सबाल-वत्स-वृन्दे ब्रह्मणापहृते श्री-कृष्णस्य तत्-तद्-रूपेणाब्दं यथा-पूर्वं विहरणं ब्रह्मणो मोह-भङ्गश् च।
॥ १०.१३.१ ॥
श्री-शुक उवाच—
साधु पृष्टं महा-भाग त्वया भागवतोत्तम ।
यन् नूतनयसीशस्य शृण्वन्न् अपि कथां मुहुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
त्रयोदशेऽहरद् ब्रह्मा वत्सान् पालांश् च मायया ।
तदा तत्-सर्व-रूपोऽब्दं कृष्णः पूर्ववद् आचरत् ॥
नूतनयसि नव्यवत् करोसि ॥१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पालान् गोपान् । तदा हरणोत्तर-काले । तेषां सर्वेषां गोप-वत्सानां रूपम् इव रूपं यस्य सः, अब्दम् इति । कालाध्वनोर् अत्यन्त-संयोगे इति द्वितीया । यावद्-वर्षम् इत्य् अर्थः । पूर्ववत् यथा-पूर्वं लीलां करोति तद्वद् इत्य् अर्थः ।
महा-भाग्यं विना हरि-कथायाः प्रश्नो न सम्भवतीति भावः । अस्यैव विवरण-रूपं भागवतोत्तमेति कथं मे भागवतोत्तमत्वम् ? तत्राह—यद् इति । यत् यतः । नूतनं करोषि नूतनयसि तत् करोतीति णिजन्ताच् छतरि ॥१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे महा-भाग ! इति । गर्भेऽपि तेन श्री-भगवतो दर्शनात् । हे भागवतोत्तम ! इति तत्-कथैक-रसिकत्वात्, तथा द्विः सम्बोधनं च श्री-कृष्णाविष्ट-चित्तत्वात् प्रेम्णैव यद् यस्मात् ईशस्य स्व-प्रभोः ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे महा-भाग ! इति गर्भेऽपि तेन भगवतो दर्शनात् । जन्मान्तरं च सर्वत्र तत्-परीक्षणादिना । हे भागवतोत्तम ! इति ! तत्-कथैक-रसिकत्वात् । वस्तुतस् तु श्री-कृष्णाविष्टत्वात् प्रेम्णा तथा द्विः सम्बोधनम् । यद् यस्मात् ईशस्य स्व-प्रभोः ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
जेमनं वत्स-तत्-पाल-हरणं ब्रह्म-मोहनम् ।
स्व-भूत-वत्स-विष्ण्व्-आदि-प्रादुर्भावस् त्रयोदशे ॥
विश्वस्य सृष्ट्य्-आदि-विमोहनाद्य्-
ऐश्वर्यं यद्-अंशांश-भवं स कृष्णः ।
विश्वादि-सृष्टिं बलदेव-मोहं
स्वैश्वर्यम् अत्रैक्षयतात्म-योनिम् ॥
हे भागवतेषूत्तम ! कथं मे भागवतोत्तमत्वम् ? तत्राह—यद् इति । नूतनयसि नूतनीकरोषि श्रुतां मुहुर् आस्वादिताम् अपि कथाम् अश्रुतचरीम् इव करोषीति कथायाम् अनुरागो व्यञ्जितः ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
स जग्धिर् वत्स-तत्-पाल-हृतिर् ब्रह्म-विमोहनम् ।
स्व-भूताद् भुत-वत्सादि प्राकट्यं च त्रयोदशे ॥
भागवतोत्तमत्वे हेतुर्—यद् इति । असकृच् छृउताम् अपि नूतनां मन्यस इत्य् अर्थः ॥१॥
॥ १०.१३.२ ॥
सताम् अयं सार-भृतां निसर्गो
यद्-अर्थ-वाणी-श्रुति-चेतसाम् अपि ।
प्रतिक्षणं नव्यवद् अच्युतस्य यत्
स्त्रिया विटानाम् इव साधु वार्ता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा हि, सार-भृतां सार-ग्रहिणाम्, अयं निसर्गः स्वभावः । कोऽसौ ? अच्युतस्य वार्ता श्रुता सती प्रतिक्षणं साधु नव्यवद् भवतीति यत् सः । विटानां स्त्रैणानां, स्त्रियाः कामिन्या वार्ता इव । कथम्-भूतानाम् अपि सताम् ? या अच्युत-वार्ता सैवार्थो येषां तानि, वाणी-श्रुति-चेतांसि तथा-भूतानाम् अपि ॥२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विटोऽद्रौ लवणे खिड्गे मूषिके खदिरेऽपि च इति मेदिनी । स्त्रिया इति, परम-घृणास्पदस्यापि स्त्री-पदार्थम् । नव-नव-मधुरता-स्फूर्ताव् अनुराग एव कारणं चेन्, नित्य-नूतनायमानस्य परमानन्दैक-रसस्य श्री-भगवतः, किम् उतेति भावः ॥२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्त्रिया विटानाम् इव साधु-वार्ता इत्य्-आदि । अच्युत-वार्ता इत्य् आयाते, तच्-चरिते साध्व् इति व्रज-विहार-परम् । साध्वी असाधारणाद्भूता प्रतिक्षणं नव्यवद् येषां, तेषां सताम् अयम् एव निसर्गः स्वभावः । तत्र दृष्टान्तः—स्त्रिया विटान् इव स्त्रिया वार्ता, यथा विटानां, विटानां वा यथा स्त्रियाः । अतः श्री-कृष्णे तथैवासक्तिः कार्या, सा गोपीनाम् एव ॥२॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अश्रुतं च नूतनयसीति, किं वक्तव्यम् ? यतो मुहुर् मुहुः श्रुतम् अपि नूतयनयसीत्य् एतद् उचितम् एवेत्य् आह—सताम् इति । कदाचित् कथञ्चित् रसान् न च्यवत इत्य् अच्युतः, तस्येति । तद्-वार्ताया अपि तादृशत्वम् अभिप्रेतम् । अत एव साधु यथा स्यात्, तथा नव्यवद् भवति । यद्यपि नव्यैव भवति, तथापि पूर्व-सेवितत्वाद् वति-प्रत्ययः । तद्-एक-लाम्पट्य-मात्रापेक्षया दृष्टान्तः—स्त्रिया इति ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अश्रुतं च नूतनयसीति । किं वक्तव्यं ? यो मुहुर् मुहुः श्रुतम् अपि नूतयनयसीत्य् एतद् अप्य् उचितम् एवेत्य् आह—सताम् इति । कदाचित् कथञ्चित् कस्माच्चिद् अपि च रसान् न च्यवत इत्य् अच्युतः, तस्येति । तद्-वार्तया अपि तादृशत्वम् अभिप्रेतम् । अत एव साधु यथा स्यात्, तथा प्रतिक्षणं नव्यवद् भवति, स्वादु-वैशिष्ट्येनापूर्ववज् जायते । तद्-एक-लाम्पट्यांशं दृष्टान्तः—स्त्रिया इति । तद् एवं परम-घृणास्पदस्यापि स्त्री-पदार्थस्य नव-नव-मधुरता-स्फूर्तौ अनुराग एव कारणं चेन् नित्य-नूतनायमान-परमानन्दैक-रसस्य श्री-भगवतः किम् उतेति भावः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सताम् इत्य् अत्र नव्यवद् इति । प्रत्ययेनानुराग-तुल्यत्वम् एव दर्शितम् । साक्षाद् अनुरागे तु नव्यम् एव भातीत्य् अर्थः । तथापि तस्याङ्घ्रि-युगं नवं नवं [भा।पु। १.११.३४] इतिवद् इति भावः । उत वितर्के इदं विचारयाम इत्य् अर्थः ॥२.७॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भगवत्-कथायाः सतत-श्रवण-श्रद्धालुतया राजानम् अभिनन्दन्न् आह—सताम् अयम् इत्य्-आदि । सार-भृतां सार-ग्राहिणां सतां साधूनाम् अयम् एव विसर्गः स्वभावः । कोऽसौ ? इत्य् आह—अच्युतस्य प्रतिक्षणं नव्यवद् या साधु-वार्ता । प्रतिक्षण-नव्यत्वे दृष्टान्तः—कीदृशानां सतां विटानां वा ? यद्-अर्थानि यत्-प्रयोजनानि वाणी-श्रुति-चेतांसि येषां, तथा-भूतानाम् अपि निरन्तर-गुण-कथन-श्रवण-चिन्तन-तत्-पराणाम् अपि प्रतिक्षणं नव्यवद् इत्य् अतिचित्रम् । एतेन दृष्टान्तेन भगवद्-विषय-रागाधिक्यं हि सार-भृतां सतां साहजिकम् ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सार-भृतां सार-ग्राहिणाम् अयं निसर्गः, यद् यतः अच्युतस्य वार्ता प्रतिक्षणं क्षणे क्षणे साधु यथा स्यात्, तथा नव्यवद् भवति । तृष्णाधिक्याद् अपूर्ववज् जायते । यद्-अर्थानि अच्युत**-**वार्ता-प्रयोजनानि, वाणी-श्रुति-चेतांसि तेषां, तथा-भूतानाम् अपि । तद्-एक-लांपट्यांशे दृष्टान्तः--विटानां कामुकानां स्त्रिया वार्ता एव कामिनी-कथेव ॥२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सार-ग्राहिणां सताम् अयं निसर्गः स्वभावः । यद् यस्माद् अच्युतस्य वार्ता प्रतिक्षणं नव्यवद् भवति । सार-रूपायां तस्यां तृष्णातिशयाद् अपूर्ववज् जायते । यद्-अर्थानि यद्-वार्ता-फलकानि1 वाणी-श्रुति-चेतांसि वाक्-कर्ण-मनांसि येषां, तादृशानाम् अपि । तद्-एक-लाम्पट्यांशे दृष्टान्तः**--विटानां** कामिनां स्त्रियास् तरुण्या वार्ता एव ॥२॥
॥ १०.१३.३ ॥
शृणुष्वावहितो राजन्न् अपि गुह्यं वदामि ते ।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अपि उत ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राजन्न् इति हे बुद्ध्य्-आदिना प्रकाशमान ! एजत्-कथानकं वक्ष्यमाणं बोद्धुं त्वम् अर्हसीति भावः ॥३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : शृणुष्व इत्य्-आदि । अपि गुह्यम्, अयम् अर्थः—इदम् अतिगुह्यम् । कुत्रापि पुराणादौ नास्ति । वदामि इति न च मे पित्रापि उक्तम्, यतोऽनुक्रमणिकाध्यायेऽपि न लिखितम् । मयैवेदं ज्ञायते, तेन ते वदामि । अतिगुह्यं चेत् तदा कथं वदसि ? तत्राह—ब्रूयुः [भा।पु। १.१.८] इत्य्-आदि ॥३॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अवहितः सन्न् इति वक्ष्यमाणस्य परम-दुरवगाहत्वात् । राजन् ! हे बुद्धी-आदिना प्रकाशमानेत्य् अर्थः । उत इति प्रसिद्धौ हेतौ—वा ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अवहितः सन्न् इति, वक्ष्यमाणस्य परम-दुरवगाहत्वात् । राजन् हे बुद्धी-आदिना प्रकाशमानेत्य् अर्थः । उत इति वितर्के, वयम् इदं विचारयाम इत्य् अर्थः । अत्र श्री-भगवति ब्रह्मणि च यद् असम्भवं बहु-विधम् एवाश्चर्यम् आयास्यति, तत् खलु न सर्वेषां सुबोधम् इति गुह्यम् इत्य् उक्तम् ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : उत वितर्के । इदं विचारयाम इत्य् अर्थः ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इत्य् अभिनन्द्य सच्-छिष्यं प्रति वात्सल्याधिक्याद् अतिरहस्यम् अपि कथयति—शृणुषु इत्य्-आदि । हे राजन् ! शृणुष्व । किं तत् ? इत्य् आह—अपिगुह्यं गुह्यम् अपि, यद् वदामि । अपि गुह्यम् इत्य् अस्यायं भावः । इदं कौ अपि पुराणादौ नास्ति । पित्रापि न कथितम् भगवद्-अनुग्रहान् मयैवेदं ज्ञायत । इति वदामीत्य् उक्तम् अपुरुष-प्रयोगः ।
ननु, तर्हि कथम् अतिगुह्यं प्रकाशयसीति-आह—ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अपि उत [भा।पु। १०.३.१३-१४] इत्य् अध्याय-द्वये ब्रह्म-मोहन-रूप-लीला श्री-शुकदेवस्यैवानुभूता ॥३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१३.४ ॥
तथाघ-वदनान् मृत्यो रक्षित्वा वत्स-पालकान् ।
सरित्-पुलिनम् आनीय भगवान् इदम् अब्रवीत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथा पूर्वोक्त-प्रकारेण, भो वयस्या मम सखीनां भवताम् एव भोजन-योग्यम् एतद् इति भावः । पुलिनं तोयात् सद्यो निर्गतं तटम्, तोयोत्थितं तत्-पुलिनं सैकतं सिकतामयम् इत्य् अमरः ॥४॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा तेनोक्त-प्रकारेण अघासुर-वदन-रूपान् मृत्योः वत्सान् पालकांश् च । भगवान् इति निजैशर्य-विशेष-प्रकटनार्थम् इति भावः । तच् चाग्रे व्यक्तं भावि ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा तेन प्रकारेण अघासुर-वदन-रूपान् मृत्योः वत्सान् पालकांश् च, भगवान् अपि ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१३.५ ॥
अहोऽतिरम्यं पुलिनं वयस्याः
स्व-केलि-सम्पन् मृदुलाच्छ-बालुकम् ।
स्फुटत्-सरो-गन्ध-हृतालि-पत्रिक-
ध्वनि-प्रतिध्वान-लसद्-द्रुमाकुलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भोजन-विधानाय पुलिनं स्तौति—अहो इति । स्वीयानां केलीनां संपदो विद्यन्ते यस्मिंस् तत् । मृदुला-अच्छा-वालुका यस्मिंस् तत् । किं च, स्फुटद् विकसत् सरः । सरोज-बाहुल्येनोपचारतः सर एव विकसद् इत्य् उक्तम् । तस्य गन्धस् तेन हृता आकृष्टा अलयः पत्रिणश् च ये तेषां, के उदके ध्वनयस् तेषां, प्रतिध्वानास् तैर् लसन्तो द्रुमास् तैर् आकुलं व्याप्तम् ॥५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विधानं करणम् । सम्पदोऽत्र तृण-कण्टक-शर्करा-राहित्य-रूपा ज्ञेयाः । केलीनां क्रीडानाम् । अन्यद् आह—पत्रिणः पक्षिणः । कं शिरो-बुनोः इति विश्वः ॥५॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे वयस्या ! इति शीघ्र-भोजनार्थं स्नेहं जनयति । यद् वा, मम सखीनां भवताम् एव भोजन-योग्यम् एतद् इति भावः । तद् एव दर्शयति—स्वेषां केलेः पङ्क्ति-भोजन-नृत्य-नियुद्धादि-क्रीडायाः सम्पत् सम्पत्तिर् याभ्यस् तथा-भूता । मृदुल-अच्छ-वालुका यस्मिन्न् इत्य् उपवेश-सुखं, स्फुटत्-सरो-गन्ध इति भोजने\ऽपेक्षं धूपवत् सौगन्ध्यम्, एतेन शरत्-काले लक्ष्यते । तथा गीतम् इव भ्रमरादि-द्वनि-विलासो भोजन-पात्रं च पद्म-पत्रादिकम् । शरत् ताप-निवारणार्थं घन-वृक्ष-च्छाया इति सुख-भोजन-सामग्री दर्शिता ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे वयस्या ! इति, मम सखीनां भवताम् एव भोजन-योग्यम् एतद् इति भावः । तद् एव दर्शयति—स्वेषां केलेः पङ्क्ति-भोजन-नियुद्धादि-क्रीडायाः सम्पत् सम्पत्तिर् याभ्यस् तथा-भूता । मृदुल-अच्छ-वालुका यस्मिन्न् इत्य् उपवेश-सुखं,स्फुटत्-सरोज-गन्ध इति भोजनापेक्ष्यं धूपवत्-सौगन्ध्यम्, एतेन शरत्-कालो लक्ष्यते । तथा गीतम् इव भ्रमरादि-ध्वनि-विलासः भोजन-पात्रं च पद्म-पत्रादिकम् । सुवासित-शीतलाच्छ-जलं च शरत्-ताप-निवारणार्थ-घन-वृक्ष-च्छाया चेति सुख-भोजन-सामग्री दर्शिता । तत्र प्रतिध्वन इति पर्यन्तः सप्तम्यन्य् अपदार्थो बहुव्रीहिः लसद्-द्रुमाकुलम् इति, तत्-पुरुषः तयोः कर्मधारयो ज्ञेयः ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भोजनार्थं तद् उचितं स्थलं स्तौति—अहो इति । स्व-केलीनां बहु-पङ्क्तिमद् भोजन-क्रीडानां सम्पदो यत्र तद् इति, स्थान-विस्तीर्णत्वं । मृदुला अच्छा बालुका यत्र तद् इत्य् उपवेश-सुखं प्रफुल्ल-बहुल-सरोजवत्वात्, स्फुटतः सरसः एव गन्धेन हृता आकृष्टा अलयः पत्रिणश् च येषां, के उदके ध्वनयस् तेषां, प्रतिध्वनास् तैर् लसन्तो द्रुमास् तैर् आकुलं व्याप्तम् इति, भोजनापेक्षणीय-धूपादि-सौरभ्य-वीणादि-वाद्य-सुवासित-शीतल-जल-स्निग्ध-च्छायादि-सामग्री दर्शिता ॥५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सजग् धि-योग्यं स्थलं स्तौति अहो—इति । स्व-केलीनां बहु-पङ्क्तिक-भोजन-क्रीडानां सम्पदो यत्र तद् इति, स्थलस्य विस्तीर्णत्वम् उक्तम् । मृदुल इत्य्-उपवेश-सौख्यं विकच-बहु-पद्मशालित्वात् स्पुटतो विकशतः सरसो गन्धेन-आहृता आऋष्टा अलिनः पत्रिणश् च तेषां, के जले ध्वनयस् तेषां प्रतिध्वानास् तैर्, लसन्तो द्रुमास् तैर् आकूलम् इति स-जग्ध्यवेक्ष्य धूपादि-सौरभ्य-वीणादि-वादित्रशीतल-छायादि-सम्पत्तिर् दर्शिता ॥५॥
॥ १०.१३.६ ॥
अत्र भोक्तव्यम् अस्माभिर् दिवा रूढं क्षुधार्दिताः ।
वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस् तृणम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दिवा रूढं वेलातीतेत्य् अर्थः ॥६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र पुलिने । दिवा अव्ययं दिवसे । तेन समासः । दिनम् आरूढम् एतद् अर्थः । स्वामि-चरणैः स्फुटितार्थान्तरोक्त्या । हे क्षुधार्दिताः ! चरन्तु भक्षयन्तु तृणम् इत्य् एकत्वं सामान्याभिप्रायेण ॥६॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे क्षुधार्दिताः ! यद् वा, यतः क्षुधार्दिता वयम्, तत्र हेतुः—दिवा रूढम् अघम्-तुण्डान्तः-प्रवेशादीना विलम्बापत्तेः । यद् वा, वत्षनां विषेषणम्, अतो न निज-भोजन-सखार्थम् अत्र निरुध्य-रक्ष्याः, किन्तु चरन्ति-इत्य् अर्थः । शनकर् इति जल-पानेनाप्य् आयितत्वात् । यद् वा, अस्मत् सुख-भोजन-सिद्ध्य् अर्थम् अधुना समीपे शनकैश् चरन्तु । पश्चाद् यथेष्टं चरिष्यन्त्य् एव, अतो\ऽत्रैवान्तिके निरुध्यताम् इति भावः ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे क्षुधार्दिताः ! यद् वा, यतः क्षुधार्दिता वयं तत्र हेतुः—दिवा रूढं अघ-तुण्डान्तः-प्रवेशादिना विलम्बापत्तेः । यद् वा, क्षुधेति-वत्सानां विशेषणम् अतो न निज-भोजन-सुखार्थम् । अत्र निरुध्य रक्ष्याः किं तु चरन्ति इत्य् अर्थः । शनकैर् इति जल-पानेनापि आयितत्वात् । यद् वा, अस्मत् सुख-भोजन-सिद्ध्य् अर्थम् । अधुना समांपे शनकैश् चरन्तु । पश्चाद्-यथेष्टं चरिष्यन्त्य् एव अतोऽत्रैवान्तिके निरुध्यन्ताम् इति भावः ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिवा रूढं दिवकर ऊर्द्ध्वाकाशम् आरूढ इत्य् अर्थः ॥६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : दिवा रूढम् इति मध्याह्वम् अभूत् इत्य् अर्थः ॥६॥
॥ १०.१३.७ ॥
तथेति पाययित्वार्भा वत्सान् आरुध्य शाद्वले ।
मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आरुध्य संरुध्य, शाद्वले हरित-तृणे देशे ॥७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यच् छ्रीमतोक्तं तत् तथास्त्वित्य् उक्त्वा । अर्भा बालाः ॥७॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा एवम् एवेति तद् उक्तं संश्लाघ्येति अर्थः । शाद्वले—शरत् कालीन्-श्री-वृन्दावन-स्वभाव-सम्पत्तेर् हरिते तृण-प्रदेशे, आरुध्य सम्यक् रुद्धा । शद्वल इत्य् अग्रे\ऽप्य् अनुवर्तनीयं, शाद्वल-जेमनं च [भा।पु।१०.१४.६०] इति वक्ष्यमाणत्वात् । यद् वा, शाद्वलान्तिके जेमनं शाद्वल-जेमनम् इति मध्य-पद-लोपः । प्रायो बालुकामय-प्रदेश एव वक्ष्यमाण-तद् भोजन-पात्रापेक्षणात् । एवं सति शाद्वल इत्य् अस्य पूर्व-नैवान्वयः । शिक्यानि स्व-स्व-गृहात् प्रातर् आनीतानि । मुक्त्या इत्य् अघोदरान्तः-प्रवेशे\ऽपि श्री-भगवत् प्रभावेण बालकादीनाम् इव तेषाम् अप्य् अवैकल्यात् । यद् वा, शिक्यानि वृक्षादौ न्यस्य स्वयम् एव तद् उदरे ययुः, करताडनैर् ययुः [भा।पु।१०.१२.२४] इत्य् उक्त्वात् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा एवम् इवेति तद् उक्तं संश्लाध्य इत्य् अर्थः । शाद्वल इत्य्-अग्रेप्य्-अनुवर्तनीयं, शाद्वल-जेमनं [भा।पु।१०.१४.६०] चेति वक्ष्यमाणात्वात्, शाद्वलं चात्र सूक्ष्म-दूर्वामयत्वम् एव ज्ञेयं । शिक्यानि स्व-स्व-गृहात् प्रातर् आनीतानि मुक्त्वा इत्य् अघोदरोन्तः-प्रवेशतः पुरस्ताद् एव तानि क्रीडा-सौकर्याय वृक्षाग्रे धृतानीति ज्ञेयं । किम् वा, अघोदरान्तः प्रवेशेऽपि श्री-भगवत् प्रभावेण बालकानाम् इव तेषाम् एवैकल्यं ज्ञेयम् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शाद्वले हरित-तृण-बहुल-देशे आरुद्ध इति तेषां, तत् तृण-लोभाद् देवान्-यत्र गमनासार्थ्यम् अननात् ॥७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शाद्वले हरित-तृण-प्रचुरे देशे आरुध्य इति, तत्-तृण-लोभेन ततोऽन्यत्र गमनाम् अननात् ॥७॥
॥ १०.१३.८ ॥
कृष्णस्य विष्वक् पुरु-राजि-मण्डलैर्
अभ्याननाः फुल्ल-दृशो व्रजार्भकाः ।
सहोपविष्टा विपिने विरेजुश्
छदा यथाम्भोरुह-कर्णिकायाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा ते विरेजुः । कृष्णस्य विष्वक् परितः । पुरु-राजि-मण्डलैर् बहुभिः पङ्क्ति-मण्डलैः सह नैरन्तर्येणोपविष्टाः । श्री-कृष्णाभिमुखानि-आननानि येषां ते । फुल्ल-दृशो विकसित-नयनाः । कमल-कर्णिकायाः परितः पत्राणि यथेति ॥८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदा बुभुजुस् तदेत्य् अर्थः । परितः सर्वतः । अभ्याननाः प्रेम्णा सर्व-साम्मुख्य-स्पृहावतो भगवतः सत्य-सङ्कल्पता शक्त्यैवोद्गारितेनाचिन्त्य-वैभवेन निष्पादितानां मुखाद्य्-अङ्गानां प्रति-दिक्षु प्रकाशात् । कृष्णस्याभिमुखे सन्निहित-पङ्क्तौ वयम् एव वर्तामहेऽन्ये तु व्यवहित-पङ्क्तिषु पार्श्वतः पृष्ठतश् चोपविष्टा इति सर्व एवाभिमानवन्त इत्य् अर्थः । तेन च, सर्वतः पाणि-पादं तत् सर्वोऽक्षि-शिरो-मुखम् [गीता १३.४] इति श्रुत्य्-अर्थो दर्शितः । छदाः पत्राणि । यथा कञ्ज-कर्णिकायाः परितो मिलितीभूय तिष्ठन्ति तथेत्य् अर्थः ॥८॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्णस्य इत्य्-आदि । अभ्यानना अभिमुखम् आननं येषाम्, वस्तु-महिम्ना श्री-कृष्ण एवाभिमुखः सर्वेषाम् । ते तु तथा न जानन्ति । तेषां मते ममैवायम् अभिमुख एष इति । वस्तु-महिमा तु, सर्वतः पाणि-पादं तत् सर्वतोऽक्षि-शिरो-मुखं [गीता १३.४] इति प्रत्य्-अङ्गस्यैव व्यापकत्व-रूपः ॥८.१०॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभानना श्री-कृष्णाभिमुखा अत एव फुल्ल-दृश इति, सर्वेषाम् एव श्री-भगवन् मुखावलोकनं तथा । तेषां प्रीत्य् अर्थं सर्वाभिमुखत्वेन श्री-भगवतो\ऽपि निजैश्वर्य-विशेष-प्रकटनं ज्ञेयम् । विपिने\ऽपि विशेषतो रेजुर् अशोभन्तः । यद् वा, विपिने श्री-वृन्दावन इति विशेष-शोभा योग्यतोक्ता ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभ्याननाः अभि श्री-कृष्णस्य संमुख आननं येषां ते, अत एव फुल्ल-दृशः । तच् च तत् प्रीत्य्-अर्थम् अचिन्त्य-शक्त्यैव । विपिने श्री-वृन्दावने इति विशेष-शोभा योग्यतोक्ता ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अभ्याननायः श्री-कृष्ण-सम्मुख-मुखा इत्य् अर्थः । अन्यथा फुल्ल-दृक्त्वं न स्यात् । अचिन्त्या शक्तिश् चेयम् ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ ब्रह्म-मोहन-लीला-कथनोपक्रम-प्राप्त-भगवद्-वन्य-भोजन-लीलां दर्शयति—कृष्णस्य विष्वग् इत्य्-आदि । विष्वक् सर्वतः कृष्णस्य-अभ्यानना अभिमुखम् आननं येषां तथा-भूताः सन्तः । पुरु-राजि-मण्डलैः पुरवो बह्व्यो या राजयः श्रेणयस् तासां, मण्डलैर् मण्डलाकार-नाना-पङ्क्तिभिर् उपविश्य व्रज-अर्भका रेजुर् इत्य् अन्वयः ।
अन्तर् मण्डलम् एकं तद्-बहिर् अन्यत्, तद्-बहिर् अन्यद् इति क्रमेण बहूनि राजि-मण्डलानीति मन्तव्यम् । फुल्ल-दृशः—ममैवायं सम्मुख इति मन्यमानाः सर्व एव हर्षोत्कर्षेण प्रफुल्ल-नयनाः—एतेन भगवतः श्री-कृष्णस्य वस्तु-स्वभावाद् अव्यवहितत्वम् अनावृतत्वं सर्वाभिमुखत्वं च व्यापकत्वात् । सहोपविष्टा इति च सर्वेषां निकट एवोपविष्टत्वात् तथात्वम् ॥८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां भोजनोपवेश-परिपाटीम् आह—कृष्णस्य विष्वक् परितः पुरु-राज-मण्डलैः सुपां सुप इति तृतीया बहुषु पङ्क्ति-मण्डलेषु-इत्य् अर्थः । अभ्याननाः प्रेम्णा सर्व-साम्मुख्य-स्पृहावतो भगवतः सत्य-सङ्कल्पता शक्त्यैवोद्भावितेन अचिन्त्य-वैभवेन निष्पादित मुखाद्य्-अङ्गानां सर्वदिक्षु प्रकाशात् । कृष्णस्याभिमुखे सन्निहित-पङ्कौ वयम् एव वर्तामहे, अन्ये तु व्यवहित-पङ्किषु पार्श्वतः पृष्ठतश् चोपविष्टा इति सर्व एवाभिमानवन्त इत्य् अर्थः । तेन च, सर्वतः पाणि-पादं तत् सर्वतो\ऽक्षि-शिरोमुखम् [गीता १३.४] इत्य् अर्थो । दर्शितः सह नैरन्तर्येणोपविष्टाः छदाः पत्राणि यथा । कमल-कर्णिकायाः परितो मिलती-भूय बहु-पङ्क्तिषु तिष्ठन्ति तथेत्य् अर्थः ॥८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तेषां स-जग्ध्य्-उपवेश-परिपाटीम् आह—कृष्णस्य विष्वक् परितः पुरु-राजि-मण्डलैर् बहुषु पङ्कि-मण्डलेषु व्यत्ययाबहुलम् इति तृतीया । तस्य अभ्याननाः व्रज-अर्भकाः सह नैरस्तर् येणोपविष्टा विरेजुः । अभ्यानना इति तत्-प्रेमवश्यतया सर्व-साम्मुख्यम् इच्छति । कृष्णे तद् इच्छानुगतया सत्य-सङ्कल्पतया तन्-मुखाद्य्-अङ्गानां सर्वदिक्षु प्रकाशात् तेन च—
सर्वतः पाणि-पादस् तत् सर्वतोक्षि-शिरोमुखम् । > सर्वतः शक्तिमल्-लोके सर्वम् आवृत्य तिष्ठतीति ॥ [गीता १३.४]
श्रुत्य्-अर्थः प्रत्यक्षोऽभूत्, तत्र दृष्टान्तः यथा-अम्भोरुह-कर्णिकायाः आच्छदाः पत्राणि परितो मिलितानि भूत्वा, तद् आभिमुख्येन बभुषु पङ्क्ति-मण्डलेषु तिष्ठन्ति तद्वत् ॥८॥
॥ १०.१३.९ ॥
केचित् पुष्पैर् दलैः केचित् पल्लवैर् अङ्कुरैः फलैः ।
शिग्भिस् त्वग्भिर् दृषद्भिश् च बुभुजुः कृत-भाजनाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुष्पैस् तद्-दलैः, अन्यैश् च पत्रैः कृतानि भाजनान्इ यैस् ते ॥९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्कुरैर् दूर्वादिभिः । फलैः कारीरादिभिः, पत्रादिभिर् भाजन-निर्माणं बालानां प्रत्येकापूर्वचरणा कौतुकेच्छय् एवेति ज्ञेयम् ॥९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : केचिद् इति सर्वैर् अप्य् अन्वेति । अत एव पुनर् उक्तम् पुष्पादि-भोजन-पात्राणां वैचित्री बालकानां कौतुकानां कौतुक-स्वभावेन स्व-स्व-रोढि-कौदनादि-भोज्य-वैचित्र्य् अपेक्षया वा ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : केचिद् इति पुनर् उक्त्या, पुष्पैर् इत्य्-आदिभिः । प्रत्येकम् अन्वयं बोधयति । अन्यथा समुच्चयोऽपि बुध्येत, पुष्पादि-भोजन-पात्राणां वैचित्री-बालकानां प्रत्येकापूर्व-रचना-कौतुकेच्छया स्व-स्व-रोटिकोदनादि-योग-वैचित्र्यापेक्षया वा ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : केचिद् द्वयं सर्वत्र पृथग्-अन्वयार्थम् ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केचिद् इति पुष्पादिभिः स्व-स्व-भाजन-निर्माणं बालकानां प्रत्येकापूर्व-रचना-कौतुकेच्छ्यैवेति ज्ञेयम् ॥९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पुष्पादिभिः कृत-भाजना इति, प्रत्येकापूर्व-भाजन-रचना चातुर्यातिशयात् ॥९॥
॥ १०.१३.१० ॥
सर्वे मिथो दर्शयन्तः स्व-स्व-भोज्य-रुचिं पृथक् ।
हसन्तो हासयन्तश् चाभ्यवजह्रुः सहेश्वराः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : रुचिं स्वाद-विशेषम् । अभ्यवजह्रुर् बुभुजिरे । सह-ईश्वराः श्री-कृष्ण-सहिताः॥१०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सह-ईश्वराः स-कृष्णा एव, सर्वे स्व-स्व-भोज्यस्य स्व-स्व-गृहानीतान्न-व्यञ्जनादेः स्वादं दर्शयन्त । स्वीय-वटिक-शाक-रसालादिकं स्वयं किञ्चिद्-भुक्त्वा स्वादनम् अनुभूय भो सखे, कृष्ण भोः श्रीदामन् भोः सुबल पश्यत । मदीय-वटिकादिकं कीदृशं स्वाद्व् इति । स्व-भक्ष्य-पात्राद् उद्धृत्य कृष्णादीनां हस्तेषु ददानास् तांस् तद्-आस्वादम् अनुभावयन्त इत्य् अर्थः । हसन्तो हासयन्त इति, जातीमालत्य्-आदि-पुष्पाणि वटिकान्तरे लक्षितान्य्-अपर्ययित्वा भो सखाय, एता अतिस्वादुत्तमा वटिका आस्वादयतेत्य् उक्ति-विश्वासात्, स-स्पृहं गृहीत्वा तान् भुजानान् कटूकृत-मुखान् दृष्ट्वा हसन्तो हाषयन्तः । च-कारात् तैः ताढ्यमानाश् च ॥१०॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पृथक् भोज्य-भेदेन रस-गन्धादि-भेदेन च नाना-प्रकारकां स्व-स्व-भोज्यस्य रुचिं स्वादुता-विशेषं तस्मिन् प्रीतिं वा दर्शयन्तो । मुख-भङ्ग्यादिना साक्षात्कारयन्त इव, अतः स्वयं हसन्तो\ऽन्याश् च हासयन्तः रुचि-दर्शनं च प्रायः श्री-भगवत् स्वीकारार्थम् एव । अत एव सह-ईश्वरा इति श्री-भगवान् अपि तैर् एव मिष्ट-मिष्टं परीक्ष्य किञ्चित् क्रमशो युगपद् वा, समर्प्यमाणं तथैव बुभुज इत्य् अर्थः ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पृथक् भोज्य-भेदेन रस-गन्धादि-भेदेन च नाना-प्रकारिकां स्व-स्व-भोज्यस्य रुचिं स्वादुता-विशेषं दर्शयन्तः । मुख-भङ्ग्यादिना साक्षात् कारयन्त इव, अतः स्वयं हसन्तः, अन्यांश् च हासयन्तः । यद्य् अपि स्व-स्व-गृहाद् आनीतानि भोज्यादि परीक्षार्थं सर्वेषां सर्वेष्व् एव परिवेषितानि, तथापि स्व-स्व-गृहानीत-भोज्यानाम् एव स्वाद्व् अतिरिक्तं पृथक् पृथक् ज्ञापयामासुर् यद् अर्थम् । एव पूर्व-दिने मिलित्वा वन्य-भोजनाय सङ्क्लृप्तवन्त इति भावः । रुचि-दर्शनं च प्रायः श्री-भगवत् स्वीकारार्थम् एव, अत एव सह-ईश्वरा इति श्री-भगवान् अपि । तैर् एवम् इष्टम् इष्टं परीक्ष्य किञ्चित् किञ्चित् क्रमशो युगपद् वा समर्पमाणं बुभुज इत्य् अर्थः ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सह-ईश्वराः स-कृष्णा एव सर्वे स्व-स्व-भोज्यस्य स्व-स्व-गृहानीतस्य भक्ष्यस्यान्नव्यञ्जनादेः रुचिं रोचकतां दर्शयन्तः । स्वीय-वटक-रसालादिकं स्वयं किञ्चिद्-भुक्त्वा आस्वाद-विशेषम् अनुभूय, भो सखे ! भो कृष्ण ! भो श्री-दामन् ! भो सुबल ! पश्यत पश्यत मदीय-वटकादिकं कीदृशं स्वाद्व् इति । स्व-भक्ष्य-पात्रात् तद्-गृहीत्वा कृष्णादीनां हस्तेषु ददानास् तांस् तद् आस्वादम्-अनुभावयन्त इत्य् अर्थः । हसन्तो हासयन्त इति जातीमालत्य्-आदि-पुष्पाणि वटकान्तरे वा, अलक्षितम् अर्पयित्वा भोः सखायः ! एतान् अतिस्वादुतमान् वटकान् आस्वादयतेत्य् उक्ति-विश्वासात्, स-स्पृहं गृहीत्वा तान् भुञ्जानान् कटुकृत-मुखान् दृष्ट्वा हसन्तो हासयन्तश् च-कारात् तैः, सहर्ष-कौतुकं ताड्यमानाः पलायमानाश् च ॥१०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सख्यातिशयात् सर्वेषाम् एक-भावताम् आह—सर्वे इति । सह-ईश्वराः स-कृष्णा एव सर्वे स्व-स्व-भोज्यानां रुचिं रोचकतां दर्शयन्तः । स्वयं किञ्चिद् भुक्त्वाति स्वादुतामनुभूय तत् तत् कृष्णादिभ्यः प्रदायताम् अनुभावयन्तः इत्य् अर्थः । हसन्तो हासयन्तश् च इति, वटकाकारान् पुष्प-कन्दुकान्-अलक्षितं ददाना हासयन्तः । पश्चात् सहर्ष-कौतुकं तैस्, ताभ्यम् आनाश्चेत्य् अर्थः । अत्र ईश्वरस्य हरेर् भोज्यानि तन्-मात्राप्रेषितानि चित्र-विहङ्गिकाभिर् निबद्ध-पद-शिक्याभिर् अनुगैर् आनीतानि भूरीणीति बोध्यम् औचित्यात् । तस्य तत्-परिकराणां च तानि भोज्यानि रस-रूपाण्य् एव—
गन्ध-रूपं स्वादु-रूपं द्रव्यं पुष्पादिकं च यत् । > हेयांश-नाममानाश् च रस-रूपं भवेच् च तद् ॥ इति > हयशीर्ष-पञ्चरात्रात् ।
चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च [ब्र।सं। ५.५५] इति ब्रह्म-संहितोक्तेश् च, तथा च पराख्य-शक्ति-सिद्धानि तानि रूपादिवद् मोज्यानीत्य् असारांश-शङ्काव्युदासः ॥१०॥
॥ १०.१३.११ ॥
बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे
वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु ।
तिष्ठन् मध्ये स्व-परि सुहृदो हासयन् नर्मभिः स्वैः
स्वर्गे लोके मिषति बुभुजे यज्ञ-भुग् बाल-केलिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यज्ञ-भुग् अपि तेषु बुभुजे । बालानाम् इव केलिर् यस्य सः । तद् आह—उदर-वस्त्रयोर् मध्ये वेणुं बिभ्रद् दधद् इति, सर्वत्र सम्बध्यते वाम इति, कक्ष-पाण्योर् विशेषणम् । मसृणं स्निग्धं दध्योदन-कवलम् । तद्-उचितानि बिल्वाम् अलकादि-फलान्य् अङ्गुलि-सन्धिषु । कर्णिकेव सर्वाभिमुखो मध्ये तिष्ठन्, स्वस्य परित उपविष्टान् सुहृदः स्वैर् नर्मभिः परिहास-वाक्यैः । स्वर्गे स्वर्ग-निवासिनि जने-मिषत्य् आश्चर्येण पश्यति सति लोके जन-मध्ये बुभुजे ॥११॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहो गोप-भाग्यं यतो यज्ञ, अति-पवित्रता-सम्पादितान्नं यो भुक्ते, स तेषु बुभुजे इति भावः । चिक्कणं मसृणं स्निग्धम् इत्य् अमरः । तद् उचितानि योप-योग्यानि । **अङ्गुलि-**बन्धनार्हाण्य् अल्पानीत्य् अर्थः ॥११॥ अत्र विश्वनाथ
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत्-फलान्य् अङ्गुलीष्व् इत्य्-आदि । कृत-सन्धानोपदंश-रूप-फलानि ॥११॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ बालकैः सह श्री-भगवतो भोजन-क्रीडाम् उक्त्वा विशेषेण तस्य ताम् आह—बिभ्रद् इति । तत् फलानि मसृणानि लवली-शुष्ठि-शाक-विद्वादीनि । स्वस्य परितो वर्तमानान् इति सर्वेषाम् अभिमुखताम् एव सुसाधयति । स्वैर् असाधारणैर् इति भोजन-विधि-विशेषेषः सर्वः श्री-ब्रह्मणः कौतुकाय निज-बाल्य-केलि-माधुरी-स्वभावाद् एव वा । स्वर्गे लोके सर्वेषु स्वर्ग-लोक-वासिषु । यज्ञ-भुग् अपि लौकिक-बालवत् केलिर् यस्येति, परमाश्चर्येण मिषति पश्यति सति । यद् वा, अयज्ञ-भुक् विविध-प्रयत्नतो यज्ञ-भागम् अपि यो न भुङ्क्ते सः । बालेषु केलिर् भोजन-मध्य एष तैर् एकैकशः सहैव वा, परीक्ष्य समर्प्यमाणस्य भोजस्य स-नर्म-ग्रहण-श्लाघ-न-निन्दन-भोजन-मुख-भङ्गी हासनादि-क्रीडा यस्य सः । एवं भोजने सर्वाभिमुखतैश्वर्य-विशेषेण, तथा वेणु-आदि-धारण-परिपाट्य्-ऊर्धावस्थादि बाल्य-लीला-विशेषेण च भगवत्ता विशेष-प्रकटनं पूर्ववद् ऊह्यम् ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ बालकैः सह श्री-भगवतो भोजन-क्रीडाम् उक्त्वा । तेभ्यो विशेषेण तस्य ताम् आह—बिभ्रद् इति । तत् फलानि मसृण-कबल-उचितोपकरणानि निम्बु-सन्धित-लवली-करीर-फल-प्रभृतीनि स्वैः असाधारणैः । स्वर्गे लोके सर्वेषु स्वर्-लोक-वासिषु यज्ञ-भुक् उद्देश-मात्रेण समर्पितस्य हविष्ः, कथञ्चित् स्वीकार-मात्रेण तद्-भुक्तेनोपचर्यमाणोऽपि लौकिक-बालवत् केलिर् यस्येति परमाश्वर्येण मिषति पश्यति सति । यद् वा, अयज्ञ-भूक् विविध-प्रयत्नतो यज्ञा-भागम् अपि यो न भुङ्क्ते । स बालेषु केलि-भोजन-मध्ये एव तैर् एकैकशः सहसैव वा, परीक्ष्यमाणस्य भोज्यस्य स नर्म-ग्रहण-श्लाघन-निन्दन-भोजन-मुख-भङ्गी-हासनादि-क्रीडा यस्य स । एवं भोजने सर्वाभिमुखतैश्वर्य-विशेषेण तथा वेणु-आदि-धारण-परिपाटी-सहितोर्ध्वावस्थानानि बाल्य-लीला-विशेषेण च भगवता विशेष-प्रकटनं पूर्ववद् ऊह्यम् ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र तद्-उचितानि फलानि सन्धित-लवली-धात्री-प्रभृतीनि । स्वर्गे लोक इति समस्त-तत्स्थ-जनापेक्षया अन्यत्र यज्ञ-भुक् दृष्ट्या तद्-अनुमोदिता, अत्र तु बाल-केलिः सन् बुभुजे इति महान् विशेषः ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ वन्य-भोजन-लीलायाम् अस्यां, तस्य यथा वेश आसीत् । तं प्रपञ्चयन्न् आह—बिभ्रद्-वेणुम् इत्य्-आदि । मसृण-कवलं दधि-मसृण-ग्रासम् । तत्-फलानि मसृण-कवल-सम्बन्धीनि सन्धित-करीर-फलादीनि, अङ्गुलिषु अङ्गुलि-विवरेषु स्वैर् नर्मभिः स्वयङ्-कृतैः परिहास-भाषितैः सुहृदा हासयन् । स्वैर् इति लोकेऽप्रसिद्धैर् इत्य् अर्थः । यज्ञ-भुक् सुयज्ञ-पुरुष-प्रायेषु बालकेषु तैः सह वा केलिर् यस्य ॥११॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेष्व् अपि मध्ये कृष्णस्य भोजन-लीलां सर्व-विलक्षणम् आह—बिभ्रद् इति । जठर-पटयोर् उदर-वस्त्रयोर् मध्ये वेणुं बिभ्रद् दधत् । दक्षिण-कुक्षाद् एवेति शोभौचित्याद् इति ज्ञेयम् । वामे कक्षे शृङ्ग-वेत्रे बिभ्रत्, वामे पाणौ मसृणं स्निग्धं बृहद् दध्य्-ओदन-कवलं बिभ्रत् । तत्-फलानि तद्-उचितानि सन्धित-करीर-लवल्यादीनि आङ्गुलीषु वाम-पाण्य्-अङ्गुलि-सन्धिषु पाणेर् विस्तारार्थम् इति भावः ।
यद् वा, तत्-फलानि तत्-प्रयोजनी-भूतान् क्षुद्र-ग्रासान् दक्षिण-पाण्य्-अङ्गुलीषु बिभ्रत्, मुख-प्रवेश-योग्यान् बहुतर-ग्रासान् ततः पृथक्-कृत्य गृहीतुम् एव, वामे पाणौ बृहत् कवल-ग्रहणं ज्ञेयम् ॥११॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तेषां सर्व-विलक्षणां नन्द-सूनोर्-भोजन-रीतिम् आह—बिभ्रद् इति । कर्णिकावत् सर्वाभिमुखो मध्ये तिष्ठन् कृष्णो बुभुजे । कीदृशः सन् ? चौर्य-शङ्कया जठर-पटयोर् मध्ये वेणुं बिभ्रत् । शोभातिशया-दक्षिण-कुषौ एव इति बोध्यं, वामे कक्षे शृङ्ग-वेत्रे बिभ्रत्, वामे पाणौ मसृणं स्निग्धं दध्य्-ओदन-कवलं बिभ्रत्, स्वकीयान् परम-हंसान् पाणि-पात्रतां शिक्षयन्न् इवेति भावः । तद् उचितानि फलानि करीराम् अलक्यादीनि सन्धितानि वाम-पाण्य् अङ्गुलीषु तत्-सन्धिषु बिभ्रद् इति, तुल्य-योगितालङ्कारः, स्वपरि स्वस्य परितः स्थितान् भुञ्जानान् सुहृदः सखीन् स्वैर् नर्मभिर् हासयन् स्वर्गे लोके भुवने मिषति सति, स्वर्ग-वासिषु शक्रादिषु साश्चर्य पश्यत्सु सत्सु कथं यो यञ्ज-भूक् यज्ञेषूद्देश-मात्रेणार्पितम् अनुपहतं मन्त्र-पूतं हरिः स्वीकार-मात्रेणैव भुङ्क्ते । स बाल-केलिर् बालैः सह केलिर् मिथो भुक्तान्नादान-प्रदानश्लाघन निन्दन् लक्षणा यस्य सः ॥११॥
॥ १०.१३.१२ ॥
भारतैवं वत्सपेषु भुञ्जानेष्व् अच्युतात्मसु ।
वत्सास् त्व् अन्तर्-वने दूरं विविशुस् तृण-लोभिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्ण-लिला रूपभायां कान्त्यां रतोऽसि यतस् तत एव, तुभ्यम् इदं गुह्यं वच्मीति, वाच्यं श्रद्धालवे तत्त्वम् इत्य् अभिप्रायेणाह—हे भारत ! इति । अच्युत-आत्मस्व् इत्य् उक्तेर् न तेषां, चेतोवत्स-विनिवर्तनादिष्व् अस्तीति ध्वनिः । अन्तर्-वने वन-मध्ये ॥१२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण-अच्युतो भोजनाद् स्खलितः । यद् वा, अच्युते भगवत्य् आत्मा मनो येषां, तथा-भूतेषु भुञ्जानेषु तृणैर् अग्रे\ऽग्रे ये वर्तमानैर् मृदुल-मधुरैर् लोभिताः । यद् वा, यत्र शाब्द्वले संरुद्धा वत्सानाम् आनन्त्यात् तद् भक्षएन् जाते\ऽपि वत्सपेषु भोजनाद् अनिवर्त्ममानेषु सत्सु क्षुधया तृणैर् लोभिताः ।
यद् वा, ब्रह्मणा तृणैर् लोभिताः सन्तः—श्री-भगवत् साक्षान् नयनाशक्तेः । हे भारत ! इति महानन्द-समये महा-शोकापाताद्-दुःखेन सम्बोधनम्, यथा भरत-वंश्यानां तत् पितामहानां श्री-युधिष्ठिरादीनां तादृश-राजसूयोत्सव-राज्य-भोगादि-सुखे वन-वासादि-दुःखम् आपतितं तथा । इति श्री-कृष्णैक-रसिकेषु रस-विशेषाविर्भावाय तद् इच्छया प्रायस् तथैव भवतीति भावः ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण अच्युते भगवत्य् आत्मा मनो येषां, तेषु तृणैर् लोभिताः । यद् वा, ब्रह्मणा तृणैर् लोभिताः सन्तः । श्री-भगवत् साक्षान् नयनाशक्तेः हे भारत ! इति दुःखेन सम्बोधनम् ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१३.१३ ॥
तान् दृष्ट्वा भय-सन्त्रस्तान् ऊचे कृष्णोऽस्य भी-भयम् ।
मित्राण्य् आशान् मा विरमते-हानेष्ये वत्सकान् अहम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भी-भयं भय-हेतुभ्यो भयम् अस्यापास्य । यद् वा, अस्य विश्वस्य भियोऽपि भयं यः श्री-कृष्णः । आशाद् भोजनात् । अस्मिन् पादे अक्षराधिक्यम् आर्षम् ॥१३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भय-हेतुभ्यो व्याघ्रादिभ्यः । समास एव ल्यब्-विधेर् अत्र ल्यब्-अनौचित्यं मन्वार्थातरम् आह—यद् वेति ॥१३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तान् वत्सपान् भयेन वत्सादर्शनजेन । यद् वा, वत्साभावेन पित्रादिभ्यो भयेन सन्त्रस्तान् कम्पमानान् इत्य् अर्थः । यद् वा, अ-कार-प्रश्लेषेणाभयान् स्वभावतो भय-रहितान् अपि तदानीं सम्यक्-त्रस्तान् दृष्ट्वा । यद् वा, हे अभय ! इति तेषां, भयाभावं सूचयन् श्री-परीक्षितम् आश्वासयति । अस्य विश्वस्यापि या भीस् तस्या अपि भयम् स्वत एव सर्वाभय-प्रद इत्य् अर्थः । अतस् तद्-वाक्येनैव सद्यस् तेषां, भयम् अपगतम् इति भावः । अहम् एवैकाकी वत्सकान् सर्वान् एव आनेष्ये । हे मित्राणि ! इति स्नेहं व्यञ्जयन्न् आश्वासयति । तथा युष्माकं भोजनाद् उपरत्या मम महा-दुःखं स्याद् इति बोधयति, अत एव न कोऽपि तत्-सङ्गे गत इति ज्ञेयम् ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तान् वत्सपान् भयेन वत्सादर्शनजया शङ्कया सन्त्रस्तान्-उद्विग्नान् अस्य विश्वस्यापि या भीस् तस्या अपि भयं स्वभावत एव, सर्वाभय-प्रद इत्य् अर्थः । अतस् तद्-वाक्येनैव तेषां, भयम् अपगतम् इति भावः । अहम् एवैकाकी वत्सान् सर्वान् एवेहैवानेष्ये, हे मित्रानि इति ! स्नेहं व्यञ्जन्यन्न् आश्वासयति, तस्माद् युष्माकं भोजनाद् उपरत्या मम महा-दुःखं स्याद् इति बोधयति । अत एव वत्सानां निकट-स्थिति-भावनाच् च न कोऽपि तत्-सङ्गे गत इति ज्ञेयम् ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (प्रीति-सन्दर्भः २४९) : अथोद्दीपनेषु गुणाः अभिव्यक्त-मित्र-भावता आर्जवं कृतज्ञत्वं बुद्धिः पाण्डित्यं प्रतिभा दाक्ष्यं शौर्यं बलं क्षमा कारुण्यं रक्त-लोकत्वम् इत्य्-आदयः । अवयव-वयः-सौन्दर्य-सर्व-सल्-लक्षणत्वम् इत्य्-आदयश् च । तत्र सौहृद्य-मये आर्जवादीनां प्राधान्यं सख्य-मये तु वैदग्ध्य-सौन्दर्यादि-मिश्राणां तेषाम् । तद्-उभयाश-मिश्रायां मैत्र्यां तु, यथा स्वम् अंश-द्वयम् । तत्राभिव्यक्त-तत्-तद्-भावता श्रीमद्-अर्जुनानुतापे, यथा, सख्यं मैत्रीं सौहृदं च [भा।पु। १.१५.४] इत्य् अग्रे वक्ष्यते। श्री-गोपेषु च तां व्यनक्ति—तान् दृष्ट्वेत्य्-आदि, ततो वत्सान् इत्य् अन्तम् । स्पष्टम् ॥१३-१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भय-सन्त्रस्तान् भयेनोद्विग्नान् अत्र तद्-आग्रहेणैव न कोऽपि तत्-सङ्गे गत इति ज्ञेयम् ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्य विश्वस्य या भीस् तस्या अपि भयं भय-प्रद इत्य् अर्थः । हे मित्राणि ! इति स्नेहं सूचयति—आशात् भोजनात् श्लोको\ऽयं नवाक्षरैक-पादो\ऽनुष्टुब्-भेद इति प्राञ्चः ॥१३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अस्य विश्वस्य या भीस् तस्या भयं बिभेत्य् अस्माद् इति । व्युत्पत्तेर् भयदं यः काल-कालः इति मन्त्र-वर्णात् । हे मित्राणि ! सखायः ! आशाद् भोजनात् पङ्क्ति-भङ्गो मा भूद् इति, स्वयम् एवोप्लुत्य गत इत्य् अर्थः ॥१३॥
॥ १०.१३.१४ ॥
इत्य् उक्त्वाद्रि-दरी-कुञ्ज-गह्वरेष्व् आत्म-वत्सकान् ।
विचिन्वन् भगवान् कृष्णः स-पाणि-कवलो ययौ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अद्रिषु तेषां दरीषु । कुञ्जेषु लतादि-पिहितोदर-विवरेषु । गह्वरेषु च ॥१४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पाणौ कवलं पाणि-कवलं तेन सह वर्तत इति, स-पाणि-कवलो हस्त-हृहीत-ग्रासः । विचिन्वन् अन्विष्यन् ॥१४॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मनो वत्सकान् इति गोप-राज-कुमारत्वेन स्नेह-विशेषेण चान्य-वत्सानाम् अपि तदीयत्वाद् विचिन्वन्—हेतौ शतृङ् अन्वेष्टुम् इत्य् अर्थः । यद् वा, अद्र्य्-आदिषु विचिन्वन् सन् ययौ—तत्र तत्र बभ्रामेत्य् अर्थः ।
ननु, कथम् एवम् एकाकित्वेन गमनादिकं सम्भवेत् ? तत्राह—भगवान् परम-दयालुः । किं च, कृष्णः सर्व-चित्ताकर्षक-मधुर-लील इति, स-पाणि-कवलत्वं कर्तव्य-श्री-ब्रह्म-मोद-विशेषार्थं वयस्य-वर्ग-सन्तोषार्थं वा ज्ञेयम् ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मनो वत्सकान् इति, गोप-राज-कुमारत्वेन स्नेह-विशेषेण चान्य-वत्सानाम् अपि तदीयत्वात् विचिन्वन् अन्वेष्टुम् इत्य् अर्थः । यद् वा, अद्र्यादिषु विचिन्वन् सन् ययौ, तत्र तत्र बभ्रामेत्य् अर्थः । तत्रापि स-पाणि-कवल एव स्वयं कथम्-भूतोऽपि भगवान् कृष्णः स्वयं भगवान् अपीत्य् अर्थः । अहो पश्यत निज-जन-दयालुताम् इति भावः ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्म-वत्सकान् इति सर्वत्र स्वईयता-बुद्ध्या भगवान् अपि तथा ययौ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-पाणि-कवल इति वत्सान्वेषण-समयेऽपि किञ्चिद् भोक्तुम् इति भावः ॥१४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विचिन्वन् अन्वेष्टुं स-पाणि इति वत्सान्वेषणेऽपि किञ्चिद् भोक्तुम् इत्य् अर्थः ॥१४॥
॥ १०.१३.१५ ॥
अम्भोजन्म-जनिस् तद्-अन्तर-गतो मायार्भकस्येशितुर्
द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तद्-वत्सान् इतो वत्सपान् ।
नीत्वान्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो यः पुरा
दृष्ट्वाघासुर-मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अम्भो जन्मनः पद्माज् जनिर् यस्य स, ब्रह्मा तद्-अनन्तरे तस्मिन्न् अवसरे गत आगतस् तच्-छिद्रं प्राप्तो वा । मञ्जु मनोहरम् अन्यद् अपि महित्वं महिमानं द्रष्टुं तस्य वत्सान् इतः स्थानात् पुलिनाद् वत्सपांश् चान्यत्र नीत्वा स्वयं तिरोबभूव । प्रभवतः श्री-कृष्णस्य ॥१५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अम्भो जन्म-**जनिर् इति जड-वंश्यत्वात् सचेतनोऽपि जड एव यद् भगत्य् अपि स्वमायां ततानेति । ततः पूर्वम् एव ब्रह्मण आगतत्वाद्-गत-शब्द-प्रसिद्धार्थ-त्यागान् औचित्याद् वार्थान्तरम् आह—प्राप्तौ वेति । अन्तरोऽवसरे छिद्रे इति हलायुधः । श्री-कृष्णस्य सकाशात् ॥१५॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अम्भो जन्म-जनिर् इति नाभि-कमलजत्वात् परमानुग्राह्यत्वं सूचयति । ईशितुर् जगदीशस्य । यद् वा, पितृत्व-गुरुत्वादिना निजेश्वरस्य, तथा माया कौतुक-कापट्यम्, तद्-युक्त अर्भकस्य । यद् वा, मायया कृपयार्भकस्य सतः ।
यद् वा, अ-कार-प्रश्लेषेण न विद्यते माया भक्तेषु यस्य । किं वा, न तिष्ठति माया तेषु यस्मात् स चासाव् अर्भकश् च । यद् वा, अमायं विशुद्धम् अर्भाणां तेषां, कं सुखं यस्मात् । यद् वा, मायात्र चिच्-छक्तिः, अत एव ईशितुर् निजैश्वर्य-प्रकटन-परस्येत्य् अर्थः । अन्यद् अघासुर-मोक्षणाद् उक्त-भोजनाद् वा, परम् अपि द्रष्टुम् इति परीक्षणादि-निरस्तम् । भक्ताव् एव च पर्यवसायितुम् । तस्य वत्सान् इत एक-स्थानाद् अत्र स्थितान् वा, अन्यत्र अन्यतः अन्यत्र-स्थितान् वा । एतच् च श्री-भगवतः परोक्षाय । तच् च मोहं प्राप्स्यतः श्री-ब्रह्मणो बहिर् दृष्ट्यैवेत्य् ऊह्यम् । नीत्वा एव नीत्वा मायया मोहयित्वान्तर्धाप्य चेत्य् अर्थः । मायाशये शयाना मे [भा।पु। १०.१३.४१] इति, मन्-माया-मोहितेतरे [भा।पु। १०.१३.४२] इति । स्तुतौ च, मायां वितत्य [भा।पु। १०.१४.९] इत्य्-आदि-श्री-ब्रह्मोक्तेस्, तथा स्वयैव माययाजोऽपि [भा।पु। १०.१३.४४] इत्य्-आदि-श्री-शुकोक्तेश् च । यद्य् अपि तन्-माया-शक्त्या श्री-भगवत्-प्रियतमानां तेषां, मोहनम् आच्छादनं च न घटते, तथापि श्री-ब्रह्म-मुदे तन्-माया श्री-भगवतानुमोदिता सती सर्वं कर्तुं शक्ताभूद् इत्य् ऊह्यम् । अत एव श्री-बलदेवेनापि, एतच् चाग्रे सम्यग् अभिव्यक्तं भावि । कुरूद्वह हे सद्-राज-कुलोद्भव ! इति सत्तमस्य ब्रह्मणोऽपराधोऽभवद् इति, विचारेण न मन्तव्यम् इति भावः । अन्तर-दधात् कुत्राप्य् आच्छन्नो भूत्वा स्थितः ।
किं वा, सुनिभृतम् आत्म-लोकं गतो भयादिना श्री-भगवद्-दर्शनाशक्तेः । कौतुकेन चोरवल्-लीनतोपपत्तेर् वा, प्रभवतो नित्याभिनवतया प्रभावं वितन्वतः श्री-कृष्णस्य, तेन कृतम् इत्य् अर्थः । यद् वा, पञ्चमीयम्, श्री-कृष्णाद् अघासुर-मोक्षणम् । यद् वा, प्रभवो जन्म तस्माद् आरभ्य-अघासुरस्य पाप-स्वरूपस्य दैत्यस्य मोक्षणम् अपुनरावृत्ति-लक्षणां मुक्तिम् इत्य् अर्थः । अत एव परमं विस्मयं प्राप्तः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रभवत इति कर्तरि षष्ठी, प्रभुणेत्य् अर्थः । अम्भो जन्म-जनिः महा-पुरुष-नाभि-कमलाज् जातत्वेन स्वतः सर्वज्ञोऽपि प्रभुणा तादृशानन्त-शक्ति-युक्तेन कर्त्रा अघासुरस्य अपि मोक्षणं दृष्ट्वा यः परं विस्मयं प्राप्तः । सोऽपि ईशितुस् तच्-छब्द-प्रथम-व्यपदेशास्पदस्यापि अन्यद् अपि तत् तादृशं मञ्जु महित्वं द्रष्टुम् अन्विष्ट-तच् छिद्रः सन् नितः स्थानाद् वत्सान् वत्सपांश् च अन्यत्र नीत्वा श्री-भगवद्-अन्वेषण-पर्यन्त-श्री-वृन्दावन-प्रवेशान्तरे स्थापयित्वा स्वयम् अन्तरधात् चोर इव । वत्सान् पुलिनम् आनिन्ये यथा-पूर्व-सखं स्वकम् [भा।पु। १०.१४.४२] इति, मायाशये शयाना मे [भा।पु। १०.१३.४१] इत्य्-आदि । वक्ष्यमाणेभ्यस् तु पुनस् तत्र तत्रैवानीय रक्षितवान् इति ज्ञेयं । तेषां श्री-कृष्ण-तुल्य-गुणानाम् अपि ब्रह्म-माया-परिभव-प्रायत्वं भगवद्वन् नर-लीलात्वेनैव सम्भवतीति ज्ञेयम् । अन्यथा नर-लीलत्वासिद्धेः ।
ननु, यद्य् एवं प्रकट-माहात्म्यो भगवान्, ब्रह्मा च सर्वज्ञः, तर्हि कथं विस्मयं प्राप्तः ? कथं वा पुनः कदर्थन-प्रायां परीक्षाम् इव कृतवान् ? तत्राह—माया-मोहनता तद्-युक्तस्य अर्थकस्य सर्व-मोहनार्थक-लीलस्येत्य् अर्थः, तन्-मोहनतया मुहुर् ऐश्वर्य-ज्ञानाच्छादनाद् इति भावः । प्राक्तन-तत्-तद्-बाल्य-लीला-मोहनतावद् अधुनापि वन्य-भोजन-लीला-मोहनतयैव विगत-साध्वसीकृत्य विस्मितीकृत्य च तादृश-तद्-ऐश्वर्यान्तरान्वेषणाय, तथा प्रवर्तितोऽसाव् इति विवक्षितं । हे कुरूद्वह ! इति पश्यैतादृशी तद्-बाल्य-लीला-मोहनता या परम-ज्ञान-दृढ-चित्तं ब्रह्माणम् अपीत्थं मोहयतीति व्यज्यते ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : माया-मोहवता तद्-युक्त-अर्भकस्य सर्व-मोहनार्भक-लीलस्येत्य् अर्थः । पुनः पुनर् ब्रह्मणोऽपि मोहे सिद्धान्तोऽयम् ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अम्भो जन्मनः कमलाज् जनिर् यस्येति जडवंशत्वात् स चेतनोऽपि ब्रह्मा जड एव यद् अयं, भगवन्तं परीक्षितुं महा-मायावीन्य् अपि तस्मिन् मायां विततान् एत्य् आक्षेपो ध्वनितः अत्र वत्सान् पुलिनम्-आनिन्ये, यथा-पूर्व-सखं स्वकम् [भा।पु १०.१४.४२] इत्य् उत्तर-ग्रन्थ-विरोधात् नित्य-विज्ञानानन्द-स्वरूपस्य भगवतस् तत् प्रिय-सखानां बालकानां च चतुर्मुख-मायया मोहन-मनौचित्यान् न व्याख्येयं । यत् तु पूतनादीनाम् अपि मायया भगवन्-मात्रादीनाम् अपि मोहनं, तत् खलु विस्मय-रसाधायक-तत् तल्-लीला-सिद्ध्य् अर्थ । लीला-शक्त्यानुमोदनाद् एव ।
न-तु स्वतः अत्र तु ब्रह्म-मायया कृष्ण-सखानां केवल-स्वापनेन का लीला-सिद्धिर् अत एषां, योग-माययैव मोहनं कृष्ण-माया-हतात्मनाम् इत्य् अग्रिम-वाक्याच् च ज्ञेयं । न-च कृष्ण-माया-मोहितानाम् एव तेषां, ब्रह्म-कर्तृकम् अन्यत्र नयनं व्याख्येयम् उपरिष्टाद् इत एते\ऽत्र कुत्रत्या मन्-माया-मोहितेतरे इति ब्रह्म-वाक्यान् अन्तरं सत्याः । के कतरेणेति ज्ञातुं नेष्टे कथञ्चनेति श्री-शुकोक्तेः, नहि कृष्ण-सखानाम् असत्यत्वं तेन वक्तुम् उचितम् । अत्ओ मायिकानाम् एव बाल-वत्सान्आं हरणं ब्रह्मणा कृतम् इत्य् एवम् अत्र व्याख्येयं । ब्रह्मा तद् अन्तरे तस्मिन्न् अवसरे गत आगतस् सन् अन्यद् अपि महित्वं महिमानं द्रष्टुम् अर्भकस्य ईशितुः श्री-कृष्णस्य वत्सान् इतः पुलिनात् वत्सपांश् च अन्यत्र नीत्वा अन्तरधात् तिरो-बभूव । यत् तन्-माया-भगवन्-माया-कारणकम् एव, तत् सर्वं मायया मोहत एव ब्रह्मा महित्वं द्रष्टुं माया-कल्पितान् एव । वत्सान् वत्सपान् अन्यत्रानयद् इत्य् अर्थः । अद्य माया मायया मोहयित्वा चोरितेषु वत्स-वत्सपेषु किम् अयम् ऐश्वर्यं, किम् अप्य् अद्भुतं करोति ज्ञात्वा । किं स्वयं तान् एवानेष्यति मह्यं प्रार्थयिष्यते वा, न किम् अपि ज्ञास्यतीति वेति, विचारो मायया मोहनं विना तस्य न सम्भवेत् । अतस् तस्मिन् चोरयितुम् उद्यते सति योग-मायैव सत्यान् वत्स-पालकान् आच्छाद्य बहिरङ्ग-माया-द्वारा सद्यः कल्पितान् एव, तांस् तम् अदर्शयद् इति ज्ञेयं । प्रभवतः प्रभोः कृष्णात् अघासुरस्य मोक्षणं दृष्ट्वा यो विस्मयं प्राप्तः ॥१५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं स-जग्धि-सभां विहाय वत्सान् अन्वेष्टुं भगवति गतेः विरिञ्चः क्षीरधिनाथोक्त-तत्-प्रभावोऽपि स्तुत-तन्-मातृ-गर्भोऽपि दृष्टाघमोक्षण-तन् मञ्जु-महिमापि पूनर् मोहयन्न् अस्यैश्वर्यं परीक्षिष्ये इति, हृदि निधाय स्वामिनि तस्मिन् मायां व्यतानीत् । तद् वितान-लक्षणेनापराधेन हेतुना स्वामि-माया तं व्यमोहयद् इत्य् आह—अम्भो जन्म इति, अम्भोजन् मनः पद्माज् जनिर् यस्य स । पद्म-भूर् जड-जातत्वाद् एव स्वामि-परीक्षण-लक्षणधी-जाड्यभाग् इति भावः ।
तद् अन्तर अघ-मोक्षणावसरे वृन्दाटवीं गतः अर्भकस्य नन्द-बालस्येशितुः सर्वेश्वरस्याघ-मोक्षण-मञ्जु-महिम्नोऽन्यद् अपि मञ्जु-महित्वं द्रष्टुं, तस्य वत्सान् इतः पुलिनाद् वत्सपांश् च अन्यत्र नीत्वा चौरवद् अन्तर**-दधाद्** इति, यत् तु तस्यैव माया प्रकृतान् वत्स-तत्-पालान् चोरयितुम् इच्छति तस्मिन् योग-माया तांस् तत्र तत्रैवाच्छाद्य स्वमास-भूतया त्रि-गुणया तत् तुल्यान् अन्यान् सृष्ट्वा तम-दर्शयत् । तया विमोहितः स तान् अन्यत्र अनयद् इत्य् अर्थः । मद्-विमुष्ट-वत्सादिकोऽयं किं कुर्यात् ? किम् ऐश्वर्यं प्रकाशयेद् विज्ञाय वा, तान् एवानयेन् माम् एव वा, प्रार्थयेतेति विमर्शो माया-विमोहेन विना न सम्भवेत्, न च, हरि-सखानां पद्म-भूमायया विमोहः शक्यो वक्तुं हरि-तुल्येषु तेषु तन्-मायायाः असामर्थ्यात्, कृष्ण-माया-हतात्मनाम् [भा।पु १०.१४.४३] इत्य् अग्रिम-वाक्याच् च प्रकृतास् ते तत्र तत्रैवाच्छन्नास् तस्थुः, वत्सान् पुलिन-मानिन्ये यथा-पूर्व-सखं स्वकम् [भा।पु १०.१४.४२] इत्य् उत्तराध्याय-वाक्यात्, कीदृशः स इत्य् आह—यः पुरा प्रभवतो नन्दार्भकाद् अघासुर-मोक्षणं दृष्ट्वा परं विस्मयं प्राप्तः ॥१५॥
॥ १०.१३.१६ ॥
ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् ।
उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उभौ अपि वत्सान् वतस्पंश् चेत्य् अर्थः । विचिकाय अन्वीक्षितवान् ॥१६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततस् तत्र वनादिष्व् इत्य् अर्थः ॥१६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो रक्षणानयनाद् धेतोस् तत्-पश्चाद् इति वा, पुलिने एत्य आगत्य वत्सपान् अप्य् अदृष्ट्वा, च-काराच् छिक्यादीनि च उभौ अपि इति कदाचिन् मम विलम्बेनातिदुःखिताः सन्तो मद्-अन्वेषणार्थम् एव सखायस् ते भोजन-सामग्री-सहिताः कुत्रापि गता इति, वत्सपान् वत्सकान् अपि समन्ततः सर्वत्र सम्यक्तया विचिकाय मृगयाञ्चक्रेऽदर्शन-मात्रेणैव स्नेह-भराक्रान्त्या ज्ञान-घन-मूर्तेर् अपि विचार-तिरोधानात्, यतः कृष्णो व्रज-जन-स्नेह-विशेषाकुल इत्य् अर्थः ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तत्-पश्चात् च-काराच् छिक्यादीनि च, उभौ अपि इति क्वचित् मम विलम्बेनातिदुःखिताः सन्तो मद्-अन्वेषणार्थम् एव सखायस् ते भोजन-सामग्री-सहिताः कुत्रापि गता इति, वत्सपन् अन्यत्रैव गता इति, वत्सकान् अपि अदर्शन-मात्रेणैव स्नेह-भराक्रान्त्या पूर्ण-ज्ञानात्मनोऽपि विचार-तिरोधानाद् एवम् उक्तम् ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अदृष्ट्वैत्य न तु अप्राप्येत्य् उक्तम् । अतस् तत्र स्थितन् ज्ञातान् अप्य् अदृष्ट्वा अदर्शनम् अभिनीयेत्य् अर्थः । मन्-मायया मोहित एवायम् इति ब्रह्माणं मिथ्याभिमानं ग्राहयितुम् इति भावः । ततश् च उभौ अपि वत्सान् बालांश् च विचिकाय विस्मय-विषादाद्य्-अभिनय-पूर्वकं नटवत् तद्-अन्वेषणम् अभिनिनायेत्य् अर्थः । तत्रोद्वहत् पशुप-वंश-शिशुत्व-नाट्यं [भा।पु। १०.१३.६१] इत्य् अग्रेतनोक्तेः ॥१६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वस्तान् स्थितान् एवादृष्ट्वा अप्राप्येत्य् अनुक्तेस् तेषाम्, अदर्शनम् अभिनीयेत्य् अर्थः । ततः शाब्वलादेत्य पुलिनेऽपि वत्सपान् अदृष्ट्वा उभौ अपि वत्सान् वत्सपांश् च समन्ततो वने विचिकाय पद्म-भुवो मिथ्या-भूत-मोहकताभिमान-ग्रहणाय विषदाभिनये नटवत् तद्-अन्वेषणम् अभ्यनैषीत्, तत्रोद्वहत्-पशुप-वंश-शिशुत्व-नाट्यम् [भा।पु। १०.१३.६१] इति वक्ष्यमाणात् ॥१६॥
॥ १०.१३.१७ ॥
क्वाप्य् अदृष्ट्वान्तर्-विपिने वत्सान् पालांश् च विश्व-वित् ।
सर्वं विधि-कृतं कृष्णः सहसावजगाम ह ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विधि-कृतं ब्रह्मणा कृतम् ॥१७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विश्व-वित् सर्वज्ञः ॥१७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्तर्-विपिने वन-मध्ये एवेति मध्याह्ने तेषाम्, आत्मानं विना व्रज-गमनासम्भवात् सर्वं मायया बालकानां मोहनम् अन्तर्धापनं च तथा, तस्यान्तर्धानं निज-मञ्जु-महिम-दर्शनाभिलाषादिकं चाशेषं सहसा सद्य एव ज्ञातवान् । ह स्फुटम् । यतो विश्व-वित् सर्वज्ञः । अतः कृष्णः साक्षाद् भगवान् ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्तर्-विपिने वन-मध्य एवेति मध्याह्ने तेषां आत्मानं विना व्रज-गमनासम्भवात्, सर्व-बालकादीनां मोहनान्तर्धापने तद्-अन्तर्धानं निज-मञ्जु-महिम-दर्शनाभिलाषादिकं चाशेषं सद्य एव ज्ञातवान् । ह स्फुटम् । यतो विश्व-वित् सर्वज्ञः । तत् कुतः ? यतः कृष्णः स्वयं भगवान्, एतावन्तं कालं तस्य बहिर्-अन्वेषण-लीलाद्य्-अभिनिवेशं दृष्ट्वैव ज्ञान-शक्तिस् तटस्थासीत् । सम्प्रति तु मनस्य् एव तद्-अनुसन्धितायां तु जातायां स्व-स्यैवावसरे समुपस्थितेति भावः । ईशितुर् इच्छा-शक्ति-पराधीनत्वात् सर्व-शक्तेः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : लीला-वेशं दर्शयति—कौ अप्य् इत्य् अनेन । ज्ञानाद्याः शक्तयः स्वान् अवसरे समयम् इव तटस्थास् तिष्ठन्ति स्वावसरे स्व-सेवायै तम् उपतिष्ठन्तीति ज्ञापितम् ॥१७.२०॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनः किं कृत्वा विचिकायेत्य् अत आह—कौ इति । विश्व-विद् अपि कौ अपि शाद्वलाद् अन्यत्रापि वत्सान् पुलिनाद् अन्यत्रापि पालान् अदृष्ट्वा विचिकायेति पूर्वेणैवान्वयः ।
ननु, कृष्णः किं वत्सादि-चौर्य-क्षण एव विवेद तत्-क्षणानन्तरं वा, किञ्चिद् अन्विष्य वा, विवेदेत्य् अत आह—सर्वम् इति । सहसा चौर्य**-**क्षण एव ब्रह्मणा अतर्कितम् एवेत्य् अर्थः । अतर्किते तु सहसा इत्य् अमरः॥१७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पुनः कथं ? विचिकायेत्य् अत्राह क्वापि शाद्वलाद् अन्यत्रापि वत्सान् पुलिनाद् अन्यत्रापि पालान् अदृष्ट्वा इति प्राग्वत् विचिकायेति पूर्वेणैवानुषङ्गः ।
ननु, चौर्य**-क्षण** एवावजगाय तद्-अनन्तरं किञ्चिद् अन्विष्य वेति चेत् तत्राह—विश्व-विद् इति । सर्वज्ञोऽसौ सर्वम् इदं विधि-कृतं तद्-धेतुकम् इति, सहसा चौर्य-क्षण एव पद्म-भुवातर्कितम् एवावजगाय । अतर्किते तु सहसा इत्य् अमरः ॥१७॥
॥ १०.१३.१८ ॥
ततः कृष्णो मुदं कर्तुं तन्-मातॄणां च कस्य च ।
उभयायितम् आत्मानं चक्रे विश्व-कृद् ईश्वरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उभयायितं वत्स-तत्-पाल-रूपेण वर्तमानम् इत्य् अर्थः । अयं भावः । यदि तूष्णीम् आसे, तर्हि तन्-मातॄणां विषादः स्याद्, यदि च तान् एवानयिष्यामि तर्हि ब्रह्मणो मोहो न स्याद् इति । तद् उभय-प्रीतये तथा चक्रे इति ।
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो विधि-कृत-कर्म-ज्ञानानन्तरम् । उभय इवाचरतीति उभयायते ततोऽकर्मकत्वात् कर्तरि क्तः । उभयायितम् इति । इत्य् अर्थ इति—निष्कर्षः । किम्-अर्थम् उभयायितम् इति चेत् तत्राह—अयं भाव इति । तूष्णीं स्थितौ तत्-तन्-मातॄणां तत्-तद्-वियोगजः क्लेशः तेषाम्, आनयने विधि-मोहश् च न भावीत्य् एतद्-अर्थं, तथा चक्र इति तात्पर्यम् । विश्व-कृद् इति तत्र परिश्रमाभावम् आह ॥१८॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वत्स-वत्सपाश् चेत्य् एवं द्वयं तत्-स्वरूपं चक्रे । यतः कृष्णो भक्त-वात्सल्याकृष्ट-चित्त इत्य् अर्थः । अनेन सच्-चिद्-आनन्द-घन-रूपता तेषां सूचिता ।
ननु, मायातीता दृष्टिः कथं सम्भवेत् तत्राह—विश्व-कृतां । ब्रह्मादीनाम् अपि ईश्वरः सर्व-शक्ति-प्रदः प्रभुर् न तस्याशक्यं किञ्चिद् अस्तीति भावः । अन्यथा मायिक-सृष्ट्या ब्रह्मादिभिः सह साम्यापत्तिः ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तन्-मातॄणां सर्वदा स्वं पुत्रीयन्तीनां मुदं कर्तुं, **च-**कारात् विना स्व-सङ्गं क्षणम् अपि स्थातुम् अपारयतां मित्राणाम् अप्य् अजगरोदर-प्रवेशवद् आत्मनो लीला-वेशाद् अन्योत्पातशङ्कया तान् कतिचिद् दिनान्य् एकान्ते रक्षितुं च, द्वारकायां यादवान् इवेति ज्ञेयम् । एवं तेषां मायाशये शयानत्वात् न तद् विरह-दुःखं भगवतश् च तद् दर्शनेन तैः सहातिविच्छेद इति नासमञ्जसं च, आनुषङ्गिकं प्रयोजनम् आह—कस्य च इति । तस्याष्टादशाक्षर-तदीय-महा-मन्त्रोपासकत्वात् एवं कृष्णेच्छयैव तेषां, मोहो न ब्रह्म-माया-सामर्थ्येनेति लभ्यते । तत् तच् च आत्म-लीला च साधारण-दृष्ट्या न सिद्ध्यतीति । आत्मानम् एवोभयायितम् उभयं वत्सा बालाश् चेत्य् एवं । किं वा, स्वयं भगवान् वत्स-वत्सपाश् चेत्य् एवं द्वयं तद् वद् आचरन्तं चक्रे, नातीव भेदाद् उभयम् इव चक्र इत्य् अर्थः । शीघ्र-तत् तद् अवतार-सामर्थ्यं द्योतयति-विश्व-कृतां महा-पुरुषादीनाम् अपि ईश्वरः स्वयम् अवतारीति ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वं पुत्रीयन्तीनां तत्-मातॄणां, च-कारात् विना स्व-सङ्गम् अतिष्ठतां तेषां, स्वीयेन लीला-वेशेनाघोदर-प्रवेशवद् उत्पातान्तर-शङ्कया कतिचिद् दिनानि चैकान्ते तान् रक्षितं च द्वारकायां यदून् इवेति ज्ञेयम् । तत्-तद् आत्मा इति बहुव्रीहिणा तत्-तद्-यत्नवान् भवेद् इत्य् अर्थः । आत्मायत्नो धृतिर् बुद्धिः स्वभावो ब्रह्म वर्ष्म च इत्य् अमर-नानार्थ-वर्गात् । प्रासङ्गिकं प्रयोजनम् आह—कस्य चेति । एक-स्वरूपत्वाद् उभयायितम् एव, न तूभयम् । विश्व-कृतां पुरुषाद्य्-अवताराणाम् ईश्वरोऽवतारी विष्णुमयम् इति-औपचारिक-विकारार्थे मयट् ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च भगवन्-मायया मोहिते ब्रह्मणि मोहकं-मन्ये, स्व-भवनं गते सति स्वस्य ब्रह्म-माया-मोहनाभाव-मात्र-व्यञ्जकः पूर्ववत् स्वीयैर् वत्स-बालकैः सह भोजनादि लीलाभिर् विहारो, नाति-चित्रम् इत्य् अतो । मायातीतान् बलदेव-पर्यन्तान् अपि स्वपरीवारान् मोहयित्वा लोके स्व-माया-बलं दर्शयितुं परम-वत्सलानां गो-गोपीनां स्वस्मिन् पुत्र-भावम् अभिलषन्तीनां मनोरथं पूरयितुं ब्रह्माणं मोहयित्वापि, पुनर् महा-विस्मय-समुद्रे प्रक्षेप्तुम् एकस्मिन्न् एव स्वाभीष्ट-देवे श्री-भागवतोपदेष्टरि वासुदेवे भक्तिमन्तं । खलु तं च परःसहस्रान् वासुदेवान् दर्शयितुं स्वयम् एव वत्स-बालकाद्य् आकारो बभूवेत्य् आह—तत इति । कस्य ब्रह्मणः आत्मानं स्वयम् एव उभयायितम् उभयं वत्सत्वं बालकत्वं च अयितुं प्राप्तं, वत्स-बाल-रूपिणम् इत्य् अर्थः । विश्व-कृता महत् स्रष्टादीनाम् अपि ईश्वर इति तत्र सामर्थ्यं द्योतितम् ॥१८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ विरिञ्चस्य मोहकरं परमैश्वर्यं भगवता प्रकाशितम् इत्य् आह—तत इति । मोहकम्-मन्ये विरिञ्चे स्वलोकं गते सति ईश्वरो नन्दार्भक आत्मानं स्वम् उभयायितं चक्रे । उभयं वत्सत्वं वत्स-पालकत्वञ्चायितं प्राप्तं, वत्सं तत्-पालक-रूपिणं व्यञ्जयद् इत्य् अर्थः । किम् अर्थम् ? इत्य् अत्राह—स्वस्मिन् पुत्र-भावं वाञ्छन्तीनां सखि-मातॄणां तत् तत्-पुत्रतया मुदं कर्तुं कस्य च विरिञ्चस्य विज्ञस्याप्य् अज्ञतया स्वमी-परीक्षायां प्रवृत्तस्यापि पुत्रत्वाद् भृत्यत्वाच् चानुग्राय्य् अस्य परः सहस्र-वासुदेव-रूप-दर्शनेन महा-विस्मय-रसानुभावन-लक्षणां मुदं कर्तुम् इत्य् अर्थः । यतो विश्व-कृतः तत्-तद्-व्यञ्जने समर्थ इत्य् अर्थः ॥१८॥
॥ १०.१३.१९॥
यावद् वत्सप-वत्सकाल्पक-वपुर् यावत् कराङ्घ्र्य्-आदिकं
यावद् यष्टि-विषाण-वेणु-दल-शिग् यावद् विभूषाम्बरम् ।
यावच् छील-गुणाभिधाकृति-वयो यावद् विहारादिकं
सर्वं विष्णु-मयं गिरोऽङ्गवद् अजः सर्व-स्वरूपो बभौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव दर्शयति—यावद् इति । वत्सपानां वत्सकानां च अल्पकं वपुः यत्-प्रमानकं प्रमाणम् अनतिक्रम्येत्य् अर्थः । एवम् उपर्य् अपि योज्यम् । तत्र दलं पर्ण-रूपो वाद्य-विशेषः । यद् वा, अत्र वेणु-दलं वेणु-खण्डम् । शिक् शिक्यम् । यद् वा, यावद् वत्सपादि-वपुः, तावत् सर्व-स्वरूप-अजः कृष्णो बभौ इत्य् अर्थः । उत्तरत्राप्य् एवम् । कथम् ? सर्वं विष्णु-मयं जगत् [वि।पु। ५.१.२०] इत्य् अत्र, प्रसिद्धा या गीः, तस्या अङ्गवत् सा गीर् एव अर्थ । स्वरूपेण प्रत्यक्षा यथा, तथा बभौ इत्य् अर्थः ॥१९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अल्पम् एव अल्पकं तच् च वपुर् अल्पक-वपुः, वत्सप-वत्सकानाम् अल्पक-वपुर् वत्सप-वत्सक-अल्पक-वपुः । यावत् प्रमाणम् अनतिक्रम्य वत्सप-वत्सक-अल्पक-वपुर् यावद्, वत्सप-वत्सक-अल्पक-वपुःन् । यावद्-अवधारणम् इत्य् अव्ययी-भावः । समासे श्रम-दर्शनात् प्रकारान्तरम् आह—यद् वेति । यावत्-तावतोर् नित्य-सम्बन्धात् । उपर्य् उत्तरत्र-शब्दावग्रपरौ ज्ञेयौ । सर्वं विष्णु-मयम् एतद् अग्र इति शब्दं प्रक्षिप्यान्वयो विधेयः । मुख्यार्थ-प्रतिपत्तये पदान्तराध्याहारः इति न्यायात् । अङ्गवत् शरीरवत् इत्य् अर्थ इति । सर्वं विष्णु-मयम् इति वाक् साक्षाच्-छरीरिणि इव अर्थतः, प्रत्यक्षा जातेति तात्पर्यम् ।
यद् वा*,* तस्या वाचोऽङ्गवद् एक-देशवत् । नहि, सर्वं जगद् विष्णु-मयं तदा जातं नन्द-व्रजस्यैव वत्सप-वत्साश् चेति कृत्वैक-देश-वद् इत्य् उक्तम् ।
यद् वा, सर्व-स्वरूपो अजो बभौ । कथं ? सर्वं विष्णु-मयम् इति, गिरो अङ्गवत् यथा-अज ओंकारोऽङ्गवत् अङ्ग-अवयव-सकल-वर्ण-स्वरूपेण भातीत्य् अर्थः । तद् यथा शकुनैः सर्वाणि पर्णानि सन्तृणानि, एवम् ओंकारेण सर्वा वाक्-सन्धिता, ओंकार एवेदं सर्वं [मा।उ। १] इति श्रुतेः ।
अथ वा, सर्वं विष्णु-मयं मत्वेति शेषः । अजः कृष्णः, सर्व-स्वरूपो बबहु । कथम् ? गिरो अङ्गवत्त्वं वर्ण-समूह-रूपत्वाद् वा, ओंकाराद् व्यञ्जित-स्पर्श-स्वरोष्मान्तस्थ-भूषितां [भा।पु। ११.२१.३९] इत्य् अग्रे वक्ष्यमाणत्वात् ॥१९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सर्वं विष्णु-मयम् इत्य्-आदि । सर्वं विष्णु-मयं जगत् इत्य्-आदि वचसोऽङ्गवत् शरीरवत् प्रत्येकम् अभूद् इत्य् अर्थः । इयान् हि विशेषः—तत्र जीव-स्वरूपेणात्राखण्ड-चिद्-रूपेण विष्णु-मयता सर्वस्य ॥१९॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव प्रपञ्चयति—यावद् इति यादृग् इत्य् अर्थः । अल्पकेति क-प्रत्ययो बाल्येनात्यल्प-प्रमाणापेक्षया । यद् वा, सच्-चिद्-आनन्द-रूपत्वेन परम-महत्त्वेऽपि लौकिकत्वापेक्षया ।
यद् वा, अल्प-माहात्म्येन न्यूनः को ब्रह्मापि यस्मात् तादृशं वपुर् इति, चिद्-रूप-सच्-चिद्-आनन्द-घन-श्री-ब्रह्म-विग्रहाद् अपि तेषां, वपुषो विशेषोऽभिप्रेतः, पूर्वम् अपि स्वत एव तेषां तादृशत्वात् । आदि-शब्देन मस्तकाद्य्-अङ्गानि रोम-नख-गन्ध-स्वर-वर्णादीनि च, शरीरं तद्-भूषणादि-परिच्छदं चोक्त्वान्तर-बाह्य-करणादिकं च तत्-तच्-चेष्टादि-द्वाराह—यावच्-छील इत्य्-आदिना । शीलं स्वभावः शान्तत्व-वाग्मित्व-दक्षत्वादि, गुरुः करुणादिः, अभिधा नाम वाक्यं वा, कृतिः कर्म । द्वितीयादि-शब्दात् पितृ-मात्र्-आदिषु व्यवहरणं पूर्वाचरित-स्मरणादिकं चात्मनश् च स्वत एव तस्यांशत्वेन पुराप्य् अभेदात् ।
यद् वा, नित्य-प्रियत्वात् सच्-चिद्-आनन्द-विग्रहत्वेन प्रायः पृथक्त्वासम्भवाद् अनुक्तिः । यद् वा, आदि-शब्देन सोऽपि गृहीतः । यद् वा, स्वयम् आत्मेति वक्ष्यमाणेन स एवोक्तः । तावत् तत् तत् सर्वं विष्णु-मयं श्री-भगवद्-आत्मकं बभूव, स्वरूपे मयट् । व्यापकत्वापेक्षया विष्णु-शब्दः । एवम् एकस्यैव वत्सपादि-रूपत्वेन ततः पृथक्त्वेन चाभिन्नत्वं भिन्नत्वम् अपि उक्तम् ।
तत्रोपयुक्तो दृष्टान्तः—गिरो वाक्यस्य तिङ्-सुब्-अन्तचय-लक्षणस्याङ्गं कर्तृ-कर्मादि-पदं यथा तद्वद् इति । भेदाख्यो वैष्णव-सिद्धान्तो दर्शितः । ततश् च न जायते योगादिना कथम् अपि चेतस्य् अपि नाविर्भवतीत्य् अजः, सोऽप्य् एवं तत्-तत्-स्वरूपः सन् बभाव् अशोभत, भक्त-वर्गैर् इव वेष्टितत्वात् ।
यद् वा, बभौ इत्य् एक एव निज-शक्ति-विशेषतस् तत्-तद्-रूपेण प्रकाशते, न तु पृथक् तत्-तद्-रूप-धारणेत्य् अर्थः । अत एवोभयायितम् इत्य्-आदि-प्रत्ययात् तद्-उभयवद् आचरितम् इत्य्-अर्थः । तत्त्वत उभयत्वाभावाद् एव ।
इह सद्-वैष्णव-सिद्धान्त-विशेषः, श्री-भागवतामृतोत्तर-खण्डे विवृतोऽस्ति । अत्रापि स एव दृष्टान्तो द्रष्टव्यः । कर्ण-मय्या गिरो वाण्या एकस्या अङ्गं वर्णो यथा शब्दादि-रूपत्वेन नाना-विधो भाति तद्वद् इति । इत्थं श्री-भगवद्-रूपत्वेन च सिद्धे सच्-चिद्-आनन्द-घन-मूर्तित्वेऽपि स्व-मुखाद्य्-अभेदवद् इन्द्रियादि-भेदोऽपि सिद्धः । एवम् अविशेषोऽपि बहु-विशेषो वैष्णव-सिद्धान्तस्य परमानुकूल एवाद्वैत-प्रातिकूल्यापत्तेः । श्री-वैष्णवैस् तु विग्रह-विग्रहि-भावो भगवतो मन्यते ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव प्रपञ्चयति—यावद् इति । यावच् छब्देनात्र, यथा-स्थान-सङ्ख्या-प्रमाणादिकं वाचनीयम् । ततश् च यावत् सङ्ख्यानि वत्सपानां वत्सकानां च, तथा तेष्व् अल्पकानां वत्सपानुचर-बालानां वत्सकानुचर-क्रीडनम् एषां, वपूंषि तावद् इत्य् अर्थः । एवं यावन्ति यत्-प्रमाणानि कराङ्घ्र्य्-आदीनि तावद् इत्य् अर्थः । यावद् यष्टीत्य् अत्र यत्-प्रकाराणीति ज्ञेयम् । यावच् छील-गुणा इत्य् अत्र यावन्ति यादृशानीत्य् अर्थः । तत्र शीलं सुस्वभावः गुणास् तूत्कर्ष-हेतवः शिक्षा-विशेषा अभिधा वाणी तत्-तन्-नामाभिनिवेशो वा, आकृतिर् आकारः द्वितीयादि-शब्दात् पितृ-मात्र्-आदिषु व्यहरणं पूर्वाचरित-स्मरणादिकं च तावत् तत् तत् सर्वम् अज एव बभौ । यतः सर्वं तच् चान्यच् च प्राकृताप्राकृतं वस्तु स्वरूपम् एवात्मकं यस्य सः ।
तत् तु सर्वं कीदृशम् ? विष्णु-मयं श्री-भगवद्-आत्मकं, न तु जीवात्मकम्—आत्मा ज्ञान-मयः शुद्धः इत्य् अत्र स्वरूपेऽपि मयट् । दर्शनात् व्यापकत्वापेक्षया विष्णु-शब्दः । अतो यद् गतं भवच् च भविष्यच् च इत्य्-आदि-श्रुतेश् चानन्तेत्य् आख्यानाच् च, सर्वं तत्र प्रवर्तत एव व्यक्त्य्-अपेक्षयैव तत्-तज्-जन्मादि-व्यपदेश इति भावः । तद् एवाह—अज इति । एवम् एकस्यैव वत्स-वत्सपादि-रूपत्वेन ततः पृथक्त्वेन चाचिन्त्य-शक्त्याभिन्नत्वम् अपि उक्तं तत्रोपयुक्तो दृष्टान्तः । गिरो वाक्यस्य तिङ्-सुब्-अन्तचय-लक्षणस्य अङ्गं कर्तृ-कर्मादि-पदं, यथा तद्वद् इति तिङ्-सुब्-अन्त-चयस्य तद्-अभिन्नत्वे श्री-भगवतस् तु तद्-भिन्नत्वेनापि स्थितत्वे दृष्टान्तोऽयम् उपचारात् ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : विष्णु-मयम् इत्य् औपचारिक-विकारार्थे मयट् ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एव प्रपञ्चयति—यावद् इति । यत् परिमाणकं वत्सपानां वत्सकानां च अल्पकं वपुः जात्य्-अपेक्षया एक-वचनम् अत्यल्पानि कोमलानि वपूंषीत्य् अर्थः । एवम् उत्तरत्रापि विहारादिकम् इति, अत्रादि-शब्दात् पितृ-मात्रादिषु व्यवहरणं । पूर्वाचरितं मरण-आदिकं च अजः अजन्यतयैव भीत एव कृष्णः सर्व-स्वरूपः तावद्-वपुर्-आदि-रूपः सन्—बभौ सर्वं विष्णु-मयं जगद् इति प्रसिद्धा या गीस् तस्या अङ्गवत् सा गीर् एव मूर्ता प्रत्यक्षा यथा बभूवेत्य् अर्थः ॥१९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद् एव प्रपञ्चयति—यावद् इति । वत्सपानां वत्सकानां च अल्पकं वपुर् यावत्, यत्-परिमाणकं तद् अनतिक्रम्येत्य् अर्थः । जात्य्-अपेक्षयैक-वचनम् अल्पानि कोमलानि वपूंषीत्य् अर्थः । एवम् उत्तरत्रापि योज्यं, यावद्-विहारादिकम् इति, अत्रादि-शब्दात् पितृ-आदि-व्यवहरो ग्राह्यः । अजोऽपूर्व-देह-योगाशून्यः कृष्णः पूर्वोक्तं सर्व-विष्णु-मयं स्वात्मकं प्रकाश्य तत्-सर्व-स्वरूपो बभौ । अजायमानो बहुधा विजायते इति वेद-वाचोऽङ्गवत् सा गीर् एव मूर्ता यथा प्रत्यक्षाभूद् इत्य् अर्थः । गिरः प्रणव-लक्षणस्य महा-वाक्यस्य-अङ्गवत् सा, यथा ऋग्-आद्य्-अङ्गतया बहु-रूपा तद्वद् इत्य् एके ॥१९॥
॥ १०.१३.२० ॥
स्वयम् आत्मात्म-गोवत्सान् प्रतिवार्यात्म-वत्सपैः ।
क्रीडन्न् आत्म-विहारैश् च सर्वात्मा प्राविशद् व्रजम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं सर्वात्मा सन् व्रजं प्राविशत् । कथं स्वयम् आत्मा इव प्रयोजकः । आत्म-रूपान् गो-वत्सान् इति, कर्मापि स्वयम् एवेत्य् उक्तम् । आत्म-रूपैर् वत्स-पैः प्रतिवार्य । प्रयोज्य कर्तापि स्वयम् एव । आत्म-विहारैः क्रीडन्न् इति क्रियापि कारकाण्य् अपि स्वयम् एवेत्य् अर्थः ॥२०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या । प्रयोजकः प्रेरकः । इत्य् अर्थ इति । क्रियाकारक-रूपेण स एव तदासीद् इति भावः ॥२०॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोवत्सान् इति स्वभावतो\ऽति-वत्सलानां गवां वत्सेषु परमापेक्ष्यत्वं सूचितम् । अत एव प्रतिवार्य वानान् निवर्त्य सर्वात्म-शब्द-प्रयोगेण पूर्व-वत्सादिभ्यो भेदो दर्शितः, तेन च भगवत् सेन्ह-पात्रत्वे तेभ्यो न्यूनत्वम् एषाम् अभिप्रेतम् । तच् च—नाहम् आत्मानम् आशासे [भा।पु। ९.४.६४] इत्य्-आदि भगवद् वचनतो व्यक्तम् एव तथापि तेषां, वने परित्यागो माया-मोहितत्वात् तेषां, किञ्चिद्-दुखादर्शनात् । एतद् अग्रे\ऽभिव्यक्तं भावि ।
ननु, मा भवतु मोहेन तेषां दुःखम्, श्री-कृष्णस्य तु प्रिय-जन-वियोग-दुखम् आशङ्क्यते? तत्राह—सर्वात्मा । तान् सर्वान् अपि निज-शक्ति-विशेषेण सदा व्याप्य वर्तत एवेत्य् अर्थः । दिवा-दर्शनं स्वतो भवत्य् एव, अन्येदापि न विच्छेद इति भावः । यद् वा, सर्वात्मा सर्व-वयस्यादि रूपत्वेनैव जानन्, न तु स्व-स्वरूपेणेत्य् अर्थः ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गो-वत्सान् इति स्वभावतोऽतिवत्सलानां गवां वत्सेषु परमापेक्षत्वं सूचितम् । अत एव प्रतिवार्य बलान् निवर्त्य सर्वत्र आत्म-शब्द-प्रयोगेन पूर्ववत्सादिभ्यो भेदो दर्शितः । तेन च भगवत्-स्नेह-पात्रत्वे तेभ्यो न्यूनम् एषाम् अभिप्रेतम् । तच् च—नाहम् आत्मानम् आशासे [भा।पु। ९.४.६४] इत्य्-आदि भगवद्-वचनं व्यक्तम् एव ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवम् आरब्धे भोजने ब्रह्मणापहृतान् वत्सान् स्वयं विचिन्त्य पुनस् तत्रैवागत्य तथैव तेनापहृतान् बालकांश् च वीक्ष्य यद् अकार्षीत् तद् आह—यावद् वत्सप इत्य्-आदि । स्र्वः स्वरूपः सन् स वभौ । तद् रूपया ऐच्छिक्या प्रकाशिकया मायया सर्वेषां वत्सपानां वत्सकानां च तत्-तद्-वपुर् वयः-स्वभावानां च वेणु विषाण-भूषान्वराणां च स्वरूप इत्य् अर्थः । यावच्-छब्दः साकल्यार्थः प्रमाणार्थश् च । यावद्-आदि सर्वं पदं क्रिया-विशेषणम् । सर्वं विष्णुमयं जगत् इति वचसोऽङ्गवच्-छरीरवत् पूर्वं तद्-वचो वचस्त्वेनैव स्थितम्, सम्प्रति तद् वचः शरीरीव विषाण-दल-शिक्यादीनाम् उपपादनम् । एवम् अमूर्तानां गुणशीलाभिधादीनां च ॥२०.३६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च मध्याह्नापराह्न्योः पूर्ववद् एव क्रीडितवतस् तस्य सायं गोष्ठ-प्रवेशम् आह—स्वयम् इति पञ्चभिः । एवं सर्वात्मा सन् व्रजं प्राविशत् । कथं ? स्वयम् आत्मैव प्रयोजक आत्म-रूपान् गो-वत्सान् इति, कर्मापि स्वयम् एव आत्म-रूपैर् वत्सपैः प्रतिवार्येति प्रयोज्य-कर्तापि स्वयम् एव आत्म-विहारैः आत्मभिर् आत्म-भूतैर् बालकैः सह ये विहारा वेणु-वादनादयस् तैः क्रीडन्न् इति । क्रिया-कारकाण्य् अपि स्वयम् एव इत्य् अर्थः । अत्र पुलिने वत्स-पाला उपविश्य भुञ्जत एव, शाद्वलेषु वत्सास् तृणं चरन्त्य् एव, तान् अन्वेष्टुं कृष्णो विपिने पर्यटत्य् एव, क्षण-मात्रायमाणं वर्षं व्याप्येत्ये-तत्-त्रिकं सर्वैर् अदृष्टं । तत् तत् स्थलेषु प्रतिदिनं भ्रमद्भिर् अन्यैर् लीला-परिकरैः कृष्ण-स्वरूप-वत्स-बालैर् बलदेवेनापि वर्षवातातिपाद्यैर् अप्य् अस्पृष्टम्, एवाचिन्त्य-शक्त्या योग-मायया व्यराजीद् एव यस्यैक एव कृष्णो ब्रह्मणा कवल-वेत्रादि-लक्ष्म-लक्षितो मोहान्ते ददृशे तुष्टुवे चेति ज्ञेयम् ॥२०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ततश् च मध्याह्नापराह्नयोः पूर्ववद् एव कृत-विहारस्य तस्य सायं व्रजे प्रवेशम् आह—स्वयम् इति पञ्चभिः । एवं सर्वात्मा सन् व्रजं प्राविशत् । कथं ? स्वयम् आत्मैव प्रयोजकः आत्म-भूतान् गो-वत्सान् इति, कर्मापि स्वयम् एव आत्म**-**भुतैर् वत्सपैः प्रतिवार्येति प्रयोज्यकर्तापि स्वयम् एव, आत्म-विहारैर् आत्म-भूतैर् बालकैर् ये विहारा वेणु-वादनादयस् तैः क्रीडन्न् इति । क्रियाकार-काराद्य् अपि स्वयम् एवेत्य् अर्थः ॥२०॥
॥ १०.१३.२१ ॥
तत्-तद्-वत्सान् पृथङ् नीत्वा तत्-तद्-गोष्ठे निवेश्य सः ।
तत्-तद्-आत्माभवद् राजंस् तत्-तत्-सद्म प्रविष्टवान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्-तद्-आत्मा तत्-तद्-गोप-बाल-रूपोऽभवत् । ततस् तत्-तत्-सद्म प्रविष्टः ॥२१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-तद् आत्मा श्रीदाम-सुदाम-सुबल-मङ्गल-मधुमङ्गलादि-स्वरूपः गोष्ठे गो-बन्धनादि-स्थले । स कृष्णः ॥२१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् तद् आत्मा तत् तद् वत्सप-रूपः, प्रविष्टवान् अभवत् । प्रविश्यासीद् इत्य् अर्थः । यद् वा, वत्स-रूपत्वम् अर्थाद् अर्थानुगतं तं तम् एव, स्व-स्व-गेहं प्रविष्टवान् सन्, तत् तद् आत्मा तत् तत्-स्वभाव अभवत् । स्तन्य-पानार्थं नीचे-हेम्बाराव हरितादिकं वेणु-वादन-वत्साह्वानादिकं च स्वभावं प्राप्त इत्य् अर्थः । हे राजन्न् ! इत्य् आश्चर्येण स्वम्बोधनम् । यद् वा, हे भक्त्या राजमान ! इति भवतैवैतद्-बोद्धुं शक्यत इति भावः । यद् वा, राजन् ! मातृ-सेन्ह-विशेषार्थं राजमानः सन् ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् तद् आत्मा तत्-तत्-स्वरूपः, प्रविष्टवान् अभवत् प्रविश्यासीद् इत्य् अर्थः । यद् वा, अर्थात् तत्-तद्-रूपेण स्व-स्व-गेहं प्रविष्टवान् सन्, तत्-तद्-आत्मा तत्-तत्-प्रयत्नवान् अभवत् । वत्स-द्वार-निरोध-गोपाह्वान-सङ्केतित-वेणु-वादनादिकं च कृतवान् इत्य् अर्थः । आत्मा यत्नो धृतिर् बुद्धिः स्वभावो ब्रह्म-वर्ष्म च इत्य् अमरः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्-तद्-आत्मा इति बहुव्रीहिणा, तत्-तद्-यत्नवान् भवेद् इत्य् अर्थः । आत्मा यत्नो धृतिर् बुद्धिः स्वभावो ब्रह्म-वर्ष्म च इत्य् अमर-नानार्थ-वर्गात् ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-तद्-आत्मा श्रीदाम-सुदाम-सुबलादि-बालक-स्वरूपः कृष्णस् तत्-तत्-सद्म प्रविष्टवान् इत्य् अन्वयः ॥२१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्-तद् आत्मा श्रीदाम-सुदाम सुवलादि-बाल-स्वरूपः ॥२१॥
॥ १०.१३.२२ ॥
तन्-मातरो वेणु-रव-त्वरोत्थिता
उत्थाप्य दोर्भिः परिरभ्य निर्भरम्2 ।
स्नेह-स्नुत-स्तन्य-पयः-सुधासवं
मत्वा परं ब्रह्म सुतान् अपाययन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपिका-मोहम् आह—तन्-मातर इति । तन्-मातरो वेणु-रवेण त्वरयोत्थिताः सत्यः सुतान् मत्वा परं ब्रह्म इव दोर्भिर् उत्थाप्य उदुह्य । पयः-सुधासवं पयः एव सुध-वत् स्वादु आसववन् मादकं पाययाम् आसुर् इत्य् अर्थः ॥२२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा गोपीनाम् अतिस्नेहः प्रादुर् आसीद् इत्य् आह—तन्-मातर इति । इत्य् अर्थ इति । पयस्य् अपि तदा वैलक्षण्यम् अभूद् इति भावः । निर्भरम् अतिशयेन स्नेह-स्नुतत्वेन स्नेह-मयम् । तत्-प्रेमास्वाद-महा-रसिकः कृष्णः सुधाम् इव स्वादु आसवम् इव मादकं पिबन् पिबन्न् अनुबभूव । तल्-लोभेन तस्यापि तत्-पुत्रो भाव-वासना प्राग् आसीत् । सापि ब्रह्म-मोहन-प्रसङ्गे एव सिद्धेति । अत एव स्व-सखीन् अपि वर्ष-पर्यन्तं मोहयामासेति ज्ञेयम् । अत एव स्तन्यामृतं पीतम् इति ब्रह्मोक्तिश् च सङ्गंस्यते ॥२२॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तन्-मातॄणां च मुत्-प्रकारं प्रपञ्चयन् पूर्वतः स्नेह-विशेषं वक्तुं तल्-लक्षणं दर्शयति—तन्-मातर इति । उत्थाप्य अङ्के गृहीत्वेत्य् अर्थः । यद् वा, प्रणामाय भूमौ पतितान् तत उत्थाप्य । परं ब्रह्म श्री-कृष्णं तथोक्तिः परमैश्वर्य-प्रकटनात् । त्वर इति निर्भरम् इति सुधासवम् इत्य्-आदिकं च पूर्वतो विशेषस् तत्-तत्-सम्बन्धाद् एव ज्ञेयः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तन्-मातॄणां चमत्कारं प्रपञ्चयन् पूर्वतः स्नेह-विशेषं वक्तुं तल्-लक्षणं दर्शयति—तन्-मातर इति । उत्थाप्य अङ्केषु गृहीत्वेत्य् अर्थः । यद् वा, प्रणतान् उत्थाप्य उदूह्येति क्वचित् पाठः । किं त्व् अत्र उदूह्य उत्थाप्य इति टीका-वैपरीत्यं ज्ञेयम् । अत्रैव टीकायाः साफल्यं स्याद् । इति च परं ब्रह्म इति श्री-शुकस् तत्-पारमेश्वर्य-स्फूर्त्या तासां, भाग्यं श्लाघते—अहो भाग्यम् [भा।पु। १०.१४.३२] इत्य् आदिवत् त्वर इति निर्भरम् इति । सुधा-आसवम् अत्याधिकं च पूर्वतो विशेष-द्योतनाय ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त यशोदाया इवास्माकम् अपि कृष्णः किं पुत्रो भवेद् इति । गोपीनां मनोरथस्य सिद्धिं बहिर् अलक्षितां वदन्न् एव, तासां मोहनम् आह—तन्-मातरस् तत्-तन्-मातरः सुतान् मत्वा परं ब्रह्मइव दोर्भिर् उत्थाप्य अङ्के कृत्वा स्तन्यं पयो ऽपाययन् उदूह्येति, क्वाचित्कः पाठश् च निर्भरं परिरभ्य इति । निर्भरं स्नुतेति पूर्वतः स्नेहाधिक्य-सूचकं । परं ब्रह्मापि सुधा-आसवं मत्वा तासां स्तन्यं पयोऽपिबद् इत्य् आह—सुधा-आसवम् इति । स्नेह-स्तुतत्वेन स्नेहमयं तत् प्रेमास्वाद-महा-रसिकः कृष्णः सुधाम् इव स्वादु आसवम् इव मादकं पिबन्न् अनुबभूवेति । तल्-लोभाद् एव तस्यापि तत्-तत्-पुत्रीभाव-वासना प्राग् आसीत् । सापि **ब्रह्म-**मोहन-प्रसङ्गे एव सिद्धेति । अत एव स्वस्य सखीन् अपि वर्ष-पर्यन्तं योग-मायया मोहयामासेति ज्ञेयम् । स्तन्यामृतं पीतम् अतीव ते मुदा [भा।पु। १०.१४.३१] इति ब्रह्मणापि वक्ष्यमाणत्वात् ॥२२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वाञ्छित-तत्-पुत्र-भावानां गोपीनां वाञ्छां पूरितवान् इति, ब्रुवंस् तासां मोहनम् आह—तद् इति । तत्-तन्-मातरः सुतान् मत्वा परं ब्रह्मइव दोर्भिर् उत्थाप्य उत्सङ्गे कृत्वा स्नेहेन स्नुतं स्तन्य-पय-अपाययन् निर्भरम् इति, पूर्वतः स्नेहाधिक्यं सूच्यते । कीदृशं ? तत् पयः, सुधाम् इव स्वादु आसवम् इव मादकम् इत्य् अर्थः । पर-ब्रह्मापि तादृशं विज्ञाय तद् अपिबद् इति भावः । स्तन्यामृतं पीतम् अतीव ते मुदा [भा।पु। १०.१४.३१] इति ब्रह्मोक्तेः । ये यथा मां [गीता ४.११] इति तद्-वाक्यात् तत्-तद्-ब्रह्मानुसारेण तत्-तत्-पुत्र-ब्रह्माय हरेः स्पृहाभूद् एव यद्-अर्थं । स्व-सखानां वत्सरम् एकं योग-माया मोहनम् ॥२२॥
॥ १०.१३.२३ ॥
ततो नृपोन्मर्दन-मज्ज-लेपना-
लङ्कार-रक्षा-तिलकाशनादिभिः ।
संलालितः स्वाचरितैः प्रहर्षयन्
सायं गतो याम-यमेन माधवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं याम-यमेन तत् तत् काल-क्रीडा-नियमेन सायं गतः प्राप्तः स्व-आचरितैः स्वस्याचरितैः, शोभनैर् आचरितैर् वा । मातॄः प्रहर्षयंस् ततस् ताभिर् उन्मर्दनादिभिर् उपलालित इति ॥२३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वस्याचरितैः नित्यं क्रियमाणैः स्व-विहारैर् इति । नित्य-नित्य-विहाराणां हर्ष-जनकत्वा-सम्भवं मत्वार्थान्तरम् आह—शोभनैर् इति । शोभना एव हर्ष-जनका भवन्ति । नित्य-विहारापेक्षया विलक्षणत्वाद् इति भावः । ततः पयः-पायनानन्तरम् । ताभिर् गोपीभिः ॥२३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् तद्न् बालक-रूपो\ऽसौ तत् तद् गृहेषु सर्वेष्व् एव सुखम् अवसद् इत्य् आह—तत इति । यामो दिनान्त्य-प्रहरस् तस्मिन् यमो, गृहागमन-नियमः, सदा वर्षा-काल-तृण-सम्पत्त्या तृप्तानां गवां व्रजे तदानीम् आगमनतः पूर्वम् एव वत्सानाम् आगमनावश्यकत्वात् तेन गृहं गतः । सायम् उन्मर्दनादिभिः सम्यग्-लालितो मातृभिः । हे नृप ! इति यथा भवाद् दृशो महा-राजस्य पुत्राणां मातृभिर् उन्मर्दनादिकं क्रियते, तद् वद् इति भावः । यद् वा, नृपस्य-एव-उन्मर्दनादिभिर् उन्मर्दनं तैलादिना, मज्जः [मज्जनं] स्नपनं लेपनं चन्दनादिना । आदि-शब्दाद् वन्य-वार्ता-प्रश्न-शायनादीनि माधवः श्री-कान्त इति । लक्ष्मी-रूपाणां श्री-राधादीनाम् अपि सन्तोषणं स्वेन रूपेणाभिप्रैति । यद् वा, मा विद्या चिच्-छक्तिर् इति यावन्, तस्याः पतिः । तथा च श्री-हरिवंशे—
मा विद्या च यतः प्रोक्ता तस्या ईशो यतो भवान् । > तस्मान् माधवनामासि धवः स्वामीति शब्दितः [ह।वं। ३.८८.४९] इति,
तद् रूपेण तत्र वर्तमानत्वात् ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् तद् बालक-रूपोऽसौ तत् तद् गृहेषु सर्वेष्व् एव सुखम् अवसद् इत्य् आह—तत इति । यामो दिनान्त्य-प्रहरः तस्मिन् यमः, गृहागमन-नियमः, सर्वदा वर्षर्तुवत् तृण-सम्पत्त्या तृप्तानां गवां तदानीम् आगमनतः पूर्वम् एव वत्सानाम् आगमावश्यकत्वात् तेन गृहं गतः । सायं दिनान्त्य-दण्ड-षट्कं व्याप्य उन्मर्दनादिभिः सम्यक् लालितो मातृभिः । हे नृप ! इति पूर्व-पूर्ववत् सर्वत्र ज्ञेयम् । उन्मर्दनं तैलादिना मज्जः स्नपनं लेपनं चन्दनादिना । आदि-शब्दाद् वन्य-वार्ता शयनादीनि माधवः श्री-कान्तः इति तद्-गृह-सम्पत्ति-वृद्धिर् अपि सूचिता ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यामानां यमेन उपरमेण यमु उपरमे तस्मिन् सतीत्य् अर्थः । माधवः कृष्णस् तत् स्वरूप-भूत-बालक-गणश् च गतः, स्व-स्व-गृहम् इति शेषः । ततश् च उन्मर्दनं सुगन्ध-तैलाभ्यञ्जनं तद् अनन्तरं मज्जः स्नपनं मातृभिः सायं संलालितः ॥२३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यामो वासरान्त्यः प्रहरस् तस्य यमेन उपरमेण हेतुना माधवस् तत् तद् बालक-वपुस् तत् तत् स्व-गृहं गतस् तन्-मातृणैर् उन्मर्दनादिभिः सायं संलालित अभूद् इति शेषः । उन्मर्दनं सुगन्धि-तैलाभ्यङ्गनं ततो मज्जः स्नपनं शोभनैर् आचरितैर् माटॄः प्रहर्षयन् ॥२३॥
॥ १०.१३.२४ ॥
गावस् ततो गोष्ठम् उपेत्य सत्वरं
हुङ्कार-घोषैः परिहूत-सङ्गतान् ।
स्वकान् स्वकान् वत्सतरान् अपाययन्
मुहुर् लिहन्त्यः स्रवद् औधसं पयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गवां मोहनम् आह—गाव इति । परिहूता आहूताश् च ते सङ्गताश् च तान् ॥२४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथैव गवाम् अपि स्नेहाधिक्यम् आह—गाव इति । परिहूतेन-आह्वानेन सङ्गतान् प्राप्तान् । मुहुर् लिहन्त्य इति स्नेहादिक्यम् आह । ऊधः स्तनाधिकरणं गवाम् अवयवस् तत्र भवम् औधसम् ॥२४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गवां च तथैव स्नेह-विशेषम् आह—गाव इति । स्वकान् स्वकान् इति गवां वत्सल्यातिशयेन स्वभावतः । स्व-पुत्रस्यैव पायनात् वत्सतरान् वृद्धिं गतान् अपि वत्सान् औधसम् आपीन-सम्बन्धि, सत्वरम् इति मुहुर् इति, स्रवद् इत्य्-आदिकं चात्रापि पूर्वतो विशेषो ज्ञेयः ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गवां च तथैव स्नेह-विशेषम् आह—गाव इति । स्वकान् स्वकान् इति स्वेषाम् एव निकट-प्राप्तत्वात् । ममता-सम्बन्धनातिशयाच् च, वत्सतरान् वृद्धिं गतान् अपि वत्सान् औधसम् आपीनभरम् इति । तदीय-सर्व-पयः श्रवणारम्भाभि-प्रायेण तत्रापि सत्वरम् इति मुहुर् इति स्रवद् । इत्य्-आदिकं पूर्वतो विशेष-ज्ञापकम् ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोपीनाम् इव ततो गवाम् अपि मोहनम् आह—गाव इति । परिहूता आदावाहूतस् ततः सङ्गताश् च तान् अत्रापि सत्वरम् इति । मुहुर् लिहन्त्य इति मुहुः स्रवद् इति, स्नेहाधिक्य सूचकम् ॥२४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ गवां मोहनम् आह—परिहूता आहूतास् ततः सङ्गताश् च तान् इहापि सत्वरम् इति। मुहुर् लिहन्त्यः स्रवद् इति पूर्वतः स्नेहाधिक्यं सूच्यते ॥२४॥
॥ १०.१३.२५ ॥
गो-गोपीनां मातृतास्मिन्न् आसीत् स्नेहर्धिकां विना ।
पुरोवद् आस्व् अपि हरेस् तोकता मायया विना ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतावत् तु वैषम्यं कृष्णस्यापि दुर्निवारम् आसीद् इत्य् आह—गो-गोपीनाम् इति । गवां गोपीनां च अस्मिन् कृष्णे मातृता उपलालनादि-रूपा पुरोवद् एवासीत् । किन्तु स्नेहर्धिकां विना । स्नेहाधिक्यं त्व् इदानीं विशेष इत्य् अर्थः । आसु गो-गोपीषु हरेस् तोकता च बाल-भावनादि पूर्ववद् एवासीत् । किन्तु मायया विना, ममेयं माता अहम् अस्याः पुत्र इति मोहं विना इत्य् अर्थः ॥२५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतावद् वक्ष्यमाणम् । वैषम्यम् आह—किं चेति । इत्य् अर्थ इति—स्नेहाधिक्यम् एव वैषम्यम् इति भावः । इत्य् अर्थ इति—मायायाः स्वाश्रय-मोहकत्वाभावाद् इति भावः ।
ननु, श्रीदामादिषु तन्-मातॄणां यावान् स्नेहस् तावान् एव पुत्रीभूते श्री-कृष्णेऽपि भवितुम् अर्हति । यावच्-छील-गुणाभिधाकृति-वयः [भा।पु। १०.१३.१९] इत्य्-आद्य्-उक्तेः । अत्रोच्यते—कृष्णो महा-महेश्वरत्वात् स्वाधीनीकृत-ब्रह्मादि-पर्यन्तोऽपि प्रेम्णः खल्व् अधीन एव । प्रेमा तु न तस्याधीन इति, प्रेम्णि तस्य प्रभुत्वाभावात् तेन प्रेमा सङ्कुचितीकर्तुम् अशक्यम् । अत एव स्वामि-चरणैर् अपि उक्तम् । एतावत् तु वैषम्यं कृष्णस्यापिइ दुर्निवारम् इति । स च प्रेमा वात्सल्यादि-रूपस् तन्-मातृषु विराजत एव इति, कृष्णः स्व-मात्रादि-समीपे स्वैश्वर्यम् अनुसन्धानोऽधीनीभूत एव सदा तिष्ठति, यथा चक्रवर्तिनः पार्श्वे मण्डलेश्वरः । न च तस्यैवं पारतन्त्र्यं दूषणम् इति वाच्यम्, प्रत्युत भूषणम् एव । यथा जीवस्य माया-पारतन्त्र्यं दुःखार्थकं तथैवेश्वरस्यानन्द-रसमयस्यापि प्रेम-पारतन्त्र्यं प्रतिक्षण-वर्धमान-निरतिशयानन्दार्थकम् एवेति महानुभवैर् अनुभूतम् । श्री-यशोदायां तु श्री-कृष्णोऽहम् इति प्रतिपादनेऽप्य् आसु श्रीदामाहम् इत्य्-आदि-च्छद्म-प्रतिपादनान् मायाधिक्यम् एवेति ज्ञेयम् ॥२५॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-तत्-कारणं तासां स्नेह-विशेषम् । तत्-कारणं च तासु श्री-भगवत् सेन्ह-विशेषम् आह—गो-गोपीनाम् इति । स्नेहस्य ऋद्धिकां वृद्धिम् । अन्यत् तैर् व्यञ्जितम् । तत्र च तोकता । पूर्व-बालकवद्-बालभावो विचित्र भोज्य-भूषणाक्रीडनक-प्रार्थनादि-रूपो मायया तासू ममता विशेषात्मिकया विना पूर्वं तस्य पुत्रत्वाभावेन तासु ममता-विशेषो नासीत् । इदानीं च पुत्रत्वापत्या स जात इत्य् अर्थः । एवं श्री-भगवति तासां स्नेह-वृद्धिस् तासु च तस्य पुत्रत्वेन ममता-विशेषो भगवतो\ऽपि दुर्निवार इति, तात्पर्येण श्री-भगवतो माहात्म्य-विशेष एव सम्पद्येतेति, अथवा कापट्यं विना पूर्व तासु किञ्चिद् वञ्चनम् आसीत् । अधुना च श्री-यशोदायाम् इव निजाशेष-रहस्य प्रकाशनात् तत्रासीद् इत्य् अर्थः ।
यद् वा, माया दया, तया विनेत्य् अधुना तत् तद् वल-रूपस्य श्री-भगवतस् तासु स्नेहो विशेषतो जात इत्य् अर्थः । यद् वा, अकार प्रश्लेषेणामाया कापट्याभावस् तया विना इति पूर्व-पुत्राणां तासू कापट्यं नासीद्, इदानीं च रसिक-शिरोमणेस् तस्य विचित्र-धूर्तता स्वभावेन तासां सुद्मार्थम् इव तद् अभूद् इत्य् अर्थः ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पूर्वेभ्यओ वत्स-पालेभ्यस् तद्-अंशानां वैलक्षण्यं दर्शयंस् तत्-तद्-भाग्येन श्लाघ्यमानाभ्योऽपि तत्-तद्-रूप-मातृभ्योऽपि तन्-निज-रूप-मातुर् वैलक्षण्यम् आह—गो-गोपीनाम् इति । पुरोवद् इत्य् उभयत्राप्य् अन्वयः । पूर्वत्र प्राक्तन-बालकेष्व् इव अस्मिन् बाल-वत्स-रूपं श्री-कृष्णे मातृता मातृ-भाव आसीत् । किं तु स्नेहर्द्धिकां विना पूर्वेषु स्नेह एव अस्मिंस् तु तत्-समृद्धिर् इत्य् अर्थः । आच्छन्नेऽपि रूपे वस्तु-स्वभाव-स्थानाच् छाद्यत्वात् अग्निवत् उत्तरत्र पुरोवत् श्री-यशोदायाम् इव आस्व् अपि शुद्ध-मातृ-भावासु हरेस् तोकता बाल-भाव एवासीन् नान्य-भाव इत्य् अर्थः । किं तु मायया विना तस्यां श्री-कृष्णोऽहम् इति सत्य-प्रतिपादनम् । तद्-उचित-साक्षात्-कृष्ण-रूप-प्रकाशनम् । च आसु तु स श्रीदामाहं सुदामाहम् इति छद्म-प्रतिपादनम् । तद्-उचित-रूपान्तर-प्रकाशनं चेत्य् अर्थः । वक्ष्यते च—वत्स-पाल-मिषेण स [भा।पु। १०.१३.२७] इति । सर्व-विलक्षणस्य प्राप्तेऽपि साम्ये सर्व-विलक्षणता-हेतु—स्वभाव-विशेष-प्राप्त्य्-असम्भवात् ईश्वरवत् अत्रोभयत्रापि समान एव, विना-शब्दः ततश् चार्थोऽपि समान एव युज्यते । माया-शब्दस्य च स्वार्थ एव स्थितिः स्यात्—माया दम्भे कृपायां च इति विश्व-प्रकाशात् । मोह-वाचित्वं तु लक्षणयैवेति आस्व् अप्य् इति तत्राप्य् अपि-शब्देन समान-कोटि-निविष्टायाः श्री-यशोदायाः प्राप्तिः समञ्जसा स्यात् । अन्यथा हरेर् अपीत्य् अवक्षद् इति विवेचनीयम् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं पूर्वेश्यो वत्स-बालेश्यस् तद्-अंशानां वैलक्षण्यं दर्शयन् तत्-तद्-भाग्येन शलाध्यमानाभ्योऽपि तत्-तद्-रूप-मातृभ्यः स्वरूप-मातुर् वैलक्षण्यम् आह—गो-गोपीनाम् इति । पुरोवद् इत्य् उभयत्राप्य् अन्वेति, पूर्वत्र पूर्व-बालकेष्व् अपि उत्तरत्र श्री-यशोदायाम् इवेत्य् अर्थः । तस्याम् इवास्व् अपि शुद्ध-मातुभावाभावासु हरेस् तोकता तोकभाव एवासीत् नान्य-भावः इत्य् अर्थः । किन्तु मायया विना तस्यां श्री-कृष्ण एवाहम् इति सत्य-प्रतिपादने तद् उचित-साक्षात् कृप्ण-रूप-प्रकाशनञ् च आसु तु स श्रीदामाहं सुदामाहम् इति छद्म-प्रतिपादनं तद्-उचित-रूपान्तर-प्रकाशनन् चेत्य् अर्थः । वक्ष्यते च वत्स-पाल-मिषेण स [१०.१३.२७] इति ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, गवां गोपीनाम् अस्मिन् श्री-यशोदा-नन्देन कृष्णे मातृता सर्वा उपलालनादिमयः सर्व एव मातृ-भाव इत्य् अर्थः । पुरोवत् पूर्ववद् एव आसीत्, किन्तु स्नेह-ऋद्धिकं स्नेहाधिक्यं विना पूर्वं श्रीदाम-सुदामादिभ्यः स्व-पुत्रेभ्यो\ऽपि सकाशात् यशोदा-पुत्रे श्री-कृष्णे स्नेहर्धर् आसीत् । तस्यैव स्व-पुत्री-भूतत्वे जाते सति तदा स्व-पुत्रेष्व् अपि तथैव स्नेह ऋधिर् इति यशोदा-पुत्रे । स्व-पुत्रे च तुल्य एव स्नेहो\ऽभूद् इत्य् अर्थः । आसु गो-गोपीषु हरेर् अपि तोकता बाल-भावः पूर्ववद् एव आसीत्, किन्तु मायया उपशरेणैव पुत्र-तुल्यत्वात् पुत्रत्वम् आसीत् । ब्रह्म-मोहन-दिनम् आरभ्य तु कृष्णे एव श्रीदाम-सुदामादि-रूपस् तासां पुत्रो\ऽभूद्, इति कृष्णस्य पुत्र-भावो यथार्थ एवेत्य् अर्थः ।
ननु, श्रीदामादीषु तन्-मातॄणां यावान् स्नेहस् तावान् एव पुत्री-भूते, कृष्णे\ऽपि भवितुम् अर्हति—यावच् छील-गुणाभिधाकृति-वयो यावद् विहारादिकम् [भा।पु। १०.१३.१९] इति पूर्वोक्तेः उच्यते । कृष्णो हि महा-महेश्वरत्वात् स्वाधीनी-कृत-ब्रह्मादि-स्वांश-पर्यन्तो\ऽपि प्रेम्णः खल्व् अधीन एव । प्रेमा तु न तस्याधीनः इति, प्रेम्णि तस्य प्रभुत्वाभावात्, प्रेमा सङ्कुचितो-कर्तुम् अशक्यः । अत एव स्वामि-चरणैर् अपि उक्तम्—एतावत् तु वैषम्यं कृष्णेनापि दुर्निवारम् इति । स च प्रेमा वात्सल्यादि-रूपस् तन् मात्रादिषु विराजये इति । कृष्णः स्व-मात्रादि-समीपे स्वैश्वर्य-मनन-सन्धानो\ऽधीनीभूत एव सदा तिष्ठति । यथा महा-राज-चक्रवर्तिनः समीपे मण्डलेश्वर इति, न च महा-महेश्वरस्य तस्यैवं पारतन्त्र्यं दूषणम् इति वाच्यं, प्रत्युत भूषणम् एव । यथा जीवस्य माया-पारतन्त्र्यं दुःखार्थकं, तथैवेश्वरस्यानन्द-रसमयस्यापि प्रेम-पारतन्त्र्यम् । प्रतिक्षण-वर्धमान-निरतिशयानन्दार्थकम् एवेति महानुभावैर् अनुभूतम् ॥२५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पूर्व-वृत्ताद् गोपीनां मातृ-भावात् हरेः पुत्र-भावाच् चाधुनिकस्य तस्य तस्य च विशेषम् आह—गो-गोपीनाम् इति । गवां गोपीनां च अस्मिन् यशोदा-सुते हरौ सर्वा मातृता उपपालनादिमयो निखिलो मातृभावः पुरोवत् पूर्ववद् एव आसीत् । किन्तु स्नेह-ऋधिकां विना इति पूर्वं श्रीदाम-सुवलादिषु स्वसुतेषु स्नेह एव यशोदा-सुते हरौ तु स्नेह ऋधिर् इदानीन्तु तस्यैव श्रीदामादित्वेनैक-वस्तुत्त्वाद् उभयत्र प्रेम ऋधिर् इत्य् अर्थः । आसु गोपीष्व् अपि हरे-स्तोकता बाल-भावः पूर्ववद् एव आसीत् । किन्तु मायया विनेति माया स्याच्छान्वरी बुद्धोर् इति मेदिनी । पूर्व मासां च सुतोऽहम् इति बुद्दि-रचित एव तद्-भावो न तु साक्षाद् इदानीन्तु यशोदा-सुतस्यैव श्रीदामादि-रूपत्वात् साक्षाच् च स इत्य् अर्थः ॥२५॥
॥ १०.१३.२६ ॥
व्रजौकसां स्व-तोकेषु स्नेह-वल्ल्य् आब्दम् अन्वहम् ।
शनैर् निःसीम ववृधे यथा कृष्णे त्व् अपूर्ववत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्नेह-र्द्धिम् एव दर्शयति—व्रजौकसाम् इति । यथा कृष्णे यशोदा-नन्दने स्व-पुत्रेभ्योऽपि स्नेहाधिक्यं पूर्वम् आसीत् । इदानीं स्व-तोकेष्व् अपि तथैवावर्धतेत्य् अर्थः । आ अब्दं यावत्-संवत्सरम् । निःसीम यथा भवति ॥२६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—स्व-तोकत्वेन प्रतीयमानस्यापि यशोदा-नन्दनत्वाद् इति तात्पर्यम् । निर्गता सीमा मर्यादा यत्र कर्मणि तत् तथेति ॥२६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव सर्वेषां पितृ-मात्रादीनां बाल-रूपे तस्मिन्न् एक-आब्दं नित्यम् उत्तरोत्तरम् अधिकं स्नेह-भरो व्यवर्धतेत्य् आह—व्रजौकसाम् इति । स्नेह एव वल्ली लता शनैर् नित्य-वर्धमानत्वादिना, स्व-शब्देन नित्य-तादृश-स्नेह-परम्परा-विवृद्धि-वैलक्षण्येनापि तेषु तेषां, भगवद्-बुद्धिर् नाभूद् इति दृढीक्रियते । शनैर् इति स्नेह-संलालन-क्रमापेक्षया ।
यद् वा, आच्छादनार्थम् अन्यथा परम-वैलक्षण्येन वितर्क्यत्वाद् अपूर्ववद् इति, अस्य अनु अहम् इत्य् अनेनान्वयः, वति-प्रत्ययस् तत्त्वतः श्री-कृष्णे तस्याः स्वाभाविकत्वेन आश्चर्यत्वाभावान् निःसीम यथा-स्यात्-तथा ववृध इत्य् अपरिच्छिन्नता, अन्वहम् इति नित्य-वृद्धिर् अपि उक्ता । एवम् अपरिच्छिन्नस्यापि नित्य-नूतनत्वेन वृद्ध्या प्रेमानन्दस्य ब्रह्मानन्दतोऽप्य् उत्कर्षः सूचितः । एष वैष्णव-सिद्धान्तः श्री-भागवतामृतोत्तर-खण्डे विवृतोऽस्ति ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्वच् छ्री-यशोदा-नन्दनेऽपि वैलक्षण्यम् आह—व्रजौकसाम् इति । स्व-शब्देन स्वापत्यत्वेनैव ज्ञातेष्व् अपि, न तु श्री-कृष्णत्वेनेत्य् अर्थः । स्नेह एव वल्ली शनैर् वर्धमानत्वादिना शनैर् इति । संलालन-क्रमापेक्षया तद्-अंशत्वात् तेषां, कृष्ण इत्य् उभयत्राप्य् अनु इति, यथा कृष्णे तथा तेषु ववृधे, कृष्णे तु अपूर्ववत् पूर्वं यथा नासीत्, तथा ववृधे इत्य् अर्थः ।
यद् वा, यथा यथावत् तेषु कृष्णस्य तत्-तद्-अंशेषु बालादि-शिक्य-पर्यन्तेषु, तत्-तद्-योग्यं ववृधे कृष्णे त्व् अपूर्ववद् ऐश्वर्य-युक्तं ववृध इत्य् अर्थः । पूर्वम् अपि—यावच्-छील-गुणाभिधाकृति-वयः [भा।पु। १०.१३.१९] इत्य् अनेन सहज-श्रीदामादिवद् एव शीलाद्याविर्भावस् तेषूक्तः, न तु श्री-कृष्णवद् अपि । ततः स्वरूपाधिक्यम् एव तत्र प्रेमाधिक्ये कारणं जातं, न तु शीलाद्याधिक्यम् अपीत्य् उत्तरेण श्री-कृष्णे प्रेमाधिक्यं तु दुर्निवारम् इति भावः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्वत् श्री-यशोदा-नन्दनेऽपि वैलक्षण्यम् आह—व्रजौकसाम् इति । कृष्णे इत्य् उभयत्राप्य् अनु इति, यथा कृष्णे तथा तेषु ववृद्धे । कृष्ण तु अपूर्ववत् पूर्वं, यथा नासीत्-तथा इत्य् अर्थः । यद् वा, यथा यथावत् तेषु कृष्णस्य तत्-तद्-अंशेषु बालादि-शिक्य-पर्यन्तेषु तत्-तद्-योग्यं ववृधे । कृष्णे त्व् अपूर्ववद् आश्चर्य-युक्तं ववृध इत्य् अर्थः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं यशोदा-नन्दन-कृष्ण-पुत्री-भूत-कृष्णयोः स्वरूपत ऐक्य-रूपात् स्नेहाधिक्यम् तुल्यम् उक्तम् अपि पुनः स्पष्टी-कुर्वन् यशोदा-नन्दन-कृष्णे तु गुणोत्कर्ष-हेतुकं स्नेहाधिक्यम् आह—व्रजौकसाम् इति । आब्दं वर्षं व्याप्य अन्वहं स्नेह-वल्ली इति, वल्ली यथा प्रतिदिनम् एव वर्धते, तथैवेत्य् अर्थः । यथा कृष्णे यशोदा-नन्दने पूर्वं स्व-पुत्रेभ्योऽपि वर्धमाना सा आसीत् । इदानीं स्व-तोकेषु अपि तथैव ववृधे इति । स्व-तोकानाम् अपि कृष्णत्वात् स्नेह-ऋद्धिर् उभयत्र तुल्यैवेत्य् अर्थः ।
किं च, तु-शब्द-बलात् कृष्णम् इत्य् अस्यावृत्त्या स्नेह-र्द्धेस् तुल्यत्वेऽपि कृष्णे यशोदा-नन्दन-कृष्णे तु तथापि अपूर्ववत् । नित्य-नवायमानैव तस्य सर्व-शक्ति-सौन्दर्य-वैदग्ध्यादि-गुणवत्त्वाद् अंशित्वाच् च, तासां पुत्रीभूत-कृष्ण-स्वरूपाणां तु श्रीदामाद्य्-उचित-सौन्दर्यादिमत्त्वाद् अंशत्वाच् चेति भावः । यद् वा, यथेति यथावद् एव स्नेह-वल्ली ववृधे । कृष्णे तु अपूर्ववद् एव ववृधे इत्य् आवृत्त्या विनैव व्याख्येयम् ॥२६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उभयत्र समानाम् एव स्नेह-र्द्धिम् उक्तां स्फुटयन्न् अनाच्छन्न-रूपे यशोदा-सुते विशेषम् आह—व्रजौकसाम् इति । आब्दं वर्षं व्याप्यान्वहं प्रतिदिनं स्व-तोकेषु कृष्णाविर्भावेषु श्रीदामादिषु स्नेह-वल्ली ववृधे यथा कृष्णे यशोदा-सुते शनैर् उपलालनादि-क्रमेण तु शब्दाद् आवृत्या व्याख्यायते । कृष्णे त्व् अपूर्ववन् नित्य-नवायमानैव ववृधे । तस्यांशित्वाद् अनाच्छन्न-रूप-गुणत्वाच् च परे त्व् आहुस् त्व् आवृतिः यथा यथावद् एव स्नेह-वल्ली ववृधे कृष्णे त्व् अपूर्ववद् इति ॥२६॥
॥ १०.१३.२७ ॥
इत्थम् आत्मात्मनात्मानं वत्स-पाल-मिषेण सः ।
पालयन् वत्सपो वर्षं चिक्रीडे वन-गोष्ठयोः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् आत्मा श्री-कृष्णो वत्सपो भूत्वा तत्रापि वत्सानां पालानां च मिषेण आत्मानम् आत्मना पालयन् क्रीडितवान् इत्य् अर्थः ॥२७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थं पूर्वोक्त-रीत्या । तत्रापि वत्सपत्वेऽपि । मिषेण छद्मना । इत्य् अर्थ इति—क्रीडां चक्र इत्य् एवार्थः ॥२७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स वत्स-वत्सप-रूपधरो वन-गोष्ठयोः श्री-वृन्दावने व्रजे चेति, तत्र तत्र कुत्रापि केनचिद् अपि तद्-हितं नाभूद् इति भावः । अन्यत् तैर् व्याख्यातम् । यद् वा, स कृष्ण आत्मा स्वयम् एवैकाकी चिक्रीडे, स्वस्यैव तत् तद् रूपत्वेनान्याभावात् ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स वत्स-वत्सप-रूप-धरः वन-गोष्ठयोर् इति, तत्र कुत्रापि केनचिद् अपि तद्-ऊहितं नाभूद् इति भावः । अन्यत् तैः । यद् वा, स श्री-कृष्ण आत्मा द्वितीय एव चिक्रीडे ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् आत्मा कृष्णो वत्सपो भूत्वा वत्सानां पालानां च मिषेण आत्मानम् आत्मना पालयन् क्रीडितवान् इत्य् अर्थः ॥२७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : इत्थम् एव स वत्सप आत्मा विभुर्-विज्ञानानन्द-मूर्तिः कृष्णः वत्सानां पालानां च मिषेन आत्मानं पालयन् चिक्रिडे इति । केनचिद् ऊहितो नाभूद् इत्य् अर्थः ॥२७॥
॥ १०.१३.२८ ॥
एकदा चारयन् वत्सान् स-रामो वनम् आविशत् ।
पञ्च-षासु त्रियामासु हायनापूरणीष्व् अजः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतावत्-पर्यन्तं रामस्यापि मोह एवासीत् । संवत्सरान्ते तु कथञ्चिज् ज्ञातवान् इति दर्शयन्न् आह—एकदा इति । पञ्च-षासु पञ्चसु वा षट्सु वा रात्रिषु हायनस्यापूरणीषु पूरकतयावशिष्टास्व् इत्य् अर्थः ॥२८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतावत्-पर्यन्तं किञ्चिन्-न्यूनाब्द-पर्यन्तम् । कथञ्चित् भगवत्-सूचनेन । अजः कृष्णः । हायनस्य वर्षस्य—हायनोऽस्त्री शरत्-समाः इत्य् अमरः । इत्य् अर्थ इति—अब्द-पूर्तेः पञ्चषा-रात्रिभ्यः प्राग् इति तात्पर्यम् ॥२८॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रमयति श्री-कृष्णादीन् इति रामः । अतो यद्यपि तेन सह प्रायो नित्यं वने प्रवेशस् तथाप्य् एकदा स-राम इति स्नेह-विशेषेण तं प्रति तदा तत्-तद्-रूप-धारणं तत्त्व-बोधनापेक्षयान्यथा अब्दान्ते श्री-ब्रह्मागमने सति तत्-तत्-सञ्चरणेन तस्य तत्-कौतुकानुभवासिद्धिः । यद् वा, सङ्गोपनार्थं तद्-अब्दे प्रायो वने तस्यानयनात् । वनम् आविशत् श्री-गोवर्धनान्तिक-घन-वनं प्रविवेषेत्य् अर्थः । वने स्व-प्रभावस्य स्वत एव विशेषतः प्राकट्येन तत्रैव तेन तद्-युक्तत्वात् । लौकिक-गर्भवन् न जायते, किन्तु स्वयम् एवाविर्भवतीत्य् अजः । अतो गर्भाद् अनुत्पन्नत्वे\ऽपि तस्य पुत्रता सम्भवेद् इति भावः । यद् वा, न जायते, न प्रकटो भवतीत्य् अज इति, तल्-लीलाच्छादनाभिप्रायेण ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पञ्चषास्व् इत्य् अनिश्चितोक्तिः प्रेम-मोहेन । रमयति श्री-कृष्णादीन् इति रामः । अतः प्रायो यद्यपि तेन सहैव प्रवेशः, तथाप्य् एकदा स-राम इति वृत्तान्त-विशेषोद्देशाय निर्देशः । तच् च तं प्रति तल्-लीला-तत्त्व-बोधनम्, स्नेह-विशेषेण अन्यथा अब्दान्ते श्री-ब्रह्मागमने सति तत्-तत्-संवत्सरेण तस्य तत्-कौतुकानुभव-सिद्धेः । अतः पूर्वम् अबोधने कारणं तु वक्ष्यते—अज इति । यो विनापि जन्म तत्-तत्-पुत्रतां प्राप्तः, स इत्य् अर्थः । तत् त्व् अधुना व्यक्ती-भविष्यतीति भावः ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-मोहन-प्रसङ्ग एव बलदेव-मोहनम् अपि व्यक्तीकर्तुं कथाम् आह—एकदा इति । पञ्चसु षट्सु वा रात्रिषु हायनस्य वर्षस्य आपूरणीषु पूरकतया अवशिष्टास्व् इत्य् अर्थः ॥२८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विरिञ्च-विमोहन-प्रसङ्गे बलभद्रस्यापि मोहनं वक्तुं कथम् आह—एकदा इति । पञ्चसु षट्सु वा त्रि-यामासु रात्रिषु हायनस्य संवत्सरस्यापूरणीषु पूरकतयावशिष्टास्व् इत्य् अर्थः ॥२८॥
॥ १०.१३.२९ ॥
ततो विदूराच् चरतो गावो वत्सान् उपव्रजम् ।
गोवर्धनाद्रि-शिरसि चरन्त्यो ददृशुस् तृणम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो दूरत एव गोवर्धन-शिखरे चरन्त्यो गावो व्रज-समीपे चरतो वत्सान् ददृशुः ॥२९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततस् तदा उपव्रजम् इति । गोवर्धन्एशान-कोण-कोटि-स्थारिष्ट-मर्दन-कुण्ड-समीप-प्राय-प्रदेशे । तद्-अन्तिके व्रजस्य व्याप्तेः सटीकराख्य-प्रदेशाद् ऋजु-मार्गेण चतुः-क्रोश-मयत्वात् । अथ तर्ह्य् आगतो गोष्ठम् अरिष्टो वृषभासुरः [भा।पु। १०.३६.१] इति वक्ष्यमाणत्वाच् च [वैष्णव-तोषणी] ॥२९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपव्रजम् इति श्री-राधा-देवी-कुण्डान्तिके व्रजस्य व्याप्तेस् ततस् तदा । किं वा, तेभ्यो वत्सेभ्यो विदुराद् अतिदूरे । यद् वा, गोवर्धनाद्रेर् विदुराद् उपव्रजं चरतो वत्सान् तृणं चरन्त्यो\ऽपि ददृशुर् इति स्नेहाधिक्यं बोधितम् ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तद्-अनन्तरम् उपव्रजम् । गोवर्धनेशान-कोण-कोटि-स्थारिष्ट-मर्दन-कुण्ड-समीप-प्राय-प्रदेशे । तद्-अन्तिके व्रजस्य व्याप्तेः सटीकराख्य-प्रदेशाद् ऋजु-मार्गेण चतुः-क्रोश-मयत्वात्, अथ तर्ह्य् आगतो गोष्ठम् अरिष्टो वृषभासुरः [भा।पु। १०.३६.१] इति वक्ष्यमाणत्वाच् च । तृणम् इति तत्-प्राशस्त्य-विवक्षया तद्-आवेशेऽपि सतीत्य् अर्थः । अधुना श्री-कृष्णेन वत्सतराणां चारणं किञ्चिद् वयो-वृद्ध्यायोग्यत्वाद् इति ज्ञेयम् ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोवर्धन-शृङ्गे तृणं चरन्त्यो गावः तस्माद् अविदूरात् व्रजस्य निकटे चरतो वत्सान् ददृशुः ॥२९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गोवर्धनस्याद्रेः शिरसि शिखरे तृणं चरन्त्यो गावस् ततोऽविदूराद् व्रजस्यान्तिके चरतो वत्सान् ददृशुः ॥२९॥
॥ १०.१३.३० ॥
दृष्ट्वाथ तत्-स्नेह-वशोऽस्मृतात्मा
स गो-व्रजोऽत्यात्मप-दुर्ग-मार्गः ।
द्वि-पात् ककुद्-ग्रीव उदास्य-पुच्छो
\ऽगाद् धुङ्कृतैर् आस्रु-पया जवेन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदैव स गो-व्रजो गवां कलापस् तत्-स्नेह-वशस् तेषां, वत्सानां स्नेहेनाकृष्टोऽत एव न स्मृत आत्मा येन स जवेन-उपव्रजम् अगात् । कथं-भूतः । अत्यात्म-प-दुर्ग-मार्गः अतिक्रान्त आत्म-पान् गोपालान्यः सोऽत्यात्म-पः, तथा दुर्गमो मार्गो यस्य सः स च स च । तथा परस्पर-युक्ताभ्यां पध्यां धावन् द्वि-पाद् इव प्रतीयमानः । ककुद्य् आकुञ्चिता ग्रीवा यस्य सः । उदास्य-पुच्छः उन्नमितान्यास्यानि पुच्छानि च येन सः । आस्रु-पयाः सर्वतः स्रवन्ति पयांसि यस्य सः । “आस्नु-पयाः” इत्य् अपि पाठे स एवार्थः । गो-व्रज इत्य् अनेन वृषभादयोऽप्य् अगुर् इत्य् उक्तम् ॥३०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स गोवर्धनम् ऊर्ध्व-गः । उपव्रजम् इति पूर्वानुषङ्गः । ककुदि किञ्चिद् उन्नत-वृष-स्कन्धावयवे, ककुद स्त्री ककुदश् च वृषाङ्गे राड्-ध्वजेवरे इति मेदिनी । वृष उपलक्षणं गोर् अपि । आकुञ्चिता सङ्कोचिता । उन्नमितान्य् ऊर्ध्वं कृतानि । प्रथमे पाठे स्रु-गतौ, द्वितीये ष्णु-प्रस्रवणे ॥३०॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति—दृष्ट्वा इति द्वाभ्याम् । त्व्-अर्थे चकार पूर्वतो विशेषाय । स चाकस्माद् अकाण्डे प्रिय-सन्दर्शन-स्वभावतः । किं वा, तद् दिने\ऽग्रजं प्रति तल्-लीला बोधनाय अथ इति पाठे\ऽपि स एवार्थः । स्नेह-वशत्वम् एव दर्शयति अस्मृत-आत्मा इत्य्-आदि विशेषणैः । आत्मपान् दुर्ग-मार्गं चातिक्रान्तान्तो**\ऽत्यात्म**-अदुर्ग-मार्गः ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति—दृष्ट्वा इति द्वाभ्याम् । त्व्-अर्थे च-कारः पूर्वतो विशेषाय स चाकाण्डे प्रिय-सन्दर्शन-स्वभावतः । अथ इति पाठेऽपि स एवार्थः । स्नेह-विशेषत्वम् एव दर्शयति—अस्मृत-आत्मा इत्य्-आदिभिः । आत्म-पान् दुर्ग-मार्गं चातिक्रान्तो अत्यात्मप-दुर्ग-मार्गः अस्त्व् इत्य्-आदि-पाठ-द्वयम् अपि क्विब्-अन्तं तुग्-अभाव आर्षः ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मृत-आत्मा आत्मानम् अपि विस्मृत्य, स गो-समूहः अगात् । अतिक्रान्ता आत्मपा गोपा दुर्गा मार्गाश् च येन सः । परस्परं युक्ताभ्यां पद्भ्यां धावन् द्वि-पाद् इव प्रतीयमानः उन्मुखत्वात् ककुदि ग्रीवा यस्य स । उद्गतान्यास्यानि पुच्छानि च यस्य स । आ सम्यग् एव क्षरन्ति अस्रूणि पयांसि च यस्य सः ॥३०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स गो व्रजो वत्सान् दृष्ट्वा अगात् तान्-अगमत् । कीदृश ? अस्मृत-आत्मा स्वम् अपि विस्मृत्येत्य् अर्थः । अतिक्रान्तो आत्मपाः स्वरक्षका गोपा दुर्गा मऋगाश् च येन सः । मिथो युक्ताभ्यां पद्भ्यां धावन् द्वि-पाद् इव प्रतीयमानः ककुदि आकुञ्चिता ग्रीवा यस्य सः । उन्नतान्यास्यानि पुच्छानि च यस्य सः । आ सम्यक् स्रवन्ति पयांसि नेत्र-जलानि दुग्धानि च यस्य सः ॥३०॥
॥ १०.१३.३१ ॥
समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्य् अपाययन् ।
गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र विशेषतो धेनूनां चेष्टितम् आह—समेत्य इति । गोवर्धनस्याधः । वत्सवत्यः पुनः प्रसूता अपि ॥३१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र गो-व्रजे लिहन्त्य आस्वादयन्त्यः ॥३१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वकीयं महा-मधुरत्वादिनासाधारणं सुशोभनं वा, औधसम् उधौम्यः स्रवद् इत्य् अर्थः ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वीयं माधुर्यादिभिर् असाधारणं सुशोभनं वा, ओधसम् ऊधोभ्यः स्रवद् इत्य् अर्थः ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोवर्धनस्याधः समेत्य द्व्याहिकत्र्याहिकादि-वत्सवत्यः अपि औधसम् ऊधोभ्यः स्वयम् एव स्रवत् । पयः अपाययन् गिलन्त्य इव इति, गवां लेहनाधिक्यं स्नेहाधिक्य-सूचकम् ॥३१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गावो गोवर्धनाद्रेरधः समेत्य औधसम् ऊधोभ्यः स्रवत् । पयो वत्सानपायन् वत्सवत्यः पुनः प्रसूता आपे लिहन्त्य इति, गवां लेहनाधिक्यं स्नेहाधिक्यं द्योतयति ॥३१॥
॥ १०.१३.३२ ॥
गोपास् तद्-रोधनायास-मौघ्य-लज्जोरु-मन्युना ।
दुर्गाध्व-कृच्छ्रतोऽभ्येत्य गो-वत्सैर् ददृशुः सुतान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : रामेण दृष्टं वत्सेषु गवां स्नेहातिशयम् उक्त्वा गोपानाम् अपि दर्शयितुम् आह—गोपा इति । तासां गवां रोधने य आयासस् तस्य मौघ्येन मोघत्वेन लज्जया सहोरु-मन्युना दुर्ग-मार्ग-जनित-क्लेशेन च अभ्येत्य गोवत्सैः सह सुतान् ददृशुः ॥३२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रामाय गो-स्नेहतोऽपि गोप-स्नेहाधिक्यं सूचयन्न् आह—गोपा इति ॥३२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्वेत्य पश्चाद् आगत्य । पाठान्तरे\ऽभिमुखम् एत्य ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभ्येत्य अभिमुखम् एत्य अन्वेत्य इति क्वचित् पाठः ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्युर्गाः प्रत्य् एव क्षेयं न तु बालान् प्रति गवाम् इव तेषां, स-बालेषु दर्शन-सम्भवाद् अदर्शनेऽपि वत्स-चारिणां तेषां, माधुर्य-स्फूर्त्तेश् च कोपासम्भवात् ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां गवां रोधने य आयासो लकुटोत्क्षेपादिभिस् तस्य मौध्येन वैयर्थ्येन हेतुना लज्जा च मन्युश् च तल् लज्जामन्यु तेन दुर्ग-मार्ग-जनित-क्लेशेन चाभ्येत्य गोवत्सैः सह ॥३२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तासां गवां रोधने य आयासो, यष्टि-क्षेपादिस् तस्य मौघ्येन वैफल्येन हेतुना जातो, यो लज्जा-युक्तो मन्युस् तेन दुर्गाध्व-जनितेन कृच्छ्रेण च अभ्येत्य गो-वत्सैः सह सुतान् ददृशुः ॥३२॥
॥ १०.१३.३३ ॥
तद्-वीक्षणोत्प्रेम-रसाप्लुताशया
जातानुरागा गत-मन्यवोऽर्भकान्
उदुह्य दोर्भिः परिरभ्य मूर्धनि
घ्राणैर् अवापुः परमां मुदं ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् च तेषाम् ईक्षणेनोद्गतो यः प्रेम-रसस् तस्मिन्न् आप्लुता निमग्ना आशया येषां ते । लज्जा-मन्यु-कृच्छ्रैस् तान् अपि ताडयितुम् आगताः सन्तोऽपि गत-मन्यवः प्रत्युत जातः अनुरागो येषां ते । मूर्धनि घ्राणैर् अवघ्राणैः परमां मुदम् अवापुः ॥३३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः सुत-दर्शनानन्तरम् । गतम् अन्यतो विगत-क्रोधाः ॥३३॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद्य् अपि आयासाद्यः प्रेम-रसोदयान्तराया उक्ताः, तथा गवां वत्सैः सहितान् इति, वत्स-सङ्गे स्थितैर् अपि स्व-स्व-पुत्रैः परम-वत्सलानां तासां दृष्टि-पथे वत्सानाम् आनयनाद् अनपसारणाच् च तेषाम् अपराधः सूचितः । तथापि तेषां सुतानाम् ईक्षणेन य उत् उच्च उत्कृष्टो वा प्रेम-रसस् तस्मिन् आप्लुताशया उद्गृह्योच्चैर् अङ्के गृहीत्वा उदूह्येति पाठे दीर्घम् आर्षः । अर्थः स एव । प्रेम-रसानुरागयोः सहजत्व-सोपाधित्वादिना ह्रास-रहितत्व-रञ्जनत्वादिना वा भेदः कल्प्यः । यद् वा, पूर्वम् एव जातानुरागा अधुना च तद्-ईक्षणेन इति । यद् वा, उद्ग्रहणादिना जातोऽनुराग आसक्तिर् येषां, तथा-भूताः सन्तो मुदं प्राप्ताः, परमाम् इति मुदः पराकाष्ठोक्ता ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्य् अपि आयासादयः प्रेम-रसोदयान्तराया उक्ताः, तथा गवां वत्सैः सहितान् इति । वत्स-सङ्गे स्थितैर् अपि स्व-स्व-सुतैः परम-वत्सलानां, तासां दृष्टि-पथे वत्सानाम् आनयनाद् अनपसारणाच् च, तेषाम् अपराधः सूचितः । तथापि तेषां सुतानाम् ईक्षणेन य उत्कृष्टः प्रेम-रसस् तस्मिन् आप्लुताशया उद्गृह्य उच्चैर् अङ्के गृहीत्वा उद्गूह्येति पाठे दीर्घत्वम् आर्षः । अर्थः स एव । प्रेम-रसानुरागयोः सुखातिशय-तृष्णातिशयाभ्यां विशेषणाभ्यां भेदः कल्प्यः । यदि च गवाम् इव तेषाम् अपि दूरतोऽपि स्व-सुत-दर्शन-सम्भवात् कथञ्चिद् दर्शनाभावेऽपि वत्स-सङ्गिनां स्व-सुतानां स्फुरणात् तेषु क्रोधोत्पत्तिर् न सम्भवतीति शङ्क्यते । तत् तद् आस्व् अनातिक्रामन्तीर् गाः प्रत्य् एव तेषां, मन्युर् मन्तव्यः स्व-सुतानाम् अतिसन्निहिततया सुष्ठु माधुर्यानुभवेषु तच्-छान्ति-पूर्वक-प्रेमोदयश् चेति ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-ईक्षण इति प्रेम-अनुरागयोर् उल्लासातिशय-तृष्णातिशयाभ्यां विशेषणाभ्यां भेदः ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गत-मन्यव इत्य् अरे अनभिज्ञाः ! अत्र परम-वत्सल-गवां गण-दृष्टि-पथे कथं वत्सा आनीताः ? इति तांस् ताडयितुं-मनसोऽपि, तेषां बालानाम् ईक्षणोद्भूतेन प्रेम-रसेन आप्लुताशयास् ततश् च जात-अनुरागाः प्रेम्णाम् एव पञ्चमीं कक्षाम् अनुरागाभ्यां तृष्णातिशय-मयीं प्राप्ताः गत-मन्यवः विस्मृत-क्रोधाः ॥३३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तेषां वीक्षणादितो यः प्रेम-रसस् तेनाप्लुताशयास् ततो जात-अनुरागाः प्रेम्णः परावस्थाम् अनुरागं लब्ध्वा गत-मन्यवो विस्मृत-क्रोधाः सन्तः ॥३३॥
॥ १०.१३.३४ ॥
ततः प्रवयसो गोपास् तोकाश्लेष-सुनिर्वृताः ।
कृच्छ्राच् छनैर् अपगतास् तद्-अनुस्मृत्य्-उदश्रवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृच्छ्रात् ततोऽपगता निवृत्ताः । तेषां सुतानाम् अनुस्मृत्य् उद्गच्छन्त्य् अश्रूणि येषां ते ॥३४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततस् तेभ्यः प्रवयसो वृद्धाः ॥३४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रवयसो वृद्धा इति, तेषां प्रायो विवेकित्वादिना स्नेह्स-रहसहानिः सूचिता । तथापीति पूर्वं वृद्धा अपि कदाचिद्-गोपाला आसन्न् इति बोधयति । अत एवोक्तं प्रवयस इति वयो-बाहुल्येन वृद्धा न तु जराद्य् अभिभूता इत्य् अर्थः । यद् वा, प्रकृष्टं वयो येषां नित्य-नव-युवान इत्य् अर्थः । अनुस्मृतिर् निरन्तर-स्मरणम् ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रवयसो वृद्धाः इति, तेषां प्रायो विवेकित्वादिना तादृग् अल्प-वियोगेन मोहो न सम्भवति तथापीत्य् अर्थः । एवं पूर्वं वृद्धा एव गोपाला आसन्न् इति बोधयति । तच् च **गोप-**जातेस् तत् स्व-धर्मत्वात् श्री-व्रजेशस्य च बाल-पुत्रत्वेन स्व-प्रतिनिधेर् अभावेन स्वयम् एव गाः पालयतः । सङ्गौचित्यात् अनुस्मृतिः निरन्तर-स्मरणम् ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रवयसो विवेकिनो ऽपि ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रवयसो वृद्धाः कृच्च्राद् एव शनैर् एव गोचारणानुरोधाद् एव अपगता तस्माद् आश्लेषाद् वियुज्य गतास् ततश् च विच्छेदोत्थया, तेषाम् अनुस्मृत्या उद्गताश्रवः ॥३४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रवयसो बह्वपत्या अपि ते गोपास् तोकानां, तेषाम् आश्लेषेण सुनिर्वृताः कृच्छ्राद् एव शनैर् एव गोचारणानुरोधेन अपगतास् तद् आश्लेषाद् वियुज्य । गाः प्रतिगतास्, तेषाम् अनुस्मृत्या उद्गताश्रवोऽभूवन् ॥३४॥
॥ १०.१३.३५ ॥
व्रजस्य रामः प्रेमर्धेर् वीक्ष्यौत्कण्ठ्यम् अनुक्षणम् ।
मुक्त-स्तनेष्व् अपत्येष्व् अप्य् अहेतु-विद् अचिन्तयत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेमर्धेर् औत्कण्ठ्यम् अतिशयं मुक्त-स्तनेष्व् अपत्येषु वीक्ष्य हेतुम् अजानन्न् अचिन्तयत् ॥३५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुक्षणं प्रतिक्षणम् । अतिशयम् आधिक्यम् ॥३५॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रेमर्धेर् हेतोर् अनुक्षणम् औत्कण्ठ्यम् आसक्तिम्, औत्कट्यम् इति वा पाठः, प्रेमर्धेर् आधिक्यम् ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रेमर्धेर् हेतोर् औत्कण्ठ्य उत्कण्ठेत्य् उपचारात् तत्रातिशय एव पर्यवस्यति टीकायाम् औत्कठ्यम् इति क्वचित् पाठः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : व्रजस्य गो-व्रजस्य अपत्येषु वत्सेषु तद्-उपलक्षणत्वेन गोपानां बालकेष्व् अपि ज्ञेयम् । एषु मुक्त-स्तन्यत्व-विशेषणानुपयोगात् प्रेमर्द्धेर् हेतोर् औत्कट्यम् ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेमर्धेर् हेतोर् औत्कण्ठ्यं मुक्त-स्तनोष्व् अपि वत्सेषु नव-प्रसूत-वत्सतरीणाम् अपि गवाम् अहेतु-वित् हेतुम् अजानन् अचिन्तयद् इति । एतावत् कालेषु प्रतिदिनम् एव गोदोहनादि-समयेषु नव-प्रसूतान् अपि वत्सान् विहाय प्राचीनान् एव वत्सान् स्तनं पायन्तीः । सर्वा एव गाः पश्यतो\ऽपि तस्य तस्मिन्न् एव दिने यच् चिन्ता प्रादुर् अभूत् । तस्मिन्न् अपि दिने यद् अन्येषां प्रवयसां विवेकिनाम् अपि गोपानां तथा चिन्तनं नाभूत् । तत्र-कारणं योग-मायैव ब्रह्मा-मोहनादिनम् आरभ्यैव गो-गोपी-गोपानां बलदेव-सहितानां सर्वेषाम् एव भगवता स्व-योग-मायया मोहितत्वात् । प्रतिदिन-विरोध-दर्शने\ऽपि विरोधानुसन्धानं न कस्याप्य् अभूत् । किन्तु, सर्व जगत् कारणस्य कारणार्णव-शायिनो\ऽपि परमांशित्वेन स्वाग्रजत्वेन स्व-प्रिय-सखत्वेन च वञ्चनानौचित्याद् । एतल् लीला-जिज्ञापयिषा श्री-बलदेवे समुचितापि पूर्वं नाभूत् । वर्ष-पर्यन्तं तत् तच्-छ्रीदामादि-प्रिय-सख-विच्छेद-दुःखस्य तस्मै दातुम् अनुचित्यात् । स्वस्य तु तद्-दुःखं नास्त्य् एव, वत्स-कुलान्वेषकेणैक-प्रकाशेन तन्-निकट एव स्थितत्वात् । अतो वर्षावसान् एव भगवतः सा तत्र यदाभूत्, तदा मायापि शनैः शनैर् अंशेनांशेनैव तस्माद् उपरराम न तु युगपत् । सामस्त्येन भगवद् ऐश्वर्य-सिद्धौ तम् अपि भक्ताभिमानास्पदीकृत्य निमज्जयितुम् इत्य् अवसीयते ॥३५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं गवां गोपानां स्व-तोकेषु च चेष्टां वीक्ष्य बलभद्रस्य विमर्शम् आह—व्रजस्य इति । गोपीनां गवां गोपानां च मुक्त-स्तनेष्व् अप्य् अपत्येषु प्रेमर्धे-हेतोर् औत्कण्ठ्यं वीक्ष्य-अहेतु-वित्-तत्-कारणम् अजानन्न् इदम् अचिन्तयत् । यद्य् अपि विरञ्चि-मोहन-दिनम् आरभ्यैवं-विरोधो बलभद्रेण दृश्यत एव । तथापि तद्-दिने तद् अनुसन्धानं तस्मिन् तल्-लीला विजिज्ञापयिषायास् तदैव जातत्वेन स्व-योग-मायायाः शनैर् अपसारणाद् उक्ताभिमानिनस् तस्य स्वैश्वर्य-सिद्धावकस्माद् एव निमज्जनीयत्वाद् इति बोध्यम् ॥३५॥
॥ १०.१३.३६ ॥
किम् एतद् अद्भुतम् इव वासुदेवेऽखिलात्मनि ।
व्रजस्य सात्मनस् तोकेष्व् अपूर्वं प्रेम वर्धते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : चिन्ताम् एवाह—किम् एतद् इति द्वाभ्याम् । वासुदेवे यथा पुरा प्रेम, तथा स्व-तोकेष्व् अपि व्रजस्य अपूर्वं प्रेम वर्धते । किम् एतद् अद्भुतम् ? इति । किं च, सात्मनो मत्-सहितस्य व्रजस्य । ममाप्य् एतेषु प्रेमातिशयः, तत्र कारणं किम् ? इति भावः ॥३६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्यद्भुतम् आह—किं च, । इति भाव इति शुद्ध-सत्त्व-स्वरूपे मयि मोहः कथं जातः ? इति, अहं न जाने इति तात्पर्यम् ॥३६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्भुतं युक्त्य्-अतीतम्, अखिलस्य जगत आत्मनि परमात्मनि यतो वासुदेवे चित्ताधिष्ठातरि चतुर्-व्यूह-श्रेष्ठे । यद् वा, खिलो न्यून आत्मापि प्रियतया यस्मात्, ततो\ऽप्य् अधिकतरः प्रिय इत्य् अर्थः । किं च, वासुदेवे निजाशेषैश्वर्य-प्रकटनार्थं श्री-वसुदेव-पुत्रतां प्राप्ते । एवं सर्वथा तस्मिन्न् एव प्रेम-वृद्धेर् योग्यतोक्ता, तथापि तस्मिन्न् इव तोकेषु बालकेषु । यद्य् अपि गवाम् तादृश एव स्नेहो वत्सेषूक्तः, तथापि तोकेष्व् इति-मनुष्याणाम् एव सर्वेषाम् एवेत्य् अर्थः ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अद्भुतं युक्त्य्-अतीतम् अखिलस्य आत्मनि परमात्मनि, अतो वासुदेवे सर्वाश्रये । किं वा, तत्रापि श्री-वसुदेवापत्ये पूर्ण-भगवत्तया प्रकट इत्य् अर्थः । एवं सर्वथा तस्मिन्न् एव तद् उचित-तादृश-प्रेम-वृद्धेर् योग्यतोक्ता । तथापि तस्मिन्न् इव व्रजस्य गो-गोप-आत्मकस्य तोकेषु स्वापत्येषु ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अखिलस्य-आत्मनि परमात्मनि अतो वासुदेवे सर्वाश्रय इति, तत्रैव तादृश-प्रेम-योग्यतोक्त ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं मायांशोपरमे सति विरोध-दर्शनोत्थं तस्य चिन्तनम् आह—किम् एतद् इति । वासुदेव इव इति, वासुदेवे यथा पुरा प्रेम, तथा स्व-तोकेष्व् अपि, व्रजस्य प्रेम वर्धते । किम् एतद् अद्भुतं, किं च, सात्मनः । मत्-सहितस्य ममापि तेषु कृष्णवत् प्रेम किम् इत्य् अर्थः ॥३६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : योग-मायायाः प्रथमांशापसरणे सति विरोध-दर्शनजं तस्य चिन्तनम् आह—व्रजस्य सात्मनो । मत्-सहितस्यापि यथा वासुदेवे कृष्णे प्रेमासीत्, तथा तोकेष्व् अपि तद्-वर्धते एतद् अद्भुतम् आश्चर्यं किं मम तोकेषु प्रेमा कृष्णे तु तद् अतिशयो योग्य इति भावः ॥३६॥
॥ १०.१३.३७ ॥
केयं वा कुत आयाता दैवी वा नार्य् उतासुरी ।
प्रायो मायास्तु मे भर्तुर् नान्या मेऽपि विमोहिनी ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : केयं माया देवानां वा नराणां वा असुराणां कुतो वा कस्मात् प्रयुक्ता ? तत्रान्य-माया न सम्भवति । यतो ममापि मोहो वर्तते, अतः प्रायशो मत्-स्वामिनः श्री-कृष्णस्यैव माया इयम् अस्त्व् इति सम्भावयति ॥३७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्भावयति—कल्पयति । यद्यपि श्री-बलदेवस्य कारणार्णवशायित्वेन परमांशित्वेन तात्कालिक-ज्येष्ठत्वेन वञ्चनानौचित्यं, तथापि यावद्-अब्दं श्रीदामादि-प्रिय-सुख-विच्छेद-दुःख-दानम् अनुचितं मत्वा पञ्चष-रात्र-शेषे एव तत् तस्मै प्राबोधयत् । तदैव मायापि शनैर् अंशांशेनोपरराम । प्रथमांशोपरमे किम् एतद् ? इति, अचिन्तयत् सः । द्वीतीयांशोपरमे मायेयं पुनर् आह—दैवी इति । देवा ब्रह्माद्या ऐश्वर्य-परीक्षणार्थं किं वत्स-पाला भूत्वास्माकं चित्तं स्वेषु स्नेहयन्ति । नैते श्रीदामाद्याः नरा ऋष्य्-आदयः। किम् अस्मज्-ज्ञान-परीक्षणार्थं वत्साद्या अभूवन् ? किं वा, असुराः कंसाद्या एव बलेन अपारयन्तः छलेनास्माकं हिंसनार्थम् एतेऽभूवन् ? ततस् तृतीय-मायांशोपरमे सति प्राय इत्य्-आद्य् आह । श्री-कृष्णस्यैवेयं योग-मायास् त्व् इति चतुर्थांशस्याप्य् उपरमे सति कृष्ण-रूपान् एव तान् अपश्यद् इत्य् आह ।
या वा, प्रायो दैवी नाऋय् आसुरी वान्या वा मायास् तु भर्तुः सर्व-पालकस्य मे केयं विमोहिनी अपि तु नेति योज्यम् ॥३७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दैवी देवैर् जगत्-पूज्यैः श्री-गरूडादिभिर् बालकानां तत्-तद्-अवतारत्वेन तेषु स्नेह-विशेषापेक्षया कृता, श्री-कृष्णैक-पराणां तेषाम् । सा न सम्भवतीति पक्षान्तरं कल्पयति—नारी इति । श्री-वसुदेवादिभिः श्री-नन्दादिभिर् वा कृता, अन्यथा सर्वेषां बालानां श्री-कृष्ण-विषयकेर्ष्योत्पत्तिः । बालानां स्वाभाविक-श्री-कृष्ण-विषयक-स्नेह-भरम् आलोच्येर्ष्या-सम्भवात् । पक्षान्तरं कल्पयति—उत वा, आसुरी वा, स्व-स्वापत्येष्व् अपि श्री-कृष्ण-सदृश-स्नेह-विवर्धनेन व्रजस्य श्री-कृष्ण-विषयक-भाव-विशेष-हान्या तन्-माहात्म्य-सङ्कोचाद्य्-अर्थं कंसादिभिः कृतेति । तथा तु श्री-कृष्ण इव तेषु मम स्नेह-वृद्धिर् न सम्भवतीत्य् आह—प्राय इति । तस्य स्व-विषयक-वञ्चनासम्भावनाया हेत्व्-अनालोचनया वा । अस्तु स्याद् अनिर्धारणे सम्भावना । यद् वा, अस्तु भवत्य् अन्यथा मयया मन्-मोहनेन मल्-लज्जाद्य्-उत्पत्तिः । वि-शब्देन दीर्घ-कालत्वाद्य्-अपेक्षया ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथात्र कापि कस्यापि मायैव हेतुर् भवेद् इति तर्कयति—केयम् इति । इयं तेषु प्रेम-वर्धिनी माया दुर्घट-घटनी शक्तिः, का किं-लक्षणा ? वा-शब्दः समुच्चये । कुत आयाता कस्मात् समुद्भूता ? केन च कृता ? इत्य् अर्थः । कुतः ? इत्य् एव विचारयति । वा-शब्दो वितर्के। तत्-तत्-पित्राद्य्-उपासितैर् देवैः कैर् अपि महा-प्रभावैः कृता किं ? तेभ्योऽपि मुनीनां प्रभावं पर्यालोच्य तथैव पक्षान्तरं कल्पयति—नारी इति । अत्रापि वा-शब्दो योज्यः ।
नन्व् एवं श्री-कृष्णवन् निज-पुत्रादिषु व्रज-जनानां प्रेम-वर्धन-स्पर्धा च न सम्भवति इत्य् आशङ्क्य पुनर् विकल्पयति—उत पक्षान्तरे आसुरी स्व-स्वापत्येष्व् अपि श्री-कृष्ण-सदृश-स्नेह-विवर्धनेन व्रजस्य श्री-कृष्ण-विषयक-भाव-विशेष-हान्या । तन्-माहात्म्य-सङ्कोचाद्य् अर्थं कंसादिभिः कृता किं ? पूतनादीनां तन्-मोहनता दर्शनात् । यद् वा, देवानां मुनीनां च तल्-लीला-लोभेन प्राचीनानन्तर्धाप्य स्वयम् आविर्भावमयी सा तु तेषां, साधूनां न सम्भवतीति। तर्कान्तरे असुराणां तु पूतना-वत्सासुरादिवद् दुष्ट-भावमयीति ज्ञेयम् । तया तु श्री-कृष्ण इव तेषु मम स्नेह-वृद्धिर् न सम्भवतीत्य् आह—प्राय इति । तस्य स्व-विषयक-वञ्चना-सम्भावनाया हेत्व्-अनालोचनया तादृश-प्रेम्णस् तत्-स्वरूपैकानुवध्यतालोचनया च प्राय इत्य् उक्तम् । अस्तु स्यात् अनिर्धारणे सम्भावना । यद् वा, अस्तु अवत्व् इति प्रार्थना । अन्यथा मायया मन्-मोहनेन मल्-लज्जाद्य्-उत्पत्तेः, विमोहिनी निरनुसन्धान-प्रेम-वर्धिनी वि-शब्दो दीर्घ-कालत्वाद्य्-अपेक्षया इति लक्षणम् अप्य् अस्याः दर्शितम् ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : केयम् इति । अस्त्व् इति सम्भावना । प्राय इति तादृश-प्रेम्णस् तत्-स्वरूपैकानुबन्ध्यत्वात् तन्-मायाया अप्य् असम्भावना ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं तस्य सर्व-मयत्वे वत्सप-वत्सकानां मात्रादेः स्व-स्व-तनयं प्रति तत्-समाना प्रीतिर् एवाभूत्, न तु तद्-धेतु—ज्ञानम् । श्री-बलदेवस्य तु चिरेणैवाभूद् इति । तद् उक्तिम् आह—प्रायो मायास्तु मे भर्तुर् [भा।पु। १०.१३.३७] इत्य्-आदि । मे मम भर्तुर् ईश्वरस्येयं माया । प्रायः-शब्दोऽनुमिति-परम् । तत्राह—मे अपि ममापि विमोहिनी । अतो नान्या नान्यस्य माया ययाहम् एवम् एतावन्तं कालं मोहित एवासम् । तस्मान् मद्-भर्तुर् एवेति स्व-स्वांशत्वं स्वयम् एव प्रकटितम् ॥३७-४३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवतु सर्वज्ञतयैव कारणम् अस्य ज्ञास्यामीति । क्षणं परामृश्य द्वितीय-मायांशोपरमे सति माया इयम् इति निश्चित्य सा । कीदृशी कुतस्त्या किं सम्बन्धिनीति ? पुनर् वितर्कयति**—केयं माया हेतोः कुतो** देशाद् वा ? दैवी इति देवा ब्रह्माद्या एव किम् ? ऐश्वर्य-परीक्षणार्थं वत्स-बालका भूत्वा अस्माकं चित्तं स्वेषु स्नेहयन्ति । नैते श्रीदामाद्याः नारी इति नरा ऋष्य्-आदय एव । किं ज्ञान-परीक्षार्थम् एते वत्साद्या अभूवन् ? आसुरी इत्य् असुरा कंसादय एव किं ? बलेनापारयन्तश् छलेनास्माकं हिंसार्थम् एते\ऽभूवन्न् इति बहुधा विकल्प्य तृतीयमांशोपरमे सति पुनः सम्भावयति—प्राय इति । मे भर्तुः श्री-कृष्णस्यैव माया इयं महा-योग-मायाख्या शक्तिर् असाधारणी, यस्याः खलु मया-नियन्तृत्वम् अस्मासु विशुद्ध-घन-चित्स्व् अप्य् अधिकारः अस्त्व् इति । सम्भावनायां लोट् । नान्य इति । का नाम सा माया ? ममापि मोहिनी यतो मद्-अंशस्य महत्-स्रष्टुः पुरुषस्यापि मायया ब्रह्मादिकं सर्व-जगन्-मोहितम् इति भावः ॥३७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अस्तु सार्वज्ञ्येनैतत्-कारणं ज्ञास्यामीति । क्षणं विमृश्य द्वितीयांशापसरणे सति माया इयम् इति निर्धार्य, सा च किं-लक्षणा ? कुतस्त्या ? किं-सम्बन्धिनी ? इति पुनर् वितर्कयति—केयं माया कुतो हेतोर् आयाता दैवी देवानां वा इयं विरिञ्चादयोऽस्मद्-ऐश्वर्य-परीक्षायै वत्स-वत्सपा भूत्वा स्वेष्व् अस्मच्-चित्तं स्नेहयन्तीत्य् अर्थः । नारी नराणां वा इयं, ऋषयो वा अस्मज्-ज्ञान-परीक्षायै वत्सपा अभूवन् इत्य् अर्थः । उत आसुरी असुराणां वेयं कंसादय एव बलेनास्मान् जेतुम् असमर्थाश् छलेन हिंसितुं तथा भवन्न् इति बहुधा विकल्प्य । तृतीयांशापसरणे सति पुनः सम्भावयति—प्राय इति, मे भर्तुः स्वामिनः कृष्णस्यैवेयं योगख्या माया भवति, अन्या त्रिगुणा माया कृष्ण-वैमुख्याद् एव हेतोर् आयाता सा ममापि विमोहिनी नः भवति । मद्-अंशस्य कारणोदशयस्य महत्-स्रष्टुर् मायया विरिञ्चादि-प्रमुखं जगद्-विमोहितम् अस्तीति । देवी-नार्य्-आसुरी च माया मद्-विमोहने कुतः प्रभवेत् ? तस्मान् मद्-भर्तुर् एव सा अस्त्व् इति, सम्भावनायां लोट् ॥३७॥
॥ १०.१३.३८ ॥
इति सञ्चिन्त्य दाशार्हो वत्सान् स-वयसान् अपि ।
सर्वान् आचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-वयसान् सखीन् अपि वयुनेन ज्ञान-मयेन चक्षुषा वैकुण्ठं श्री-कृष्णम् एवापश्यत् ॥३८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स रामः । वयुनेन समाहित-ज्ञानेनेति विश्वनाथः ॥३८॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वैकुण्ठं सर्वथा कुण्ठता-रहितम् इति, तत्-तद्-रूप-सम्यक्ताभिप्रेता । वयुनेन चक्षुषान्तर्-दृष्ट्येत्य् अर्थः । तथाप्य् असम्भवम् आशङ्क्य परिहरति—दाशार्हः श्री-यदुकुलोद्भवो भ्रातृत्वं गत इत्य् अर्थः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स-वयसान् इति समासान्त आर्षः । वैकुण्ठं स्वार्थेऽण् सर्वथा कुण्ठता-रहितम् इति । तद् रूपते लिङ्गं वयुनेन अनुसन्धानात्मक-ज्ञान-मयेन तस्य वयुनस्य प्रेम-विशेषमयत्वेन सामर्थ-विशेषं द्योतयति । दाशार्हः श्री-यदुकुलोद्भवः भ्रातृत्वं गत इत्य् अर्थः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स-वयसान् इति समासान्त आर्षः । दैवीत्य्-आदिवत् स्वयं सम्भाव्य निरस्यति ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवतु समाधाय ज्ञान-दृष्ट्या पुनर् अपि एतान् निभालयामीति । विचारे सति चतुर्थ-मायांशस्यापि श्री-कृष्णस्येच्छयैवोपरमे सति तान् यथार्थान् कृष्ण-स्वरूपान् एतान् अपश्यद् इत्य् आह—स-वयसान् इति । समासान्त आर्षः । वयुनेन समाहित-ज्ञानमयेन चक्षुषा वैकुण्ठं श्री-कृष्णम् एवापश्यत् ॥३८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अस्त्य् एवं पुनर् अपि समाधिता यथावन् निभालयामीति विमर्शे सति चतुर्थांशस्यापसरणे स्व-भर्तुः स्वरूपान् एव तान् वत्सान् वत्सपांश् चापश्यद् इत्य् आह—इति सञ्चिन्त्य इति । वयुनेन चक्षुषा समाहित-ज्ञानमयेन नेत्रेण सर्वान् वैकुण्ठं कृष्णम् आचष्ट दृष्टवान् । स-वयसान् इत्य् आर्षः । समासान्तः बलभद्रस्येश्वरस्यापि कृष्ण-स्वांशत्वात् तद्-इच्छा-ज्ञानादीनां तद्-अंशि-कृष्ण-नियम्यत्वाद् इदं सर्वं सङ्गतिमद् इति तत्त्व-विदः ॥३८॥
॥ १०.१३.३९ ॥
नैते सुरेशा ऋषयो न चैते
त्वम् एव भासीश भिदाश्रयेऽपि ।
सर्वं पृथक् त्वं निगमात् कथं वदे-
त्य् उक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं कृष्ण-रूपान् सामान्यतो ज्ञात्वा कृष्णं पृष्ट्वा कृष्णोपदेशेन विशेषतो ज्ञातवान् इत्य् आह—न एत इति । अयम् अर्थः—पाल्यमानास् तावद् वत्सा ऋषीणाम् अंशाः, पालाश् च देवानाम् अंशा इति, तावद् अहं वेद्मि । इदानीं तु न तथा, किन्त्व् अस्मिन् भिद्-आश्रयेऽपि त्वम् एव भासि । अतस् त्वं सर्वं पृथक् विविच्य, कथं वृत्तम् ? इति वद इत्य् उक्तेन प्रभुणा वक्त्रा निगमात् सङ्क्षेपत एवोक्तम् । वृत्तं बलः अवैद् विदितवान् इत्य् अर्थः ॥३९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ज्ञात्वापि सिद्धान्तं कर्तुं श्री-कृष्णं प्रत्य् आह—न एते इति । अयम् अर्थ इति । अस्यायं भाव इत्य् अर्थः ।
वत्साः सर्वे गोकुलेऽत्र ऋषे ऋषय एव हि । > गोपाः सर्वे देव-रूपा जाता ब्रह्माज्ञया ध्रुवम् ॥ इत्य्-आदि-पुराणात् > ।
तावत् सकलम् यावत् तावच् च साकल्ये इत्य् उक्तेः । इह त्व् अन्यथैव भातीत्य् आह—किन्त्व् इति । भिद्-आश्रये गोप-वत्स-देहे । यतस् त्वम् एव भासि अतो हेतोः । कथं वृत्तम् एतत् ? कथं जातम् ? इति । इत्य् उक्ते बलदेवेनेत्थम् उक्तेन । प्रभुणा कृष्णेन । इत्य् अर्थः इति । वित्तेर् बह्व्-अर्थत्वाद् अत्र ज्ञानार्थता ज्ञेयेति भावः । यद् वा, निगमाद् वेदात् । सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इत्य् एवं-रूपात् विविच्य विचार्य सर्व-दृश्यादृश्यं पृथक् कथम् इति त्वं वद । इत्य् उक्तेन इत्थम् उक्तवता सता प्रभुणा बलो वृत्तं तात्कालिकं ब्रह्मणे निज-वैभव-दर्शन-रूपम् अवैद् इति ।
[विश्वनाथ-तीकानुसारेण] ततश् च कृष्णस्यैवं वत्स-बालकी-भावे किं कारणं प्रयोजनं च ते ? वत्स-बाला वा क्व गताः? इति । बहुतर-समाधिनापि यत् स्वयं ज्ञातुं नेष्टे, तत्र माया न कारणं, किन्तु स्वयं भगवतः कृष्णस्य खल्व् ऐश्वर्यम् असाधारणम् इत्थं स्वरूपम् एव सर्वत्र सर्वज्ञा अपि नारायणादयः परमेश्वराः स्वांशा अपि यद्-विषयकम् अल्पज्ञत्वम् एव बिभ्रति, न तु स्वर्वज्ञत्वं स्वत इति । अत्र प्रमाणं द्वारका-वासि-ब्राह्मण-बाल-हर्ता भूमा महा-पुरुषोऽप्य् अग्रे आख्यास्यते । तस्माच् छ्री-बलदेवः कृष्णं दृष्ट्वैव सर्वं तत्त्वम् अवगतवान् इत्य् आह—न एत इति ।
सुरेशा ब्रह्माद्या एव मायया वत्स-बालाकारा एते न सम्भवन्ति, नापि ऋषयः । चान् नाप्य् असुराः किन्तु भिद्-आश्रयेऽपि विविध-भेदास्पदेऽपि वत्स-बालादि-समूहे त्वम् एव एको भासि । एकस्यापि तव पृथक्त्वं वत्स-पालादि-ऋऊपत्वं कथं ? तन् निगमात् सङ्क्षेपतो वदेत्य् उक्तेन पृष्टेन प्रभुणा श्री-कृष्णेन हेतुना बलोऽवैत्, ब्रह्म-मोहनादि-वृत्तं ज्ञातवान् ॥३९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुरेशा देव-श्रेष्ठाः श्री-गरुडादयः, ऋषयः श्री-वशिष्ठाद्याः । विचित्र-श्री-मत्स्यादि-रूपे\ऽवतारत्वेनाभेद-विषये त्वं भास्य् एव, भिद्-आश्रये वत्स-बालकादि-रूप-विविध-भेदस्याश्रये\ऽपि वस्तुनीत्य् अपि-शब्दार्थः । एव-कारेण तद्-एक-रूपतया सुरेशत्वादिकं निरस्तम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, एते वत्सादयो न सुरेशास् तत्-तत्-क्रीडा-लोभेन श्री-ब्रह्मादयो वत्सादि-रूपाः सन्तीति नेत्य् अर्थः । स्वत एव तेषां तत्रासमर्थ्येन पक्षान्तरम् आह—न वै एते ऋषय इति श्री-नारदाद्याः । किन्तु त्वम् एव वत्सादि-रूपेण भासि, अत एको\ऽपि त्वं पृथग् विविध-भेदेन वर्तमानं सर्वम् इदं वत्सादि-रूपं कुतो\ऽभूः ? इति निगमाद् वदेति स्नेहेन वाक्-श्रमो निरस्तः । यद् वा, निगमात् पृथक् वेदातीतम् इत्य् अर्थः । सर्वेषाम् अपि सच्-चिद्-आनन्द-घन-रूपत्वात् तत्र च विविध-भेदे\ऽप्य् अभेदात् । प्रभुणा मादृशाम् तस्यैव वा ईश्वरेण हेतुना वृत्तं तद् अज्ञासीत् । यतो बलः सर्व-सामर्थ्याधिक्यवान्, बलाधिक्याद्-बलं विदुः [भा।पु। १०.८.१२] इत्य् उक्तेः । एवं श्री-कृष्णानुग्रहेणैव तद्-विज्ञानं बोधितम् । अन्यत् समानम् ।
एतावन्तं कालं तस्य तत्त्व-ज्ञानं तल्-लीला-निर्वाहाय श्री-भगवद्-इच्छयैव, अन्यथा दयालु-सरल-स्वभावस्य तस्य प्रियतमानां तादृशावस्था-सहनाशक्तिः । किं वा, सहज-भक्त्या नवीणेषु तेषु श्री-कृष्ण इव व्यवहारेण सर्वेषां तत्-तत्त्व-वितर्क्यत्वापत्तिर् इति दिक् ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुरेशा देव-श्रेष्ठाः श्री-गरुडादयः । ऋषयः श्री-नारदाद्याः । भिद्-आश्रयेऽपि बाल-वत्सादि-समूहोऽयं यद्यपि विविध-भेदस्याश्रयः, तथापि तस्मिन्न् इत्य् अर्थः । त्वम् एव भासि इति स्वरूपानन्दादि नैक्यानुभवात् । अन्यत् तैः ।
यद् वा, दैवी वा नार्य् उतासुरी [भा।पु। १०.१३.३७] इतिवद् वितर्क्य परिहरति—न एत इति । एते वत्सादयो न सुरेशा न च ऋषयः ते तत्-तत्-क्रीडा-लोभेन तान् अन्तर्धाप्य वत्सादि-रूपाः सन्तीति नेत्य् अर्थः । तेषाम् ईदृश-प्रेमास्पदत्वाभावात्, इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य्-आदि-रीत्या, तादृक् कृत-पुण्य-पुञ्जत्वाभावाच् च आसुरीति । अस्योत्तर-पक्षे तद्-उल्लेखस् तु सङ्कोचान् न कृतः, अत एकोऽपि त्वं पृथग् विविध-भेदेन वर्तमानं सर्वम् इदं वत्सादि-रूपं कुतोऽभूः ? इति निगमाद् वद । इति स्नेहेन वाक्-श्रमो निरस्तः । प्रभुणा मादृशां तस्यैव चेश्वरेण हेतुना वृत्तं तद् [अवैत्] अज्ञासीत्, यतो बलः सर्व-सामर्थ्याधिक्यवान्, बलाधिक्याद् बलं विदुः [भा।पु। १०.८.१२] इत्य्-उक्तेः । एवं श्री-कृष्णस्यानुग्रहेणैव तद्-विज्ञानम् बोधितं । अन्यत् समानम् ।
एतावन्तं कालं तस्य तत्-तत्त्वाज्ञानं तल्-लीला-निर्वाहाय श्री-भगवद्-इच्छयैव । सा च दयालु-सरल-स्वभावस्य मद्-अग्रजस्य तेषां तादृशावस्था-सहनं न स्याद् इत्य् आशङ्क्यैव ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : नैत इति । इत्थं सताम् [भा।पु। १०.१२.११] इत्य्-आदि-रीत्या तेषां तादृश-कृत-पुण्य-पुञ्जत्वाभावात् भिद्-आश्रयेऽपि यद्यपि भिद्-आश्रयेऽयं वत्सादि-समूहः, तथापीत्य् अर्थः ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च कृष्णस्यैवं वत्स-बालकी-भावे किं कारणम् ? किं वा, प्रयोजनम् ? ते वत्स-बालका वा क्व स्थापिताः ? इति बहुतर-समाधिनापि तत् स्वयं ज्ञातुं नेष्टे । तत्र माया न कारणं, किं तु स्वयं भगवतः कृष्णस्य खल्व् ऐश्वर्यम् असाधारणम् इत्थं स्वरूपम् एव सर्वत्र सर्वज्ञा अपि नारायणादयः परमेश्वराः स्वांशा अपि यद्-विषयकम् अल्पज्ञत्वम् एव बिभ्रति, न तु सर्वज्ञत्वम् । स्वत इत्य् अत्र प्रमाणं द्वारका-वासि-विप्र-बालक-हर्ता भूमा महा-पुरुषो\ऽप्य् अग्रत आख्यास्यते, तस्मात् श्री-बलदेवः कृष्णं दृष्ट्वैव सर्वं तत्त्वम् अवगतवान् इत्य् आह—नैते इति ।
सुरेशा ब्रह्माद्या एव मायया वत्स-बालकाकारा एते न भवन्ति । न अपि ऋषयः । च-कारान् नाप्य् असुराः, किं तु भिदाश्रये\ऽपि विविध-भेदास्पदेऽपि वत्स-बालादि-समूहे त्वम् एव एको भासि । एकस्यापि तव पृथक्त्वं वत्स-पालादि-रूपत्वं सर्वं कथं, तन् निगमात् सङ्क्षेपात् वद इत्य् उक्तेन पृष्टेन प्रभुणा श्री-कृष्णेन हेतुना बलः अवैत् ब्रह्म-मोहनादि-वृत्तं ज्ञातवान् ॥३९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं प्रत्यक्षीकृत्यापि स्वामिनस् तस्य वत्स-तत्-पालक-रूपतायां कारणं प्रयोजनं च तम् एवापृच्छद् इत्य् आह—न एते इति । सुरेशा विरिञ्चादयो मायया वत्स-तत्-पाला न भवन्ति, नाप्य् ऋषयः । चाद् असुराश् च न, किन्तु भिदाश्रयेऽपि विविध-भेद-कार्यवत्य् अस्मिन् वत्स-तत्-पाल-वृन्दे त्वम् एव एको भासि । एकस्यैव तव पृथक्त्वं भेद-कार्य-भाक् त्वं सर्वम् इदं कथं ? किं-कारणकं ? किं-फलकम् ? इति निगमात् संक्षेपेन वदेत्य् उक्तेन पृष्टेन प्रभुणा स्वामिना हेतुना बलोऽवैत् ब्रह्म-मोहनादि-वृत्तं ज्ञातवान् इत्य् अर्थः ॥३९॥
॥ १०.१३.४० ॥
तावद् एत्यात्मभूर् आत्म-मानेन त्रुट्य्-अनेहसा ।
पुरोवद् आब्दं क्रीडन्तं ददृशे स-कलं हरिम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किं वृत्तम् ? इत्य् अपेक्षायाम् आह—तावद् इति । वर्षे जाते आत्मनो मानेन त्रुट्य्-अनेहसा त्रुटि-मात्रेण कालेन । स-कलं सानुचरं हरिं ददर्श ॥४०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् उत्सुकः पृच्छति—तत इति । ततो बल-बोधनान्तरम् । वर्षे सम्वत्सरे । आत्मनो ब्रह्मणः । मानेन प्रमाणेन । त्रुट्य्-अनेहसा, त्रसरेणु-त्रयं भुङ्क्ते यः कालः स त्रुटिः स्मृतः [भा।पु। ३.११.६] इत्य् उक्त-लक्षण-कालेन । आत्मभूर् ब्रह्मा । पुरोवत् पूर्ववत् । अब्दं यावद्-वर्षम् । सानुचरं गोप-गोवत् स-सहितं हरिं श्री-कृष्णम् एव । अत्रापि बलदेवो मात्रा जन्मर्क्ष-शान्त्य् अर्थं रक्षित इति पूर्ववज् ज्ञेयम् ॥४०
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ श्री-ब्रह्मापि तत्-तत्त्वं श्री-भगवत्-कृपयैव ज्ञातवान् इति, तत्-प्रसङ्गम् आरभते—तावद् इत्य्-आदिना । तावद् इत्य् अविलम्बं बोधयति । तद् एवाह—त्रुट्य्-अनेहसा इत्य् अतिशीघ्रं गमनं महा-भयाद् इति ज्ञेयम् । यत आत्मनो हरेर् एव भवतीति, तथा स तत्-पुत्र इत्य् अर्थः । पुरोवत् मायया स्वयं वत्सादि-हरणात् पूर्ववद् आब्दम् एकाब्द-पर्यन्तम् । अब्दम् इति वा पाठः । हरिम् इति वक्ष्यमाण-श्री-ब्रह्म-चित्त-हरणाद्य्-अभिप्रायेण । सकला बाला वत्साश् च, न तु श्री-बलदेवः । तद्-दिनेऽपि पूर्ववत् क्रीडा-निर्वाहाय वने तद्-अनानयनात् ॥४० ॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ ब्रह्मापि तत्-तत्त्वं श्री-भगवत् कृपयैव ज्ञातवान् इति, तत् प्रसङ्ग आरभ्यते—तावद् इत्य्-आदिना । तावद् इति गतेऽपि वर्ष इत्य् अर्थः । अतिशीघ्रागमनं महा-भयाद् इति ज्ञेयम् । यत आत्मनो हरेर् एव भवतीति, तथा सः आब्दम् एकाब्द-पर्यन्तम् । स-कलम् इति कलाः बाला वत्साश् च न तु श्री-बलदेवः तद्-दिन-क्रीडा-निर्वाहाय रहस्यं कथयित्वा वने-तद् अनयनात् ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सकलं कलाभिर् वत्सादिभिः सहितम् ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसङ्ग एव, गोप्य्-आदीनां मोहनादिकं विवृत्य । पुनर् ब्रह्मणो\ऽपि विशेषतो मोहनादिकं विवरीतुम् आरभते—तावद् इति । वर्षे याते\ऽपि आत्मनो मानेन त्रुट्य्-अनेहसा त्रुटि-मात्र-कालेन । अतिशीघ्रागमनं महा-भयेनैव यत आत्मनो हरेः सकाशाद् एव भवतीति सः आब्दम् एकाब्द-पर्यन्तं । सकलं वत्स-बालादिकं हरिं कृष्णं च वस्तुतस् तु कलास् तत् स्वरूप-भूता वत्स-बालाद्यास् तत् सहितं ददृशे ददर्श । बलदेवस् तु पूर्व-वर्षवत् तस्मिन्न् एव जन्मर्क्ष-दिने शान्तिक-स्नानाद्य् अर्थ मात्रा रक्षित इति पूर्ववज् ज्ञेयम् ॥४०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ततः किम् अभूद् ? इत्य् अत्राह—तावद् इति । वर्षे जाते आत्मभूर् हरि-पुत्र विरिञ्च आत्मनो मानेन त्रुट्य्-अनेहसा त्रुटि-मात्रेण कालेन एत्य्-आगत्य । आब्दं वर्षम् एकं व्याप्य पूर्ववत् क्रीडन्तं हरिं ददर्श । स-कलं कला वत्स तत्-पालास् तत्-सहितं । तस्मिन् दिवसे जन्मर्क्ष-योगाद् बलभद्रस् तन्-मात्रा गृह एव शान्ति-स्नानाद्य् अर्थं रक्षित इति बोध्यम् ॥४०॥
॥ १०.१३.४१ ॥
यावन्तो गोकुले बालाः स-वत्साः सर्व एव हि ।
मायाशये शयाना मे नाद्यापि पुनर् उत्थिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दृष्ट्वा च व्यतर्कयद् इत्य् आह—यावन्त इति द्वाभ्याम् । मे मायाशये मन्-मायातल्पे ॥४१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्यतर्कयद् विचारितवान् । यावन्तो यत् प्रमाणकाः श्री-कृष्ण-सहागताः गोकुले चारणार्था नीतवत्स-समूहे । अद्य अपि इदानीम् अपि वर्तमान-दिनार्थकत्वेऽद्याव्ययस्य त्रुट्य्-अनेहसेत्य् उक्त्याविरोधः स्याद् इति ॥४१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोकुले यावन्तो बाला वत्स-पाल-रूपा आसन्, तावन्तः सर्व एव वत्स-सहिताश् च सन्तो । मायेत्य् आदि-योज्यम् ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोकुले यावन्तो बाला वत्स-पाल-रूपा आसन्, तावन्तः सर्व एव वत्स-सहिताः सन्तो । मायेत्य् आदि-योज्यम् ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृष्ट्वा चैवं व्यतर्कयद् इत्य् आह—द्वाभ्याम् । मायाशये मन्-मायातल्पे ॥४१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : दृष्ट्वा चैवं व्यतर्कयद् इत्य् आह यावन्त इति द्वाभ्याम् । मे मायाशये मन्-माया-शय्यायाम् ॥४१॥
॥ १०.१३.४२ ॥
इत एतेऽत्र कुत्रत्या मन्-माया-मोहितेतरे ।
तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मन्-माया-मोहितेभ्य इतरे कुत्रत्याः ॥४२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत इह । सप्तम्य् अर्थे तसिः । एते दृश्यमानाः । अत्रेत्य् उक्तिस् तु सम्भ्रमान् न तेषां, पौनर् उक्त्यं शङ्क्यम् । कुत्रत्याः कुतः समागता इत्य् अर्थः । तावन्तस् तत्-प्रमाणका एव । यतो माया हृतास् तत्रेत्य् अर्थः ॥४२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत इत्य् अस्य पूर्व-श्लोकेनान्वयः, इतो मायाशयात् । यद् वा, एते मायाशये शयाना इतो वर्तन्ते । मन् माया-मोहितेतरे च अत्र कुत्रत्या इति योज्यम् । एते तु इति पाठो वा विष्णुनेति पदं व्यापकतयैव क्रीडानाभिप्रायेण ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इतो हेतोः यद् वा एते मायाशये शयाना इतो वर्तन्ते मन् माया-मोहितेतरे च अत्र कुत्रत्या इति योज्यं । विष्णुनेत्य् अब्दं वाप्य, तथैव क्रीडनाभिप्रायेण ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : इतो हेतोः न केवलम् अत्रैव स्थाने । किं तर्हि ? अब्दं व्याप्य, तत्र गोकुले ऽपि क्रीडन्तः ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन् माया-मोहितास् त एव कृष्णेनात्र-नीता वेति विभाव्य । मायिकानां नातिनिकटे गत्वा तर्जन्या साभिनयम् आह—इतः प्रवेशाद् । अत्र किञ्चिद् दूरे एवे वत्स-बाला वर्तन्त इव । तत्र विष्णुना समं क्रीडन्तः कुत्रत्यास् ते, कीदृशा मन् माया-मोहितेभ्य ? एभ्य इतरे ॥४२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : त एव हरिणा किम् इहानीता ? इति विभाव्य । किञ्चिद् दूरात् तान् आलोच्याह—इतः प्रदेशाद् । अत्र किञ्चिद्-दूरे मन् मायामोहिता एते सन्त्य् एव । तेभ्य इतरे तावन्त एते विष्णुना समं क्रीडन्तः कुत्रत्याः ॥४२॥
॥ १०.१३.४३ ॥
एवम् एतेषु भेदेषु3 चिरं ध्यात्वा स आत्म-भूः4 ।
सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इति वितर्कयन्न् अमुह्यद् इत्य् आह—एवम् इति द्वाभ्याम् । एवम् एतेषु भेदेषु चिरं ध्यात्वा स आत्म-भूः इति पाठः ॥४३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थम् । वितर्कयन् विमृशन् । भेदेषु भिन्नत्वेन प्रतीयमानेषु गोप-वत्सेषु । आत्मनि चेतसि । ध्यान-शब्देन चेतोर्थकात्म-पद-लाभात् पुनर् उक्ति-सम्भावनया पाठान्तरं चक्लृपे—आत्मभूर् इति, भेदेष्व् इति । किम् एते इहं प्रकृतास् तत्राह—कृष्ण-सृष्टाः । किं वा, एत एव कृष्ण-सृष्टास् तत्र ते प्रकृताः । किं वा, उभय एव कृष्ण-सृष्टाः प्रकृतास् तु कृष्णेनैव । क्वापि ब्रह्माण्डान्तरे चालिताः । किं वा, कृष्णेन वत्स-पालानां प्रकाशद्वयीकरणात् उभय एव प्रकृताः । किं वा, मयि तत्र गत्वा तत्र पश्यति सति एत एव कृष्णेन तत्र नीयन्ते । पुनर् अत्रागच्छति मयि त एवात्र-नीयन्ते ।
भवतु, तर्हि युगपद् एवोभयत्र दृष्टिं निक्षिपामीति । तथा कृत्वापि तान् उभयत्र दृष्ट्वा चिरं ध्यात्वापि एतेषु मध्ये भगवत् स्वरूप-भूताः सत्या, बहिरङ्ग-माया-सृष्टाः सत्या नेतीमं भेदं तु कथञ्चन ज्ञातुं न शशाक ॥४३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण भेदेषु मोहिता-मोहित-रूपेष्व् एतेषु भयेषु बहुत्वं बालकादीनां बाहुल्यात् । यद् वा, भेदेन द्विधा वर्तमानेष्व् इत्य् अर्थः । अभेदेष्व् इति पाठः क्वचित्, भेद-रहितेष्व् इत्य् अर्थः । एतेषु मध्ये के सत्याः ? कतरे च न सत्याः ? किं नाम मन्-मोहितान् ? भगवन् नीत्वा तत्-परिवर्तेनान्ये तादृश-मायया निर्मायात्रामी स्थापिताः । किं वा, भगवता सह क्रीडन्त एते माया-निर्मिताः सन्तीति । किं वा, माया भ्रान्त्यैव ते दृश्यन्ते एते । वेति चिरं ध्यात्वापि निज-विचारादि-प्रयासेन निश्चेतुं न शक्त इत्य् अर्थः । स माया विस्तारको\ऽप्य् आत्मभूः स्वतः-सिद्ध-ज्ञानो\ऽपीत्य् अर्थः ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण भेदेषु मोहितानुसन्धानं अमोहितानुसन्धानं तयोर् विपर्ययस् तेषु । एतेषु मध्ये के सत्याः अनारोपित-पूर्व-वत्स-बाल-भावाः कतरे च न सत्याः । किं नाम मन्-मोहितान् ? भगवता नीत्वा तत्-परिवर्तेनान्ये । तादृशा मायया निर्मायात्राप्य् अमी स्थापिताः । किं वा, भगवता सह क्रीडन्त एते माया-निर्मिताः । किं वा, मया भ्रान्त्यैव ते दृश्यन्त एते । वेति चिरं ध्यात्वापि निज-विचारादि-प्रयासेन निश्चेतुं नेष्टे, न शक्त इत्य् अर्थः । स माया-विस्तारकोऽपि आत्म-भूः स्वतः सिद्ध-ज्ञानोऽपि भगवन् माययैव ज्ञातुं नेष्टे इत्य् अर्थः ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतेषु भेदेश्व् इति किम् एतत् इह प्रकृतास् तत्राह—कृष्ण-सृष्टाः । किं वा, एत एव कृष्ण-सृष्टास् तत्र ते प्रकृताः । किं वा, उभये एव कृष्ण-सृष्टाः प्रकृतास् तु कृष्णेनैव । क्वापि ब्रह्माण्डान्तरे चालिताः । किं वा, कृष्णेन वत्स-बालानां प्रकाश-द्वयी-करणात् उभये एव । किं वा, मयि तत्र गत्वा पश्यति सति एत एव कृष्णेन तत्र नीयन्ते । पुनर् अत्रागच्छति मयि त एवात्र नीयन्ते ।
भवतु, तर्हि युगपद् एवोभयत्र दृष्टीर् निक्षिपामीति । तथा कृत्वापि तान् उभयत्र दृष्ट्वा चिरं ध्यात्वेति भवतु, स्वीय-सर्वज्ञतयैवाहम् अवश्यं ज्ञास्यामीति । बहुसमाधिनापि ज्ञातुं नैवाशकद् इत्य् आह—सत्या इति । एतेषु भेदेषु मध्ये सत्या भगवत्-स्वरूप-भूता न सत्या, बहिरङ्ग-माया-सृष्टा इती मे भेदं तु, कथञ्चन ज्ञातुं संशय-ज्ञान-विषयीकर्तुम् अपि नेष्टे न शशाक ॥४३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ विरिञ्चस्य विशिष्टं मोहम् आह—एवम् इति । किम् इहैता ? प्रकृतास् तत्र ते कृष्णेन निर्मिताः । किं वा, एत एव ते न निर्मितास् तत्र ते प्रकृताः । किं वोभयेऽपि तेन रचिताः, मन्-नीताः प्रकृतास् तु तेनान्यत्र । क्वापि चालिता इत्य् एवम् एतेषु भेदेषु विशेषेषु, भेदा द्वैधे विशेषे स्याद् इति मेदिनी । चिरं ध्यात्वा दत्त-दृष्टिः सन्-निभाल्य सत्याः प्रकृताः । के ? कतरे च नेति तेन कुहकिनैव रचिताः के वेत्य् अर्थः । इति कथञ्चन केनापि प्रकारेण संशय-ज्ञानेनापि ज्ञातुं नेष्टेन शशाक । किन्तु विमोहितोऽभूद् इत्य् अर्थः ॥४३॥
॥ १०.१३.४४ ॥
एवं सम्मोहयन् विष्णुं विमोहं विश्व-मोहनम् ।
स्वयैव माययाजोऽपि स्वयम् एव विमोहितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विमोहं मोहान् अधिकरणम् । विश्व-मोहनं सर्व-मोहकरम् । अजोऽपीत्य् अपिना ब्रह्मणोऽपि यदा मोहस् तदा कान्य् एषां कथेति ध्वनितम् । स्वया स्वकृतया स्वस्य हरेर् वा, आत्मात्मीययोः स्वः इति कोशान्तरात् । मोहितस्यापि ब्रह्मण एव विह्वलीकरणे भगवति माया-प्रयोग-रूपापराध एव हेतुर् इति भावः ॥४४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्मोहयन् स्व-मायया वत्साद्य्-आच्छदनात् । यद् वा, सम्मोहयितुम् इच्छन्न् इत्य् अर्थः । एवं तद् अभिप्रायानुसारेणैव सं-शब्दः । विष्णुम् इति सर्व-व्यापकम्—मायया तस्य दृष्ट्य्-आच्छादनं न घटेतेति भावः । अतो विमोहं मोहयितुम् अशक्यम् अपीत्य् अर्थः । किं च, विश्व-मोहनम्प्य् अजः स्वयम् भूर् इति पूर्ववत् एव शब्दाभ्याम् । न तु भगवन् मायया, न तु भगवान् वेति बोध्यते ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्मोहयन् स्व-मायया वत्साद्य्-आच्छादनात् सम्मोहतुम् इच्छन्न् इत्य् अर्थः । एवं तद् अभिप्रायानुसारेणैव सं-शब्दः । विष्णुम् इति, सर्व-व्यापकत्वान्—मायया तस्य दृष्ट्य् आच्छादनं न घटेतेति भावः । अतो विमोहं मोहयितुम् अशक्यम् अपीत्य् अर्थः । किं विश्व-मोहनम् अप्य् अजः स्वयम्भूर् ? इति, पूर्ववत् एव-शब्दाभ्यां न तु भगवन् मायया, न तु भगवान् वेति बोध्यते ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : मोहितानुसन्धानम् अमोहितानुसन्धानं तयोर् विपर्यय । एवं प्रकारेष्व् एतेषु भेदेषु अनारोपित-पूर्ववत् । स-बाल-भावाः माया-हतानां वा कथं मद्-वञ्चनाय भगवन्-माया-कल्पितत्वम् इति भावयित्वा इति भावः ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च ब्रह्मा मोह-समुद्रावर्ते निपपातेत्य् आह—एवम् इति । संमोहयन् वत्स-बालस् ते येन मोहयितुम् उपक्रममाणः अजो ब्रह्मापि । स्वयैव मायया स्वयम् एव विष्णौ प्रयुक्तया हेतुना विमोहितः । भगवन्-मायया विशेषेणैव मोहितः मोहितस्यापि ब्रह्मण । एवं विह्वलीकरण-रूपे विमोहने भगवति माया-प्रयोग-रूपो\ऽपराध एव कारणम् इत्य् अर्थः । न तु स्व-माययैव ब्रह्मा विमोहित इति व्याख्येयम् । मायायाः स्वाश्रय-व्यामोहकत्वासम्भवात् उत्तर-श्लोके दृषान्त-विरोधाच् च ॥४४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्पुटयति एवं वत्स-तत्-पाल-चौर्येण विष्णुं नन्दार्भकं मोहयन् अजो विरिञ्चोऽपि स्वयैव मायया । तस्मिन् प्रयुक्तया हेतुना तत्-प्रयोगापराधेन कारणेन विष्णोस् तस्य मायया विशेषेणैव मोहितः । न च स्व-माययैव स्वयं विमोहित इति व्याख्येयं । मायायाः स्वाश्रयाव्यामोहकत्वात् परपद्योक्त-दृष्टान्त-विरोधाच् च । कीदृशम् इत्य् आह—विमोहं विगतो मोहो यस्मात् तम् । माया-निवर्तकं ज्ञान-पदं विश्वेषां स्वेतरेषां सर्वेषां विमोहनं योगया त्रिगुणया च यथायथं मोहकरम् इत्य् अर्थः ॥४४॥
॥ १०.१३.४५ ॥
तम्यां तमोवन् नैहारं खद्योतार्चिर् इवाहनि ।
महतीतर-मायैश्यं निहन्त्य् आत्मनि युञ्जतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, मायाश्रयस्य तस्य कुतो मोहः ? इत्य् अत आह—तम्याम् इति । महा-मायाविनि भगवत्य् अन्य-मायाया आवरण-विक्षेपकत्वाभावे दृष्टान्त-द्वयम् इतम् । तम्यां तमिस्रायां रात्र्यां नैहारं हिम-कण-प्रभवं तम इव । तद्धितार्थोपसर्जनस्यापि तमसो नैहारम् इति विशेषणं छान्दसम् । तत् तमो यथा पृथग् आवरणं न करोति, किन्तु तत्रैव लीयते । यथा च खद्योतार्चिर् अहनि पृथक् प्रकाशं न करोति । एवं महति पुरुषे मायां युञ्जतः पुंस इतरा नीचा माया तत्र न किञ्चित् करोति, किन्त्व् आत्मनि स्वस्मिन्न् एव ऐश्यं सामर्थ्यं निहन्तीति ॥४५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मायायाः स्वाश्रव्यामोहकत्वस्येन्द्र-जालिय-माया-दृष्टान्तेन प्रसिद्धत्वाद्-ब्रह्मणोऽपि मायाश्रत्वान् मोहो न घटत इत्य् आशङ्कते—नन्व् इत्य्-आदिना । रजनी यामिनी तमी इति कोशात् साधारण-रात्रिपरोऽपि तमी-शब्द इहार्थ-स्वारस्यात् तमिस्रापरो ज्ञेयः । तथा च तम्यां तमोयुक्तायां रात्रौ । महा-माया-विनीति । मायिनाम् अपि मायिनी इत्य् उक्तेः । अन्य-मायाया भगवद् इतर-मायायाः । *आवरण-*विक्षेप-शक्तिद्वय-विशिष्टा भगवत एव माया नान्यस्येति भावः । तमसा तुल्यं तमोवद् इति तुल्यार्थे वतिस् तद्धितः । विशेष्यं तु प्रधानं स्यात् इत्य् उक्तेः । प्राधान्यम् अत्र तद्धितार्थस्यैव न तु तमसः । तथा च कथम् अत्र तमसो विशेष्यत्वं ? तद् अभावे नैहारम् इति । विशेषणं कथम् ? तत्राह—छान्दसम् इति । यद् वा, वदव्ययम् इवार्थेस्ति । तत्र महति ॥४५॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तम्याम् इत्य्-आदि । माया तावद् द्वेधा—आवरिका प्रकाशिका च । उभयत्र ध्यायः—आवरिकायां तम्याम् इति । अहनीति प्रकाशिकायाम् । इव-शब्द उभयत्र योज्यः । नैहारं नीहार-समूहः, तस्य विशेषणं तमोवत् तमो-युक्तं, तमोवत् रक्षद् इति वा ॥४५॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तच् चोचितम् एवेत्य् आह—तम्याम् इति । नैहार-तमसः कदा द्राघ्यान्धकार नैविड्यापादनेन किञ्चित् प्रयोजन-सिद्ध्या दृष्टान्तान्तरम् आह—खद्योतेति । सूर्यांशु-प्रभावेण खद्योतस्य खेदस् तद् अर्चिषश् च नाश एव यथा, तद् वद् इत्य् अर्थः । इतरा इतरस्य वा माया, तां युञ्जतो मायां प्रयुञ्जतः ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् चोचितम् एवेत्य् आह—तम्याम् इति । यद् अत्र टीकायाम् आवरण-विक्षेप-क्रमः सम्मतः तद् अनुसृत्य व्याख्यायते । तम्यां नैहारं तमो यथा तमी नावृणोति । किं च, तच् च स्वयम् एव लीनंसत् तमी तमः सान्द्रीकृत्य नीहारम् एवावृणोति यथा । चाहन्यहः स्थितस्य पूर्णस्य चन्द्रस्यार्चिर् अपि सूर्यार्चिः स्वतया प्रत्याययति तथा । खद्योतार्चि-कर्तृ-सुर्यीर्चिर् अपि स्वतया प्रत्याययितुं न शक्नोति । किं तु, खद्योतम् एव प्रतिहत-प्रभावत्वेन ज्ञापयति । तद्वन् महति मायां प्रयुञ्जानस्य्एतरस्य मायामहच् छक्तिम् आवरीतुं भावान्तरं च विक्षेप्तुम् असमर्था सती स्वाश्रयतयात्मत्वेन व्यपदिश्य । तस्मिन् इतरत्र यद् ऐश्यन्-तद् एव निहन्तीत्य् अर्थः । अव्ययम् अपि वच्-छब्दोऽस्ति । यद् वा, यथा तथैवैवं साम्य इत्य् अमरः ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः १९): आत्म-माया स्वरूप-शक्तिः । मीयतेऽनयेति माया-शब्देन शक्ति-मात्रम् अपि भण्यते—तस्याम् इति, ब्रह्म-वाक्यं तथैव सङ्गच्छते । शक्ति-मात्रस्य तारतम्यं हि तत्र विवक्षितम् । स्वल्पा शक्तिः खल्व् अनृतस्य सत्यस्य वा व्यञ्जिका भवतु नाम, पराभवाय कल्पत एवेति हि तत्र गम्यते । दृष्टान्ताभ्यां च तथैव प्रकटितं तस्यां तमोवद् इत्य्-आदिभ्याम् । तथा युद्धेषु मायामय-शस्त्रादिना बहवश् छिन्न-भिन्ना जाता इति पुराणादिषु श्रूयते ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : इतरस्य क्षुद्रस्य माया स्व-प्रभाव-दर्शना तां युञ्जतः पुंसः आत्मनि ऐश्यं हन्ति ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ दुर्घट-घटन-पटीयसी शक्तिर् माया । सा च
द्विविधा—मायया बहु-रूपया इत्य् उक्तत्वात् । तत्र प्रथमं द्वेधा—प्रकाशिका आवरिका च । आद्या च द्वेधा—स्वाभाविकी ऐच्छिकी च । उभे एवानन्द-शक्तित्वात् प्रकाशिके । द्वितीया तु स्वभाव-सङ्कोचिनी कुहकं चेति । उभयोर् आवरण-धर्मत्वाद् आवरिकात्वम् । तत्र प्रकाशिकावरिकयोर् माययोर् अक्रमेण दृष्टान्तम् आह—तम्यां तमोवद् इत्य्-आदि । तम्याम् इत्य् आवरिकायां ध्यायः, अहनीति प्रकाशिकायाम् । महा-मायिक-चक्र-चूडामणौ तत्र क्वापरेषां माया । यत्र ब्रह्मणोऽपि मायैवम् आसीद् इत्य् आशयः । नैहारं नीहार-समूहः । कीदृशः ? तमोवत् तमोऽरक्षत् [कीदृशः ! घनश्यामाः पीत-कौशेय-वाससः] पाठ भेदः ॥४५.५३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-मायाविनि भगवत्य्-अन्य-माया आवरण-विक्षेपौ कर्तुम् अशक्नुवती । स्वाश्रयम् एव तिरस्करोतीति दृष्टान्ताभ्याम् आह—तम्यान्ताम् अस्यां रात्रौ । नैहारं तमोवत् नीहार-सम्बन्धि तम इव इवार्थे\ऽत्र वच्-छब्दः, इव वद् वा च सादृश्ये इत्य् अभिधानात् । नैहारं तमो यथा तमीम् आवरीतुम् असमर्थं, तमी तमः सान्द्रीकृत्य तेन स्वम् एवावृणोति नीहारं च तिरस्करोति । तथैव ब्रह्म-माया भगवन्तं मोहयितुम् असमर्था । भगवद् ऐश्वर्यम् एव विपुलीकृत्य स्व्रमावृतवतीं ब्रह्माणम् एव । तिरश् चकारेति-दृष्टान्ते\ऽस्मिन्न् अंशेन ब्रह्म-मायाया अपि हेतुत्वम् अस्तीत्य् अपरितुष्यन् दृष्टान्तरम् आह—स्वद्योतेति । रात्रौ यथा प्रद्योतते, तथा दिवसे\ऽपि मत्-प्रभा प्रद्योतताम् इति खद्योतेन प्रयुक्तापि प्रभा दिवसे उद्भवितुम् एव न शक्नोति । प्रत्युत तम् एव भ्रष्ट-तेजसं सर्वान् ज्ञापयति । तथैवान्यत्रैश्वर्यवान् अपि ब्रह्मा भगवत्य् अपि मायया निजैश्वर्यं प्रकटयितु-कामो भ्रष्ट-तेजा एवाभूद् इत्य् अतः । महति पुरुषे इतर-माया-कत्री आत्मनि आत्मानं युञ्जत स्वं प्रयुञ्जानस्य पुंसः ऐश्यम् ऐश्वर्यं निहन्ति ॥४५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : महामायिनि हरौ तद् अन्य-माया न प्रभवति, किन्तु स्वाश्रयम् एव तिरस्करोति इति । दृष्टान्ताभ्याम् आह—तस्यां तमिस्रायां निशि नैहारं तमोवत् इवार्थेऽत्र वच्-छदः, इव वद् वा च सादृश्ये इत्य् उक्तेः । हिमकण-प्रभवं तमो यथा तमीम् आवरीतुम् असमर्थं । तत्-तमो निविडयन्-निहारम् एव तिरस्करोति । तथा विरिञ्च-माया हरिं मोहयितुम् असमर्था । तस्यैश्वर्यम् एव वर्धयन्ती विरिञ्चम् एव तिरस्करोतीत्य् अस्मिन् दृष्टान्ते । तन्-मायाया हेतुत्वम् अस्तीत्य् असतोषाद्-दृष्टान्तान्तरम् आह—खद्योत-प्रयुक्तार्चिर् यथा अहनि पृथक् प्रकाशं न करोतीति, कित्नु तत्रैव विलीयते खद्योतस् तु भ्रष्ट-तेजाः प्रतीयते । तथा महति पुरुषे युञ्जतः पुंस इतरा तुच्छा माया आत्मनि स्थितम् ऐश्यं निहन्तीति विरिञ्चस्य माया विनष्टा स च भ्रष्ट-तेजा अभूद् इति भावः ॥४५॥
॥ १०.१३.४६-४७ ॥
तावत् सर्वे वत्स-पालाः पश्यतोऽजस्य तत्-क्षणात् ।
व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥**
चतुर्-भुजाः शङ्ख-चक्र-गदा-राजीव-पाणयः ।
किरीटिनः कुण्डलिनो हारिणो वन-मालिनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यद् अपि आश्चर्यम् आह—तावद् इति । वत्स-पालाः वत्साः पालाश् च । सर्वे यष्टि-विषाणादयश् च ॥४६-४७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतोऽप्य् अद्भुतम् आहु—तावत् तदा सकला वा, सर्व-शब्दस्य यष्ट्य्-आदि-परत्वेन व्याख्यानात् व्यदृश्यन्त ब्रह्मणेति शेषः ॥४६॥ अत्र विश्वनाथः,
राजीवं कमलम्, बिस-प्रसूनराजीव इत्य् अमरः ॥४७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पूर्वं वत्स-पाल-रूप एवाभवत्, सम्प्रति तद्-आकारतां तिरोधाप्य स्वरूपेणैवाविरभूद् इति दर्शयति—तावत् सर्व इत्य्-आदि ॥४६॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं मोहेन दीनतां गते श्री-ब्रह्मणि श्री-भगवान् अचिरात् कृपां व्यतनोद् इत्य् आह—तावद् इत्य्-आदिना । कर्तरि षष्ठी । पश्यता पुनर् अपि विचारयतेत्य् अर्थः । किं वा, दैन्येन भयेन च श्री-भगवन्तं निरीक्ष्यमाणेन । यद् वा, तान् एव पश्यतापि सता । इत्य् आश्चर्य-विशेष उक्तो भ्रमादिकं च निरस्तम् । विशेषतोऽदृश्यन्त दृष्टाः । यद् वा, अजे पश्यति सति व्यदृश्यन्त दृष्टि-विषया जाताः ॥४६॥
चतुर्भुजत्वाइकं श्री-वैकुण्ठ-नाथत्व-बोधनार्थम् तत् सेवकस्य श्री-ब्रह्मणस् तथैव तन्-माहात्म्य-प्रतीतेः । यद् वा, ब्रह्मादिभिः श्री-कृष्णस्य प्रायश् चतुर्-भूजादि रूपेणैव दर्शनात् ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं मोहेन दीनतां गते ब्रह्मणि श्री-भगवान् अप्य् अचिरातात् द्रष्टुं मञ्जु-महित्वम् अन्यद् अपि यद् । इति तद् अभिप्रायानुसारेणैव कृपां व्यतनोद् इत्य् आह—तावद् इत्य्-आदि-नवकेन । अङ्कास् तु पृथक् पृथक् क्रियन्ते पश्यन्तम् अजम् अनादृत्य तद् दृष्टि-शक्तिम् अनपेक्ष्य अदृश्यन्त । स्वयम् एव तद् दृष्टौ व्यक्ती-भूताः स्व-शक्ति मात्रेणाभिव्यक्तेः कर्म-कर्तृत्वम् ॥४६॥
चतुर्भुजा इत्य् अत्र चतुर्भुजत्वादिना विष्णुत्वम् अवगम्यते । मायाद्य् अधिष्ठातृत्वेन तु प्रथम द्वितीय-पुरुषत्वम् अवगंस्यते तस्मात्—
सृजामि तन् नियुक्तोऽहं हरो हरति तद् वशः । > विश्वं पुरुष-रूपेण परिपाति त्रिशक्ति-धृक् ॥
इति ब्रह्म-वाक्यात् ब्रह्माणं प्रति च तत्-तत्-कार्याय सर्व-शक्ति-व्यञ्जकतया प्रायो विष्णोर् एवाविर्भाव-श्रवणात् त्रयाणाम् अभेद-ज्ञापनार्थम् एव व्यामिश्रत्वेनाविर् भावोऽयं ज्ञेयः ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : कीदृशः ? घन-श्यामाः पीत-कौशेय-वाससः ॥४६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तावद् इति । यावद् एवं ब्रह्मा मीमांसमानो व्यामुह्यति स्मेत्य् अर्थः । वत्सा पालाश् च पश्यतोऽजस्य पश्यन्तम् अप्य् अजम् अनादृत्येति । भोः सत्य-लोक-वासिन् अज ! सत्यं त्वम् अज एवासि ईदृश्यैव बुद्ध्या विश्वं सृजसि अस्मान् मायया मोहयितुम् इच्छसि । कथञ्चित् ज्ञातुम् अपि तावन् न शक्नोषि पश्येति व्यदृश्यन्त, वयं वृन्दावनीयास् तृणं चरन्तो वत्सा अपि वत्सांश् चारयन्तो गोप-बाला अपि एवं भवामेति ज्ञापयन्त इव । तद्-दृष्टि-गोचराः स्वयम् एवाभुवन् स्व-प्रकाशत्वाद् इति भावः ॥४६-४७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सापराधेऽपि विरिञ्च-भृत्यत्वात् कृपैव नन्दार्भकस्यासीद् इत्य् आह—तावद् इति । यावद् एवं विचारयन् विमुह्यति स्मेत्य् अर्थः । वत्सात् तत्-पालाश् च सर्वे घन-श्यामादि-लक्षणा व्यदृश्यन्त कर्मकर्तरि प्रयोगः । स्व-प्रकाशत्वात् स्वयम् एव दृष्टि-गोचरा अभूवन् । पश्यतोऽजस्येत्य् अनादरे षष्ठी । भो सत्यलोक-निवासिन् अज ! त्वम् अनयैव बुध्या विश्वं सृजसि ? स्वामिन्य् अपि नन्दार्भके मायां तनोषि । तद् अंशानप्य् अस्मान् वृन्दाटवी निवासिनः कथञ्चिद् अपि ज्ञातुं नेष्टे ! पश्यास्माकं महैश्वर्याण्य् अस्माभिर् एव दर्शितानीति ॥४६.४७॥
॥ १०.१३.४८ ॥
श्रीवत्साङ्गद-दो-रत्न-कम्बु-कङ्कण-पाणयः ।
नूपुरैः कटकैर् भाताः कटि-सूत्राङ्गुलीयकैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रीवत्स-प्रभा-युक्तान् यद् अङ्गानि दोःषु येषाम्, रत्नमयानि कम्बु-वत् त्रि-धाराणि कङ्कणानि पाणिषु येषां, ते च ते च ॥४८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्गदानि केयूराणि । अङ्गदं बाहु-भूषायाम् अङ्गदो बालिजेऽपि च इति धरणिः । कटको वलयोऽस्त्रियाम् इत्य् उक्तेः, कर-भूषणम् अपि कटकोऽत्र नूपुर-साहचर्यात् पाद-भूषणपरः । कटि-सूत्राणि क्षुत्र-घण्टिका-युक्तानि सूत्र-प्रोतकटि-भूषणानि ॥४८॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीवत्सो नाम दक्षिण-स्तनोर्धे सूक्ष्म-रोम्णां दक्षिणावर्तः श्री-भगवतो\ऽसाधारण-लक्षणम् तेन च सारूप्य-प्राप्त-पार्षद-सादृश्यं निरस्तम् । कटकैः पाद-वलयैः ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीवत्सो नाम दक्षिण-स्तनोर्द्ध्वे सूक्ष्म-रोम्णां दक्षिणावर्तः श्री-भगवतोऽसाधारण-लक्षणाम् । यद् वा, श्री-युक्तं वत्सं वक्षः तत् प्रभा-युक्तम् इत्य्-आदि । यद् वा, श्री-युक्तं वत्सं वक्षो येषाम् इत्य्-आदि योज्यम्, उरो वत्सं च वक्षश् च इत्य् अमर । कटकैः पाद-वलयैः पारिशेष्यात् अन्यत् तैः, तत्र कम्बोर् मुखाग्र-भागे त्रिधारत्वात् तथोक्तम् । यद् वा, कम्बवो बलयाः कङ्कणानि मणि-बन्ध-बन्धनानि हस्त-सूत्राणि, कम्बुः स्यद् वलये शङ्खे इत्य् अमरस्य नानार्थात् । कङ्कणं कर-भूषणम् इति नृ-वर्गात् तत्र तत्र क्षीरस्वामिना तथा तथा व्याख्यानात् ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कटकैः पाद-वलयैः ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-लक्ष्मी-रेखा तद्-युक्तानि वत्सानि वक्षांसि येषां, ते च अङ्गद-युक्ता दोषो बाहवो येषां, ते च रत्नं कुस्तुभस् तद्-युक्ताः कम्बवः अतिशयोक्त्या त्रि-रेखाङ्किताः कण्ठा येषां, ते च कङ्कण-युक्ता पाणयो येषां, ते च ते कटकैः पाद-वलयैः ॥४८ ॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : श्रीः लक्ष्मी-रेखा तद्वन्ति वत्सानि वक्षांसि येषां । अङ्गदवन्तो दोषो भुजा येषां । रत्नं कौस्तुभस् तद्वन्तः कम्बवस् तत्-तुल्याः कण्ठा येषां । कङ्कणानि हस्त सूत्राणि च तद्वन्तः पाणयो येषां । कम्बुः स्याद् वलये शङ्खे इति अमर नानार्थ-वर्गात् । कङ्कणं कर-भूषणम् इति नृवर्गात् । कटकैः पाद-वलयैः ॥४८॥
॥ १०.१३.४९ ॥
आङ्घ्रि-मस्तकम् आपूर्णास् तुलसी-नव-दामभिः ।
कोमलैः सर्व-गात्रेषु भूरि-पुण्यवद्-अर्पितैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा भूरि बहु-जन्मार्जितं पुण्यं तद् युक्तैर् जनैर् अर्पितैः ॥४९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भूरि-पुण्यानि नारायण-कीर्तनादीनि, तद्-वद्भिर् भक्त-सहस्रेणार्पितैः । तुलसी-नव-दामभिर् वन-मालाभिर् इत्य् अर्थः । तुलस्या उपलक्षणत्वात्,
तुलसी-कुन्द-मन्दार-करवीर-सरोरुहैः । > पञ्चभी रचिता माला वन-माला प्रकीर्तिता ॥ इति लक्षणात् ।
अङ्घ्री च मस्तकं चाङ्घ्रि-मस्तकम् । तद् अभिव्याप्येत्य् अर्थः । आङ्-योगे द्वितीया । अनेन—
पत्र-पुष्प-मयी माला या स्याद् आमस्तकात् पुनः । > आपादं लम्ब-माना सा वन-माला प्रकीर्तिता ॥
इति द्वितीय-लक्षणम् अपि वन-मालाया अत्र सम्पन्नम् ॥४९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भूरि-पुण्यवद्भिर् अर्पितैर् इति प्रीत्या तेषां धारणं सूचितम् । यद् वा, भूरि-पुण्यं भक्तिस् तद्वद् इत्य् उत्प्रेक्षया । तेषां तन्मयताभिप्रेतातः सर्व-गात्रेष्व् अपि तैर् धृतैर् अत एव्आङ्घ्रितो मस्तक-पर्यन्तम् आपूर्णाः ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भूरि-पुण्यवद्भिः साधकैस् तत्-तत्-प्रतिमादिषु मनसा कर्मणा च्आर्पितैर् इति प्रीत्या । तेषां धारणं बहु-करणं च सूचितम् ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूरि-पुण्यानि श्रवण-कीर्तनादि-भजनानि तद्वता भक्त-सहस्रेणार्पितैः ॥४९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भूरीणि पुण्यानि विशुद्ध-कराणि श्रवण-कीर्तनादीनि तद्वद्भिर् भक्तैः ॥४९॥
॥ १०.१३.५० ॥
चन्द्रिका-विशद-स्मेरैः सारुणापाङ्ग-वीक्षितैः ।
स्वकार्थानाम् इव रजः-सत्त्वाभ्यां स्रष्टृ-पालकाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : चन्द्रिका-विशद-स्मित-युक्तैः सह्आरुण-गुणेन च वर्तमाना येऽपाङ्गाः, तैर् वीक्षितैः । स्वकार्थानां स्व-भक्त-मनोरथानां रजः-सत्त्वाभ्यां स्रष्टृ-पालका इव व्यदृश्यन्त । सत्त्ववद् विशद-स्मितेन पालका इव, रजोवद् अरुण-गुणेन च स्रष्टार इव तादृक् कटाक्षैर् द्योतमाना इत्य् अर्थः ॥५०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चन्द्रिका-विशद-स्मित-युक्तैः कौमुदी-धवलेषद्-धास-युतैः । अपाङ्गाः कटाक्षाः, अपाङ्गो ह्य् अङ्ग-हीने स्यात् कटाक्षे विष्णु-रक्षिते इति यादवः । इत्य् अर्थ इति—द्योतमाना इति पद-श्लेषेणायम् अर्थः शोभनो भवतीति भावः ॥५०॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वकार्थानां स्रष्टृ-पालका इति तादृक्-कटाक्षैर् एव तद्-एक-साध्यवतां भक्तानां सर्वाभीष्ट-सिद्धेः । तत्र कटाक्षैः स्रष्टार इति तैर् एव तद्-विषयक-विचित्र-कामानाम् उत्पादनात् स्मितैः । पालका इति निजायोग्यत्वादि-विचारेण क्षीयमाणानाम् अपि तेषां, तैर् एव रक्षणात् पोषणाच् च । इवेति लोकोक्तौ । यद् वा, रजः-सत्त्वाभ्याम् इवेति तत्र्आरुण्य-वैशद्य्आभ्यां रजः-सत्त्व-साम्येन तेषां तादृशत्वम् उक्तं । तथा कटाक्षाणां कादाचित्कत्वेन स्रष्टृत्वं स्मितानां च सदातनत्वेन पालकत्वम् इति । अन्यथान्योन्यं तेषां तत् तत् सम्भवेद् इति दिक् ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्मेरैः अन्तः स्मित-बाहुल्येन स्वयम् एव चन्द्रिका-निभ-विशदीभूतैश् च तैर् इत्य् अर्थः । टीकायां तु स्मित एव विशदता-विशेषणं तात्पर्य-वशाद् दत्तम् इति ज्ञेयम् । यद् वा, चन्द्रिकावद् विशदं यथा स्यात्, तथा स्मेरैः स्मयमानैः मृदु-पाचक इतिवत् क्रिया-विशेषणेन समासः । स्वकार्थानां स्रष्टृ-पालका इति तादृक्-कटाक्षैर् एव तदैक-साध्यवतां स्वक-शब्दोक्तानाम् एकान्ति-भक्तानां तादृशाभीष्ट-सिद्धेः । तत्र्आरुण-कटाक्षैः स्रष्टार इति तत्र-स्थस्यारुण-गुणस्य स्वक-चित्त-मादकत्वात् तेनैव । तद्-विषयक-विचित्र-कामानाम् उत्पादनात् स्मित-युक्त-कटाक्षैः पालका इति । निजायोग्यत्वादि-विचारेण क्षीयमाणानाम् अपि तेषां, तेनैव रक्षणात् पोषणाच् च इवेत्य् उत्प्रेक्षायाम् अरुण-विशद-गुण-स्थानीयाभ्यां रजः-सत्त्वाभ्याम् इवेति ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अरुण-विशद-स्थानीयाभ्यां रजः-सत्त्वाभ्याम् इवेत्य् उत्प्रेक्षा ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चन्द्रिकावत् विशदं यथा स्यात्, तथा स्मेरयन्त इति, चन्द्रिका-विशद-स्मेराणि मृदु-पाचक इतिवत् समासः । अरुणापाङ्गेन सह वर्तमानानि यानि सम्मुख-वीक्षितानि तैः । स्वकार्थानाम् अनुकम्पनीय-स्व-भक्त-मनोरथानां रजः-सत्त्वाभ्यां स्रष्टृ पालका इव व्यदृश्यन्त । रज-सेवारुण गुणेन स्रष्टार इव सत्त्वेनेव विशद-स्मितेन पालका इव ॥५०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : चन्द्रिकावद् विशदैः स्मेरैः स्मितैः अरुणापाङ्ग-वीक्षितेन सहितैः । स्वकार्थानां स्वानुकम्पित-भक्त-मनोरथानां रजः-सत्त्वाभ्यां स्रष्टृ-पालका इव व्यदृश्यन्त । रज-सेवारुणापाङ्ग-वीक्षणेन स्रष्टारः सत्त्वेनैव विशद-स्मितेन पालका इत्य् अर्थः ॥५०॥
॥ १०.१३.५१ ॥
आत्मादि-स्तम्ब-पर्यन्तैर् मूर्तिमद्भिश् चराचरैः ।
नृत्य-गीताद्य्-अनेकार्हैः पृथक् पृथग् उपासिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मा ब्रह्मा तद्-आदि-स्तम्ब-पर्यन्तैः अनेकार्हैर् अनेकार्हणैः ॥५१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्तम्बः स्कन्ध-हीन-वृक्षस् तृण-समूहो वा, स्तम्बोऽप्रकाण्ड-द्रु-गुच्छ-तृण-कीचक-गह्वरे इति धरणिः । एकैकस्याग्रे भिन्न-भिन्न-ब्रह्म-रुद्रादयो देवाः सर्वे स्थावर-जङ्गमाश् च स्व-स्व-मूर्ति-भेदैः स्तुवन्तीति भावः ॥५१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चराचरैस् तत्-तल्-लक्षण-युक्तैस् तत्-तद्-अधिष्ठातृभिस् तत्र-चराः पवनादयः, अचरा हिमालयादयः । नृत्य-गीतादयो ये नैकार्हा अनेकार्हणोपकरणानि तैः । पृथक् पृथग् इति स्व-स्वाधिकारानुसारेणोपासना-सामग्री-भेदात् । इत्थं बालकादीनां तेषां, प्रत्येकम् एकैक-ब्रह्माण्डेश्वरत्वम् उक्तम् । तथा चाग्रे श्री-ब्रह्म-स्तुतौ तावन्त्य् एव जगन्त्य् अभूः [भा।पु। १०.१४.१८] इति ।
यद् वा, नृत्यादिनोपासिताः । कथं-भूतैश् चराचरैः एकार्हैर् एकस्य श्री-भगवतो योग्यैस् तत्-तन्-मुखैर् वैकुण्ठ-लोक-वर्तिभिर् भगवद्-विभूत्याख्यैर् इत्य् अर्थः । सर्वेषां तेषां तादृग्-उपासना-योग्यत्वात्, तथापि जगन्त्य् अभूर् इति सिद्ध्येद् एव तत्-तन्-मद् उपासनात् ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चराचरैः तत्-तल्-लक्षण-युक्तैः तत्-तद्-अधिष्ठातृभिः नृत्य-गीतादयो येनैकार्हाः अनेकार्हणोपकरणानि, तैः । पृथक् पृथग् इति स्व-स्वाधिकारानुसारेणोपासना-सामग्री-भेदात् । इत्थं बालकादीनां तेषां, प्रत्येकम् एकैक-ब्रह्माण्डेश्वरत्वम् उक्तम् । तथा चाग्रे श्री-ब्रह्म-स्तुतौ, तावन्त्य् एव जगन्त्य् अभूः [भा।पु। १०.१४.१८] इति ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : चराचरैस् तत्-तद्-अधिष्ठातृ-दैवतैः ॥५१.५३॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मात्र ब्रह्मा । नैकार्हैः अनेकार्हणैः ॥५१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आत्मात्र विरिञ्चस् तद्-आदिभिः नृत्य-गीतादिभिर् नैकार्हैर् अनेकार्हणैः ॥५१॥
॥ १०.१३.५२ ॥
अणिमाद्यैर् महिमभिर् अजाद्याभिर् विभूतिभिः ।
चतुर्-विंशतिभिस् तत्त्वैः परीता महद्-आदिभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अजाद्याभिर् माया-विद्यादिभिर्, विभूतिभिः शक्तिभिः । महद्-आदिभिर् इति महत्-सूत्रयोः पृथक्त्व-विवक्षया चतुर्-विंशति-तत्त्वैर् जगत्-कारणैः ॥५२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदि-पदात् श्री-कीर्ति-पुष्टि-कान्ति-गिर्-आदयो ज्ञेयाः । महिमभिः सिद्धिभिः । अणिमाद्यैर् अत्राप्य् आदि-पदान् महिम-गरिमादयो ज्ञेयाः ॥५२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महिमभिर् ऐश्वर्य-रूपैः । न जायत इत्य् अजा नित्य-सिद्धा सच्-चिद्-आनन्द-विग्रहा भगवती लक्ष्मीर् योग-मायाख्या शक्तिर् वा । आदि-शब्देन माया-विद्याविद्यादयः, ताभिर् विभूतिभिः शक्ति-रूपाभिः ॥५२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महिमभिर् ऐश्वर्य-रूपैः । न जायत इत्य् अजा नित्य-सिद्धा भगवती लक्ष्मी योग-मायाख्या शक्तिर् वा । आद्या-शब्देन माया-विद्याविद्यादयः ॥५२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महिमभिर् ऐश्वर्यैः । अजा माया तद्-आद्याभिः शक्तिभिः । चतुर्-विंशतिभिर् इति महत्-तत्त्व-सूत्र-तत्त्वयोः पार्थक्य-विवक्षया । तत्त्वैर् जगत्-कारणैः ॥५२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : महिमभिर् ऐश्वर्यैः । अजा मूल-प्रकृतिस् तद्-आद्याभिर् विभूतिभिः शक्तिभिः । चतुर्-विंशतिभिर् इति बहु-वचनं प्रत्येकं तावद्भिस् तत्त्वैर् उपासनात् । चतुर्-विंशतित्वं च महत्-तत्त्व-सूत्रयोर् भेद-विवक्षया ॥५२॥
॥ १०.१३.५३ ॥
काल-स्वभाव-संस्कार-काम-कर्म-गुणादिभिः ।
स्व-महि-ध्वस्त-महिभिर् मूर्तिमद्भिर् उपासिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कालादिभिश् च तत् सह-कारिभिः । तत्र कालः क्षोभकः । स्वभावः परिणाम-हेतुः । संस्कारो वासनाया उद्बोधकः । स्व-महि-ध्वस्त-महिभिर् भगवन्-महिम्ना तिरस्कृत-स्वातन्त्र्यैर् उक्तैः सर्वैर् अणिमाद्यैः ॥५३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कामो वासना । कर्म अदृष्टम् । गुणाः सत्त्वादयः ॥५३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गुणाः सत्त्वादयः । आदि-शब्देन जाति-नामादयः । स्व-महिम्ना ध्वस्तो महिमान्येषां यैर् । अणिमाद्यैर् अणिमादीनां महा-सिद्धि-रूपत्वात् तत्त्वादीनां च जगत्-कारणत्वात् ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गुणाः सत्त्वादयः आदि-शब्देन जाति-नामादयः स्व-महिम्ना ध्वस्तोऽन्येषां महिमा यैस्, तैर् अणिमाद्यादिभिः अणिमादीनां तत्रासमोर्ध्वत्वात् अन्याणिमादि-करणत्वाच् च तत्त्वादीनां च जगत्-कारणत्वम् ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालादिभिश् च तत्-सहकारिभिर् अत्र स्वभावः परिणाम-हेतुः । संस्कार उद्बोधकः स्व-महि-ध्वस्त-महिभिर् भगवन्-महिम्ना तिरस्कृत-स्वातन्त्रैः ॥५३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कालादिभिश् च तत्-सहकारिभिर् मूर्तिमद्भिस् तत्-तद्-अधिष्ठातृभिः । कीदृशैः ? इत्य् आह—स्व-महीति । भगवन्-महिम्ना तिरस्कृत-स्वातन्त्र्यैर् इत्य् अर्थः । कालः क्षोभकः, स्वभावः परिणाम-हेतुः । संस्कार उद्बोध-हेतुः, कामो विषयाभिलाषः, कर्म पुण्यादि-रूपं, गुणाः सत्त्वाद्याः ॥५३॥
॥ १०.१३.५४ ॥
सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः ।
अस्पृष्ट-भूरि-माहात्म्या अपि ह्य् उपनिषद्-दृशाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वेषां मूर्तिमत्त्वेऽपि विशेषम् आह—सत्य-ज्ञानेति । सत्याश् च ज्ञान-रूपाश् च अनन्ताश् च आनन्द-रूपाश् च । तत्रापि तद्-एक**-मात्रा** विजातीय-सम्भेद-रहिताः । तत्रापि च एक-रसाः सदैक-रूपा मूर्तयो येषां ते । यद् वा, सत्य-ज्ञानादि-मात्रैक-रसं यद् ब्रह्म, तद् एव मूर्तिर् येषाम् ते इति । अत एव उपनिषद् आत्म-ज्ञानं सैव दृक् चक्षुर् येषां, तेषाम् अपि । हि निश्चितम् । अस्पृष्ट-भूरि-माहात्म्याः न स्पृष्टं स्पर्श-योग्यं भूरि-माहात्म्यं येषां, ते तथा-भूताः सन्तो व्यदृश्यन्तेति ॥५४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विशेषं ब्रह्मादिभ्यो भेदम् । तत्रापि सत्यादि-रूपत्वेऽपि । विजातीय-भेदो घटात् पटस्य तद्वन् न, किन्त्व् एक-जातीया एवेति । तत्राप्य् एक-जातीयत्वेऽपि । किं च, सति ज्ञाने स्वरूपावाप्त्या जीवा अपि सत्य-ज्ञानन्तादि-रूपा जायन्ते । अतस् तेषु जीव-विशेष-शङ्काम् अपानुदन्न् अर्थान्तरम् आह—यद् वेति । व्यदृश्यन्तेति पूर्वेणान्वयः । न चैतत् सर्वं भगवता मायया दर्शितम् इति मन्तव्यम् इत्य् आह—सत्यं विज्ञानम् आनन्दं ब्रह्म इति, सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१] इति, आनन्दं ब्रह्मणो रूपम् [तै।उ। ३.९] इत्य्-आदि-श्रुत्य्-उक्तं सत्यादि-रूपं यद् ब्रह्म तद् एव मूर्तयो येषां ते तथा । उपनिषदः पश्यन्ति भक्त्य्-अभावान् न तु तद्-अर्थं जानन्तीत्य् उपनिषद्-दृशो दार्शनिकास् तैर् न स्पृष्टं भूरि माहात्म्यं येषां ते । भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति, न चक्षुषा पश्यति रूपम् अस्य [क।उ। १.२.२३] इति, यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनुं स्वाम् [भा।पु। ६.७.६२] इति, आदित्य-वर्णं तमसः परस्तात् [श्वे।उ। ३.८] इति, आनन्द-मात्रम् अजरं पुराणम् एकं सन्तं बहुधा दृश्यमानम् [बृ।आ।उ। ४.४.१९] इति, बहु-मूर्त्य्-एक-मूर्तिकम् [भा।पु। १०.४०.७] इति,
सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः । > हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् । > परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ॥[महावराहप्]
इत्य्-आदि-श्रुति-स्मृति-गम्यं ब्रह्मणोऽप्य् अप्राकृत-रूप-गुणादिमत्त्वं तद्-इच्छया भक्तिमच् चक्षुर्-गम्यम् अस्तीति ज्ञेयम् । अन्यथा मार्कण्डेय-पुराणीय-सप्तशती-स्तवोक्त-वाराह-नृसिंह-विष्णु-शरीर-प्रादुर्भूत-वाराह्यादि-शक्ति-कृत-रक्त-बीजादि-युद्धम् अप्य् असङ्गतं स्यात् । अतः सर्वदैव सर्वे भगवद्-अवतारादि-विग्रहाः सन्तीति निश्चेयम् ॥५४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : चैतन्यता अपरिच्छिन्नता व्यापकता च पर्याप्ता, किं पुनस् तस्येति भावः । यद् वा, सत्य-ज्ञान्आनन्तानन्द-मात्रैक-रसो ब्रह्म, तद् एव मूर्तिर् येषां ते तथा । तेन विभूति-भूतस्य विग्रह-व्यूहस्य ब्रह्मत्वे विभोः श्री-कृष्णस्य विभूतिर् ब्रह्मेति यत् सात्वतैर् उच्यते । तत्र का प्रतिपत्तिर् इति, तर्हि कथम् एवं श्रुति-सिद्धं स्यात् ? तत्राह—अस्पृष्ट-भूरि-माहात्म्या इत्य्-आदि । उपनिषद एव दृशश् चक्षूंषि ताबिर् अप्य् अस्पृष्टं भूरि माहात्म्यं येषाम् । येषां माहात्म्यं श्रुति-रूप-चक्षुषाम् अपि ग्राह्यं न भवतीति श्रुति-सिद्धत्वे कोऽवसरः ? ॥५४॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं देहेन्द्रियादि-तत्-तच्-चेष्टादिना विविध-भेदेन भिन्नानाम् अप्य् अभेदम् आह—सत्येति । इत्थं श्री-वैष्णव-सम्मतो भेदाभेद-न्यायः सिद्धः । नन्व् एकम् एव वस्तु भिन्नं च माया-व्यतिरेकेण कथं सम्भवेत् ? सत्यं, परम-दुरूहम् एवैतद् इत्य् आशयेनाह—अस्पृष्टेति । उपनिषद्-दृशाम् आत्म-तत्त्व-ज्ञानाम् । यद् वा, ब्रह्मादीनां सार-ज्ञान-हेतवो या उपनिषदः सत्य-लोकादौ मूर्तिमत्यस् तासां दृशोऽक्षीणि ताभिर् अप्य् अस्पृश्य भूरि-माहात्म्या इत्य् अर्थः । श्री-भगवत्-प्रसाद-विशेषेण तत्-प्रिय-जनानुग्रहेणैव शास्त्र-सार-सिद्धान्त-रूपं तत् तत्त्वं विज्ञेयं स्यात्, न तु शास्त्रादि-पाठ-ज्ञानेनेति भावः । अत एव वक्ष्यति—अतर्क्ये निज-महिम्नि [भा।पु। १०.१३.५७] इति ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं मूर्तत्व्एऽपि विविधत्वेऽपि पर-ब्रह्मैक-रूपत्वेन वैशिष्ट्यम् एकत्वम् अपि आह—सत्येति । तत्र सत्या एक-रसाश् च कालस्यापि कारणत्वेनाश्रयत्वेन चाकल्पत्वात् । तद् उक्तं काल-स्वभावेत्य्-आदि, सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि [महानारायणउ १.८] इति श्रुतेः । विशेषेण विविधं वा द्योतते दीप्तिं करोतीति विद्युत् निमेषास् तन्-निमेषोन्मेष-प्रभवाः कालावयवा इत्य् अर्थः । यो यं कालस् तस्य तेऽव्यक्त-बन्धो ! चेष्टाम् आहुः इत्य्-आद्य्-उक्तत्वात् । ज्ञान-रूपाः स्व-प्रकाशत्वेनाजडत्वात् । तद् उक्तं पश्यतोऽजस्य तत्-क्षणाद् व्यदृश्यन्त इति, न चक्षुषा पश्यति रूपम् अस्य इति, यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनुं स्वाम् [क।उ। १.२.२३] इति, आदित्य-वर्णं तमसः परस्तात् [श्वे।उ। ३.८] इत्य्-आदि श्रुतेः ।
नित्याव्यक्तोऽपि भगवान् ईक्षते निज-शक्तित इति नारायणाध्यात्म्याच् च अनन्ताः परिच्छिन्न-प्रायत्वेऽप्य् अचिन्त्य-शक्त्याविभुत्वात्, यस् त्व् एतम् एवम् आदेश-मात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते [छा।उ। ५.१८.१] इति श्रुतेः । न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इति-उक्तत्वाच् च आनन्द-मात्रा निरुपाधि-परम-प्रेमास्पद-सर्वांशत्वात् । तद् उक्तं किम् एतद् अद्भुतम् इव वासुदेवे खिलात्मनि [भा।पु। १०.१३.३६] इत्य्-आदि । आनन्दं ब्रह्मणो रूपम् इति श्रुतेः । विदितोऽसि भवान् साक्षाद् इत्य्-आद्य्-उक्तत्वाच् च बहुत्वं चैकस्यैवाविर्भावाभेद-विवक्षया, आनन्द-मात्रम् अजरं पुराणम् एकं सन्तं बहुधा दृश्यमानम् [बृ।आ।उ। ४.४.१९] इति श्रुतेः । युगपद् अनन्त-गुण-रूपस्यैव सतस् तस्येच्छानुसारेण विशेष-दर्शनात् । अतो बाल-वत्सादि-रूपं च तत्र नागन्तुकम् । तद् उक्तं, मणिर् यथा विभागेन [नार्पञ्च्] इत्य्-आदि । अत एवैकत्व-विवक्षया टीकायाम् आह—यद् वेति । वक्ष्यते च श्रीमताक्रूरेण, बहु-मूर्त्य्-एक-मूर्तिकम् [भा।पु। १०.४०.७] इति ।
एवं श्रुति-प्रमाणकत्वाद् अस्य च सत्येत्य्-आदि-वाक्यस्य पञ्चम-वेदत्वात्, सर्व-वेदान्त-सारं हि [भा।पु। १२.१३.१५] इति, सर्व-वेदेतिहासानां सारं सारं समुद्धृतम् [भा।पु। १.३.४२] इति न्यायेन तत्-सार-रूपत्वाच् च तैर् अपि उपनिषच्-छब्देन वेदान्तो न व्याख्यातः । वक्ष्यते च, अतन्-निरसन-मुख-ब्रह्मकम् इतौ इति सदेर् गत्य्-अर्थत्वाज् ज्ञानार्थकत्वं तच् चेश्वर-ज्ञानाद् अवरम् आत्म-ज्ञानम् एवेति, यतो वाचो निवर्तन्ते [तै।उ। २.४.१] इत्य्-आदि-रीत्या वा, तथोक्तम् आनन्त्यानादित्वात् भूरि-माहात्म्य-शब्देन निर्विशेषत्व-प्रतिपादनं च निरस्तं । मात्र-पदेन च ज्योतिर्-आदि-धर्माणां शुक्लादि-गुणानाम् इव तद्-धर्माणां तत्-स्वरूपान्तः-पातित्वं विवक्षितं प्राकृतागन्तुकत्वं च निषिद्धं यथा—
न तस्य कार्यं करणं च विद्यते > न तत्-समश् चाभ्यधिकश् च दृश्यते । > परास्य शक्तिर् विविधैव श्रूयते > स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.७-८] इति श्रुतेः ।
अत एव प्रकृति-क्षोभात् पूर्वं स ऐक्षत स आसीद् इत्य्-आदि ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (भगवत्-सन्दर्भः (४४): अतस् तद्-अंशानाम् अपि तादृशत्वं [सच्-चिद्-आनन्द-रूपत्वं] आह—सत्येति । टीका च—सर्वेषां मूर्तिमत्त्वेऽप्य् अविशेषम् आह—सत्य-ज्ञानेति । सत्याश् च ज्ञान-रूपाश् च अनन्ताश् च आनन्द-रूपाश् च । तत्रापि तद्-एक**-मात्रा** विजातीय-सम्भेद-रहिताः । तत्रापि च एक-रसाः सदैक-रूपा मूर्तयो येषां ते । यद् वा, सत्य-ज्ञानादि-मात्रैक-रसं यद् ब्रह्म, तद् एव मूर्तिर् येषाम् इति । अत एव उपनिषद् आत्म-ज्ञानं सैव दृक् चक्षुर् येषां, तेषाम् अपि । हि निश्चितम् । अस्पृष्ट-भूरि-माहात्म्याः न स्पृष्टं स्पर्श-योग्यं भूरि-माहात्म्यं येषां, ते तथा-भूताः सर्वे5 व्यदृश्यन्तेति । इत्य् एषा ।
अत्र मात्र-पदं तद्-वर्णादीनां स्वरूपान्तरङ्ग-धर्मत्वं बोधयति । न ह्य् अत्रापरस्मिन्न् अर्थे मूर्ति-शब्दः केवलात्म-पर इति स्वामिनः श्री-शुक-देवस्य वा मतम्, लक्षणायाः कष्ट-कल्पनामयत्वात् । अस्पृष्टेत्य् अत्र अस्पृष्टेति भूरि-माहात्म्येति अपीति उपनिषद्-दृग् इति पद-चतुष्टयस्यैव व्यस्तस्य समस्तस्य च स्वारस्य-भङ्ग-प्रसङ्गात् । उक्त-प्रकारानुरोधात् तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यं [भा।पु। ३.१५.३८] इत्य्-अद्य्-उदाहरिष्यमाणानुसारात्, स्व-सुख- [भा।पु। १२.१२.६८] इत्य्-आदि श्री-शुक-हृदय-विरोधाच् च ।
अत एव विशुद्ध-विज्ञान-घनं [भा।पु। १०.३७.२०], विशुद्ध-ज्ञान-मूर्तये [भा।पु। १०.२७.२१], त्वय्य् एव नित्य-सुख-बोध-तनाव् [भा।पु। १०.१४.२२] इत्य्-आदि-वाक्यानि च न लाक्षणिकतया कदर्थनीयानि ।
तथैव आनन्द-मूर्तिम् उपगुह्य दृशात्म-लब्धं [भा।पु। १०.४१.२५] इत्य् आदौ,
दोर्भ्यां स्तनान्तर-गतं परिरभ्य कान्तं > आनन्द-मूर्तिम् अजहाद् अतिदीर्घ-तापम् ॥ [भा।पु। १०.४८.६]
इत्य् आदौ च दर्शनालिङ्गनाब्याम् अन्यार्थत्वं व्यवच्छिद्यते । उक्तं च महावाराहे—
सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः । > हानोपादेय-रहिता नैव प्रकृतिजाः क्वचित् ॥ > परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः । > देह-देहि-भिदा चात्र नेश्वरे विद्यते क्वचित् ॥[महावराहप्] इति > ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्येति । किं च, सत्याः सर्व-कारणत्वेन ज्ञान-रूपाः स्व-प्रकाशत्वेन अनन्ता विभुत्वेन आनन्दा निरुपाधि-परमास्पदत्वेन एक-रसाः काल-कारणत्वेन अत एवैकत्वं पृथक्-प्रकाशत्वेन च पृथक्त्वम् अपीति ज्ञेयम् ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, कथम् इयं प्रकाशिका माया ? एषापि कुहकत्वेनावरिकैव भवतु ? तन् नेत्य् आह—सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः । सत्य-ज्ञानानन्तानन्द-मात्रैक-रसो ब्रह्म, तद्-रूपा मूर्तिर् येषाम् इति, न हि ब्रह्मणि कुहकांशकाः । ननु, कथम् एतत् सत्य-ज्ञानानन्तानन्द-मात्रैक-रसस्य नानात्वम् ? श्रुत्य्-अप्रतिपादितत्वाद् इत्य् आशङ्क्याह—अस्पृष्ट-भूरि-माहात्म्या अपि ह्य् उपनिषद्-दृशां, श्रुत्य्-अगोचरत्वात् कथं नाम तद्-अप्रतिपादितत्वादि ॥५४.५६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चैतत् सर्वं भगवता मायया दर्शितम् इति मन्तव्यम् इत्य् आह—सत्येति । सत्याश् च ज्ञान-रूपाश् च अनन्ताश् च आनन्द-रूपाश् च तत्रापि तद्-एक-मात्राविजातीय-सम्भेद-रहिताः । तत्राप्य् एक-रसाः काल-परिच्छेदकाभावात् सदैक-रूपा मूर्तयो वपूंषि येषां ते ।
यद् वा, सत्यम् विज्ञानम् आनन्दं ब्रह्मेति, सत्यम् विज्ञानम् अनन्तं ब्रह्मेति, आनन्दं ब्रह्मणो रूपं [तै।उ। ३.९], इत्य्-आदि श्रुत्य् उक्तं सत्यादि-रूपं यद्-ब्रह्म तद् एव मूर्तयो येषां ते ।
ननु, दृश्यत्व-बहु-विविधत्वादिकं ब्रह्मणो नैव श्रूयते वेदान्त-दर्शिनस् तत्राह—अस्पृष्टेति । उपनिषदः पश्यन्ति भक्त्य्-अभावान् न तु तद्-अर्थं जानन्तीत्य् उपनिषद्-दृशो दार्शनिकास् तेषां, तैर् न स्पृष्टम् अपि भूरि-माहात्म्यं येषां ते । भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति, भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः [गीता १८.५५] इति, न चक्षुषा पश्यति रूपम् अस्य [क।उ। १.२.२३] इति, यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनुं स्वाम् [क।उ। १.२.२३] इति, आदित्य-वर्णं तमसः परस्तात् [श्वे।उ। ३.८] इति, आनन्द-मात्रम् अजरं पुराणम् एकं सन्तं बहुधा दृश्यमानम् [बृ।आ।उ। ४.४.१९] इति, बहु-मूर्त्य्-एक-मूर्तिकम् [भा।पु। १०.४०.७] इति,
सर्वे नित्याः शाश्वताश् च देहास् तस्य परम्नः । > हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् । > परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ॥ [महावराहप्]
इत्य्-आदि-श्रुति-स्मृति-गम्यं ब्रह्मणोऽप्य् अप्राकृत-रूप-गुणादिमत्त्वं तद्-इच्छया भक्तिमच् चक्षुर्-गम्यम् अस्तीति ज्ञेयम् ॥५४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न चैते हरिणा मायया त्रिगुणया विरचिता इत्य् आह—सत्येति । सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१], विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] इति श्रुत्य्-उक्तं, यत् सत्य-ज्ञानानन्तानन्दं ब्रह्म तन्-मात्रास् तद्-एक-रूपा, अत एक-रसाः कूटस्था मूर्तयो येषां ते । देह-देहि-भेदाभावेऽपि तद्-भेद-व्यपदेशः सत्तासतीत्य्-आदिवद् विशेषाद् एवेति बोध्यम् । उपनिषद् वेदान्तो दृक् येषां, तैर् अप्य् अस्पृष्टं साकल्येनागृहीतं माहात्म्यं येषां ते । नमो वेदान्त-वेद्यायौपनिषः पुरुषः इति श्रुतेर् उपनिषद्-वेद्यत्वं । कार्त्स्न्येन नाजोऽप्य् अभिधातुम् ईशः इति स्मृतेः साकल्येनावेद्यत्वम् ॥५४॥
॥ १०.१३.५५ ॥
एवं सकृद् ददर्शाजः पर-ब्रह्मात्मनोऽखिलान् ।
यस्य भासा सर्वम् इदं विभाति स-चराचरम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं सकृद् एक-देव ददर्श । पर-ब्रह्मणो विशेषणं यस्येति ॥५५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्य ब्रह्मणः, यस्य भासा सर्वम् इदं विभाति [मु।उ। २.२.११] इति श्रुतेः ॥५५॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सकृत् युगपद् इत्य् अर्थः । पर-ब्रह्म श्री-कृष्णस् तद्-आत्मकान् । नन्व् अधिकारवता श्री-परमेष्ठिना कथम् एवं द्रष्टुं शक्तम् ? तथाह—यस्येति । पर-ब्रह्मणा श्री-भगवता कृपया तस्मिन् प्रकाशितम् इति भावः । यद् वा, यस्य अजस्य भास् तेजः स्वभाव इत्य् अर्थः । तेन्एदं जगत् सर्वं विशेषेण भाति कर्म-ज्ञान-भक्त्य्-आदि-सम्पत्त्या द्योतत इति श्री-भगवत्-प्रसादेन तस्य स्रष्टृत्वात् योगेश्वराणां सनकादीनाम् । तथा जगतो परो गुरुः [भा।पु। २.९.५] इत्य् उक्तेर् भगवद्-भक्तानां श्री-नारदादीनाम् अपि गुरुत्वात् स्वत एव तद्-योग्यतास्त्य् एवेति भाव इति भ्रमादिना दर्शनम् अपि निरस्तम् ॥५५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सकृद् युगपद् इत्य् अर्थः । परं ब्रह्म सत्य-ज्ञानादि-रूपं तद्-एक-रूपात् । तर्हि कथं दृष्टि-विषयत्वम् ? तत्राह—यस्येति । अतः स्वयं-प्रकाश्यत्वात् सर्वं प्रकाशकत्वाच् च तद्-इन्द्रियाणि स्व-शक्त्या प्रकाश्य स्वयम् इति प्रकाशते इति भावः । अत एव व्यदृश्यन्ते इति कर्तारं विनैवोक्तम् इति दिक् । किं त्व् अनेन प्रकारेण पूर्व-वत्स-बालकानां महिमैव दृश्यन्ते स्म । मम लीलेयम् एतादृशैर् एव सिद्ध्यति । अन्यथा मायैक-सृष्टिर् एवाकरिष्यत इति ज्ञापनायेति गम्यते ॥५५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं चेत् कथं दर्श ? तत्राह—यस्येति । तस्य सर्व-प्रकाशकत्वात् स्व-प्रकाशकत्वाच् चेत्य् अर्थः ॥५५॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य पर-ब्रह्मणः ॥५५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्राकृतैर् महद्-आदिभिस् तत्त्वैर् उपासितान् ब्रह्मात्मकान् वत्स-तत्-पालान् सकृत् प्रदर्श्य चिन्मयैस् तैर् उपासितांस् तान् अतिकृपालुः सकृद् अदर्शयद् इत्य् आह—एवम् इति । अखिलान् वत्स-तत्-पालांस् तत्त्व-पर्यन्तान् पर-ब्रह्मात्मकान् अजः सकृद् ददर्श । एवम् इति सङ्ख्यया नामभिश् च पूर्व-तुल्यान् इत्य् अर्थः । यस्य पर-ब्रह्म्णो भासा शक्त्या सर्वं स-चराचरम् इदं जगद् विभाति कार्य-क्षमं भवति । द्रव्यं कर्ं च कालश् च इत्य्-आदि-वचनात् इदं द्वितीय-दर्शनम् । अद्यैव तदृतेऽस्य किम् इत्य्-आदिना अपराध्याये व्यक्तीभावि ॥५५॥
॥ १०.१३.५६ ॥
ततोऽतिकुतुकोद्वृत्य6-स्तिमितैकादशेन्द्रियः ।
तद्-धाम्नाभूद् अजस् तूष्णीं पूर्-देव्य्-अन्तीव पुत्रिका ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिकुतुकेनाश्चर्येणोद्वृत्य दृष्टीः परावृत्य हंस-पृष्ठे निपत्येति वा । कुतुक-शब्दे तृतीयायाश् छान्दसो लुक् । यद् वा, उद्वृत्य इति छेदः । अतिकुतुकेन उद्वृत्यो विलोड्यो विपर्यस्तः स्वस्मिन्न् इति यावत् । पाठान्तरे त्व् अतिकुतुकेनोद्वृत्तः क्षुभितः । तेषां धाम्ना तेजसा स्तब्ध-सर्वेन्द्रियो ब्रह्मा तूष्णीं निश्चलोऽभूत् । अत्र दृष्टान्तः—पूर् देवी व्रजाधिष्ठात्री काचिद् देवता, तस्या अन्ति समीपे पुत्रिका चतुर्-मुखी-कृतक-प्रतिमेव ॥५६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपसर्ग-योगेन धातोर् अनेकार्थता-द्योतनाय, निपत्येति वेति । छान्दसाश्रयणस्यागतिक-गतिकत्वात् प्रकारान्तरम् आह—विलोड्यो विलोडितुं योग्यः । तृतीया-तत्-पुरुषः । खर्परे शरि वा विसर्ग-लोपो वक्तव्यः इति विसर्ग-लोपः । पाठान्तरे तु अतिकुतुकोद्वृत्त इति पाठे तु । तेषां सत्यादि-रूपाणां वत्स-पालानां तेजसा । ध्वस्त-सर्वेन्द्रियश् चकितेन्द्रियः । अत्र निश्चलस् तूष्णीम्भावे । पुत्रिका भूमि-दंशे स्यात् तथा कृत्रिम-मूर्तिके इति सात्वतः । पुत्रिका इति पाठे पूर्-देवी बहु-लोकैः पूज्यमाना ग्राम-देवता तस्या अन्ति निकटे । पुत्रिका बालकैः खेल्यमाना पूजिता क्षुद्रा मृण्मयी पञ्चालिकेवेति विश्वनाथः ॥५६॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततः परम-विस्मयेन स्तम्भितः स्तुति-प्रणामादिकम् अपि कर्तुं नाशक्नोद् इत्य् आह—तत इति । तूष्णीम् अभूत् निश्चेष्टो वृत्त इत्य् अर्थः । तत्र दृष्टान्तः—पूर् देवी पौरैः पूज्यमाना देवी, तस्या अन्तिके वर्तमाना या पुत्रिका शोभार्या चित्रादि-मयी पुत्तलिका । सा यथा पूजाद्य्-अभावेन निश्चेष्टा दृश्यते, तथेत्य् अर्थः ॥५६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तस्य मोहम् आह—तत इति । तद्-धाम्ना तेषां प्रभावेण अन्ति, तेषाम् अन्तिके स्तिमितैकादशेन्द्रियो निश्चेष्टः सन् तूष्णीम् अभूत् । किञ्चिद् वक्तुम् अपि न शक्तवान् इत्य् अर्थः । तत्र किरीटादि-शोभस्य स्तब्धस्य च तस्योपमा पूर्-देवी नाना-परिच्छदैः पुर-जनाराध्या प्रतिमेवेति । अन्यत् तैः ।
तत्र दृष्टीः परावर्त्य तद्-दृष्टीनां चतुर्-दिक्षु स्थितत्वात् ताभिः पर्यायेण दृष्ट्वेत्य् अर्थः । तस्मिन्न् इति हंस-पृष्ठ इत्य् अर्थः । खर्परत्वाद् विसर्ग-लोपः ॥५६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेषां धाम्ना प्रभावेण अन्ति । तेषाम् एव समीपे काचित् पूर् देवी पुरजनाराध्यमाना यथा सशोभा निश्चेष्टा च सैव ॥५६॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिकौतुकेन उद्वृत्त्यानि विलोड्यानि स्तिमितान्य् आनन्द-स्तब्धानि एकादशेन्द्रियाणि यस्य स । उद्वृत्त इति पाठे अतिकुतुकेन क्षुभितः तेषां धाम्ना तेजसा तूष्णीं किम् अपि वक्तुं चेष्टितुं चाशक्तोऽभूत् । अत्र दृष्टान्तः पूर् देवी बहु-लोकैः पूज्यमाना ग्राम-देवता, तस्या अन्ति निकटे पुत्रिका बालकेन खेल्यमाना अपूजिता क्षुद्रा मृण्-मयी पञ्चालिकेव ॥५६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अतिकुतुकेनोद्वृत्तानि क्षुब्धानि स्तिमितान्य् आनन्द-क्षुब्धानि एकादशेन्द्रियाणि यस्य सः । तेषां धाम्ना तेजसा तूष्णीं वक्तुम् अप्य् अनीशोऽभूत् । तत्र दृष्टान्तः—पूर् देवी सर्व-पुर-जनैर् नोपचारैः पूज्या महा-माहात्म्या देवी, तस्या अन्ति सन्निधौ पुत्रिकेव शिशुभिः खेल्यमाना अपूज्या पञ्चालिकेवेत्य् अर्थः ॥५६॥
॥ १०.१३.५७ ॥
इतीरेशेऽतर्क्ये निज-महिमनि स्व-प्रमितिके
परत्राजातोऽतन्-निरसन-मुख-ब्रह्मक-मितौ ।
अनीशेऽपि द्रष्टुं किम् इदम् इति वा मुह्यति सति
चच्छादाजो ज्ञात्वा सपदि परमोऽजा-जवनिकाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं मोह-मग्नम् अजम् उज्जहारेत्य् आह—इतीति । इरेशे इरा सरस्वती तस्या ईशे ब्रह्मणि किम् इदम् इति मुह्यति सति पश्चात् तद् द्रष्टुम् अप्य् अनीशे सति परमोऽजः श्री-कृष्णः सपद्य् अजा-जवनिकां माया-रूपां तिरस्करिणीं यया अद्भुतं दर्शितं तां चच्छाद तिरो-धत्त, अपसारितवान् इत्य् अर्थः ।
अथवा, अयं लोकाभिमानी ममैश्वर्यं द्रष्टुम् अयोग्य इति तस्योपरि मायां प्रसारितवान् इति । कस्मिन् स्वरूपे मुमोह तद् आह—अतर्क्ये तर्कागोचरे । निजोऽसाधारणो महिमा यस्य, तस्मिन्न् इति मोहे हेतुद्वयम् उक्तम् । दर्शनायोग्यत्वाय त्रीणि विशेषणानि । स्व-प्रमितिके स्व-प्रकाशं च तत् कं सुखं च यस्मिन् । अत एव अजातः प्रकृतेः परत्र परस्मिन् । अतन्-निरसन-मुखेन ब्रह्मकैः श्रुति-शिरोभिर् मितिर् ज्ञानं यस्मिन्, तस्मिन् स्वरूपे ॥५७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-प्रकारेण । मोह-मग्नं मोहितम् । अजं ब्रह्माणम् । उज्जहार उद्दधार । इरा सरस्वती, इरा सरस्वतीम् अद्य-जल-काम-प्रदेषु च इति धरणिः । पश्चान् मोहाद् अनु । ततः सत्यानन्द-मूर्ति-व्यूहम् । प्रतिसीरा जवनिका स्यात् तिरस्करिणी च सा इत्य् अमरः । अपसारितवान् दूरीचकार । इत्य् अर्थ इति—सति प्रसिद्धेऽर्थेऽप्रसिद्धार्थ-कल्पनम् अन्याय्यम् इति हेतोः प्रसिद्धार्थ-परतया व्याचख्य—अथवा इति । महिमाधिक्यम् । अतर्क्येऽद्भुत-वैभवे मोहो भवत्य् एवेति अतर्क्यत्वाद् इति हेतुर् ऊहनीयः । अतन्-निरसन-मुखेन अतद् व्यावृत्त्या । इरा सरस्वती तस्या ईश महा-बुद्धिमत्य् अपीत्य् अर्थः ॥५७॥ [अत्र विश्वनाथः]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अजा-जवनिकां चच्छाद संवृतवान् । मायान्तः-पात-संवरणानन्तरम् एव वृन्दावन-स्वरूप-दर्शन-योग्यताभूद् इति भावः ॥५७॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ज्ञात्वानुभूय भगवन् माहात्म्यम् इति प्रकरणाद् अध्याहार्यम् अतः प्रेमोद्रेकेणानन्द-विशेषेण वा मुह्यति सति पश्चात् तत् तद् अतिरेकेण द्रष्टुम् अप्य् अशक्ते सति । चार्थे वा-शब्दः । अन्यत् तैर् व्याख्यातम् । यद् वा, ततश् च पृथक्त्वेन प्रकाशितं तद् वत्स-वत्स-पादि-रूपं पूर्व-बालकेषु श्री-ब्रह्मणो मायां च, तां नितराम् अनुगृह्नन् श्री-भगवान् संवृतवान् इत्य् आह—इतीति, इति—एतान् इत्य् अर्थः । अजस्य श्री-ब्रह्मणो\ऽजाजवनिकां च बालादीनां मोहनाच्छादनात्मिकां मायां चच्छाद संवृतवान् । ज्ञात्वेत्य् अस्यात्रैवान्वयो\ऽवसरं विचार्येत्य् अर्थः । अन्यत् समानम् ॥५७-५८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति पूर्व-रीत्या बाल-वत्सादि-रूपम् एकम् अद्भुतं दृष्टं इदं वा किम् इति वा-शब्दार्थः । ज्ञात्वा तन्-मोहादिकम् अवधार्य । अन्यत् तैः ।
अत्र प्रथम-पक्षे मायया अविद्या-विद्या-वृत्तिकत्वात्, अविद्या-रूपेण तिस्करिणीं ब्रह्मणो दृष्टिं प्रति श्री-कृष्ण-रूपस्य व्यवधायिकां, तथा यया अविद्या-रूपया अतर्क्यं इत्य्-आदि-पञ्च-विशेषणकत्वाद् अन्याद् दृश्यं तद् अद्भुतं दर्शितं तद्-रूपेण प्रकाशिकाम् अपि ताम् अपसारितवान् इति । तम् एतं पक्षम् अवैष्णवम् अयुक्तं चाशङ्क्य पक्षान्तरम् आह—अथवेति । अत्र तस्य स्व-प्रकाशत्वात् स्व-प्रकाशता-शक्तिर् एव दर्शने हेतुः—ग्माया त्व् अविद्यावृत्त्य्-आवरण-धर्मैव, विद्या-वृत्त्या च न तस्य तस्या अपि प्रकाशकस्य, तस्य प्रकाशन-समर्थेत्य् उक्तं तद् एवाह—परत्राजात इति । अतस् तादृश-वैभवं प्रति ब्रह्म-दृष्टितो मायापसारणेन तद् दर्शितं । तत्र प्रसारणेन त्व् आच्छादितम् इति, प्रसारितम् अपि प्रसारितवान् इति । छदेर् अन्तर्भूतण्य् अर्थत्वात् मायायाश्चाण्यन्तकर्मत्वात् इति शब्दः । अथवेति पक्ष-समाप्त्य्-अर्थः । उत्तर-ग्रन्थस्य उभयत्रान्वितत्वात् । क्व मुह्यति ? इति कुत्र तस्य मोह इत्य् अर्थः । स्वरूपे घन-श्यामादि-रूपे निज-महिमनीति बहुव्रीहिः । यद् वा, निज-महिमनीत्य् एव विशेष्यं कर्म-धारयात् तादृश-चतुर्भुज-वृन्दे तद्-वैभव इत्य् अर्थः । अन्यत् समानम् ॥५७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : इत्य् अनेन प्रकारेण तां तद्-उपरि चच्छाद छादयामास इत्य् अन्तर्-भूतान्य् अर्थत्वात् । कुत्र मोहः ? तत्राह—निज-महिमनि व्यदृश्यन्त घन-श्यामा इत्य्-आदि स्व-वैभवे तद्-विशेषणानि स्व-प्रमितिक इत्य्-आदीनि मा लक्ष्मीः । तया श्री-राधा-देव्या सहितः समः श्री-कृष्ण तस्य आ सम्यक् प्रियं राधा वृन्दावने वन इति ॥५७.५८॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तथा-विधया प्रकाशकया मायया किम् इदं किम् इदम् इदम् इति ब्रह्मणि मोहं गते तां पुनस् तिरोधापयांश् चकारेत्य् आह—इतीरेश इत्य्-आदि । अतर्क्योऽचिन्तनीय-निज-महिमनि प्रकाशा-शक्ति-वैभवे स्व-प्रमितिके स्व-प्रमाणके स्व-स्वरूपे, विषय-सप्तमीयम्, तथा-विध-निज-महिम-विषये इति यावत् । इरेशे ब्रह्मणि मुह्यति सति अजा-जवनिकाम् अजस्य ब्रह्मणा आजवनिकाम् अजत्वाबिमान-वनिकां वनीं चच्छाद । स्व-मायया तस्य मायां छादयामासेत्य् अर्थः । अजस्येदम् आजम् अजत्वाभिमानः । तद् एव वनिका अत्यल्प-वनं, अल्पत्वाद् वनम् एव वनी । अल्पद्वादीप् । तत्राल्प्य् अल्पत्वे कन् । निज-महिमानं पुनर् विशिनष्टि—अजातः प्रकृतितः परत्र । तत्र हेतुः—अतन्-निरसन-मुखेन यद् ब्रह्मकं ब्रह्मानन्दस् तस्य मितिर् यत्र । इरेशे कीदृशे ? द्रष्टुम् अप्य् अनीशे । पुनः कीदृशे ? किम् इदम् इति मुह्यति सति ।
कश् चच्छाद ? तत्राह—अजः श्री-कृष्णः । द्वयोर् एकाजत्वे कथं तारतम्यम् ? इत्य् आह—परमः । अयं तु परमोऽजः, स त्व् औपचारिकः । यद् वा, अजा माया, अजा चासौ अजवनिका अतिरस्करणी अनावरिका प्रकाशिकेति यावत् । सा चेति कर्मधारयः । तां प्रकाशिकां स्वकीयां चछाद संवृतवान् इत्य् अर्थः । किं कृत्वा ? ज्ञात्वा ब्रह्मणो मोहं ज्ञात्वा ॥५७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तावन् मात्र एव मञ्जु-महिमनि निमज्जन्तम् अनुभवासमर्थं ब्रह्माणम् आलोक्य, ततः परस् सहस्रेषु दर्शयितव्येष्व् असाधारणेषु निज-महा-मञ्जु-महिमसु तम् अनधिकारिणम् अभिमृश्य मञ्जु-महिम-दर्शनां समापयामासेत्य् आह—इतीति । ईरेशे ब्रह्मणि इरा सरस्वती तस्या ईशे महा-बुद्धिमत्य् अपीत्य् अर्थः । किम् इदम् इति मुह्यति सति पश्चाद् द्रष्टुम् अप्य् अनीशे सति । परमो\ऽजः श्री-कृष्णः ज्ञात्वा स्वैश्वर्य-रसानुभवे तद्-योग्यतां वीक्ष्य सपदि अजा-जवनिकां योग-माया-रूपां तिरस्करणीं चछाद यया पुलिने भुञ्जनान् श्रीदामादि-बालकान् तृणं चरतो वत्सान् वत्सान्वेषकं स्वं चाच्छाद्य, स्वरूप-भूतान् वत्स-बालकादीन् पुनस् तान् एव चतुर्भुजादित्वेन दर्शयामास ताम् अन्तरधापयद् इत्य् अर्थः । या वास्तवं वस्त्व्-आवृणोति अवास्तव-वस्त्व् एव दर्शयति सा माया । या तु वास्तव-वस्तूनाम् अपि मध्ये किम् अपि आवृणोति, किम् अपि दर्शयति सा योग-माया । इति माया-योग-माययोर् भेदद् अजा-शब्देनात्र बहिरङ्गा-माया न व्याख्येया । क्व मुह्यति ? निज-महिमनि दर्शत-चतुर्भुजादि-रूप-स्व-महैश्वर्ये कीदृशे ? अतर्क्ये । यतः स्व-प्रमिति स्व-प्रकाशं च तत् कं सुख-रूपं च । तस्मिन् अत एव अजातः प्रकृतेः परत्र परस्मिन् । अतन् निरसन-मुखेन ब्रह्मकैः, अस्थूलम् अनणु अहृस्वम् [बृ।आ।उ। ३.७.८] इत्य्-आदिकैः श्रुति-शिरोभिर् ब्रह्माभि-व्यञ्जकैर् मितिज्ञानं यत्र स्वरूपे ॥५७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मञ्जु-महिम-चुलुकेऽपि निमज्जन्तः ततोऽन्यस्मिंस् तद्-अर्णवे दर्शयितव्यो अनधिकारिणं विरिञ्चं विज्ञाय हरिस् तद्-दर्शनं समापयद् इत्य् आह—इतीति । इरा सरस्वती तस्या ईशे तत्-पितरि महा-बुद्धिशालिनि विरिञ्चे किम् इदम् इति मुह्यति सति । पश्चात् द्रष्टुम् अप्य् अनीशे च सति परमोनन्दार्भकः सर्वेशस् तं स्व-मञ्जु-महिम-दर्शने तद् अनुभवे चायोग्यं ज्ञात्वा सपदि तत्क्षणात् अजा-जवनिकां चछाद यया प्रकृतान् वत्स-बालांस् तद् अन्वेषक-स्व-पर्यन्तानाच्छाद्य । पुनः स्वात्मभूतां तान् घन-श्यामादि-लक्षणान् अदर्शयन्ताम्-अजा-जवनिकां योग-मायाख्यां तिरस्करणीम् अन्तर्धापयद् इत्य् अर्थः । माया-योग-माययोर् भेदस्तु, विष्णोर् माया भ्यगवतीति पद्य-टिप्पण्यां द्रष्टव्यः । क्व मुह्यतीत्य् ? अत्राह—निजे असाधारणे महिमनि दर्शिते घन-श्यामादि-लक्षणे महैश्वर्ये । कीदृशे अतर्क्ये ? यतः स्व-प्रमितिके स्व-प्रकाश-विज्ञानानन्द-रूपे इत्य् अर्थः । तादृशस्य मूर्तत्वादिना अतर्क्यत्वम् इत्य् अर्थः । अतएवाजातस् त्रि-गुणायाः परत्र तद् अस्पृष्टे इत्य् अर्थः । अतन्-निरसन-मुखेन ब्रह्मकैर् वेद-शिरोभिः, अस्थूलम् अनण्व् अह्रस्वम् [बृ।आ।उ। ३.७.८] इत्य्-आद्योपनिषद् वाक्यैर् मितिज्ञानं यस्य तस्मिन् ॥५७॥
॥ १०.१३.५८ ॥
ततोऽर्वाक् प्रतिलब्धाक्षः कः परेतवद् उत्थितः ।
कृच्छ्राद् उन्मील्य वै दृष्टीर् आचष्टेदं सहात्मना ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्वक् बहिः प्रतिलब्धान्य् अक्षीणि येन सः । परेतवन् मृतो यदि कथञ्चित् पुनर् उत्तिष्ठति तथा । दृष्टीर् नेत्राणि ॥५८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो मायाच्छादनानन्तरम् । को ब्रह्मा ? । आत्मना भगवता सहेदं वक्ष्यमाणं वृन्दावनम् आचष्ट ददर्श ॥५८॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततः सम्बरणाद् अर्वाक् पश्चात् प्रतिलब्धाक्षः प्राप्त-सज्ञ इत्य् अर्थः । परेतवद् इति मोहस्यातिशय्यात् । किं वा, गते\ऽपि मोहे चिरेण चेष्टोत्पत्तेः । उत्थित इति मोहेन पूर्वं हंस-पृष्ठे पतनं बोधयति । इदं विश्वम् आत्मना सहितम् इति मोहेन विस्मृतस्यात्मनस् तदानीम् अनुसन्धानोत्पत्तेः । यद् वा, इदं वक्ष्यमाणं वृन्दावनादिकम् । सहैक-दैवात्मना स्वयम् एवापश्यत ॥५८॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उत्थित इति मोहेन हंस-पृष्ठे पतनं बोधयति, इदं ममतास्पदं विश्वम् आत्मना देहेनाहन्तास्पदेन सहितं तस्यापि विस्मृतत्वात् ॥५८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ततस् तस्या संवरणे ब्रह्मा प्रकृतिं प्राप्त इत्य् आह—ततोऽर्वागि इत्य्-आदि । को ब्रह्मा ? परेतरं मृत वत् प्रतिलब्धात्मा सन् उत्थितः कृच्छ्राद्-दृष्टीर् उन्मील्यात्मना सह इदम् उक्त-प्राय-वैभवम् आचष्टे ॥५८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्वाक् बहिः प्रतिलब्धानि अक्षाणि येन सः । परेतवत् मृतो यदि कथञ्चित् पुनर् उत्तिष्ठति ? तथेत्य् अर्थः । विस्मय-रस-महा-भार-मर्दितत्वाद् इति भावः । इदं जगत् ममतास्पदं आत्मनाहन्तास्पदेन सह अपश्यत् तयोर् अपि विस्मृत-पूर्वत्वात् ॥५८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अर्वाग् बहिः प्रतिलब्धान्य् अक्षाणीन्द्रियाणि येन सः । परेतवद् उत्थितः मृतश् चेत् कथञ्चिद् उत्तिष्ठति ? तथेत्य् अर्थः । विस्मय महाभाव विमर्दितत्वाद् इति भावः । आत्मना स्वेन सहेदं जगद् आशष्टापश्यत् ॥५८॥
॥ १०.१३.५९ ॥
सपद्य् एवाभितः पश्यन् दिशोऽपश्यत् पुरः-स्थितम् ।
वृन्दावनं जनाजीव्य-द्रुमाकीर्णं समा-प्रियम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : जनानाम् आजीव्यैर् द्रुमैर् आकीर्णम् । समा-प्रियं सन्ततान्य् आसमन्तात् प्रियाणि यस्मिंस् तत् ॥५९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सपदि झटित्य् एव । आजीव्यैर् आम्रजंब्वादिभिः ।
यद् वा, जनानाजीवयन्ति क्षेत्र-कर्षणादिनेति जनाजिव्या वृषास् तेषां, द्रुमा द्रुमवद् उत्पादका गावस् ताभिर् आकीर्णम् ।
यद् वा, जनाजीव्यं जलं तस्य द्रुमा द्रुमवद् दात्री कालिन्दी तया जनाजीव्या भक्तिः सैव द्रुमो मोक्ष-फल-प्रदत्वेन तयाकीर्णम् इति वा । प्रियकराणि पुष्प-पत्रादीनि । मा लक्ष्मीस् तस्याः प्रियो हरिस् तेन सहेति समाप्रियम् । मा लक्ष्मीः प्रिया-शब्दोदिता श्री-राधा ताभ्यां सहेति पूर्ववत् । मा लक्ष्मीस् तस्याः प्रिया गावस् तासु नित्यं सन्निहितत्वात् तस्याभिस् सहेति ॥५९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वृन्दावनं कीदृशं ? मा-प्रियम्, मा शोभा अस्याः प्रियम् । स ब्रह्मा ॥५९॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभितो दिशः पश्यन् सपद्य् एव वृन्दावनम् अपश्यत् स ब्रह्मा । मायाया लक्ष्म्याः श्री-राधा-रूपायाः प्रियम्—तत्र तस्याः श्री-भगवत् प्रदत्ताधिपत्येन परम-प्रीतेः श्री-भगवत्-प्रियत्वाद् वा, तस्याः । यद् वा, मया लक्ष्म्या सह वर्तते समो भगवान्, तस्य आ सम्यक् प्रियम् ॥५९॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च परम-कृपया श्री-कृष्णस् तस्मै स्वान्तरङ्ग-वैभवं प्रकाशितवान् इत्य् आह—सपदीति त्रिभिः । यद् वा, पूर्वं वृन्दावनाधिष्ठानक-श्री-कृष्णाख्यं परम-स्वरूपं यया माया-जवनिकाच्छाद्य स्व-शक्ति-विशेषेण-स्वरूप-वैभवान्तरं दर्शितवान् ताम् अपसारितवान् इति प्राचीन-तृतीय-श्लोकार्थः । ततश् च स्व-तेजोभिः सर्वाच्छादकेन अप्राकृतेन परम-स्वरूपेणैव प्रकाशते इत्य् आह—तत इति चतुर्भिः । अर्वाचि सम्प्रत्य् अवतीर्णे श्री-कृष्णाख्य-परम-स्वरूपे पुनर्-लब्ध-दृष्टिः सन् इदं श्री-वृन्दावनम् आत्मना सह व्यचष्ट तद् एव विवृणोति-सपदीति । अभितो दिशः पश्यन् सपद्य् एव वृन्दावनम् अपश्यत् स ब्रह्मा माया-लक्ष्म्याः श्री-राधा-रूपायाः प्रियं राधा-वृन्दावने वन इति मात्स्य-पाद्मादिभ्यः । यद् वा, माया तथैव लक्ष्म्या सह वर्तत इति समः श्री-कृष्णः तस्य आ सम्यक् प्रियं वृन्दावनं गोवर्धनम् इत्य्-आदि उक्तम् । यद् वा, मायास् तस्य्सा एव प्रियः श्री-कृष्णस् तेन सह वर्तमानम् इत्य् एवं, चेत् समानाम् आत्मारामाणाम् अपि आप्रियम् इति कियत् ॥५९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : वृन्दावनं गोवर्धनम् इति प्रसिद्धेः ॥५९॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न केवलं तद् एवाचष्टे, स्वरूपस्थं वृन्दावनं च ददर्शेत्य् आह—सपदीत्य्-आदि । अभितः सर्वा दिशः पश्यन् पुरः-स्थितं वृन्दावनम् अपश्यत्, पुरः-स्थितम् अपि या या दिशः पश्यति तासु तास्व् एव पश्यतीत्य् अर्थः । वृन्दावनम् अपि व्यापकेन ददर्श । अथव, पुरोवृन्दावन-दर्शन-योग्यता नषीत्, पश्चाद् एवाहङ्कारहतो ददर्श । कीदृशम् ? जनाजीव्य-द्रुमाकीर्णम्, जनाजीव्य-द्रुमाः कल्प-द्रुमाः । स ब्रह्मा म शोभा तस्याः प्रियं दयितम्, तस्यास् तत्रैवानुगतत्वात् । म लक्ष्मीर् वा तस्या अप्रियं सम्यक् प्रीतिस्थानम्, वैकुण्ठाद् अपि मनोहरत्वात् । आत्मना सहेत्य् अत्रैव वान्व् एतव्यम् । या या दिशः पश्यति, तासु तास्व् आत्मना सह वृन्डवनं ददर्शेति वृन्दावनस्य व्यापकत्वम् । अतस् ऋतीये भगवता ब्रह्माणं यत् प्रत्युक्तम्
ततः आत्मनि लोके च भक्ति-युक्तः समाहितः । > द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस् त्व् आत्मनः ॥[भा।पु > ३.९.३१]
इति तस्येदम् उदाहरणं व्याख्यातं च तत्रैव तथा ॥५९.६०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च परम-कृपया कृष्णस् तस्मै स्व-माधुर्य-वैभवं प्रकाशितवान् इत्य् आह—सपद्य् एवेति । सम्यग् आसमन्तात् परस्परं प्रियाण्य् एव यत्र तत् ॥५९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ कृपालुः नन्दऋभकः स्व-शिष्याय तस्मै स्वा-माधुर्याश्रियं वृन्दावनम् अदर्शनाद् इत्य् आह—सपदेति । अभितो दिशः पश्यन् वृन्दावनम् अपश्यत् जनाजीव्यैर् नानास्वादु-फल-रस-वद्भिर् द्रुमैर् आकीर्णं सम्यग् आसमन्तात् प्रियाणि यत्र यत् ॥५९॥
॥ १०.१३.६० ॥
यत्र नैसर्ग-दुर्वैराः सहासन् नृ-मृगादयः ।
मित्राणीवाजितावास-द्रुत-रुट्-तर्षकादिकम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् आह—यत्रेति । नैसर्ग-दुर्वैराः स्वाभाविकाप्रतिकार्य-वैरवन्तोऽपि नराः सिंहादयश् च मित्राणीव यत्र सहैवासन् । अजितस्यावासेन द्रुताः पलायिताः रुट्-तर्षादयः क्रोध-लोभादयो यस्मात् तत्राभूतं वृन्दावनम् अपश्यद् इति ।
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् समाप्रियत्वम् । अप्रतीकार्यं निवर्तनाशक्यम्, यथा गो-व्याघ्राखुबिडालादीनाम् यत्र वृन्दावने । तद् अपश्यद् इति पूर्वेण सम्बन्धः ॥६०॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): लल् लक्षणम् आह—यत्रेति । तैर् व्यञ्जितम् एव । यद् व, नैसर्ग-दुर्वैरा अहि-नकुलादयाः सहैवासन् नृ-मृगादयश् च मित्राणीवासन् परस्परं हिताचरणात् । तत्र हेतुम् आह—अजितस्य योगादिना महा-प्रयासेन हृद्य् अपि वशीकर्तुम् अशक्यस्य, भगवत आवासः सदा सम्यग्-वसतिर् यस्मिन् । अत एव स्वभावत एव वा, द्रुत-रुट्-तर्षादिकं तच् च तच् च तस्मिन् । आदि-शब्देन दम्भ-मात्सर्यादयः ॥६०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तल् लक्षणम् आह—यत्रेति । तैर् व्यञ्जितम् एव । यद् वा निसर्ग-दुर्वैरा अहि-नकुलादयः सहैवासन् ततः सुतरां नृ-मृगादयश् अ मित्राणीवासन्न् इत्य् अर्थः । तत्र हेतुः, अजितस्य योगादिना महा-प्रयासेन हृद्य् अपि वशीकर्तुम् अशक्यस्य, श्री-भगवत आवासः सदावस्थितिः तेन तद् रूपेण निज-महिम्ना द्रुतं रुट्-तर्षादिकं यस्मात् तत् ॥६०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अजितावास-रूपं च तत् द्रुत-रुट्-तर्षादिकं च, तत् तस्मिन् ॥६०॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पूर्व श्लोकस्य व्याख्या द्रष्टव्या।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवाह—नैसर्ग निसर्गोत्थं मिथो दुर्वरं येषां । ते\ऽपि मनुज-व्याघ्रादयः मित्राणीव सहैवासन् अजितस्यावासेन द्रुता पलायिताः । रुट्-तर्षादयः क्रोध-लोभादयो यस्मात् तस्मिन् ॥६०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तदैवाह नैसर्गिकं स्वाभाविकं दुर्वैरं येषां, ते नृ-मृगादयो मनुष्य-व्याग्रादयो यत्र मित्राणीव सहैवासन् अजितस्यावासेन द्रुताः पलायिता । रुट्-तर्षादयः क्रोध-लोभादयो यतस् तस्मिन् ॥६०॥
॥ १०.१३.६१ ॥
तत्रोद्वहत् पशुप-वंश-शिशुत्व-नाट्यं
ब्रह्माद्वयं परम् अनन्तम् अगाध-बोधम् ।
वत्सान् सखीन् इव पुरा परितो विचिन्वद्
एकं स-पाणि-कवलं परमेष्ठ्य् अचष्ट ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र च परमेष्ठी ब्रह्मा इव पुरा पूर्ववद् एव ब्रह्म अचष्टापश्यत् । कथं-भूतम् ? पशुप-वंश-शिशुत्वं नाट्यम् उद्वहत् । नाट्यम् इत्य् अत्र हेतुः, अद्वयम् इत्य्-आदि । अद्वयं च वत्सान् विचिन्वत्, एकं च सखीन्, अगाध-बोधं च विचिन्वत् । अनन्तं च परितो विचिन्वत्, परं च शिशुत्वम् उद्वहत्, ब्रह्म च स-पाणि-कवलम् इति नाट्यम् एवोद्वहद् इत्य् अर्थः ॥६१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र वृन्दावने । इत्य् अर्थ इति—नाट्य-विनाद्वयस्य वत्स-विचयनम्, एकस्य सखि-विचयनम्, अगाध-बोधस्य विचयनम्, अनन्तस्य परितो विचयनं परस्य शिशुत्वं, ब्रह्मणः स-पाणि-कवलत्वं च कदाचिद् अपि न सम्पनीपद्यत इति भावः । ततः स्वरूप-भूतानि चतुर्भुजत्वादीनि योग-माययैवाच्छाद्य प्रकटम् एव्आद्वयं ब्रह्म श्रुत्य् उक्तं दर्शित-सर्व-स्वरूप-मूलभूतं स्वरूपं दर्शयामास ॥६१॥ अत्र विश्वनाथः
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत्रोद्वहद् इत्य्-आदि । श्री-विग्रहस्य परिच्छिन्नत्वादि-विरुद्ध-धर्म-निरास-मुखेन बहिर्-मुखानां मुख-मूद्रणार्थं ब्रह्मैव तद् इति निर्दिशति—तत्रोद्वहद् इति । पशुपानां वंशोऽन्वयस् तस्य ये शिशवस् तेषां, भावस् तद्-रूपता स एव नाट्यं लीलाम् उद्वहत् सत्, अद्वयं ब्रह्म पुरेव एकं पाणि-कवलं पाणौ कवलो यस्य तं, परमेष्ठी अचष्ट । अद्वयम् इति तद्-अतिरिक्तं ब्रह्मान्यन् नास्ति । स एव श्री-विग्रहे ब्रह्मेति केचित् सात्वताः । यद् वा, पशुप-वंश-शिशुत्व-नाट्यम् उद्वहत्, श्री-कृष्णाख्यं परं प्रमेश्वरं परात्परं किम् अपि वस्तु अचष्ट । पुरेव एकं ददर्श, नाट्यम् इत्य् अलीकत्वं निवारयति । ब्रह्माद्वयं ब्रह्मणा सहाद्वयं तद् एव ब्रह्म-रूपम् । अतः सत्य-ज्ञानानन्तानन्दत्वादि-सिद्धम् । परं कीदृशम् ? अगाध-बोधं च । पुनः कीदृशम् ? वत्सान् सखींश् च विचिन्वत्, अतीत-सामीप्ये वर्तमाना ॥६१॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च श्री-कृष्णं ददर्शेत्य् आह—तत्रेति । अब्द-गते\ऽपि पूर्ववद्-वत्स-सखि-गण-मार्गणादिकं श्री-ब्रह्मणः परम-कौतुकायः । किं वा, भावि-मोह-निवृत्तिर् निज-सहचराणां पूर्ववत् समागमादि-सुखार्थम् । अन्यत् तैर् व्याख्यातम् । तत्र तादृशं वस्त्व् ईदृग् वर्तत इति चमत्कार-विशेषस्य भक्ति-विशेषस्य वा कारणत्वे तात्पर्यम्, न तु ब्रह्म-दृष्टाव् इति । यद् वा, परं-ब्रह्म श्री-भगवन्तम् अचष्ट । कथम्-भूतम् ? पशुप-वंश-शिशुत्वेन श्री-नन्द-कुमारत्वेन नाट्यं लीलाम् उद्वहत् । यद् वा, पशुप-वंशो-गोप-वेणुस् तस्मिन् शिशुत्वं वादनादि-परत्वम्, तद् एव नाट्यम् उद्वहत् । कदाचित् कौतुकेन दक्षिणेन हस्तेन, कदाचित् वामेन तस्य वादनात् । कदाचिच् च भोजनार्थं जठर-पट-सन्धौ न्यसनात् । कथम्-भूतं नाट्यम् ? अद्वयम् असाधारणम् इत्य् अर्थः । कथम्-भूतं परं ब्रह्म ? एकम् एकाकि-वत्स-बालादि-रूप-संवरणाद् अत एव पुरेव विचिन्वत् । अन्यत् समानम् । एवम् एषां श्री-ब्रह्म-दृष्टानां यथोत्तरं श्रीष्यम् उहम् ॥६१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तत् तत् सर्व-फलं साक्षाच् चकारेत्य् आह—तत्रेति ब्रह्मेति । प्रापञ्चिकानां तेषां तेनैवाविर्भावादि-दर्शनेन तदाद्य् अन्तयोर् एक-स्वरूपोदयेन च तत् तल् लक्षणाक्रान्तत्वात् ।
ननु, सम्प्रति दृश्यमान-प्रपञ्चस्यान्यत् कारणम् अस्तु तत्राह—अद्वयं, एकम् एवाद्वितीयं ब्रह्म [छा।उ। ६.२.१] इति श्रुतेः । सजातीय-भेद-रहितं ततो दृष्टं परित्यज्य, किम् अर्थम् अदृष्टं ? कल्प्येत-तत्रेदम् अप्य् एकं तत्र तत्र स्व-शक्त्ये एक-मात्र-सहायं पूर्व-युक्त्या बहुमूर्तित्वेऽपि सत्य् अज्ञानादि-स्वरूपैक-मूर्तिकम् इत्य् अर्थः । अनेन विजातीय-सम्भेदश् च निषिद्धः केषाञ्चित् स्व-गत-भेद-निषेधश् च शक्ति-शक्तिमतोर् अभेद-विवक्षया एवं सर्व-कारणत्वेन सर्व-परत्वम् अनन्तत्वम् । तथा सर्वज्ञत्व-सत्य-सङ्कल्पत्व-सर्वार्तर्क्य-स्वरूपतच् छक्तित्वादिभिर् अगाध-बोधत्वं च प्रसिद्धम् । महा-पुरुषादि-कारण-नराकृतित्वेनैव सर्व-बृहत्तमत्वात् ब्रह्मत्वं साधयित्वा परं ब्रह्मापश्यदित्य् उक्तम् । वक्षते च अद्यैव त्व् अदृते [भा।पु। १०.१४.१८] इत्य्-आदि । तद् एवम् अनुभूत-पारमैश्वर्यस्य लोकवत् तु लीला-कैवल्यम् [वे।सू। २.१.३३] इति न्यायेन । सर्व-लीला-निधानस्य तादृश-नराकृतित्वोचित-परम-लीला-माधुर्यम् अप्य् अनुभूतवान् इत्य् आह—तत्र तादृशे श्री-वृन्दावने पशुप-वंश-शिशुत्वं श्री-गोप-राज-कुमार-लीलत्वम् एव नाट्यं वैचित्रीभिस् तद् वत् परम-चमत्कार-कारकम् उत्सर्वोत्कृष्टतया वहत् यत्नेन बिभ्रद् इति । तत्र च तादृश-ब्रह्मत्वादि-धर्माणाम् अपि उपसर्जनताजननीं ब्रह्मादि-चाण्डाल-पर्यन्त-जन-मनोहरां निज-जन-प्रेमवशतामयीं काम् अपि लीलाम् अनुभूतवान् इत्य् आह—वत्सान् इति । सर्वं विधिकृतं कृष्णः सहसावजगाम ह इति तेषां ज्ञातत्वात् पुरेव विचिन्वद् इत्य् अर्थः । अन्यत् तद् व्याख्यावत् एवं वत्सरं यावत् तेनैव रूपेण वत्स-बाल-पालकतया तत्-परोक्षम् अवस्थितिस् तस्य गम्यते व्रजे गमनं च स्व-स्वरूप-प्रकाश-द्वैतेन जनक-श्रुत-देव-गृह-गमनवत् तत् प्रकाशे काल-गमनं च सखीनाम् इव तस्यापि सङ्क्षेपेणेव ज्ञातम् । कवलादीनां तत्रैव स्थितेर् इति ज्ञेयम् ॥६१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रेति । ब्रह्म अद्यैव त्वद्-ऋतेऽस्य [भा।पु। १०.१४.१८] इत्य्-आदि-न्यायेन नराकृतितयैव पर-ब्रह्म तद् अपश्यत् । अत एवाद्वयम् इत्य्-आदि । एवम् अपि लोकवत् तु लीला-कैवल्यम् [वे।सू। २.१.३४] इति न्यायेन सर्व-लीला-निधानस्यापि तस्य तादृशाविर्भावाभीष्ट-लीलाम् अनुभूतवान् इत्य् आह—तत्र इति । श्री-गोप-राज-कुल-तिलक-लीलत्वम् एव नाट्यं तद्वच् चमत्कार-कारकं तद्-उत्कृष्टतया वहत् यत्नेन बिभ्रत् । तत्राप्य् उपसर्ज्जनीकृतं पर-ब्रह्मत्व-भावां निज-जन-प्रेम-वशतामयीं काञ्चित् तद् अन्तरीणां लीलाम् अनुभूतवान् इत्य् आह—वत्सान् इति ॥६१.६२॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ प्रकाशिकां मायाम् अन्तर्धाप्य स्वरूपेण स्थितम् एकम् एव ददर्शेत्य् आह—तत्रोद्वहद् इत्य्-आदि । स परमेष्ठी एकम् अद्वयं ब्रह्माचष्ट ददर्श । कीदृशम् ? वत्सान् सखींश् च पुरेव विचिन्वत् । पुनः कीदृशम् ? पाणि-कवलं पाणौ कवलो यस्य, परं परात्परम् । अनन्तम् एकम् अप्य् अपरिच्छिन्नम् । अगाध-बोधम् अनवगाह्य-बोधम् ।
ननु, कथम् एकत्वम् ? ततः सर्वे वत्सपालाः [भा।पु। १०.१३.४६] इत्य्-आदौ । सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः [भा।पु। १०.१३.५४] इति स्वस्यैव बहुत्वात् । सत्यम् इत्य् आह—पशुप-वंश-शिशुत्व-नाट्यम् उद्वहत्, पशुपानां गोपानां वंशः पृथक् पृथग् अन्ववायास् तेषां, शिशवो बालकास् तेषां भावः स्वरूपम् । तद् एव नाट्यं नाटकीय-वस्तु, तद् यथा प्रवेश-निर्गमाभ्याम् आविर्भाव-तिरोभाववत्, तथा तद् उद्वहत् । व्यदृश्यन्त घन-श्यामाः [भा।पु। १०.१३.४६] इत्य्-आदिना ये ये दृष्टाः । तेषां सर्वे तत्रैवान्तर्भावाद् एकम् एवेति सिद्धम्, न तु स्वस्य नन्द-किशोरत्व-नाट्यं । तदा वंश-शब्दो निरर्थकः स्यात् । पशुप-शिशुत्व-नाट्यम् इत्य् उक्तेर् एव सिद्धेः । एतेन श्री-नन्द-किशोर-स्वरूपस्यैवाद्वय-ब्रह्मेति सिद्धम् । नराकृति परं ब्रह्म, परमात्मा नराकृति [भा।पु। ७.१०.४८], गूढं परं ब्रह्म मनुष्य-लिङ्गं [भा।पु। ७.१५.७५] इत्य्-आदि पूर्वोक्तेन च । पाणि-कवलत्वेन द्विभुजत्वम् एव पर-ब्रह्मणः श्री-कृष्णस्य साहजिकं, अद्वयं ब्रह्मेत्य् उक्तेः । ब्रह्मणापहृताः सर्व इति जानतोऽपि तत्-तद्-विचयनम् अगाध-बोधत्वे हेतुः ॥६१.६४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च स्व-स्वरूप-भूतानि चतुर्भुजत्वादीनि योग-माययैवाच्छाद्य, एकम् एवाद्वयं ब्रह्म [छा।उ। ६.२.१] इति श्रुत्य् उक्तम् । स्व-दर्शित-सर्व-स्वरूप-मूल-भूतं स्वरूपं तं दर्शयामासेत्य् आह—तत्र वृन्दावने परमेष्ठी ब्रह्मा ब्रह्म अचष्ट अपश्यत । कीदृशं पशुप-वंश-शिशुत्वे\ऽपि ? प्रौढ-परम-चतुरोचितम् नाट्यं मत्-प्रभुर् मया मोहित एवेति । ब्रह्माणं मिथ्याभिमानं ग्राहयितुं शाद्बले वस्तान् दृष्ट्वापि पुलिने\ऽपि सखीन् दृष्ट्वापि दर्शनाभिनयं नटानां कर्म उद्वहत् । दर्शितानां ब्रह्मादि-स्तम्ब-पर्यन्तानां योग-माययाच्छादनाद् अद्वयं सर्व-मूल-भूत-स्वरूपत्वात् परं दर्शितेभ्यश् चिद् वैभवेभ्यो अप्य् अपरेषां चिदानन्दमय-परस्सहस्र-महा-वैभवानां विद्यमानत्वाद् अनन्तं परमेष्ठिनो वराकस्य का गणना श्री-बलदेवाद्यैर् अवतारैर् अपि दुष्प्रवेशत्वाद् । अगाध-बोधं उक्त-लक्षणात् नाट्यात् वत्सान् सखींश् च पुरेव इतस् ततो विचिन्वद् इति । वत्स-बालान्वेषणं पूर्व-वर्षे ब्रह्मणा माया-मोहितत्वात् यथार्थम् एवावगतम् अधुना तु माया-निर्मुक्तत्वात् शाद्बले तृणं चरतो वत्सान् पुलिने च भूञ्जानान् बालान् पश्यता, स्वापहृतान् मायिक-वत्स-बालकांश् च अपश्यता । तेन मन् मोहनार्थम् अभिनय-मात्रम् इदम् इत्य् अवगतम् । अत एव नौमीड्य ! ते इत्य् अग्रिम-स्तुति-वाक्येन वत्स-बालान् विचिन्वते इति विशेषणं । नोपन्यस् तं स्वरूप-भूतानां वासुदेव-मूर्तीनां स्व-भेदानां योग-माययैवाच्छादनाद् एकं भक्त-मनोहर-महा-मधुर-लीलामयत्वात् स-पाणि-कमलम् । अत्र कस्मिंश्चिद् अधिकारिणि निकृष्टे धर्म-धर्मि-भाव-रहितं निराकारं ज्ञान-मात्रं यत् ब्रह्मेति प्रसिद्धं । तद् अपि योग-माययैव तद् दृष्टीः प्रति चिदानन्दमयानाम् अविरूप-गुण-नाम-लीला-परिकर-धामादीनाम् आच्छादनाज्ञान-मात्रस्यैव प्रकाशनात् सङ्गतम् इत्य् एवम् । एव मिथो विरुद्धार्था अपि श्रुतयो निर्विरोधम् एव सङ्गमयित्वव्या इति दिक् । अत्र पशुप-वंश-शिशुत्वं नाट्यम् एवोद्वहन् न तु स्वरूपम् इति व्याख्यानम् । श्री-भागवतस्य मोहिनीत्व-प्रतिपादकम् एव, नौमीड्य ते\ऽभ्र-वपुषे इत्य् अत्र नौमीत्य् उक्ता प्रस्तुतस्य भगवतः कर्मत्वे ज्ञाते प्रयोजनापेक्षायाम् । एवं-भूतो भगवान् एव प्रयोजनम् इति व्याचक्षणानां स्वामि-चरणानाम् अपि नाभिमतम् इत्य् अवसीयते । न ह्य् अवास्तवी-भूतं वस्तु स्तुति-प्रयोजनी-क्रियते इत्य् अवधेयम् ॥६१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ प्रकाशितैर् वत्स-तत्-पालैः सहैकेन प्रकाशितेनैव रूपेण वन-गोष्ठयोर् विक्रीडन्नैव प्रकृतान् । तत्र तत्र स्थितान् एव तांस् तन्-मैत्र्याविष्टत्वात् प्रकृतेनैव रूपेण विचिन्वन् हरिर् अस्थात् । तच् च प्रकृतं तद् रूपम् अन्तः-प्रवेशितं प्रकाशितं ब्रह्माणं प्रत्य् अदर्शयद् इत्य् आह—तत्रेति । तत्रोक्त-स्वरूपे वृन्दावने परमेष्ठी ब्रह्मा अचष्ट कीदृशं ? तद् इत्य्—आह पशुप-वंश-शिशुत्वे गोपाल-कुल-बालकत्वेऽपि प्रोडातिचतुरोचितं नाट्यम् उच्चैर् वहत् । विरिञ्चस्य मिथ्या मोह-कृताभिमान-ग्रहणाय शाद्वले वत्सान् सरः-पुलिने तत्-पालांश दृष्ट्वापि तद्-अदर्शनाभिनयं नटानां कर्म धारयद् इत्य् अर्थः । प्रकाशितानाम् अन्तः परेशितत्वाद् एकं जीव-प्रकृति-रूपावयवद्वयान्यत्वाद् अद्वयं विशुद्धम् इत्य् अर्थः । तद् अन्यत्वेऽत्र नञ्, तत्-तच्-छक्तिमत् खल्व् अवयवि-प्रकाशित-तत्-तद् अंशित्वात् परं प्रकाशितेभ्योऽपि वैभवेभ्योऽन्येषां तादृशानाम् असङ्ख्यानाम् । तस्मिन् सत्वाद् अनन्तं श्री-बलभद्रेणापि दुष्प्रवेशत्वाद् अगाधोवधं पुरेव वत्सादीन् सम्प्रत्य् अपि विचिन्वत् ॥६१॥
॥ १०.१३.६२ ॥
दृष्ट्वा त्वरेण निज-धोरणतोऽवतीर्य
पृथ्व्यां वपुः कनक-दण्डम् इवाभिपात्य ।
स्पृष्ट्वा चतुर्-मुकुट-कोटिभिर् अङ्घ्रि-युग्मं
नत्वा मुद्-अश्रु-सुजलैर् अकृताभिषेकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निज-धोरणतः स्व-वाहनात् त्वरेण वेगेनावतीर्य दण्डवन् नत्वा चतुर्णां मुकुटानाम् अग्रैर् अङ्घ्रि-युग्मं स्पृष्ट्वा मुद्-अश्रु-सुजलैर् आनन्दाश्रु-रूपैः सुजलैर् अभिषेकम् अकरोद् इति ॥६२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युग्यं पत्रं च धोरणम् इति अमरः । कनक-दण्डम् इव हेम-यष्टिर् इव । इदम् एव नराकृति परं ब्रह्म सर्व-मूल-भूतम् इत्य् अवगम्य त्वरया वाहनाद् उत्तीर्य देहाभिमानं परित्यज्य भूमौ दण्डवत् पपात । भक्त्य् उद्भूताश्रूणां पावित्रयात् सुप्रयोगः ॥६२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथं नत्वेत्य् ? एतद् आह—पृथ्व्याम् इति पाद-द्वयेन । तेन देवाभिमानापगमम् अपि बोधयति, अन्यथा “नहि देवा भुवं स्पृशन्ति” इति तन् न सम्भवेत् । कनकेति श्री-ब्रह्म**-वपुष** ईषद् रक्त-पीत-वर्णत्वात् । चतुर्-मुकुटाग्रैः-स्पृष्ट्वेति शिरसश् चतुर् दिशं वर्तमानानां चतुर्णां मुखानां कृतार्थतार्थं क्रमेण परिवृत्य चतुर् ललाटानां भूमौ निपातनात् । अत-एवोक्तम् अभितः पातयित्वेति । तथा भयाद् इव दूरतो नतिं च बोधयति । पश्चाद् आनन्दोदयेनाङ्घ्रि-युग्म-स्पऋशनं मुखैर् ज्ञेयम् । अकृताभिषेकम् इति तस्यैवाभिषेकोक्तेः, अनेन्आश्रूणाम् अत्यन्त-बाहुल्यं च बोध्यते । यद् वा, पदम् अस्पृशतो ब्रह्मणस् तादृश्य् अश्रु-धारा स्नुता, यया चरणाभिषेकोऽभूत् । यद् वा, श्री-वृन्दावनस्याभिषेकम् इति ॥६२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथं नत्वेत्य् ? एतद् आह—पृथ्व्याम् इति पाद-द्वयेन । तेन देवाभिमानापगम् अपि बोधयति, अन्यथा न हि देवा भुवं स्पृशन्तीति, न सिद्ध्येत् । कियद् वेदं तद् भूरि भाग्यम् इह जन्म [भा।पु। १०.१४.३४] इत्य्-आदि वक्ष्यमाणात् कनकेति । तद् वपुष ईशद् रक्त-पीत-वर्णत्वात् । चतुर्-मुकुटाग्रैः स्पृश्टेति, चतुर्-दिक्शु स्थितानां चतुर्णाम् अपि कृतार्थतायै क्रमेण परिवृत्त्या भूमौ ललाट-पातनात् । पश्चाद् आनन्दोदयेन चुम्बन्न् इव्आङ्घ्रि-स्पर्शन-मुखैर् अपि कृतवान् इति ज्ञेयम् । अकृताभिषेकम् इत्य् उपपत्तौ अनेनाश्रूणाम् अत्यन्त-बाहुल्यं बोध्यते ॥६२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुनः पुनश् चिरम् आस्ते ॥६२॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृष्ट्वेति इदम् एव नराकृति परं ब्रह्म सर्व-मूल-भूतम् इत्य् अवगम्य-त्वरेण त्वरया निज-धोरणतः स्व-वाहनात् पृथ्व्यां वपुर् अभिपात्येति । न हि देवा भूवं स्पृशन्तीति नियमोल्लङ्घनाद् ब्रह्मणो\ऽस्य देवत्वाभिमानापगमो ज्ञेयः । चतुर्णां मुकुटानाम् अग्रैर् अङ्घ्रि-युग्मं स्पृष्ट्वेति । चतुर्-दिक्-स्थितानां चतुर्णाम् अपि मुखानां बलेन कृष्णाभिमुखीकरणात् । अभिषेकम् अर्थाद् अङ्घ्रि-युग्मस्याकरोद् इत्य् उत्थायोत्थाय भूमौ द्रुत-पतने । अश्रुणां बाहुल्येन पुरो वेगाच् चरणयोर् निपातो ज्ञेयः । अश्रूणां भक्त्य् अनुभाव-रूपत्वेन पावित्र्यात् सुपदं प्रयोगः ॥६२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : दृष्ट्वा इदम् एव स्वयं रूपं ब्रह्मेति विज्ञाय निज-धोरणतः स्व-वाहनात् पृथिव्याम् इति । “देवा भुवं न स्पृशन्तीति” नियम-विलोपस् तद्मुवस् तद्-धामत्वात् । चतुर्-मुकुट-कोटिभिर् अङ्घ्रि-युग्मं स्पृष्ट्वेति चतुर्-दिक्-स्थितानां बलेन कृष्णाभिमुखाविधानात् । अभिषेकम् अङ्घ्रि-युग्मस्यैव बोध्यम् ॥६२॥
॥ १०.१३.६३ ॥
उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् ।
आस्ते महित्वं प्राग्-दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : चिरस्य चिरं पादयोः पतन्न् आस्ते ॥६३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महित्वम् अनन्त-ब्रह्माण्ड-प्रदर्शन-रूपम् ॥६३॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् चोत्थानानन्तरं श्री-मुख-दर्शनानन्द-विशेषेण पादाब्जयोर् एव चिरं पतन्न् आस्त, इति प्रणाम-बाहुल्यं बोधयति । यद् वा, पुनः पुनर् इति सर्वैर् रेवान्वेति, तथापि वीप्सा-द्वयं परम-हर्षभरोदयात् । यद् वा, महिम-विशेष-दर्शनाद् भक्ति-विशेषेणेणादौ श्री-चरणाब्जयोर् दण्डवत् पतति । तद् अनन्तरं श्री-मुख-दर्शन-लोभेनोत्तिष्ठति । पुनर् माहात्म्य-स्मरणात् पतति । पुनस् तथैवोत्तिष्ठतीत्य् एवं चिरम् अवर्ततेत्य् अर्थः ॥६३॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उत्थायोत्थाय पतन् पुनः पुनश् चिरम् आस्ते आसीत्, लकार-व्यत्ययश् छान्दसः साक्षात् पश्यत । इवोक्तेर् औपचारिका वा, तत्र पतने हेतुः । महित्वम् इत्य् उत्थाने हेतुस् तु तच् छ्री-मुखद् इदृक्षैव ज्ञेयः ॥६३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुनः पुनश् चिरम् आस्ते ॥६३॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पतन्न् आस्ते इति, बहुतर-प्रणामान्ते आनन्द-जाड्योदयात् । वर्तमान-प्रयोगो मुनेस् तदानीं तत्-साक्षात्कारानुभावात् ॥६३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पतन्न् आस्ते इति, बहु-प्रणामोत्तरम् आनन्द-जाड्योदयात् । शुकस्य तत्-साक्षात्कारानुभवाल् लटः प्रयोगः ॥६३॥
॥ १०.१३.६४ ॥
शनैर् अथोत्थाय विमृज्य लोचने
मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः ।
कृताञ्जलिः प्रश्रयवान् समाहितः
स-वेपथुर् गद्गदयैलतेलया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-वेपथुः स-कम्पः । अत एव गद्गदया । अनुकरणम् एतत् । इलया वाचा । ऐलत अस्तौत् ॥६४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव स-कम्पत्वाद् एव । एतद्-गद्-गदयेत्य् एतत् । अनुकरणं वाच एव तच् च तद् वत् तन् नेतिलक्षणकम् । ईड्यतेऽनयेति ईडा डलयोर् ऐक्यत्वादीवेति । हृस्वेकारादिर् अप्य् अयं वाग्-वाचकोस्ति । ऐलत ईड्-स्तुतौ ॥६४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शनैर् इति, भक्त्य् उद्रेकेण प्रणाम-परित्याग-शक्तेः । अष्ट-लोचनत्वे\ऽपि लोचन-द्वयोक्तिः श्री-भगवद् अभिमुखवर्ति-मुखस्य लोचनाभ्याम् एवोद्वीक्षणात् । यद् वा, प्रतिमुखाम् नेत्र-द्यवम् इति लोचनाभ्यां सर्वाण्य् एव तान्य् उपलक्षितानि । मुकुन्दम् इति, तं प्रति परमानन्द-प्रदत्त्वाभिप्रायेण । उद्वीक्ष्य निज-मुखम् उत्थाप्योच्चैर् विशेषेण दृष्ट्वा, पश्चाद् विशेषतो नम्र-कन्धवः सन् माया-विस्तारणापराधतो भय-लज्जादिना । किं वा, भक्ति-स्वभावेन प्रश्रयवान् विनयीति प्रीत-भक्तिर् उक्ता । समाहित इत्य् अनेन स-वेपथुर् गद्-गद्येति प्रेम-सम्पल् लक्षणेन च स्तोत्रस्य परम-सम्यक्त्वं सूचितम् । “इला” सरस्वती, तया स्वर्वथैव वाचेत्य् अर्थः । चतुर्-मुखानां कृतार्थतायै तैः सर्वैर् एव स्तवनात् । ऐलतेत्य् आदौ लकार-प्रयोगः प्रोक्त-श्री-ब्रह्म-भाव-विशेष-स्मरणेन श्री-बादरायणेर् अपि भाव-विशेषाविर्भावाद् वाग् इव-कारापत्तेर् इति । श्री-ब्रह्मणो भक्ति-विशेषेण वत्सादि-मार्गणार्थ भ्रमणं विहाय स्थिरी-भूय स्थितम् अमुम् असौ तुष्टावेति ज्ञेयम् । एवम् अध्याये\ऽस्मिन्न् अप्यारम्भाद् अन्तान्तं प्रतिपदादिकं यथोत्तराम् अधिकम् आश्चर्यम् अभिज्ञैर् ऊह्यम् । तत्र तथा राज-प्रश्नानुमोदनं प्रथमम् आश्चर्यम् । तत्र च विट्-दृष्टानेन सार-गृअहि-सतां श्री-भगवत् कथा-परता स्वभाव-वर्णनम् । ततो\ऽपि श्री-भगवता सरः पुलिन-श्लाघनम्, ततो\ऽपि क्षुत्-पीडा-विज्ञापनम्, ततो\ऽपि बालकानां भोजन-परिपाटी, ततो\ऽपि श्री-भगवतो भोजन-मुद्रा, ततो\ऽपि विदूर-गत-वत्सानयनार्थं मित्राणाम् आश्वासन-पूर्वकं स्वयं गमनम् । तत्रापि स-पाणि-कबलत्वम्, ततो\ऽपि दुर्गम-स्थानेषु प्रयत्नेन वत्षान्वेषणम्, ततो\ऽपि मायया ब्रह्मणा वत्स-वत्सप-वर्गाणां मोहनम् आच्छादनं च, ततो\ऽपि परम-व्यग्रतया श्री-भगवता वत्स-वत्सपानां सर्वत्रान्वेषणम्, ततो\ऽपि सद्य एव ब्रह्माशेष-चेष्टित-ज्ञानम्, ततो\ऽपि तन् मातॄणाम् इव ब्रहणो\ऽपि प्रमोदनेच्छा, ततो\ऽपि वत्स-वत्सपादित-तद्-रूपतावप्ति-कौशलम्, तओ\ऽपि तैः सह पूर्ववत् क्रीडा, ततो\ऽपि तत् तन् मातॄणां स्नेहोद्रेकस् ताभिर् लालनादि-विशेषश् च, ततो\ऽपि पूर्वतो\ऽन्यो\ऽन्यं स्नेह-विशेषः, ततो\ऽपि श्री-बलदेवस्य चिरं तत् तत्वाज्ञानम्, ततो\ऽपि तद्-बोधनार्थं वत्सरान्ते गवां गोपानां च स्नेह-विशेष-प्रकाशनम्, ततो\ऽपि रामेण विचार-विशेषेषतो वितर्कणम्, श्री-भगवद् उक्त्यैव तत्-सम्यग्-बोधनं च, ततो\ऽपि श्री-ब्रह्म-मोहस् तत्रापि ब्रह्मणा तत्त्व-तस् तत् तद् रूप-दर्शनम् । तत्र च तत् तत् तत्त्वं तत् तन् माहात्म्यं च । ततो\ऽपि परम-विस्मयेन ब्रह्मणो निशेष्टतादि, ततो\ऽपि सद्य तत् तद् रूपादि-सम्बरणम्, ततो\ऽपि ब्रह्मणो व्युत्थान-प्रकारः । श्री-वृन्दावनादि-दर्शन-प्रकारः । श्री-भगवद् दर्शन-विशेषः । नमस्कार-मुद्रा-प्रेमाश्रुभिर् अभिषेको मुहुर् उत्थानं पतं च प्रेम-स्तुत्यारम्भश् चेत्य् एवं क्रमेण तत् तद् अवान्तरे\ऽपि प्रकरण-विषयकाश्चर्य-परम्परा द्रष्टव्या । अन्या च ग्रन्थ-विस्तरभयान् न विस्तार्यते । श्री-भगवद् भक्ति-रसिकानां विचारेण सा स्वम् एव हृद् वेद्यैव ॥६४॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शनैर् इति, भक्त्य् उद्रेकेण प्रणाम-परित्यागाशक्तेः । किं वा, प्रेम-भराक्रान्त्या स्वभावत एव जाड्यापत्तेः । लोचने विमृज्येति गलद्-अश्रु-धारया सम्यग् दर्शनाशक्तेः अष्ट-लोचनत्वेऽपि लोचन-द्वयोक्तिः श्री-भगवद् अभिमुखवर्त्य् अपेक्षया । मुकुन्दम् इति, मुक्ति-दातृ-तीर्थत्वेऽपि मुक्ति-शब्दस्य भक्ताव् अपि सम्मतत्वात् । यथा पञ्चमे यथा वर्ण-विधानम् अपवर्गश् च भवतीत्य् आरभ्य, अनन्य-भक्ति-योग-लक्षणा इत्य् उद्वीक्ष्य उच्चैर् विलोक्य । पश्चाद् विशेषतो नम्र-कन्धरः सन् अपराध-भय-लज्जादिना इति । श्री-भ्रह्मणो भक्ति-विशेषेण वत्सादि-मार्गण-प्रायार्थं ब्रमणं विहाय स्थिरी-भूतोऽसाव् इति गम्यते । समाहित इत्य् अनेन स-वेपथुर् गद्गदयेति प्रेम-सम्पल् लक्षणेन च स्तोत्रस्य पमर-सम्यक् त्वं सूचितम् । ऐलत ऐट्ट-लकारोच्चारणं गद्द-भावानुकरणेनैव अन्योऽन्यं पूर्वं पूर्वं चोत्तरोत्तरम् अपि स्फुटं सर्वम् एतन् महाश्चर्यं विलोकयति मन्-मनः ॥६४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : ऐलत ऐट्ट [पेट्ट] ॥६४॥
———————————————————————————————————————
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोचने इति, द्वित्वं पाणि-द्वयेन लोचन-द्वयस्यैव युगपन् मार्जनोपपत्तैः । गद्गदया गद्गद-भाववत्या इलया वाचा ऐलत ऐट्ट अस्तौत् ॥६४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : लोचने इति, द्वि-वचनं प्राणिद्वयेन तद्-द्वयस्य युगपद् अविमार्जनात् गदगदया स-गलदक्षरया इरया वाचा ऐलत अस्तौत् ॥६४॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां दशम-स्कन्धे ब्रह्म-मोहनो नाम > त्रयोदशोऽध्यायः ।
॥१३॥
(१०.१४)