श्रेष्ठम् इत्य् औत्सुक्येन सप्तभिः श्लोकैर् अभिनन्दति, अहोऽतिधन्या इत्य्-आदिभिः । व्रज-गो-रमण्यः व्रज-स्था गावो रमण्यो गोप्यश् च । ते त्वया वत्सतरात्मजात्मना वत्सानाम् आत्मजानां च रूपेण । यस्य तव तृप्तये सर्वेऽपि यज्ञा अद्यापि न शक्तास् तेन त्वया प्रतिक्षणं तृप्यता यासां स्तन्यम् अमृत-रूपं पीतम् इति ॥३१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र कुत्र यस्मिन् कस्मिन् योनौ । ते त्वयेति । तृतीयैक-वचनेऽप्य् आदेश आर्षः । किं च, त्वद् भक्तेष्व् अतिनिकृष्टस्य ममैतावत्य् एव प्रार्थना समुचिता, त्वत् प्रसादात् सा सफलीभूयात् । ये तु त्वद् भक्तेष्व् अतिप्रकृष्टास् तेषां त्वयि शुद्ध-वात्सल्यादिर् अतिभाजां पदवीं प्रार्थयितुम् अयोग्यास्मदादिभिर् अतिदुर्लभा केवलं स्तूयत एवेत्य् आह—अहोति-धन्या इति ।
ननु, भवेयं नाम सर्व-पूर्णस् त्वयापि सेवितुम् अन्वेषणीयः, किन्तु भवान् परमेष्ठी मज्जनाश् चात्र गोपा गो-रक्षका एव, तस्मात् कथञ्चिद् आदवासङ्ग एव त्वं प्राप्तुम् अर्हिष्यसीत्य् आशङ्क्य एषाम् एव महिमा सर्वतः पर इति तद् एक-देशोदाहरणेन व्यञ्जयति, तेन च स्वाभिलासां सूचयति—अहो इति । प्रथमत एव विस्मय-वाचक-प्रयोगो\ऽयम् अतीव विस्मयेन । अतिधन्याः कृतार्थता-परम-काष्ठां प्राप्ताः । कास् ताः ? व्रज-गोरमण्य इति । बहुत्वम् अन्यत्रैव कस्या अपि तथा भाग्यं दुर्लभम् इति बोधयति । कथं धन्यास् तत्राह—हे विभो परिपूर्ण । ते त्वयापि यासां स्तन्यामृतं पीतम् । विभुत्वम् एवाह—अथ कार्त्स्न्ये, सर्वेऽप्य् अध्वरा इत्य् अर्थः । ते यस्य तवाद्यापि वेदस्यानादित्वात् तद् विहितानाम् अध्वराणाम् अप्य् अनादि-कालतोऽद्य-पर्यन्तं तृप्तये सन्तोष-मात्राय नालम् न समर्थाः, परिपूर्णत्वाद् एवेति भावः । तथा-भूतेनापि पीतम्, अन्यामृताशिनोऽपि यज्ञ-भाग-मात्रोपजीविनस् तत् तु [त्र] तत्र च तेषु च न सादरः । अहो किम् इदम् अमृतम् इति भावः । तत्रापि स्तन्यम् इत्य् अनेन तादृशस्यापि तस्य तच्-छरीरोद्भव-रस-विशेषास्वादनम् इति । तथा पीतम् इत्य् अर्थ-वैशिष्ट्येन स्वयं स्व-मुखेन चूषितम् इति । तत्र चातीवेत्य् अनेनात्यन्तम् इति, तत्र च मुदेत्य् अनेन परमामोद-पूर्वकम् इति ।
तत्रापि वत्स-वत्सप-रूपेणेत्य् अनेन परम-लोभेन कोटिधा भूत्वेत्य् एवम् उत्तरोत्तर-चमत्कार-वैशिष्ट्यं बोधयति । न केवलम् अस्मिन् व्रजे तासाम् एव परम-विशिष्टानां कदाचित्कम् एवेदृशं भ्याग्यम्, न च कर्मकान्ड-मात्रानुसारेण यत् तृप्तयेऽद्याप्य् अथ नालम् अध्वराः इति यद् एव भगवन् माहात्म्यं मद् विध-चमत्कारकरम्, अपि तु तद् वासि-मात्रेष्व् एव च नित्यम् एव च किम् अपि तद् विराजते, ब्रह्म-काण्डानुसारेण भगवन् माहात्म्यम् अपि न तावन् मात्र तत्तायोग्यम् इत्य् अस्ति ॥३१॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : अहो इति । रमण्यो गोप्यः । गवां वत्स-रूपेण रमणीनाम् आत्म-रूपेण यस्य तव तृप्तये अम्बरा अद्यापि । नालं समर्थाः ॥३१॥ [मु।फ। १८.११]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तेषाम् एव साधुवादं करोति अहो इत्य्-आदि बहुभिः ॥३१॥
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.९७] अथ श्री-ब्रह्मापि श्रीमद्-वृन्दावनम् आगतः श्री-भगवतो\ऽनुग्रह-विशेषेणाभिव्यक्त-तत्-परम-महिम-तत्त्व-रसावगाढ-तद्-रस-कण्टकोद्धार-पूर्वकं स्तुवन्, तस्य भक्ति-भक्त-जन-माहात्म्य-भर-वर्णनम् एव परमा स्तुतिर् इत्य् अभिप्रेत्य तथैव ताम् उपसंहरन् स्वयम् अपि यो\ऽनाद्य्-अविचारेण परम-महा-भाग्यतया भक्तिं प्रार्थयमानस् तदानीम् एव सञ्जात-भगवन्-महा-प्रसाद-भरेण तद् एव कान्त-प्रियतम-व्रज-जनानां माहात्म्य-विशेषं सम्यग् अभिज्ञाय तत्-सदृश-भक्ति-महा-प्रसाद-लाभाशया तान् अभिनन्दति—अहो\ऽतिधन्या व्रज [भा।पु। १०.१४.३१] इति दशभिः।
तत्रादौ श्री-भगवता पीत-स्तन्यानां तन्-मातृ-रूपाणां गोपीनां गवां च माहात्म्यम् आह। अहो आश्चर्ये । अति-शब्दो\ऽतिशये, परमाद्भुत-धन्यता-युक्ता इत्य् अर्थः । व्रजस्य अस्य गावो धेनवः रमण्यश् च स्तन्य-दानेन त्वां रमयन्ति तर्पयन्तीति निज-माहात्म्य-भरेण जगद् एव रमयन्ति सुखयन्तीति ताः गोप्यः । गोभ्यः सकाशात् तासां धन्यताधिक्याभिप्रायेण पश्चान् निर्देशः ।
कुतो धन्याः ? ते इति त्वया । यस्य तव तृप्तये जगत्-तर्पका अपि सदा मादृशैर् वितायमाना अश्वमेधादयः सर्वे यज्ञाः पूर्वम् अधुनापि न समर्थाः बभूवुः । तेन त्वया यासां स्तन्यम् एव्आमृतं परम-मधुरत्व-परमानन्द-स्वरूपत्वादिना, अत एव मुदा हर्षेण प्रतिक्षणं तृप्यता तत्रापि वत्सतराणाम् आत्मजानां च रूपेण पीतम् । अतीत-निर्देशस् तु ब्रह्म-हृत-वत्स-वत्सपानां भूत-प्रायागम् अनेन तत्-तन्-मातॄणां प्रायः पयः-पान-निवृत्ति-प्रत्यासत्तेः । अतीव अत्यन्तम् इत्य् अस्य पूर्वोत्तरेण च पदेन सम्बन्धः । ततश् चातीव मुदेत्य् अनेन भगवतः परम-भक्त-वात्सल्यं अतीव पीतम् इत्य् अनेन च तत्र तृप्ति-राहित्यं सूचितम्।
हे विभो ! सर्व-व्यापक ! अनेन वत्स-वत्सप-स्वरूपत्वादाव् अप्य् अपरिच्छिन्नत्वम् उक्तम् । किं वा, हे परम-शक्ति-युक्तेति पर-ब्रह्मतयापरिच्छिन्नत्वे\ऽपि भक्त-मोदार्थं परिच्छिन्नवत् वत्सप-रूप-वैचित्री-धारणेनासम्भाव्य-कृति-सामर्थ्यं दर्शितम् । यद्यपि भगवत्-प्रियतम-प्रधानानां श्री-राधादीनाम् एव माहात्म्यम् आदौ वर्णयितुम् उपयुक्तं स्यात्, तथापि प्रेम-रस-विशेषाभावेन तासां माहात्म्य-विशेष-ज्ञानानुत्पत्तेस् तादृक्त्वाप्रार्थनात् न तद् उक्तम् इत्य् ऊह्यम् । अत एव श्री-बाल-गोपालस्यैव सन्दर्शनं जातं स्वयम् अपि स्तुत्य्-आरम्भे मृदु-पदे [भा।पु। १०.१४.१] इति बाल्यम् एवाभिप्रेतम् । अथवा वृद्धतर-सेवको\ऽयं पुत्राभिमानी धार्ष्ट्य-परिहाराय न तत् किम् अप्य् अवर्णयद् इति ज्ञेयम् । अत एव प्रथमं स्तन्य-दायिनीनाम् एव परम-धन्यतोक्तेर् इति दिक् । भक्ति-भराविर्भावेणाखिल-भक्त-वर्ग-गुरु-श्री-ब्रह्म-भावं प्राप्तो\ऽसौ ततः परं दश-श्लोकीम् अगायत् तथा हि ॥९७॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र च श्री-नन्द-व्रज-जनैः सदृशीं भक्तिं तेषां पाद-पल्लव-निशेवां प्रार्थये इत्य् आशयेन, तथा मधुरेण समापयेत् इति न्यायेन, तथा भगवतः प्रिय-जनानां माहात्म्य-वर्णनम् एव तस्य परमास्तुतिर् इत्य् अभि-प्रायेण च तान् अभिनन्दति-अहो\ऽतीति दशभिः अहो आश्चर्ये, अथेति माङ्गल्ये । अतिधन्याः कृतार्थता-परम्-काष्ठां गता इत्य् अर्थः । रमयन्ति स्तन-दानेन त्वां तर्पयन्तीति रमण्यः । यस्य तव तृप्तये तुष्टये । विभो हे सर्वथा-परिपूर्ण ! तथापि पीतम्, तच् चातीवात्य् अन्ततम्, तत्र च मुदा, तत्रापि वत्स वत्सप-रूपेण साक्षात् त्वया पीतम् इत्य् अतीत-निर्देशो भगवता तत् तन् निज-रूप-सम्बरणात्, अद्यापीति पूर्वतो\ऽद्य-पर्यन्तम् इत्य् अर्थः । यद् वा, सम्प्रति बाल्ये प्रकटिते\ऽपि ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, भवेयं नाम सर्व-पूर्णस् त्वयापि सेवितुम् अन्वेषणीयः, किन्तु भवान् परमेष्ठी मज् जनाश् चात्र गोपा गो-रक्षका एव, तस्मात् कथञ्चिद् यादवासङ्ग एव त्वं प्राप्तुम् अर्हिष्यसीत्य् आशङ्क्य एषाम् एव महिमा सर्वतः पर इति तद् एक-देशोदाहरणेन व्यञ्जयति, तेन च स्वाभिलासां सूचयति—अहो इति । प्रथमत एव विस्मय-वाचक-प्रयोगो\ऽयम् अतीव विस्मयेन । अतिधन्याः कृतार्थता-परम-काष्ठां प्राप्ताः । कास् ताः ? व्रज-गोरमण्य इति । बहुत्वम् अन्यत्रैव कस्या अपि तथा भाग्यं दुर्लभम् इति बोधयति । कथं धन्यास् तत्राह—हे विभो परिपूर्ण । ते त्वयापि यासां स्तन्यामृतं पीतम् । विभुत्वम् एवाह—अथ कार्त्स्न्ये, सर्वेऽप्य् अध्वरा इत्य् अर्थः । ते यस्य तवाद्यापि वेदस्यानादित्वात् तद् विहितानाम् अध्वराणाम् अप्य् अनादि-कालतोऽद्य-पर्यन्तं तृप्तये सन्तोष-मात्राय नालम् न समर्थाः, परिपूर्णत्वाद् एवेति भावः । तथा-भूतेनापि पीतम्, अन्यामृताशिनोऽपि यज्ञ-भाग-मात्रोपजीविनस् तत् तु [त्र] तत्र च तेषु च न सादरः । अहो किम् इदम् अमृतम् इति भावः । तत्रापि स्तन्यम् इत्य् अनेन तादृशस्यापि तस्य तच्-छरीरोद्भव-रस-विशेषास्वादनम् इति । तथा पीतम् इत्य् अर्थ-वैशिष्ट्येन स्वयं स्व-मुखेन चूषितम् इति । तत्र चातीवेत्य् अनेनात्यन्तम् इति, तत्र च मुदेत्य् अनेन परमामोद-पूर्वकम् इति ।
तत्रापि वत्स-वत्सप-रूपेणेत्य् अनेन परम-लोभेन कोटिधा भूत्वेत्य् एवम् उत्तरोत्तर-चमत्कार-वैशिष्ट्यं बोधयति ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : के ते भवत्-साहित्य-योग्या मज्-जनाः ? इत्य् आशङ्क्य तान् एव व्यञ्जयितुम् आह—अहो इति । यद् वा, अहो इति न केवलम् अत्र तासाम् एवेदृ[श्यं] शं भाग्य तच् च तद् वत् कादाचित्कम् एव न च यत् तृप्तये । इति यद् एव भवन् माहात्म्यम् अपि तु तद् वासि-मात्रेष्व् एव नित्यम् एव च किम् अपि तद् विराजते ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु त्वं ब्रह्माण्डाधिकारी जगत्-कर्ता, कथं मज् जनानां मध्ये यः कश्चिद् अपि भवितुम् अभिलषसि ? मैवं वादीः । भवज्-जनानां । यथा सौभाग्यं तथा न केषाम् अपीति संश्लाध्य तान् अभिनन्दति-अहो\ऽतिधन्या इत्य्-आदि । अहो अहो आश्चर्यम् सन्धिर् आर्षः । व्रज-रमण्यो गो-रमण्यो धेनवश् चातिधन्याः । कुतः ? यासाम् उभयीषां वत्सतरात्मजात्मनेति यथायोगं योजनीयम् । गो-रमणीनां वत्सतरात्मना व्रज-रमणीनाम् आत्मजात्मना ते तया स्तन्यामृतं पीतम् अतीव मुदा अत्यन्त-हर्षेण । ननु मम यथा तथैव हर्षो भवति, स्तन्यामृत-पानाद् यद् भविष्यति तत् किम् ? नवम्, यत्-तृप्तये\ऽद्यापि अध्वरा नालं न समर्थाः, तस्माद् आसां भाग्यातिशयं किं क्रम इति ॥ ३१ ॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तत्र त्वद्-भक्तेष्व् अति-निकृष्टस्य—ममैतावत्य् एव प्रार्थना समुचिता त्वत् प्रासादात् फलवती भूयात् ये तु त्वद् भक्तेष्व् अतिप्रकृष्टास् तेषां त्वयि शुद्ध-वात्सल्यादिर् अतिभाजां पदवीं प्रार्थयितुम् अयोग्या अस्मद् आदिभिर् अतिदुर्लभा केवलं स्तूयते एवेत्य् आह—अहो इति द्वाभ्याम् । व्रजस्था गावो रमण्यो गोप्यश् च अतिधन्यास् तत्राप्य् अहो इत्य् आश्चर्याभिधायक-पदेन वाङ्-मनसागोचरश् चमत्कारातिशयो व्यञ्जितः तम् एवाह—ते त्वया सच्-चिद्-आनन्द-स्वरूपेणापि यासां स्तन्यं देहैकावय-वस्तनोद्भवम् अमृतं पीतं तत्रापि मुदा तत्राप्य् अतीवेति पुनः पुनः पाने\ऽपि मुदः प्रतिक्षण-वर्धिष्णुत्वम् एव तत्रापि गवां वत्सतरात्मनेति दोहनादि-व्यवधानस्यासह्यत्वं गोपीनाम् आत्मजात्मनेत्य् अन्यथा तत् प्राप्त्य् अभावः तत्रापि विभो ! इत्य् अतिलोभात् स्वस्य बहु-स्वरूपीकरणेनेति तासां मध्ये एकस्या अपि एक-स्तनोत्थो रसो\ऽपि त्वया त्यक्तुम् अशक्य इत्य् आनन्द-मात्र-स्वरूपस्य तवाप्य् आनन्दकत्वात् तासां वपुषः सच्-चिद्-आनन्दत्वे के नाम संशेरते इति भावः । यस्य तव तृप्तये तृप प्रीणने यं त्वं प्रीणयितुम् इत्य् अर्थः अद्यापि । अनादि-कालतः प्रवृत्ता अद्य-पर्यन्ता अपि सर्वे\ऽपि यज्ञा अस्मद् आदिकृता मन्त्रा अनुष्टान-पावित्र्याद्य् अविकला अपि नालं न समर्थाः ॥३१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : त्वत्-परिकराणां पदवी त्व् अस्माकं सुदुर्लभा केवलं स्तूयत एवेत्य् आह—अहो इति द्वाभ्याम् । व्रजस्था गावो रमण्यश् च गोपाः अतिधन्यास् तत्राप्य् अहो इत्य् अनिर्वाच्या तद् धन्यतेत्य् अर्थः । ताम् एवाह, हे विभो ! यासां स्तन्यामृतं ते त्वया चिद्-घनेन पूर्णेनाप्य् अतीव मुदा पीतं वत्सतरात्मजात्मना वत्स-बाल-वपुषेत्य् अर्थः । तथा च तवेव तासाम् अपि चिद्-घनानां स्तन्यं च रस-रूपम् एव गन्धादिवत्-भुक्तम् इति न त्व् असारांश-सम्भावनेति ध्वन्यते यस्य तव तृप्तये अद्याप्य् अनादि-कालतः प्रवृत्ता इदानीं पर्यन्ता अध्वरा यज्ञा अस्माद् आद्य् अनुष्ठिताः साङ्गा अपि नालं न समर्था भवन्ति ॥३१॥
॥ १०.१४.३२ ॥
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो इति पुनर् उक्त्या भाग्यस्य सर्वथापरिच्छिन्नत्वम् उक्तम् ॥३२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपरिच्छिन्नत्वम् महत्त्वम् । परमानन्दम् इत्य्-आदि-पदैर् नन्द-नन्दनस्य सर्वथा तारतम्यं, व्रज-वासिनां च पूर्व-जन्मापादित-सकल-ज्ञान-सढनी-भूत-यज्ञ-तपसां परम-साफल्यम् अन्यान्ददमग्नौ ब्रह्माभिनन्दतीति ज्ञेयम् ॥३२॥ अत्र विश्वनाथः
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : अहो इत्य्-आदि वीप्सा आदरार्थः । यत् येषां । पूर्णं व्यापकम् ॥३२॥ [मु।फ। १८.१२]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पूर्णं ब्रह्म विग्रहत्वात् पूर्णं ब्रह्म श्री-कृष्णः । पूर्णं ब्रह्म परं ब्रह्मेत्य्-आदि श्री-कृष्ण-परम् एव । परम-प्रेमास्पद-रूपत्वाद् वा पूर्णत्वम् । परमो ब्र्हमानन्दाद् अपि परस्यानन्दो यस्मात् तथा तत् ॥३२॥
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.९८] इदानीं सर्वेषाम् एव परम-महा-धन्यताम् आह—अहो भाग्यम् [भा।पु। १०.१४.३२] इति । वीप्सा अत्यन्त-हर्षेण परमातिशयापेक्षया वा । नन्दश् च गोपश् च व्रजौकसश् चान्ये सर्वे व्रज-वासिनः, तेषाम् येषां पूर्णत्वं ब्रह्मत्वं सनातनं मित्रं नित्यं हित-कारि, न तु कदाप्य् उपेक्षकम् इत्य् अर्थः । तच् च न केवलं भय-त्राण-करं किन्तु सदा परम-सुख-दायि चेत्य् आह—परम आनन्दो यस्मात् तत् । यद् वा, आनन्दयतीत्य् आनन्दं परं केवलं मित्रम् एव, न तु ईश्वरादि-रूपं येन प्रेम-भर-ह्रासः स्याद् इत्य् अर्थः । यद् वा, सनातनं परमानन्द-पूर्णं ब्रह्मापि त्वं ये नन्द-गोप-व्रजौकस एव मित्राणि प्रिया यस्य तथा-भूतम् असि । ब्रह्म-विशेषणत्वान् नपुंसकत्वम् । सनातनम् इत्य् अस्यात्रैव वा सम्बन्धः । यन्-मित्रं नित्यम् एवेत्य् अर्थः ॥९८॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न केवलं स्तन्य-दायिन्यस् ता एव धन्याः । किन्तु श्री-नन्दादयः सर्वे\ऽपि व्रज-वासिनो\ऽति-धन्या इत्य् आह—अहो इति वीप्सा परम-हर्षेण, भाग्यातिशयाभिप्रायेण वा । नन्द-गोपस्य व्रज ओको निवासो येषाम् । यद् वा, नन्दश् च गोपाश् चान्ये च व्रजोकसः पशु-पक्ष्यादयः सर्वे तेषाम्, किं वक्तव्यं नन्दस्य भाग्यम्, अहो गोपानाम् अपि सर्वेषां परम-भाग्यम् इत्य् एवम् अत्र कैमुतिक-न्यायो\ऽवतार्यः—येषां मित्रं बन्धुस् त्वम् । तत्र च परम आनन्दो यस्माद् इति कदाचित् शोक-दुःखादिकं सुखाल्पत्वं च निरस्तम्, पूर्णम् इति प्रत्य् उपकारापेक्षकत्वादिकम्, ब्रह्म व्यापकम् इति कुत्र-चिद् अलभ्यत्वम्, सनातनं नित्यम् इति कदाचिद् अप्य् अप्राप्यत्वम् । यद् वा, पूर्ण ब्रह्म त्वं येषां मित्रं सनातनं नित्य-मित्रतयैव नित्यं वर्तमानम् इत्य् अर्थः ।
न केवलम् आपत्त्राणादिकरम्, प्रेम-विशेष-हान्य् आपत्तेः । यद् वा, पूर्णः ब्रह्मापि त्वम् एव नन्द-गोप-व्रजोकस एव मित्राणि यस्य, तथा-भूतम् असि, नपुंसकत्वं ब्रह्म-विशेषणत्वात्, श्री-भगवत् प्रियतमानाम् अपि श्री-राधादीनां माहाम्त्यम्, तदानीं बाल्ये तद् रासाप्रवृत्तेः किं वा, पुत्रत्वादिना लज्जातः परम-गोप्यत्वाद् वा व्यक्तं न वर्णितम् ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, न केवलम् अस्मिन् व्रजे तासाम् एव परम-विशिष्टानां कादाचित्कम् एवेदृशं भाग्यं न च कर्म-काण्ड-मात्रानुसारेण यत् तृप्तयेऽद्याप्य् अथ नालम् अध्वरा [भा।पु। १०.१४.३०] इति यद् एव भवन् माहात्म्यं मद् विध-चमत्कारकरम् अपि तु तद् वासिमात्रेष्व् एव नित्यम् एव च किम् अपि तद् विराजते । ब्रह्म-काण्डानुसारेण भवन् माहात्म्यम् अपि न तावन् मात्रता-योग्यम् इत्य् अस्त्य् अतिशयान्तरम् अपीति स्मरन्न् इव पुनर् अतीव स-चमत्कारम् आह—अहो इति । अहो आश्चर्ये भाग्यम् अनिर्वचनीयः तत् प्रसादः वीप्सा तद् अतिशयिता-प्रागल्भ्येन पुनः पुनश् चमत्कारावेशात् ।
ननु, प्रथमतश् चमत्कार-मात्रं व्यञ्जयसि येषां तत् तान् कथय ? तत्राह, श्री-मन् नन्द-राज-व्रज-वासि-मात्राणां पशु-पक्षि-पर्यन्तानां कथम् आश्चर्यं कथं वा भाग्यं तत्राह, परमानन्दं यत् तद् एव येषां मित्रं स्वाभाविक-बन्धुजनोचित-प्रेम-कर्तृ तादृश-प्रेम-विषयश् चेत्य् अर्थः । तथा च वक्ष्यते श्री-गोपैः
दुस्त्यजश् चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् । > नन्द ! ते तनयेऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥[भा।पु। > १०.२६.१३]
इत्य् आनन्दस्य क्लीबत्वं छान्दसं तेन च विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] इति श्रुति-वाच्यं तत् सूचयति, यत्र क्वाप्य् आनन्द एव खलु सर्वे तादृश-प्रेम-कर्तारो दृश्यन्ते न त्व् आनन्द कुत्राचित् एषु त्व् आनन्दोऽपि तत् कर्ता तत्र च श्रुति-मात्र-वेद्यत्वेन परमः खण्डामृत-तारतम्यवत् स्वरूपत एवालौकिक-माधुर्यः अत आश्चर्यं भाग्यं चेति भावः । अन्यद् अपि आश्चर्यम् अयम् इदम् इत्य् आह—सनातनां तत् तादृशम् अपि नित्यं कस्यचित्-क्षुद्रानन्दोऽपि न नितिओ दृश्यते एषां तु तादृशोऽपीति पुनः कथम्-भूतम् अथ कस्माद् उच्यते ब्रह्म बृंहति बृंहयति च [अ।शि।उ। ३.५] इति श्रुतेः । बृहत्वाद्-बृंहणत्वाच् च यद् ब्रह्म परमं विदुः [वि।पु। १.१२.५७] इति विष्णु-पुराणाच् च बृहत्तमत्वेन ब्रह्म सञ्ज्ञम् अप्य् अथानन्दस्य मीमांसा भवति इत्य् आरभ्य ते ये शतम् [तै।उ। २.८.१] इति वारं मनुष्यानन्दान् मत् पर्यन्तानन्दं दशधा शत-शत-गुणाधिक्येन गणयित्वा मत्तोऽपि शत-गुणम् आनन्दं परब्रह्मणः प्रोच्यापि सम्भ्रमेण
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । > आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन ॥[तै।उ। २.४.१]
इत्य् अनेनानन्त्यं स्मृत्वा वाङ्-मनसातीतेन सर्वतो बृहत्तमत्वेन श्रुतिभिर् गीतम् अपीत्य् अर्थः । तत आनन्दस्यैतादृशत्वम् एतादृश-बृंहतोऽप्य् अनेन मित्रत्वं क्वचित् दृष्टम् इति भावः । न चैतावद् एव किं तर्हि पूर्णम् अप्य् अमृतं सौरभ्यादिभिर् इव स्वाभाविक-रूप-गुण-लीलैश्चर्य-माधुरीभिः सर्वभिर् एव पूरितं सत् एतद् अपि कुत्रापि न दृष्टं श्रुतं न च तादृशं मित्रम् इत्य् अर्थः, अत्रापरोक्षेऽपि श्री-कृष्णे परोक्षवन् निर्देशः कौतुक-विशेषाय ।
किं च, मित्रत्वम् अत्र विधेयं परमानन्दम् अनूद्यं ततश् चानूद्य-धर्म-विधेय-वैशिष्ट्याय प्रयुज्यन्त इति मित्रताया अपि तत् तद् भावो लभ्यते मनोरमं सुवर्णम् इदं कुण्डलं जातम् इतिवत् युज्यते च अनूद्यस्य विधेय तादात्म्यापन्नत्वेन विवक्षितत्वात् तत्र परमानन्दत्व पूर्णत्वं च तस्याः सिद्धम् एव, तत् प्रेम-रूपत्वात् सनातनत्वम् अपि तस्य सनातनत्वात् निरुपाधिकत्वेनोक्तत्वात् काल-वैशिष्ट्यानिर्देशेन काल-सामान्य-लाभात् । अन्यत्र श्री-रुक्मिण्य्-आदौ दृष्ट्वात् एषाम् अपि तथैव श्रुति-तन्त्रादौ दृष्टत्वाच् च एवं पूर्ववत् श्री-कृष्णस्य स्वयं भगवत् त्वम् अपि दर्शितं तथा निजाभिलाषस्य युक्तता चेति ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (कृष्ण-सन्दर्भः १३८): भाग्यम् अनिर्वचनीया कापि श्री-कृष्णस्य कृपा । तस्य पुनर्-उक्त्य्-आदरेण सर्वथैवापरिच्छेद्यत्वम् उक्तम् । पूर्ण-परमानन्द-ब्रह्मत्वेनैव सनातनत्वे सिद्धे यत् पुनस् तद्-उपादानं तन्-मित्र-पदस्यैव विशेषणत्वेन लभ्यम् । अथवा विधेयस्य विशेष-प्रतिपत्त्य्-अर्थम् अनूद्यं विशिष्यते । यथा "मनोरमं सुवर्णम् इदं कुण्डलं जातम्" इति कुण्डलस्यैव मनोरमत्वं साध्यम् । तस्माद् अत्राप्य् अनूद्यस्य श्री-कृष्णाख्यस्य पर-ब्रह्मणः परमानन्द-पूर्णत्व-लक्षणं विशेषण-द्वयं विधेयाया मित्रताया एव तत्-तद्-भावं साधयतीति तद्-एकार्थ-प्रवृत्तं सनातनत्वं तस्यास् तद्-भावं साधयेत् ।
किं च, अत्र मित्रम् इति काल-विशेष-योग-निर्देशाभावात् काल-सामान्यम् एव भजते । ततश् च तस्य मित्रता-लक्षणस्य विधेयस्य काल-त्रयावस्थितत्वम् एव स्पष्टम् । कालान्तरासंजननं तु कष्टम् । अत्र चोत्तरयोर् अर्थयोः श्री-कृष्णस्य सनातनत्वे शब्द-लब्धे सति तदीय-मैत्रीमतां परिकराणाम् अपि सनातनत्वं नासम्भवम् अपि, श्री-रुक्मिणी-प्रभृतीनाम् तथा दर्शनात् ॥३२॥ [रसामृते २.१.२९३-२९६-पद्यानां दुर्गम-सङ्गमिन्य् अपि दृश्या ।]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भवन्-माहात्म्यम् अपि न तादृशता-योग्यम् इत्य् अस्त्य् अतिशयानन्तरम् अपीति स्मरन्न् इव पुनर् अतीव स-चमत्कारम् आह—अहो इति । अहो आश्चर्ये । भाग्यम् अनिर्वचनीयस् तत्-प्रसादः । वीप्सा तद्-अतिशयिता-प्रागल्भ्येन पुनः पुनश् चमत्कारावेशात् । केषां ? तत्राह—नन्द-गोप-व्रजौको-मात्राणां पशु-पक्षि-पर्यन्तानाम् । किं तत् ? येषां परमानन्दं मित्रं स्वाभाविक-बन्धु-जनोचित-प्रेम-कर्तृ । क्लीबत्वं छान्दसम् । तेन च—विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] इति श्रुति-वाक्यं तत् सूचयति । यत्र क्वाप्य् आनन्द एव खलु सर्वे तादृश-प्रेम-कर्तारो दृश्यन्ते, न त्व् आनन्दः । कुत्रचिद् एषु त्व् आनन्द एव तत्-कर्ता । तत्र च श्रुति-मात्र-वेद्यत्वेन परमः । अखण्डामृत-तारतम्यवत् स्वरूपत एवालौकिक-माधुर्यात्, न चैतावद् एव । किं तर्हि ? पूर्णम् अप्य् अमृतम् । सौरभ्यादिभिर् इव स्वरूप-रूप-गुण-लीलैश्वर्य-माधुरीभिः सर्वाभिर् एवामर्यादम् एव तत् । एतद् अपि कुत्रापि न दृष्टं श्रुतं च । न च तादृशं मित्रम् इत्य् अर्थः । पुनः कथम्भूतं ? अपि ब्रह्म आनन्दानन्त्येन सर्वतो बृहद् अपि । आनन्दस्य तादृश-बृहत्त्वं तादृश-बृहतोऽप्य् अन्येन मित्रत्वं क्व दृष्टम् इति भावः । अन्यद् अपि आश्चर्यम् इदम् इत्य् आह—सनातनम् इति । तत् तादृशम् अपि नित्यम् । कस्यचित् क्षुद्रानन्दोऽपि न नित्यो दृश्यते । एषां तु तादृशोऽपीति ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्दस् तु तावद् आसां भाग्यं, तवानेन किम् आयातं ? "भवज्-जनानां मध्ये एकोऽपि भूत्वा तव पाद-पल्लवं निषेवे" इति यद् उक्तं, तत्रेदं नोपयुज्यते ? सत्यम् । अहं तु व्रजौकसां मध्ये यः कश्चिद् अपि भूयासम् इति व्रजौको मात्रम् एव स्तौमीत्य् आह—अहो भाग्यम् अहो भाग्यम् इत्य्-आदि । अतिशय-विस्मये वीप्सा । यद् येषां नन्द-गोप-व्रजौकसां पूर्णं ब्रह्म श्री-कृष्णस् त्वं मित्रं सुहृद्-विग्रहतया पूर्णं घनमतः सनातनं परम आनन्दो यत्र । अथवा, सनातनं मित्रम् । न हीदानीन्तनम् एव । अपि तु त्रैकालिकम् एतेषाम् अपि त्रिकाल-सिद्धत्वात् ॥३२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रागात्मक-वात्सल्य-प्रेमवतीः स्तुत्वा रागात्मक-सख्य-प्रेमवतः स्तुवन्न् एव तन्त्रेण वात्सल्यादि-सर्व-रतीम् अतोऽप्य् उपश्लोकयति अहो भाग्यम् अहो भाग्यम् इति वीप्सा अत्यानन्द-चमत्कारेण । परमानन्दम् इति क्लीवत्वम् आर्षम् । तेन च सत्यं विज्ञानम् आनन्दं ब्रह्म इति श्रुति-वाच्यं ब्रह्म सूचयति । परम-पदेन श्री-कृष्णस्य तत्-प्रतिष्ठा-भूतत्वं पूर्ण-शब्देन ब्रह्म-स्वरूपाणाम् अंशावताराणां व्यावृत्तिः । एतादृशं ब्रह्म येषां श्रीदामादि-बालकानां मित्रं सखा । मित्रत्वस्य तत्-काल-भवत्वं वारयन् विशिनष्टि, सनातनं सर्व-कालिकम् इति मित्रत्वस्य सार्वकालिकत्वे न श्रीदामादीनाम् अपि सार्वकालिकत्वं ज्ञापितम् । अयं तूत्तमो ब्राह्मण इत्य् उक्ते ब्राह्मण्यस्यैवोत्तमत्वात् तद्-विशिष्टोऽप्य् उत्तम इतिवद् अत्रापि मित्रत्वस्यैव सनातनत्वं विवक्षितम् । तथा मित्र-शब्दस्य बन्धु-मात्र-वाचकत्वाद् एवं च व्याख्येयं श्रीमन्-नन्द-राज-व्रज-वासि-मात्राणां पशु-पक्षि-पर्यन्तानां सर्वेषाम् एवाहो भाग्यम् अहो भाग्यं ! किं पुनर् नन्दस्य तस्य तदीय-गोपानां च । किं तत् ? येषां वात्सल्यादि-सर्व-विधि-प्रेमवतां परमानन्दं ब्रह्म सनातनं मित्रं बन्धुः बन्धुत्वोचित-प्रीति-कर्तृ । यद् वक्ष्यते गोपैः—
दुस्त्यजश् चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् । > नन्द ते तनयेऽस्मासु तस्याप्य् औत्पत्तिकः कथं ?॥ [भा।पु। > १०.२६.१३] इति ।
अत एषु व्रज-वासिष्व् औत्पत्तिकानुराग्य् एव पूर्णं ब्रह्मेत्य् अर्थ आयातः । तेन परमानन्दम् अपि आनन्दयन्ति व्रज-वासिन इति । सच्-चिद्-आनन्द-मया एवाथ च परम-विस्मय-रस-विषयीभूता इति ध्वनितम् ॥३२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अहो भाग्यम् इत्य् आनन्द-चमत्काराद् अत्यादराद् वीप्सा नन्द-गोपस्य नन्दाभिधानस्य भूपतेर् व्रजौकसां भाग्यम् अहो आश्चर्य वीप्सया अत्याश्चर्यम् इत्य् अर्थः । कथम् इत्य् आह—यद् इति । पूर्णं स्वयं भगवत् परमानन्दं ब्रह्म येषां मित्रम् इति परमानन्दम् इति क्लीवत्वम् आर्षःं ते विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] इति श्रुत्य् उक्तं तत् सूच्यते मित्रतायास् तात्कालिकतां वारयितुं सनातनम् इति सार्वदिकम् इत्य् अर्थः । तथा च तद्-व्रजौकसाम् अपि सनातनत्वम् उक्तं न च ब्रह्म सनातनम् इति-सम्बन्धः पूर्णत्वेनैव ब्रह्मणस् तत्त्व-लाभात् तस्मान् मित्रं सनातनम् इति सम्बध्यते अयम् उत्तमः पण्डित इत्य् अत्र यथा पाण्डित्यस्यैवोत्तमत्वं तथा मित्रत्वस्य सनातनत्वम् इह विधीयते मिदेर् अधिकरणे कर्तरि च । प्रत्ययान् मिथो मित्रत्वम् अभिमतं दुस्त्यजश् चानुरागोऽस्मिन् इत्य्-आदि-वक्ष्यमाणाच् च व्रजौकसां तिर्यगन्तानां भावेषु मैत्री सङ्क्रमस् तद्-धूर्त-स्वभावात् हरेस् तेषु सा तु तद्-भावानुसाराद् इति-बोध्यम् ॥३२॥
॥ १०.१४.३३ ॥
एषां तु भाग्य-महिमाच्युत तावद् आस्ताम्
एकादशैव हि वयं बत भूरि-भागाः ।
एतद् धृषीक-चषकैर् असकृत् पिबामः
शर्वादयोऽङ्घ्र्य्-उदज-मध्व्-अमृतासवं ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, एषां भाग्यस्य तावन् महिमा आस्तां, कस् तं वक्तुं शक्नोति ? शर्वादयः शर्वोऽहङ्काराधिष्ठाता आदिर् येषां चन्द्रादीनाम् एकादशानां ते तथा वयं च । वयम् इत्य् आत्मानम् एव बहु मन्यमान आह—एवं मनो-बुद्ध्य्-अहङ्कार-चक्षुर्-आद्य्-अधिष्ठातारस् त्रयोदश-देवा एव तावद् बताहो भूरि-भागाः । यस्माद् एतेषां हृषीकाणीन्द्रियाण्य् एव चषकाणि पान-पात्राणि, तैस् ते चतुर्दशस्य चित्ताधिष्ठातुर् अङ्घ्री एव उदजे वारिजे, तयोर् मधु मकरन्दः, तद् एवामृतं स्वाद्व् आसवं मादकं पिबामः ।
एतद् उक्तं भवति—यदा प्रत्येकम् इन्द्रियाभिमानिनो वयं कीर्ति-सौन्दर्य-सौगन्ध्याद्य्-एक-देश-सेविनोऽपि कृतार्थास् तदा सर्वेन्द्रियैः सर्व-सेविनाम् एतेषां किं वर्ण्यते भाग्यम् इति ॥३३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां भाग्य-महत्त्वं तु परतमम् एव परन्त्व् अस्माकम् अपि भाग्यं परमेवेत्य् अःअ—किं चेति । एतेषां गोपानां । तावद् अधुना । त्रयोदश-शर्व-चन्द्र-ब्रह्म-दिग्-वातार्क-प्रचेतोश्वि-वह्नीन्द्रोपेन्द्र-मित्र-काव्याः । बत हर्षे । अहो अद्भुतम् । चषकोऽस्त्री पान-पात्रम् इत्य् अमरः । चित्ताधिष्ठातुर् वासुदेवस्यास्य । एतद् उक्तम् इत्य् आरभ्य भाग्यम् इत्य् अन्तेन नन्द-व्रजवासिभ्यो ब्रह्माण्डे न कोऽपि भाग्य-विशेषवान् अस्तीति बोध्यते ॥
अहो एषां माहात्म्यं को नाम वर्णयितुं शक्नुयात्, वयम् अपि एषां सम्बन्धेनैव कृतार्था जाता इत्य् आह—एषाम् इति । तुर् भिन्न-क्रमे । अन्ध्र्युदजमधु श्री-चरणारविन्द-माधुर्यं, तत्-पानं तु तदीयाभिमानाध्यवसाय-सङ्कल्प-दर्शन-श्रवणादि-रूपम् । देवताश् च—शर्व-ब्रह्म-चन्द्र-दिग्-वातार्क-प्रचेतोश्वि-वह्नीन्द्रोपेन्द्र-मित्रका इति ।
यद् वा, गुह्येन्द्रिय-द्वयस्यानुपयोगाद् अश्लीलत्वाच् च तद् अधिष्ठात्रोर्मित्र-प्रजापतयोस् त्याग एव, पादाधिष्ठातोपेन्द्रस् तु तदीय-धारण-शक्त्य् आवेशावतारो देवता-विशेष एव कश्चित्, चित्ताधिष्ठातारं श्री-वासुदेवं विना तेषां सर्वेषाम् अपाकर्तुं क्षमत्वेन तृतीये कथनात् । तस्य तु तत्-समीप-गतान् उभव-सुखं श्री-गोपादीनां स्वयं भगवतो नित्याप्राकृत-परिकरत्वाद् एतेषां च प्राकृताधुनित्वात् तद् असम्भवेऽपि तन् नित्यावरणस्थ-देव-गणाभेद-विवक्षयेदम् उक्तं तदावेशिरूपात् तेषाम्, तथा च पाद्मोत्तर-खण्डे
नित्याः सर्वे परे धाम्नि ये चण्ये च दिवौकसः । > ते वै प्राकृत-लोकेस्मिन् नित्यास्त्रिदिवेश्वराः ॥ इति ।
उभयथापि तस्य च नित्यत्वट् इत्य् अत्र करण-पक्षस्यैव हि देवता, न भोक्तृ-पक्षस्यैति शारीरक-निर्णयः । श्री-गोपादीनाम् अन्तरङ्ग-परिकरत्वेन सर्व-शक्तित्वम् इति श्री-कृष्णोपासनाशास्त्राभिप्रायः । हि देवता, न भोक्तृ-पक्षस्येति शारीरक-निर्णयः । श्री-गोपादीनाम् अन्तरङ्ग-परिकरत्वेन सर्व-शक्तित्वम् इति श्री-कृष्णोपासना-शास्त्राभिप्रायः । पूर्ववद् अश्लील-परिहारः, सूर्यादीनां नयनादि-कोटिभिर् युगपद् दर्शनादि-सुखाधिक्य-सातत्य-परिहारस् तु विरुध्यते । ततश् चेयं वा व्याख्या । श्री-मन् नन्द-राज-व्रौकसां तादृशं भाग्यम् एव कौतुत्येन स्तोतुं कादाचित् केनापि तन् माधुरी-मात्र-लाभेन स्वेषाम् अपि भाग्यम् अभिनन्दति, तेन च तादृश-निजाभिलासाम् अपि द्रढयति-एषाम् इति । यद् वैकाद्वितीयानुपमेत्य् अर्थः । तद् एतद्-व्रजे प्रथमानं तद् एतद् इत्य् अर्थः । ते त्व्आङ्घ्र्युदज-मधु हृषीक-चषकैर् निज-निज-चक्षुरादिभिर् एव पान-पात्रैः शक्त्या भक्त्या च, प्राधान्यात् शर्व आदिर् येषां ते दशदिक् पालदेवता वयम् असकृत्-पुनः पुनर् इहागत्य पिबामः । वक्ष्यते च वन्द्यमान-चरणः इत्य्-आदि । कीदृशम्—अमृतासवं परम-स्वादुत्वादिनामृतं परममादकत्वेन चासवं तयोर् द्वन्द्वैक्यं तद् रूपम् ।
यद् वा, एते च ते हृषिक-चषकाश् च तैः, एतच् छश्ब्द-प्रयोगश् चात्यन्त-चमत्कारेण । अमृता मृत्यु-हीना मुक्तास् तेषाम् अपि आसवं मादकम् ॥३३॥ अत्र विश्वनाथः
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : एषाम् इति । एषां व्रजौकसाम् । महिमा महत्त्वम् । शर्वादयो वयम् । बत आश्चर्यम् । भूरि भागाः बहु-भाग्याः । शर्वो रुद्रः । कुतो भूरि-भागाः ? हि यस्मात् । वयम् एकादश साहङ्कारेन्द्रिय-देवताः । ताश् च, दिग्-वातार्क-प्रचेतोऽश्वि-वह्नीन्द्रोपेन्द्र-मित्रकाः । अहङ्कारो रुद्रः । एतद् धृषीक-चषकैः एषाम् इन्द्रियैर् एव पान-पात्रैः । असकृत् सदा अङ्घ्र्य्-उदजं मधु, अङ्घ्रि-कमलं मकरन्द एव अमृतं निर्वृति-हेतुत्वात् । आसवो मद्यम् अवस्थान्तर-जनकत्वात् ॥३३॥ [मु।फ। १८.१३]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एषां त्व् इत्य्-आदि । एषां व्रज-वासिनां भाग्य-महितां किं वर्णयामः ? सा तु दूरत आस्ताम्, वयम् एव भूरि-भागा अतिधन्याः, वयम् इति गौरवेण बहु-वचनम् । कियत्-सङ्ख्यकाः ? तत्राह—एकादशैव तु । कुतः ? एतद् हृषीक-चषकैस् ते तवाङ्घ्र्य्-उदज-मध्व्-अमृतासवम् असकृत् पिबामश् चेत् के ते एकादश शर्वादयः सर्व-प्रधानाः, त्रयोदशानां मध्ये एकादशैवेति निर्धारणं पायूपस्थाधिष्ठात्रोर् अनौचित्याद् वर्जनम् ।
यद् वा, एषां भाग्य-महिता दूराद् आस्तां, यत एषाम् एका मुख्या, अतोऽदशैव दशावस्था तत्र स्थिता एक-रूपा एकैव अदशैव इत्य् एव-कार आवर्तनीयः । अतः सा किं वक्तुं शक्यते ? किन्तु ते प्रसिद्धा वयं भूरि-भागाः । कुतः ? हृषीक-चषकैर् एषाम् अङ्घ्र्य्-अब्ज-मधु पिबामः। कीदृशं ? अमृतासवम् अमृताद् अपि आसवम् असूनाम् इदं हितम् आसवम् । वयं कीदृशाः ? शर्वादयः शर्व आदिर् येषाम् ॥३३॥
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.९९] किं च, एषां माहात्म्यं को नाम वर्णयितुं शक्नुयात् ? वयम् अपि एषां सम्बन्धेनैव परम-भाग्यवन्तो जाता इत्य् आह—एषाम् [भा।पु। १०.१४.३३] इति । एषां नन्द-गोप-व्रजौकसां भाग्यस्य महिता महिमा तावद् आस्ताम्, न को\ऽपि तां वक्तुं शक्नोतीत्य् अर्थः ।
तत्र हेतुः—शर्वः श्री-रुद्रो\ऽहङ्काराधिष्ठाता आदिर् येषां चन्द्रादीनाम् एकादशानां । ते तथा वयम् बहुत्वं चात्मनस् तथा बहु-मानात् । एवं त्रयोदश देवा एव वयं, बत अहो भूरि-भागा यतो वयम् एतेषां व्रजौकसाम् अहङ्कार-बुद्धि-मनश्-चक्षुः-श्रोत्र-त्वग्-रसना-नासा-वाक्-पाणि-पादानां करणानाम् अधिष्ठातारः सन्तः अनुक्षणम् एतेषां हृषीकाणि इन्द्रियाण्य् एव चषकाणि पान-पात्राणि तैः कृत्वा चतुर्दशस्य ते तव अङ्घ्र्य्-उदज-मधु चरणारविन्द-विषयक-मकरन्दं क्रमेण दास्याद् ह्य् अवसाय-सङ्कल्प-रूप-दर्शन-कीर्तन-श्रवणादि-रूप पिबामः ।
कीदृशम् ? परम-माधुर्यादिना अमृतं च, तद् आसवं च । असवः प्राणाः, तन्-मयं, परम-जीवन-स्वरूपम् इत्य् अर्थः । यद् वा, अमृता मृत्यु-हीना मुक्ताः, तेषाम् अपि आसवं परम-मादकम् इत्य् अर्थः । मोक्ष-सुखाद् अप्य् अस्य परमाधिक्याद् इति दिक् ।
एवम् अस्माकं यदा प्रत्येकम् एकेन्द्रिय-वृत्त्या स्व-समर्पणादि-रूप-बहु-भक्ति-प्रकाराणाम् एक-रूपया भक्त्यैव कृतार्थत्वं, तदा सर्वेन्द्रिय-वृत्त्या सर्व-प्रकार-भक्ति-भाजाम् एषां किं वर्ण्यतां भाग्यम् इत्य् अर्थः । एवम् ईदृशस्य मधुनो**\ऽसकृत्** पानम् अन्येषां भक्तानाम् अपीन्द्रिय-द्वारास्माकं कथम् अपि न सम्भवतीति ? सर्वेभ्यो भक्त-गणेभ्यो\ऽपि व्रजौकसाम् उत्कर्षः सुसिद्धः । यद् वा, एकादश इति यथा-श्रुतम् एव व्याख्येयम् । ततश् च यद्यपि श्री-वासुदेवाधिष्ठित-चित्तं विना करणानि त्रयोदश ततश् च तद्-अधिष्ठातारो\ऽपि देवास् त्रयोदश स्युः, तथापि पायूपस्थयोस् तत्-तद्-धृत्या साक्षाद्-भजनासम्भवाद् एकादशेत्य् उक्तम् ।
ननु, न भवतु पुंसाम् उपस्थेन्द्रिय-द्वारा तत्, गोपीनां किल साक्षाद् एव सम्पद्यत इति चेत्, तर्हि धार्ष्ट्य-परिहाराय पूर्ववन् नोक्तम् इति ज्ञेयम् । यद् वा, पादाधिष्ठाता10 विष्णुः श्री-वासुदेवस्य भगवतो\ऽवतारः, तद्-अभिन्न एव । अतस् तस्य पाय्व्-अधिष्ठातृ-मित्रस्य च परिहारेणैवैकादशेत्य् उक्तम् ।
तत्र च यद्यपि सच्-चिद्-आनन्द-विग्रहाणां व्रज-वासिनाम् एते प्राकृता देवा न नूनम् इन्द्रियाधिष्ठातृत्वम् अर्हन्ति, तथापि पुरा श्री-शिवोद्दिष्ट-मतान्तर-पाञ्चभौतिक-देहि-मनुष्यतानुकरणाभिप्रायेण । किं वा, श्री-वैकुण्ठे वर्तमानानां सच्-चिद्-आनन्द-रूपाणां चन्द्र-सूर्यादीनाम् अवतारत्वेनाभेदापेक्षया तथोक्तिः सङ्गच्छते । अथवा सच्-चिद्-आनन्द-विग्रहयोः श्री-शिव-ब्रह्मणोः साहचर्याद् अन्ये\ऽपि सच्-चिद्-आनन्द-विग्रहा एव ते ग्राह्याः । ततश् च श्री-वैकुण्ठ-वासिनाम् अपि तेषां चन्द्र-सूर्यादीनाम् एतद् व्रज-वासि-सम्बन्धेनैव भूरि-भागतेति व्रजौकसाम् एषां महिम-विशेषः सिद्ध एवेति दिक् ॥९९॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो एषां माहात्म्यं को नाम वर्णयितुं शक्नुयात् ? वयम् अपि एषाम् सम्बन्धनैव परम-कृतार्था जाता इत्य् आह—एषाम् इति । तु शब्दः कटाक्षे वाक्यालङ्कारे वा, भाग्यम् अहिता11, पुनः हे अच्युतेति त्वद् भक्तानाम् अपि भाग्य-महिमा सर्वतोऽच्युत एवेति भावः । अङ्घ्र्य्-उदज-मधु श्री-चरणारविन्द-मकरन्दं श्री-भगवद् दास्य-तदीय-वुद्धि-निश्चयाध्यवसाय-सङ्कल्प-रूप-दर्शन-कथा-श्रवणादि-रूपम्, कथम्-भूतम्? परम-माधुर्यादिन्आमृतं च तद् आसवं च, असवः प्राणास् तन् मयं परम-जीवनक्-रूपम् इत्य् अर्थः । यद् वा, अमृता मृत्युहीना मुक्तास् तेषाम् अपि आसवं परम-मादकम् इत्य् अर्थः—मोक्ष-सुखाद् अप्याधिक्येन तद् विस्मारकत्वात्, एवम् ईदृशस्य मधुनोऽसकृत् पान-विशेषाद् अन्येभ्योऽपि भक्तेभ्यो व्रजौकसाम् अधिकं माहात्म्यं दर्शितम् एकादशेति—दिग् वार्ताक-प्रचेतोऽश्वि-वह्नीन्द्रोपेन्द्र-मित्रकाः [भा।पु। २.५.३०] इतीन्द्रियाधिष्ठातारो दश, मनोऽधिष्ठाता चन्द्रश्चैक इत्य् एकादश । वयम् इति वुद्ध्य् अधिष्ठाता ब्रह्मा, शर्वदय इति तद्-गुण-संविज्ञान-बहुब्रीहिणाहङ्काराधिष्ठाता रुद्रश् चेति तत्रयोदशेत्य् अर्थः । अन्यत् तैर् व्याख्यातम् एव ।
यद् वा, पायुपस्थयोर् भक्तौ साक्षाद् उपयोगाभावात् तद् अधिष्ठात्रोमित्र-प्रजातत्योः परित्यागेनैकादश । यद् वा, पुंसां वैष्णव-पुत्रोत्पादनादिना कथञ्चित् प्रजापतेर् उपयोगे सति पादाधिष्ठातोपेन्द्रः श्री-वासुदेवस्य भगवतोऽवतारत्वेन तद् अभिन्न एवेति तद् व्यतिरेकेण एकादशैव सिध्यन्ति । यद्य् अपि सच्-चिद्-आनन्द-विग्रहाणां व्रज-जनानां तेषाम् इन्द्रियाद्य् अधिष्ठातृत्वयोग्याः प्राकृताश् चन्द्रादयो देवा न भवन्ति, किन्तु सच्-चिद्-आनन्द-विग्रहाः श्री-वैकुण्ठवर्तिन एव, तथापि श्री-वैकुण्ठ-वासिनां छाया-रूपत्वेन तैः सहैषाम् एवाभेद-विवक्षया बहिर् दृष्ट्या वा तथोक्तम् । तथा च पद्मोत्तर-खण्डे नित्य-वैकुण्ठ-कथने तत्रत्यदेवानां नित्यत्वम्—
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ।
ते वै प्राकृत-नाकेऽस्मिन्न् अनित्यास्त्रिदशेश्वराः ॥[प।पु। ६]
यद् व, सर्वातिशयिनीं कृष्णस्य विविधां माधुरीम् अनुभूय कादाचित्-केनापि12 तल् लाभेन स्वेषाम् एव भाग्यम् अभिनन्दति-एषाम् इति । तद् व्रजे प्रथमानं तवाङ्ग्र्-उदज-मधु-हृषीक-चषकैः स्व-स्वेन्द्रिय-पान-पात्रैः पिवामः । कथम्-भूतम् ? अमृतासवम् अमृतवन् मधुरम् आसववन् मादकं च वयं निरृति-वर्जिता लोक-पाला नव, चन्द्र-सूर्याव् इति चैकादशेति ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो एषां माहात्म्यं को नाम वर्णयितुं शक्नुयात् वयम् अपि एषां सम्बन्धेनैव परम-कृतार्था जाता इत्य् आह—एषाम् इति । तु शब्दो भिन्नोपक्रमे अङ्ध्र्य्-उदज-मधु श्री-चरणारविन्द-माधुर्यं तत् पानं तु तदीयाभिमानाध्यवसाय-सङ्कल्प-दर्शन-श्ररवणादि-रूपं देवताश् च शर्व-ब्रह्म-चन्द्र-दिग्-वातार्क-प्रचेतोऽश्वि-वह्नीन्द्रोपेन्द्र-मित्रकाः । यद् वा, गुह्योन्द्रयद्वयस्यानुपयोगाद् अश्लीलत्वाच् च तद् अधिष्ठात्रोर् मित्र-प्रजापत्योस् त्यागेनैकादश पादाधिष्ठातोपेन्द्रस् तु तदीय-धारण-शक्त्यावेशावतारो देवता-विशेष एव कश्चित् चित्ताधिष्ठातारं श्री-वासुदेवं विना तेषां सर्वेषाम् अप्य् अकर्तुं क्षमत्वेन तृतीयेऽभिधानात् तस्य तु तत् समीप-गत्य् अनुभव-सुखं श्री-गोपादीनां स्वयं भगवतो नित्याप्राकृत-परिकरत्वाद् एतेषां च प्राकृताधुनिकत्वात् तद् असम्भवेऽपि तन् नित्यावरणस्य देव-गणाभेद-बिवक्षयेद् अनुक्तं तद्-आवेशि-रूपत्वात् तेषां तथा च पाद्मोत्तर-खण्डे—
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः । > ते वै प्राकृतनाकेऽस्मिन्न् अनित्यास् त्रिदशेश्वराः ॥ [प।पु। ६] इति > ।
उभयथापि तस्य च नित्यत्वादित्य् अत्र करण-पक्षस्यैव हि देवता भोक्तृ-पक्षस्येति शारीरक-निर्णयः श्री-गोपादीनाम् अन्तरङ्ग-परिकरत्वेन स्वतः सर्व-शक्तित्वम् इति श्री-कृष्णोपासना-शास्त्राभिप्रायः पूर्ववद् अश्लील-परिहारः सूर्यादीनां नयनादि-कोटिभिर् युगपद् दर्शनादि-सुखाधिक्य-सातत्यपरिहारश् च विरुध्येत् तत इयं वा व्याख्या श्री-मन् नन्द-राज-व्रजौकसां तादृशं भाग्यम् एव कैमुत्येन स्तोतुं कादाचित् केनापि तन् माधुरी-मात्र-लाभेन स्वेषाम् अपि भाग्यम् अभिनन्दति तेन च तादृशानिजाभिलाषम् अपि दृढयति एषाम् इति । एका अद्वितीया अनुपमेत्य् अर्थः । एतत् व्रजे प्रथमानं तद् एतद् इत्य् अर्थः । ते तवाङ्घ्र्य्-उदज-मधु हृषीक-चषकैर् निज-निज-चक्षुर् आदिभिर् एव पान-पात्रैः शक्त्या भक्त्या च प्राधान्याच् छर्व आदिर् येषां ते दश-दिक्-पाल-देवता वयम् असकृत्-पुनः पुनर् इहागत्य पिबामः वक्ष्यते च वन्द्यमान-चरणः पथि वृद्धे इति शक्र-शर्व-परमेष्ठिपुरोमाः [भा।पु। १०.३५.१५] इति च कीदृशम् अमृतासवं परम-स्वादुत्वादिना अमृतं परम-मादकत्वेन चासव तयोर् द्वन्द्वैक्य तद् रूपम् । यद् वा, एते च ते हृषीक-चषकाश् च तैः एतच् छब्द-प्रयोगश् चात्यन्त-चमत्कारेण अमृता मृत्यु-हीना मुक्ताः तेषाम् अपि आसवं मादकम् इत्य् अर्थः ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (कृष्ण-सन्दर्भः १३९): अहो ! अस्तु तावद् एषां नित्यम् एव श्री-कृष्ण-मैत्री-परमानन्दम् अनुभवतां भाग्यं, सम्प्रति अस्माकम् अपि तत् किम् अपि जातम् इत्य् आह—एषां त्व् इति ।
एका अखण्डिता नित्येति यावत् । सा भाग्य-महिमा भाग्य-माहात्म्यम् एषां तावद् आस्तां, सम्प्रति शर्वादयो दश-दिक्-पाल-देवा एव वयं भूरि-भागाः । परम-भक्तत्वात् तेषु मुख्यत्वाच् च शर्वादय इत्य् उक्तम् । भूरि-भागत्वम् एव दर्शयति—हृषीक-चषकैश् चक्षुर्-आदि-लक्षण-पान-पात्रैः कृत्वा, वयम् अपि एतत् साक्षाद् एव यथा स्यात् तथा ते तव अङ्घ्र्य्-उदज-मध्व्-अमृतासवम् असकृत् पुनः पुनर् इहागत्य पिबाम इति । चरण-सौन्दर्यादिकम् एवातिमनोहरत्वात् मध्व्-आदितया त्रिधापि रूपितं समाहार-द्वन्द्वेन । एतद् इति चास्यैव वा विशेषणस्य ।
अत्र "तुष्यतु दुर्जनः" इति न्यायेन श्री-व्रज-वासिनां प्राकृत-देहित्व-मतेऽपि तेषां करणैर् देवता-कर्तृक-भोगो न युज्येत, तस्य च नित्यत्वात् [वे।सू। २.४.१७] इत्य् अत्र श्री-शङ्कराचार्येण च करण-पक्षस्यैव हि देवता न भोक्तृ-पक्षस्य इत्य् आत्मन एव भोक्तृत्व-निर्धारणात् ॥ ३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : एषाम् इत्य्-आदि-पञ्चकम् ॥३३.३७॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अत एषां भाग्यं वर्णनीयं न भवति, तद् दूरेऽस्तु, एषां सम्बन्धाद्वयम् एव धन्या इत्य् आह—एषां त्व् इत्य्-आदि । हे अच्यु ! एषाम् भाग्य-महिमा सौभाग्य-महिमा दूरादास् तान् वयम् एव भूरि-भागा अतिधन्या वयम् इति किम् अहम् एवेत्य् अर्थे बहुव-चनम् । किं वा, अन्ये अदीत्याशङ्कयाह—एकादशैव । कुतः ? तत्राह—एतद् इत्य्-आदि । गृहीतनराकृतीनाम् एषाम् अप्राकृतत्वेऽपि नराकृतित्वादिन्द्रियाधिष्ठातार एवास्मद् आदय एषां हृषीक-चषकैस् तु तव्आङ्घ्र्य्-उदज-मध्वामृतासवं पिबामः । के ते एकादश ? तत्राह-शर्वादीनां त्रयोदशानां मध्ये एकादशैवेति पायूपस्थाधिष्ठात्रोरनौचित्याद् वर्जनम् । यद् वा, हे अच्युत ! एषां भाग्य-महिमा दूराद् आस्ताम्, सा किं वर्णनीया, मित्रीभूत-पूर्ण-ब्रह्मत्वात् । कीदृशी ? एका मुखा आदशा, दशा अवस्था, तद् रहिता एक-रूपा । एवकार उभयत्र योज्यः । किन्तु शर्वादयो वयम् एव भूरि-भागाः । कुतः ? इत्य् अत आह—हृषीक-चषकैर् एषाम् एतद्-अङ्घ्र्य्-उदज-मधु पिबामः । कीदृशम् ? अमृतासवम्—अमृतस्य आ सम्यक् स्वः प्रसवो यस्मात्, सु प्रसवे इत्य् अतः, अत एव रस-कृदानन्द-कृत्ते प्रसिद्धा दश दिग्धीशाः शर्वादयो वयम् इत्य् अन्वयः । अतः पूर्वोक्तेन [३२ श।श्लो] यस्मिन् मित्रं परमानन्दं पूर्णं ब्रह्म इत्य्-आदिना कृतश्लाघानां व्रजौकसां चरण-मधु-पानं त्वच् चरण-मधुपानाद् अप्य् अभीष्टम् इति ध्वनिः ॥३३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किञ्चिभिर् व्रज-वासिभिर् वयम् अपि भूरि-भागा क्रियामहे इत्य् आह—एषां तु भाग्यस्य महिमा तावद् आस्तां वक्तुं शक्नोति । वयम् एकादश एतेषाम् इन्द्रियाधिष्टातारो\ऽपि भूरि-भागाः अत एतेषां हृषीकाणीन्द्रियाण्य् एव चषकाणि पान-पात्राणि तैस् तव अङ्घ्य्-उदजयोश् चरण-कमलयार्-मञ्जीर-रञ्जितयोर् मधु तत्रत्याभिमानाध्यवसाय-सङ्कल्प-शब्द-रूप-रस-गन्ध-कीर्तन-सम्वाहनान्तिक-गत्यात्मकं तद् एव अमृतं स्वादु मादक शर्वादिया रुद्रादय इत्य् अश्लालस्येन्द्रिय-द्वयस्याधिष्ठातृ-देवता-द्वयस्य त्यागात् । चित्ताधिष्ठातुर् वासुदेवस्यापि तद् अभेद-दृष्ट्या त्यागाद् एकादशैव पिवामः, अत्र यद्यप्य् अभिमन्तुरात्मन एव विषय-भोगा न तु तत् कर्तॄणाम् इन्द्रियाधिष्ठाटॄणाम् इत्य् अध्यात्म-सिद्धान्तस् तथापि बुद्धौ ब्रह्मा तिष्ठति चक्षुषि सूर्यस् तिष्ठति । तं तम् अधिष्टातारं विना तत् तद् इन्द्रियं श्री-कृष्ण-निष्ठानाम् अपि रूप-रसादीनां ग्राहकं न स्याद् इति । सामन्य-दृष्ट्या अध्यात्म-विदां प्रावादोऽपि श्री-कृष्णे रत्य्-औत्कण्ठ्यवतां ब्रह्मादीनाम् आनन्द-हेतुः कर्तृत्व-मात्रेणेव भोक्तृत्वाभमान् अस्वीकारात् । तथैव स्वेषा प्राकृतत्वेऽपि प्राकृतत्वेऽपि अप्राकृत-तत् तद् इन्द्रियाधिष्ठातृत्वाभिमानाश् च प्रेम्णाम् एव विलक्षणेयं प्रक्रिया दृश्यते, चान्यत्र पद्यावल्यादौ मिथ्यापवाद-वचसाप्य् अभिमान-सिद्दिः इत्य् आदीति । अन्यथा चिद्-आनन्द-मय-वपुषां श्री-भगवत् परिवाराणाम् इन्द्रियादीनाम् अपि भगवत इव तन्-मयत्वम् एव न तु प्राकृतत्वं सम्भवत् । कुतस् तत्र प्रपञ्च-गतानां ब्रह्मादीनां प्रवेश इति ज्ञेयम् ।
यद् वा, कदाचित् केनापि तन्-माधुरी-लाभेन स्वेषाम् अपि भाग्यम् अभिनन्दति, एषाम् इति । भाग्यम् अहिता एका अद्वितीया अनुपमेत्य् अर्थः । दशवं दशापि वयं दिक्पाल-देवताः भूरि-भागा भवामः कुत इत्य् अत आह—एतद् इति । स्व-तर्जन्या स्व-नेत्र-श्रोत्राणि स्पृशति वत्स-चारणाय व्रजान् निष्क्रान्तस्य तव चरण-सौन्दर्य-सौस्वर्यामृत-नेत्र-श्रोत्रैः पिवाम इति ॥३३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कदाचित्केन भगवन्-माधुरी-लाभेन स्व-भाग्यम् अभिनन्दति एषाम् इति । एषां व्रजौकसां भाग्य-महिमा तावद् आस्तां कस् तां शक्नुयात् वक्तुं यत एका अद्वितीया निरुपमेत्य् अर्थः । दशैव दशापि वयं शर्वादयो दिकपाला भूरि-भागा भवामः कुत इत्य् अत्राह—एतद् इति । तर्जन्या स्व-नेत्र-श्रोत्राणि स्पृशति, एतैः हृषीक-चषकैर् इन्द्रिय-प्राण-पात्रैस् ते अङ्घ्र्य्-उदजयोश् चरण-पद्मयोर् माधुर्य-मधूनि नेत्र-चषकैः शिञ्जित-मधूनि च श्रोत्र-चषकैर् असकृत् पिबामः तानि च स्वादुत्वान् मादकत्वाच् चामृतासव-रूपाणीति शर्वादयो व्रजे तद् दर्शनाय मुहुर् आयान्तीति । युगल-गीते व्यक्तीभावि यत्-तेषां व्रजौकसां हृषीक-चषकैस् तद् अधिष्ठातारो देवा वयं तानि पिबाम इत्य् आहुस् तत्र करणाधिष्ठाॠणां भोक्तृत्वान् अङ्गीकारात् ॥३३॥
॥ १०.१४.३४ ॥
तद् भूरि भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् ।
यज् जीवितं तु निखिलं भगवान् मुकुन्दस्
त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो मया प्रार्थितं, तद् अस्तु मे नाथ स भूरि भागः[भा।पु। १०.१४.२९] इति यत्, तद् एवेत्य् आह—तद् भूरि-भाग्यम् इति । किं तत् ? इह मनुष्य-लोके यत् किम् अपि जन्म, तत्राप्य् अटव्यां यत्, तत्रापि गोकुले यत् । अहो सत्य-लोकं विहायात्र जन्मनि जाते को लाभः ? अत आह—अपि कतमाङ्घ्रि-रजो-ऽभिषेकम् इति । गोकुल-वासिनां मध्येऽपि कतमस्य यस्य कस्याप्य् अङ्घ्रि-रजसाभिषेको यस्मिंस् तत् ।
ननु, कुतो गोकुल-वासिन एव धन्याः ? तत्राह—यद् इति । येषां जीवितं निखिलं भगवान् मुकुन्दः । मुकुन्द-परम् एव जीवनम् इत्य् अर्थः । दुर्लभताम् आह—अद्यापीति । श्रुति-मृग्यं वेदैर् अपि मृग्यत एव न तु दृश्यत इत्य् अर्थः ॥३४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो व्रजवासिन एव धन्या अतः कारणात् । यस्य कस्यापीत्य् अनेनोच्चनीच-भेदो निरस्तः ।
स्त्री राधा पुरुषः कृष्णो विज्ञेयो व्रज-मध्यगः । > न तत्र सर्व-जातेषु विशेषो विद्यते क्वचित् ॥
इति संहितोक्तेः । अत्राशङ्कते—नन्व् इति । तत्र क्षेपे । निखिलं सर्वात्मतया । इत्य् अर्थ इति । अहर्निशं कृष्णकैताना एत इति भावः । इत्य् अर्थ इति । अहो तेषां भाग्यं, ये प्रत्यक्षं पश्यन्तीति भावः । तस्माज् जगद् ऐश्वर्याय प्राप्ताय, प्राप्त-व्याय मोक्षाय च मया जलाञ्जलिर्-दत्तः । केन प्रकारेणैषां व्रजवासिनां चरण-धूलयो लभ्यन्त इति विभाव्य सनिश्चयम् आह—तद् एव मे भूरि-भाग्यं भवत्व् इति शेषः । यदि श्रीमत् कृपाकटाक्षा उदारा भवन्तीति भावः । किं तत् । इहाटव्यां वृन्दावने यत् किम् अपि कोमल-तृण-दूर्वादि-जन्म, यद् उपरि त्वत् प्रिय-सखादि-व्रजवासि-जन-चरण-विन्यास-सौभाग्यं सम्भवेत् ।
नन्व् अस्मिन्न् अतिदुर्लभे लोभं विहाय स्व-योग्यमन्यत्-प्रार्थयस्वेति चेत् तर्हि गोकुलेऽपि त्वन्नगर-प्रान्तादाव् अपि कतमस्य त्वदीय-शौचिककालारुहद्द्विपाद्येकतरस्य्आङ्घ्रि-रजसोऽभिषेको यत्र तथा-भूतं शिलापीठं पट्टिकादि-जन्म भवतु । नन्व् एषा व्रजवासिनाम् एतावन् माहात्म्ये को हेतुः, कथ वा जगत् पूज्यस्य जगत् त्रष्टुः परमेष्ठिनस् तवैषां नीच-जातीनां पाद-धूलि-लिप्सायां नास्ति लज्जेति तत्राह-येषां जीवितं भगवान् भगः श्री-काम-माहात्म्य इत्य् अमर-नानार्थवर्गात् । सौन्दर्य-सौस्वर्यादि-गुण-विशिष्टो भवान् । मुकुन्द-मुखे कुन्दवद् धास्यं यस्य स इति । त्वत्-सौन्दर्य-मन्द-हसिताद्येवैकजीवनोपायः, तेन विना सद्य एवामी म्रियन्त इति भावः निखिलम् इति । किञ्चिद् अपि जीवितं न भोजनादि-हेतुकम् इत्य् अर्थः । अतोऽद्यापि येषां पाद-रजः श्रुतिभिर् मृग्यत एव न तु प्रायः प्राप्यत इत्य् अतोऽहं ब्रह्मापि किं वेदेभ्योधिको यतः एतत् प्रार्थने मम लज्जा स्याद् इति भावः । अतो मया तद् अस्तु मे नाथ [भा।पु। १०.१४.३०] इति यत्-पूर्वं प्रार्थितं तत् स्वस्य वेध-भक्तिमत्वे एव । यदि व्रज-जनानुगतिमत्त्वेन मां रागानुगामृताम्भोधौ निमज्जयति तद् एवं प्रार्थितम् ॥३४॥ अत्र तोषिणी
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : तद् इति । इहाटव्यां यत् किम् अपि तर्व्-आदि-रूपेण जन्म तद् भूरि-भाग्यम् । किं-भूतं ? यत् कतमस्य किं-जातीयस्य कस्यापि गोकुल-वासिनः । अङ्घ्रि-रजसोऽभिषेको यस्मिन् तर्व्-आदि-जन्मनि । किं-भूतः कतमः ? यस्य जीवितं मुकुन्दः । जीवितवन् मुकुन्दो यस्य प्रियतमः इत्य् अर्थः । किं-भूतो मुकुन्दः ? यस्य पाद-रजः श्रुतिभिर् वेदैर् मृग्यम् एव । अत्रैव-शब्दो हि सन्दिग्धार्थ-वाचि एव शब्दान् न तु कदा मृगितम् इत्य् अर्थः ॥३४॥ [मु।फ। १८.१४]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यत् सम्पर्काद् वयम् अपि धन्याः, तत्-स्वरूपा तु परम-प्रेयसीत्य् आह—तद् भूरि-भाग्यम् इत्य्-आदि । इह नृ-लोके तत्राप्य् अटव्यां वृन्दावने, तत्रापि गोकुले नन्द-व्रजे अपि कतमस्य यस्य कस्याप्य् अङ्घ्रि-रजसाम् अभिषेको यत्र । नृ-लोके इति नृ-जन्मा वा, अटव्याम् इति तर्व्-आदि-जन्म वा, गोकुल इति गवादि-जन्म वा । यद् येषां तु भगवान् मुकुन्दस् त्वं निखिलं जाति-कुल-शीलादि-जीवितं प्राणा यस्य मुकुन्दस्य तव पाद-रजस् तु अद्यापि श्रुति-मृग्यम् एव, न तु तासां लभ्यम् । मुक् मुक्तिस् ताम् उन्दति क्लेदयति भक्तान् प्रति मुकिं विक्लेदयतीत्य् अर्थः । पृषोदरादित्वात् न्यङ्-क्वादित्वाद् वा चस्य कः ॥३४॥
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१००] अतो मया यत् प्रार्थितम्—तद् अस्तु मे नाथ स भूरि-भागः [भा।पु। १०.१४.३०] इति तद् एतद् एवेत्य् आह—तद् भूरि-भाग्यम् [भा।पु। १०.१४.३४] इति । तद् एव मम प्राक् प्रार्थितं परम-भाग्य-सर्वस्वम् इत्य् अर्थः । किं तत् ? इह मनुष्य-लोके यत् किम् अपि तृणादि-रूपेण परम-निकृष्टम् अपि जन्म, तत्र च अटव्यां यत् तत्रापि गोकुले यत् अत्र च तद् अस्तु मे नाथ स भूरि-भागः [भा।पु। १०.१४.३०]13 इत्य् अनेन भगवज्-जन-सम्बन्धीयः को\ऽपि भूत्वा त्वत्-पाद-पल्लवं नितरां सेव इति यद् उक्तं, तत्र मुक्तो ब्रह्म-पदाद्य्-अधिकृतो वा भूत्वा निषेव इत्य् आशङ्कापि स्यात् तन्-निराकरणार्थं पद-चतुष्टयं प्रयुक्तम् इति ज्ञेयम् ।
तत्र जन्मेति मुक्तेः इहेति निज-लोकादेः अटव्याम् इति पुर-ग्रामादि-सम्पदां गोकुल इति तपस्याद्य्-अर्थं तपो-वनादीनाम् । यतः अहो सत्य-लोकं विहायात्र जन्मनि सति को नाम लाभ-विशेषः, तत्राह—गोकुल-वासिनां मध्ये\ऽपि कतमस्य यस्य कस्यापि अङ्घ्रि-रजसा अभिषेको यस्मिन् तत् । यद् वा, अपीति सम्भावनायाम्, अर्थात् प्राप्नुयाम् इति शेषः । गोकुले वर्तमानस्य कतमस्य कस्यचिद् अपि रजोऽभिषेकम् अपि प्राप्नुयाम् अहम् इत्य् अर्थः । यद् वा, अभिषेचयति परम-तीर्थ-रूपत्वात् सर्वेष्व् एव तीर्थेषु स्नानां कारयतीति । यद् वा, निखिल-पदेषु यथेच्छम् अधिकारित्वेनाभिषेकं करोतीति । तथा तत् कतमाङ्घ्रि-रजो भवति ।
ननु, गोकुल-वासिनां पाद-रजः-स्पर्शि-तृणादि-जन्म प्रार्थ्यते न कथं तेषाम् इव जन्मेत्य् अत्राह—यज् जीवितं त्व् इति । मादृशां सर्व-ज्ञान-प्रदाभिः प्रथमम् आविर्भूताभिः श्रुतिभिर् यस्य पाद-रजो-मात्रम् एकम् अद्यापि स्व-जन्म-कालम् आरभ्याद्य-पर्यन्तम् अपि । यद् वा, इदानीं त्वद्-ईदृश-परम-प्राकट्ये वर्तमाने\ऽपि मृग्यत एव, न तु प्राप्यते दृश्यते वा, विचित्राभिमानित्वात् । तथा प्रायः प्रवृत्ति-मार्गे मोक्ष-साधनादौ च लोक-प्रवर्तनाच् च। स एव त्वं विशेषतो\ऽधुना भगवान् निजाशेष-परमैश्वर्य-सौन्दर्य-माधुर्य-कारुण्याद् विगुण-महिम-भर-प्रकटन-परः । अत एव मुकुन्दः परम-प्रेम-सुख-दायको येषां निखिलं जीवितम् ।
अयं भावः—एषां जीवितस्य कालः को\ऽपि व्यापारो वा बाह्यः, आन्तरो\ऽपि न स विद्यते । यत्र यथोक्त-स्वरूपः समत्वम् अन्तर् बहिश् च निरन्तरं परम-वश्य इव न वर्तसे । अतः श्रुतिभ्यो\ऽर्वाचीनस्य तच् छिष्यतां गतस्य मे तन्-मनोरथागम्य-परम-दुर्लभ-पदार्थ-प्रार्थना नोपयुक्तैव । प्रत्युत महा-रोग-ग्रस्त-परम-कृपण-दरिद्रतरस्य साम्राज्याभीप्सेव लोके परमोपहासास्पदत्वाल् लज्जा-करी भय-प्रदा चेति न तत् प्रार्थितम् इति दिक् ॥१००॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-नन्द-व्रज-जन-सदृश-भक्तीच्छया तत्-पाद-पल्लव-निषेवेच्छया वा तत्-प्रतिकूल-मुक्त्यादिपञ्चकम् इहेत्य्-आदि-पदपञ्चकेन निरस्तम्—तत्र जन्मेति मुक्तिः, इहेति स्वर्गादि, किम् अपीति ब्राह्मणादि, अटव्याम् इति पुर-ग्रामादि, गोकुल इति तपोवनादि, किम् अपीति क्षुद्रतर-तृणत्वम् अभिप्रेतम्, तत्रैव्आङ्घ्रि-रजसः सम्यग् अभिषेक-सिद्धेर् अभिषेक-शब्देन शिर आरभ्य सर्वाङ्ग-स्नपनम् अभिप्रेतम्, महा-लोभात् सर्वाङ्ग-साफल्यापेक्षया वा । यद् व, रजसैकेनाप्य् अभिषेकम्, ततश् च रजसः सर्व-तीर्थमयत्वं सर्व-पद-स्थापकत्वं च ध्वन्यते । यस्य पद-रजः श्रुतिभिर् अप्य् अद्यापि त्वयि साक्षाद् अत्रावतीर्णेऽपि मृग्यते एव न तु प्राप्य इत्य् अर्थः, यतो भगवत् प्राप्त्य् अर्थम् एव ब्रह्म पुच्छं प्रतिष्ठा [तै। २.५.१] इति श्रुतेः, तद् विष्णोः परमं पदम् [क।उ। १.३.९] इति भगवत्-पदत्वेनैव ब्रह्म प्रशस्यते, ज्ञान-कर्मादिकं च प्रबोध्यते, अन्यथा प्राप्तौ सत्यां साध्य-सिद्ध्या साधन-त्याग-न्यायेन तत्-प्रशंसा-ज्ञानादि-बोधनानुपपत्तिः । स मुकुन्दः-मादृश-दुर्लभ-भक्ति-दाता14 विशेषतश् च भगवान् निजाखिलैश्वर्य-प्रकटनपरः । यस्य गोकुलस्य सर्वेषाम् अपि तत्रत्यानाम् इत्य् अर्थः, निखिलं जीवितम्-क्षणम् अपि त्वां विना यैन् न जीव्यत इत्य् अर्थः, इति परम-प्रेम-विशेष उक्तः । अन्यत् तैर् व्याख्यातम् एव । यद् व,
ननु, गोकुल-वासिनां कस्यापि पाद-रजः-स्पर्शि किम् अपि जन्म प्रार्थ्यते, न कथं साक्षाद्-गोपादि ? तत्राह-यज् जीवितम् इति । अर्थः स एव । परम-प्राचीन-मादृश-सर्व-ज्ञान-प्रद-श्रुतिर् दुर्लभस्य त्वत्-पाद-रजसोऽपि15 प्रार्थना मेऽनुपयुक्ता, कुतस् तु प्रेम-भरवशीकृत-त्वत्-पादाब्जज16-श्री-गोपादि-जन्म-प्रार्थनेति भावः ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव तेषां महामाहात्म्यम् अनुवदन् जात-दैन्यस् त्वज् जनान्तः पातितया त्वच् चरण-संवेच्छाम् अपि धार्ष्टेनैवाकरवम् इति व्यञ्जयन् यत्किञ्चित् तज् जन-चरण-रज एव बहुमन्यमानः प्रार्थयते—तद् इति । तत्-प्रतिकूल मुक्त्यादि-पञ्चकम् इहेत्य्-आदि-पद-पञ्चकेन निरस्तम्, तत्र जन्मेति मुक्तिः, इह मथुरा-मण्डल इति वैकुण्ठादिकम पीति सारूप्यादि अटव्याम् इति, मथुरादि गोकुल इति मधुवनादि तत्रापि किम् अपि दुर्वादि-मृद्-तृणत्वम् इत्य् अभिप्रायः तत्रैव्आघि-रजोभिः सम्यग्-अभिषेक-सिद्ध तच्-चरण-सेवायाम् अन्तरीणाभिलाषाच् च अभिषेक इति सर्वाङ्ग-साफल्य-लोभाद् उक्तम् । अन्यत् तैः ।
यद् वा, ननु कथं साक्षाद् गोपादि-जन्मैव न प्रार्थ्यतां तत्राह—यद् इति । यस्य गोकुलस्य तद्-वासि-मात्रस्य निखिलं जीवितं भगवान् मुकुन्द एव तत्र यः स्वयम्-भगवान् परात्परत्वात् साधयितुम् अशक्य इत्य् अर्थः । साधितो\ऽपि यो मुकुन्दः प्रायशो मुक्तिम् एव दाता न तु भक्ति-योग-मात्रम् अपि तम् एतं विना मज् जनः क्षणम् अपि न जीवितुं शक्नोतीत्य् अर्थः । इति परम-प्रेम-विशेषवत्त्वम् उक्तम् आस्तां तावद् अन्यैर्-दुःसाध्यत्वं दुर्लभ-प्रेमवत्त्वं च यस्य पाद-रजः-श्रुतिभिर् अद्यापि त्वयि साक्षाद् अत्रावतीर्णे\ऽपि एव कतमं रजः कियन्-महिमेति ज्ञातुम् इष्यत एव, न तु तद् अन्यः प्राप्यत इत्य् अर्थः । यतो वाचः इत्य्-आदि-श्रुतेः, अतः परम-प्राचीन-मादृश-सर्व-ज्ञानप्रद-श्रुति-दुर्लभ-ज्ञाने-त्वत्-पाद-रजस्यपि प्रार्थना मेनुपयुक्ता, कुतः पुनः प्रेमभर-वशीकृतत्वत्-पादाब्जक-श्री-गोपादि-जन्म-प्रार्थनेति भावः । एवम् अहो\ऽतिधन्या इत्य्-आरभ्य श्री-व्रज-वासि-भेदानां यथा-पूर्वं माहात्म्य-कैमुत्यं दर्शयित्वा श्री-व्रजेश्वरयोस् तु तद् अतीत-बोधितं साक्षात् तत् प्रभावश् च तौ प्रशंसितुम् अपि को\ऽहम् वराक इति विवक्षया सखायस् तु स्वापराधज-भय-लज्जाभ्यां न प्रस्तुता एव अतश् च तद् आच्छादनाय लब्ध्वानन्द-विशेषास् तन्-मातर एव प्रथमत उपन्यस्ता इति ज्ञेयम् ॥ ३४ ॥
———————————————————————————————————————
जीव-गोस्वामी (कृष्ण-सन्दर्भः (१४०): अतः पूर्वम् अपि तद् अस्तु मे नाथ स भूरि भागः [भा।पु। १०.१४.३०] इत्य्-आदि यत् प्रार्थितं तद् एतद् एवेत्य् आह — तद् भूरीति । अनेन श्री-गोकुल-जन्म-लाभाद् एव तव पाद-निषेवा-लक्षणो याचितो भूरि-भागः सदैव सेत्स्यतीति सूचितम् ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (सर्व-संवादिनी) : तत्रावतीर्णः श्री-भगवान् तत्र इह श्री-मथुरा-मण्डले । तत्रापि अटव्यां श्री-वृन्दावने तत्रापि श्री-गोकुले । कथम्-भूतं जन्म ? गोकुल-वासिनां मध्ये अपि कतमस्य यस्य कस्याप्य् अङ्घ्रि-रजसाभिषेको यस्मिन् तत् ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतो भगवन् ! अनेन शरीरेणासकृद् एषां चरण-मधुपानं स्वाच्छन्द्येन न सम्भवति, विनात्रैव लब्धेन जन्मान्तरेण तेन तथा कृपा कार्या, यथात्र यत् किञ्चिद् अपि जन्म भवतीत्य्-आदि । तद् भुरि भाग्यम् इत्य्-आदि, तत्-तस्माद् अटव्यां श्री-वृन्दावने व्रजे वा किम् अपि जन्म भूरि-भाग्यम् अस्तु, मे इति शेषः । किम् अपीति यत् किञ्चिद् अपि जन्म तद् एव भूरि-भाग्यम् । कुतः ? इत्य् आह—यद् इति । यज् जन्म गोकुले व्रजेऽपि कतमस्य यस्य कस्यचिज् जनस्य्आङ्घ्रि-रजसाम् अभिषेको यत्र गोकुल-वासिनां यस्य कस्यापि पद-धूलि-सेको यत्रेति सापेक्ष-समासः, तेषां पाद-रहोऽभिषेकः कथम् एव तवाभिलषणीयः ? इत्य् आशङ्क्याह—यद् इति । यद् येषां भगवान् मुकुन्दस् त्वं जीवितं प्राणा निखिलं जाति-धनादि सर्वम् अपरं च ।
ननु, मुकुन्द एवाहम् । किम् एवं दुर्लभः ? अथ किम् । दुर्लभातिदुर्लभ एवेत्य् आह—अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव । यस्य तव भगवतो मुकुन्दस्य पद-रजः श्रुतिभिर् मृग्यत एव, न तु लभ्यते ॥३४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माज् जद् ऐश्वर्याय प्राप्ताय प्राप्तव्याय माक्षाय च मया जलाञ्जलिर् दत्तः केन प्रकारेणैषां व्रजवासिनां चरण-धूलयो लभ्यन्त इति विभाव्य सनिश्चयम् आह—तद् एव मे भूरि-भाग्यं भवत्विति शेषः । यदि श्रीमत् कृपाकटाक्षा उदारा भवन्तीति भावः किन्तत् इह अटया वृन्दावने यत् किम् अपि कोमल-तृण-दूर्वाद-जन्म यद् उपरि त्वत् प्रिय-सखादि-व्रजवासि-जन-चरण-विन्यास-सौभाग्यं सम्भवेत् ।
नन्व् अस्मिन्न् अतिदुर्लभे लोभं विहाय स्व-योग्यम् अन्यत् प्रार्थयस्वेति चेत् तर्हि गोकुलेऽपि त्वन् नगर-प्रान्तादाव् अपि कतमस्य त्वदीय-सौचिककाल्हडि-पाद्येकतरस्याप्य् अङ्घ्रि-रजसोऽभिषेको यत्र तथा-भूतं शिला-पीठ-पट्टकादि-जन्म भवतु,
नन्व् एषां व्रज-वासिनाम् एतावन् माहात्म्यवत्त्वे को हेतुः कथं वा जगत् पूज्यस्य जगत् स्रस्टृः परमेष्ठिनस् तवैषां नीच-जातीनां पाद-धूलि-लिप्सायां नास्ति लज्जेति तत्राह, येषां जीवितं भगवान् भगं श्री-काम-माहात्म्येत्य् अमर-नानार्थ-वर्गात् सौन्दर्य-सौस्वर्यादि-गुण-विशिष्टो भगवान् मुकुन्दः मुखे कुन्दवद्धास्य यस्य सः इति त्वत् सौन्दर्यादि-मन्द-हसिताद्य् एव जीवनोपायः तेन विना सद्य एवामी म्रियन्ते, इत्य् एतेषाम् असाधारणस् त्वयि महा-प्रेमैव सर्वोत्कर्षे हेतुर् इति भावः । निखिलम् इति किञ्चिद् अपि जीवितन् न भोजन-पानादि-हेतुकम् इत्य् अर्थः, अतोऽद्यापि येषां पद-रजः श्रुतिभिर् मृग्यते एव न तु प्रायः प्राप्यत इत्य् अतोऽहं ब्रह्मापि किं वेदेभ्योऽप्य् अधिको यत एतत् प्रार्थने मम लज्जा स्याद् इति भावः । अतो मया, तद् अस्तु मे नाथेति [भा।पु। १०.१४.३०] यत् पूर्वं प्रार्थितन्तत् स्वस्य वैध-भक्तिमत्त्वे एव यदि व्रज-जनानुगतिमत्त्वेन मां रागानुगामृताम्भोधौ निमज्जयति तद् एवं प्रार्थतम् ॥३४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ वृन्दाटवी-दर्शन-महिम्ना रुचित-भक्तिवर्त्मनि स-तृष्णः प्रार्थयते तद् दूरीति । प्रभुर् उदारश् चेत् कृपा-कटाक्षस् तर्हि मे तद् एव भूरि-भाग्यं भूयाद् इति-शेषः । किं तत् । इह वृन्दाटव्यां यत्-किम् अपि पूर्वादि-जन्म यत्र ते स-मित्र-गणस्य पाद-संस्कारः स्याद् इति भावः । एतच् चेन्-नाभिमतं तर्हि गोकुले त्व् अन्नगर-प्रान्तेऽपि किम् अपि शिलापट्टिकात्मकं जन्मास् तु, कीदृशं तत् ? कतमस्य यस्य कस्यापि तद्-वासिनः अङ्घ्रि-रजसाभिषेको यस्मिंस् तत्
ननु, तद्-वासिनां कुतोऽयं महिमा कथं वा जगत्-पूज्यस्य जगत्-पतेस् तव तत्-पाद-रज-स्पृहायां न त्रपेति चेत् तत्राह—मुखे कुन्दवत् हासो यस्य सोऽति-मधुर-मूर्तिर्-भगवान् स्वयं प्रभुर् येषां निखिलं जीवितं तद् एक-जीवनत्वात् तादृश-महिमानस् ते इत्य् अर्थः । येषां पाद-रजोऽद्यापि श्रुतिभिर् मृग्यते न तु लभ्यतेऽतो मे तत्-स्पृहायां का त्रपेति भावः । श्रुति-धारणाद् एव मे जगत्-पूज्यतादीति ॥३४॥
॥ १०.१४.३५ ॥
एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश्
चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति ।
सद्-वेषाद् अपि पूतनापि सकुला त्वाम् एव देवापिता
यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च किं वर्ण्यते कृतार्थत्वम् एतेषां, येषां भक्त्या भवान् अपि ऋणीवास्ते ? ननु, किं दातुम् असमर्थोऽहं येन ऋणी स्यां ? अत आह । उत अपि भवान् अपि एषां कुत्रापि किं विश्व-फलात् सर्व-फलात्मकात् त्वत्तः परं फलं राता दास्यतीति नश् चेतः अयत् सर्वत्र गच्छद्भिर् अयत् मुह्यति ।
ननु, माम् एव दत्त्वानृणः स्यां ? इति चेत्, नहि नहि । सद्-वेषाद् इव सतां भक्तानां यो वेषस् तद्-अनुकरण-मात्रेण पापिष्ठा पूतनापि त्वाम् एवापिता प्रापिता । तर्हि एतत् महद्-रूपं फलम् एतत्-सम्बन्धिनाम् अपि नन्दादीनाम् अपीत्य् अर्थः । मां दास्यामीति चेत् तत्रःअ—सकुलेति । बकाघासुर-सहिता एषाम् अपि तावद् एव चेद् अपर्याप्तम् इत्य् आह—यद् इति । येषां धामाद् अयस् त्वत्-कृते त्वद्-अर्थम् एवेत्य् अर्थः ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् अपि तेषाम् अलौकिक-महत्त्वम् आह—अपि चेति । अत्राशङ्कते नन्व् इति । एषां व्रज-वासिनाम् । कुत्रापि कस्मिन् स्थाने ? सर्व-फलात्मकात् सर्वाभ्युदय-स्वरूपात् । त्वत्तो भवतः । परम् अन्यत् । किं फलम् इत्य् अन्वयः । मुह्यति आकुलीभवति । माम् आत्मानम् । नहि नहीति द्विर्-उक्त्यासर्वथानृण्याभाव उक्तः । यदि पूतनैकाकिनी मुक्ता तर्हीति । तत्राक्षेपे । बकाघ-भ्रातृ-सहिता सापि सकुलैव कुलं समूहे देहे च वंश-सम्बन्धिनोर् अपीति धरणिः । एषां व्रज-वासिनाम् । तावद् एव पूतनातुल्यम् एव ददासि चेत् तर्हि अपर्याप्तं न्यूनम् एव तत् । येषां व्रज-वासिनाम् । धाम गृहम् । अर्थो वसु । सुहृदः सम्बन्धिनः । प्रिया भार्या । आत्मा देहः । आशयोऽन्तः-करणम् । त्वद् इति षष्ठ्य्-अर्थे तव । कृते इति विभक्ति-प्रति-ऋउपकम् अव्ययं तादर्थ्ये । इत्य् अर्थ इति—न हि सर्वात्म-भावेन सर्व-समर्पिणां परम-भक्तानां मारणार्थम् आगत-पाप-पूतनया साम्यम् उचितम् इति भावः ।
ननु भवद् विधायापि यद्य् एवं चरण रज एव परम-फलत्वेन दास्ये, किञ् च पूर्व भवता त्वां लब्धुम् एव त्वां स्तौमीति प्रतिज्ञातम् अधुना पुनर् एतच् चरण-रज एव प्रार्थ्यते, भद्रेयं निष्ठा भवद्-विधानाम् इति सनर्म-प्रश्नम् आशङ्क्य तथैवाह । एषां पूर्वोक्त-माहात्म्यानाम् । उत प्रश्ने । विश्व-फलाद् अपीत्य् अपि-शब्दान्वयः । ततश् चास्याः श्री-व्रज-भूमेर्-ऊर्द्ध्वं तव स्थान नास्ति एतत्-स्वरूपाद् ऊर्ध्वञ् च फलं नास्तीति, कुत्र च दातेत्य् अर्थः । अयद् इति नञ्-पूर्वम्-इण्-धातो रूपम् । त्वत्तः परं फलं कुत्राप्य् अजानद् इत्य् अर्थः । मुह्यतीति । निश्चयाशक्तेः । सत्यं मद्-भाव-युक्तानां व्रज-वासि-विशेषाणां धात्री जनानां वेशात् लेभे गतिं धात्र्युचितां ततोन्याम् [भा।पु। ३.२.२३] इति तृतीयोक्तेः । इति हिंसामय-दम्भेनैव न तु भक्त्येत्य् अर्थः । अतः समान-फलत्वं कथं स्याद् इति भावः । पूतनापि अन्यस्य का वार्तेत्य् अर्थः । अपि-शब्दोऽयं यथायोगम् अन्यत्रापि योज्यः । सकुलेति । प्राक्तनाधुनिक-तत्-कुलोत्पन्न-सहिता गोकुल-प्रति-कक्षत्वेन निर्देशात् । बकाघयोस् तु स्वतन्त्र एव तत्-स्पर्शोस्त्यन्येष्विव त्वाम् एवेति । पूतनायाः साक्षात् अन्येषां तु भगवद् द्वेषिणां पूतनानुवर्तित्वेनैव । बकाघयोस् तु विरोधि-वेशान् मुक्ति-मात्रम् इति ज्ञेयम् । आपिता त्वयैवेति शेषः । सुहृनिरुपाधि-हितकारी, प्रियः तादृश-प्रीति-विषयः । त्वत्-कृत इति । प्रत्येकं स्वाभाविकम् एव तेषां तद् एकार्थत्वं, तव पुनस् तत्-तद्-भेदेनानेक-प्रिय-जनार्थत्वम् इत्य् अर्थः । तद् एवं ते पूर्णा एव । श्री-भगवच्-चरणास् तु प्रत्य्-उपकारासामर्थनापूर्णा इवातस् तेभ्यः किम् इव दास्यन्त्यतोऽहम् अपि भवताम् ऋणित्वेन पारवश्यम् आशङ्कय तादृश-निजाभिलाष-सिद्धये तच्-चरण-रजश् शरण एव भवितुं युक्त इति भावः । तद् एवम् अपि श्री-कृष्ण-तद्-वासिनोख्यभिचारत्वम् एव व्यञ्जितम् । तथा पूर्व-पक्षतयैवायं परम-सिद्धान्तः सूचितः । तादृशत्वद् वशीकारमय-प्रेम्ण एव परम-फलत्वात् ॥३५॥ अत्र विश्वनाथः
हेमाद्रि (कैवल्य-दीपिका-टीका) : एषाम् इति । उत अहो । देव घोषे गोकुले । किं फलम् एतद् दास्यत्य् अस्मिन्न् अर्थे, अस्माकं चेतो मुह्यति । यतो विश्वस्य फल-भूतात् त्वद् भवतः सकाशाद् अपरं फलम् अयत् न गत्य्-अर्थानां धातूनां ज्ञानार्थत्वाद् अजानद् इत्य् अर्थः । इनः शतरि रूपम् । “आत्मानम् एव दास्यामि” इति चेत्, तत्राह—सद् इति । सतः प्रशस्तात् सम्पूर्णाद् द्वेषात् विरोधाद् इति यावत् । एव-शब्दोऽप्य् अर्थे । पूतना त्वाम् एवापिता प्राप्ता, अपिः चुरादौ । भादौ पठ्यमानो हि सेट् । किम् एकाकिन्य् एव प्राप्ता ? नेत्य् आह—अपि सकुला इति । कुलं बकोऽघासुरश् च येषां घोष-निवासिनाम् । धामाद्यास् त्वत्-कृते त्वद्-अर्थम् । धाम गृहम् । अर्थः पश्व्-आदि । ततः सुहृत्, पितानेन माताप्य् उपलक्षिता । आत्मा जीवः । प्राणा इन्द्रियाणि प्रानन्तीति व्युत्पत्त्या । आशया अन्तःकरणानि । य एवात्मा द्विषद्भ्यो दीयते स एवानुरक्तेभ्यो दीयते इत्य् अनुचितम् इत्य् अर्थः ॥३५॥ [मु।फ। १८.१५]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद् एषां प्रेम-भक्तानां भवान् ऋणीव कथम् अपि प्रत्युपकारः कर्तुं शक्यत एवेत्य् आह—एषाम् इत्य्-आदि । स्वामि-पादानां व्याख्यैव शरणीकार्या ॥३५॥
सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१०१] अपि च किं वर्ण्यते कृतार्थत्वम् एषां येषां भक्ति-विशेषेण भवान् अपि महाऋणीवास्ते
ननु, किं दातुम् असमर्थोऽहं येन, तादृशः स्याम् ? अत आह—एषाम् [भा।पु। १०.१४.३५] इति । उत अपि । भवान् अपि एषां कुत्रापि किं विश्व-फलात् सर्व-फलार्थकात् त्वत्तः अपरम् अन्यत् फलं राता दास्यतीति, नोऽस्माकं चेतः अयत् सर्वत्र गच्छत् विचारयन् मुह्यति । यद् वा, कुत्र किम् अपरं दाता इत्य् अप्य् अयत् लयं प्राप्नुवत् मुह्यति विचारेण तद्-आनृण्य-कृद्-द्रव्याप्राप्तेः ।
ननु, माम् एव दत्त्वानृणः स्याम् ? इति चेन् नहि नहीत्य् आह—सद्-वेशाद् इव सतां भक्तानां यो वेशः तद्-अनुकरण-मात्रेण बाल-घातादि-रता पूतना अपि त्वाम् एवापिता प्रापिता । तर्ह्य् एतत्-सम्बन्धिनाम् अपि दास्यामीति चेत्, तत्राह—सकुला इति बकाद्य्-असुर-सहिता यद्यपि बकाद्य्-असुरयोः श्री-भगवत्-स्पर्श-लाभादिकम् एव तत्-प्राप्तौ व्यक्तं महत् कारणं तथापि पूतना-सम्बन्धेनैव तद् अपि सिद्धम् इत्य् ऊह्यम् ।
एषाम् अपि तावद् एव चेत्, तर्हि अत्यन्तम् अपर्याप्तम् इत्य् आह—यद् इति । येषां धामादयस् त्वत्-कृते त्वद्-अर्थम् एवेत्य् अर्थः । यद् वा, त्वत्-कृते त्वत्-कर्मणि भक्ति-लक्षणे विषये यद्-धामादयोऽपि वर्तन्त इत्य् अर्थः । तत्र यथा-योग्यं धामादीनां भगवद्-भक्ति-परतोक्ता । अयम् अर्थः—द्वेष्ट्र्भ्योऽपि त्वयात्मैव दत्तः । भक्तेभ्योऽपि तथैव चेत्, तर्हि सर्वतोऽधिकतया सर्वत्र प्रशस्यमानया भक्त्या किं कृतम् विशेषतश्य व्रज-वासिनाम् एषां भक्ति-विशेषस्यापर्याप्तिर् एव स्यात् ॥३५॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुह्यतीति निश्चयाशक्तेः । यद् वा, ऋण्-इत्वेनैषां वश्यतया मादृशान् विहायात्रैव स्थास्यतीति शोक-दुःखाद्य्-अतिशयेन मोहं प्राप्नोति । स-कुला बकाघासुर-सहितेति तयोर् भगवत्-प्राप्ति-हेतु-तत्-स्पर्शादि-प्राप्तौ तत्-सम्बन्ध एव हेतुर् इति ज्ञेयम् । अन्यत् तैर् व्याख्यातम् । विश्व-फलाद् अपीत्य् अपि-शब्दान्वयः । कुत्रेति श्री-माथुर-व्रज-भूमाव् एव स्वतो जन्मादि-सिद्धेः । यद् वा, कुत्रापीत्य् अस्य यथा-स्थितम् एवान्वयः । (अयद् इतीन् गतौ सत्रन्त्रः ।) गत्य्-अर्थाद् इण्-धातोर् ज्ञानार्थत्वात् कथञ्चित् कदाचिद् अप्य् अजानद् इत्य् अर्थः । सद्-द्वेषात् सतां द्वेषात् मारणोद्यमाद् अपि स-कुलापि बाल-घातनादि-महा-दुष्टत्वेन प्रसिद्धा पूतनापि त्वाम् आपिता त्वयैव प्रापण-कारणं स्तन्य-दानादिकं पूर्वं निर्दिष्टम् एवास्ति । इवेति सुख-विशेष-प्राप्त्या तत्त्वतः साक्षाद्-भगवद्-अप्राप्तेः । आपितेति च तत्-सुखेन सह भगवद्-अभेदात् तद्-अवाप्त्या भगवद्-आप्त्य्-अभिप्रायेण । एते च त्वन्-मित्राणीत्य् उक्तम् एव । अतः प्राप्येऽवश्य-विशेषोऽपेक्षत एवेति भावः ।
ननु, तर्हि निज-स्थान-धनादि-सहितम् आत्मानं साक्षाद् एभ्यो दास्यामि ? तत्राह—यद्-धामेति । त्वत्-कृते त्वत्-सेवा-लक्षण-कर्मणि निमित्ते तैर् यत् तुभ्यम् अर्पितम् अस्ति, त्वयापि तन्-मात्र एव दत्ते प्रत्युपकारेण साम्यम् एव । न च तव प्रसिद्ध औदार्यादि-विशेषः सम्पद्येतेति भावः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, भवद्-विधायापि यद्य् एषां चरण-रज एव परम-फलत्वेन दास्ये तर्ह्य् एभ्यो वा किं दास्ये ? किं च, पूर्वं भवता त्वां लब्धुम् एव त्वां स्तौमीति प्रतिज्ञातम्, अधुना पुनर् एतच् चरण-रज एव प्रार्थ्यते भद्रेयं निष्ठा भवद्-विधानाम् इति सनर्म-प्रश्नम् आशङ्क्य तथैवाह—एषाम् इति । एषां पूर्वोक्त-माहात्म्यानाम् उत प्रश्ने विश्व-फलाद् अपीत्य् अपि-शब्दान्वयः । ततश् चास्याः श्री-व्रज-भूमेर् ऊर्ध्वं तव स्थानं नास्ति, एतत् स्वरूपाद् ऊर्ध्वं च फलं नास्तीति कुत्र च किं दातेत्य् अर्थः । अयद् इति नञ् पूर्वम् इण्-धातो रूपम् । त्वत्तः परं फलं कुत्राप्य् अजानद् इत्य् अर्थः । मुह्यतीति निश्चयाशक्तेः सतां सद्-भाव-युक्तानां व्रज-वासि-विशेषाणां धात्री-जनानां वेशात्—लेभे गतिं धात्र्य्-उचितां ततोऽन्यम् [भा।पु। ३.२.२३] इति तृतीयोक्तेर् इवेति तत्रापि हिंसामय-दम्भेनैव, न तु भक्त्येत्य् अर्थः । अतः समान-फलत्वं कथं स्याद् इति भावः । पूतनापीत्य् अन्यस्य का वार्तेत्य् अर्थः । अपि-शब्दोऽयं यथा-योग्यम् अन्यत्रापि योज्यः । स-कुलेति प्राक्तनाधुनिक-तत्-कुलोत्पन्न-सहिता गोकुल-प्रतिकक्षत्वेन निर्देशाद् बकाघयोस् तु स्वतन्त्र एव त्वत्-स्पर्शोऽस्त्य् अन्येष्व् इव त्वाम् एवेति पूतनायाः साक्षात् अन्येषां तु भगवद्-द्वेषिणां पूतनानुवर्तित्वेनैव बकाघयोस् तु विरोधि-वेषान् मुक्ति-मात्रम् इति ज्ञेयम्, आपिता त्वयैवेति शेषः । सुहृत् निरुपाधि-हित-कारी । प्रियस् तादृश-प्रीति-विषयः । त्वत्-कृत इति प्रत्येकं स्वाभाविकम् एव तेषां त्वद्-एकार्थत्वं तव पुनस् तत्-तद्-भेदेनानेक-प्रिय-जनार्थत्वम् इत्य् अर्थः ।
तद् एवं ते पूर्णा एव श्रीमद्-भगवच्-चरणास् तु प्रत्युपकारासामर्थ्येनापूर्णा इव ततस् तेभ्यः किम् इव दास्यन्ति, अतोऽहम् अपि भक्तानाम् ऋणीत्वेन पारवश्यम् आशङ्क्य तादृश-निजाभिलाष-सिद्धये तच्-चरण-रजः-शरण एव भवितुं युक्त इति भावः । तद् एवम् अपि श्री-कृष्ण-तद्-वासिनोर् अव्यभिचारित्वम् एव व्यञ्जितम् । तथा पूर्व-पक्ष-भङ्ग्यैवायं परम-सिद्धान्तः सूचितः । तादृश-तद्-वशीकार-प्रेम्ण एव परम-फलत्वात् ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (कृष्ण-सन्दर्भः (१४१) : तस्मात् तेषां भाग-धेयं किं वर्णनीयं ? अहो येषां भक्त्या भवान् अपि नित्य-मृणिताम् आपन्नो येषु रुद्ध एवास्ते इत्य् आह—एषाम् इति । सतां शुद्ध-चित्तानां धात्र्य्-आदि-जनानाम् इव वेषात् । लेभे गतिं धात्र्य्-उचितां [भा।पु। ३.२.२३] इति तृतीयोक्तेः । तस्माद् अनादि-कल्प-परम्परा-गतत्वाद् अवतारत एवैवं प्राप्तत्वेन तैर् एकैर् एव भक्ति-रुद्धत्वात् सनातनं मित्रम् इत्य् एवं साधूक्तम् । ततश् च तद्-भूरि-भाग्यम् [भा।पु। १०.१४.३३] इत्य्-आदिकम् अपि साध्व् एव प्रार्थितम् इति भावः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किन्तु भगवन् ! एक एवास्ति मे महान् सन्देहस् तं स्वयम् अपि त्वं दूरीकर्तुं न शक्नोषीत्य् आह—एषाम् इत्य्-आदि । हे देव ! एषां घोष-निवासिनाम् । उत विस्मये । भवान् विश्व-फलाद् विश्वस्य फल-भूतात् त्वत्तोऽपरं किं राता दाता इति कुत्रापि सन्देह-सङ्कटे अयत् पतन् नोऽस्माकं चेतो मुह्यति ।
ननु, कथं ते चेतो-मोहः ? आत्मानम् एव दास्यामीति चेद् अवैदग्ध्यापत्तेर् इदम् अनुचितम् इत्य् आह—सद्-वेषाद् इवेति । सती माता तद्-वेषाद् इव, न तु तद्-वेषात् । स्तन्य-दानाय मातृ-वपुः कृत्वा गतेति न, अपि तु जिघांसयैवेतीव-शब्दः । तद्-वेषाभास-मात्रेणैव पूतना त्वाम् एवात्मानम् एवापिता प्रापिता । अत्रापि स-कुला बकाघादि-सहिता । एभ्योऽपि यदि स एवात्मैव दातव्यस् तदा योग्यायोग्य-विचाराभावाद् अवैदग्ध्यम् एवापतति । आत्मनोऽधिकं वस्तु तव नास्त्य् एव । तत् किम् अपरं दास्यसीति योग्य एव सन्देहः ।
ननु, भो ब्रह्मन् ! मा सन्देहं कार्षीः । एभ्यो यद् देयं तद् दत्तम् एव । यद् वा, त्वत्-कृते त्वत्-कर्मणि धामादीनि सर्वाणीति ब्रह्मणो वाक्य-शेष एवान्तर्यामि-रूपेण सरस्वतीं देवीं प्रेरयता सिद्धान्तितम् । तेभ्यः पूतनादिभ्य आत्मानं सायुज्यं दत्तम् । एभ्यस् तु एवम्भूतं सायुज्याद् अपि परम-दुर्लभं प्रेम दत्तम् इति न ममावैदग्ध्यम् इति सिद्धान्तः ॥३५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, येषां पाद-रजो मया लोभात् प्रार्थ्यते, तल् लभ्यतां न लभ्यतां वा मयेति स्पष्टं न ब्रूवे चेत्, मा ब्रूहि किन्त्व् अन्यद् एकं यत् पृच्छ्यते तद् उत्तरम् अवश्यम् एव देहीत्य् आह—एषाम् इति । एभ्यो भवान् किं रातेति किं फलं दास्यतीति । उत प्रश्ने । इत्य् अहं पृच्छामीत्य् अर्थः ।
ननु, सर्व-वेदार्थ—तत्त्वज्ञेन त्वयैव चेतसा विचार्य स्वयम् एव ज्ञायतां तत्राह—नोऽस्माकं चेत इति । बहु-वचनेन न केवलं ममैव अपि तु रुद्रस्य सनकादीनां नारदादीनां च सर्वेषाम् एव सर्व-ज्ञानां चेतो मुह्यति । चेतः कीदृशं ? विश्व-फलात् सर्व-फलात्मकात् त्वत्तोऽपि अपरमत्वे फलं कुत्रापि देशे काले वा अयत् बुद्ध्या बहुधा अन्विष्यापि अप्राप्नुवत् । इन् गतौ शत्र्-अन्तः । अयम् अर्थः—सर्व-फल-रूपस् त्वम् एभिर् अनादित एव पुत्रादि-रूपत्वेन प्राप्त एव वर्तसे । अत एव मया एषां भवान् इति षष्ठी-प्रयुक्ता यदि तु त्वत्तोऽप्य् अधिकम् अन्यत् किंचन वस्तु प्रशस्तम् अस्थास्यत् तदैवैत् तेभ्यो देयत्वेन योग्यम् अभविष्यत् तत् तु नास्तीत्य् अस्माकं चेतो मोहे हेतुर् इति ।
ननु, ब्रह्मन्, सत्यं त्वं तत्त्वान् अभिज्ञ एवासि मयैतेषां भविष्यन्ति मनुर् आगमयीम् अद्भुतां भक्तिं जानतैव तत्-साध्य-फल-भूतः स्वात्मा पुत्रादि-रूपः प्रथमम् एव दत्त इत्य् अन्ये खलु कृतज्ञा भवन्ति । अहं तु करिष्यमाण-विज्ञ इति मयैव जितम् इति चेत् सत्यं प्रभो ! तद् अपि त्वं न्यायेन जीवसे एवेत्य् आह—सद्-वेशाद् इव । सद्-वेशाद् एवेत्य् अर्थः । पूतना पापिष्ठापि स्व-कुल-सहितापि त्वाम् एव आपिता त्वयैव त्वां स्वात्मानं प्रापिता । तथा येषां धामादयो ममतास्पदाहन्तास्पदानि त्वत्-कृते त्वद्-अर्थम् एव ते चैते व्रज-वासिनोऽपि त्वया त्वाम् एवापिता इति वाक्य-शेषो नासा-नेत्र-भ्रू-ग्रीवा-भङ्ग्यैव ज्ञापितः । य एव आत्मा अतिनिऋष्टायै पापिष्ठायै पूतनायै दत्तः स एव स्वात्मा अतिनिकृष्टायै पापिष्ठायै पूतनायै दत्तः स एव स्वात्मा अतिप्रकृष्टेभ्यः पुण्यवच्-छिरोमणिभ्यो व्रज-वासिभ्यो दत्त इति प्रथमतो दानेऽप्य् अनुचितानुष्ठितिर् दुर्वारेत्य् एषाम् ऋणित्व-स्वीकार एव तव निष्कृतिर् इति भावः ॥३५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद्-रजः-स्पृहयातिप्रसन्नम् आलक्ष्य तद्-वाचं श्रोतु-कामोऽस्यायम् एकं पृच्छति—एषाम् इति । हे देव ! एभ्यो घोष-निवासिभ्यो भवान् किं फलं राता दास्यति ? उत प्रश्ने, एतद् अहं पृच्छामीत्य् अर्थः । ननु, वेदज्ञेन तयैव विचार्य बुध्यतां तत्राह—नोऽस्माकं मम शिवस्य च नारदादेश् च सर्वेषां वेद-ज्ञानां चेतः विश्व-फलान् निखिल-फल-स्वरूपात् त्वत्तोऽपरं फलं कुत्रापि देशे काले वा अयद् अप्राप्नुवत् विमुह्यति किं प्रदायायम् अनृणी भवेद् इति विमोहम् एति । इण् गतौ शत्र्-अन्तः ।
नन्व् एभ्यः एतदीयेभ्यो वा अहम् आत्मानम् एव प्रदाय पर्याप्तिं कुर्यां ? तत्राह—सद्-वेषाद् इवेति धात्री-वेषाद् एव स-कुला बकाघ-सहिता पूतनापि पापिष्ठापि त्वाम् एवापिता त्वयैव त्वां स्वात्मानं प्रापिता येषां धामादयस् त्वत्-कृते त्वद्-अर्थं विनियुक्तास् तेभ्यः पुण्यवच्-छिरोमणिभ्यस् त्वद्-अनुराग-निभृतेभ्यः स्वात्म-दानेनापि न पर्याप्तिर् इति सर्वदा तेषाम् ऋण्य् एव भवान् इति तत्-पाद-रजोऽभिषेको मेऽनुगृह्यतां जगत्-पतित्वं मे न रोचते इति भावः ॥३५॥
॥ १०.१४.३६ ॥
तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् ।
तावन् मोहोऽङ्घ्रि-निगडो यावत् कृष्ण न ते जनाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, वीत-रागादि-दोषाणां संन्यासिनाम् अपि न मत्तः परं किञ्चिद् अस्ति, कथम् एषाम् अपर्याप्तम् ? इत्य् अत आह—तावद् इति । हे कृष्ण ! रागादयस् तावद् एव स्तेनाश् चौरा भवन्ति, तथा तावद् गृहम् अपि कारा-गृहं बन्धनागारम् । मोहोऽपि तावद् एवाङ्घ्रि-निगडः पाद-शृङ्खला, यावत् ते त्वदीया जना न भवन्ति । त्वदीयानां तु रागादयोऽपि त्वन्-निष्ठा मोचका एवेति, न यतिभ्यो विशेषो भजनं त्व् अधिकम् इति भावः ॥३६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति—नन्व् इति । एषाम् एव कथम् अपर्याप्तं तेषाम् अपि एतत् तुल्यत्वाद् अपर्याप्तम् एवेति । रागोऽत्यन्ताभिनिवेशः । कारा स्याद् बन्धनागारे इति यादवः । मोहः पुत्रादिषु स्नेह-विशेषः । इति भाव इति । केवल-ज्ञानिभिस् तव भक्ता एवाधिका इति तात्पर्यम् ।
या निर्वृतिस् तनु-भृतां तव पाद-पद्म- > ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् । > सा ब्रह्मणि स्व-महिम्न्य् अपि नाथ् मा भूत् [भा।पु। ४.९.१०] इति > ध्रुवोक्तेः ।
नन्व् एते गृह-स्थाः पुत्र-कलत्रादि-संसार-ज्ञाने निपतिता इति संन्यासिभिर् उच्यते । सत्यं, त्वल् लक्षण-पुत्रत्वद्-भक्त-लक्षण-कलत्रादिमन्त एते गृहस्था वर्तताम् । देशान्तरस्था ये त्वद्-भक्तास् ते\ऽपि सन्न्यासिभ्याधिका इत्य् आह—तावद् इति । रागादयो राग-द्वेषाभिनिवेशाः, ते च महा-चौरा जीव-निष्ठ-ज्ञानानन्दादि-महा-धनान्य् अपहृत्य परमेश्वरे राजनि एते मा कूत्-कुर्वन्विति बुद्धया कर्माधिकारमये गार्हस्थ्य-कारागृहे मोह-निगडेन बद्धा जीवाः स्थायन्ते । हे कृष्ण जना जीवा यावत् ते त्वद्-भक्तानुग्रह-भाजनत्वेन त्वदीया न भवन्ति, तावद् एव रागादयः स्तेनाः, त्वदीयत्वे सति तेषां त्वद्-भक्तेष्व् एव रागः भक्ति-प्रतिकूले वस्तुन्य् एव द्वेषः त्वय्य् एवाभिनिवेश इति । प्रत्युत त्वन्-निष्ठ-ज्ञानानन्दादिकम् अप्य् आनीय दधानास्त एव परम-साधवो भूत्वा नित्यम् उपकुर्वते । एवम् एव गृहं भद्राभद्र-कर्म-साधनं यत्-कारागारम् आसीत् तद् एव तेषां त्वत्-परिचर्या- कीर्तनादि-साधनं त्वदीय-नित्य-धाम-प्रापकं भवेत् । एवं मोह-विषयस्य त्वद् भक्तत्वात् सो\ऽपि चेत्-प्रेमानुभाव-रूप-मोह-प्रापक इति कथम् एतत् सम-कक्षतां संन्यासिनो लभन्ताम् । ये कृच्छ्रे महान् इह भवार्णवम् अप्लवेशाम् इत्य्-आदिना मत्-सुत्रेण सनत्कुमारेणापकर्षितास् तेभ्यः संन्यासिभ्यो\ऽपि भक्ताः परमाधिकाः, ये देशान्तर-गृहस्थ-भक्तास् तेभ्यः परं सहस्र-गुणतो\ऽपि प्रेम्णाधिकतमास् ते व्रज-वासिनः तैर् एभिस् त्वं साक्षात् पूर्ण-स्वरूपो\ऽपि पुत्रादि-रूपेण स्वाधानीकृत एव वर्तस इति भावः ।
ननु धामादीनां मद्-एकार्थतयैव यदि तेषां महिमा तर्हि भवान् अपि निज-गृहं तथैवाचरेद् इति चेत्, आस्तां तावत्, एषां स्वात्मनो\ऽपि त्वद्-एकार्यत्वेनात्माराम-गणेभ्यो\ऽपि महत्तरं भाव-माहात्म्यम्, मादृशां तु भवद् उन्मुखत्वम् अपि दुर्घटम् इत्य्-आह—तावद् इति । अयम् अर्थः--रागो विषय-प्रीतिः, तद् आदयस् तन् मय-विषय-लाभालाभ-हानिषु हर्ष-विषाद-शोकाद्याः, गृहं विषय-मात्रं, मोहो रागादि-हेतुर् अविवेकः, ते च तत्-तद्-विक्रियायां राग-मुख-निरीक्षका एव सर्वे इति प्रथमं स एवोक्तः । तत्र निरुपाधि-प्रेमास्पदस्यात्मनो\ऽप्य् आत्मत्वेन त्वम् एव रागस्य स्वाभाविक-परम-योग्याश्रयः । अतस् तल् लक्षणा-निज-स्वामिनम् उपलभ्यैव भ्रमन्न् असौ जनानां शुभ-वासना-रूपां त्वद् भजन-सामग्री हरंश् चौर एव, ततस् तद् अनुवर्तिनो\ऽपि तादृशाः । अथ गृहमयो विषयो\ऽप्य् अवशिष्ट-दण्डनायैव कारागारीकृतः स्यात् । त्वत्-पादानुस्मरण-विरोधि-बोध-प्रदत्वात् । मोहोप्य् असौ तेन तेनावस्था-वैशिष्टयं प्रातस् तत्र स्वयं निगडायते । नष्टे\ऽपि तादृश-कारागृहे रागादि-मयस्य तस्यावशेषेणापि त्वत्-पादानुसरणोन्मुखत्वाशक्तेः । तद् एवं त्वदीयानुसृतौ ते तावत् तादृशा भवन्ति यावज् जनास् ते तव न भवन्ति त्वया न स्वीक्रियन्त इत्य् अर्थः ।
जाते तु तावकत्वे रागादीनाम् अप्य् आत्मनो\ऽप्य् आत्मनस् तव प्राप्तौ सत्यां तैर्नात्माप्य् आश्रियते इति स्वयम् एव ते दोषा अपगच्छन्तीत्य् अर्थः । अत्र रागस्य तत्-प्रातिः
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । > त्वाम् अनुस्मरतः सा मे हृदयान्न् आपसर्पतु ॥[वि।पु। १.२०.१९]
इत्य् अनुसारेण गृहस्य त्वद् अर्पितत्वेन मोहस्य च त्वत्-प्रेममयत्वेनेति । अत एव ते तावत् तावकानां शिरोमणयो, मादृशास्त्वे-तच्-चरण-रेणु-स्पर्शि-गणे यत्किचित्-प्राताव् अप्य् अभिलाषिण एव, कथम् एतत्-कक्षां प्राप्नुयुर् इति भावः ।
यद् वा, ननु तेषां प्रत्युपकारासमर्थम् अपि मां सदा सेवमानास्त एव दूषणीयास् तत्राह—हे कृष्ण सर्व-चित्ताकर्षक यावत्ते तव जना न भवन्ति, साक्षात् सेवां न प्राप्नुवन्तीत्य् अर्थः । अर्थात् त्वद् भक्तास् तावत् तेषां त्वत्-स्मृतौ स्वाभाविक-भोजनेच्छादयो निवास-स्थानं कदाचिन्न् इन्द्रादिना त्वद्-विस्मृति-लक्षणो मोहो\ऽपि तावत्-परम-दुःखदा एव न भवन्ति । यद् वा, तव रागादयस् तव लीला-स्थानम् अपि त्वत्-प्रेम-मूर्च्छापि तावत् परम-दुःखदा भवन्ति । यावत् साक्षात् त्वत् सेवां न प्राप्नुवन्तीति पूर्ववत् । तद् एवं सति तव मोहनत्वम् एवैषां व्रज-वासिनां तवानुसरणे कारणं तस्माद् एषां को दोष इति भावः । किम् अर्थं तत्राह—प्रपन्न-जनता निज-व्रज-जन-रूपा मद्-आदि-रूपा च । प्रथितुं प्रथयितुम् । ऐश्वर्य-लीलातो\ऽप्य् अस्या लीलाया भक्त-जन-परानन्दत्वाद् इत्य् अर्थः । तद् उक्तम्—नन्दः किम् अकरोद् ब्रह्मन् [भा।पु। १०.८.४६] इत्य्-आदि, गायन्ते\ऽद्यापि कवयो यल् लोक-शमलापहम् [भा।पु। १०.८.४७] इति, येन येनावतारेण [भा।पु। १०.७.१] इत्य्-आदि, यच्-छृण्वतोऽपैत्य रतिर् वितृष्णा [भा।पु। १०.७.२] इत्य्-आदि ॥३६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्व् एषां रागादयो दृश्यन्ते, तथापि कथम् एते शम-दम-तितिक्षादिभिः शुद्ध-सत्त्वेभ्योऽप्य् अधिकास् ते इत्य् आह—तावद् रागादय इत्य्-आदि । अत्रापि स्वामि-व्याख्यैव ॥३६॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : तावद् इति । रागादीनां स्तेनत्वादिकं तावद् एव । यावत् त्वत्-कथा नास्ति प्रवृत्तायां कथायां तु तन् नास्तीत्य् अर्थः । कारा-गृहं बन्धन-स्थानम् ॥३६॥ [मु।फ। १८.१६]
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१०२] ननु, विगत-रागादि-दोषाणां सर्व-त्यागिनां यतीनाम् अपि न मत्तः परं फलं किञ्चिद् अस्ति । कथम् एषाम् अपर्याप्तम् ? इत्य् अत्राह—तावद् इति [भा।पु। १०.१४.३६] । हे कृष्ण ! रागादयस् तावद् एव स्तेनाः विवेक-धैर्यादि-सर्व-गुण-रत्न-मोषका भवन्ति । तथा तावद् गृहम् अपि कारा-गृहं बन्धनागारम्, मोहो\ऽपि तावद् एव अङ्घ्रि-निगडः पाद-शृङ्खलं यावज् जनास् ते त्वदीया न भवन्ति । त्वदीयानां तु रागादयो\ऽपि त्वन्-निष्ठा-विमोचिका एवेति । न यतीनाम् एभ्यो विशेषः, भजनं त्व् अधिकतरम् इति भावः ।
यद्यपि प्राग्-उक्त-श्री-भागवतादि-सिद्धान्तानुसारेण संन्यासिनाम् इव वस्तुतः पूतनादीनाम् असुराणां भगवत्-स्मरणाद्य्-अनुभावेन मुक्त्या ब्रह्मतावाप्तिर् एव, तथापि ब्रह्मणो भगवद्-विभूतित्वेन तद्-अवाप्त्यापि भगवत्-प्राप्तिर् एव स्याद् इति । ततश् च भक्तानां वैकुण्ठ-लोक-लाभेन साक्षाद्-भगवच्-चरणारविन्द-प्राप्तिर् एवेति महान् विशेषः प्राग्-उक्तानुसारेण बोद्धव्यः ।
यद् वा, ननु, बहिर् अन्तः-सङ्ग-परित्यागिन एव परमोत्तम-भक्तास् तत् कथम् एते रागादिमन्तः स्तूयन्ते तत्राह—तावद् इति । अर्थस् तु पूर्ववद् एव । भावस् त्व् अयं—यावत् त्वत्-सम्बन्ध-मात्रवन्तो जना न स्युः, तावद् एव रागादयो दोषावहा भवन्ति । तावकानां तु भक्ति-सम्पत्ति-वृद्धि-हेतुत्वात् गुण-विशेषापादका एव । यतः सन्न्यासिनाम् अपि त्वद्-भक्ति-हीनानां वैराग्यादिकं सर्वं व्यर्थं, प्रत्युत महाभिमान-दोष-विशेष-करम् एव स्यात् । एवं हि सामान्येन सर्वेषाम् एव भक्तिमतां केवलं तद्-ईप्सा-पर्याप्तिर् न घटत एव तत्र च भक्ति-विशेषवताम् एषां कथं नाम पर्याप्तिः स्यात् ? इति ।
यद् वा, नन्व् अत एव प्रेम-विशेषेण विहार-विशेषम् एतैः समं करोमीत्य् अत्राह—तावद् इति । कृष्णस्य सर्व-चित्ताकर्षकस्य तव, नते नमने भक्ताव् इत्य् अर्थः । यद् वा, हे कृष्ण ! अर्थात् तवैव न ते यावज् जना भवन्ति, तावत् स्तेना अपि रागादयः, तथा कारा-गृहम् अपि गृहम्, अङ्घ्रि-निगडो\ऽपि मोहश् च तत्रैव भवन्ति । एवं भवान् स्वयम् एव निज-भक्तौ लोकान् प्रवर्तयितुं विचित्र-रागादिकम् आविष्कुर्वन् बहुधा स्वार्थम् एव विक्रीडति, न तु तेषां निमित्तम् इत्य् आनृण्यं कुतो घटताम् ?
यद् वा, हे कृष्ण ! यावज् जनास् ते तद्-भक्ता न भवन्ति, तावत् तवैव स्तेना धैर्यात्मा-रामताद्य्-अपहारका रागादयो भवन्ति, वैकुण्ठादि-वर्ति-गृहं कारागृह-तुल्यं दुःखदं भवति, तत्र नियत-वासेन निजाश्रित-जनैः सदा सङ्गताव् अस्वातन्त्र्यस्येवोपादानात् । तत्रत्येषु महा-लक्ष्म्य्-आदिषु मोहः स्नेह-विशेषः अङ्घ्रि-निगड-तुल्यः पर-सङ्कोचापादकत्वेन यन्त्रणा-करः, तेन निज-भक्तैः सह निरन्तर-क्रीडा-हान्य्-आपत्तेः । एवं च सति जनेषु भक्तेषु वृत्तेषु तेषु पूर्ववत् तव भाव-विशेषो नोदेति येन । तैः सह तथा क्रीडसि, प्रत्युत विच्छेद-दुःखं विस्तारयसीत्य् अर्थः । एतच् च मथुरा-गमनादिना भावि-विरहम् उद्दिश्योक्तम् । ततश् च परम-मृणित्वादिकम् एवायातम् ।
यद् वा, तावन्तो रागादयः, तावत् गृहं, तावत् मोहश् च तव भवन्ति, यावद्भिः सर्वे जनास् तव न ते स्युः । अत्र समासश् चार्षत्वात् सोढव्यः । एवं सर्वथा ऋणित्वम् एव सिद्धम् इति भावः ॥१०१॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदि-शब्दात् क्रोधादयः, त्वदीयानां क्रोधोऽपि भक्तिः, भर्त्सनादिना दुर्बुद्धीनाम् अन्येषाम् अपि मोचकत्वे पर्यवस्यत्य् एव । कृष्ण ! हे साक्षात्-परमेश्वर ! अन्यत् तैर् व्याख्यातम् ।
यद् वा, यदि मद्-अर्थम् एवैषां धामादयः, तर्हि कथं विषय-भोगादौ रागादय आतिथ्य-पालनादि-गार्हस्थ्यं वान्योऽन्यं स्नेहो वा दृश्यते ? तत्राह, कृष्णस्य तव न ते । यद् वा, हे कृष्ण ! सर्वथा परमानन्द-प्रद ! अर्थात् तवैव न ते नमने भक्ताव् इत्य् अर्थः । स्तेनाः स्वभावतो लोकानां विवेक-धैर्यादि-गुण-रत्न-मोषका अपि विषय-भोगादौ रागादयो भवन्ति । आदि-शब्दात् तद्-अप्राप्त्य्-आदौ क्रोधादयोऽपि ज्ञेयाः । सङ्कीर्णत्वादिना कारागारवद् दुःखदम् अपि गृहं गृहस्थाचारः । अङ्घ्रि-निगडवद् अस्वातन्त्र्यापादकोऽपि मोहोऽन्योन्यं स्नेह-भरश् च ।
अयं भावः—भक्तानां स्वभावतस् त्वद्-अर्पित-महा-प्रसाद-द्रव्यादाव् एव प्रवृत्त्या तत्र राग-लोभादीनाम् अपि भक्ति-परिपोषकत्वात्, तथा तद् अन्यत्र प्रवृत्त-जनेषु क्रोधस्य च भक्ति-प्रवर्तकत्वात् । तथा वैष्णवातिथि-सेवादिना गार्हस्थ्ये सर्व-हित-साधारणास् त्वद्-वार्ताद्य्-उपयुक्तास् तत्रैवेति तत्र च यावत् तावकं विना तत्र प्रवृत्त्य्-असम्भवाद् इति ।
ननु, तेषाम् अभीष्ट-सिद्धि-दानासमर्थम् अपि मां सदा सेवमानास् त एव दूषणीयाः ? तत्राह—हे कृष्ण ! सर्व-चित्ताकर्षक ! यावत् ते व्रज-वासिनो जनास् त्वत्-सेवन-परा भवन्ति, तावत् तव रागादयो नृत्य-गीतादि-विलासाः स्तेना इव परमोपद्रावका भवन्तीत्य् अर्थः । गृहम् अपि कारागारं परम-दुःखदम् इत्य् अर्थः । मोहः सर्व-भक्त-विषयकोऽङ्घ्रि-निगड-यन्त्रणाकारः, परमास्वातन्त्र्यापादनात् । यद् वा, श्री-वैकुण्ठादि-विषयका रागादयस् तत्रत्यम् एव गृहं मोहश् च महा-लक्ष्म्य्-आदि-विषयको ज्ञेयः । अन्यत् समानम् ।
त्वयैव यत्नतस् तथा क्रियते, सर्वेऽपि लोका यथा त्वां भजन्तीति तेषां को दोष इति भावः । यद् वा, तावत् तेषां स्व-देहादिषु पश्व्-आदिषु वा रागादयः स्तेना भवन्ति । गृहं तावत् कारागृहं स्व-बान्धवेषु मोहस् तावद् अङ्घ्रि-निगडो यावत् ते व्रज-स्था जनास् त्वत्-सेवन-परा न स्युः ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, धामादीनां मद्-एकार्थतयैव यदि तेषां महिमा, तर्हि भवान् अपि निज-गृहं गत्वा तथैवाचरेति चेत् ? आस्तां तावद् एषाम् आत्मनोऽपि त्वद्-एकार्थत्वेनात्माराम-गणेभ्योऽपि महत्तरं भाव-माहात्म्यं, मादृशां तु भवद्-उन्मुखत्वम् अपि दुर्घटम् इत्य् आह—तावद् इति । अयम् अर्थः—रागो विषय-प्रीतिः, तद्-आदयस् तन्-मय-विषय-लाभालाभ-हानिषु हर्ष-विषाद-शोकाद्याः गृहं विषय-मात्रं मोहो रागादि-हेतुर् अविवेकः, ते च तत्-तद्-विक्रियायां राग-मुख-निरीक्षका एव सर्व इति प्रथमं स एवोक्तः, तत्र निरुपाधि-प्रेमास्पदस्यात्मनोऽप्य् आत्मत्वेन त्वम् एव रागस्य स्वाभाविक-परम-योग्याश्रयः । अतस् त्वल्-लक्षण-निज-स्वामिनम् अनुपलभ्यैव भ्रमन्न् असौ जनानां शुभ-वासना-रूपां त्वद्-भजन-सामग्रीं हरंश् चौर एव ततस् तद्-अनुवर्तिनोऽपि तादृशाः
अथ गृह-मयो विषयोऽप्य् अवशिष्ट-दण्डनायेव तेनैव कारागारी-कृतः स्यात्, त्वत्-पदानुसरण-विरोधि-रोध-सदनत्वात् । मोहोऽप्य् असौ तेन तेनावस्था-वैशिष्ट्य-प्राप्तस् तत्र स्वयं निगडायते, नष्टेऽपि तादृश-कारागृहे रागादिमयस्य तस्यावशेषेऽपि त्वत्-पदानुसरणोन्मुखत्वाशक्तेः । तद् एवं त्वदीयानुसृतौ ते तावत् तादृशा भवन्ति यावज् जनास् ते तव न भवन्ति, त्वया न स्वीक्रियन्त इत्य् अर्थः । जाते तु तावकत्वे रागादीनाम् अपि आत्मनोऽप्य् आत्मनस् तव प्राप्तौ सत्यां तैर् नात्माप्य् आश्रियत इति स्वयम् एव ते दोषा अपगच्छन्तीत्य् अर्थः । तत्र रागस्य तत्-प्राप्तिः—
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । > त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥[वि।पु। १.२०.१९] ।
इत्य् अनुसारेण गृहस्य तद्-अर्पितत्वेन मोहस्य च तत्-प्रेम-मयत्वेनेति, अत एते तावत् तावकानां शिरोमणयः मादृशस् त्व् एतच्-चरण-रेणु-स्पर्शि-गणे यत्-किञ्चित् त्वत्-प्राप्ताव् अप्य् अभिलाषिण एव कथम् एतत्-कक्षां प्राप्नुम इति भावः ।
यद् वा, ननु, तेषां प्रत्युपकारासमर्थम् अपि मां सदा सेवमानास् त एव दूषणीयाः ? तत्राह—हे कृष्ण ! सर्व-चित्ताकर्षक ! यावत् ते तव जना न भवन्ति साक्षात् त्वत्-सेवां न प्राप्नुवन्तीत्य् अर्थः । अर्थात् त्वद्-भक्ताः तावत् तेषां त्वत्-स्मृतौ स्वाभाविक-भोजनेच्छादयो निवास-स्थानं कदाचिन् निद्रादिना त्वद्-विस्मृति-लक्षणो मोहोऽपि तावत् परम-दुःखदा एव भवन्ति ।
यद् वा, तव रागादयस् त्वल्-लीला-स्थानम् अपि त्वत्-प्रेम-मूर्च्छापि तावत् परम-दुःखदा भवन्ति यावत् साक्षात् त्वत्-सेवां न प्राप्नुवन्तीति पूर्ववत्, तद् एवं सति तव मोहनत्वम् एवैषां व्रज-वासिनाम् अपि तवानुसरणे कारणं, तस्माद् एषां को दोस इति भावः । किम्-अर्थं? तत्राह [३७-साङ्ख्यक-श्लोके]—प्रपन्न-जनता निज-व्रज-जन-रूपा मद्-आदि-रूपा च प्रथितुं प्रथयितुम् ऐश्वर्य-लीलातोऽप्य् अस्या लीलाया भक्त-परमानन्द-प्रदत्वाद् इत्य् अर्थः । तद् उक्तं नन्दः किम् अकरोद् ब्रह्मन् [भा।पु। १०.८.४६] इत्य् आदौ, गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहं [भा।पु। १०.८.४७] इति, येन येनावतारेण [भा।पु। १०.७.१] इत्य्-आदि, यच् छृण्वतोऽपैत्य रतिः [भा।पु। १०.७.२] इत्य्-आदि ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (कृष्ण-सन्दर्भः (१४२) : नन्व् एषां मनुष्यान्तरवत् रागादिकं दृश्यते । कथं तर्हि स्वयं भगवतो नित्य-परिकरत्वं तत्र कैमुत्यम् आह — तावद् इति । स्तेनाः पुरुष-सार-हराः । अन्येषां प्राकृत-जनानाम् अपि तावद् एव रागादयश् चौरादयो भवन्ति यावत् ते जनास् ते तव न भवन्ति सर्वतो-भावेन त्वय्य् आत्मानं न समर्पयन्ति । समर्पिते चात्मनि तेषां रागादयोऽपि त्वन्-निष्ठा एवेति रागादीनां प्राकृतत्वाभावान् न चौरादित्वं प्रत्युत परमानन्द-रूपत्वम् एवेत्य् अर्थः । तथैव प्रार्थितं श्री-प्रह्लादेन—
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । > त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥[वि।पु। १.२०.१९] इति > ।
अतो यदि साधकानाम् एवं वार्ता तदा किं वक्तव्यं, नित्यम् एव तादृश-प्रियत्वेन सतां श्री-गोकुल-वासिनाम् एवम् इति । इत्थम् एवोक्तम्—
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । > कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥[भा।पु। १०.११.५८] > इति ।
भवन्त्य् अस्मिन्न् इति भवः प्रपञ्चः । यद्यपि प्रपञ्च-जनेष्व् अभिव्यक्तास् ते तथापि तत्-सम्बन्धिनी या वेदना विषय-दुःखादि-ज्ञानं तां नाविन्दन्न् इत्य् अर्थः । वेदना ज्ञान-पीडयोः इति कोषज्ञाः ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ हे ब्रह्मन् ! एषाम् एवं-विधत्वं कथं भवता लक्षितम् इत्य् आशङ्क्य व्यक्तिर् एक-मुखेन तत् प्रपञ्चयन्न् आह—तावद्-रागादय इत्य्-आदि । स्तेनाश् चोर-प्रायाः । ज्ञाने मोषकत्वाद् रागादयस् तावद् एव कारागृह-प्रायम् । विना प्रारब्ध-क्षयेण ततो बहिर्-भवनम् अशक्यम् इति कारागृह-सदृशं गृहं तावद् एव निगड-प्रायः । स्वयम् अभेद्यत्वाद् दुर्भिदो मोहश् च तावद् एव यावत् हे कृष्ण जनास् ते न भवन्ति । त्वदीया न भवन्ति । तव चेद् बभूवुस् तदा स्तेनादि-प्राया रागादयस् तेषां न सन्तीति सिद्धम् । सिद्धान्ते यद् एषां तथैवाकलितं तद् एते त्वद्-अर्पित-धामादित्वेनोक्त-प्रकारा एव ॥३६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एते गृहस्थाः पुत्र-कलत्रादि-संसार-जाले निपतिता इति सन्न्यासिभिर् उच्यते। सत्यं त्वल्-लक्षण-पुत्र-त्वद्-भक्त-लक्षण-कलत्रादिमन्त एते गृहस्था वर्तन्तां, देशान्तरस्था ये त्वद्-भक्ता गृहस्थास् तेऽपि सन्न्यासिभ्योऽप्य् अधिका इत्य् आह—तावद् इति । रागादयो राग-द्वेषाद् अभिनिवेशास् ते च महा-चौरा जीव-निष्ठ-ज्ञानानन्दादि-महा-धनान्य् अपहृत्य परमेश्वरे राजनि एते मा फुत्कुर्वन्त्व् इति बुद्ध्या कर्माधिकार-मये गार्हस्थ्य-कारागारे मोह-निगडेन निबद्ध्य जीवाः स्थाप्यन्ते हे कृष्ण ! जना जीवा यावत् ते त्वद्-भक्तानुग्रह-भाजनत्वेन त्वदीया न भवन्ति तावद् एव रागादयः स्तेनाः चौराः । त्वदीयत्वे सति तेषां त्वद्-भक्तेष्व् एव रागः । भक्ति-प्रतिकूले वस्तुन्य् एव द्वेषः त्वय्य् एवाभिनिवेश इति, प्रत्युत त्वन्-निष्ठ-ज्ञानानन्दादिकम् अपि आनीय दधानास् त एव परम-साधनं यत् कारागारम् आसीत् तद् एव तेषां त्वत्-परिचर्याकीर्तनादि-साधनं त्वदीय-नित्य-धाम-प्रापकं भवेत् एवं मोह-विषयस्य त्वद्-भक्तत्वात् सोऽपि त्वत्-प्रेमानुभाव-रूप-मोह-प्रापकः इति कथम् एतत् सम-कक्षतां सन्न्यासिनो लभन्ताम् । ये—कृच्छ्रो महान् इह भवार्णवम् अप्लवेषां षड्-वर्गन-क्रम-सुखेन तितीर्षन्ति [भा।पु। ४.२२.४०] इत्य् उक्त्या मत्-पुत्रेण सनत्-कुमारेणापकर्षितास् तेभ्यः सन्न्यासिभ्योऽपि भक्त्या परमाधिका ये देशान्तरस्थ गृहस्थ-भक्तास् तेभ्यः परः सहस्र-गुणतोऽपि प्रेम्णा अधिकतमा ये व्रज-वासिनस् तैर् अभिस् त्वं साक्षात् पूर्ण-ब्रह्म-स्वरूपोऽपि पुत्रादि-रूपत्वेन स्वाधीनीकृत एवे वर्तसे इति भावः ॥३६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न चैषां घोष-निवासिनां गृह-कलत्रापत्येषु रागादि-सत्त्वान् नैष महिमा सम्भवेद् इति चेत् तत्राह—तावद् इति । देशान्तर-स्थानाम् अपि गृहिणा कलत्रापत्यं प्रतीपवतां कलत्रादिषु रागाभिनिवेशद् वषास् तावत् स्तेनाज्ञानादि-धन-हरा भवन्ति । गृहम् अपि तावत् कारागृहं गृहादि-विषयको मोहोऽपि तावद् एव्आङ्ग्रि-निगडः पाद-शृङ्खला यावत् ते जनास् त्वद् उक्ता न भवन्ति त्वदीयत्वे तु सति तेषां त्वद् उक्तेषु रागस् त्वयि त्वत्-सम्बन्धिनि चाभिनिवेशस् त्वद् उक्ति-प्रतीपेषु द्वषश् चेति त्व् अज्ञानादीन् ददानास् ते परमोपकारिणः साधवो भवन्तीत्य् अर्थ । गृहञ् च त्वत्-परिचर्यादि-भक्ति-साधनं सत्त्व-नित्य-धामोपलम्भकं भवेत् । कलत्रादेर् अपि त्वद् उक्तत्वात् तद्-विषयको मोहो\ऽपि परमार्थ-पर्यवसायीति त्वत्-सम्वन्धाद् एव स्पर्श-मणि-स्पर्श-न्यायेन संन्यासिनां रागादीनां तत्-पर्यवसायित्वे सति का कथैषां त्वन्-मित्राणां त्वन्-नियुक्त-धामादीनाम् इति दर्शित-महिमानस् ते भवन्तीति ॥३६॥
॥ १०.१४.३७ ॥
प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।
प्रपन्न-जनतानन्द-सन्दोहं प्रथितुं प्रभो ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अत एवाहम् एषां पुत्रादि-रूपेण वर्ते इति चेत् तत्राह—प्रपञ्चम् इति । प्रपन्ना या जनता जन-समूहस् तस्या आनन्दानां सन्दोहं समूहं प्रथयितुम् इति । न हि कपट-पुत्रत्वादिना तादृग् भक्तेर् आनृण्यं संपद्यत इत्य् अर्थः ॥३७॥
————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समर्थयन्न् आशङ्कते—नन्व् इति । यत एते यतिभ्योऽधिका अत एव । तत्रापेक्षे । तादृग् भक्तेः परम-प्रेम-भक्तेः । इत्य् अर्थ इति । निष्कपट-भक्तेषु सकपट-व्यवहृत्या दोषस् तु भवति कुत आनृण्यम् इति तात्पर्यम् । भूतल इति । वैकुण्ठीय-लीलातोऽपि विस्तृती-कर्तुं विडम्बयसीति । अयं भावः—प्रकाशे दीपो नातिशोभते यथान्धकारे, श्वेत-राजत-पात्रे हीरक-रत्नं नातिशोभते यथा नलिकाचादि-पात्रे तथैव चिन्-मये वैकुण्ठे चिन्मयी लीला नातिचमत्करोति यथा मायामये प्रपञ्चे इति । यद्य् अपि व्रज-मण्डलम् अपि चिन्मयम् एव तद् अपि कृष्णस्य प्राकृत-पुरुष-साधर्म्यम् इव भूतलस्थ-व्रज-मण्डलस्यापि । प्राकृत-भूतल-साधर्म्यम् एव दृष्टम् अतो न लीला चमत्करोत्य् एवेति । हे प्रभो इति । माम् अपि प्रपन्न-मध्ये गणयेति भावः ।
ननु, व्रजेऽस्मिन्न् एतत्-पुत्रादिभावं पूर्ण-ब्रह्मणो मम न वस्तुत इति केचिन् मन्यते, सत्यं तं भ्रान्ता । एवेत्य् आह—प्रपञ्चम् इति । प्रपञ्चातीतोऽपि त्वं भूतले सदा स्थितस् सन् प्रपञ्चं प्रपञ्चस्थ-पुत्रादिभावं प्रपञ्चयस्ति अनुकरोषि । प्रापञ्चिकेषु पित्रादिषु प्रापञ्चिकाः पुत्रादयो यथा चेष्टन्ते तथैव त्वम् अपि चेष्टस इत्य् अर्थः । तेन जीवानां यथा पितृ-पुत्रादि-भावो ह्य् अवास्तवस् तथा तव न, तव तु स-निष्प्रपञ्चत्वाद् वास्तवो नित्य एवेति । तव लीला नित्या प्रपञ्चातीतापि प्रपञ्चानुकरणमयीति सिद्धान्त उक्तः । किम् अर्थ विडम्बयसि । प्रपन्ना या जनता तस्या यस् तादृश-लीलास्वादनोत्थ आनन्द-सन्दोह आनन्द-पुञ्जस्तं ब्रह्मानन्दाद्वैत कुण्ठीयेत्य् एतत्-पर्यायतोऽवसेयम् ॥३७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे प्रभो ! ज्ञातं ज्ञातं, निजानृण्य-हेतोर् एव त्वयैवम् अध्यवसितम् एवेत्य् आह—प्रपञ्चम् इत्य्-आदि । निष्प्रपञ्चं प्रपञ्चं प्रकृष्ट-विस्तार-रचनम् अपि विडम्बयसि अनुकरोषि । प्रपञ्चं लोक-व्यवहारम् इति वा । यद् वा, प्रपञ्चं कुहकं मायाम् इति यावत्, विडम्बयसि विशेषेण लम्बयसे, ड-लयोर् एकत्वात्, विस्रंसयसीत्य् अर्थः । एभिः सह यद् यत् करोषि, तत् सत्यत्वेनैव प्रतिपादयसि, न मायया । किम्-अर्थं ? प्रपन्न-जनतानन्द-सन्दोहं प्रथितुम् । अतस् त्वन्-महिमानं केऽपि न जानन्ति । जानीम इति ये मन्यन्ते, ते जानन्तु एव । इति तान् प्रति असूयया वदति—जानन्त एवेत्य्-आदि । जानन्त एव जानन्तु, किन्तु ये ब्रह्मणोऽपि मन-आदीनां तव वैभवो न गोचर एव ॥३७-३८॥
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१०३] नन्व् अत एवाहम् एषां पुत्रादि-रूपेण वर्ते ? तत्राह—प्रपञ्चम् [भा।पु। १०.१४.३७] इति । प्रपञ्चातीतो\ऽपि त्वं प्रपञ्चं पुत्रत्वादिकं भूतले विडम्बयसि अनुकरोषि । किम्-अर्थम् ? प्रपन्नाया निज-भक्ताया जनताया लोक-वृन्दस्य आनन्दानां सन्दोहं प्रथयितुं विस्तारयितुम्, न हि कपट-पुत्रत्वादिना तादृग्-भक्तेर् आनृण्यं स्याद् इत्य् अर्थः । यद् वा, निज-भक्त-वर्गानन्द-परम्परा-विस्तारणाय भूतले यः प्रपञ्चः पुत्रादि-भावः। तम् अपि किं विडम्बयसि ? अपि तु नैव
कदाचिद् यशोदादीन् प्रति विश्व-रूपादि-पारमैश्वर्य-दर्शनात् । यतो निर्गच्छति प्रपञ्चो\ऽन्येषाम् अपि यस्मात् तथा-भूतः सदा निज-स्वभावाद्य्-आवरणाशक्तेर् इत्य् अर्थः । भूतल इत्य् अनेन स्वर्गादाव् इति-आदीन् प्रति पुत्रत्वादिकं परमेश्वरत्वं च दर्श्यत इति ध्वनितम् । अत एव प्रेम-विशेष-ह्रासाद् यशोदादिभ्यो न्यूनतैव । तथैवैतेष्व् अपि व्यवहारात् कथम् आनृण्यं सम्पद्यताम् इति वाक्यार्थः ।
अथवा सर्वथा यद्य् एते मद्-एक-निष्ठा मत्-प्रेम-भर-परवशास् तदा तेष्व् अपि द्रव्यादिषु राग-लोभादयः कश्चिद् गार्हस्थ्य-व्यापारश् च तथा बान्धवेषु स्नेहादि-मोहश् च न किलैषां सम्भवेयुः । सत्यम् तत् सर्वम् अचिन्त्याद्भुत-शक्तिना त्वयैव सम्पाद्यत इत्य् आह—प्रपञ्चम् इति । निर्गच्छति प्रपञ्चः प्रपञ्चि-मात्रेण यस्मात् तादृशो\ऽपि त्वं स्व-भक्त-वराणाम् एषां रागादि-प्रपञ्चं विडम्बयसि । डलयोर् एकत्वात् विलम्बस्य च शीघ्र-विपरीतार्थकत्वात् स्थिरीकरोषीत्य् अर्थः ।
किम्-अर्थम् ? प्रभो हे परम-समर्थ ! भूतले या प्रपन्न-जनता, तस्या आनन्द-सन्दोहं विस्तारयितुम् । भूतल इति वैकुण्ठ-वासिनाम् अपि एवं न करोषीति भावः । एतद् उक्तं भवति—त्वद्-भक्ति-निष्ठानां तत्-तद्-द्रव्यादिषु त्वन्-महा-प्रसाद-बुद्ध्या तत्-सम्बन्ध-विशेषापेक्षयैव रागादयो भवन्ति, ते च तेषां विचित्र-भजनानन्द-माधुरी-परम्परा-विस्तारका एव । अतः तादृश-भक्तिमताम् एषां भवान् प्रत्युपकाराशक्तः सत्यम् ऋणीति ॥१०३॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रपञ्चं पुत्रत्वादिकम् । निष्प्रपञ्चः प्रपञ्चातीतोऽपि भूतले पृथिव्यां विडम्बयस्य् अनुकरोषि । किम्-अर्थं ? व्रज-सम्बन्धि-स्व-लीलाकर्णन-द्वारा निज-भक्तानन्द-विस्तारार्थम् । अन्यत् तैर् व्यञ्जितम् । अथवा, तत्त्वत एव पुत्रादि-रूपेणैभिः सह विहार-विशेषं करोषि । तत्राह—प्रपञ्चम् इति । निर्गतः प्रपञ्चोऽन्येषाम् अपि यस्मात् तथा-भूतस् त्वं विडम्बयसि विलम्बयसि स्थिरीकरोषि । प्रपन्न-जनता व्रज-वासि-जन-समूहस् तद्-द्वारा (विहार-द्वारेण) स्वस्यैवानन्द-विस्तारणाय ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व्, अहो भाग्यम् इत्य्-आदौ । मित्रत्वस्य काल-विशेषानिर्दिष्टत्वेन परमानन्दादीनाम् अनूद्यधर्माणां तस्मिन् विधेये सङ्क्रमणेन च व्रजौकोभिः । समं मम लीलाया नित्यत्वम् अभिप्रेतम् । एषां त्वित्य्-आदाव् एकेत्य् अनेन तद् एव निर्दिष्टं तद् भूरीत्य्-आदौ, वैकुण्ठादि-परित्याग-पूर्वकम्, एषां चरण-रजः-सम्बन्धेन स्व-जन्म प्रार्थ्यं । पुनर् एषाम् अनादि-श्रुति-मृग्य-मद् रूप पुरुषार्थ-प्राप्तिं च जीवन-रूपां समर्थ्य तद् एव द्रढीकृतम् एषां घोषेत्य्-आदौ । मम तद् दृण-विगणनासमर्थत्वेनानादि-कल्प-परम्परायां पुत्रादि-रूपेणानुगत्व-प्राप्त्या तद् एवानीतं तावद् इत्य् आदौ तत्र विघातकासम्भवात् । तद् एव पर्यवसायित तत् तद् अपि आस्तां नौमीढ्येत्य्-आदौ । तेषाम् एषां सम्बन्धि यद् एतन् मम रूपं तद् एव निज-पुरुषार्थत्वेन प्रतिज्ञातं । तत्र कश्चित् प्रपञ्चरीति-दृष्ट्या लीलेयम् अन्यथेत्य् आशङ्क्येत् तत्र किं वक्तव्यं तत्राह—प्रपञ्चम् इति । नित्यम् एवैतैः समं लीलायमानस् त्वं निष्प्रपञ्चः प्रपञ्चास्पृष्ट-लीलोऽपि मध्ये मध्ये त्वेतैः समं भूतलेऽवतीर्य प्रपञ्चं विडम्बयसि नरान्तरवज् जन्मादि-लीलयानुकुर्वन्न् अपि महान्तम् एव तत उत्कर्षं दर्शयतीत्य् अर्थः ।
ननु, किम् अर्थम् इदं तत्राह—प्रपञ्चम् इति । नित्यम् एवैतैः समं लीलायमानस् त्वं निष्प्राञ्चः प्रपञ्चास्पृष्ट-लीलोऽपि मध्ये मध्ये त्व् एतै समं भूतलेऽवतीर्य प्रपञ्चं विडम्बयसि नरान्तरवज् जन्मादि-लीलयानुकुर्वन्न् अपि महान्तम् एव तत उत्कर्ष दर्शयतीत्य् अर्थः
ननु, तत्राह—किम् अर्थम् इदं प्रपन्नेति । यद्य् अपि तस्यां नित्यायाम् भूतलाप्रकट-लीलायां नित्यानां प्रपन्न-जन-समूहानाम् एषाम् अनित्यानां चास्माकं यथास्वन्दर्शनेन श्रवणेन चानन्दो भवत्य् एव तथाप्य् अस्यां भूतले प्रकटायां जन्मादि-लीलायां त्व् आनन्दानां सन्दोहः प्रथितो भवतीत्य् एतद् अर्थम् इत्य् अर्थः ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (कृष्ण-सन्दर्भः (१४) : ] तर्हि कथं गोकुले प्रपञ्चवद् भानं लोकानां भवति तत्राह—प्रपञ्चम् इति । प्रपञ्चाद् अतीतोऽपि त्वं भूतले स्थितं प्रपञ्चं विडम्बयसि (जन्मादि-लीलया ममायं पिता ममेयं माता इत्य्-आदि भाव-लिङ्गतः) स्वयम् अनेन प्रस्तुतेन गोकुल-रूपेणानुकरोषि । वस्तुतस् तु श्री-गोकुल-रूपम् इदं तव स्वरूपं प्रपञ्चवद् एव भाति न तु प्रपञ्च-रूपम् एवेति तात्पर्यम् । तद्वच् च भानं किम् अर्थं तत्राह प्रपन्नेति । एतादृश-लौकिकाकार-लीलयैव हि प्रपन्न-जन-वृन्दस्य परमानन्दो भवतीत्य् एतद् अर्थम् ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् अगतम् एव भवतैषां तत्त्वम्, यत् तत्वं कीदृशम् ? तद् अपि कथयेत्य् आह—प्रपञ्चं निष्प्रपञ्चोऽपीत्य् आदि । हे प्रहो ! तव तत्त्वं को वेत्तुं-प्रभुत्वात् । प्रभुर् हि कर्तुम् अकर्तुम् अन्यथाकर्तुं समर्थः तथापि यत् किञ्चिद् वदामीति । प्रभो इति सम्बोधनार्थः । किं वक्तव्यम्, तद् वदेत्य् आह—निष्प्रपञ्चोऽपि त्वं केवल-सच्-चिद्-आनन्द-लीलोऽपि भूतले प्रपञ्चं लौकिक-व्यवहारं विड्म्बयसि, अनुकरोषि । किं कर्तुं ? तत्राह—प्रपन्न-जनतानन्द-सन्दोहं प्रथितुं प्रथयितुं तव लौकिक-लीलायां येषां प्रपन्नानाम् आनन्द-सन्दोहस् तं वर्धयितुम् ॥३७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, व्रजेऽस्मिन्न् एतत् पुत्रादि-भावं पूर्ण-ब्रह्मणो मम न वस्तुत इति केचिन् मन्यन्ते, सत्यं ते भ्रान्ता एवेत्य् आह—प्रपञ्चम् इति । निष्प्रपञ्चोऽपि प्रपञ्चातीतोऽपि त्वं भूतले सदा स्थितः सन् प्रपञ्चं विडम्बयसि प्रपञ्च-स्थं पुत्रादि-भावम् अनुकरोषि । प्रपञ्चिकेषु पित्रादिषु प्रापञ्चिकाः पुत्रादयो यथा चेष्टन्ते तथैव त्वम् अपि चेष्टसे इत्य् अर्थः । तेन जीवानां यथा पितृ-पुत्रादि-भावो ह्य् अवास्तवस् तथा तव न, तव तु स निष्प्रपञ्चत्वाद् वास्तवो नित्य एवेति । तव लीला नित्या प्रपञ्चातीतापि प्रपञ्चाकरणमयीति सिद्धान्त उक्तः । किम्-अर्थं विडम्बयसि ? प्रपन्ना या जनता तस्या यस् तादृशी-लीलास्वादनोत्थ आनन्द-सन्दोहस् तं प्रथयितुं ब्रह्मानन्दात् वैकुण्ठीय लीलानन्दाद् अपि विस्तृतीकर्तुं भूतल इति । अयं भावः । प्रकाशे दीपो नातिशोभते यथान्धकार एव । श्वेत-राजत-पात्रे हीरक-रत्नं नातिशोभते, यथा नील-काचादि-पात्रे । तथैव चिन्-मये वैकुण्ठे चिन्मयी लीला नातिचमत्करोति, यथा माया-मये प्रपञ्चे इति । यद्यपि व्रज-मण्डलम् अपि चिन्मयम् एव तद् अपि कृष्णस्य प्राकृत-पुरुष-साधर्म्यम् इव भूतलस्थ-व्रज-मण्डलस्यापि प्राकृत-भूतल-साधर्म्यम् एव दृष्टम् अतोऽत्र लीला चमत्करोत्य् एवेति । हे प्रभो ! इति माम् अपि प्रपन्न मध्ये गणयेति भावः ॥३७ ॥
———————————————————————————————————————
बलदेवः ननु, ब्रह्मन् ! एते मनुष्या जाति-सम्बन्धाद् अतिस्निग्धाः मनुष्य-विग्रहं यां लालयन्ति न हि किञ्चिद् ऐश्वर्यम् एभ्यो मया दत्तं यत् स-चमत्कारं स्तवनीयम् इति चेत् तत्राह—प्रपञ्चम् इति । निष्प्रपञ्चत्वम् एभिर् निष्प्रपञ्चैः सह भूतलेऽवतीर्णः प्रपञ्चं विडम्बयसि तम् अनुसरन्न् अप्य् अन्तर्-निभृत-पारमैश्वर्यैः कर्मभिस् तं न्यक्-करोषीत्य् अर्थः । किम् अर्थम् एतत् ? तत्राह—प्रपन्नेति प्रपन्नाया जनताया यस् तादृश-कर्मानुभवोत्थ आनन्द-सन्दोह स्तं प्रथितं विस्तारयितुं भूतले तानि तादृशानि कर्माणि निशि दीप-वृन्दानीवातिशोभितान्य्-अनुभावयितुम् इत्य् अर्थः ! तव चैषां च मनुष्यत्वं स्वरूपतन्तु-विज्ञानानन्दत्वम् एव ऐश्वर्यन् तु तेषां पृष्ठ-लग्नम् एवेति भावः ॥३७॥
॥ १०.१४.३८ ॥
जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।
मनसो वपुषो वाचो वैभवं तव गोचरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवम् आदित आरभ्याचिन्त्यानन्त-गुणत्वेन स्वयं दुर्ज्ञेयत्वम् उक्तम्, केचित् तु जानीम इति स्थितास् तान् उपहसन्न् इवाह—जानन्त इति । न तु मे मन-आदीनां तव वैभवं विषय इति ॥३८॥
————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवम्—तद् वाक्यालङ्कारे, एवम् प्रकारे । यद् वा, तद् दुर्ज्ञेयत्वम् इति योजना । वैभवम् ऐश्वर्यम् । गोचरो विषयः । सत्यं तर्हि मत्-स्वरूपस्य मद्-व्रज-वासिनां मदीय-लीलाया मद्-भक्तेश् च सर्वम् एव तत्त्वं मद् अग्रेऽपि सप्रतिमम् एवं व्याचक्षाणा भवद्-विधा अस्मिञ् जगति कियन्तो वर्तन्तो वर्तन्ते, तान् जिज्ञासे कथयेति वक्रोक्तिम् आशङ्क्य स-त्रपं स-कम्पं सानुतापम् आह—जानन्त एवेति । ये जानन्तस् ते जानन्तु, अहं तु महा-मूर्ख एवास्मीति भावः ।
ननु, तर्हि कथम् एतावत् क्षण-पर्यन्तं ब्रूत एव तत्राह किम् बहूक्त्येति । त्वद् अग्रे बहूक्तिर् एव मूर्खत्वद् योतिनीत्य् अर्थः ।
ननु, ब्रह्मन् निष्कपट ब्रूहीति तत्राह—नेति । तव वैभ्वम् ऐश्वर्यं मम मनसो न गोचर इति ध्यानेनान्त-प्राप्त्य् अभावात् । वपुष इत्य् अधुनैव चक्षुषापि, वाच इति गुणात्मनस् तेऽपि गुणान् विमातुम् [भा।पु। १०.१४.७] इति मया तावद् उक्तम् एव ।
यद् वा, तव मनसो वैभवं मम न गोचर इति त्वन् मनसि यत्-किम् अप्य् अस्ति तत्-किं मया ज्ञातुं शक्यते साक्षात् तवैव किमुतात्म-सुखानुभूतेः इति पूर्वम् एव मद् उक्तेः । एवं त्वद् वपुष इति त्वद् वपुषि किम् अस्तीति तव वाच इति तव वेद-लक्षण्यां वाचि किम् अस्तीति, साक्षात् तव तु मयि मौनवत् त्वाद् वचन-गन्धस्याप्राप्तिर् एव । तस्मात् के खलु तवागे मद् आदयो वराका इति भावः ॥३८॥
————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१०४] तद् एवं ज्ञाने प्रयासम् उदपास्य [भा।पु। १०.१४.३] इत्य् आरभ्य प्रतिपादितं ज्ञानस्य तुच्छत्वं, भक्तेश् च महिमानं स्तुवन् । यद् वा, प्रथमं परम-स्तुतितयारब्ध-श्री-भगवद्-वपुषो वर्णनं तत्रापतित-विविध-शङ्का-निरासेन सुदृढीकृत्य, पुनर् अन्ते\ऽपि तद् एव प्रस्तावयन् । अथवा, अखिल-स्तुति-नदी-वितति-पर्यवसान-पदं श्री-भगवन्-महा-स्तुति-रूपं व्रज-वासि-माहात्म्य-वर्णनामृत-सागरं पिबन् तत्-तन्-महिम-ज्ञानाभिमानिनो मूढान् उपहसन्न् उपसंहरति—जानन्त [भा।पु। १०.१४.३८] इति ।
तत्राद्ये पक्षे ज्ञाने यतमाना ज्ञानं साधयन्तु नाम इत्य् अर्थः । इति ज्ञान-परान् प्रति सोल्लुण्ठ-वचनम् । पर-पक्ष-द्वये\ऽपि यथा-यथम् एवम् ऊह्यम् । बहूक्त्या महत्या उक्त्या ज्ञान-तत्-साध्य-तुच्छतायास् त्वद्-भक्ति-महिम्नश् च बहुना वर्णनेनापरेण किम् ? एतावद् एव वक्तव्यम् इत्य् अर्थः ।
किं तद् ? इत्य् आह—हे प्रभो ! हे विचित्रानन्त-प्रभाव ! तव वैभवं त्वद्-भक्ति-महिमा मम काय-वाङ्-मानस-व्यापाराणां न विषयः, अपरिच्छिन्नत्वाद् अवितर्क्यत्वाच् च। एतेन ज्ञानं तत्-फलादिकं चान्यद् अशेषं परिच्छिन्नत्वादिना विषय एवेति ध्वनितम्।
द्वितीये प्रकर्षेण सुन्दरतराकारादिना भवति प्राकट्यं प्राप्नोतीति प्रभो तत्-सम्बोधनम् । हे सर्व-विलक्षण-प्रकृष्टतर-रूप ! इत्य् अर्थः । तव वपुषो वैभवं न मदीय-मनो-वचसोर् विषय इत्य् अन्वयः ।
यद् वा, तव मन-आदीनां वैभवं न मे गोचरः । तत्र यथा तन्-मनो-वचसोर् वैभवं तत्-तद्-अभिप्रायादिकं न गोचरः, तथा त्वद्-वपुषो\ऽपीत्य् एवम्, अत्र दृष्टान्तत्वेन मनो-वचसोर् उपादानम् । इत्थं च यथामूर्त्यम् अव्यक्तम् अपरिच्छिन्नम् अवितर्क्यं संविच्-छक्ति-विशेष-रूपं तव मनो\ऽनन्तागाध-बोध-रूपं च वचस् तथैव तव वपुर् अपीति ध्वनितम् ।
तृतीये भवज्-जनानाम् [भा।पु। १०.१४.३०] इति, एषां तु भाग्य-महिता [भा।पु। १०.१४.३३] इत्य् एषां घोष-निवासिनाम् [भा।पु। १०.१४.३५] इत्य् अतो\ऽनेकशः प्रस्तुता व्रज-वासिनो\ऽनुवर्तन्त एव। अत एषां वैभवम् इति सम्बन्धः ।
ततश् चायम् अर्थः—हे अपरिच्छिन्न-विचित्र-शक्तिमन् ! व्रज-वासिनाम् एतेषां महिमा मम तवापि न काय-वाङ्-मनस-गोचरः । तत्र ब्रह्मणो देह-व्यापारेण महिम-ग्रहणं नाम तल्-लिखनं तद् अपि न स्याद् इति ज्ञेयम् । अथवा, तस्यापि वपुः प्रपञ्चातीतं नित्यं सर्व-शक्तिमद् एव भगवद्-गुणावतारत्वात् । अतः कथञ्चित् तेनापि तन्-महिम-ग्रहणं सम्भवतीत्य् आशङ्का-निरसनाय वपुष इत्य् उक्तम् ॥१०४॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवं ज्ञाने प्रयासम् उदपास्य [भा।पु १०.१४.३] इत्य् आरभ्य प्रतिपादितं ज्ञान-तुच्छत्वं भक्ति-माहात्म्यं चोप-संहरन्न् आह—जानन्त् इति । ये तव वैभवं त्वद् भक्ति-माहात्म्यं जानन्तो वर्तन्ते, ते महा-पण्डितं-मन्या जानन्तु नाम, अतो ज्ञाने यतमाना ज्ञानम् अपि किल साधयन्त्व् इति भावः । इति सोल्लुण्ठोक्तिः । बह्व्योक्त्या ज्ञानादि-तुच्छतया भक्ति-माहात्म्यस्य च वर्णनेनापरेण किम् ? प्रभो ! हे विचित्रानन्त-महा-प्रभाव ! तव वैभवं मम वपुषो लिखनादि-शक्त्या, वाचश् च वर्णनादिना, मनसोऽपि चिन्तनादिनाविषयो17ऽपरिच्छिन्नत्वाद् अवितर्क्यत्वाच् च । एवं तद् व्यतिरिक्तम् अन्यत् सर्वं गोचर इति सूचितम् ।
यद् व, प्रथमं परम-स्तुतिया प्रारब्धं श्री-भगवद्-वपुषो वर्णनं तद् अन्तरायोत्तर-काल-पतित-शङ्का-परम्परया तद्-भक्ति-भजन-माहात्म्य-वर्णनेन च, तद् एव सुदृढीकृत्योपसंहारेऽपि तद् एवाह—प्रकर्षेण सुन्दरतराकारादिना भवति प्राकट्यं प्राप्नोतीति प्रभुः, तत्-सम्बोधनम्—हे असाधारण-प्रकृष्टतर इत्य् अर्थः । तव वपुषो वैभवं न मम गोचर इत्य् अन्वयः ।
यद् वा, तव मन-आदेर् वैभवं न मे गोचरः । तत्र यथा समुद्रो-कोटि-गम्भीराशयस्य तव मनसस् तथैकस्यैव परिच्छिन्नत्वापरिच्छिन्नत्वादिना वपुषश् च तथानन्तागाध-वेद-रूपस्य । यद् व, परिमितस्यापि सर्वथातिशयस्य18 साम्प्रतं सख्य्-आदिषूचार्यमाणस्य वचसश् च वैभवं तत् तद् अभिप्रायादिकं न गोचरः ।
यद् व, प्रस्तुत-19 श्री-भगवन् महा-स्तुति-रूपं श्री-नन्द-व्रज-माहात्म्य-वर्णनम् उपसंहरन् तज्-ज्ञानाभिमानिनो मूढान् उपहसन्न् इवाह—एषाम् इत्य् आदेः । श्री-व्रज-वासिनोऽनुवर्तन्त एव, ततश् चैषां वैभवम् इत्य् अर्थ-बलाज् ज्ञेयम् । प्रभो ! हे श्री-गोकुलेश्वर ! व्रज-वासिनाम् एषां माहात्म्यं मम तवापि न काय-वाङ्-मनसां गोचरः, तथापि तज्-ज्ञानाभिमानं ये कुर्युः, ते परमाज्ञा उपहास्या एवेति भावः । अन्यत् समानम् ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् अस्यापि देव-वपुष [भा।पु १०.१४.२] इत्य्-आदिभिः सामान्यतस् तस्य महिम्नो दुस्तर्कत्वं दर्शितम् । पुनश् च पश्येश ! मेऽनार्यम् [भा।पु १०.१४.९] इत्य्-आदिभिः, स्वरूप-शक्ति-माया-शक्त्योः स्वरूपस्य च विशेषतः । अथ अहोऽतिधन्यादित्य्-आदिभिः, तन् निज-जन-प्रेम्णः एषां घोष-निवासिनाम् इत्य्-आदिना, कारुण्यस्य प्रपञ्चम् इत्य्-आदिना, लीलायाश् चेति तत्-तन्-निरूपणं परित्यज्योपक्रमार्थम् एव निजाभीष्टत्वेनाभिप्रयन्न् उपसंहरति—जानन्त इति । प्रभो ! हे विचित्रानन्त-महा-प्रभाव ! तव वैभवं वेदादिभिः श्रुतम् अपि मम मनसो न गोचरं न परिच्छेद्यं सामक्ष्येण दृष्टादि-रूपम् अपि वपुषश् चक्षुर् आदि-गोलकस्य न अत एव न वाचः तस्मान् नौमीत्य्-आदिना यत् प्रार्थितं तद् एव प्रार्थय इति भावः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवम् अस्यापि देव-वपुष [भा।पु १०.१४.२] इत्य्-आदिभिस् तस्यानेकधा दुस्तर्कत्वम् एव प्रदर्श्य, तत्-तन्-निरूपणं परित्यजन् उपक्रमार्थम् एवाभीष्ट्वेनाभिप्रायं तूपसंहरति—जानन्त इति । हे कृष्ण ! सर्वेन्द्रियाकर्षक-गुण-रूप ! अनुजानीहीति गमनानुज्ञेयं नात्मेच्छया प्रार्थ्यन्ते किन्त्व् अवस्थानार्हतयैवेति भावः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इत्य् एवाहं जानामि, अन्ये येऽन्यज् जानन्ति, ते जानन्तु नामेति स-कटाक्षम् आह—जानन्त एवेत्य्-आदि । जानन्त एव तव महिमानं जानीम इत्य् अभिमानवन्त एव जानन्तु, किं बभुक्त्या, तान् प्रति बहुना व्याहारेण, अथवा, किं बहूक्त्येत्इ परवाक्येन सह सम्बध्यते । ते जानन्त्वेव मम तु मनसा वपुषो वाचो गोचरस् तव वैभवं न भवति, अचिन्तनीयत्वान् न मनसो गोचरः, अनन्तत्वान् न वाचो गोचरः वपुः-शब्दोऽत्र चक्षुः-श्रवणाद्य् अर्थः, तेन तद् अगोचरत्वेन चक्षुरादेर् अप्य् अगोचरः ॥३८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यं तर्हि मत्-स्वरूपस्य मद्-व्रज-वासिनां मदीय-लीलाया मद् भक्तेश् च सर्वम् एव तत्त्वं मद् अग्रे\ऽपि स प्रतिभम् एवं व्याचक्षाणा भवद् विधा अस्मिन् जगति कियन्तो वर्तन्ते तान् जिज्ञासे कथयति वक्रोक्तिम् आशङ्कय स-त्रपं स-कम्पं सानुतापम् आह—जानन्त एवेति । ये जानन्तस् ते जानन्तु अहं तु महा-मूर्ख एवास्मीति भावः ।
ननु, तहि कथम् एतावत् क्षण-पर्यन्तं ब्रूषे एव तत्राह—किं बहूक्त्येति । त्वद् अग्रे बहूक्तिर् एव मूर्खत्व-द्योतिनीत्य् अर्थः । ननु, ब्रह्मन् ! निष्कपटं ब्रूहीति तबाह—नेति । तव वैभवम् ऐश्वयं मम मनसो न गोचर इति ध्यानेनान्तप्राप्त्य्-अभावात् वपुष इत्य्-अधुनैव चक्षुषापि वाच इति गुणात्मनस् ते\ऽपि गुणान् विमातुम् [भा।पु। १०.१४.७] इति मया तावद् उक्तम् एव । यद् वा, तव मनसो वैभवं मम न गोचर इति त्वन् मनसि यत् किम् अप्य् अस्ति तत् किं मया ज्ञातुं शक्यते साक्षात् तवैव किनुतात्म-सुखानुभूतेः इति । पूर्वम् एव मद् उक्तेः एवं त्वद् वपुष इति त्वद् वपुषि किम् अस्तीति तव वाच इति । तव वेद-लक्षणायां वाचि किम् अस्तीति साक्षात् तव तु मयि मौनवत्त्वात् वचन-गन्धस्याप्य् अप्राप्तिर् एव तस्मात् के खलु त्वद् अग्रे मद् आदयो वराका इति भावः ॥ ३८ ॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद् एवं यथा-मति प्रभुं स्तुत्त्वा विज्ञम् अन्यानुपहसन् दुर्ज्ञेयताम् आह—हे प्रभो तव मन आदीनां भवं सङ्कल्प-विभूति-तात्पर्य-रूपं मे गोचरो नेति ॥३८॥
॥ १०.१४.३९ ॥
अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्व-दृक् ।
त्वम् एव जगतां नाथो जगद् एतत् तवार्पितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : जगद्-ईशत्वाद्य्-अभिमानं परित्यज्याह—अनुजानीहीति । स्व-महिमानम् अस्मद् आदीनां च ज्ञान-बलादि सर्वं त्वम् एव वेत्सि । यतः सर्व-दृक् जगतां नाथस् तु त्वम् एवेत्य् एतावज् ज्ञातम्, अतो ममतास्पदं जगद् एतच् छरीरं च तवार्पितम् ॥३९॥
————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वन्यूनताद्योतनेन भगवतो महत्त्वम् आह—जगदीशेति । अनुजानीहि अनुज्ञां देहि ।
ननु, मम वैभवं तव मास्तु गोचरस् तव वैभवम् अहं वेद्मि न वेति तत्र किम् अहम् अत्र प्रत्युत्तरं कुर्याम् इति व्यञ्जयन् सलज्जं सनिर्वेदम् आह—अनुजानीहीति । अन्तर्-भावितण्य् अर्थः अनुज्ञापपयेत्य् अर्थः । अत्र स्थले क्षणम् अपि स्थातुम् अयोग्यम् अतिनीचं माम् आज्ञापय, यादृशोऽहं तादृशं स्थलं सत्य-लोकम् एव गच्छेयम् इति भावः । हे कृष्ण चित्तं त्व् अस्माकम् अत्राकर्षयेव । किन्तु, तद् भूरि-भाग्यम् इह जन्म [भा।पु। १०.१४.३४] इति मत् प्रार्थनायां दृग् इङ्गितेनाप्य् अस्त्विति श्री-मच् चरणैर् नोक्तम् अतः किं कुर्वे, तस्मात् तत्-पुलिन-भोजन-केलेर् अन्तरायं कुर्वन्न् अयम् अपराधी त्वल् लिला-प्रातिकूल्याद् एव श्री-मुखोद्गत-वचन-सुधा-लेशम् अप्य् अनाप्नुवन्न् अहम् इतो झटिति दूरम् अपसरामि, त्वं वत्सान् पाययित्वा पुलिने भुञ्जनैः प्रिय-सखैः सह सहासोक्ति-प्रत्युक्ति-कौतुकं भोजन-लीला-शेषं समापयेति ध्वनयः । अयम् अहं त्वतितारल्यात् पुनः पुनः किं वा, विज्ञापयामीत्य् आह—सर्वम् अस्मद् आदीनां मनोवपुर् वाचां वैभवं त्वम् एव वेत्सि । किं च, नाहम् अस्य जगतः स्वष्ट्रत्वान् नाथः किन्तु त्वम् एव जगताम् अन्येषां बहूनां नाथः । अत एतच् च जगत् क्षुद्रतरं तव त्वदीयम् एव त्वयार्पितम्, यम् इच्छसि योग्यम् अस्य जानासि तम् अस्याधिकारिणं कुर्विति भावः ॥३९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किं बहुना प्रलापेन ? सर्वम् एव त्वं वेत्सीत्य् आह—अनुजानीहीत्य्-आदि । एतज्-जगत् तवार्पितं तत् त्वय्य् एवार्पितम् । एतेन सह मम कर्ट्र्त्वेन दायो नास्ति, नाहम् अस्य कर्ता, च-कारात् एतत् शरीरं च त्वय्य् एवार्पितम् ॥३९॥
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१०५] एवं स्तुति-प्रभावात् भासित-भगवत्-प्रसादतस् तदानीम् एवाखिलाभिमानापगमेन जातं परम-दैन्यम् आश्रितः सन् दीर्घ-कालं व्रज-वासि-समीपे\ऽवस्थातुम् अयोग्यम् आत्मानं मन्यमानो\ऽपराधान्तरम् अपि आशङ्क्यमानो निज-स्थानं गन्तुं प्रार्थयते—अनुजानीहि [भा।पु। १०.१४.३९] इति ।
निज-महिमानं मादृशां च निकृष्टत्वादिकं सर्वं त्वम् एव वेत्सि, यतः सर्व-दृक् सर्वम् एव साक्षात् सदा पश्यसि । अतस् त्वां स्तोतुम् अपि नार्हामीति मां प्रति गमनायानुज्ञां देहि ।
यद् वा, ननु, मम रूप-नामादीनां भक्तेर् भक्तानाम् एषां च व्रज-वासिनां माहात्म्यं विशेषतो वर्णय ? तत्राह—सर्वम् इति । वैभवम् इत्य् अनुवर्तत एव । तत् तद् अशेषं माहात्म्यं सर्व-दृग् अपि त्वं वेत्सि । किं काकूक्त्या, नैव जानासीत्य् अर्थः, तत्-तन्-महिम्नो\ऽन्ताभावात् ।
अथवा, भो ब्रह्मन् ! त्वयात्र किञ्चिज् जन्माधुनैव प्रार्थितं । तत् कथम् अन्यत्र गन्तुम् इच्छसि ? मत्-कर्ण-सुखावहम् ईदृशं व्रज-महिम-वर्णनम् एवात्रावस्थाय विधेहि । तत्राह—सर्वम् इति ।
अयम् अर्थः—चतुर्मुख-शरीरेणानेन सुखम् अत्र वस्तुं नार्हामि इति शरीरान्तरं च मम द्विपरार्धाभ्यन्तरे दुर्घटम् । अतो\ऽधुना व्रज-वासिनाम् एषां पाद-रजो\ऽभिषेको\ऽपि मम दुर्लभ एव भविता । किं च, निजाशक्ये एषां महिम-वर्णने प्रवृत्तिः परम-लज्जा-हेतुर् दोषायैवेत्य्-आदिकं मदीयम् । त्वम् अपि ऋणीव सदा व्रज-वासि-वश्य-तदीय-प्रेम-भक्त्य्-एक-रसो\ऽतः क्षणम् अपि तैः सहासङ्कोचं सुख-विहारं विनान्यत्र किम् अपि न रोचते इत्य्-आदिकम् आत्मनश् च सर्वं वृत्तम् । कृष्ण ! हे व्रज-जनैकानन्द ! त्वं वेत्स्य् एव तत् कथम् अत्र स्थास्यामि ? इति ।
ननु, सर्वज्ञेन भवता पूर्वं कथम् एवम् अपरामृश्य तथा याचितम् ? तद्-वर्णने वा प्रवृत्तं च ? तत्राह—सर्वं पश्यति जानातीति सर्व-दृक् त्वम् एव, मादृशास् तु किञ्चिज् ज्ञा एव। यद् वा, सर्वं दर्शयति ज्ञानादि-शक्ति-प्रदानेन सर्वत्र सर्वं प्रवर्तयतीति सर्व-दृक् । यथा त्वयान्तर्यामिणा प्रेरितं, तथैव मया प्रार्थितं प्रवृत्तं च । तत्र मम न को\ऽपि गुणो दोषो वा । गुणश् चेत् प्रेरकस्येश्वरस्यैव, स-दोषश् चेत् तेन किल प्रेर्ये\ऽर्पयितुं न युज्यत इति भावः । एतद् अपि सर्वं वेत्सि ।
ननु, दास्ये सत्य् एवम् उक्तं स्यात् । तच् च जगत्-स्वामिनस् तव न सम्भवत्य् एव ? तत्राह—त्वम् इति । त्वम् एव नाथः, न त्व् अहम् अन्यो वा कश्चित् । तत्र च जगताम् एव नाथः । अतो ममापि जगन्नाथत्वात् तव दास एवाहम् इति भावः ।
ननु, सृष्टि-कर्तुः पितामहस्य तव पुत्र-पौत्रादि-रूपं जगत्-त्रयाधिक्रियमाणम् एतत् प्रत्यक्षं दृश्यते । कथं मे जगन्नाथता यया त्वं मद्-दासः स्याः ? तत्राह—जगद् इति। सर्वम् एवैतत् तव, त्वयि अर्पितम् आहितम्, अत एव त्वद्-अधीनम् इत्य् अर्थः ।
यद् वा, तवैतद् अखिलं त्वयैव मय्य् अर्पितं स्थापितं, त्वत्-कर्तृकार्पण-पाटवेनैव मदीयत्वेन परिस्फुरतीति भावः । अथवा, मम जगद्-ईशत्वे जगताम् एवेशितव्यतया दासता सहजा वर्तत एव । तत् कथं परतो घोषणया20 ? पूर्वम् अभक्तास् त्वया निन्दिताः, कथं वा भक्तिम् अतीव प्रशश्य परमौत्सुक्येन स्वयं दास्यं ? तत्राप्य् अत्र व्रजे किम् अपि जन्म प्रार्थितम् ? सत्यं त्वद्-अधीनतया स्वाभाविके त्वद्-दास्ये वर्तमाने\ऽपि प्रेम्णा विचित्र-भक्त्यैव दासता परमोत्तमा सुदुर्लभा सर्वैर् अपि साध्या । सा च सर्वार्पणं विना यथार्थं न सिध्यतीति तद्-अर्थं सर्वम् एवार्पयामीत्य् आह—ममतास्पदं जगद्-अहन्तास्पदं चैतच् छरीरं स्तोत्रादिकम् अपि मया त्वय्य् एवार्पितम् ।
एतच् च ध्वनितम्—यद्यपि जगत् सर्वं तव जगन्नाथस्यैव, तथापि हे कृष्ण ! जगन्नाथत्वाद् बहिर्-अन्तर्-ईश्वरस्यान्तर्यामिनस् तव प्रेरणया त्वदीय-महिम-विशेषालोचनेन परमोत्तम-दास्य-प्राप्तये त्वय्य् एव मया पिष्ट-पेषण-न्यायेनाप्य् अर्पितम्। एवम् अनधिकारिणो मम तादृश-दुर्घट-द्रव्य-प्रार्थना-दोषो\ऽपि त्वया क्षन्तव्य एवेति ॥१०५॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं स्तुति-प्रभावजनित-श्री-भगवत्-प्रसाद-विशेषतोऽखिलाभिमानापगमेन परम-दैन्यम् आश्रितोऽतज्-ज्ञानादिन् एव निज-स्थानं गन्तुम् अनुज्ञां प्रार्थयते—अनुजानीहीति । कृष्ण ! हे निजाशेष-भगवता प्रकटनपर ! सर्वम् उक्तत्वद् वैभवं त्वम् एव वेत्सि, यतः सर्व-दृक् सर्वज्ञः । यद् वा, सर्व-दृग् अपि त्वं वेत्सि किम् ?—काक्वा, नैवेत्य् अर्थोऽनन्तत्वात्, अतस् तत् स्तोतुम् अपि नार्हामीति प्रस्थापयेत्य् अर्थः । किम् च, त्वद् भक्ति-सिद्धयेऽभिमान-त्यागेन21 निजं सर्वं त्वय् अर्पयामीत्य् आह—त्वम् एवेति । अन्यत् तैर् व्यञ्जितम् ।
अथवा, भो ब्राह्मन् ! त्वयात्र किम् अपि जन्माधुनैव प्रार्थितम्, तत् किम् अन्यत्र गन्तुम् इच्छसि ? तत्राह—सर्वम् इति । चतुर्मुखेनानेन देव-देहेनात्र स्थातुं नार्हामीत्य् आदिकं मद्-वृत्तम्, त्वं चैषां प्रेमवश्यो यथेष्टम् एतान् रमयितुं व्यग्रोऽसीत्य् आदिकं च वृत्तम्, हे कृष्ण ! व्रज-जनैक-प्रिय ! त्वं वेत्स्येव, तत् कथम् अत्र स्थास्य्सामीति भावः । किन्तु निज-तत्-प्रार्थित-सिद्धये सर्वं त्वय्य् अर्पयामीत्य् आह—जगतां नाथस् त्वम् एवेत्य् अर्पणाभिमानोऽपि न मम घटतेऽतोऽर्पणम् अप्य् अर्पितम् इति भावः । अथवा भोः परमेष्ठिन् ! सृष्ठादिना तावज् जगदीशस् त्वम्, तत् कथम् ईदृशं दैन्यम् आलम्बसे ? तत्राह—तवैवैतज् जगद् अर्पितं मयि त्वयैवातोऽत्र न मम नाथत्वम्, किन्तु त्वत्-कर्तृकार्पण-महिम्नैव मद् अधिकृततया स्फुरतीति भावः ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तत् तत् प्रकरणन्ते या दैत्यात्मिका भक्तिर् एव तत् प्राप्ति-कारणत्वेन दर्शिता, ताम् एवाविष्कुर्वन् अनुज्ञां प्रार्थयते—हे कृष्ण ! सर्वेन्द्रियाकर्षक-रूप-गुण ! अनुजानीहि अनेन गमनानुज्ञेयं नात्मेच्छया प्रार्थ्यते किं त्वत्रावस्थानानर्हतयैवेति सा च प्रार्थितस्यापि तस्य मौनितयेति भावः । त्वयि च यन् मयोक्तं यद् वा वक्तव्यं तत् सर्वं पुनर् उक्तम् एवेत्य् आह—सर्वं स्व-वैभवं मद् वैभवं च स्वमनो-गतं मन् मनो-गतं च स्व-निगूढ-लीलत्वं मद् अयोग्यत्वं चेत्य् आदिकं त्वम् एव वेत्सि नाहम् इत्य् अतस् त्वद् आज्ञां विना तृणादि-रूपेणाप्य् एषां तृणादीनां सौभाग्यम् आसादयितुं न शक्नोमिति भावः । विषयम् अपि त्यक्तुं न शक्नोमीत्य् आह—त्वम् एवेति । तव त्वयैव मह्यम् अर्पितं दासस्याज्ञास्थायित्वम् एव युक्तम् इति भावः । यदि चैवं ब्रूषे अपहृतात्मनां बाल-वत्सानां दर्शनं विना कथम् अनुज्ञां याचसे तत्राप्य् एवं निवेदयामीत्य् आह-सर्वं त्वं वेत्सि सर्व-दृग् इति चात्र ज्ञापितम् ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वम् इति तथाप्य् अत्रावस्थानाज्ञाया अलाभात् कथं स्थास्यामीति भावः । विषयम् अपि न त्यक्तुं शक्नोमीत्य् आह—तवेति । तव त्वयैव मय्य् अर्पितं दासस्याज्ञास्थायित्वम् एव च युक्तम् इति भावः ॥३९.४०॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपसंहरति—अनुजानीहीत्य्-आदि । हे कृष्ण ! माम् अनुजानीहि । ननु किम् अनुज्ञास्यामीत्य्-आशङ्क्याह—सर्वं त्वं वेत्सि, तत् किं कथनीयम् । ननु कथम् अहं वेद्मि? तत्राह—सर्व-दृक् सर्वज्ञो\ऽसि । ननु ज्ञातं भो ज्ञातम्, तत् भूरि-भाग्य मिहेति यद् उक्तम् तद् एव तव तु जगत्-स्रष्टुर् एवं न युज्यत इत्य्-आशङ्क्याह—त्वम् एवेति जगतां नाथस् त्वम् एव, नान्योऽस्मद्-विधादिः । कुतः ? इत्य् आह—जगच् चैतत् तवार्पितं त्वय्य् एवार्पितम् । त्वय्य् अर्पितस्य नाथस् त्वां विना कोऽन्यो भवतु ? तस्माद् यथाभिलषितम् एव भूयाद् इत्य् अनुजानीहि ॥३९ ॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, मम वैभवं तव मास्तु गोचरस् तव वैभवम् अहं वेद्मि न वेत्तीति वक्रोक्तिम् आशङ्कय किम् अहम् अत्र प्रत्युत्तरं कुर्य्यामिति व्यञ्जयन् स-लज्जं स-निर्वेदम् आह—अनुजानीहीति । अन्तर्भावितण्य् अर्थम् अनु अनुज्ञापयेत्य् अर्थः । अत्र स्थले क्षणम् अपि स्थातुम् अयोग्यम् अतिनीचं मामाज्ञापय यादृशो\ऽहं तादृशं स्थलं सत्य-लोकम् एव गच्छेयमिति भावः । हे कृष्णेति चित्त तू त्वम् अत्राकर्षरय् एव किं तु तद् भूरि-भाग्यम् इह जन्मेति मत्-प्रार्थनायां दृग्-इङ्गितेनाप्य् अस्त्विति श्री-चरणैर् नोक्तम् अतः किं कुर्वे तस्मात् त्वत्-पुलिन-भोजन-वेलावन्तरायं कुर्वन्न् अयम् अपराधी त्वल्-लीला-प्रातिकूल्याद् एव श्री-मुखोद्गत-वचन-सुधा-लेशम् अप्य् अनाप्नुवन्न् अहम् इतो झटित्य् एव दूरम् अपसरामि त्वं वत्सान् कालयित्वा पुलिने भुजानः प्रिय-सखैः सह सहासोक्ति-प्रत्युक्ति-कौतुकं भोजन-लीलाशेष समापयेति ध्वनयः । अयम् अहं त्वतितारल्यात् पुनः पुनः किं वा, विज्ञापयामीत्य् आह, सर्वमीत्य् आह, सर्वम् अस्मद्-आदीनां मनो-वपुर्-वाचां वैभवं त्वम् एव वेत्सि किं च नाहम् अस्य जगतः स्पृष्टत्वान् नाथः किं तु त्वम् एव जगताम् अन्येषाम् अपि बहूनां नाथः अत एतच् च जगत् क्षुद्रतरं तव त्वदीयम् एव त्वय्य् अर्पितं यमिच्छसि योग्यमस्य जानासि तम् अस्याधिकारिकं कुर्विति भावः ॥३९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१४.४० ॥
श्री-कृष्ण वृष्णि-कुल-पुष्कर-जोष-दायिन् ।
क्ष्मा-निर्जर-द्विज-पशूदधि-वृद्धि-कारिन् ॥**
उद्धर्म-शार्वर-हर क्षितिराक्षस-ध्रुग् ।
आकल्पम् आर्कम् अर्हन् भगवन् नमस् ते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं किङ्करं मां प्रस्थापयेत्य् अत्य्-आदरेण नमस्-करोति, श्री-कृष्णेति । वृष्णि-कुल-पद्मस्य प्रीति-दातृत्वेन हे सूर्योपम । क्ष्मा चावनिर् निर्जरा देवाश् च द्विजाश् च पशवश् च त एवोदधयस् तेषां वृद्धि-कारित्वेन, हे चन्द्रोपम ! उद्धर्मः पाखण्ड-धर्मस् तद् एव, शार्वरं तमस् तद् धरतीति तथा, अनेन द्वयोपम, हे क्षिति-राक्षस-ध्रुक् क्षितौ राक्षसाः कंसादयः उद्यन्न् एव तेभ्यो द्रुह्यतीति पुनः सूर्योपम । सूर्याद्य्-उपमापि न्यूनेति मत्वाह—आर्कम् अर्कम् अभिव्याप्य सर्वेषाम् अर्हन् पूज्य भगवन्, आकल्पं कल्प-पर्यन्तं ते तुभ्यं नम इति ॥४०॥
स-सखि-वत्सक-मोक्षण-कौतुक-
द्रुत-विलम्बित-पुत्र-मुदेऽद्भुतम् ।
निखिल-रूपम् अतो दधद् अच्युतोऽ
वतु स वः कलयन् व्रज-मङ्गलम् ॥*॥
————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवम् इत्य् उक्तार्थम् । पशवो गावश् च । उद्गतो धर्मो यत्र स उद्धर्मः । शर्वर्यां भवं शार्वरम् । यद्य् अपि माम् अपराधिनं विज्ञाय न ब्रूषे तद् अपि स्वनेत्राभ्यां सानुग्रहावलोकनामृतं तु मह्यं देहि, यथा तेनैवाहारेण नित्यं प्राणान् रक्षन् कल्प-पर्यन्तं जीवितुं प्रभविष्यामीति व्यञ्जयन् प्रणम् इति—श्री-कृष्णेति । सूर्य-स्वरूपं दक्षिणं नेत्रम् आलक्ष्य् आह—वृष्णि-क्लुल-पद्मस्य पोषं प्रफुल्लत्वं तत् प्रदायिन् । माम् अपि पद्मसन्तानं कृपया प्रफुल्लयेति भावः । चन्द्र-स्वरूपं वामं नेत्रम्
आलक्ष्याह—क्ष्मा तत्रत्या मनुष्यादयः, निर्जराः स्वर्गस्था देवाः, द्विजाः पशवश् च वृन्दावनस्थाः, पशवो गावश् च त एवोद्ध्यस् तेषां वृद्धि-कारिन् । माम् अपि देवाधमं कृपया वर्धयेति भावः । युगपद् एव नेत्रे द्वे एव पुष्पवन्तावालक्ष्याह—उद्धर्मः, पाषण्ड-धर्मः स एव शार्वरम् अन्धतमसम् शार्वरं त्व् अन्धतमसे इत्य् अमरः । तद् धरतीति तथा । तेन स्व-प्रभौ त्वय्य् अपि माया-चिकीर्षा-लक्षणं पाषण्डं मम हर कृपया, यथा पुनर् एवं न कुर्याम् इति भावः । क्षिति-राक्षसाः अघासुरादयस् तेभ्यो द्रुह्यति द्रोहेणापि स्वर्गतिं ददासीत्य् अतस् त्वद् वस्यस्य वृन्दवत्स-वृन्दद्रोहित्वावत्स-लोक-ब्रह्म-राक्षसं माम् अपि दण्ड-प्रदानेनापि संस्कुरुष्वेति भावः । स्व-प्रभोर् अनुग्रहं निग्रहं वा दृष्ट्वा दासो जीवितुम् उत्सहते, औदासीन्यं दृष्ट्वा तु न प्राणान् धर्तुम् ईष्ट इति भावः ॥ अत्र विश्वनाथः
तोषणीकारास् तु—प्रीति-सादर-सर्व-सम्पदनुभव-पूर्वकं प्रणामाय प्रथमतः कृष्णेति-स्वरूप-नाम्ना सम्बोधनम् ॥४०॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नौमीत्य् उपक्रम्य नमस्कारेणोपसंहरति—श्री-कृष्ण इत्य्-आदि ॥४०॥
———————————————————————————————————————
सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१०६] तद् एवं किङ्करं प्रस्थापयेत्य् आदरेण नमस्करोति—श्री-कृष्णेति [भा।पु। १०.१४.४०] । वृष्णि-कुल-पद्मस्य प्रीति-दातृत्वेन हे सूर्योपम ! क्ष्मा च निर्जराश् च देवाः, द्विजाश् च, पशवश् च, ते एव उदधयः, तेषां वृद्धि-कारित्वेन हे चन्द्रोपम ! उद्धर्मः पाषण्ड-धर्मः, तद् एव शार्वरं तमः उद्धरतीति तथा । अनेन द्वयोपमः । हे क्षिति-राक्षस-ध्रुक् ! क्षितौ राक्षसाः कंसादयः उद्यन्न् एव तेभ्यो द्रुह्यतीति पुनः सूर्योपमा । सूर्याद्य्-उपमापि न्यूनेति मत्वाह—आर्क अर्कम् अभिव्याप्य सर्वेषाम् अर्हं पूज्य भगवन् आकल्पं कल्प-पर्यन्तं ते तुभ्यं नमः ।
अथवा इत्थं सञ्जात-परम-भक्त्या विचित्र-नाम-सङ्कीर्तन-रूपां परमां स्तुतिम् अन्ते कुर्वन् प्रारब्धं समापयितुं प्रणमन् सर्वम् अवतार-प्रयोजनम् एकेनैव श्लोकेन संक्षिप्य वर्णयति—श्री-कृष्णेति । तत्र प्रथमं वृष्णि-कुलेति । सूर्योदयेन कमलानां तमो-निरसन-प्रकाशनादिकम् इवाविर्भाव-मात्रेण श्री-वसुदेवादिक-यादव-वर्गस्य दुःख-नाश-पूर्वकम् आनन्द-दातृत्वं वर्णितम् । तथा च दशम-स्कन्धे—
स बिभ्रत् पौरुषं धाम राजमानो यथा रविः । > दुरासदो दुर्विषहो22 भूतानां सम्बभूव ह ॥[भा।पु। १०.२.१७] > इति ।
स आनकदुन्दुभिर् वसुदेवः । तथा देव-स्तुतौ—दिष्ट्या हरे\ऽस्या भवतः पदो भुवो भारोपनीतस् तव जन्मनेशितुः [भा।पु। १०.२.३८] इत्य्-आदि ।
दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान् > अंशेन साक्षाद्-भगवान् भवाय नः । > मा भूद् भयं भोजपतेर् मुमूर्षोर् > गोप्ता यदूनां भविता तवात्मजः ॥[भा।पु। १०.२.४१] इति ।
ततो जन्माध्याये—मही मङ्गल-भूयिष्ठ-पुर-ग्राम-व्रजाकरा [भा।पु। १०.३.२] इत्य्-आद्य्-उक्तानुसारेण पृथिव्या देवानां ब्राह्मणानां च तथा पशूदधिर् नन्दस्य व्रजस् तस्य चेति गवादीनाम् अपि वर्धनम् उक्तम् । यद्यपि पृथिव्या वर्धनेनैव तद्-अन्तर्-गतानां यादव-द्विज-व्रजानां वृद्धि-कारित्वम् आयाति, तथापि भक्त-वात्सल्यं गो-ब्राह्मण-हित-कारित्वं च सर्वत्रैव भगवन्-माहात्म्यम् अवश्यं वर्ण्यत इत्य् अतो\ऽथवावतारे\ऽस्मिन् विशेषतः एषां संवर्धनम् इत्य् अतः पृथग् ग्रहणम् ।
अधुना निज-प्रेम-भक्ति-विस्तारकत्वम् एवाह—उद्धर्मः उच्चो धर्मः अवश्य-प्रतिपाल्य-स्वधर्मादि-लक्षणः, तं शर्वरी-सम्बन्धि-तमो-भयादिकं च । गोपीनां रास-क्रीडया हरतीति । तथा अभूतम् अपि एतद् अवश्यम्-भावित्वेन सर्वज्ञत्वात् सूचितम् । यद् वा, धर्मो मद्-भक्ति-कृत् प्रोक्तः [भा।पु। ११.१९.२७] इत्य् एकादश-स्कन्धे भगवद्-वचनाद् धर्मो\ऽत्र भक्ति-लक्षणः तद्-विरुद्धं विमार्ग-वाचकोत्पथादिवत् ज्ञान-कर्मादिकं सर्वम् एवोद्धर्मः । तच् च सदा सर्वत्र प्रकाशमानस्यापि भक्ति-मार्गस्य गुहादौ द्रव्याणाम् इवाच्छादकत्वाच् छार्वरं तमः तद् धरति इति तथा । हे स्व-भक्ति-प्रकाशकेत्य् अर्थः ।
तत्र तमसि ये चरन्ति त एव रजनी-चर-साम्याद् अखिल-लोकैक-जीवन-भक्ति-मार्ग-विघातकत्वाच् च राक्षसाः ते च प्रायशः पृथिव्य्-अन्तर्-गते कर्म-क्षेत्रे एवेति क्षिति-ग्रहणम् अन्ये च वृष्णि-कुलादि-द्वेषिणो ये ये क्षिति-राक्षसाः कंसादयो ये च रास-क्रीडादि-विघातकाः शङ्खचूडारिष्टादयस् तेभ्यः सर्वेभ्य एव तत्-तद्-विघ्न-विनाशाय विचित्र-लीलया द्रुह्यतीति तथा ।
एवं कर्तुं च त्वम् एवार्हसि, नान्यः को\ऽपीत्य् आह—अर्हतीत्य् अर्हन् हे सर्वं कर्तुं योग्य समर्थेति वा । यत् पूर्वं नारायण-रूपेण नानावतारैश् च त्वया नाचरितं तद् अधुनाविष्कृताशेष-भगवत्तापरा-काष्ठाकत्वात् सम्पादयितुं तवैवोचितं शक्यं चेत्य् अर्थः ।
ननु, वेद-विहित-स्वधर्म-ज्ञानादि-पराणां तथा मातुलत्वादि-सम्बन्धवतां कंसादीनां द्रोहो\ऽनुपयुक्त एवेति चेत्, तत्राह—हे भगवन् परम-कृपालो ! तेषाम् एव हितार्थम् एवं करोषीत्य् अर्थः ।
अयं भावः—ये त्वद्-भक्ति-विमुखा ज्ञान-कर्म-पराः अन्तर्-निगूढासुर-भावाः तेषां तद्-दुःख-भावापनयनेन ये च सर्व-लोकोपतापकाः कंसादयस् तेषां विमुक्ति-प्रदानेन घात एव परम-कारुणिकताम् अभिव्यञ्जयतीति । अथवा स्वामि-व्याख्यैवानुसर्तव्या । इत्थम् एव हे अर्हन् ! सर्वेषां पूज्य ! यतो ज्ञान-कर्म-परा अपि भक्ति-मार्गे\ऽधुना प्रविष्टाः यथा अक्रूर-भीष्मादयः । प्रकट-दैत्याश् च कंसादयो\ऽन्तर्-भयादिना त्वद्-भावनया भक्तिम् एवाश्रिताः । बहिश् च निज-सहज-कर्म-सामर्थ्य-रहितत्वान् मृत-तुल्या एव जाता विमुक्तिं वा मरणेन प्राप्ताः अवश्यम्-भावित्वात् अभूतम् अपि भूतवत् सूचितम् । यद्य् एवं त्वया न कृतं स्यात्, तदा सर्वैर् एव त्वं न पूजितः स्या इति भावः ।
एवं स्तुवन् निर्भर-प्रेम-रस-निमग्नो भगवता सह व्रज-वासिनः सर्वान् एव यास्यन् नमस्करोति । आर्कम् अर्क-नाम-वृक्ष-विशेषो निष्प्रयोजनो भगवत्-पूजानर्हो वैष्णवानाम् अनादरणीयः अत्रत्यं तम् अभिव्याप्य तुभ्यं नमः, त्वां त्वदीयांश् चात्रत्यान् सर्वान् जङ्गमान् स्थावरान् अपि नमामीत्य् अर्थः । एतच् च तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्याम् [भा।पु। १०.१४.३४] इति निज-प्रार्थनानुरूपम् एव । यतो\ऽत्रत्यो\ऽर्क-वृक्षो\ऽपि मन्-नमस्यो मत्तो\ऽधिकतर एव, अतो न तादृशम् अपि जन्मात्राहम् अर्हामि । अतस् तस्माद् अप्य् अल्पतरम् अन्यत् किञ्चिद् एव प्रार्थ्यम् इति ध्वनितम् । तत्र च प्रणामेषु संख्यातृप्तिर् अपि कथञ्चिन् नास्तीत्य् आकल्पम् इत्य् उक्तम् । इत्थं सर्व-शोभा-युक्त-कृष्ण ! हे श्री-कृष्ण ! इति ॥१०६॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे श्री-कृष्णेति, श्रीः सर्व-विषयक-विविध-शोभा, तद् युक्त-कृष्ण ! श्रीमत् त्वाद् एव सर्वचित्ताकर्षकेति सर्वथा सर्वतो वैशिष्ट्यम् अभिप्रेतम् । तद् एवाभिव्यनक्ति-वृष्णीत्य्-आदिना, तत्र तत्र हेतुः—भगवन्न् इति सर्वैश्वर्य-विस्तारकेत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, इत्थं सञ्जात-परम-भक्त्यान्ते विचित्र-नाम-सङ्कीर्तन-रूपां स्तुतिं कुर्वन् सर्वम् अवतार-प्रयोजनम् एक-श्लोकेन संक्षिप्य वर्णयन् स-पदाव्ज-ग्रहं प्रणमति । तत्र वृष्णि-कुलेति—सूर्योदयेन कमलानां तमोमुद्रा-निरसन-पूर्वक-प्रकाशनम् इवाविर्भाव-मात्रेण श्री-वसुदेवादि-यादव-वर्गाणां दुःख-नाशन-पूर्वकानन्द-प्रदत्वं प्राग्-वर्णितम् । तच् चोक्तम् एव स विभ्रत् पौरुषं धाम [भा।पु १.२.१७] इति दिष्ट्या हरेऽस्या भवतः पदो भुवः [भा।पु १.२.३८] इत्य्-आदिना । किं च, पृथिव्याश् च देवानां च विप्राणां च पशूदधेश् च गवादि-पशु-समुद्रस्य श्री-नन्द-व्रजस्य वृद्धि-कारिन् ! अधर्म-निवर्तन-धर्म-प्रवर्तनादिना साक्षाद् दुःख-हरण-सुख-सम्पादनादिना च वर्धनशील ! यद्य् अपि क्ष्मा-वर्धनेनैव तद् अन्तर्-गतानां द्विज-गवादीनां वृद्धि-कारित्वं स्वत एवायाति, तथाप्य् अवतारेऽस्मिन् तद् विशेषापेक्षया पृथङ् निर्दिष्टम् ।
यद् वा, महर्-लोकादिवर्तिनाम्-ऋषीणां गोलाकादिवर्ति-गोकुलानां च ग्रहणार्थम् । यद् वा, व्रज-सम्बन्धिनो ये क्ष्मा-निर्जरा विप्रा द्विजाश् च पक्षिणः पशवश् च गो-महिष्यादयोऽतिप्राचुर्यात्त एवोदधयस् तद्-वृद्धि-कारिन्न् इति प्राधान्याद् व्रजस्यैव सम्बर्धकत्वम् उक्तम् ।
अधुना प्रेम-भक्ति-विस्तारणं मुख्य-प्रयोजनम् अन्ते वर्णयति, धर्मोऽत्र भक्ति-लक्षणस् तद् विरुद्धं ज्ञानादिकम् एवोत्पथादि-न्यायेनोधर्मः, स एव सदा सर्वत्र प्रकाशमानस्यापि भक्ति-मार्गस्याच् छदकत्वाच् छार्वरं तमस् तद् धरतीति तथा, अतएव हे क्षिति-राक्षस-ध्रुक् ! क्षिति-राक्षसा द्वि-विधाः—एके भवतम् असि ये चरन्ति रजनी-चर-साम्याद् अखिल-लोकैक-जीवन-भक्ति-मार्ग-विघातकत्वाच् च राक्षसा अन्त-निगूढासुरभाव असन्तः, अन्ये च वृष्णि-कुलादि-द्वेषिणः प्रकट-दैत्याः कंसादयस् तेभ्यो द्रुह्यतीति तथा, तत्रासतां दुर्मदादि-निग्रहेण कंसादीणं च साक्षान् मारणेनैव । तच् च तेषां हितार्थम् एवेत्य् आह—भगवन् ! हे परम-दयालो !—सतां भक्तौ प्रवर्तनात् । एतच् चापूर्व-दृष्टं त्वम् एव कर्तुम् अर्हसि, नान्यः कोऽपीत्य् आह—अर्हतीत्य् अर्हन् हे सर्वं कर्तुं योग्य समर्थेति वा, अत आकल्पं मज् जीवन-कालम् अभिव्याप्य23 । यद् वा, आ आकल्पं त्वदीय-गुञ्जावतंस-बर्हापीडादिकं बाम-हस्तस्थ-कबलादिकं च भूषणम् अभिव्याप्य, तथ्आर्कम् अर्को24 नाम वृक्षो भगवद् अनर्हपुष्पो वैष्णवानाम् अनादरणीयस् तम् अर्प्यकम् अभिव्याप्य25 तत् तत् सहितायाशेष-निजैश्वर्य-प्रकटन-शोभा-युक्त कृष्ण परमानन्द26 नन्द-नन्दन ! नमस्ते ।
श्रीमच् चैतन्य-देवानुगृहीतानाम् अनुग्रहात् ।
तेषां मुदे स्तुतिर् ब्राह्मी व्याख्यातेयं यथा-रुचि ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीति सादर-सर्व-सम्पदनुभव-पूर्वकं प्रणामाय प्रथमतः कृष्णेति स्व-रूप-नाम्ना सम्बोधनं पुनः क्रमेण ततो बहिर् बहिर् विशेष्यं व्यञ्जयन् जन्म-कर्मनाम् अभिर् अपि सम्बोधयति, वृष्णीत्य्—आदिना । वृष्णि-कुलं श्री-वसुदेवादिकं श्री-नन्दादिकं च पूर्वोक्त-प्रामान्यात् तत्र प्रस्तुतत्वेन श्री-नन्दादिकम् एवात्र मुख्यं ज्ञेयम् पशुपाङ्गजायेति प्रतिज्ञातत्वात् क्ष्मेत्य् अविशेषेण प्राप्तवेऽपि विशेष-विवक्षया द्विज-पश्वोर् उपादानं गो-ब्राह्मण-हितावतारता-प्रसिद्धेः उद्धर्मो भगवद् विमुखो धर्मः क्षिति-राक्षसाः उद्धर्म-प्रवर्तकाः कंसादयश् च चन्द्र-सूर्य-रूपोभयत्वेन रूपक-व्यञ्जना सर्व-शुभकरिता-विवक्षया कीर्ति-प्रताप-प्रशंसाद्योतनेच्छया च हे भगवन् ! एवम्-भूत-श्री-कृष्ण-रूपत्वेन स्वयं भगवन्न् इत्य् अर्थः । तथार्कं स्वर्-भूव भूर् लोक-व्यापक-प्रकाशम् अर्कम् आर्भ्य महा-वैकुण्ठ-पर्यन्तम् अर्हन् पूज्य ! यद् वा, एवतचापूर्वं दृष्टं त्वम् एव कर्तुम् अर्हसि नान्यः कोऽपीत्य् आह—अर्हतीत्य् अर्हन् हे सर्वं कर्तुं योग्य ! समर्थेति वा, अत आकल्पं मज् जीवन-काल-रूपान् कल्पान् अभिव्याप्य यद् वा, आकल्पं त्वदीय-गुञ्जावतंस-बर्हापीडादिकं वाम-हस्त-स्थक-वलादिकं च भूषणम् अभिव्याप्य तुभ्यं तथा आर्कम् अर्मो नाम-वृक्षो भगवद् अनर्ह-पुष्पो वैष्णवानाम् अनादरनीयः तम् अप्य् अन्तं समभिव्याप्य तत् तत् सहितायेत्य् अर्थः ।
श्रीमच्-चैतन्य-देवानुगृहीतानाम् अनुग्रहात् ।
तेषां मुदे स्तुतिर् ब्राह्मी व्याख्यातेयं यथा-मति ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्माद् भूयोऽपि ते नम इति स-स्तवं प्रणमति—श्री-कृष्णेति । हे भगवन् ! नमस् ते । वृष्णि-कुल-पुष्कराणां जोषः प्रीतिस् तां दातुं शीलं यस्येत्य् अनेन भानुत्वं व्यङ्ग्यम् । क्ष्मा पृथ्वी । निर्जरा देवाः । द्विजाः पशवश् च वृन्दावन-सम्बन्धिनस् त एवोदधयः । दुरवगाह्यत्वात् । तेषां वृद्धि-कारित्वेन चन्द्रत्वम् । ऊर्ध्वमा एव शार्वराणि तमांसि तेषां हरत्वेन महा-ज्योतिष्ट्वाद् वह्नित्वं वह्नीन्द्व्-अर्कास् तमोनुदः इत्य् उक्तेः । अत एक एव त्वं भानु-चन्द्र-वह्नीनां मण्डलानि । अयम् अर्थः—यथा अमी तेजो-मण्डल-रूपेण बहिः प्रकाशन्ते, अन्तस् तु स्व-स्वाकारेण वर्तन्ते, तथा त्वम् अपि ब्रह्माकारेण विश्व-व्यापी दृश्यमानाकारेण परिच्छिन्न इति । क्षिति-राक्षस-ध्रुक् । त्वम् एतत्-त्रितय-तेजो-व्यतिरिक्त-निज-तेजो-विशेषवत्त्वम् । आर्कम् अर्कम् अभिव्याप्य । नमो यावत् सूर्यो भास्यति । तावत्-काल-पर्यन्तं नम इत्य् अर्थः । किं बहुना ? आकल्पं कल्पो द्विपरार्ध-कालं यावज् जीवामि तावद् एव नम इति भावः । हे अर्हन् नमस्य ! एवं नौमीत्य् उपक्रम्य नमस्त इत्य् उपसंहारः ॥४०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यपि माम् अपराधिनं विज्ञाय न ब्रूषे तद् अपि स्व-नेत्राभ्यां सानुग्रहावलोकनामृतं तु मह्यं देहि यथा तेनैवाहारेण नित्यं प्राणान् रक्षन् कल्प-पर्यन्तं जीवितुं प्रभविष्यामीति व्यञ्जयन् प्रणमति—श्री-कृष्णेति । सूर्यस्व-रूपं दक्षिणं नेत्रम् आलक्ष्याह—वृष्णि-कुल-पद्मस्य जोषः प्रफुल्लत्वं तत्-प्रदायिन् माम् अपि पद्म-सन्तानं कृपया प्रफुल्लयेति भावः । चन्द्र-स्वरूपं वाम-नेत्रम् आलक्ष्याह—क्ष्मा क्ष्मा-तलस्था मनुष्यादयः निर्जराः स्वर्ग-स्थाः देवा द्विजाः पशवश् च वृन्दावन-स्थाः पक्षिणो गावश् च त एवोदधयस् तेषां वृद्धि-कारिन् ! माम् अपि देवाधमं कृपया वर्द्धयेति भावः । युगपद् एव नेत्र द्वे एव पुष्पवन्तावालक्ष्याह—उद्धर्मः पाषण्ड-धर्मः स एव शार्वरम् अन्धतमसं शावरं त्व् अन्धतमसम् इत्य् अमरः । तद् धरतीति तथा तेन स्व-प्रभौ त्वय्य् अपि माया-चिकीर्षा-लक्षणं मम पाषण्डं कृपया हर यथा पुनर् एवं न कुर्यामिति भावः । क्षितौ राक्षसा अघासुरादयस् तेभ्यो द्रुहसि द्रोहेणापि स्व-गतिं ददासीत्य् अतस् त्वद् द्वयस्य वृन्दवत्स-वृन्दविद्रोहित्वात् सत्य-लोक-ब्रह्म-राक्षसं माम् अपि दण्ड-प्रदानेनापि संस्कुरुष्व् एति भावः । स्व-प्रभोर् अनुग्रहं वा दृष्ट्वा दासो जीवितुम् उत्सहते औदासीन्यं दृष्ट्वा न प्राणान् धर्तुं ईष्टे इति भावः । हन्त हन्त महामहेश्वरो\ऽपि क्षेत्र-गुञ्जा-गौरिक-पिच्छादिर् अचिताकल्पो गो-चारक-बालकैः समं खेलन् हृष्यतीत्य् अनौचित्यं मत्-प्रभोर् इति पूर्व विचारितक्ता तत्त्वान्-अभिज्ञेन मया येष्व् अपराद्धं तान् अपि प्रसादयामीति मनसि विभाव्याह्—आ आकल्पं त्वदीय-गुजादि-वेषम् अभिव्याप्य आर्कं अर्को नाम वृक्षो भगवद् अनर्ह पुष्पस् तम् अपि वजस्थम् अभिव्याप्य हे अर्हन, मत्-पूज्य ! किं वा हे योग्य कृपाकृपाभ्यां मद् भद्राभद्रं कर्तुं समर्थ ! ते तत्ता हिताय तुभ्यं नमः--
सर्व-संशय-हृत् सर्व-भक्ति-सिद्धान्त-सन्ततिः ।
अस्तु ब्रह्म-स्तुतिश् चित्त-भित्तौ मे चारु चित्रिता ॥४०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यद्यपि सागसं मां न-सन्तापयेथास् तथापि कृपावलोकं विना मे जीवितं दुर्द्धरम् इति व्यञ्जयन् प्रणमति श्री-कृष्णेति । वृष्णि-कुलम् एव पुष्करं तस्य जोषो विकासस् तद् दायिनिति सूर्यत्वं तेन मम् आपि पद्म-भवत्वात् तद् दानं साम्प्रतं क्षमा च निर्जराश् च द्विजाश् च पशवो गावश् च त एवोदधिस् तद्-वृद्धि-कारिन्न्-इति-चन्द्रत्वं तेन ममापि निर्जर-द्विजस्य वृद्धि-करणं साम्प्रतं क्षितौ राक्षसेभ्यो अघादिभ्या द्रुह्यसि द्रोहेणापि स्व-पदं ददासीति अतस् त्वत् स-जग्धि-प्रत्यूह-कारिणं ब्रह्म-राक्षसं माम् अपि दण्डेन संस्कृत्य स्व-पदं देहि त्यजौदासीन्य तेन मज्-जीवनं दुद्धरम् इति भावः । किञ् च सर्वेश्वरस्यानन्त-लक्ष्मीकस्य गुञ्जा-पिञ्छादि-वेषो गो-चारणं गोपभिस् तेः सह सख्यञ् च नोचितम् इत्य् अविशेन मया मनसि सम्भाव्यापराद्धं तद् इदानीं क्षमयामीत्य् आह—आकल्पं गुजादि-वेषम् अभिव्याप्य अर्कस् त्वद् अनर्ह-पुष्पो वृक्षा ब्रजस्थस् तं चाभिव्याप्य तत्-सहिताय ते नमो\ऽस्ते तत्-तत्-सर्वस्य त्वदीयत्वाद्वि ज्ञान-घनत्वाच् च मद् वन्द्यत्वम् । हे अर्हन पूज्य ॥४०॥
परमैश्वर्य-माधुर्य भक्ति-भृद् ब्रह्मणोदिता ।
जीयाद् गोकुल-माहात्म्य धात्री-नन्द-सुतस् ततिः ॥
॥ १०.१४.४१ ॥
श्री-शुक उवाच—
इत्य् अभिष्ठूय भूमानण् त्रिः परिक्रम्य पादयोः ।
नन्व् अभीष्टं जगद्-धाता स्व-धाम प्रत्यपद्यत ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
स-सखि-वत्सक-मोक्षण-कौतुक-द्रुत-विलंबित-पुत्रम् उदे\ऽद्भुतम् ।
निखिल-रूपम् अतो दधद् अच्युतो\ऽवतु स वः कलयन् व्रज-मंगलम् ॥१॥
पादयोर् नत्वा । अभीष्टं सर्वतः पूजितम् अभिप्रेतं वा ॥४१॥
————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स-सख-वत्सक-मोक्षणेन यत्-कौतुकं तेन द्रुतं गतं विलम्बितं विलंबो यस्य स तथा । यद् वा, द्रुतः शीघ्रता-युतश् चासौ विलम्बितो जात-विलम्बश् चति द्रुत-विलम्वितः वत्स-पालावलोकनार्थं भगवद् अवलोकनार्थं वा प्रथमं द्रुतो दृष्ट्वा च संशयितः सन् विलम्बितो\ऽभूद् इति, स चासौ पुत्रो ब्रह्मा चेति तथा । यद् वा, द्रवति निसर्गेण निम्नं गच्छतीति द्रुतं तोयम्, द्रुते विलम्बते ऊर्ध-देशे तिष्ठतीति द्रुत-विलम्बितं कमलम्, तस्य पुत्रस् तथा तस्य मुदे । यद् वा, द्रुतो\ऽतिवेगवान् विः पक्षी हंसो यस्य स द्रुत-विब्रह्मा, लंबनं लंबा क्रीडा, सा च-जंघाधो। भागेन लघु काष्ठ-दण्डं दूरे निक्षिप्य तद् आनयनार्थ-गत-बालात्-प्राग् एव वृक्ष-शाखां गृहीत्वा ततो\ऽप्य् ऊर्ध्वं-शाखाम् आलंबन-रूपा, सैव मर्कटोत्प्लवन-शब्देन लक्षिता, सा च गोपालेषु प्रायो\ऽस्ति, लंबा जाता येषां ते लंबितास् ते पुत्रा यस्य गोपी-जनस्य स लंबित-पुत्रः, स-सख-वत्सक-मोक्षणेन कौतुकं यस्य स तथा स चासौ द्रुतविश् चेति तथा, स-सख-वत्सक-मोक्षण-कौतुक-द्रुतविश् च लंबित-पुत्रश् चेइति समाहार-दन्द्वस् तस्य मुदे तन्-मातृणां च कस्य च इत्य् उक्तेः । यतो निखिल-रूपं रूपे निरूपे निखिलं निखिल-रूपं निखिलानां रूपम् इति वा दधत् अतो हेतोः व्रज-मंगल कलयन् रचयन् सः प्रसिद्धो\ऽनेक-रूपत्वेप्य् अच्युतो निर्विकारः वो\ऽध्येत्रध्यापकान् अवतु
भूमानं सर्वेश्वरम् । तिर्-अभिष्ट्य वेति संबन्धः । यथोक्तान्वये तु एका चण्ड्या रवेः सप्त तिस्रो गणपतेः स्मृताः चतस्रः केशवस्योक्ताः शिवस्यार्धा प्रदक्षिणा । इति विरोधः स्यात् । सर्वतः पूज्यत्वे नास्तिकाभाव-प्रसङ्ग मन्वानो\ऽर्थान्तरं ब्रूते—अभिप्रेतं वेति । स्व-धाम सत्य-लोकम् । प्रत्य् अपद्यत प्राप । भूमानं सर्वथैवापरिच्छिन्नम् । अभीष्टं भगवता प्रस्थापयिम् इति शेषः। यतो जगद्-धाता अन्यथा सहसा तत्-पद-त्यागे विश्व-सृष्टेर् असिद्धेः, ततश् च यावद् अधिकारम् अवस्थितिर् आधिकारिकाणाम् इति न्यायेनाधिकारान्ते तद् अभीष्टं सेत्स्यतीति बुद्धयते ॥४१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भूमानम् अपरिच्छिन्न-माहात्म्यम् । इत्य् एवम् अभिष्टूय अभिष्टुत्याभितः स्तुत्वा । यद् वा, सर्व-व्यापकम् अपि तथावस्थितं भक्त्या त्रिः परिक्रम्याभीष्टं प्रियतमं स्व-धाम सत्य-लोकवर्ति-निज-गृहं गत इति प्रथमं लज्जादिना व्रज-वास-लोभेन वा, पारमेष्ठ्यं पदं परित्यज्य कुत्रापि निलीय स्थास्यामीति मनसि कृत्वा स्थितः, इदानीं च श्री-भगवत्-प्रसादम् आसाद्य निज-प्रिय-पदम् एवागच्छद् इत्य् अर्थः, यतो जगद्-धाता, अन्यथा तत् प्रदच्युता विश्व-सृष्ट्य-सिद्धे27 अतः श्री-भगवान् एव प्रस्थापयामास ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भूमानं सर्वथैवापरिच्छिन्नम् इत्य् एवम् अभिष्टुय अभिष्टुत्य अभितः स्तुत्वा । यद् वा, सर्व-व्यापकम् एव तथावस्थितं भक्त्या त्रि-परिक्रम्य अभीष्टं सामीप्ययाञ्चायां कृत-मौनेन श्री-कृष्णेनाभिप्रेतं धाम यतो जगद्-धाता अन्यथा तत् पद-त्यागे विश्व-सृष्ट्य् असिद्धेः एवं यावद् अधिकारम् अवस्थितिर् आधिकारिणाम् [३.३.३१] इति न्यायेन तद् अन्ते तद् अभीष्ट-सिद्धिर् भविष्यतीति ज्ञाप्यते ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भ) : अभीष्ट-सामीप्ययाञ्चायां कृतम् औनेन श्री-भगवताभिप्रेतं स्व-धाम भूमानम् एवाभीष्टम् ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभीष्टं भगवता प्रस्थापयितुम् इति शेषः, यतो जगद्-धाता अन्यथा सहसा तत् पदत्याजने विश्व-सृष्ट्य-सिद्धेः ततश् च [३.३.३१] यावद् अधिकारम् अवस्थितिर् आधिकारिकाणाम् इति न्यायेनाधिकारान्ते तद् अभीष्टं सेत्स्यतीति बुद्ध्यते ॥४१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं मधुर-स्तुति-निर्गर्व-व्रज-भावाभिवाञ्छापरितुष्टेन भगवता कृपया अवलोकितो विरञ्चिर् भूमानं कृष्णं पुनः किञ्चिद् अभिष्टूय निः परिक्रम्य पादौ नत्वा सम्प्रति जगत्कार्यं कुरु तद् अवसाने यावद् अधिकार न्यायेन वाभीष्टं भाबीति तेनोक्तः स्व-धाम प्रत्यपद्यत प्राप ॥४१॥
॥ १०.१४.४२ ॥
ततोऽनुज्ञाप्य भगवान् स्व-भुवं प्राग्-अवस्थितम् ।
वत्सान् पुलिनम् आनिन्ये यथा-पूर्व-सखं स्वकम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुज्ञाप्यानुज्ञां प्रदाप्य, पृष्ट्वेत्य् अर्थः । स्व-भूवं ब्रह्माणम् । यथा-पूर्वं सखायो यस्मिंस् तत् स्वकं पुलिनम् प्राग्-अवस्थितान्-वनं प्रति पूर्ववद् अवस्थितान्-वत्सानानिन्ये ॥४२॥
————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः स्तवनानन्तरम् । इत्य् अर्थ इति । प्रयोजक-निजन्ताज् ज्ञपेर्-ल्यप् नान्ये मितोऽहेतौ इति मित्वाभाव इहायम् अर्थो बोध्यः प्रदाप्य दापयित्वेति । वस्तुतः स्व-भुवं स्वोद्भूतम् अपि मन्जुष्य-नाट्याभिप्रायेण लोक-सङ्ग्रहार्थं वा पृष्टवान् इति भावः । स्व-भूवं मौनेनैव्आनुज्ञाप्य अनुजानीहि मां कृष्ण [भा।पु। १२.६.६] इत्य् आज्ञाप्रार्थने कृते मौनं सम्मति-लक्षणम् इति ब्रमणा सहसावगमात् । मौन-त्यागाभावस्तु—पशुपवश-शिशुत्वद् अशायाम् अङ्गोइकृतस्य ब्रह्म-मोहनार्थम् अङ्गीकृतस्य नाट्यस्यारम्भपरिसमाप्ति-सिद्ध्यर्थः । तत्र
ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् । > उभाव् अपि वने कृष्नो विचिकाय समन्ततः ॥[भा।पु। १०.१३.१६]
इति वत्स-बालाकान्वेषण-नाट्यारम्भः । नौमीड्य [भा।पु। १०.१४.१] इत्य्-आदि-ब्रह्म-स्तुतौ प्रवृत्तायां कुतस्त्योयं चतुर्मुखः किं तिष्ठते किं वा, मुहुर् ब्रूते इति स्ववत्सान् वेषण-व्यग्रोऽहं गोप-शिशुर् न बुध्ये इति व्यञ्जकेन मौनेनैव तस्यैव नाट्यस्य समाप्तिर् इति स्वाधीन-ब्रह्मणोग्रे निज-महैश्वर्यस्याज्ञानम् अभिनीयते स्मेति तन् नाट्य-शब्देनोच्यते । तत्रोद्वहत् पशुप-वंश-शिशुत्व-नाट्यम् इत्य्-आदिना वात्सल्य-रस-परिकर-व्रजेश्वर्यादीनाम् अग्रे तु तत्-प्रेमाधीनेन श्री-कृष्णेन निज-महैश्वर्यस्य तन् महा-प्रेम-माधुर्य-रसाच्छादितस्याज्ञान-याथार्थ्यम् एव, तत्र न तस्याभिनय इति न तन् नाट्य-शब्देन वाच्यम् इति विवेचनीयम् । प्राक् प्राग् एव । तृण-चरणादि-चेष्टादिभिर् अवस्थितान् स्वकं स्व-भोजन-स्थानं पुलिनम् आनिन्ये । यथा-पूर्व पूर्वोपवेशादिकम् अनतिक्रम्यापरित्यज्य वर्तमानाः सखायो यत्र तत्, समासान्त आर्षः ।
यद् वा, यथा यथावद् एव स्थिताः पूर्व-सखाः स्वरूप-भूत-सखेभ्यः पूर्व-सखायो यत्र तत् । एतत् सर्व-समाधानं च श्री-कृष्णेच्छा-सम्वलितमाया-वैभवम् एव, तथा मात्रादिभिर् व्यवहारौपयिकं ह्यस्तनादिना तत्-तद् बालकादि-चरितं स्मृतम् अपि प्राचीनेषु स्मारय्तुं नेष्टम् इत्य्-आदि बोध्यम् ॥४२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च केवलं स्वेच्छया गत इत्य् आह—तत इति । अनुज्ञाप्य प्रस्थाप्येत्य् अर्थः । स्व-भुवम् आत्मजम् इति सर्वापराध-क्षमादिकं सूचितं । ततो ब्रह्मानुज्ञापनानन्तरम् एव, प्राक् पूर्वम् एव, यथा-पूर्व-सखं स्वकं निज-भोजन-स्थानं वत्सानां पूर्वावस्थिति-स्थानं वा, सरः-पुलिनम् अवस्थितान् वनान्तर्-वर्तमानान् वत्सान् आनिनाय । इत्थं च श्री-ब्रह्मणानीय समर्पिता इति श्री-भगवतैव वा कुतोऽपि सवत्सा बालका आनीतास् ते वा, स्वयं कुतोऽप्य् आगत्य पुनस् तत्रोपविष्टा इत्य् उक्त्यभावात् केवलं मायापगमेन पूर्ववत् पुलिने भोजनार्थम् आसीनेषु पूर्वम् एव तानाश्वस्य वत्सानयनार्थं गतोऽसौ वत्सानेवाधुनानीतवान् इत्य् उक्तेश् च माया-मोहिताः सन्तोऽब्दं यावत् ते तत्र तत्रावर्तन्तेति स्पष्टम् एवावगम्यते, न च व्यक्तम् इदम् अन्यैर् जनैर् गोपादिभिः कथं ते तत्र न दृष्टाः ? शीतवातादिना वा कथं न हि वाधिता इति, मायायाः सर्व-शक्तिमत्वात्28? यदि वा वक्तव्यम् इदम्—श्री-भगवता दृष्ट्वापि तादृग् अवस्थास् ते कथम् उपेक्षिताः स्युर् अतः श्री-ब्रह्मणा सत्य-लोकादौ श्री-भगवद् अदृश्य-स्थाने कुत्रापि नीत्वा मायया मोहयित्वा रक्षिता इति ? तन् न युक्तम्, यतो ब्रह्म-मुदे न तेसमानीता इत्य् आदाव् उक्तम् एव, माहाशये [भा।पु १०.१३.४१] इत्य् उक्त्या29 श्री-भगवत्-कृपया च तेषां दुःखाभाव एव, यत्र कुत्रापि नीता अपि ज्ञान-घन-मूर्तेः श्री-भगवतो नैवादृश्याः स्युर् नाम, पूर्वन्तु यत् क्षणं न ते दृष्टा इतस् ततो मार्गिताश् च तत्-स्नेहपरवशतया किं वा, श्री-ब्रह्म-मोहार्थम् एवेत्य् अपि पूर्वम् उक्तम् एवेति सर्वथा ते तत्र तत्रैव तथा स्थिता इति सुसिध्ये । अत एव श्री-स्वामि-पादैर् अपि लिखितम्—नन्व् एतावन्तं कालं कथं ते तत्रैवोपविष्ठाः ? कथं च क्षुत्पिपासादि-विस्मरणम् इत्य्-आदि । यथा-पूर्वं सखायो यस्मिन्न् इति प्राग् अवस्थितान् इति च बालक-वत्स-पुलिन-भोज्य-भोजनार्थोपवेशादिकम् अपि सर्वं पूर्ववद् एव वर्तमानं बोधयति, किन्त्व् आब्दिकवससा30 कियत्याकारादि-वृद्धिर् ज्ञेया । तथा मात्रादिषु तद्वद्31बालकाचरितादिकं श्री-भगवत्-प्रभावेण तेषु निजतया परिस्फुरितम् इति च बोद्धव्यम् अन्यथाब्दस्थितेर् आगन्तुकैस् तैः सह वैलक्षण्यापत्तेर् इति दिक् ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्व-भुवम् आत्मजम् इति सर्वापराध-क्षमादिकं सूचितम् अनुज्ञाप्य इदानीम् अपि आनयानीति सस्मितं पृष्ट्वा अनुज्ञापनं चेदं स्व-सार्वज्ञादि-व्याञ्जनोपालम्भनोत्प्राप्त-शिक्षा-क्षमानुग्रह-विनयादि-व्याञ्जकम् अपीदं व्यञ्जयति, तादृश-स्वरूपैर् अपि बाल-वत्सैर् न मम लीला-सुखं किन्तु तैर् एवेति ततो ब्रह्मानुज्ञापनानन्तरं प्राक् प्राग् वद् एवावस्थाचेष्टादिभिर् अवस्थितान् यथा-पूर्वं पूर्ववद् अवस्था-चेष्टाद्य् अनतिक्रमेण वर्तमानाः सखायो यत्र तत् स्वकं स्व-भोजन-स्थानं पुलिनम्-आनिन्ये अत्र स-कवल-पाणेः कृष्णस्यागतस्य तैः पूर्ववद् एव दृष्श्यमानस्यावस्थितिश् च पूर्ववद् एव ज्ञेया एतत् सर्व-समाधानं च श्री-कृष्णेच्छासम्बलित-माया-वैभवम् एव तथा मात्रादिभिर् व्यवहारौपयिकं ह्यस्तनादि तत् तद् बालकाचरितं स्मृतम् अपि प्राचीनेषु स्मारयितुं नेष्टम् इत्य् अपि बोद्धम् ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अनुज्ञापनेन चैवं ज्ञापितं तादृश-स्वरूपैर् अपि बाल-वत्सैर् न मम लीला-सुखं किन्तु तैर् एवेति स्वकं निज-भोजन-स्थानं यथा-पूर्व-सखम् इति प्राक् प्राग्-वद् एव्आवस्थितान् इति ॥४२.४४॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-भूवं ब्रह्माणम् अनुज्ञाप्य अज्ञाप्येति मौनेनैव अनुजानीहि मां कृष्णेत्य् आज्ञा-प्रार्थने कृते मौनं सम्मति-लक्षणम् इति ब्रह्मणा सहसावगमात् मौनत्यागाभावस् तु पशुप-वंश-शिशुत्वद्वशायाम् अङ्गी-कृतस्य ब्रह्म-मोहनार्थे नाट्यस्यारम्भ-परिसमाप्ति-सिद्ध्यर्थे तत्र
ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् । > उभावपि वने कृष्णो विचिकाय समन्ततः ॥[भा।पु। १०.१३.१६]
इति वत्स-बालकान्वेषण-नाट्यारम्भे नौमीड्येत्य्-आदि-ब्रह्म-स्तुतौ प्रवृत्तायां कुतस्त्योऽयं चतुर्मुखः किञ्चेष्टते वा मुहुर्-ब्रूते इति स्व-वत्सान्वेषण-व्यग्रोऽहं गोप-शिशुर् न बुध्यते इति-व्यञ्जकेन मौनेनैव तस्यैव नाट्यस्य परिसमाप्तिर् इति स्वाधीन-ब्रह्मणोऽग्रे कृष्णेन निज-महैश्वर्यस्याज्ञानम् अभिनीयते स्मेति तन् नाट्य-शब्देनोच्यते तत्रोद्वहत् पशुप-वंश-शिशुत्व-नाट्यम् इत्य्-आदिना वात्सल्यादि-रस-परिकर-व्रजेश्वर्यादीनाम् अग्रे तु तन् महा-प्रेमाधीने कृष्णे निज-महैश्वर्यस्य तन् महा-प्रेम-माधुर्य-रसाच्छादितस्याज्ञानं यथार्यम् एवेति तत्र न तस्याभिनय इति न तन् नाट्य-शब्दे वाचम् इति विवेचनीयं प्राक् प्राग्वद् एव तृण-चरणादि-चेष्टाभिर् अवस्थितान् स्वकं स्व-भोजन-स्थानं पुलिनम् आनिन्ये कीदृशं यथा-पूर्वं पूर्वोपवेशादिकम् अनतिक्रम्य अपरित्यज्य वर्तमानाः सखायो यत्र तत् समासान्त आर्षः । यद् वा, यथावद् एव स्थिताः पूर्व-सखाः स्वरूप-भूत-सखेभ्यः पूर्वे सखायो यत्र तत् ॥४२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गृहीत-मौन एव भगवान् दृग्-अन्तेनैव स्व-भुवं ब्रह्माणम् अनुज्ञाप्य स्व-लोकं गच्छेत्य् आज्ञाप्य वत्सान् स्वकं स्व-स-जग्धि-स्थानं पुलिनम् आननिन्ये, कीदृशान् प्राक् पूर्ववद् एव तृण-भक्षणादि-चेष्टयावस्थितान् पुलिनं कीदृशं यथा यथावद् एव स्थिताः पूर्व-सखाः प्रकाशित-सख्येभ्यः पूर्वे प्रकृताः सख्यायो यत्र तत् ॥४२॥
॥ १०.१४.४३ ॥
एकस्मिन्न् अपि यातेऽब्दे प्राणेशं चान्तरात्मनः ।
कृष्ण-माया-हता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एतावन्तं कालं कथं तत्रैवोपविष्टाः कथं च क्षुत्-पिपासादि-विस्मरणम् ? अत आह—एकस्मिन्न् इति श्लोक-द्वयेन । अब्देऽपि याते प्राणेशं कृष्णम् अन्तरा च विनापि । प्रिय-विरहे क्षणोऽपि वर्षाधिको भवति, तथापि माया-हताः क्षणार्धं मेनिरे ॥४३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कौतुकाविष्टः शङ्कते—नन्व् इति । ते गोपाः । तत्रैव पुलिने । अब्दे वर्षे । आत्मनो जीव-मात्रस्य । प्राणेशं स्वामिनम् । मायात्र योग-माया तयैव सर्वेषां गोप-गोपी-नन्दादीनाम् अब्द-कालोऽपि मुहूर्तयामदिनमासर्त्वादि-परिवर्तिं विनैव पञ्च-पालात्मक-क्षणार्ध-काल एव साधितम् इति न तस्या अचिन्त्य-वैभवायाः किम् अपि दुःसम्पाद्यम् इति ॥४३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मनः स्वस्य प्राणेशम् आत्मनः श्री-कृष्णस्य माया-हता इति वा, माया यद्यपि ब्राह्म्य् एव, तथापि श्री-भगवतानुमोदिता सती भागवत्य् एव32 संवृत्ता । अतः प्राक् श्री-बलदेव-चिन्तने प्रायो मायास् तु मे भर्तुः [भा।पु १०.१३.३७] इति, एवं सर्वम् एव सङ्गच्छते । तच् च पूर्वं लिखितम् एव, अतस् तया-हता व्याप्ताः । प्राणेशत्वे हेतुः—कृष्णं श्री-व्रजेन्द्र33कुमार, । किं च, अर्भकाः श्री-नन्द-व्रज-बालकाः । हे राजन्न् इति परमाद्भुतत्वात् ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा तेषां कालाज्ञानं च माययैवेत्य् आह—आत्मनः । स्वस्य प्राणेशम् आत्मनः श्री-कृष्णस्य माया-हता इति वा, माया यद्य् अपि ब्राह्म्य् एव तथापि श्री-भगवतानुमोदिता सती भागवत्य् एव संवृत्तेति अतः श्री-बलदेव-चिन्तने प्रायो मायास् तु मे भर्तुः [भा।पु १०.१३.३७] इति तत् तच् तच् चासम्भवम् अपि तद् इच्छा-शक्तेः सर्व-शक्तितो बलबत्त्वान् नात्यसम्भवम् अतस् तया हताः प्रतिबद्धाः मनो-हतः प्रतिहतः प्रतिबद्धो हतश् च सः इत्य् अमरः । प्राणेशत्वे हेतुः कृष्णं बल्लवेन्द्र-कुमारम् । किं च, अर्भकाः श्री-नन्द-व्रज-बालकाः क्षणार्धं पलपञ्चकं मेनिरे तत्र तेषां प्रतीतौ मुहूर्तयाम् अदिवसऋत्वादि-परिवर्तं तस्य कालस्य स्थिते हे राजन्न् इति परमाद्भुतत्वात् ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र तावत् कालाज्ञानं तथैव कवल-पाणेः कृष्णस्यागतस्य तैः सह तथैव भोजन-लीला-शेषादिकं दुस्तर्क-योग-माया-वैभवम् एवेत्य् आह—एकस्मिन्न् इत्य्-आदि-चतुर्भिः । आत्मनः स्वस्य प्राणेशं कृष्णम् अन्तरा विनापि योग-मायया आहता आवृताः ॥४३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अत्र समयापरिज्ञानं तथैवागतस्य कवल-पाणेर् नन्द-सूनास् तैः सह स-जग्धि-लीला-समापनं च तस्याचिन्त्य-योग-माया-विलसितम् एवाह—एकस्मिन्न् इति चतुर्भिः । आत्मनः स्वस्य प्राणेशं कृष्णम् अन्तरा विना कृष्णस्य मायया योगाख्यया आहता आवृता क्षणार्ध-पलपञ्चकम् ॥४३॥
॥ १०.१४.४४ ॥
किं किं न विस्मरन्तीह माया-मोहित-चेतसः ।
यन्-मोहितं जगत् सर्वम् आभीक्ष्णं विस्मृतात्मकम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यया मायया मोहितं जगद् अभीक्ष्णं पुनः पुनर् विस्मृतात्मकं विस्मृत आत्मैव येन तत् तथा ॥४४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इह संसारे अभीक्ष्णं सुषुप्तौ शास्त्रे वा ज्ञतस्यापि देह-द्वयातिरिक्तस्य तस्य मुहुर् विस्मरणाद् इति योग-मायैव बहिरङ्ग-मायात्वेनात्र ज्ञेया अतो भगवद् इच्छा-बलायास् तस्यास् तादृशेष्व् अपि मोहनत्वं घटत एवेति भावः ॥४४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इह जगति विस्मृत आत्मैव । किं वा, सर्व-व्यापको भगवान् अपि येन तत् । सर्वम् इतीन्द्रादि-मोहापेक्षया । अभीक्ष्नम् इति कथञ्चित् कदाचित् स्मृतस्य स्मारितस्यापि वा, मुहुर् विस्मरणाद् इति मोह-महिमोक्तः ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र दृष्टान्तम् आह—किं किं इति । इह जगति अभीक्ष्णम् इति सुषुप्तौ शास्त्रे वा, ज्ञातस्यापि देह-द्वयातिरिक्तस्य तस्य मुहुर् विस्मरणात् इति माया-महिमोक्तः अता भगवद् इच्छा-बलात् तस्यास् तादृशेष्व् अपि मोहनत्वं घटेत इति भावः ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मोहन-साधर्म्येण योग-मायया बहिरङ्ग-मायां दृष्टान्तयति—किं किम् इति । विस्मृत आत्मा येन तत् तथैव योग-मायया वर्षं वाप्य कृष्ण-विरह-दुःखं ते विस्मारिता इति भावः ॥४४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मोहन-साधर्म्येण योगमायां त्रिगुणां दृष्टान्तयति—किं किम् इति । इह जगति मायया त्रिगुणया मोहितानि चेतांसि येषां ते किं किं न विस्मरन्ति अभीक्ष्णम् इति विस्मृतः सुषुप्तौ शास्त्रे वा, देह-द्वयातिरिक्ततया ज्ञातोऽप्य् आत्मा येन तादृशं भवति तथा च वर्षं व्याप्य कृष्ण-विच्छेद-दुःखं सखायो योग-मायया विसस्मरुर् इति ॥४४॥
॥ १०.१४.४५ ॥
ऊचुश् च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।
नैकोऽप्य् अभोजि कवल एहीतः साधु भुज्यताम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एवं ऊचुश् च, ते त्वयातिवेगेन स्वागतं सम्यग् आगतम् । एकोऽपि ग्रासस् त्वां विनास्माभिर् नाभोजि न भुक्तः । इत एहि, साधु अविक्षेपेण भूज्यताम् इति ॥४५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतो माया-मोहितत्वात् । स्वागतं सर्व-वत्सानयन-पूर्वकं सुखेनागतम् इत्य् अर्थः । एवं वर्षेऽप्य् अतीते तथैव कवलादि-स्थितिः श्री-कृष्नेच्छयैव जातेति ज्ञेयम् । अतिरंहसा इति । दूर-गत-वत्सानयने घटिकैका त्व् अवश्यं गमिष्यतीत्य् अस्माभिर् विचारितम्, त्वया तु क्षणार्धेनैव आगतम् इति भावः । एकोऽपि ग्रासस् त्वया नाभोजि श्री-हस्ते पूर्व-कवल-वृत्तेः । अत इतः अस्मिन् सर्वेषाम् अस्माकं मण्डल-स्थाने एहि प्रविश साधु वत्साद्य्-अन्वेषणे वैयग्र्यं त्वक्त्वा सम्यग् यथा स्यात्, तथा भुज्यताम् इति तोषणी-चक्रवर्ती-कारौ ॥४५॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वागतं सर्व-वत्स-वर्गानयन-पूर्वकं सुखेनागतम् इत्य् अर्थः। अन्यत् तैर् व्याख्यातम् । यद् वा, अतिरंहसा स्वागतम् इत्य् अस्य लक्षणम् । नैकोऽपि इति । यद् वा, त्वया एकोऽपि इति । यद् व, त्वयैकोऽपि कवलो नाभोजि, श्री-हस्ते पूर्व-कवल-वृत्तेः । अत इतोऽस्मिन् सर्वेषाम् अस्माकं मण्डल-मध्य-स्थाने एहि प्रविश । साधु निजोदर-परिपूरणादि-प्रकारेण सम्यग् यथा स्यात्, तथा भुज्यताम् ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वागतं सर्व-वत्स-वर्गानयन-पूर्वकं सुखेनागतम् इत्य् अर्थः । एवं वर्षेऽप्य् अतीते तथैव कवलादि-स्थितिः श्री-भगवद् इच्छा-वैभवेन ज्ञेया । अन्यत् तैः ।
यद् वा, त्वयाप्य् एकोऽपि कवलो नाभोजि श्री-हस्ते पूर्व-कवल-वृत्तेः । अत इतः अस्मिन् सर्वेषाम् अस्माकं मण्डल-मध्य-स्थाने एहि प्रविश साधु वत्साद्य्-अन्वेषणे सम्प्रत्य् अपि तत्-सम्भालने वा जात-वैयाग्र्यं त्यक्त्वा सम्यक् यथा स्यात्, तथा भुज्यताम् ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : ऊचुश् च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा इति च वत्सान् इतो वत्सपान् नीत्वा अन्यत्रेत्य् अनेनान्य अत्र सकृद् ईक्षितानाम् अपि तेषां पुनस् तत्रावस्थापनं, तेषां तु तद् अपि न ज्ञातम् आसीद् इति ज्ञापयति, अत्र सर्वा ह्य् अनुपपत्तिर् माययैव वारिता । सा च माया ब्रह्मणोऽपि श्री-भगवद्-अनुमोदितत्वात् तदीयैव जातेति ज्ञेयम् । अतः श्री-सङ्कर्षणेनोक्तम् प्रायो मायास् तु मे भर्तुः [भा।पु। १०.१३.३७] इत्य् अभीक्ष्णं यया मोहितम् ॥४५.४६॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्भका ऊचुः--अतिरंहसा सुखेनैवागतो दुर-गत-वत्सानयने घटिकैका त्व् अवश्यं भविष्यतीत्य् अस्माभिर् विचारितं । त्वया तु क्षणार्धेनैवागतम् इति भावः । एकोऽपि कवलो ग्रासस् त्वया विना नाभोजि तस्माद् इत एहि ॥४५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ऊचुश् चेति । त्वया अतिरंहसा क्षणार्धेनैव सुखेनागतं अस्माभिस् तु घटिकावश्यंभाविनीति दृष्टं । त्वया विना अस्माभिर् एकोऽपि कवलो नाभोजि तस्माद् इत एहि ॥४५॥
॥ १०.१४.४६ ॥
ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः ।
दर्शयंश् चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभ्यवहृत्य भुक्त्वा ।
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो बालोक्ति-श्रवणानन्तरम् । आजगरम् अघासुर-देह-सम्बन्धि । हसन्न् इति तद् आनन्द-दर्शनात् । अभ्यवहृत्येति । वर्षे गतेऽप्य् अत्र व्यञ्जनादीनां क्षणार्ध-मात्र-पर्णामित्वं जातम् । दर्शयन्न् इत्य् आह—हे सखायः अद्य मृतोऽयं सर्पः वसारक्तादिकलिलो वर्तत इति पश्यत तद् वधस्य व्रजे प्रस्यापनार्थम् एतावत् काल-पर्यन्तं तत् तद् आच्छादनं सर्वं योग-माया-कृत्यम् एवेति ॥४६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हसन्न् इति तेषां माया-मुग्ध-वाक्य-श्रवणात् किं वा, दुःखादिव्यञ्जकोक्त्यश्रवणेन प्रहर्षोदयाद् अर्भकैः सहाभ्यवहृत्येति तैर् विना स्वयं तेनैतावन्तं कालं किम् अपि नाभोजीति सूचयति ।
ननु, तर्हि श्री-यशोदादिभिस् तत् कथं सोढम् ? तत्राह—हृषीकेशः सर्वेन्द्रिय-वृत्ति-प्रवर्तक इति, भुज्यताम् इत्य् अनुकारादि-चातुर्येण तेषां चित्ते ग्राहितम् इत्य् अर्थः, यथा श्री-लक्ष्मणेन श्री-रघुनाथादिषु, तद्-वृत्तं च पुराणेषु प्रसिद्धम् एव । यद् वा, तदानीं स्वयं श्रीति-रहितोऽपि केवलं तेषां सन्तोषार्थम् अभुङ्क्त, इदानीं च निज-रसनेन्द्रियादि-प्रवर्तनेन तत् तद्-रस-गन्धादि-ग्रहण-पूर्वकं परमप्रीत्य भुङ्क्तैवेत्य् अर्थः34 । व्रजं प्रति न्यवर्तत, निववर्तेति पाठे स एवार्थः । आजगरं चर्म दर्शयन्न् इत्य् अघासुर-वधस्य व्रजे कथनाय तत्-स्मरणार्थम् इति तच् चर्मापि श्री-भगवता तावत्-कालं मायाच्छाद्य रक्षितम् आसीद् इति ज्ञेयम् ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हसन्न् इति तेषां माया-मुग्धानां वाक्य-श्रवणात् दुःखादि-व्यञ्जकोक्ति-श्रवणेन प्रहर्षोदयाच् च हृषीकेश इति तेषां परम-प्रेष्ठत्वात् व्रजं प्रति व्यवर्तत, निरवर्तेद् इति पाठे स एवार्थः । परस्मैपदम् आर्षम् आजगरं चर्म दर्शयन्न् इत्य् अघासुर-वधस्य व्रजे कथनाय इति तच् चर्मापि श्री-भगवता तावत् कालं माययाच्छाद्य तथैव रक्षितम् आसीद् इति ज्ञेयम् ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हसन्न् इति, तेषाम् आनन्द-दर्शनात् अभ्यवहृत्येति वर्षे गतेऽप्य् अन्न-व्यञ्जनादीनां क्षणार्ध-मात्र-परिणामित्वं जातं तच् च न वैरस्यं जनयतीति भावः । दर्शयन्न् इत्य् अहो सखायः अद्य मृतोऽयं सर्पो वसारक्तादि-कलिलो वर्तत एवेति पश्यतेति तद् वधस्य व्रजे प्रख्यापनार्थं योग-माययैव तावत् काल-पर्यन्तं तत् तद् आच्छादितम् आसीद् इति ज्ञेयम् वनात् वन-विहरणात् व्रजञ्-जगामेति शेषः ॥४६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ततो हसन्न् इति तेषां हर्ष-दर्शनात् वर्षे गतेऽपि भक्ष्याणाम् अवैरस्य तस्य क्षणाम् अवैरस्यं तस्य क्षणार्धे परेशात् तेषां रसात्मकत्वाच् च चर्माजगरम् इति शौष्कस्यापि तस्य सद्यो मृतत्व-प्रदर्शनं तद् वध-चरितस्य व्रजे व्याख्यानार्थं वनाद् वन-विहाराद् व्रजं प्रति न्यवर्तत जगम् एत्य् अर्थः ॥४६॥
॥ १०.१४.४७ ॥
बर्ह-प्रसून-नव-धातु-विचित्रिताङ्गः ।
प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः ॥**
वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर् ।
गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रोद्दामो वेण्व्-आदिस् तस्य रवैर् उत्सवस् तेन्आढ्यः संपन्नः । गृणन्न् उपलालनैर् आह्वयन् । गोपी-दृशाम् उत्सव-रूपा दृशिर् दर्शनं यस्य सः ।
————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नव धातवस् तु—हरिताल-गैरिक-हिङ्गलुमनः शिलसौराष्ट्री-वीर-सौभाग्यतुत्थवोलाख्याः ।
यद् वा, नूयन्ते इति नवा देव-द्विजादयः, तैर् धीयन्ते धार्यन्त इति नव-धातूनि चन्दनानि, दधातेस्तुः । तानि च—श्वेत-रक्तागुर्वादि-भेदेनानेकानि तैर् विचित्रिताङ्गः प्रोद्दामो महान् । उपलालनैर् औष्ट-संयोगज-शब्द्दादिभिः । इति निज-प्रिय-सहचर-बालक-बत्स-सङ्गति-जनित-हर्षभरतो वन्य-वेशादि-विशेषेण व्रजस्त्री-जनानां नेत्रानन्दं सञ्जनयन् व्रजान्तर्-जगामेत्य् आह—वर्हेति । वन धातुर् गैरिकादिः । वन-पदं गृह-लभ्य-सुवर्णादि-व्यवच्छेदार्थम् । प्राचीन-पुस्तकेषु तु नवधातुः इति पाठ एव, सोऽत्य् अर्थैक्येन सम्यग् एवेति बर्हादिभिर् विशेषण-चित्रितानि भूषितान्य् अङ्गानि येन । किं वा, सखिभिर् यस्य । अतः प्रोद्दामोऽत्युच्चो यो वेणुदश-शृङ्गाणां रवस् तेन स एवोत्सवः किं वा, स चोत्सवश् च नृत्य-क्रीडीडा-गीतादि-रूप तेन्आढ्यः पर्म-समृद्धिमान् । अत एव्आनुगैस् तैर् एव बालकैर् गीता हर्षभरेण गीतवत् सुस्वरं तालादि-संयुत्म् उच्चैः कीर्तिता पवित्रा निर्मला जगत् पावनी वा अघासुरादि-वध-रूपा यस्य । गोपी-शब्देन श्री-यशोदाद्याः सर्वा एव व्रजस्त्रियः, तासाम् अपीदानीम् एव श्री-कृष्ण-हर्षभरेणाधिकं नेत्रानन्दोत्पत्तेः ॥४७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति निज-प्रिय-सहचर-बालक-वत्स-सङ्गति-जनित-हर्यभरतो वन्य-वेषादि-विशेषेण व्रजस्थ-स्त्री-जनानां नेत्रानन्दं सञ्जनयन् व्रजान्तर्-जगाम् एत्य् आह—वर्हेति । वन-धातुर्-गैरिकादिर्-वर्हादिभिर् विशेषेण चित्राणि भूषितान्य् अङ्गानि येन । किं वा, सखिभिर् यस्य सः । अतः प्रोद्दामोऽत्युचो यो वेणु-दल-शृङ्गाणां रवस् तेन स एवोत्सवः । किं वा, उत्सवश् च नृत्य-गीतादि-रूपस् तेनाढोऽतएवानुगैस् तैर् एव बालकैर् गीता हर्षभरेण गीतवत् सुस्वरं तालादि-सहितम् उच्चैः कीर्तिता पवित्रा निर्मला जगत्-पावनी वा कीर्तिर् अघासुर-वधादि-रूपा यस्य । गोपी-शब्देन श्री-यशोदादयःः सर्वा एव व्रज-स्त्रियस् तासाम् अपीदानीम् एव श्री-कृष्ण-दर्शन-हर्षभरेणाधिकनेत्रानन्दोत्पत्तेः । यद् वा, श्री-कृष्णैक-प्रिया भगवत्यः श्री-राधादयस् तन् नेत्राणाम् एव विशेषतस् तद् दर्शनोत्सव-सिद्धेः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, गोपीनां दृग्भिस् तत्-कर्तृक-साक्षाद् दर्शनैर् उत्सवो यस्यास् तथाभूता दृशि दृष्टिर् यस्येत्यन्योऽन्यं सन्दर्शन-सुखम् उक्तम् । एतच् च व्रजान्तरेव वोद्धव्यम्—तदानीं वत्स-पालने व्रजाद् दूर-चरत्वेनादि35बिरहानुत्पत्त्या व्रजाद् बहिर् अग्रेऽनभिगमनात् । तच् चाग्रे गो-पालने रस-विशेषाविर्भाव-समये व्यक्तं वक्ष्यते ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति निज-प्रिय-सहचर-बालक-वत्स-सङ्गति-जनित-हर्षभरतो वन्य-वेषादि-विशेषेण व्रजस्थ-स्त्री-जनानां नेत्रानन्दं सञ्जनयन् व्रजान्तर्-जगामेत्य् आह—बर्हेति । वन-धातुर् वैरिकादिः वन-पदं गृह-लभ्य-सुवर्णादि-व्यवच्छेदार्थं वर्हादिभिर् विशेषेण विचित्रितानि भूषितान्य् अङ्गानि येन, किं वा, सखिभिर् यस्य सः, अतः प्रोद्दामोऽत्य् उच्चैः यो वेणु-दल-शृङ्गाणां रवः तेन स एव वोत्सवः किं वा, स च उत्सवश् च नृत्य-क्रीडा-गीतादि-रूपस् तेनाढ्यः परम-समृद्धिमान् अत एव्आनुगैस् तैर् एव । बालकेः गीता हर्ष-भरेण गीतवत् सुस्वरं तालादि-सहितम् उच्चैः कीर्तिता पवित्रा निर्मला जगत् पावनी वा, कीर्तिः अघासुर-वधादि-रूपा यस्य । गोपी-शब्देन यशोदादयः सर्वा एव व्रज-स्त्रियः तासाम् अपीदानीम् एव श्री-कृष्ण-हर्षभरेणाधिक-नेत्रानन्दोत्पत्तेः एवं सख्यांशेन श्री-कृष्णाविर्भावेभ्यस् तेभ्योऽप्य् एषाम् आधिक्यं दर्शितम् ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : गोप्यः श्री-यशोदादयः ॥४७.४८॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृणन् उपलालनैर् आह्वयन् गोपीनां वत्सलानां दृशाम् उत्सव-रूपा दृशि-दर्शनं यस्य सः ॥४७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वर्हेति वन-धातुर् गैरिकादिः प्रोद्दामोऽच्युच्चो वेण्व्-आदि-रवस् तेन्ओत्सवेनाड्यः अनुगैस् तैर् बालैर् गीता परित्रा लोक-पावनी कीर्तिर् अघ-वधादि-रूपा यस्य स । वत्सान् गृणान्न् उपलालनैर् आह्वयन् । गोपीनां श्री-यशोदादीनाम् । वत्सलानां दृशाम् उत्सव-रूप-दृशिर् दर्शनं यस्य ॥४७॥
॥ १०.१४.४८ ॥
अद्यानेन महा-व्यालो यशोदान्-नन्द-सूनुना ।
हतोऽविता वयं चास्माद् इति बाला व्रजे जगुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यशोदा-नन्द-सूनुनेति बहूनाम् उक्तिः सहैव दर्शिता । केचिद् आहुर् यशोदा-सूनुना अपरे नन्द-सुनुनेति । यद् वा, यशोदां नन्दयतीति यशोदा-नन्दः स चासौ सूनुश् चेति तथा तेन । अस्मान् महा-व्यालाद् वयं चाविता रक्षिताः ।
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोके माता-पित्रोर् उभयोर् नाम-ग्रहण-पूर्वकं पुत्रनामोच्चारणं प्रायो न दृश्यत इत्य् अस्वारस्येनाह यद् वेति । केचिद् यशोदा-सुहृदः, अपरे नन्द-सुहृदः, पितृतो मातुर् अधिक-स्नेहाद्-बालानां वृद्धनामोच्चारणस्यायोग्यत्वाद् वा मातृ-कुलोत्पन्नास् तु—यशोदा-सूनुर् अयम् इति वदन्ति । तद् अन्ये नन्द-सूनुर् इति तोषिणीकाराः ॥४८॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यशोदाया आनन्द-रूप-सूनुनेति तस्य तत्-कर्मणा तस्य एव विशेषतः सन्तोषोत्पत्तेः ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मातृ-कुलोत्पन्नैर् यशोदा-सूनुना अन्यैर् नन्द-सूनुतेति प्रोक्तम् इति ज्ञेयम् । यद् वा, अति-सन्तोषेण द्वयस्यैवाविशेषतः प्रशंसा द्वाभ्याम् अपि ताभ्यां गोकुल-कुल-भाग्यद्योतनाच् चा ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यशोदानन्दयोर् भाग्यम् आनन्दो यशो वा यस्यात् तथा-भूतेन सूनुनेति शकपार्थिवादित्वान् मध्यम-पद-लोपी कर्मधारयः तस्मान् महा-व्यालाद्वयञ्चाविताः ॥४८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अद्यानेन महा-व्यालो हतः तस्माद् वयं च अविता रक्षिता कीदृशेनेत्य् आह—यशोदेति । मातृ-पक्षीयैर् यशोदा-सूनुर् इति पितृ-पक्षीयैर् नन्द-सूनुर् इति चोक्तेनेत्य् अर्थः ॥४८॥
॥ १०.१४.४९ ॥
राजोवाच—
ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् ।
योऽभूत36-पूर्व-स्तोकेषु स्वोद्भवेष्व् अपि37 **कथ्यताम्
श्रीधर-स्वामी (भावार्थ-दीपिका) :
व्रजौकसां स्व-तोकेषु स्नेह-वल्ल्य् आब्दम् अन्वहम् ।
शनैर् निःसीम ववृधे यथा कृष्णे त्व् अपूर्ववत् ॥[भा।पु। १०.१३.२६]
इत्य्-आदिना स्व-तोकेभ्योऽपि पर-पुत्रे कृष्णे प्रेमाधिक्यम् उक्तं तत्र पृच्छति—ब्रह्मन्न् इति॥४९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोके हि अतिगुणवत्तमाद् अपि पर-पुत्राद् गुण-हीनेऽपि स्व-पुत्रे प्रेमाधिक्यं दृश्यते, तच् चात्र विरुद्धम्, यतः स्व-पुत्रेभ्योऽपि परस्य नन्दस्य पुत्रे प्रेमाधिक्यम् इति कथम् ? इति सन्दिहानः पृच्छति—हे ब्रह्मन् इति । साक्षाद्-भगवद्-रूपत्वात् त्वं सर्वं जानासीति सम्बुद्ध्याशयः । इयान् एतत्-प्रमाणकः । तद् आह—यो भूत- इत्य्-आदि ॥४९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ब्रह्मन् ! साक्षाद् वेद-रूपेति त्वं सर्वम् एव वेत्सीति भावः । इयान् एतावान् । यो यावान्, परोद्भव इति श्री-कृष्णे तेषां श्री-यशोदानन्दन-बुद्धिर् एव, न तु भगवद्-बुद्धिर् यया स्वापत्येभ्योऽप्य् अधिक-स्नेहः स्याद् इति भावः ।
ननु, वस्तु-स्वभावेन भवेद् इति चेत्, तर्हि तत्र का युक्तिः ? इति पृच्छति—कथम् इति । च अपि । स्वोद्भवेष्व् अपि पाठान्तरं स्पष्टम् । कथ्यतां तन् निरूप्यताम् । एवं तत्-प्रकारस्यैव प्रश्नः, न तु तद्-योग्यतायास् तद्-अर्थं पुत्रादि-परित्याग-सुप्रसिद्धेः ।
यद् वा, तत्रोपविष्टानां केषाञ्चित् तपः-पराणां मुनीनां पुत्रादिष्व् एव स्नेहं दृष्ट्वा श्री-भगवति तम् अनालोक्य तान् उपहसन्न् इव पृच्छति—ब्रह्मन्न् इति । कथं कुतः ? अन्यत् समानम् ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, स्नेहस् तावत् त्रिधा दृश्यते—विषय-सौन्दर्येण, ममता-विशेषेण, स्वाभाविक-दैहिक-सम्बन्ध-विशेषेण च । तत्र प्रथमं प्राग्-वद् एव यावद् वत्सप [भा।पु। १०.१३.१९] इत्य्-आद्य्-उक्तत्वात्, द्वितीयश् च तद्वद् एव तत्-तत्-सम्बन्धस्यानतिरेकात् । यश् च तृतीयः श्री-प्रद्युम्नागमने तन्-मातरि श्रुतः, स त्व् अत्र विपरीत एव । तर्हि कथं व्रजौकसां स्व-तोकेषु [भा।पु। १०.१३.२६] इत्य्-आदिकम् उक्तम् ? इत्य् अभिप्रेत्य विशेष-बुभुत्सया पर-बिबोधिषया वा पृच्छति—ब्रह्मन्न् इति
श्री-कृष्णे श्रीदामादि-नाम-रूपाभ्यां व्यक्ते, न तु स्व-स्वरूपेणैव व्यक्ते तस्मिन्, अन्यथा तत्रापि पूर्व-पक्षः प्रसज्जेत, स च पुरा न कृत इति यः यावान् अत्र परोद्भवत्वं, नन्दस् त्व् आत्मज उत्पन्ने [भा।पु। १०.५.१] इत्य् उक्त-सिद्धान्तानुसारेणैवोक्तम्, अन्यथा श्रीमन्-नन्द-यशोदे प्रत्यप्ययं पूर्व-पक्षः प्रसज्जेत, स च पुरा न कृत इति ।
यद् वा, यथा कृष्णे त्व् अपूर्ववत् [भा।पु। १०.१३.२६] इति दृष्टान्तिते श्री-कृष्ण एव पूर्व-पक्षः । एतत्-पक्षे विषय-सौन्दर्याधिक्यम् अस्त्य् एव, किं तु ततोऽपि ममता-देह-सम्बन्धयोर् आधिक्यं विवक्षितं, तच् च सिद्धान्त-विशेष-बुभुत्सयेति ज्ञेयम् ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्णे श्रीदामादि-नाम-रूपाभ्यां व्यक्ते यो यावान् ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
व्रजौकसां स्व-तोकेषु स्नेह-वल्ल्य् आब्दम् अन्वहम् । > शनैर् निःसीम ववृधे यथ कृष्णे त्व् अपूर्ववत् ॥[भा।पु। > १०.१३.२६]
इत्य्-आदिना स्व-तोकेभ्योऽपि पर-पुत्रे कृष्णे प्रेमाधिक्यं पूर्वं व्यञ्जितं, तत्र पृच्छति—ब्रह्मन्न् इति । परोद्भवे नन्द-पुत्रे स्वोद्भवेषु स्व-स्व-पुत्रेष्व् अपि यः प्रेमा अभूत-पूर्वः ब्रह्म-मोहनात् पूर्वं न भूतः । लोके हि खलु अतिगुणवत्तमाद् अपि पर-पुत्रात् गुण-हीनेऽपि स्व-पुत्रे प्रेमाधिक्यं दृश्यते इत्य् अतो लोक-विरुद्धत्वाद् इदं पृच्छ्यते इति भावः ॥४९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : व्रजौकसां स्व-तोकेषु [भा।पु। १०.१३.२६] इत्य्-आदिना स्व-पुत्रेभ्योऽपि कृष्णे प्रेमाधिक्यं पूर्वं दर्शितं, तत्र पृच्छति—ब्रह्मन्न् इति । परोद्भवे नन्द-पुत्रे कृष्णे स्वोद्भवेषु स्व-पुत्रेष्व् अपि यः प्रेमा अभूत-पूर्वः विरञ्चि-मोहनात् पूर्वं न भूतः, स कथं ? तत् कथ्यताम् । लोके खलु महा-गुणाद् अपि पर-पुत्रात् स्व-पुत्रेष्व् अल्पेष्व् अपि प्रेमाधिक्यं दृश्यते इति लोक-विरुद्धत्वान् ममायं प्रश्न इति ॥४९॥
॥ १०.१४.५० ॥
श्री-शुक उवाच—
सर्वेषाम् अपि भूतानां नृप स्वात्मैव वल्लभः ।
इतरेऽपत्य-वित्ताद्यास् तद्-वल्लभतयैव हि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णस्य साक्षाद् आत्मत्वात् तस्मिन्न् आत्मीयेभ्यः प्रेमाधिक्यं युज्यत इति वक्तुं प्रथमं तावद् आत्मनः स्वतः प्रेष्ठत्वम्, अन्येषां तु तद्-उपाधिकम् इति दर्शयति पञ्चभिः**—सर्वेषाम्** अपीति ॥५०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मीयेभ्यः देह-पुत्रादिभ्यः आत्मनस् तु कामाय सर्वं प्रियं भवति [बृ।आ।उ। २.४.५] इति श्रुत्य्-अभिप्रायेणाह—अन्येषाम् इति । तद्-उपाधिकम् आत्मोपाधिकम् । पञ्चभिः सर्वेषाम् इत्य् आरभ्य, चराचरम् इत्य् अन्तैः । परमात्मा श्री-कृष्णो\ऽसौ सर्वेषाम् एव प्रियाद् आत्मनो\ऽप्य् अधिक-प्रियः, किम् उतात्मीयेभ्यः इति सुखद-विषयेभ्यः वक्तुम् आदाव्-आत्मनस् स्वतः प्रेष्ठत्वम् अन्येषां तद् उपाधिकम् एवेत्य् आह--सर्वेषाम् इति पञ्चभिः । अतः प्रथमं स्वात्मेति । देह-देह्य् अविवेकेनाहन्तास्पद-मात्रम् उच्यते, ममतास्पदे प्रेम-व्यवच्छेदार्थ, स्व-शब्दश् च प्रतिस्वम् अनुभवापेक्षया । हे नृपेति । तादृशस्यास्य स्व-धर्मतः प्रजापालनम् अपि तथैवेति भावः । भूतानाम् इत्य् औपचारिक-भेदेन । हीति तत्रानुभव-प्रामाण्यं बोधयति ॥५०॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परमात्म श्री-कृष्णोऽसौ सर्वेषाम् एव प्रियाद् आत्मनोऽप्य् अधिक-प्रियः, किम् उतात्मीयेभ्य इति वक्तुम् आत्मनः स्वतः प्रेष्ठत्वम् अन्येषां च तद्-उपाधिकम् एवेत्य् आह—सर्वेषाम् इति पञ्चभिः ।
स्वस्यात्मेति सम्यग् ज्ञानानुत्पत्त्या परेषाम् आत्मना सह भेद-दृष्टेः । किं वा, स्वस्यात्मनः प्रेष्ठायाः स्वयम् एव साक्षाद् अनुभव-सिद्धेः । आद्य-शब्दाद् गृह-दारादयोपत्यादिभ्योऽधिक-वल्लभस्यापि देहस्यानुक्तिर् अग्रे देहात्म-रागिणां मते, विशेषेण देहस्यैव प्रियतमताया वक्ष्यमाणत्वात् ।
यद् वा, आद्य-शब्देन सोऽपि गृहीतस् तस्य स्पष्टानुक्तिः सदाधिक-पालनादिना तस्य वल्लभतायाः प्रत्यक्षत्वात् । एवम् अग्रेऽपि । हे नृप ! इति प्रजा-पालनम् अपि भवादृशो राज्ञो यत् प्रियम्, तद् अपि आत्मात्मत्वेनात्मनः प्रियत्वाद् एवेति भावः । हि इति तत्रानुभवादि-प्रामाण्यं बोधयति ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परमात्मा श्री-कृष्णोऽसौ सर्वेषाम् एव प्रियाद् आत्मनोऽप्य् अधिक-प्रियः, किम् उतात्मीयेभ्यः सुखद-विषयादिभ्य इति वक्तुम् आदाव् आत्मनः स्वतः प्रेष्ठत्वम् अन्येषां तद्-उपाधिकम् एवेत्य् आह—सर्वेषाम् इति पञ्चभिः ।
अत्र प्रथमतः स्वात्मा इति देह-देह्य्-अविवेकेन अहन्तास्पद-मात्रम् उच्यते, ममतास्पदे प्रेम-व्यवच्छेदार्थम् । स्व-शब्दश् च प्रतिस्वम् अनुभवापेक्षया भूतानाम् इत्य् आदाव् औपचारिक-भेदेन । हे नृप ! इति त्वादृशस्य स्व-धर्मतः प्रजा-पालनम् अपि तथेवेति भावः । हि इति तत्रानुभवादि-प्रामाण्यं बोधयति ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : परमात्मा श्री-कृष्णोऽसौ सर्वेषाम् एव प्रियाद् आत्मनोऽप्य् अधिक-प्रियः किम् उतात्मीयेभ्यः इति वक्तुम् आदाव् आत्मनः स्वतः प्रेष्ठत्वम् अन्येषां तद्-उपाधिकम् एवेत्य् आह—सर्वेषाम् इति पञ्चभिः । अत्र प्रथमतः स्वात्मा इति देह-देहि-विवेकेन अहन्तास्पद-मात्रम् उच्यते । ममतास्पदे प्रेम-व्यवच्छेदार्थं स्व-शब्दश् च प्रतिस्वम् अनुभावापेक्षया भूतानाम् इत्य् औपचारिक-भेदेन ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो राजन् ! ममतास्पदेभ्यः पुत्रादिभ्यः सकाशाद् अहन्तास्पदे आत्मनि प्रेमाधिक्यम् इति लोक-रीतिः प्रथमं दृश्यताम् । तत एवास्य सिद्धान्तो भविष्यतीत्य् आह—सर्वेषाम् इति पञ्चभिः । वल्लभः लोक-दृष्ट्या आत्यन्तिक-प्रीति-विषयः । स च प्रतिदेहम् एकैक एव न तथान्ये इत्य् आह—इतरे इति ॥५०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : लोक-प्रेम-रीति-परीक्षणेनैवायं सिद्धान्तो भवेद् इति तावद् आह—सर्वेषाम् इति । स्वात्मैव देहेन्द्रियाध्यक्षो जीव-वल्लभः प्रियः तस्य विज्ञानानन्दत्वाद् इति भावः । तस्माद् इतरेऽपत्यादयस् तु तद्-वल्लभतया तदीयत्वेनैव प्रिया इत्य् अर्थः ॥५०॥
॥ १०.१४.५१ ॥
तद् राजेन्द्र यथा स्नेहः स्व-स्वकात्मनि देहिनाम् ।
न तथा ममतालम्बि-पुत्र-वित्त-गृहादिषु ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः ? तथा-दर्शनाद् इत्य् आह—तद् इति । तस्माद् एव कारणात् स्व-स्वकात्मन्य् अहङ्कारास्पदे देहे ॥५१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुतः सर्वेभ्यः आत्मा प्रियः ? तथा-दर्शनात् सर्वाधिक-प्रेम-दर्शनात् । यत आत्मैव प्रियः, तस्मात् । अहङ्कारास्पदे आत्मत्वेन स्वीकृते, न त्व् आत्मनि । यथा ममतां ममत्वम् आलम्बन्त आश्रयन्त इति ममतालम्बीनि तानि च स्नेह इत्य् अन्वयः ॥५१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाह—तद् इति । स्वार्थे कः, स्वस्मिन् स्वस्मिन्न् आत्मनि देहाधिष्ठातरि, अतस् तस्य साभिमानत्वात् तैर् अपि व्याख्यातम्—अहङ्कारास्पदे इति । आत्मनि देह इति व्याख्या चायुक्ता—तस्य निरन्तर-श्लोके वक्ष्यमाणत्वात् । देहिनां देहातिरिक्तात्मज्ञानवताम् इत्य् अर्थः । ममतालम्बीत्य् अहन्तास्पदाद् अप्य् आत्मनः सकाशान् ममतास्पद-पुत्त्रादिषु स्नेहस्य न्यूनतायोग्यत्वाद् इत्य् अर्थः । हे राजेन्द्रेति साम्राज्ये\ऽप्य् आत्मवत् स्नेहो नास्तीति भवता ज्ञायत एवेति भावः ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव व्यतिरेकेणाह—तद् इति । अत्राहङ्कारास्पद इत्य् अन्तैव तेषां व्याख्या परत्र पद्ये तु अहङ्कारास्पदेऽपि देह आत्मेत्य्-आदिका ज्ञेया । पाठान्तरं तु न सङ्गतम्, अस्यैव विवक्षितत्वाद् देहस्य निरन्तर-श्लोके वक्ष्यमाणत्वाद् ममतालम्बीति षष्ठ्य्-अर्थस्य वा व्यवहितत्वात् न्यूनता-योग्यैवेत्य् अर्थः । हे राजेन्द्र ! इति साम्राज्येऽप्य् आत्मवत् स्नेहे नास्तीति भवता ज्ञायते एवेति भावः ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एव व्यतिरेकेणाह—तद् इति ॥५१.५२॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा निरुपाधिकः ॥५१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत् तस्माद् यथा स्व-स्वकात्मनि विज्ञानानन्देऽहन्तास्पदे जीवात्मनि स्नेहस् तथा ममतास्पदेषु पुत्रादिषु तत् सम्बन्धिषु नास्ति पुत्र-कलत्रयोः स्व-तौल्येपि देहादि-पिहितत्वेन स्वरूपाप्रकाशात् स्वतोऽनधिकत्वाच् च न स्नेहो मुख्यः ॥५१॥
॥ १०.१४.५२ ॥
देहात्म-वादिनां पुंसाम् अपि राजन्य-सत्तम ।
यथा देहः प्रियतमस् तथा न ह्य् अनु ये च तम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्माध्यास-तारतम्येन प्रेम-तारतम्यं दृश्यमानं तन्-निबन्धनम् एवेति दर्शयितुं मूढामूढ-भेदेन विशेषम् आह—देहात्म-वादिनाम् इति द्वभ्याम् । तं देहम् अनु भवन्ति ये पुत्रादयः, ते तु न तथा प्रियतमा इत्य् अर्थः ॥५२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तारतम्यं न्यूनाधिक्य-भावः । तन्-निबन्धनम् आत्म-हेतुकम् । मूढामूढौ अज्ञ-ज्ञौ । राजन्यं प्रायेण देहात्म-वाद्य् एव । त्वं तु तेषु सत्तमोऽसीति, न तव देहाध्यास उचित इति सम्बुद्ध्य्-अभिप्रायः । इत्य् अर्थ इति—प्रियं धनादि, प्रियतरं पुत्रादि, प्रियतमो देह इति भावः । देह एवात्मेतिवादिनाम् अत्यन्ताविवेकिनाम् इत्य् अर्थः । तन्-मतेप्य् आत्मन एव प्रिय-तमत्वं पर्यवस्येत् आत्मतयैव देहे\ऽभिमानेन प्रियतमत्वात् । हि निश्चये । त्व् अथ चकारः । हे राजन्य-सत्तमेति । केचिद् राजन्या देहात्म-वादिनो\ऽसन्त एव, आत्मवादिनश् च सन्तः, ईश्वर-वादिनः सत्तरास् तेषु । श्री-कृष्णक-प्रियत्वात् त्वं तु सत्तम इति भावः ॥ ५२ ॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देह एव आत्मा इति वादिनाम्**,** अत्यन्ताविवेकिनाम् इत्य् अर्थः । अत एव देहातिरिक्तात्माज्ञानाद् देह एव प्रियतमस् तन्-मतेऽप्य् आत्मनः प्रिय-तमत्वं पर्यवस्येद् एव, आत्मतयैव देहस्य मननेन प्रियतमत्वात् । हि निश्चये । त्व्-अर्थे च-कारः । हे राजन्य-सत्तमेति केचिद् राजन्या देहात्म-वादिनोऽसन्त एव, ब्रह्म-वादिनश् च सन्तः, ईश्वर-वादिनः सत्तराः, तेषु श्री-कृष्णैक-प्रियत्वात् त्वं सत्तम इति भावः ॥५२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देह एव आत्मा इति वादिनाम्, अत्यन्ताविवेकिनाम् इत्य् अर्थः । तन्-मतेऽप्य् आत्मन एव प्रियतमत्वं पर्यवस्येत् आत्मतयैव देहाभिमानेन प्रियतमत्वात् । हि निश्चये । त्व्-अर्थे च-कारः । हे राजन्य-सत्तम ! इति केचिद् राजन्या देहात्म-वादिनोऽसन्त एव, आत्म-वादिनश् च सन्तः, ईश्वर-वादिनः सत्तराः, तेषु श्री-कृष्णैक-प्रियत्वात् त्वं सत्तम इति भावः ॥५२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स चात्मा मूढैर् देह एव ज्ञायते इति तन्-मतेनाह—देह एवात्मेति वदितुं शीलं येषां तं देहम् अनुभवन्ति ये पुत्रादयः, ते तथा न प्रियतमा इत्य् अर्थः ॥५२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मत-भेदेनाप्य् आत्मन एव प्रेमास्पदत्वं दर्शयति—देहात्म इति । गौरोऽहं स्थूलोऽहम् इति प्रत्ययात् ये देहम् एव्आत्मानं मन्यन्ते लोकायतिकाः, तेषाम् आत्मत्वेनाभिमतो देहो, यथा प्रियतमस् तथा तं देहम् अनु ये\ऽपत्यादयो भवन्ति ते न तथा प्रिया इत्य् आत्मैव वल्लभ इति ॥५२॥
॥ १०.१४.५३ ॥
देहोऽपि ममता-भाक् चेत् तर्ह्य् असौ नात्मवत् प्रियः ।
यज् जीर्यत्य् अपि देहेऽस्मिन् जीविताशा बलीयसी ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यस्माज् जीर्यत्य् अपि आसन्न-मरणेऽपि जीविताशा भवति । अयं भावः । न जीविष्यतीति निश्चिते\ऽपि देहे यत्-प्रेमास्पदत्वं, तद् आत्म-गतम् एव न तु देव-गतं, तस्य मरणोन्मुखत्वात् बीभत्सत्वाच् च । अथ वा, तद् यस्मिन् देहे जीर्यत्य् अपि जीविताशा अविवेक-दशायां बलीयस्यासीत्सा तु विवेकिनो यदा ममता-भाग्-भवति तद्आत्मवत् प्रियो न भवत्यतस् तत्र नातीवास्थेति ॥५३॥
—————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अज्ञ-वृत्तम् उक्त्वा ज्ञ-वृत्तम् आह—अयं भाव इति । न हि विवेकिनो देहाद्य्-असज्-जडेऽध्यासो भवति चिन्-निष्ठत्वात् तस्येति तात्पर्यम् ।
ननु, विवेक-दशातः प्राक् तु तेषाम् अपि देहाध्यासोऽस्त्य् एवेति चेत्, तत्राह—अथवेति । सोऽपि ममताश्रयो देहोऽपि । तदा ममत्व-समयेऽपि प्रियो न, विनाशित्व-निश्चयात् । अतो विनाशित्वाद् एव । तत्र देहे । नातीवास्था नात्यन्तं स्नेह इत्य् अर्थः । ममेति देहं मन्यमानानाम् अविवेकिनां मतम् आलम्ब्याह—देहोपोति । तैर् व्याख्यातम् । तत्र प्रथम-पक्षे अपीति सम्भावनायां पुत्राद्य् अपेक्षया समुच्चये वा, द्वितीय-पक्षे\ऽविवेक-दशायाम् इति बलीयसीति विशेषणेनाक्षिप्यते, एतत् प्रतियोगितया विवेकिन इत्य् अपि । असौ देहोपीत्य् अनयोर् अन्वितयोर् अर्थ व्याचष्टे-सोपीति । नातीवास्था इति-म्रियतां जीवतु वेत्य् अपेक्षाधिक्यं नास्तीत्य् अर्थः । इदं नात्मवत् प्रिय इत्य् अस्य व्याख्यानम् इति । यद् वा, आत्मवत् पूर्वम् अविवेकेनात्मतया गृहीतो\ऽहन्ताविषयो देहस् तद्-वत् प्रियो न भवतीत्य् अर्थः । यद्य् अस्माज् जीर्यति रोगादिनाभिभूते ममतास्पदे\ऽस्मिन् देह-विषये जीविताशा अयं देहश् चिरं तिष्ठत्विति वाञ्छापि अबलीयसी पूर्वापेक्षया स्वल्पाधि भवति, विवेकतो\ऽस्मिन्न् आत्मताप-गमेनातिप्रियत्वाभावात् ॥५३॥ अत्र विश्वनाथः
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ममेति देहं मन्यमानानां विवेकिनां मतम् आलम्ब्याह—देहोऽपीति । तैर् व्याख्यातम् । तत्र नातीवास्थेति म्रियतां जीवतु वेत्य् अपेक्षाधिकं नास्तीत्य् अर्थः इति । यद् वा, आत्मवत् पूर्वम् अविवेकेनात्मतया गृहीतोऽहन्ता-विषयो यो देहस् तद्वन् न प्रियो भवतीत्य् अर्थः । यद् यस्मात् जीर्यति रोगादिनाभिभूतेऽस्मिन् ममतास्पदे देहे विषये जीविताशा अयं देहस् तिष्ठत्व् अति वाञ्छापि अबलीयसी पूर्वापेक्षया स्वल्पैव भवति विवेकतोऽस्मिन्न् आत्मत्वाभिमानापगमेनातिप्रियत्वाभावात् ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ममेति देहं मन्यमानानाम् अविवेकिनां मतम् आलम्ब्याह—देहोऽपीति । तैर् व्याख्यातम् । तत्र प्रथम-पक्षे अपीति सम्भावनायां पुत्राद्य्-अपेक्षया समुच्चये वा द्वितीय-पक्षे अविवेक-दशायाम् इति बलीयसीति विशेषणेनाक्षिप्यते एतत्-प्रतियोगितया विवेकिन इत्य् अप्य् असौ देहोऽपीत्य् अनयोर् अन्वितयोर् अर्थं व्याचष्टे—सोऽपीति । नातीवास्थेति म्रियतां जीवतु वेत्य् अपेक्षाधिक्यान् नास्तीत्य् अर्थः । इदं नात्मवत् प्रिय इत्य् अस्य व्याख्यानम् इति । यद् वा, आत्मवत् पूर्वम् अविवेकेनात्मतया गृहीतोऽहन्ता-विषयो यो देहस् तद्वत् प्रियो न भवतीत्य् अर्थः । यद्य् अस्माज् जीर्यति रोगादिनाभिभूतेऽस्मिन् ममतास्पदे देह-विषये जीविताशा अयं देहस् तिष्ठत्व् इति वाञ्छापि अबलीयसी पूर्वापेक्षया स्वल्पापि भवति, विवेकतोऽस्मिन्न् आत्मताप-गमेनातिप्रियत्वाभावात् ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : ममेति देहं मन्वानानां विवेकिनां मतम् आलम्ब्याह—देहोऽपीति । अत्र देहाद् अहन्ता-ममतयोर् अपगमेनात्म-गतम् एव सङ्गच्छत इति टीका योज्या पुत्राद्य्-अपेक्षया समुच्चयार्थोऽयम् अपि-शब्दः । टीकायां च अविवेक-दशायाम् इति बलीयस्त्व-विशेषणेनाक्षिप्यते एतत् प्रतियोगितया विवेकिन इत्य् अपि सोऽपीत्य् असौ देहोऽपीत्य् अनयोर् व्यञ्जकम् इति ज्ञेयम् । सरलार्थस् त्व् अयं यस्मान् ममता-भाक्त्वाद् एव पुत्रादाव् इव देहे जीर्यति तस्य देहस्य जीविताशा बलीयसी भवति ममता चात्म-सम्बन्धाद् एवेति ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहात्म-वादिनां तेषाम् अपि कदाचिद् ईषद् विवेके सति आत्मैव प्रियः स्यान् न तथा देह इत्य् आह—देहोऽपि अहन्तास्पदीभूतोऽपि देह । ईषद् विवेकेन यदि ममता-भाक् स्यात् तर्ह्य् असौ देह आत्मवत् प्रियो न भवेत्, किं त्व् आत्मानुरोधेनैव प्रियः स्याद् इत्य् अर्थः । तत्र लोकानुभवम् एव प्रमाणयति—यद् इति । सर्वत्र देह-त्यागे आत्मनोऽतिकष्टं दृष्ट्वा तद् अपि कष्टं ममात्मनो मा भवत्व् इति बुद्ध्यैव आत्मन्य् अतिस्नेहाद् एव देहे जीविताशा अधिका भवतीत्य् अर्थः ॥५३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तेषाम् एव तत्त्वैत् प्रसङ्गेनेषद्-विवेक-लाभे सति देहोऽपि चेन् ममता-भाक् स्यात् तर्ह्य् असाव् आत्मवत् प्रियो न भवेत्, किन्तु तत्-सम्बन्धेनैवेत्य् अर्थः । लोकानुभवं प्रमाणयति—यद् इति । यस्माद् रोगादिना देहे जीर्यति सति तत्रातिक्लेशं वीक्ष्य्आत्मनो मम सोऽतिक्लेशो मा भूद् इत्य् आत्मन्य् अतिस्नेहाद् एव देहे जीविताशा बलीयसी भवतीत्य् अर्थः ॥५३॥
॥ १०.१४.५४ ॥
तस्मात् प्रियतमः स्वात्मा सर्वेषाम् एव देहिनाम् ।
तद्-अर्थम् एव सकलं जगच् चैतच् चराचरम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-अर्थम् एव सकलं प्रियम् इत्य् अर्थः ॥५४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत आत्मनोऽन्यः कोऽपि न प्रियतमस् तस्मात् । स्वात्मा प्रियतमो निरुपाधि-प्रेमास्पदः, प्रज्वलति गृहे स्थितं पुत्रादिकम् आनेतुं प्रवेशादि-दर्शनाद् इति भावः । तद्-अर्थं स्वात्मार्थम् । इत्य् अर्थ इति—पूर्वोदाहृत-श्रुतेर् इति भावः । तस्माद् इति । चरं पुत्र-कलत्रादि । अचरं गृह-घटादि । तेन लोक-दृष्ट्या पुत्रादिभ्यः सकाशाद् आत्मन एवात्यन्तिक-प्रीति-विषयत्वं प्रतिपादितम् ॥५४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चरं देहापत्यादि, अचरं गेहादि तदात्मकम् एतत् जगत्-प्रपञ्चः । च अपि सकलम् अपि । यद् वा, सकलं देह-दैहिकं जगच् च चराचर-द्रव्याणां यज्ञादि-साधनतया तत्-तत्-फलोपभोगेन च क्रमशः सर्वस्याप्य् आत्मात्मत्वात् । अन्यत् तैर् व्याख्यातम् । यद् वा, तद्-अर्थं तत् सुखार्थं तत् सुखार्थम् एवेत्य् अर्थः ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चरं देहापत्यादि, अचरं गेहादि तदात्मकम् एतज् जगच् चापि सकलम् अपि यत् किञ्चिद् इत्य् अर्थः । एतेन्आत्मनः सुख-स्वरूपत्वं च बोधितम् ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : एव्आत्मनः स्वतः-प्रियत्वेन मुख्य-स्वरूपत्वं च बोधितम् ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् इति । चरं पुत्र-कलत्रादि । अचरं गृह-घट-पटादि तेन लोक-दृष्ट्या पुत्रादिभ्यः सकाशाद् आत्मन एवात्यन्तिक-प्रीति-विषयत्वं प्रतिपादितम् ॥५४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : निगमयति—तस्माद् इति । चरम् अपत्यादि । अचरं गृहादि सकलं तद्-अर्थम् एव प्रियतमम् इति लोक-दृष्ट्य्आत्मन एवातिस्नेह-विषयत्वम् उपपादितम् ॥५४॥
॥ १०.१४.५५ ॥
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तुतम् आह—कृष्णम् एनम् इति ॥५५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्-अर्थम् उक्तं तद् आह—अखिलात्मनां सर्व-जीवानाम् । ननु, सर्वान्तर्यामिणोऽदृश्यत्वात् कथं देहि-रूपेण प्रतीतिः ? तत्राह—मायया कृपया । तत्र हेतुः—जगतां निज-दर्शन-श्रवणवतां हिताय बन्ध-निवृत्तये । निर्गुण-रूपस्य ज्ञातुम् अशक्यत्वाद् भक्त-कृपया स-गुण-विग्रहम् आविश्चकारेति भावः ॥५५॥ अत्र विश्वनाथः तोषिणिकरोश् च ।
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अखिलानाम् आत्मानं क्षेत्रज्ञानाम् आत्मानम् अन्तर्यामित्वात् परमात्मानम् इत्य् अर्थः । एवं श्री-यशोदानन्दनं सोऽपि ईदृशोऽपि अत्रावतीर्णः लोके वा देहीव यथान्यो जनस् तद्वद् आभाति ईषत् प्रकाशते । तच् च मायया तस्य तत्त्व-ज्ञानेनैव लौकिकत्वेऽपि सर्वत्रैवालौकिकत्वात् तच् चादाव् उक्तम् एव ईषद् इति तत्त्वतः प्रायः परमैश्वर्य-प्रकटनाभिप्रायेण ।
यद् वा, मायया कृपया देही जीव इव सन् आ सम्यक् भाति राजते उक्त-युक्त्या प्रियत्वेन साधितानाम् अखिलात्मनाम् एवात्मानं जगद्-धिताय कृष्णम् अवेहि जगतां दुःख-ध्वंसाय परमानन्द-प्राप्तये च कृष्ण-स्वरूपेणावतीर्णम् अवेहीत्य् अर्थः ।
ननु, कृष्णे स्नेहः परमात्मतयोपाधिर् इति चेद्, उच्यते—तर्हि असुराणाम् अपि वस्तुतस् तथात्वात् तेषां स्नेहः कथं नोत्पद्यते ? तत्राह—सोऽपीति । सोऽपि देहि-देह-विभाग-रहितोऽपि अत्र एषु दृष्टेष्व् असुरादिषु मायया तदीय-स्वाभाविक-प्रेमास्पदत्वाद् वावरण-शक्त्या देहीव प्राकृत-शरीरीव आभाति । तथा चोक्तं महा-वाराहे—देह-देहि-विभागोऽत्र नेश्वरे विद्यते क्वचित् [बा।रा।पु। ३.५.१२३] इति ।
अयं भावः—आवरण-भावाद् एव तत्-प्रियत्वानुभावः स्यात् मल्-लोके परमोत्कट-दोषावृता आत्मानम् अपि व्यापादयन्तो दृश्यन्ते, तद्-आवरणं तु भक्त्यैव सम्यग् अपयाति, तेन भक्ति-तारतम्येनैव पेर्म-तारतम्यम् । अतो व्रज-वासिनां सर्वातिशायि-भजन-विशेषात् कृष्णे प्रेमाधिक्यम् एवेति ॥५५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं देह-द्वयातिरिक्तस्य शुद्धस्यात्मनः स्वतः प्रियत्वम् उक्त्वा विवक्षितम् आह—कृष्णम् इति ।
कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः । > तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ [ब्।स्। ५.१]
इत्य् एतल्-लक्षणत्वेन तन्-नामानम् एनं श्री-यशोदानन्दन-रूपम् अखिलानाम् आत्मानं सूर्य-मण्डल-स्थानीयस्य तस्य रश्मि-परमाणु-स्थानीयानां शुद्धानाम् अपि क्षेत्रज्ञानां परम-स्वरूपत्वेन परमात्मानम् अवेहि ।
तर्हि कथं लोके दृश्यतया भाति ? तत्राह—जगद्-धिताय इति । सोऽपि सर्वात्म-परम-स्वरूप-रूपोऽपि परम-कल्याण-गुणत्वेन परम-कारुणिकत्वात् स्व-भक्त-प्रसङ्गेन जगतोऽपि हितायात्र जगति भाति, कल्पे कल्पे स्वरूप-शक्त्या प्रकाशते ।
ननु, यदि तादृश एव कृष्णः, तर्हि कथं देहात्म-विभागादिना तद्-विरुद्ध-धर्म इवाभाति? तत्राह—माययेति । आत्मारामाणां तत्-प्रिय-जनानां चात्माधिक-निरुपाधि-पर-प्रेमास्पद-सर्वांशत्वेन तद्-व्यतिरिक्त-वस्तु-सम्भेदाभावाद् इति भावः । निरुपाधि-परम-प्रेमास्पदत्वं खल्व् आत्मत्वम् आनन्दत्वं चेति । अत एव श्री-मध्वाचार्य-धृतं महा-वाराह-वचनं—देह-देहि-विभागोऽत्र नेश्वरे विद्यते क्वचित् [बा।रा।पु। ३.५.१२३] इति ।
तद् एवम् असुरादीनां मायावरणान् न तथा भाति, नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.२५] इति श्री-भगवद्-गीतासु च, तत्र योग-माया-दुर्घट-घटना-कारि किम् अपि मम बुद्धि-सौष्ठवम् इति श्री-स्वामि-चरणाश् च तत्-प्रिय-जनानां तु तत्-प्रेम-भावितान्तः-करणे क्षीरे सितोत्पलवद् एक-जातीयत्वेन प्रेमास्पदता-स्वभावतोऽसौ स्व-माधुरीभिर् अधिकम् आभाति । अन्यत्र तु यथोचितम् इति स्थिते, सर्वातिशयि तत्-प्रेम-स्वभावानां श्री-व्रज-वासिनां किम् उतेति भावः ॥५५॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः (४४): एनं नौमीड्य तेऽभ्र-वपुषे [भा।पु। १०.१४.१]38 इत्य्-आदि-वर्णित-रूपम् अवेहि मत्-प्रसाद-लब्ध-विद्वत्तयैवानुभव, न तु तर्कादीनां विचारयेत्य् अर्थः । एवम्-भूतोऽपि मायया कृपया जगद्-धिताय सर्वस्यापि स्वात्मानं प्रति चित्ताकर्षणाय देहीव जीव इव्आभाति क्रीडति । इव-शब्देन श्री-कृष्णस् तु जीववत् पृथग्-देहं प्रविष्टवान् इति गम्यते ।
अत एव श्री-विग्रहस्य परम-पुरुषार्थ-लक्षणत्वम् उक्तं श्री-ध्रुवेण—
सत्याशिषो हि भगवंस् तव पाद-पद्मम् > आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः [भा।पु। ४.९.१७] इत्य् अत्र ।
टीका च—हे भगवन् पुरुषार्थः परमानन्दः स एव मूर्तिर् यस्य तस्य् अत-एव पाद-पद्मम् आशिषो राज्यादेः सकाशात् सत्या । आशीः परमार्थ-फलं हि निश्चितं कस्य तेन प्रकारेण त्वम् एव पुरुषार्थ इत्य् एवं निष्कामतया अनुभ्जतः । इत्य् एषा ॥५५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ विवक्षितम् आह—कृष्णम् इति । एवं श्री-यशोदानन्दन-रूप अत्र जगति जगतो हितायाभाति स्वयं प्रकाशते देहीव देहात्म-विभागादिना तद्-विरुद्ध-धर्म इव माययैवाभाति न केवलं सर्वेषां जीवानाम् एव परम-स्वरूपम् अपि तु अन्ते सर्वेषां जडानाम् ॥५५॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विवक्षितं सिद्धान्तं प्रतिपादयंस् तत्त्व-दृष्ट्या तस्याप्य् आत्मन आपेक्षिक-प्रीति-विषयत्वम् एव आत्यन्तिक-प्रीति-विषयत्वं केवलं कृष्णस्यैवेत्य् आह—कृष्णम् इति । अखिलानाम् आत्मनां जीवानाम् अपि आत्मानं परमात्मानम् एव कृष्णम् अवेहि, तेन पुत्रादिषु प्रीतिर् यथा देहानुरोधेन देहे च प्रीतिर् यथा देहानुरोधेन देहे च प्रीतिर् यथा आत्मानुरोधेन तथैवात्मन्य् अपि प्रीतिः परमात्मानुरोधेन, स च परमात्मा कृष्ण एव मूर्तः पूर्ण एव । यद् उक्तं—विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इत्य् अतः कृष्णस्यैवात्यन्तिक-प्रीति-विषयत्वात् तत्रैव प्रीतेः पराकाष्ठेति स्व-पुत्रेभ्योऽपि तत्र यत् प्रेमाधिक्यं तद् उपपादितम् ।
किं च, जीवानां भक्त्य्-अभावात् मायया ज्ञानावरणाच् च भक्त्यैक-प्रकाश्ये तस्मिन् तादृशत्वेनानुभवो मायिक-जीवानाम् अभक्तानां कथम् अस्त्व् इत्य् अतः पुत्रादिष्व् एव लोकानां प्रीति-विषयत्वेनानुभवो न तस्मिन्, व्रज-वासिनां तु मायातीतत्वाद् भक्ति-पूर्णत्वाच् च यथार्थ एवानुभव इत्य् अतस् तेषां स्व-पुत्रादिभ्योऽपि तस्मिन् प्रेमाधिक्यं स्वाभाविकिकं वर्तत एवेति समाधेयं जगद्-धितायावतीर्णः, स कृष्णोऽपि मायया देहीव आभाति स्वाविद्यया मूढैर् जीव इव भौतिक-देहवान् प्रतीयत इत्य् अर्थः ।
यद् वा, माययैव यो देहस् तद्वान् इव मायोपाधिर् इव प्रतीयते, न तु स मायोपाधिर् इत्य् अर्थः । अत एव मधुसूदन-सरस्वती-पादैर् अपि—
सच्-चित्-सुखैक-वपुषः पुरुषोत्तमस्य > नारायणस्य महिमा नहि मानम् एति । > चिद्-आनन्दाकारं जलद-रुचि-सारं > श्रुति-गिरां व्रज-स्त्रीणां हारम् ॥ इत्य्-आदि-बहुशो वर्णितम् ।
यद् वा, ननु, परमात्मा खल्व् इन्द्रिय-ग्राह्यो न भवेत् । कृष्णस् तु सर्वैर् दृश्यत एवेति तत्राह—जगत एव हिताय मायया निर्हेतुकाचिन्त्यया कृपया सोऽपि अत्र जगज्-जनेन्द्रियेषु देहीव आभाति स्वयम् एव तद्-ग्राह्यत्वेन प्रकाशते इत्य् अतर्क्य-तद्-इच्छया तद्-गृहीतैर् इन्द्रियैर् एव स गृह्यते, न पुनर् इन्द्रियैः स्वयम् एव शब्दादिर् इव ग्रहीतुं शक्य इति भावः । अत एव भागवानामृत-धृतम् नाराध्यात्म-वचनम्—
नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निज-शक्तितः । > ताम् ऋते परमानन्दं कः पश्येताम् इतं प्रभुम् ॥[ल।भा। १.५.४२२] > इति ।
तत्रत्या कारिका च—
ततः स्वयं प्रकाशत्व-शक्त्या स्वेच्छा-प्रकाशया । > सोऽभिव्यक्तो भवेत् नेत्रे न नेत्र-विषयत्वतः ॥[ल।भा। > १.५.४२१] इति ।
तत्र हि तम् अन्य-देशीयानाम् अनुकूल-जनानां स्व-कृपा-दृष्टि-दानेनैव स्व-माधुर्य-ग्रहणम्, प्रतिकूलानां कंसाद्य्-असुराणां तु पित्त-दूषित-रसनया मत्स्यण्डिका भोजनम् इव प्राकृतैर् एवेन्द्रियैस् तन्-माधुर्य-ग्रहण-रहितम् एव दर्शनं ध्यानावेश-सिद्ध्य्-अर्थम् आवेश-फलं तु सर्वापराधोपशमन-पूर्वको मोक्षः स एव तेषां हितम् । किं च, व्रज-स्थानाम् ऐश्वर्य-ज्ञान-शून्यानाम् अन्येषाम् अनुकूल-प्रतिकूलानाम् अपि ।
यद्यपि स देह्य् एवाभाति, तद् अपि देह-देहि-विभागोऽत्र नेश्वरे विद्यते क्वचित् इति मध्वाचार्य-धृतं महा-वाराह-वचनाद् एव शास्त्रज्ञैर् देहीति वक्तुम् अयोग्यत्वाद् इव-शब्द-प्रयोगः ॥५५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रस्तुतम् आह—कृष्णम् इति ।
कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः । > तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥
इति स्मृत्य्-उक्त-लक्षणत्वेन तन्-नामानं विभु-विज्ञानानन्दम् एनं श्री-नन्द-राज-सूनुम् अखिलानाम् आत्मनां विशुद्धानाम् अपि जीवानाम् आत्मानम् अवेहि तेन । यथा अपत्यादिषु देहानुरोधेन देहेत्वात्मानुरोधेन स्नेहः प्रतीयते । तथात्मनि जीवे कृष्ण-देह-स्थानीये तद्-अनुरोधाद् एव स्नेह इति कृष्णस्यैवातिस्नेह-विषयत्वात् । स्व-पुत्रेभ्योऽपि तत्र स्नेहाधिक्यं सिद्धम् ।
इदम् अत्र बोध्यं—प्रेमा खलु सुख एव चेतनस्य दृश्यते, स च प्रकाश-रूपे, तस्मिन् स्थिरः, जडस्य विषय-सुखस्य
विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणं [बृ।आ।उ। ३.९.२८], एतद् ध्य् एवाक्षरं ज्ञात्वा यो यद् इच्छति तस्य तत्, एको बहूनां यो विदधाति कामान् [श्वे।उ।] इत्य्-आदि श्रुतिभ्यः । गुडात् मधु इव जात्या बिन्दोः सिन्धुर् इव परिमाणेन च ब्रह्मोत्कृष्टं जीवाद् इति निर्णीतं सूत्र-कृता परम्, अतः सेतून्मानेत्य्-आदिकेऽधिकरणं तत् परं ब्रह्म कृष्ण एव साक्षात् प्रकृति-परोऽयम् आत्मा गोपालः इति, योऽसौ परं ब्रह्म गोपालः इति च श्रवणात् सोऽपिकृष्णो जगद्-धितायात्र व्रजेऽवतीर्णो मायया देहीवाभाति । वस्तुतः स्वात्म-मूर्तिर् एवोक्त-श्रुतेर् इति ॥५५॥
॥ १०.१४.५६ ॥
वस्तुतो जानताम् अत्र कृष्णं स्थास्नु चरिष्णु च ।
भगवद्-रूपम् अखिलं नान्यद् वस्त्व् इह किञ्चन ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलम् आत्मनाम् आत्मा, अपि तु जडानाम् अपीत्य् आह—वस्तुत इति । सर्व-जगत्-कारणम् इति कृष्णं जानतां पुंसां स्थावरं जङ्गमं च सर्वं भगवद्-रूपं भगवान् एव स्वरूपं यस्य तन् नान्यत् ॥५६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु, केवलात्मात्वे तु सर्व-व्यापिता नश्येद् इति चेत् तत्राह—न केवलम् इति । वस्तुतो यथात्म्येन । अत्र लोके । अन्यत् कृष्णेतरत् । न केवलं सर्वेषां क्षेत्रज्ञानाम् एव परम-स्वरूपं अपि तु अन्ते सर्वेषां जडानाम् आदौ सर्वेषां साक्षात् तद् रूपाणां चेति वक्तुं तस्य भूमत्वम् आह—वस्तुत इति । वस्तुतः तत्त्वतः । कृष्णम् अत्र जगति जानतां विचारयतां तद् विचार-ज्ञानाम् इत्य् अर्थः । सत् स्थावर-जङ्गम-रूपम् अखिलं यच् च भगवतो रूपं नारायणाद्य् अभिधम् अखिलं तत्-तत् सर्वम् इह श्री-कृष्ण एव तत् तद् अन्तर् भूतत्वेनैव स्फुरतीत्य् अर्थः । नान्यत् किञ्चन, यत् तत्र नास्ति तन् नास्त्य् एवेत्य् अर्थः । कारणांशिनोर् विज्ञानेन कार्यांशयोर् विज्ञानात्, तद्-व्यतिरेकेण तद्-व्यतिरेकाच् च । माहा-समुद्रस्य सागतरङ्ग-फेनादिवत् । सूर्यान्तरीण-मण्डलात्मकस्य बहिर् मण्डल-किरण-परमाणु-गण-मरीचिकादिवद् इति ज्ञेयम् । तद् उक्तं द्वितीये—
सोऽयं तेऽभिहितस् तात भगवान् विश्व-भावनः ।
समासेन हरे नान्यद् अन्यस्मात् सद् असच् च यत् ॥[भा।पु। २.७.५०] इति ॥५६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् रूप्यते परम-कारणतया साक्षाद् अनुभूयते यस्मिन् तथा-भूतम् अखिलं भवति । न चान्यद् अन्य-प्रकारकं स्याद् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, तादृश-ज्ञानस्य फलम् आह—वस्तुत इति । अखिलात्मनाम् आत्मेति कृष्णं जानतां भगवतो रूपम् अधिष्ठानं सर्वत्रैव भगवान् अयं निवसतीति परिस्फुरतीत्य् अर्थः ॥५६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं सर्वेषां क्षेत्रज्ञानाम् एव परमं स्वरूपम् अपि तु अन्ते सर्वेषां जडानाम् आदौ सर्वेषां साक्षात् तद्-रूपाणां चेति वक्तुं तस्य भूमत्वम् आह—वस्तुत इति । वस्तुतस् तत्त्वतः कृष्णम् अत्र जगति जानतां विचारयतां तद्-विचारज्ञानाम् इत्य् अर्थः । यत् स्थावर-जङ्गम-रूपम् अखिलं यच् च भगवतो रूपं नारायणाद्य्-अभिधम् अखिलं तत् तत् सर्वम् इह श्री-कृष्णे एव तद्-अन्तर्भूतत्वेनैव स्फुरतीत्य् अर्थः । नान्यत् किञ्चन यत् तत्र नास्ति तन् नास्त्य् एवेत्य् अर्थः । कारणांशिनोर् विज्ञानेन कार्यांशयोर् विज्ञानात् तद्-व्यतिरेकेण तद्-व्यतिरेकाच् च महा-समुद्रस्य सागर-तरङ्ग-फेनादिवत् सूर्यस्यान्तरीण-मण्डलात्मकस्य बहिर्-मण्डल-किरण-परमाणु-गण-मरीचिकादिवद् इति ज्ञेयम् । तद् उक्तं द्वितीये—
सोऽयं तेऽभिहितस् तात भगवान् विश्व-भावनः । > समासेन हरेर् नान्यद् अन्यस्मात् सद् असच् च यत् ॥[भा।पु। २.७.५०] > इति ॥५६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : आदौ सर्वेषां साक्षाद् रूपाणां चेति वक्तुं तस्य भूमत्वम् आह—वस्तुत इति । वस्तुतः तत्त्वतः श्री-कृष्णम् अत्र जगति जानतां जनानां विचारयतां तद्-विचार-ज्ञानाम् इत्य् अर्थः । यत् स्थावर-जङ्गम-रूपम् अखिलं यच् च भगवतो रूपं नारायणाद्य्-अभिधम् अखिलं तत् तत् सर्वम् इह श्री-कृष्ण एव तद्-अन्तर्भूतत्वेनैव स्फुरतीत्य् अर्थः । नान्यत् किञ्चन यत् तत्र नास्ति तन् नास्त्य् एवेत्य् अर्थः । कारणांशिनोर् विज्ञानेन कार्यांशयोर् विज्ञानात् तद्-व्यतिरेके व्यतिरेकाच् च महा-समुद्रस्य सागर-तरङ्ग-फेनादिवत् सूर्यस्यान्तरीण-मण्डलात्मकस्य बहिर् मण्डल-किरण-पर-मरीचिकादिवद् इति ज्ञेयम् ॥५६॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, आपेक्षिक-प्रमास्पदानि ये चात्म-देह-पुत्राद्यास् तेऽपि विचारवतः स एवेत्य् आपेक्षिक-प्रेमास्पदत्वम् अपि तस्यैवेत्य् आह—वस्तुत इति । वस्तुतस् त्व् इत्य् अर्थः । कृष्णं जानतां पुंसां मते स्थावरं जङ्गमं च सर्वं तद्-रूपम् एव तस्यैव सर्व-कारणत्वात् कारणस्यैव कार्याकारत्वाद् इति भावः ॥५६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न केवलं जीवात्मनाम् एवात्मा कृष्णोऽपि तु जडानाम् अपीत्य् आह—वस्तुत इति । तत्त्वतोऽत्र जगति कृष्णं जानतां विचारयतां विदुषा स्थास्नु चरिष्णु चाखिलं भगवतस् तस्यैव रूपं भवति, तद् व्याप्यत्वात् तद्-अधीन-वृत्तिकत्वात्, तद्-रूपम् इति । प्राण-संवादाद् अवगतम् अत एवं श्राव्यते—स वासुदेवो न यतोऽन्यद् अस्ति [गो।ता।उ। १.३२] इति ॥५६॥
॥ १०.१४.५७ ॥
सर्वेषाम् अपि वस्तूनां39 भावार्थो भवति स्थितः ।
तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कत इति तद् आह—सर्वेषाम् इति । भावार्थः सद्-रूपार्थः परमार्थ इत्य् अर्थः । भवतीति भवत्-परिणामं प्राप्नुवत्-कारणं तस्मिन् भवति परिणामिनि स्थितः । वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यं [छा।उ। ६.१.४] इत्य्-आदि श्रुतेः । तस्यापि भवतः कारणस्यापि भगवान् कृष्णो भवत्-कारणम् । अतः किम् अतत् श्री-कृष्ण-व्यतिरिक्तं वस्तु रूप्यताम् ॥५७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वं कृष्ण एवेति । कुतः ? तत्-सर्वात्मत्वात् । यद् वा, भवत्य् अस्माद् इति भवत् तस्मिन्न् उपादाने मृत्तत्वादिष्व् इव घट-पटादीनां भावार्थः सत्यता-कारणं परम-कारणं पर-पर-कारणान्वेषणे कारणतायास् तत्रैव विश्रान्तत्वाद् इति जगद्-विवर्तस्य तस्यैवाधिष्ठानत्वाद् इति भावः । यतः कृष्ण एव परम-कारणम् अतो हेतोः । अयम् एवार्थः—श्री-नीलकण्ठेनापि भारत-सभा-पर्व-टीकायां दृढी-कृतः । तथा हि—बीजाङ्कुरत-रूपम् एषु ईश-सूत्र-विराट्स्व् अनन्त-बीज-गर्भ-फलोपमः श्री-कृष्णो नन्द-नन्दन एव महामायावी सुप्ति-प्रलय-कैवल्येषु कर्मोपरमे सति जगद् इन्द्रजालं स्व-मूर्त्या सह तिरोधायास्त-समस्त-विशेषं ब्रह्मात्मानं प्रापयति । कर्म-शेष-सत्त्वे पुनर् उद्भावयतीति । विचारम् एवाह—सर्वेषामिति । सर्वेषाम् अपि प्राकृताप्राकृत-वस्तनां भाव-रूपो यो\ऽर्थः सत्ता सम्भवति तत्-सत्ताश्रय-सत्तावत्य् उपादानादौ वस्तुनि स्थितं स्यात् । एवं यद्यत् उपादानाद्य्-आत्मकं वस्तु तस्य सर्वस्यापि प्राकृताप्राकृतस्य भगवान् तत्-सर्व-शक्ति-विशिष्टः श्री-कृष्ण एकस् तादृश इत्य् अर्थः । अद्यैव त्वद् ऋते\ऽस्य किं मम न ते मायात्वम् [भा।पु। १०.१४.१८] इत्य्-आदिकस्य श्री-ब्रह्मणैवानुभूतत्वाद् इति भावः । तस्माद् एतत् सर्व-कारणादित्वेन स्वयं भिन्नापि तस्माद् अन्यत् किं वस्त्व् इति तन्-निरूप्यताम् इत्य् अर्थः । तद् एवं तस्य सर्व-मूलात्मकत्वे सिद्धे तेषां बाल-वत्सानां च तत्-प्रादुर्भावत्वे स्थिते एव स्वभावतः तादृश-प्रेमास्पदत्वं पूर्वं-युक्त्या श्री-व्रज-वासिषु तच् चाधिकं युक्तम् एवेति ज्ञापितम् ।
अथ वा, ननु कथम् एषु श्री-यशोदा-नन्दन एव सर्वात्मोच्यते, यदि भगवद् पत्वेनोच्यते तहि सन्त्यन्यानि तद्-रूपाणि बहूनीत्य् आशङ्कयाह—वस्तुत इति । सहस्र-शीर्षादि-चरिष्णु तत्-तद्-अवतारादि तत्-तद्-अखिलं भगवद् रूपम् इह श्री-कृष्ण एवेत्य्-आदि पूर्ववत् । किञ्च, सर्वेषां भावानां पदार्थानां मध्ये भावः प्रेमा तद्-रूप एवार्थः पुरुषार्थः स्थितः पर्यवसितो भवति । तात्पर्य-पर्यवसान-विषयो भवतीत्य् अर्थः । तस्य प्रेम्णो\ऽपि । भगवान् श्री-कृष्ण इति पूर्ववत् । तं तिरोहित-सर्व-विलक्षण-गुण-रूपत्वे\ऽपि सर्वतः पूर्ण-परमानन्द-रूपं विना तस्याप्य् अलब्ध-प्रतिष्ठत्वात्, तस्मात् ततो\ऽन्यद् वस्तु निरूप्यतां यत्-प्रेम-योग्यं स्याद् इति । तद् एवम् अपि पूर्व-वत्स्वाभाविक-प्रेमास्पदत्वम् एव स्थापितम् इति ॥ ५७ ॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सर्वेषाम् इत्य्-आदि । सर्वेषां वस्तूनां भावार्थो भवति सत्तायां सत्ता-मात्रे ब्रह्मणि स्थितः । तस्यापि ब्रह्मणः श्री-कृष्ण एव भवत्-कारणम् ॥५७॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुतः ? परम-कारणत्वेन सर्वत्रैव विद्यमानत्वाद् इत्य् आह—सर्वेषाम् इति । तैर् व्याख्यातम् एव । अथवा, ननु, कथम् अखिलात्मनाम् आत्मानम् इत्य् उच्यते—तेषां तत्-स्वरूपत्वेन ततो भेदाभावात् । तत्राह—वस्तुत इति । अ-कार-प्रश्लेषेण कृष्णस्य तत्त्वम् अजानताम् एवाखिलं तत्-स्वरूपं भवति, जानतां तु भिन्नत्वेन परिस्फुरतीत्य् अर्थः । कुतः ? परम-कारणतया तस्य कार्यतो भिन्नत्वाद् इति । ताम् एव दर्शयति—सर्वेषाम् इति । अर्थः स एव । अथवैतादृश-ज्ञानतोऽपि तस्य श्री-मूर्तिषु भक्तिः परम-फलेत्य् आह—वस्तुत इति । अत्र स्थितं स्थास्नु श्री-मूर्त्य्-आदिकम् । चरिष्णु च तद्-भक्त-लक्षणम् । यद् वा, स्थास्नु अचल-श्री-मूर्ति-लक्षणम् । चरिष्णु—श्री-शालग्राम-शिलादिकम् अखिलं श्री-भगवतो रूपम् अधिष्ठानं कृष्णं साक्षात् कृष्ण एवायम् इति जानताम् इह जगति किंचिद् अतत् तद्-व्यतिरिक्तं किंचिद् अन्यत् मोक्षादिकं वस्तूपादेयं न भवति । किन्तु कृष्णो भगवद्-रूपम् एव वा वस्तु स्याद् इत्य् अर्थः । श्री-भगवतः परम-वस्तुत्वम् एवोपपादयति—सर्वेषाम् इति । अर्थः समान एव । यद् वा, वस्तूनां मध्ये भावः प्रेमा तद्-रूपोऽर्थो वस्तु स्थितो विचारेण सारतया स्थितो भवत्य् अन्येषां सर्वेषाम् एव तत्-साधनत्वात् तस्य भावार्थस्यापि भगवान् प्रकटाशेषैश्वर्यः कृष्णः स्थितो भवति । तेन प्रेम्णापि तस्यैव साध्यत्वात् । यद् वा, तस्य भगवान् परमेश्वरः श्री-नारायणस् तस्यापि कृष्णः श्री-नन्द-नन्दनो निजाशेष-भगवत्ता-प्रकटनेन ततोऽप्य् अस्य श्रैष्ठ्यात् । वस्तु परम-फल-रूपम् । अतत्—तद्-व्यतिरिक्तं किम् अस्ति ? तन् निरूप्यताम् । अपि तु नास्त्य् एवेत्य् अर्थः । अन्यत् समानम् ॥५७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विचारम् एवाह—सर्वेषाम् इति । सर्वेषाम् अपि प्राकृताप्राकृत-वस्तूनां भाव-रूपो योऽर्थः सत्ता स भवति तत्-सत्ताश्रय-सत्तावति उपादानादौ वस्तुनि स्थितः स्यात्। एवं यद् यत् उपादानाद्य्-आत्मकं वस्तु तस्य सर्वस्यापि भगवान् तत्-तत्-सर्व-शक्ति-विशिष्टः श्री-कृष्ण एकस् तादृश इत्य् अर्थः । अद्यैव त्वद्-ऋतेऽस्य किं मम न ते [भा।पु। १०.१४.१८] इत्य्-आदिकस्य श्री-ब्रह्मणैवानुभूतत्वाद् इति भावः । तस्माद् एतत्-सर्व-कारणादित्वेन स्वयं भिन्नाद् अपि तस्माद् अन्यत् किं वस्त्व् इति तन् निरूप्यताम् इत्य् अर्थः । तद् एव तस्य सर्व-मूलाधारत्वे सिद्धे तेषां बाल-वत्सानां च तत्-प्रादुर्भावत्वे स्थिते स्वभावत एव तादृश-प्रेमास्पदत्वं पूर्व-युक्त्या श्री-व्रज-वासिषु तच् चाधिकं युक्तम् एवेति ज्ञापितम् ।
अथवा ननु, कथम् एषु श्री-यशोदानन्दन एव स्वरात्मेत्य् उच्यते यदि भगवद्-रूपत्वेनोच्यते तर्हि सन्त्य् अन्यानि बहूनि तद्-रूपाणीत्य् आशङ्क्याह—वस्तुत इति । स्थास्नु
सहस्र-शीर्षादि चरिष्णु तत्-तद्-अवतारादि तत् अतद् अखिलं बहगवद्-रूपम् इह श्री-कृष्ण एवेत्य् आदि पूर्ववत् किं च, सर्वेषाम् इति सर्वेषाम् एव भावानां पदार्थानां मध्ये भावः प्रेमा तद्-रूप एवार्थः पुरुषार्थः स्थितः पर्यवसितो भवति तात्पर्य-पर्यवसान-विषयो भवतीत्य् अर्थः । तस्य प्रेम्णोऽपि भगवान् कृष्ण इति पूर्ववत् तं तिरोहित-सर्व-विलक्षण-गुण-रूपत्वेऽपि सर्वतः पूर्ण-परमानन्द-रूपं विना तस्याप्य् अलब्धत्व-तिष्ठत्वात् तस्मात् ततोऽन्यद् वस्तु निरूप्यतां यत् प्रेम-योग्यं स्याद् इति । तद् एवम् अपि पूर्ववत् स्वाभाविक-प्रेमास्पदत्वम् एव स्थापितम् इति ॥५७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : विचारम् एवाह—सर्वेषाम् इति । सर्वेषाम् अपि प्राकृताप्राकृत-वस्तूनां भाव-रूपो योऽर्थः सत्ता सम्भवति तत्-सत्ताश्रय-सत्तावति उपादानादौ वस्तुनि स्थितः स्यात्। एवं यद् यत् उपादानाद्य्-आत्मकं वस्तु तस्य सर्वस्यापि प्राकृताप्राकृतस्य भगवान् तत्-तत्-सर्व-शक्ति-विशिष्टः श्री-कृष्ण एकस् तादृश इत्य् अर्ह्तः । तद् एव तस्य सर्व-मूलान्ते सिद्धिस् तेषां बाल-वत्सानां च तत्-प्रादुर्भावत्वे स्थिते स्वभावत एव तादृश-प्रेमास्पदस्य स्वाभाविक-प्रेमात्मसु श्री-व्रज-वासिषु अधिकं स्फुरन्तीति युक्तम् एवेति भावः । तद् एव प्रेम-स्वभावात् श्री-कृष्णाद् अघासुरादिवद् युक्तानाम् एव मोक्ष-मात्रं पुरुषार्थः । अन्येषां तु तन्-माधुर्य-ज्ञानेन मोचकता-मात्रं गुणम् उपादायापि तत्-पदम् आश्रयतां श्री-ब्रह्मादिवत् परम-प्रेम्णा तद्-उचित-परम-तत्-पद-प्राप्तिर् एव पुरुषार्थः मोक्षस् तु भावी भवन् भूतो वेति तद् आश्रयामोदेन नानुसन्धातुं शक्यः स्यात् । तदानीन्तन-मायावृत-गोप-बालकवद् इति ॥५७॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ ब्रह्म-स्तवस्य निर्गलितार्थम् आह—सर्वेषाम् इत्य्-आदि । सर्वेषाम् एव भूतानां भावार्थः सत्तार्थः सत्ता-रूप-पदार्थो भवति ब्रह्मणि स्थितः । तस्यापि भवतो ब्रह्मणो भगवान् कृष्णोऽवधित्वेन स्थित इत्य् अर्थः । यथोक्तम्—भेदस् तु कथितो वेदैर् मणि-तत्-तेजसोर् इव इति । अतोऽतत् कृष्णेतरत् किं वस्तु रूप्यतां निरूप्यताम् । कृष्ण एव ब्रह्म, न तद्-अतिरिक्तं तद् इति वाक्यार्थः । अतः ब्रूमः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अपि उत [भा।पु। १०.१३.३] इति यत् प्रतिज्ञातम् । तद् एतद् अतिरहस्यम् अध्याय-द्वयेन कथितम् इति ॥५७.६१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुत इति तद् आह—सर्वेषाम् अपि स्थावर-जङ्गमानां भावः । भवन्त्य् अस्माद् इति भावः । कारणं प्रधानं तद्-रूपोऽर्थः स्थितः स्थिरो भवति तस्यापि भावस्य भावः कारणं च कृष्ण एव अतः किम् अतत् श्री-कृष्ण-व्यतिरिकं वस्तु रूप्यताम् । यद् वा, वस्तूनां बुद्धीन्द्रियादीनां भावार्थः व्यङ्ग्योऽर्थः । आत्मा स्थिरो भवति तस्याप्य् अंशत्वात् तद्-व्यङ्ग्यो अंशी श्री-कृष्णः । अतः किम् अतत् तद्-भिन्नं वस्तु किं किम्-अर्थं रूप्यतां स एव केवल सेव्य इत्य् अर्थः ॥५७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सर्वेषां देहेन्द्रियादीनां वस्तूनां भावार्थो व्यङ्ग्योऽर्थस् तत्-प्रवृत्ति-बोध्यो जीवात्मा स्थिरो भवति कौटस्थ्यात् तस्याप्य् अंशत्वात् तद्-व्यङ्ग्योऽंशी कृष्ण एव निरूप्यताम् । अतः तद्-भिन्नं वस्तु निरूप्यतां नेत्य् अर्थः ॥५७॥
॥ १०.१४.५८ ॥
समाश्रिता ये पद-पल्लव-प्लवं
महत्-पदं पुण्य-यशो मुरारेः ।
भवाम्बुधिर् वत्स-पदं परं पदं
पदं पदं यद् विपदां न तेषाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माच् छ्री-कृष्णस्यैव परमार्थत्वात् तद्-एक-शरणानाम् अयत्न-सिद्धो मोक्ष इति प्रकरणार्थम् उपसंहरति समाश्रिता इति । पुण्यं यशो यस्य स पुण्य-यशाः स चासौ मुरारिश् च तस्य पद-पल्लव एव प्लवस् तं ये सम्यग्-आश्रिताः कथम्-भूतं ? महत्-पदं महतां पदम् आश्रयम् । यद् वा, महच् च तत्-पदं चेति तथा । तेषां भवाम्बुधिर् वत्स-पद-मात्रं भवति । किं च, परं पदं श्री-वैकुण्ठाख्यं पदं स्थानं भवति । विपदां यत्-पदं विषयः, तत् पुनः कदाचिद् अपि तेषां न भवति । न ततः पुनर् आवर्तत इत्य् अर्थः ॥५८.५९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः श्री-कृष्ण एव सर्व-स्वरूपस् तस्मात् । प्लवः तरण-साधनम् । महताम् आश्रयत्वं तु स्वर्गादेर् अप्य् अस्ति तन्-निवृत्तये समासान्तरम् आह—यद् वेति । वत्स-पदम् अयत्नतार्थम् इत्य् अर्थः । न हि केवलम् एतद् एव वैकुण्ठानन्दानुभवाद् अपि तेषां भवति। ततो वैकुण्ठात् । इत्य् अर्थ इति—जन्म-मरण-शून्याः सन्तस् तत्रैव तिष्ठनीति भावः ॥५८॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् तद् एक-शरणानाम् अयत्नतो महा-दुःखावली-विनाशः श्री-वैकुण्ठ-लोक-लाभश् च सुखं सम्पद्यत इत्य् आह—समाश्रिता इति । पदम् एव पल्लवः सौकुमार्यारुण्यादिना । यद् वा, पल्लव-शब्देन पदस्य कल्प-द्रुमत्वं ध्वन्यते—पदस्य पल्लवोऽङ्गुलिर् एकेत्य् अर्थः, स एव प्लवः पोतस् तं सम्यक् तद् एक-निष्ठत्वादिन शरणागतत्वेनाप्य् आश्रिताः । महतां मुक्तानाम् अपि किं वा, भगवद्-भक्तानां श्री-नारदादीनां पदम् आश्रयं पुण्यं परम-मङ्गलं परमोत्तमं वा यशोऽधासुर-मोचन-लक्षणं यस्य तादृशो यो मुरारिर् भगवान् श्री-कृष्ण इत्य् अर्थस् तस्य । यद् व, नरकासुरसेनानी-मुख्य-मुरदैत्य-हन्ता मुरारिः श्री-कृष्ण एव प्रसिद्धः । यद् वा, पुण्यं यशो भवति भक्तानां यस्मात् तद् इति महत्-पद विशेषणम् । अन्यत् तैर् व्याख्यातम् । यद् वा, यद्-यस्माद्-विपदां पदं विघ्न-वर्गस् तेषां कदापि न भवति ॥५८॥
————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव प्रेम-स्वभाद् अपि श्री-कृष्णाद् अघासुरादिवद्-अघ-युक्तानाम् एव मोक्ष-मात्रं परम-फलं तस्माद् एवान्य् एषां तु तत् तन् माधुर्याज्ञानेन मोचकता-मात्रं गुणम् उपादायापि तत् पदम् आश्रयतां श्री-ब्रह्मादिवत् परम-प्रेम्णा तद् उचित-परम-तत् पद-प्राप्तिर् एव फलं मोक्षस् तु भावी भवन् भूतो वेति तद् आश्रयामोदेन नानुसन्धातुं शक्त्यः स्याद् इति सर्व-प्रकरणार्थम् उहसंहरति, समाश्रिता इति । पुण्यं तद् धेतुश् चारु वा यशो यस्य तादृशतया मद् विध-वर्ण्यमानगुणा य इत्य् अर्थः । यश् च नरकासुर-सेनापते मुरस्य हन्ता अघ-नरक-सदृशान् एक-मोक्षदातेत्य् अर्थः । तस्य श्री-कृष्णस्य पदम् एव पल्लवः सौकुमार्यादि-गुणैः स्वतः परम-सुखद इत्य् अर्थः । स एव प्लवः तादृश-सुखदत्वाज्ञानेन तत् तत् रणोपाय-मात्रतया जात इत्य् अर्थः । अत्र पल्लव-पदेन तेषां क्रूरत्वादिकं पदस्य महौषधि-पल्लववन् महा-प्रभावत्वं च सूचितं तादृशं तं तथा ये समाश्रितास् तेषाम् अपि वस्तु-स्वभावतः सुखोदयेन भवाम्बुधिर् वत्स-पदं भवतिर् तत्तव्यस्तीर्णो वेति अपि न ज्ञायेत तस्य न तत् फलम् इत्य् अर्थः । किन्तु परम्पदं तन् नित्य-धामैव निज-प्रेमानुसारेण पदं स्थानं भवति । विपदां यत् पदं जगत् तत् तु न यतो महतां तन् नित्य-पार्षदानां पदम् इति ॥५८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्व-प्रकारणार्थम् उपसंहरति—समाश्रिता इति ॥५८॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं साधितं श्री-कृष्णस्यैव तच् चरणाश्रयणैक-हेतुकान् मायातरणाद् एवानुभव-गोचरी भवतीति तच् चरणाश्रयिणाम् एव सर्वोत्कर्षम् अभिव्यञ्जयति—समाश्रिता इति । पुण्यं चारु मनोहरं यशो यस्य तस्य मुरारेः पदपल्लव एव प्लवस् तं ये सम्यक् कैवल्येनाश्रिताः । कीदृशं महतां पदम् आश्रयं तेषां भवाम्बुधिर् वत्स-पदं तीर्णतर्त्तव्य-वस्तुमानानास्पदं भवति । परं पदं निय-धाम श्री-वृन्दावन-वैकुण्ठादि तेषां पदमास्पदं विपदां यत् पदं दुर्विषय तत् खलु तेषां कदाचिद् अपि न भवतीति तेषां मतिस् ततोऽन्यत्र नासज्जते इत्य् अर्थः ॥५८.५९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सर्व-वृत्तिप्रदस्य सर्वस्वामिनः श्री-कृष्णस्य चरणाश्रयाद् एव मुक्तिर् इत्य् उपसंहरति समिति । पुण्यं यशो यस्य चासौ मुरारिश् च कृष्णस् तस्य पद-पल्लव एव प्लवो नौस् तं ये सम्यग् एकान्ति-भावेनाश्रिताः । कीदृशं ? महतां पदम् आश्रयं तेषां भवाम्बुधिर् दुष्पारोऽपि वत्स-पदं भवति, पदं पदं पर-व्योम-पदं स्थानं भवति यद् विपदां पदम् आश्रयस् तत्-तेषां न भवति न च पुनर् आवर्तत इति श्रुतेः ॥५८.५९॥
॥ १०.१४.५९ ॥
एतत् ते सर्वम् आख्यातं यत् पृष्टोऽहम् इह त्वया ।
यत् कौमारे हरि-कृतं पौगण्डे परिकीर्तितम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) :**न व्याख्यातम्।
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत् त्वयाहं पृष्टोऽस्मि एतत् । इह सन्देहे ॥५९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद् इत्य् एव प्रपञ्चयति—यद् इति । यद् व, यत् परिकीर्तितम् । इहास्मिन्न् अर्थे यत् पृष्टम् इति ॥५९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः) : यद् इत्य् एव प्रपञ्चयति—यद् इति ॥५९॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१४.६० ॥
एतत् सुहृद्भिश् चरितं मुरारेर्
अघार्दनं शाद्वल-जेमनं च ।
व्यक्तेतरद् रूपम् अजोर्वभिष्टवं
शृण्वन् गृणन्न् एति नरोऽखिलार्थान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुहृद्भिश् चरितं मुष्णन्तोऽन्योन्य-शिक्यादीन् [भा।पु। १०.१२.५] इत्य्-आदिनोक्तम् । अघार्दनं च शाद्वले जेमनं भोजनं च व्यक्तेतरं व्यक्ताज् जड-प्रपञ्चादितरच्-छुद्ध-सत्त्वात्मकं वत्स-तत्-पाल-रूपम् । यद् वा व्यक्तेतरच्-चिद्-विलासस् तद् एव रूप्यत इति रूपम् । अजस्य उरुर् महान् अभिष्टवः स्तवस् तं ब्रह्म-कृतां स्तुतिम् एतच् छृण्वन् गृणन् गायन् नरः सर्व-पुरुषार्थान् प्राप्नोति ॥६०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शाद्वल-जेमनम् नव-तृणानां वत्स-रूपेण भोजनम् । शाद्बलो नव-घासः स्यात् इति कोशात् । यद् वा, शाद्वलाशनेन सहितं जेमनं गोपीय-भोजनं शद्वलजेमनन् । मध्यम-पद-लोपी समासः । अत एव स्वामि-चरणैः शआद्वल-जेमनं भोल्जनं चेति व्याख्यातम् । शुद्ध-सत्त्वात्मक-रूपस्यापि व्यक्तान्तःपातित्वाद् अर्थान्तरम् आह—यद् वेति । चितो विलासस् तद् रूपेण भवनम् । सर्व-पुरुषार्थान् धर्मार्थकाम-मोक्षान् । ब्रह्मणस् तत्-प्रार्थितं सेत्स्यति न वेति सन्दिहानं प्रति कैमुत्येनाह—एतद् इति । व्यक्तेतरत् व्यक्ताद् इतरत् । प्रपञ्चातीतम् इत्य् अर्थः । सर्वत्राप्य् अन्वितम् इदम् अघार्दनादीनां सर्वेषां श्री-भगवत् स्वरूप-शक्ति-विलासत्वात् । अकारन्तत्वम् आर्षम् । शृण्वन् गृणन् । तत्-तत्-प्रत्ति-मात्रेणैवेत्य् अर्थः । तदैव सूक्ष्मतया फलोत्पत्तेश् च । नर इति चाधिकारान् अपेक्षत्वम् उक्तम् ॥६०॥ अत्र विश्वनाथः
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं वक्तव्यम्, समाश्रितानां तत् तत् स्याद् इति । तस्यैतल् लीला—श्रवणादिना सर्वार्थ-सिद्धिः स्याद् इत्य् आह—एतद् इति । तैर् व्याख्यातम् एव । यद् व, सुहृद्भिः सह च्अरितं कृतम् इति सर्वेषाम् एव विशेषणम् अर्घाद् अर्नादेस् तैः सहितेनैवाचरणात् । तत्र रूपे साहित्यं तेषाम् एव रूपाचरणात्, ब्रह्म-स्तुतौ40 च तेषाम् अपि महात्म्य-पूर्णत्वात् । शिक्यमोषणादिकं चाघार्दन-लीलान्तर्गतम् एवेति पृथङ्-नोक्तम् । व्यक्तेतरं प्रपञ्चातीतम् इदम् अपि सर्वेषाम् एव विशेषणम्—अघार्दनादीनां सर्वेषाम् अपि तेषाम् अत्यन्तालौकिकत्वात् । अ-तकारान्तत्वम् आर्षम्, शृण्वन्न् इति गृणन्न् इति च वर्तमानया तत्र तत्र प्रवृत्ति-मात्रतैवाभिप्रेता । नर इति चाधिकारान् अपेक्षा ॥६०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-ब्रह्मणस् तत् प्रार्थितं सेत्स्यति । न वेति सद् इहानं प्रति कैमुत्येनाह, एतद् इति । व्यक्तेतरं व्यक्तादितरत् प्रपञ्चातीतम् इत्य् अर्थः । सर्वत्राप्य् अन्वितम् इदम् अघार्दनादीनां सर्वेषां श्री-भगवत् स्वरूप-शक्ति-विलासत्वात् । अकारान्तत्वम् आर्षं शृण्वन् गृणन् तत् तत् प्रवृत्ति-पात्रेणैवेत्य् अर्थः तदैव सूक्ष्मतया फलोत्पत्तेश् च नर इति चाधिकारान् अपेक्षत्वम् उक्तम् ॥६०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-ब्रह्मणस् तत् प्रार्थितं सेत्स्यति नवेति सन्दिहानं प्रति कैमुत्येनाह एतद् इति ॥६०॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुहृद्भिश् चरितं मुष्णन्तोऽन्योन्य-शिक्यादीन् [भा।पु। १०.१२.५] इत्य्-आदिनोक्तं व्यक्तात् प्रपञ्चाद् इतरत अतकारान्तत्वम् आर्षम् अजस्य उरुर् महान् अभिसर्वतो भावेन स्तवस् तम् ॥६०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सुहृद्भिश् चरितं मुष्णन्तोऽन्योन्य-शिक्यादीन् [भा।पु। १०.१२.५] इत्य्-आदिभिर् उक्तम् । शाद्वले जेमनं भोजनं व्यक्तेर् अप्रपञ्चाद् अन्यत्-रूपं चिद्-घन-वत्स-तत्-पालादि अतान्तम् आर्षम् अजस्य विरञ्चेर् उरुर् महान् अभि-सर्वतोभावेन स्तवस्तम् ॥६०॥
॥ १०.१४.६१ ॥
एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे ।
निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
इति श्री-परमानन्द-नृसिंह-पद-षट्पदः ।
व्याकरोच् छ्रीधर-स्वामी यथा-मति विधि-स्तुतिम् ॥६१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् पद्यस्य पुनर् उक्तिस् त्वस्या लीलाया बाल्य-लीलान्तर्गतत्वबोधनायैवेत्य् अलम् । कौमार-लीलाम् उपसंहरति—एवम् एतद् उपलक्षणकैर् इत्य् अर्थः । जहतुः संवृतवन्तौ । व्रज इति । कदाचिद् अप्य् अन्यत्र कौमार-लीला-सम्बन्धो नासीति व्रजस्योत्कर्षं सूचयत् । निलयनं नाम कश्चिन् निलिय स्थित्ऽन्ये परिमृग दृश्यत इत्य् एवम् । मर्कटोत्प्लवनमादि येषां तैः । सेतु-बन्धैर् इति । श्री-रघुनाथ-लोकानुकरणं खल्व् इदम् । बहुत्वं पौनः-पुन्यात् । एवं चाल्यमान-यन्त्र-मन्त्र-वारणादोति युद्धम् उद्राद्य् अनुकरणम् अपि गम्यम् । आदिना क्षीराधिमन्थनादि-लीलावतारान्तरकृतापि ज्ञेया ॥६१॥
श्री-परमान्द-नृसिंहयोः पदेषु पङ्कज-स्थानेषु षट्-पदो भ्रमर-स्थानीयः । इत्य् एवम् । व्याकरोत् विवृतवान् इति ।*।
यत् तु कैश्चैद् उक्तं ब्रह्मणो मोहासम्भवाभावात् । वस्तुतस्तु—भगवद् इच्छाधीन-प्रवृत्तेः द्रष्टुं मञ्जुमहित्वम् अन्यद् अपि ते इत्य् उक्तेश् च मोहाभाव एव । यथा-श्रुत-मोह-कल्पने तु सर्वज्ञस्यापि भगवतः तद् अवज्ञा अन्वेषणे मोहापत्तेः तेषाम् एवानयनाभावे सर्व-शक्तेर् अशक्तत्वापत्तेश् च । सिद्धान्त-दर्पणेऽप्य् एतच् छङ्कित्वा समाहितम् । तथाहि—
किं त्व् अध्यायत्रयं त्व् अस्मिन्न् अघासुरवधादिकम् । > ब्रह्मणो मोहकथद् विवर्तस्य च वर्णनात् ॥१॥
सङ्गतेः परिदृष्टत्वाद् वाल्य-पौगण्ड-लीलयोः । सूचनेऽनुक्तितश् चापि प्रक्षिप्तम् इव भावि मे ॥२॥
व्याख्या—अघ-विमोक्षं सखिभिः सह सम्पृत्तां भुक्तिं च वीक्ष्य तद् ईश्वरत्वे सन्दिहानो ब्रह्मा मोहं प्रापेति तत्र वर्णितम् । स मोहस्तु न सम्भवति भवान् कल्प-विकल्पेषु न विमुह्यति कर्हिचित् इति तं प्रति भवद् वचनात्, न भारती मेङ्ग मृषोपलभ्यते न वै क्वचिन् मे मनसो मृषा गतिः [भा।पु। २.६.३४] इत्य् आद्य् उक्तेश् च । आत्मानम् एवात्मतया विजानताम् इत्य् आदु रज्जु-सर्प-न्यायेन प्रपञ्चस्य ब्रह्म-विवर्तित्वं वर्णितम् । तत्र तद् वदश् च वै वैष्णव-सिद्धान्त्-विरोधी । एवं विहारैः [भा।पु। १०.११.५९] इत्य् आरभ्य मर्कटोत्लवनादिभिः [भा।पु। १०.१४.६१] इत्य् अन्यैकदशाध्याय्न्तिम-पद्येन कौमारीं लीलां समाप्य पञ्चदशाध्यायादौ ततश् च पौगण्ड-वयः-श्रितौ [भा।पु। १०.१५.१] इत्य्-आदिना बाल्य-पौगण्ड-लीलयोः सङ्गतेर् दृष्टत्वाद्-द्वादश-स्क्न्धोक्तानुक्रमणिकायाम् अनुक्तेश् च ॥१.२॥
मैवं वादीर् महा-बुद्दे ब्रह्म-मोहहस् तृतीयके । एकादशे विवत्तोकैर् वैराग्य प्रतिपादादिका ॥३॥
अर्थः—भवान् कल्प इति यो वरो भगवता ब्रह्मणे दत्तः स किल कल्पेषु ये विकल्पाः सर्गास् तेषु वैषम्यादि-दोषेण भावान् न विमुह्यतीत्य् अर्थकः, न तु मम् मायया न विमुह्यतीत्य् अर्थकश् च । तथा बकाश्रियोस् तद् अभ्य्-अधिकयोर् अपि मोह-दर्शनात् । अन्यथा नैते सुरेशा ऋषयो न चैते [कृ।स्। ११७ ] इत्य् आद्य् उक्तेः, सा नोपेपाय शङ्किता इत्य् आद्यक्तेश् च तृतीये ईश्वरत्वाभिमान-परिहार-फलकं सरस्वत्य् अनुगमनेन तन् मोह-वर्णनं छाया प्रत्याह्वयामास [भा।पु। ११.२८.५] इत्य् आदशे विवर्त-वर्णनं च प्रक्षिप्तं स्यात् ।
ननु, भवतां विवर्त-वर्णने का सङ्गतिस् तत्राह वैराग्येति । अविषयेभ्रमासम्भवाद् एवेति भावः ॥३॥
नन्व्, एवम् अवस्था-लिलयोः सगतेर् आन्तरालिकाध्यायत्रयं प्रक्षिप्तं स्याद् इति चेत् तत्राह—
यत् समाप्यापि मौमारीं लीलां तां स्मृतिगां मुनिः । > अपूर्वां प्रार्थितां प्राख्यत् तेन किञ्चिन् न दूषणम् ॥
अर्थः—तां कौमारीम् एवाघासुर-वधादिकां लीलाम् अपूर्वां पूर्वम् अनुक्ताम् आश्चर्यां वेत्य् अर्थः । प्रार्थितां परीक्षिता वाञ्छिताम् । स्मृतिगां स्मृति-पथम् आरूढाम् । एतद् उक्तं भवति—न चाघासुर-वधाद्या लीलात्रासङ्गता, कौमार-लीलान्तरत्वात् पौगण्ड-लीलाम् उक्त्वानुक्तेश् च । न च पुनर् उक्तत्वाद् असङ्गता प्राग् अनुक्तेः । न च समाप्यापि तद् उक्तिः शङ्ख्या—हेतुः श्रोतृ-प्रेष्ठाया विचित्रायाः स्मृति-पथम् आरूढायास् तस्याः कथने समाप्योक्ति-दोष-व्युदासात् । श्रोतृ-प्रेष्ठत्वं च तथान्य् अन्यद् अपि कृष्णस्य तोकाचरितम् अद्भुतम् इत्य्-आदि-तद् उक्तेः । किं च, समाप्त-पुनर् आत्तत्वदोषः पुराणादौ नादर्तव्यस् तस्य काव्यालङ्कार-विषयत्वात् ॥४॥
ननु, द्वादश-स्कन्धे भागवतार्थानुक्रमणिकायाम् एतस्या असूचनाद् इदम् अध्यायत्रयं प्रक्षिप्तं स्यात् तत्राह—
गोपी-गीतादिषु स्पष्टम् अघस्य हृतीर् ईक्ष्यते । > लीला-स्थान-प्रसिद्धेश् चान्यत्रापी पमतोन्यथा ॥५॥
आचारादी-कथानां च तत् ते प्रक्षिप्तताभवेत् । तस्माद् अत्र स्युरध्यायाः पञ्चत्रिंशच्छतत्रयम् ॥६॥
गोपी-गीते तावत् विष-जलाप्ययाद्-व्याल-राक्षसात् [भा।पु १०.३१] इति व्याल-राक्षसोऽघासुर एव निर्दिष्टः । यन् न व्रजन्त्य् अघभिदो रचनानुवादाञ्च्छृण्वन्ति येन्य-विषयाः कुकथा मतिघ्नी [भा।पु। ३.१५.२३] इति तृतीयेऽघभिद् इति तद् वध-चरित-निमित्तकं नामोक्तम् अभेदनं मूर्तस्यैव न त्वम् ऊर्तस्यामूर्त-पापाभिप्रायत्वे त्व् अघरेर् इत्य् एवं ब्रूयात् । अघः स्याद् देत्यपापयोः इति ध्रणिधरेणापि-दैत्य-वाचकोघ-शब्दो वर्णितः । न चासुरम् उक्तेः सिधान्त-विरुद्धत्वाद् एतत् प्रतिपादकाध्यायत्रअम् इदं प्रक्षिप्तम् एव न तद् आर्षम् इति वाच्यं, कृष्णम् आरितेषु सर्वेषु दृष्टत्वात् ।
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि । > माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥[गीता। १६.२०]
इत्य्-आदिष्व् अपि मां श्री-कृष्ण-लक्षणम् अप्राप्यैव न तु प्राप्य् एत्य् आद्य् अङ्गीकारात् । तथा—
ये च प्रलम्ब-खर-दर्दुर-केश्य्-अरिष्ट- > मल्लेभ-कंस-यवनाः कुज-पौण्ड्रकाद्याः । > अन्ये च शाल्व-कपि-बल्वल-दन्तवक्त्र- > सप्तोक्ष-शम्बर-विदूरथरुक्मि-मुख्याः ॥ > ये वा मृधे समिति-शालिन आत्त-चपाः > काम्बोज-मत्स्य-कुरु-केकय-सृञ्जयाद्याः । > यास्यत्य् अदर्शनम् अलं बल-भीम-पार्थ- > व्याजाह्ययेन ह्रिणा निलयं तदीयं ॥ इति ।
न च पुराणान्तराप्रसिद्धत्वेन सा लीला न सम्भाव्या पाद्म-ब्रह्माण्डयोः स्पष्टत्वात् । न च भक्ति-गति-साम्येन तेषां सा प्राप्ति-रसम् अञ्जसा शुद्ध-भक्तैस् तादृश-प्राप्तेर् अनुपादेयत्वात् नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादम् [भा।पु। ३.१५.४८] इत्य्-आदि उक्तेः । अघासुरु-विघाती च पूतना-मोक्ष-दायकः इति श्री-शङ्करेणापि सम्मोहने गोपाल-सहस्र-नामसु पठितम् इति ॥६१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं श्री-भगवतः कौमार-लीलाम् उक्त्वान्याम् अपि द्वयोर् एव भ्रात्रोर्वक्ष्यमाण-पौगण्ढ-लीलानुसारेणैकत्रैव साङ्क्ष्प्य ताम् उद्दिशन् समापयति—एवम् इति, ईदृशैर् जहतुः संवृतवन्तौ । व्रज इति कदाचिद् अप्य् अन्यत्र कौमार-लीला—सम्बन्धो नास्तीति सर्वतो व्रजस्योत्कर्षं सूचयति । निलायनं नाम कश्चित् कुत्रापि नीलय स्थितोऽन्येन परिमृग्य दृश्यत इत्य् एवम् । यद् वा, चक्रुर् निलायन-क्रीडां चौर-पालापदेशतः [भा।पु १०.३७.२६] इत्य् अग्रे वक्ष्यमाण-प्रकारकम्, सेतु-बन्धश् च कुतोऽपि निःसरतो जलस्य मृत्तिकादिना निरोधनम् । यद् वा, कदशिज् जल-बिहारादौ श्री-रघुनाथ-कृत-सेतु-बन्धं दिदृक्षमाणानां वयस्यानां प्रीत्यै वानरायितैस् तैर् एव सरोवर-मध्ये सेतु-निर्माणम्, तथा श्री-मधुपुर्यां श्रीमज्-जन्म-स्थान-पश्चिम-भागे, वहुत्वम्—तत् तद्-वाहुल्यात् पौनः-पुन्याच् च, आदि-शब्देन कन्दुकोत्क्षेपणादीनि ॥६१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कौमार-लीलाम् उपसंहरति—एवम् इति । एवम् एतद् उपलक्षणकैर् इत्य् अर्थः । जहतुः संवृतवन्तौ व्रज इति कदाचिद् अप्य् अन्यत्र कौमार-लीला-सम्बन्धो नास्तीति सर्वतो व्रजस्योत्कर्षं सूचयति, निलायनं नाम कश्चित् कुत्रापि निलीय स्थितो अन्येन परिमृग्य दृश्यत इत्य् एवं मर्कटोत्प्लवनम् आदिः प्रथमं येषां तैः सेतु-बन्धैर् इति श्री-रघुनाथ-लीलानुकरणं खल्व् इदम्, बहुत्वं पौनः-पुण्यात् एवं चाल्य-मानयन्त्र-मन्त्र-वारणादिभिर् युद्धाद्य् अनुकरणम् अपि गम्यम् ॥६१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : मर्कटोत्प्लवनम् आदिर् येषां तैर् बहुत्वं पौनः-पुन्यात् ॥६१॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मन् ! कालान्तर-कृतं तत् कालीनम् कथं भवेत् इति राज-प्रश्नोत्तरं समाप्य पुनस् तां कथाम् एवाम् अवलम्बमान आह—एवम् इति । जहतुः संवृतवन्तौ निलायनैः निलीय-स्थितिं तद् अन्वेषणाद्यैः सेतु-बन्ध-लङ्का-प्रयाण-क्षीराब्धिम् अथनादिभिर् अवतारान्तर-चरितैः ॥६१॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्दशोऽयं दशने सङ्गतः सङ्गतः सताम् ॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : इत्थम् अवशिष्टां कुमार-लीलाम् अभिधाय तत् समापकं पद्यं पूर्वोक्तम् एवाह—एवम् इति ॥६१॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां दशम-स्कन्धे ब्रह्म-स्तुतिर् > नाम चतुर्दशोऽध्यायः ।
॥१४॥
समाप्तेयं कौतुक-लीला
(१०.१५)
-
भगवत्-सन्दर्भ रेअद्स् महिमागुणस्य (इ।ए।, महिमा अगुनस्य) ↩︎
-
स्तोत्र-रत्नम् १६।
उपर्य् उपर्य् अब्ज-भुवोऽपि पूरुषान्
प्रकल्प्य ते ये शतम् इत्य् अनुक्रमात् ।
गिरस् त्वद्-एकैक-गुणावधीप्सया
↩︎सदा स्थिता नोद्यमतोऽतिशेरते ॥१६॥
-
^अ-५ब्^वृत्ति-विषयत्वम् एवात्मनो, न तु फल-विषयत्वम् । अतो नायं दोषो इति भावः । वृत्तिर् हि वर्तमान-मात्रं फलं तु तत्-तद्-भेदाकारतयैव । ननु कथम् आत्माकारान्तः-करणे भगवत्-स्वरूप-भूतस्य ब्रह्मणः स्फूर्तिः । तत्राह—अनन्य-बोध्यात्मतया चिद्-आकारता-साम्येन स्व-शुद्धात्मैक्य-भावना-बोध्य-स्वरूपतया । तथा चिन्तने स्वात्मनि स्वयम् एव तत् प्रकाशत इत्य् अर्थः । (जदव्पुर् एदितिओन्) ↩︎
-
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम्
सुहृदं प्रियम् आत्मानं साम्यासङ्गादयोऽगुणाः ॥ इति श्लोकस्य स्वरूपम् आकरे दृश्यते । ↩︎
-
५.१९.२० द्रष्टव्यः । ↩︎
-
विवेचिते ↩︎
-
स्फुटम् एव ↩︎
-
मद् भाग्यम् ↩︎
-
वा-शब्दाभ्याम् ↩︎
-
पाय्व्-धिष्ठाता (?) ↩︎
-
भाग्य-महिमा ↩︎
-
कदाचित् केनापि ↩︎
-
तद् अस्तु मे नाथ स भूरि-भागो
भवे\ऽत्र वान्यत्र तु वा तिरश्चाम्
येनाहम् एको\ऽपि भवज्-जनानां
भूत्वा निषेवे तव पाद-पल्लवम् ↩︎
-
मुक्ति-दाता ↩︎
-
श्रुति-दुर्लभे त्वत्-पाद-रस्यपि ↩︎
-
पादाब्जक ↩︎
-
चिन्तनादिना न विषयो ↩︎
-
सर्वार्थशयस्य ↩︎
-
प्रस्तुतं ↩︎
-
परमोद्घोषणया इति क्वचिद् दृश्यते। ↩︎
-
अभिमान-योगेन ↩︎
-
\ऽतिदुर्धर्षो ↩︎
-
कालम् अभिव्याप ↩︎
-
अर्को ↩︎
-
तम् अप्य् अत्रत्यम् अभिव्याप्य ↩︎
-
परम ↩︎
-
विश्व-सृष्ट्य-सिद्धिः ↩︎
-
सर्व-शक्तित्वात् ↩︎
-
माया-शक्त्या ↩︎
-
किन्त्वादिकवये सा ↩︎
-
तत्-तद् ↩︎
-
भगवत्य् एव ↩︎
-
श्री-बल्लवेन्द्र ↩︎
-
भुक्त्वेत्य् अर्थः ↩︎
-
व्रजादूरतत्वेनाति ↩︎
-
“यो भूत-” इति केषाञ्चिद् अन्य-सम्प्रदायिनां सम्मत-पाठः। ↩︎
-
“स्वापत्येष्व् अपि” इति सनातन-सम्मत-पाठः । ↩︎
-
नौमीड्य तेऽभ्र-वपुषे तडिद्-अम्बराय
गुञ्जावतंस-परिपिच्छल-सन्-मुखाय
वन्य-स्रजे कवल-वेत्र-विषाण-वेणु-
लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय ↩︎
-
सर्वेषाम् एव भावानां ↩︎
-
कृष्ण-स्तुतौ ↩︎