१२

अघासुर-वधः ।

॥ १०.१२.१ ॥

श्री-शुक उवाच—

क्वचिद् वनाशाय मनो दधद् व्रजात्

प्रातः समुत्थाय वयस्य-वत्सपान् ।

प्रबोधयन् छृङ्ग-रवेण चारुणा

विनिर्गतो वत्स-पुरःसरो हरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वादशे तु महा-सर्प-वपुर्-धरम् अघासुरम् ।

वत्स-पाल-गिलं क्रुद्धो गलेऽहन्न् इति वर्ण्यते ॥*॥

महा-बक-गल-क्रीडा केवलस्य न कौतुकम् ।
इतीवाघासुर-मुखे स-सखः प्राविशद् धरिः ॥**॥

क्वचित् कदाचिद् वनाशाय वन एव प्रथमं भोजनं कर्तुम् ॥१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वत्सान्-पालांश्गिलति निगिरतीति । तथा तं गले प्रविश्याहन्न् इति ।*॥ न कौतुकं न कुतूहलम् । इति हेतोः ।**॥ शृङ्गा-रवेण प्रबोधयन्वत्साः पुरःसरा यस्य सः ॥१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

भाति रूप-गुण-क्रीडा-नामभिर् नित्य-नूतनः ।

आश्चर्यश् च सदाश्चर्याद् यः प्रभुः सः प्रसीदतु ॥

पुनर् यथा-क्रमम् अध्याय-त्रयेण कौमारीम् एव लीलां वदन् तत्रादाव् एकेनाघासुर-वधाम् आह—क्वचिद् इत्य्-आदिना । यद्-एतच् चाध्याय-त्रयं पूतना लोक-बालघ्नी [भा।पु। १०.६.३५] इत्य्-आदि-श्लोक-षट्कं, य एतत् पूतना-मोक्षम् [भा।पु। १०.६.३५] इत्य्-आदि-श्लोकं च कश्चिन् न मन्यते। तत्र कारणं न पश्यामः, सर्वत्रापि देशेष्व् इति ह्य् अप्राप्तत्वात् वासना-भाष्य-सम्बन्धोक्ति-विद्वत्-काम-धेनु-शुक-मनोहरा-परमहंस-प्रियादिषु प्राचीनाधुनिक-टीकासु व्याख्यातत्वात्। तदीय-स्व-सम्प्रदायानङ्गीकार-प्रामाण्येन तस्याप्रामाण्यं चेत्, अन्य-सम्प्रदायाङ्गीकार-प्रामाण्येन विपरीतं कथं न स्यात् ? न च मुरभिद्-आदि-नामवद्-अघभिद्-आदि-नाम्नां तत्र प्रयोगो न दृश्यत इति वाच्यं, यन् न व्रजन्त्य् अघभिदो वचनानुवादांश् छृण्वन्ति योऽन्य-विषयाः कुकथाम् अतिघ्नी [भा।पु। ३.१५.२३] इति तृतीयात्, पापभिद्-आदि-नाम्नां तत्राप्रयोगात् ।

न च तत्र तत्र लीलानुवादे सा लीला नास्ति । स्वामि-पादैस् तत्र तत्र तस्या अपि दर्शितत्वात् । अत एव द्वात्रिंशत्-त्रिशतं च यस्य विलसच्-छाखा [भावार्थ-दीपिका १.१.१] इति तदीय-पद्ये खण्डितम्। अध्याय-त्रयं यत् तद् इदम् एवेति न तन्-मतं । न च तत्र यम् अन्यत्र कुत्रापि खण्डयितव्यं सर्वत्राध्याय-सङ्ख्या-श्लोक-सहित-टीका-सद्-भावात् । ततो द्वात्रिंशश् च त्रयश् च शतानि चेति द्वन्द्वैक्यम् एव तद् विवक्षितम्, अनिर्णीत-बहुत्वस्यानवस्था-भिया त्रित्व एव पर्यवसानात् । कपिञ्जला-लभन-न्यायेन अन्यथा त्रिंशतीत्य् एव स्यात् । न चासुरम् उक्तेः सिद्धान्त-विरुद्धत्वान् न तद् आर्षं श्री-कृष्ण-मारितेषु सर्वेषु तेषु दृष्टत्वात्—

आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।

माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ [गीता। १६.२०]

इत्य्-आदिष्व् अपि मां श्री-कृष्ण-लक्षणम् अप्राप्यैव न तं प्राप्य इत्य्-आद्य्-अङ्गीकारात् । तथा चोक्तम्—

ये च प्रलम्ब-खर-दर्दुर-केश्य्-अरिष्ट-

मल्लेभ-कंस-यवनाः कुज-पौण्ड्रकाद्याः ।

अन्ये च साल्व-कपि-वल्वल-दन्तवक्र-

सप्तोक्ष-शम्बर-विदूरथ-रुक्मि-मुख्याः ॥

ये वा मृधे समिति-शालिन आत्त-चापाः

काम्बोज-मत्स्य-कुरु-सृञ्जय-कैकयाद्याः ।

यास्यन्त्य् अदर्शनम् अलं बल-पार्थ-भीम-

व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ [भा।पु। २.७.३४-३५] इति ।

न च पुराणान्तराप्रसिद्धत्वेन सा लीला न सम्भावनीया, पाद्मोत्तर-ब्रह्माण्ड-पुराणयोः स्पष्टत्वात् । श्री-वृन्दावने तल्-लीला-स्थानानि च प्रसिद्धानि । न च भक्त-गति-सादृश्येन तेषां तत्-प्राप्तिर् असमञ्जसा शुद्ध-भक्तैस् तादृशाप्तेर् अनुपादेयत्वात्, नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादम् [भा।पु। ३.१५.४८] इत्य्-आदि-वचन-शतेभ्यः । न च पूतनाया जननी-साम्यं जननी-माहात्म्य-विद्भिर् द्वेष्यं, सद्-वेषाद् इव पूतनापि सकुला [भा।पु।१०.१४.३५] इति वाक्येन जननी-वेष-मात्रतः तत्-प्राप्त्या, तस्या एव महिमाधिक्य-व्यञ्जनात् । तत्र तत्र तेनापि द्वि-जीवता-सिद्धान्ते दोषः परिह्रियते, किं त्व् अत्रापि तत्-संसर्गी च पञ्चमः इति न्यायेन दोषस् तद्-अवस्थ एव तस्मान् न कश्चिद् विरोधः, प्रत्युत भगवत्-तद्-भक्त-तद्-भक्तीनां परम-माहात्म्यम् एवात्र सेत्स्यति । अतस् तद्-अनुभवः श्री-भगवद्-अनुग्रह-विशेषेणैव सम्पद्यत इति तत् सुगोप्यम् एवेत्य् एवं तस्य तादृशं वचनम् अपि उपपद्यते । अलम् अतिविस्तरेण ।

प्रकृतं व्याख्यास्यामः । मनो दधत् दृढेच्छां कुर्वन् इति ह्य् अकृत-सम्मन्त्रणैर् वयस्यैः गृहे प्रातर् भोज्यानां वन एव नयनं बोधयति । तन्-नयनेच्छा चेयं प्राथमिकेव लभ्यते । स-प्रातराशाव् [१०*।११।*४५] इत्य् उक्त्वा क्वचिद् वनाशय इत्य् उक्तत्वात् । सम्यक् रात्रि-वस्त्र-परित्याग-श्री-मुखादि-प्रक्षालन-चारु-वस्त्र-भूषण-धारणादि-पूर्वकं त्वरया उत्थाय निष्क्रम्य प्रबोधयन्न् इति सखिभिः सह सुख-जिगमिषया व्रजाच् छनैर् निर्गमनं बोधयति । अत एव वयस्य इति विशेषणं चारुणा इति स्वरूप-निर्देशो निद्रितानां सुखेनैव निद्रा-भङ्गं बोधयति । वत्साः पुरःसराः यस्य सः । तेन तेनैव तेषां चित्ताहरणाद् धरिः स एव स्वयं व्रजात् विशेषेण निर्गतः, न त्व् अन्य-दिनवत् श्री-रामेण सहितः । तत्र कारणं तच्-छृङ्ग-रवेण चलितुम् उद्यतस्य श्री-कृष्णेनापि कृत-चलन-निर्णयस्य नूनं जनन्या दैवज्ञाद्य्-उपदेशेनारब्ध-शान्तिकादि-कर्मत्वम् एव मुख्यं भवेत्, तत्रैव लीला-शक्ति-घटित-तद्-अगोचरता-हेतुक-वक्ष्यमाण-लीला-सम्पादनार्थत्वं तु गौणं ।

क्वचिद् वनाशाय मनो दधद् इत्य् अनेन वन-भोजनस्यैवोद्देश्यत्वात् अघासुर-वधादीनां त्व् आगन्तुकत्वात् । अत्र प्रतिपदं प्रति-वाक्यं प्रति-श्लोकं प्रति-प्रकरणं च पूर्व-पूर्वस्माद् उत्तरोत्तरस्मात् पूर्व-पूर्वम् आश्चर्यम् ऊह्यम् । तच् च भक्त-जन-हृदयैक-वेद्यम् अतिविस्तर-भिया न विव्रियते ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अध्याय-त्रयम् इदं केनचिद् असम्मतम् अपि, [श्री-मध्वाचार्येण स्व-कृत-भागवत-तात्पर्ये परित्यक्तम् अस्ति] वासना-भाष्यादि-प्राचीन-टीका-कारैर् बहुभिः सम्मतत्वात् सर्व-देश-पुस्तक-प्रसिद्धत्वाच् च लिख्यते ॥१.७॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्वादशे सखिभिः केलिस् तन्-मध्ये\ऽघस्य वर्णनम् ।

वक्त्रे\ऽविशंस् ते कृष्णो नु प्रविश्यार्हस् तम् एधितः ॥

क्वचिद्-दिवसे वनाशाय वन एव प्रातर् भोजनं कर्तुं हरिर् इति । बलदेवस् तु मात्रा जन्मर्क्ष-शान्तिक-स्नानाद्य् अर्थं गृह एव बलाद् रक्षित इति ज्ञेयम् ॥१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

द्वादशे शिशुभिः केलिर् अघास्ये विशतो नुतान् ।

प्रविश्यानन्दयत् कृष्णो हत्वाघं तम् अमोचयत् ॥

एवम् इति पद्येन कौमारीं लीलां समाप्यापि श्रोतुर् अभीष्टाम् अपूर्वां ताम् अनुस्मृत्य मुनिर् अध्याय-त्रयेण वक्तुं प्रवर्तते—क्वचिद् इत्य्-आदिना । क्वचिद् वासरे वनाशाय वन एव प्रातर् भोक्तुं मनो दधत् हरिर् इति । बलदेवस् तु न गतस् तन्मात्रा तज्-जन्म-र्क्ष-स्नान-दानार्थं गृहे एव रक्षितत्वात् ॥१॥


॥ १०.१२.२ ॥

तेनैव साकं पृथुकाः सहस्रशः

स्निग्धाः सुशिग्-वेत्र-विषाण-वेणवः ।

स्वान् स्वान् सहस्रोपरि-सङ्ख्ययान्वितान्

वत्सान् पुरस्कृत्य विनिर्ययुर् मुदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेनैव शृङ्ग-रवेण श्री-कृष्णेन वा सहपृथुका बालाः स्निग्धाः स्नेह-युक्ताः । शिक् शिक्यम् । रम्या शिग्-वेत्रादयो येषां ते । सहस्राधिक-सङ्ख्या-युक्तान् वत्सान् ॥२.३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शृङ्ग-रवेण साहित्यासम्भवाद् अर्थान्तरम् आह—श्री-कृष्णेन इति । रामस् तु जन्मर्क्ष-शान्ति-स्नानार्थं मात्रा गृह एव रक्षित इति विश्वनाथः । पृथुकौ बाल-चिपिटौ इति कोशः । श्रंसतेश् शिरा-देशः कुड्-आगमः प्रत्यय-लोपश् चार्षः ॥२॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेनैव साकम् इति महा-वेगेन धावनात् यतः स्निग्धाः अतः सर्वेषाम् एव युगपन् निर्गमोऽपि सूचितः सहस्रस्य उपरि-सङ्ख्या—

एकं दश-शतं चैव सहस्रम् अयुतं तथा ।

लक्षं च नियुतं चैव कोटि-न्यर्बुदम् एव च ॥

इत्य्-आदि-वचनाद् अयुतादिस् तयान्वितान् एवं वत्सानां बालानां चासङ्ख्येयत्वम् उक्तम् इत्थं वने बालैः पाल्यमानानाम् अपि वत्सानां यदीयत्ता नाभूत् तर्हि व्रज-रुद्धानां तर्णकानां तथा गो-सङ्गतानां भुक्तस् तन्यानां वत्सानां तथा तन्मातॄणाम् अन्यासां च गवां तथा वत्सतरीणां वत्सतरणां वृषाणां च श्री-गोपाल-देव-प्रभावेण नित्यम् एव विवर्धमानानाम् इयत्ता कथम् अस्तु महिष्यादयश् च केन वा गण्याः पशवस् तद् अनुसारेण गोप-गोप्यादयश् चानन्ता ज्ञेयाः तथा चागमे रासध्यानं प्रमदाशत-कोटिभिर् आकुलित इति तत् समावेशादिकं चाचिन्त्यैश्वर्यादेवेति मुदेति स्वयं श्री-कृष्णेन प्रबोधनात् अत एव विशेषेण अन्य-दिनतोऽसाधारणतया निर्ययुः, श्री-कृष्णस्य तु वत्सैर् अपि तावद् असङ्ख्यातैः असङ्ख्य-संञ्जसख्यैर् इत्य् अर्थः । तत् सञ्जा च दर्शिता क्षीर-स्वामिना

एवं दश-शत-सहस्राण्य् अयुतं प्रयुताख्य-लक्साम् अथ नियुतम् ।

अर्बुदकोटिन्य् अर्बुद-पद्मे ख्र्वं निखर्वम् इति दशभिः ।

गणनान् महाब्ज-शङ्ख-समुद्र-मध्यान्तम् अथ परार्धं च ।

स्वहतं परार्धम् अमितं तत् स्वहतं भूर्यतासङ्ख्यम् इति ॥

प्रयुत-संञ्जं लक्षम् अर्बुद-सञ्जा कोटिर् इत्य् अर्थः ।

परार्ध-पर्यन्ताष्टादश-सङ्ख्या-दश-गुणिता ज्ञेया तत्र च द्वन्द्वैक्यान् महाब्जादिकं सङ्ख्या-पञ्चकं ज्ञेयं स्वहतम् इति स्वेन गुणितम् इत्य् अर्थः इति ज्ञेयं स्वकान् स्वकान् स्व-स्व-वत्सान् इत्य् अर्थः । स्व-वत्सकान् इति पाठः स्पष्टः तत्र वत्स-प्रचार-देशे ह हर्षे ॥२.३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेनैव साकम् इति महा-वेगेन धावनात् यतः स्निग्धाः, अतः सर्वेषाम् एव युगपन् निर्गमोऽपि सूचितः । सहस्रस्य उपरि सङ्ख्या—

एकं दश शतं चैव सहस्रम् अयुतं तथा ।

लक्षं च नियुतं चैव कोटिर् न्यर्बुदम् एव च ॥

इत्य्-आदि-वचनाद् अयुतादिस् तया अन्वितान् एवं वत्सानां बालानां चासङ्ख्येयत्वम् उक्तम् । इत्थं वने बालैः पाल्यमानानाम् अपि वत्सानां यदीयत्ता नाभूत्, तर्हि व्रज-रुद्धानां तर्णकानां तथा गो-सङ्गतानां भुक्त-स्तन्यानां वत्सानां, तथा तन्मातॄणाम् अन्यासां च गवां, तथा वत्सतरीणां वत्सतराणां वृषाणां च श्री-गोपाल-देव-प्रभावेण नित्यम् एव विवर्धमानानाम् इयत्ता कथम् अस्तु ? महिष्यादयश् च केन वा गण्याः ? पशवस् तद्-अनुसारेण गोप-गोप्य्-आदयश् चानन्ता ज्ञेयाः । तथा चागमे रास-ध्यानं प्रमदा-शत-कोटिभिर् आकुलित इति तत्-समावेशादिकं चाचिन्त्यैश्वर्याद् एवेति । मुदा इति स्वयं श्री-कृष्णेन प्रबोधनात् । अत एव विशेषेण अन्य-दिनतोऽसाधारणतया निर्ययुः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृथुका बालाः शिक् शिक्यं सहस्रस्योपरि-सङ्ख्या अयुतादिस् तयान्वितान् ॥२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पृथुकाः शिशवः, शिक् भोज्यधारकं शिक्यं, सहस्रोपरिसङ्ख्ययायुतामिकया ॥२॥


॥ १०.१२.३ ॥

कृष्ण-वत्सैर् असङ्ख्यातैर् यूथी-कृत्य स्व-वत्सकान् ।

चारयन्तोऽर्भ-लीलाभिर् विजह्रुस् तत्र तत्र ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्व श्लोकस्य व्याख्या द्रष्टव्य ।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तत्र यमुना-तट-गोवर्धनादिषु सहस्रस्योपरि सङ्ख्यायुतादिस् तयान्वितान् । एवं वत्सानां बालानां चासङ्ख्येयत्वम् उक्तम् । इत्थं वने बालैः पाल्यमानानाम् अपि वत्सानां यद्-इयत्ता नाभूत् । तर्हि व्रजे रुद्धानां तर्णकानां तथा गो-सङ्गतानां तथा तत्-तन्मातॄणाम् अन्यासां च गवां तथा वत्स-तरीणां वत्स-तराणां वृषाणां च श्री-गोपाल-देव-प्रभावेण नित्यं विवर्धमानानाम्-इयत्ता कथम् अस्तु । महिष्यादयः पशवश् च केन वा गण्यास् तद्-अनुसारेण गोप्यो गोपादयश् चानन्ता ज्ञेयास् तथा चागमे रासध्यानम् प्रमदा-शत-कोटिभिर् आकलितः इति तत् तत्-समावेशादिकं त्व् अचिन्त्यैश्वर्याद् एव । कृष्णस्य तु वत्सैर् असङ्ख्यातैर् असङ्ख्यातैर् इत्य् अर्थः । असङ्ख्य-सज्ञ-सङ्ख्या क्षीरस्वामि-दृष्ट्या ज्ञेया ।

यथा—

एकं दश-शत-सहस्राण्-अयुतं प्रयुताख्य-लक्साम् अथ नियुतम् ।

अर्बुद-कोटिर्न्य्-अर्बुद-पद्मे खर्वः निखर्वम् इति दशभिः ॥

गणनान् महाब्ज-शःख-समुद्र-मध्यान्तं परार्धं च ।

स्वहतं परार्ध-समितं तत्-स्वहतं भूर्यतोऽसङ्ख्यम् ॥

इति प्रयुत-सञ्ज्ञं लक्षम् । अर्बुद-सञ्ज्ञा कोटिर् इत्य् अर्थः । परार्ध-पर्यताष्टादश-सङ्ख्या दश-दश-गुणिता ज्ञेयाः । तत्र च द्वन्द्वैक्यं महाब्जादिकं सङ्ख्या-पञ्चकं ज्ञेयम् । स्वहतं स्वेन गुणितम् इत्य् अर्थः । परार्धेन गुणितं परार्धं भूरि-सञ्ज्ञं भूरिणा गुणितं भूरि चासङ्ख्य-सज्ञम् इति सिद्धम् । ततश् च कृष्ण-वत्सैर् महा-यूथैः सह स्वकान् स्वकान् परार्धादि-सङ्ख्यान् वत्सान् पृथक् पृहग् यूथीकृत्येत्य् अर्थः । न च षोडश-क्रोशी-मात्रस्य वृन्दावनस्य प्रदेशे तावन्तो वत्सा नैव मान्तीति वाच्यं भगवद्-विग्रहस्येव धाम्नश् चास्य तथा-परिमितत्वेऽप्य् अचिञ्त्य-शक्या विभुत्वात् । तत्-प्रदेशैक-देशेऽपि पञ्चाशत् कोटि-परिमाण-ब्रह्माण्डार्बुदानां भगवतैव ब्रह्मणे एतद्-उत्तराध्याये दर्शयिष्यमाणत्वात् । अत एवोक्तं भागवतामृते—

एवं प्रभोः प्रियाणां च धाम्नश् च समयस्य च ।

अविचिन्त्य-प्रभावत्वाद् अत्र किं च, न दुर्घटम् ॥ [लघु।भा। १.५.५१६]

इति तोषिणी-चक्रवर्तिकारौ ॥३॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णस्य परमाकर्षाकस्य भगवतो वत्सैः सह युथीकृत्य सङ्गमय्येति स्व-स्व-वत्सानाम् अपि कृष्णवत्स-सङ्ग-सुखैकापेक्षया स्वकान् स्वकान् स्व-स्व-वत्सान् इत्य् अर्थः स्व-वत्सकान् इति पाठः स्पष्टह् । अर्भ-लीलाभिर् इति तेषां बाल्य-लीला-नैपुण्यं बोधयति । तत्र तत्र स्थाने स्थाने । ह हर्षे ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णस्य तु वत्सैर् असङ्ख्यातैः असङ्ख्य-संज्ञ-सङ्ख्यैर् इत्य् अर्थः । असङ्ख्य-सञ्ज्ञा च क्षीरस्वामि-दृष्ट्या ज्ञेया यथा—

एकं दश-शत-सहस्राण्य् अयुतं प्रायुताख्य-लक्षम् अथ नियुतम् ।

अर्बुद-कोटिन्य् अर्बुद-पद्मे खर्वं निखर्वम् इति दशभिः ॥

गणनान् महाब्ज-शङ्ख-समुद्र-मध्यान्तम् अथ परपरार्धम् ।

स्वहतं परार्धम् अमितं तत् स्वहतं भूयतो\ऽसङ्ख्यम् ॥

इति प्रयुत-सञ्ज्ञं लक्षम् अर्बुद-सङ्ज्ञा कोटिर् अर्थः । परार्ध-पर्यताष्टादश-सङ्ख्या-दश-शत-गुणिता ज्ञेयाः ततश् च द्वन्द्वैक्यान् महाब्जादिकं सङ्ख्यापञ्चकं ज्ञेयं स्वहतम् इति स्वेन गुणितम् इत्य् अर्थः इति ज्ञेयम् । ततश् च कृष्ण-वत्सैर् महायुथैः सह स्वकान् स्वकान् परार्धादि-सङ्ख्यान् वत्सान् पृथक् पृथक् यूथी-कृत्येत्य् अर्थः । न च षोडश-क्रोशी-मात्रस्य वृन्दावनस्य प्रवेशे तावन्तो वत्साः नैव भान्तीति वाच्यं भगवद् विग्रहस्यैव धाम्नश् चास्य तथा-परिमितत्वेऽप्य् अचिन्त्य-शक्त्या विभुत्वात् तत् प्रदेशैक-देशेऽपि पञ्चाशत्-कोटि-योजन-प्रमाण-ब्रह्माण्डार्बुदानां भगवतैव ब्रह्मणे एतद् उत्तराध्याये दर्शयिष्यमाणत्वाद् अत एवोक्तं भागवतामृते—

एवं प्रभोः प्रियाणां च धाम्नश् च समयस्य च ।

अविचिन्त्य-प्रभावत्वाद् अत्र किञ्चिन् न दुर्घटम् ॥[लघु।भा। १.५.५१६] इति ॥३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : असङ्ख्यातैः सङ्ख्यातो निर्गतैः, कृष्ण-वत्सैर् महा-यूथैः सार्धं स्वकान् वत्सान् एकीकृत्व मेलयित्वा चारयन्तः । ननु, परिमिते वृन्दावने अपरिमितानां वत्सानां समावेशः कथम् ? इति चेद् भगवद्-विग्रहस्येव तस्याचिन्त्य-शक्त्या विभुत्वेन तत्-सम्भवाद् इत्य् उक्तम् ॥३॥


॥ १०.१२.४ ॥

फल-प्रबाल-स्तवक-सुमनः-पिच्छ-धातुभिः ।

काच-गुञ्जा-मणि-स्वर्ण-भूषिता अप्य् अभूषयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : काच-आदिभिः पूर्वं मातृभिर् भूषिता अपि फल-आदिभिर् आत्मानम्-अभूषयन्न् इत्य् अर्थः ॥४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काचो मृद्-विकार-विशेषः । गुञ्जा कृष्णाग्राखिल-रक्त-बीज औषधि-विशेषः । मणयो विद्रुमादयः । इत्य् अर्थ इति । बालत्वाद् एव पूर्व-भूषणान्य् आच्छादयामासुर् इति तात्पर्यम् । स्व-स्व-गृह-समृद्ध्य्-अपेक्षया काचादयो ज्ञेयाः ॥४॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अर्भ-लीलाम् एवाह—फलेत्इ सप्तभिः । स्तबकाः पुष्प-गुच्छाः । सुमनसः पुष्पाणि । उञ्जानां वन्यत्वेऽपि काचादि-गृह-भूषणान्तरुक्तिः-सौन्दर्येण स्थास्तुत्वेन च मातृभिर् गृहे ताभिर् भूषितत्वात् । मुक्तेति पाथः क्वचित् ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्भ-लीलाम् एवाह—फलेत्इ सप्तभिः । स्तबकाः पुष्प-गुच्छाः । सुमनसः पुष्पाणि । काचा महा-रत्नेभ्यो विवेक्तुम् अशक्य-रूपत्वात् कौतुक-विशेष-कारिणः गुञ्जा अपि वृन्दावनीयत्वेन तथा-भूतत्वात् । बलैर् एव कौतुकेनाहृत्य मातृभिः साग्रहं हारादौ ग्रथिताः । मुक्तेति पाथः क्वचित् ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काचादिभिः पूर्वं मातृभिर् भूषिता अपि फलादिभिर् आत्मानम् अभूषयन्न् इत्य् अर्थः । तत्र काच-गुञ्जे बालानाम् आग्रहात् मणि-स्वर्णे मातॄणाम् आग्रहाद् भूषणे ज्ञेये ॥४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मातृभिः काचादिभिर् भूषिता अपि, ते बालाः फलादिभिर् आत्मानम् अभूषयन् । तत्र काच-गुञ्जयोर् धारणं बालानाम् आग्रहात्, मणि-स्वर्णयोस् तु तन्-मातॄणाम् इति बोध्यम् ॥४॥


॥ १०.१२.५ ॥

मुष्णन्तोऽन्योन्य-शिक्यादीन् ज्ञातान् आराच् च चिक्षिपुः ।

तत्रत्याश् च पुनर् दूराद् धसन्तश् च पुनर् ददुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुष्णन्तश् चोरयन्तः ॥५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आरात् दूरम् । तत्रत्या दूरस्थाः शिक्यादीन् इति । शिक्येभ्य उत्तार्य प्रथमम् एवान्नादि-पात्राणि मुद्रित-मुखत्वात् पिपीलिकादि-दुःप्रवेशानि, क्वचित् तरु-तले कण्टकादिभिर् आवृत्य स्थापितानीति ज्ञेयम् । तान् एव ज्ञातान् सतः आराद् दूरे चिक्षिपुः । तत्रैव विद्रुत्य न तु प्रापिते सति तत्रत्या बालास् ततो\ऽपि दूरं चिक्षिपुः । एवम् अनवस्थया स्व-स्व-द्रव्यम् अप्राप्नुवतो बालान् रुदन्-मुखान् आलोक्य त एव हसन्तो ददुः ॥५॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदि-शब्देन पूर्वोक्त-वेत्रादीन् ज्ञातान् सतस् तत्रत्या यत्र चिक्षिपुस् तत्र वर्तमाना बालाः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शिक्यान्य् आदिर् येषां यष्ट्य्-आदीनां तान्, न तु शिक्यानि, तेषाम् अन्नाधारत्वेन अन्न-नाशे सति हसन्त इति-आदेर् अयुक्तत्वात् । ज्ञातान् सतः केषु चातिमुग्धेषु रुदत्सु हसन्त इत्य्-आदि ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुष्णन्तः चोरयन्तः शिक्यादीन् इति शिक्येभ्य उत्तार्य प्रथमम् एवान्न् आदि-पात्राणि मुद्रित-मुखत्वात् पिपीलिकादि-दुष्प्रवेशानि क्वचित् तरु-तले कण्टकादिभिर् आवृत्य स्थापितानीति ज्ञेयं, तान् एव ज्ञातान् सतः आराद् दूरे चिक्षिपुः । तत्रैव विद्रुत्य नेतुं प्रास्थिते सति तत्रत्या बालास् ततो\ऽपि दूराच् चिक्षिपुः । एवम् अनवस्थया स्व-स्व-द्रव्यम् अप्राप्नुवतो बालान् रुदन्-मुखान् अवलोक्य ते एव हसन्तो ददुः ॥५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विहारम् आह—अन्योऽन्यं शिक्यादीन् अर्थान्-मुष्णन्तस् तान् क्वचिल् लताभिर् आवृत्य स्थापितान् ज्ञातान् सत आराद् दूरे चिक्षिपुर् दध्रुः । धावित्वा ततो नेतुं प्रवृत्तेषु तत्रत्या बालास् ततोऽपि दूराच् चिक्षिपुः । ततस् तान् विमनस्कान् वीक्ष्य त एव हसन्तः पुनर् ददुः ॥५॥


॥ १०.१२.६ ॥

यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् ।

अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदि दूरं गतः कृष्णो भवति, तर्हि ॥६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वम् अहं कृष्णं स्पृशामि, त्वत्तोऽपि पूर्वम् अहं स्पृशामीत्य् उक्त्या तं संस्पृश्य ॥६॥

———————————————————————————————————————

सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१२०] अधुना ताभ्यो विशिष्टतरं भगवत्-सहचराणां श्री-गोप-कुमाराणां गोपानां च माहात्म्यं षड्भिः श्लोकैः तत्र वत्स-पालन-समये वत्सपानां व्रज-बालकानां माहात्म्यं श्री-शुकदेव-पादा अवर्णयन्—यदि दूरं गतः [भा।पु। १०.१२.६] इति त्रयेण ।

अघासुर-विमोचन-शाद्वल-जेमनादि-विहार-कौतुकेन प्रातर् एव संख्यातीतान् वत्सान् पुरस्कृत्य गृहान् निर्गच्छता श्री-भगवता शृङ्ग-रवेण प्रबोधिताः सहस्रशो बालकास् त्वरया तेनैव सह निर्गताः । सहस्रायुत-लक्ष-कोट्य्-आदि-संख्यावतो वत्सांश् चारयन्तो\ऽपि फल-प्रवालादिभिर् वन्य-भूषणैर् आत्मानं भूषयन्तो\ऽपि शिक्य चौर्य-प्रक्षेपण-वेणु-वादन-भृङ्ग-गीतानुकरणादि-विविध-विहारान् भगवत्-प्रीत्यैवाचरन्तो\ऽपि तं संस्पृश्य सम्यग्-आलिङ्गनादिना स्पृष्ट्वा पूर्व-पदस्थ-वीप्सानुसारेणात्राप्य् अर्थतः सा बोद्धव्या संस्पृश्यैव रेमिरे विजह्रुः सुखिनो बभूवुर् वा ।

कथम् ? अहं पूर्वं कृष्णं स्प्रक्ष्यामि अस्प्रार्क्ष्यम् वेत्य्, अहं-पूर्वम् अहं-पूर्वम् इति रीत्या कदा वृन्दावनादि-सद्-गुण-समुदायेन हृत-मनस् तया निज-सङ्गिनो\ऽपि तान् विहाय वनानां शोभाया वीक्षणाय यदि1 कदाचिद् दूरं गतो भवति । तर्हि एवं श्री-भगवतो\ऽपि तेष्व् आसक्तिः सूचिता । यदि दूरं गते कृष्णे इति पाठे—कृष्णे दूरं गते न रेमिरे यदि कथञ्चिद् रेमिरे, तर्हि तं संस्पृश्येत्य् अर्थः । अन्यत् समानम् । ततश् च तथा कृष्णस्य स्पर्शनम् एव तेषां क्रीडेति भावः ॥१२०॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईदृश-बाल्य-क्रीडास्व् अपि तेषां श्री-भगवद्-एकपरताम् आह—यदीति । कृष्णो\ऽपि तान् विहाय न यात्य् एव । यदि कदाचिद् दूरं गतो भवतीत्य् अर्थः । किम् अर्थम् ? वन-शोभाया ईक्षणाय । अनेन श्री-वृन्दावनस्य परम-मनोहरत्वं सूचितम् । सम्यक् परिरम्भणादिना स्पृष्ट्वा रेमिरे स्पर्शन-रूपां क्रीडां चक्रुर् इत्य् अर्थः । यद् वा, तत् तत्-क्रीडां कुर्वन्तो\ऽपि तं संस्पृश्यैव रेमिरे, सुखिनो बभूवुर् इत्य् अग्रे\ऽपि सर्वत्रापि शब्दम् अवतार्य व्याख्येयम् । यद् वा, संस्पृश्य पश्चाद् रेमिरे क्रीडां चक्रुः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईदृश-बाल्य-क्रीडाष्व् अपि तद् एक-परतां प्रणय-विशेषं च दर्शयति—यदीति पञ्चकेन । कृष्णोऽपि तान् विहाय दूरं न यात्य् एव । यदि कदाचित् द्वित्रैः सखिभिर् दूरं गतो भवतीत्य् अर्थः । किम् अर्थं ? वन-शोभाया ईक्षणाय अनेन श्री-वृन्दावनस्य परम-मनोहरत्वं सूचितम् । सम्यक् परिरम्भणादिना स्पृष्ट्वा रेमिरे सुखं प्रापुः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं कृष्णं संस्पृश्येति अयम् अहम् इति विद्रुत्य प्रथमं कृष्णम् अस्पृशं, न त्वं, न त्वम् ! इति कोलाहलं कुर्वन्तः ॥६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कृष्णो यदि दूरं गतो भवति, तदा तम् अहम् एव पूर्वम् अस्पृशं, न तु त्वम् इति कोलाहलिनः संस्पृश्य रेमिरे ॥६॥


॥ १०.१२.७ ॥

केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन ।

केचिद् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ध्मान्तो वादयन्तः । भृङ्गैः सह ॥७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वेणुन् त्रिविधान् । तद् उक्तम्

एष त्रिधा भवेद् वेणुर् मुरली-वंशिकेति च ।

पावकाख्यो भवेद् वेणुर् द्वादशाङ्गुल-दैर्घ्य-भाक् ॥

स्थौल्ये\ऽङ्गुष्ठ-मितः षड्भिर् एष रन्ध्रैः समन्वितः ।

पावकं पावकवद् उद्दीपकम् । काम-बीजम् आख्याति वक्तीति पावकाख्यः । अत एवोक्तम् ।

वे ब्रह्म-सुखम् इत्य् उक्तं णुः काम-सुख-वाचकः ।

त उभे यत्र सततं वेणुः स इह कथ्यते ॥ इति ।

सप्त-च्छिद्रा स्वरैर् युक्ता मुरली चारु-णादिनी ।

शर-चन्द्राङ्गुला दैर्घ्ये स्थौल्ये वेणु-समा स्मृता ॥

ततः सार्धाङ्गुलाद् यत्र मुख-रन्ध्रं तथाङ्गुलम् ।

शिरो वेदाङ्गुलं पुच्छं त्र्य्-अङ्गुलं सा तु वंशिका ॥

नव-रन्ध्रा स्मृता सप्त-दशाङ्गुल-मिता बुधैः । [भ।र।सि। २.१.३६६-३६८?]

इति भक्ति-रसामृतात् । कूजन्तः शब्दं कुर्वतः ॥७॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ताम् एवाह—केचिद् इति चतुर्भिः । कदा दूरं गत इत्य् अपेक्षायां तेषां वर्गशः पृथक् क्रीडाम् आह—केचिद् इति चतुर्भिः । वादयन्तो भवन्ति, एवम् अग्रे\ऽपि सर्वत्र रेमिर इत्य् अनेनैवान्वयः । ततश् च सर्वत्र शतृङ्-प्रत्ययैस् तत्-क्रीडान्तरेव संस्पर्शनं बोध्यते । साध्व् इति क्रिया-विशेषणं पूर्वैः परैश् च सर्वैर् अपि योय्जम् । ततो वादनादाव् उत्तमत्वं यथायथम् ऊह्यम् । तेन च भृङ्गादिभ्यो\ऽपि गानादौ साधुत्वम् उक्तम् ॥७.८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कदेत्य् अपेक्षायाम् आह—केचिद् इति चतुर्भिः । वेणून् वादयतः वेणु-वादनस्य मध्ये मध्ये इत्य् अर्थः । वेणुम् इति क्वचित् पाठः । एवं ध्मान्त इत्य्-आदि तद्-आवेशात् तत् सङ्गमनासिद्धेर् झटिति पुनर् अनुसन्धानाच् चेति भावः । यद् वा, संस्पर्शानन्तरं परमानन्देन तद्-आनन्दनेच्छया च पृथक् पृथक् क्रीडां चक्रुर् इत्य् अर्थः । ताम् एवाह—केचिद् इत्य्-आदिभिः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ध्मान्तः वादयन्तः ॥७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : रमणम् आह—केचिद् इति चतुर्भिः । ध्मान्तो वादयन्तः मृगैः कोकिलैश् च सह ॥७॥


॥ १०.१२.८ ॥

विच्छायाभिः प्रधावन्तो गच्छन्तः साधु-हंसकैः ।

बकैर् उपविशन्तश् च नृत्यन्तश् च कलापिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विच्छायाभिः पक्षि-च्छायाभिः । कलापिभिर् मयूरैः ॥८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कलापो बर्हन्ति येषां ते कलापिनः, कलापः संहते बहे वाण्यां भूषण-तूणयोः इति मेदिनी ॥८॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीनां जात्य्-एक-वचन-विवक्षया छायायाः क्लीबत्वाभावः साध्व् इति क्रिया-विशेषणं पूर्वत्र परत्र च सर्वत्र योज्यम् । ततस् ततो\ऽप्य् उत्तमं यथा स्यात् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विच्छायाभिर् इति वि-शब्दस्य जात्यैकत्वेन छायाया अक्लीबत्वम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीनां पक्षिणां छायाभिः ॥८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वीनां पक्षिणां छायाभिःकलापिभिर् मयूरैः ॥८॥


॥ १०.१२.९ ॥

विकर्षन्तः कीश-बालान् आरोहन्तश् च तैर् द्रुमान् ।

विकुर्वन्तश् च तैः साकं प्लवन्तश् च पलाशिषु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कीश-बालान् वृक्ष-शाखासु लम्बमानानि वानर-लाङ्गूलान्य् आकर्षन्तो लाङ्गूलम् अमुञ्चन्तस् तैः सह द्रुमान् आरोहन्तःविकुर्वन्तो दन्त-दर्शन-भ्रू-विजृम्भादिभिस् तैः सह विकारान् कुर्वन्तः । पलाशिषु वृक्षेषु प्लवन्तः शाखायाः शाखान्तरम् उद्गच्छन्तः ॥९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कीशो वानरः । मर्कटो वानरः कीशः इत्य् अमरः ॥९॥

———————————————————————————————————————

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विकर्षन्तः कीश-बालान् इत्य्-आदि । कीश-बालान् क्रोडे कृत्वा तन्-मातृभिर् नीयमानान् बालान् विकर्षन्तस् तेषां विकर्षणम् आलोक्य द्रुमान् आरोहद्भिस् तैः कीशैः सह द्रुमान् आरुरुहुः। कीश-बालान् कीश-लाङ्गुलानीति वा ॥९-१०॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव क्वचित् प्र-शब्दश् च । तैः कीशैः । अन्यत् तैर् व्याख्यातम् । यद् वा, कीश-बालान् वानर-शिशून् वृक्ष-शाखालम्बमान-लाङ्गूल-ग्रहणेनाकर्षन्तः, समम् अन्यत् । स्रवेण पर्वतादि-निर्गत-निर्झरेण संप्लुताः पूरिता इति सरितां क्षुद्रत्वं ज्ञेयम् । विहसन्त उपहसन्तः प्रातः स्वदेहच्छाया-स्वङ्गानां महा-स्थौल्य-दैर्घ्यादि-दर्शनात् । किं वा, विशेषेण हसन्तो बाह्वाद्य्-अङ्गोत्क्षेपणादिना विविधत्व-प्राप्तेः । यद् वा, तेनैव विविधाः सतीर् विशेषेण हसन्तो\ऽनुकुर्वन्तः प्रतिच्छाया-कर्तृकोऽप्य् अनुकारस् तेषूपचरितः ॥९.१०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तैः कीशैः । अन्यत् तैः । यद् वा, कीश-बालान् वानर-शिशून् वृक्ष-शाखालम्बमान-लाङ्गूल-ग्रहणेन आकर्षन्तः । समम् अन्यत् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कीश-बालान् तद्-वानर-शिशून् विकुर्वन्तो मुख-वैकृत्यादि-पूर्वकम् अनुकुर्वन्तः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ महा-वन-लीला-समाप्तौ वृन्दावन-लीलाम् आह—विकर्षन्तः कीश-बालान् इत्य्-आदि । बहुभिः कीश-बालान् कीश-शिशून् तन्-मातृभिः क्रोडे कृत्वा नीयमानान् विकर्षन्तः । तेषां विकर्षणम् आलोक्य वृक्षान् आरोहन्तीभिस् ताभिः समं वृक्षांश् चारुरुहुः। एवम् एतत् सर्वं सुगमं स्व-मतं च ॥९-१०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कीदृशान् बालान् ? वृक्ष-शाखासु लम्बमानानि व् आनर-लाङ्गूलानि तरम् उच्यमानैश् च लाङ्गूलैर् दृढं धृतैर् द्रुमान् आरोहन्तः विकुर्वन्तः भ्रू-विजृम्भादि-मुख-विकारान् कुर्वन्तः तथा तैस् सह पलादिषु वृक्षेषु प्लवन्तः शखायाः शाखान्तरं गच्छन्तः ॥९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कीशानां कपीनां बालान् वृक्ष-शाखासु लम्बितानि तेषां लाङ्गूलान्यकर्षन्तः दृढं धृतैस् तैर् लाङ्गूलैर् द्रुमानारोहन्त विकुर्वन्तस् तैः सह भ्रु-विजृम्भादि-मुख-विकारान् कुर्वन्तः पलाशिषु तरुषु प्लवन्तः शाखायाः शाखान्तरम् उद्गच्छन्तः ॥९॥


॥ १०.१२.१० ॥

साकं भेकैर् विलङ्घन्तः सरितः स्रव-सम्प्लुताः ।

विहसन्तः प्रतिच्छायाः शपन्तश् च प्रतिस्वनान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिच्छायाः प्रतिबिम्बानि ॥१०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भेकैर् मण्डूकैः । विलङ्घन्तः प्लवन्तः । शपन्तः गाली-प्रदानादि-पूर्वकम् आक्रोशन्तः ॥१०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्रवेण गिर्य्-आदि-निर्झरेण सम्प्लुताः पूरिताः इति तासां क्षुद्रत्वम् उक्तं, विहसन्तः उपहसन्तः प्रातस् तासु महा-दैर्घ्य-दर्शनात् । किं वा, विशेषेण हसन्तः भुजाद्य् उत्क्षेपनादिना विविधत्व-प्राप्तेः । यद् वा, प्रतिबिम्बानि मुख-वैकृत्यादि-पूर्वकम् अनुकुर्वन्तः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्रवा निर्झराः । प्रतिच्छायाः प्रतिबिम्बानि मुख-वैकृत्यादि-पूर्वकम् अनुकुर्वन्तः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्रवेण नद्य्-आदि-तटेभ्यः परिस्रुत-जलेन सम्प्लुताः पूरिताः सन्ति सरित् क्षुद्र-धाराः प्रतिच्छायाः स्व-प्रतिबिम्बान् भूजोत्क्षेपादिभिर् विहसन्तः प्रतिस्वनान् प्रतिध्वनीन् शपन्तः रे रे कस् त्वं ब्रूषे ? इति स्व-प्रतिध्वनिं श्रुत्वा कुपिताः किम् अरे माम् एव रे-रेकारेणाक्षिपसि ? तत् त्वम् अद्यैव शीघ्रं म्रियस्व इति पुनः पुनर् अनवस्थया आक्रोशन्तः ॥१०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्रवेण गिरि-निर्झरेण सम्प्लुताः पूरिताः सरितः क्षुद्र-प्रवाहाः भेकैः साकं विलङ्घ्यन्तः प्रतिच्छायाः स्व-प्रतिबिम्बान् हसन्तः प्रतिस्वनान् स्व-प्रतिध्वनीन् शपन्तः कस् त्वं रे माम् अनुकुरुषे ? म्रियस्व ! इत्य् आक्रोशन्तः ॥१०॥


॥ १०.१२.११ ॥

इत्थं सतां ब्रह्म-सुखानुभूत्या

दास्यं गतानां पर-दैवतेन ।

मायाश्रितानां नर-दारकेण

साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तान् अतिविस्मितः श्लोक-द्वयेनाभिनन्दति—इत्थम् इति । सतां विदुषां ब्रह्म च तत्-सुखं चानुभूतिश् च तथा स्व-प्रकाश-परम-सुखेनेत्य् अर्थः । भक्तानां पर-दैवतेन आत्म-प्रदेन नाथेन, मायाश्रितानां तु नर-दारकतया प्रतीयमानेन सह विजह्रुःकृतानां पुण्यानां पुञ्जा राशयो येषां ते । ब्रह्म-विदां तद्-अनुभव एव भक्तानाम् अतिगौरवेणैव भजनम् । एते तु तेन सह सख्येन विजह्रुः । अहो भाग्यम् इति भावः ॥११॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् गोपान् । श्री-शुकोऽभिनन्दति श्लाघते । इत्य् अर्थ इति । ज्ञानिभिर् यत् स्व-प्रकाश-सुख-रूपं मन्यते तेनेति भावः । मायाश्रितानां साधारण-पुंसाम् । इति भाव इति। ज्ञानि-भक्तान्य-पुरुषेभ्यो गोपा एव महद्-भाग्या भगवतस् तद्-अनुवर्तित्वाद् इति तात्पर्यम् ।

एवं तेषां क्रीडां निर्वर्ण्य व्रजौकसाम् इत्य् उत्तर-श्लोकोक्त्या तद्-आदि-व्रज-वासि-मात्राणां सर्वेभ्यो\ऽधिकं सौभाग्यं स्तौति—इत्थम् इति । अत्र जगति प्रायस् त्रिविधा जना गण्यन्ते ज्ञानिनो भक्ताः कर्मिणश् च । तत्र सतां भक्तिमत्त्वेन सच्-छब्देनोच्यमानानां ज्ञानिनां ब्रह्म च तत्-सुखं चानुभूतिश् च तया सह कृष्ण-शरीरस्यैव ब्रह्म-सुखानुभूतित्वं तेनैव सह तेषां विहारात् । तस्मात् तद् आकारस्य प्राकृतत्वम् आचक्षाणा ज्ञानि मानिनो\ऽन्ये सच्-छब्देनैवोच्यते इति ज्ञेयम् ।

दास्यं गताना केवल-भक्तिमतां सतां परदैवतेनेष्टदेवेनेति तदानीन्तना व्रजस्थ-जन-भिन्नाः प्रायो दास-भक्ता एवेति त एव निर्दिष्टाः मायां वैषयिकं सुखम् आश्रितानां कर्मिणां नर-दारकेण प्राकृतम् अनुष्यबालतया प्रतीयमानेन कृष्णेन सह विजह्र रिति ज्ञानिनां तद् अनुभव एव न तु तेन सह विहारस् संभवेत् भक्तानां गौरवेण तद्-भजनम् एव न तु विहार-योग्यता कर्मिणां तु न तद् अनुभवः प्रीत्य् अभावान् न तत् तद्-भजनम् अपि कुतस् तेन विहार इत्य् एते तु विजह्रुः विहारस् तम् आनन्द-परिपूर्णम् अपि प्रेम-विलास मयम् आनन्द-विशेष प्राप्यैव स्वयम् अपि सर्वतो विलक्षणम् आननन्दुर् इत्य् अर्थः । अतः सर्वेभ्यः सकाशादेत एव कृत-पुण्या इति किं वक्तव्यं कृत-पुण्य-पुंजा एवेति लोक-प्रतीत्येवोक्तिर् न तु नित्य-सिद्धानां तेषां निखिलेभ्यो ज्ञानिभ्यो भक्तेभ्यश् चोत्कृष्टानां न तत्र प्राचीन-पुण्यवत्त्वं वस्तुतो हेतुर् इति ज्ञेयम् । पुण्य-शब्देन भगवत्-प्रियाचरणं वा लक्षणीयं तद्-वशीकारातिशय-रूप-प्रयोजन-लाभाय ॥११॥

———————————————————————————————————————

हेमाद्रि (कैवल्य-दीपिका-टीका) : इत्थम् इति । गोपाः श्री-कृष्णेन सार्धं विजह्रुःइत्थम् अङ्ग-स्पर्शनादिभिः । सतां ब्रह्म-विदां, ब्रह्म-सुखानुभूत्यै ब्रह्माख्य-सुखानुभव-रूपेण । नर-दारको नन्दनन्दनः ॥११॥ [मु।फ। १८.६]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इत्थं सताम् इत्य्-आदि । इत्थम् अनेन प्रकारेण ते तेन सह विजह्रुर् इत्य् उभयत्र विशेष्य-पदाकरणं हर्षोत्कर्ष-प्रतिपादकम् । ततो न्यून-पदम् अत्र गुणः । ब्रह्म-सुखानुभूत्या ब्रह्म-सुखानुभवस्य, ह्रस्वश् चङ् भवति इत्य् अनेन वैकल्पिकं नदीत्वम् । तेन डस् आस, अनादरे षष्ठी । ब्रह्म-सुखानुभूतिम् अनादृत्य सतां वर्तमानानां, अतो दास्यं गतानाम् एकान्त-भक्तानां पर-देवतेन अभीष्ट-देवेन माययाश्रितानां माययास्पृष्टानाम् ।

अथ वा, एवं-भूतानां मध्ये कृत-पुण्य-पुञ्जाः । तेन कीदृशेन ? नर-दारकेण नर-दारा नर-स्त्रियः, प्रत्याक्रष्टुं नयनम् अबलाः [भा।पु। ११.३०.३] इत्य्-आदि-वक्ष्यमाणत्वात् तासां कं सुखं यस्मात्, कः कामो वा ।

यद् वा, ब्रह्म-सुखाद् अप्य् अनुगता या भूतिः सम्पत् तया दास्यं गतानां गोपीनां गोपानां वा पर-दैवतेन, मायाश्रितानां मायया आशितानाम् असुराणां नर-दारकेण मनुष्य-बालकवत् प्रतीयमानेन ।

यद् वा, मायाय आश्रितं मायाश्रयो एषु ते परम-मायिनोभवादयस् तेषां नरो नयः, नृ-नये इत्य् अतोऽनि सिद्धेः, तस्यापि दारकः खण्डकः, मायिनाम् अपि परम-मोहनेन । नृ विक्षेपे । नरो विक्सेपो वा, तस्य दारको मायाश्रितानां विक्षेप-खण्डनेन ॥११॥

———————————————————————————————————————

सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१२१] ततस् तेषां परम-सौभाग्यालोचनेनातिविस्मिताः सन्तः श्री-बादरायणि-पादाः पुनस् तान् एवाभिनन्दन्ति—इत्थम् [भा।पु। १०.१२.११] इति । अनेन पूर्वोक्त-वत्स-चारणादिना प्रकारेण सार्धं कृष्णेन सह विजह्रुः ते बालकाः । तत्रापि कथम् ? ब्रह्म-सुखानुभूत्या ब्रह्म-सुखम् एव साक्षाद् अनुभवन्त इत्य् अर्थः । एवं च तेषां तत्-तद्-विहार-जातम् अपि साक्षाद् ब्रह्म-सुखानुभव-रूपम् इत्य् उक्तं स्यात् । कथम्-भूतेन ? दास्यं गतानां सतां साधूनां परम-दैवतेन

यद् वा, सताम् इत्य् अस्य पूर्वेणैव सम्बन्धः । सतां मुक्तानां या ब्रह्म-सुखानुभूतिः, तया माया-मोहितानां तु नर-दारकेण गोप-बालकतया प्रतीयमानेनेत्य् अर्थः । यद् वा, सतां ज्ञान-निष्ठानां ब्रह्म च तत्-सुखं चानुभूतिश् च तया स्व-प्रकाश-परम-सुखेनेत्य् अर्थः । दास्यं गतानां भक्तानां परम-दैवतेन आत्म-प्रदेन तद्-वश्येन नाथेन मायाश्रितानां जगन्-मोहन-मायाश्रय-भगवद्-विमोहनेन जितया मायया दास्येवाश्रितानाम्

किं वा, कात्यायनि महामाये [भा।पु। १०.२२.४] इत्य्-आदि-महा-मन्त्रोपासनया मायां देवीम् आश्रितानाम् अर्चितवतीनां गोपीनां भगवत्-प्रियतमानां नर-दारकेण केवलं नर-दारकतया प्रतीतेन । नर-दारक-शब्दः किशोर-वाचको विचित्र-वेश-भूषिते परम-मनोहरे नव-वधू-वरे प्रसिद्धः । एवम् ऐश्वर्यादि-सम्बन्ध-राहित्येन केवलं लौकिकवत् परमेष्ट-बुद्ध्या परमात्मीयत्वेन तासु परिस्फुरतेत्य् अर्थः ।

यद् वा, नर-दाराणां यत् रति-सुखं तेन मूर्तिमन्-नारी-परम-सुखेनेत्य् अर्थः । किं वा, नरान् दारयति प्रेम-विशेष-विस्तारणेन विदारयतीति तथा तेन । अत्र यद्यपि नारीति वक्तुम् उचितं, तथापि स्व-सादृश्येनैव सर्वेषम् एव लोकानां हृदयं विदारयेद् इति गोपीनां प्रतीतेर् मनुष्य-मात्र-विवक्षया तथोक्तम् । एवं यथोत्तरम् एषां श्रैष्ठ्यं द्रष्टव्यम्।

अहो तथा-भूतेन कृष्णेन सह विजह्रुः विहरन्ति यतः । किं वा, अतो नूनम् एत एव कृताः पुण्यानां पुञ्जा यैस् तथा-भूताः । पुञ्ज-शब्देनात्र अक्षयत्वं बोध्यते । यद् वा, कृतार्थादिवत् कृत-शब्देन शुद्धोक्त्या कृतानां विशुद्धानां भगवद्-अर्पित कर्म-लक्षणानां पुण्यानां पूञ्जा येषाम् । यद् वा, पूण्य-शब्देनात्र भक्तिः पारिभाष्यते, धर्मो मद्-भक्तिकृत् प्रोक्तः [भा।पु। ११.१९.२७] इति भगवद्-वचनात् ।

अथवा कृते सत्य-युगे यत् पूण्यं विशुद्ध-भगवद्-ध्यान-लक्षणं, तस्य पूञ्जा येषां तद्-रुपा वा सर्वथा परम-भक्त-वरा इत्य् अर्थः । अयं भावः—भगवान् श्री-नन्दनन्दनो\ऽयं ब्रह्म-विदां ब्रह्म-सुखानुभव-रूपेण केवलं स्फुरति ।
अतस् तेषां हृदये स्वरूपानुभव-सुख-मात्रम् भक्तानां सच्-चिद्-आनन्द-घन-विग्रह-पर-ब्रह्म-परमात्म-परमेश्वर-रूपेण केवलं प्रस्फुरति । अतो गौरव-भरेण भजनं तद्-अनुरूपानन्द-सम्पत्तिश् च भगवत्-प्रियाणां च श्री-गोपीनां केवलं श्री-नन्द-किशोरत्वेनैव परिस्फुरति अतः परम-प्रेम-सम्पत्-विरुद्ध-ज्ञान-गौरवाद्य्-अभावात् तासां तस्मिन् परम-प्रेमैव सम्पद्यते । एतच् च पूर्वं बहुधोक्तम् एवास्ति ।

इत्थम् अत्यन्त-प्रेम-भरेण ता हि विवशाः, तत्र च प्रायो दिवा-विरहिण्यो रात्राव् अप्य् अस्वतन्त्रा भगवता समं मनस्-तृप्त्या रन्तुं न शक्नुवन्ति । एते तु बालकास् तेन सह तादृश-सख्यादिना गृहेषु वनेषु च स्वातन्त्र्येण तत् तद्-विचित्र-विहारम् अपि सदा कुर्वन्ति, अहो सौभाग्य-महिमैषाम् इति ।

यद्यपि भगवतीनां तासाम् एव सर्वेभ्यः सकाशात् परम-सौभाग्य-महिमा सर्वत्रैव वर्ण्यते, तथाप्य् अत्र श्री-शुकदेव-पादैः सहज-गोपी-भावानुसृत-हृदयैर् बालकानां तेषां महा-सुख-केलि-भरं वर्णयद्भिः सदा भगवता तेन सह वन-मध्ये तादृश-क्रीडा-लोभेन गोपीवत् तथोक्तम् इति ज्ञेयम् । यथा श्री-गोपीनाम् एव अक्षण्वतां फलम् इदम् [भा।पु। १०.२१.७] इत्य्-आदि-वचनेषु वनान्तर्-विहरतः श्री-कृष्णस्य वक्त्र-दर्शनम् एव चक्षुष्मतां फलं नान्यद् इत्य्-आदि तात्पर्यम् ॥१२१॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सतां सत्ता-मात्रेण वर्तमानानां मुक्तानाम् इत्य् अर्थः । ब्रह्म आत्म-तत्त्वम् । तस्य सुखेनानायासेनानुभूतिः । साक्षात् परिस्फूर्तिस् तथा तद्-रूपेणेत्य् अर्थः । तेषां सैव परम-पुरुषार्थ-रूपेति मननेन श्री-भगवत्य् एव तथा बुद्धेर् भक्तानां परम-भजनीयेन प्रेम-भक्ति-सुख-स्वरूपेणेत्य् अर्थः । मायाश्रितानाम् अज्ञानां नर-दारकेण नरत्व-विदारकेण जीवत्व-नाशकेन मुक्ति-प्रदेनेत्य् अर्थः ।

यद् वा, मायां दुर्गाम् अपि आ सम्यक्, कात्यायनि महा-माये [भा।पु। १०.२.४] इति मन्त्र-जपादिना श्री-कृष्ण-प्राप्तये परम-श्रद्धया श्रितानां सेवितवतीनां श्री-गोपीनां भगवत्-प्रियतमानां भाविनोऽपि तद्-व्रतस्य श्री-शुक-परीक्षित्-संवादात् प्राक्तनतयात्रोक्तिर् अविरुद्धा । नर-दारको लौकिक-सुन्दर-कुमारस् तत् तया प्रतीयमानेनेत्य् अर्थः । प्रेम-भर-स्वभावेन तासु तथैव तत्-परिस्फूर्तेः ।

यद् वा, नराणां दाराः कलत्राणि, तेषां केन सुख-स्वरूपेण । एवं सदादीनां यथोत्तरं श्रेष्ठ्य-सिद्ध्या वाचो-युक्ति-क्रमोऽपि सङ्गच्छते । पुण्यान्य् अत्र, धर्मो मद्-भक्ति-कृत् प्रोक्तः [भा।पु। ११.१९.२७] इति श्री-भगवद्-भक्त्या प्रेम-लक्षणाया भक्तेः साधनानि श्रवणादीनि । कृतास् तेषां पुञ्जा यैस् ते ।

यद् वा, कृते सत्य-युगे यद् एकं श्री-भगवद्-ध्यान-लक्षणं पुण्यं, तस्य पुञ्जा येषु तद्-रूपा वा । यद् वा, साधितानुराग-पुञ्जाः श्री-गोपीनां प्रायो दिवा-विरहो रात्राव् अपि स्वच्छन्दं रतिर् न सिद्ध्येत् । एते त्व् इत्थं पूर्वोक्ति-स्वाच्छन्द्याइ-प्रकारेण श्री-बादरायणेर् वनान्तर् विहार-लोभात् तासाम् एव, अक्षण्वतां फलं [भा।पु। १०.२१.७] इत्य्-आद्य्-उक्तिवत् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सतां परम-स्वरूप-सत्ता-विभाववताम् । यद् वा, ब्रह्म-पद-सान्निध्यात् सद्-विशेषाणाम् उभयथा ज्ञानिनाम् इत्य् एव अनुभूतिः जड-प्रतियोगि-स्व-प्रकाश-वस्तु, सैव सुखम् आत्मत्वेन पर्यवसिततया निरुपाधि-परम-प्रेमास्पदत्वात्, सैव बृहत्तम-पर्याय-ब्रह्माख्या सर्वेषां परम-स्वरूपत्वात् तेषां केवल-तद्-रूपेण स्फुरता दास्यं गतानां दास्य-भक्तिमताम् ऐश्वर्यादि-पूर्णतया ततोऽपि परेण दैवतेन सर्वाराध्येन रूपेण स्फुरता महिम-दर्शनार्थं तत्-स्फूर्ति-द्वयस्य विरलताम् आह, मायाधिकार-पतितानां तु यत् किञ्चित् नर-दारक-रूपेण ज्ञान-भक्त्योर् अभावात्, न तु तत् तद्-रूपेणापि तेन सार्धं विजह्रुः । सहार्थ-तृतीयया स्व-प्रेम्णा वशीकृत्यात्म-सङ्गिताम् आपादितेन तेन विहारम् अपि कृतवन्त इत्य् अर्थः । अतस् तेभ्यः सर्वेभ्यः कृत-पुण्य-पुञ्जा इति लोकोक्तिः । वस्तुतस् तु कृतानां चरितानां भगवतः परम-प्रसाद-हेतुत्वेन पुण्याश् चारवः पुञ्जा येषां त इत्य् अर्थः । पुण्यं तु चार्व् अपि इत्य् अमरः ।

अत्र श्रीमन्-मुनीन्द्र-चरणानाम् इदं विवक्षितम्—भगवांस् तावद् असाधारण-स्वरूपैश्वर्य-माधुर्यस् तत्त्व-विशेषः । तत्र स्वरूपं परमानन्दः, ऐश्वर्यम् असमोर्ध्वानन्त-स्वाभाविक-प्रभुता, माधुर्यम् असमोर्ध्वतया सर्व-मनोहरं स्वाभाविक-रूप-गुण-लीलादि-सौष्ठवं, तत् तद्-अनुभव-साधनं च क्रमेण ज्ञानं, ज्ञेयं, भक्त्याख्य-गौरव-मिश्रा प्रीतिः, शुद्ध-प्रीतिश् च, एतत् त्रिविध-साध्य-साधना-भावेन मायाश्रितानां स्फूर्त्य्-आभास एव केनाप्य् अंशेन वस्तु-स्पर्शात्, नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.२५] इति न्यायेन,

तं ब्रह्म परमं साक्षाद् भगवन्तम् अधोक्षजम् ।

मनुष्य-दृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ [भा।पु। १०.२३.११] इत्य्-आदिवत्।

अत्र ब्रह्मादि-त्रय-क्रमश् च पूर्ववद् एव तत्र भक्त्येश्वरतया स्फूर्तिस् तु तत्-पूर्वतः पूर्णा—

यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना

सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इति,

भक्त्या माम् अभिजानाति [गीता ११.५५] इत्य् अन्तर्-भूत-सर्व-ज्ञान-वृत्तित्वात् शुद्ध-प्रीतिस् तु ततोऽपि श्लाघिष्यते, अहो भाग्यम् अहो भाग्यम् [भा,पु। १०,] इत्य्-आदिना ततश् च निर्विशेष-ज्ञानेन स्वरूपानुभवः गौरव-मय-ज्ञानेन ऐश्वर्यानुभवः प्रीतिमय-ज्ञानेन माधुर्यानुभव इति शुद्ध-परम-मधुरता-स्फूर्तिस् तु निर्विशेषह् ज्ञानिषु न विद्यत एव दासेष्व् अपि गौरवेण सङ्कुचित-चित्ततया यथेष्ट-ग्रहणाशक्तेर् नातीवोत्पद्यते वस्तु-विचारं तु सैव सर्वतः स्वाद्वी, आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य्-आदि परिनिष्ठितोऽपि नैर्गुण्य [भा।पु। २.१.९] इत्य्-आदिभ्यः, तथा ब्रह्मा भवोऽहम् अपि यस्य कलाः कलायाः [भा।पु। १०.६८.३७] इत्य्-आद्य् ऐश्वर्य-ज्ञान-वारिधेर् अपि श्री-सङ्कर्षणस्य भ्रातृ-स्नेह-परिप्लुत इत्य्-आदि, वृषायमाणौ नर्दन्तौ युयुधाते परस्परं [भा।पु। १०.११.४०] इत्य्-आदि भावेभ्यः ।

तद् एवं स्थिते सखि-चेतसो गौरवासङ्कुचिततया तत्-प्रीतेश् च तद्-असङ्कीर्णत्वेन पूर्णतया स्वभाव-विशेषेण च प्रतिक्षणम् अपि विकासिततया तेन तच् चेतसोऽपि पुनस् तादृशतया श्री-कृष्ण-चेत-आदेर् अपि तद्वद् एव तथा-विधतया सखीनाम् एव रूप-गुण-समुद्भूत-लीला-माधुर्यानाम् असाधारणी-स्फूर्तिर् इत्य् एव किं वक्तव्यम् । वारिधाव् इव तत्र निर्मथ्य-माधुर्यामृत-समुद्भव-कर्तृत्वं च स्व-प्रीति-माधुर्य-कृत-तद्-वशी-भावत्वं च दृश्यते । तत् तच् च न तत्र तत्र दृश्यत इति सर्वेभ्यः कृत-पुण्य-पुञ्जवम् अस्मांश् चमत्कारयतीति । अन्यत् तैः ।

यद् वा, पूर्वार्धं पूर्ववद् व्याख्याय तदानीं तद्-अवतारे मायाश्रितानां प्रापञ्चिकानाम् अपि कृपयाश्रितानां मधुर-नराकारेण स्फुरता स्वयं भगवतेत्य्-आदि व्याख्याएयम् । यद् वा, मात्रात्मश्रितानां तत्-कृपा-विशेषम् अवलम्बमानानाम् इति परम-मधुरतया स्फुरता तु सार्धं विजह्रुर् इत्य्-आदि योज्यम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (प्रीति-सन्दर्भः १००) : तद् एवं परम-माधुर्यैक-ज्ञान-निधौ श्रीमति गोकुलेऽपि अनुगता बान्धवाश् चेति द्विविधानां तत्-प्रियाणां मध्ये ममता-विशेष-धारित्वाद् अन्त्यानां महान् एवोत्कर्षः । यथोक्तं—अहो भाग्यम् अहो भाग्यम् [भा।पु। १०.१४.३२] इत्य्-आदिना । अत्र व्रजौकसां कनिष्ठेष्व् अपि तेन मित्रतया स्वीकार इति यद् उच्यते तत् खलु मित्रतायाः प्रशंसाम् एवावहतीति ।

अथ तेष्व् अपि सखीनां तावद् उत्कर्षम् आह—इत्थं सतां इति । सतां ज्ञानिनां ब्रह्मत्वेन स्फुरंस् तावद् विरल-प्रचारः । दास्यं गतानां

मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भा।पु। ६.१४.३-५]

इत्य् अनुसारेण पर-दैवत्वेन स्फुरंस् ततोऽपि विरल-प्रचारः । मायाश्रितानां तु ज्ञान-भक्ति-मैत्री-हीनानां चिद्-एक-रूपत्वेन न स्फुरति, न च परमेश्वरत्वेन, न च प्रेमास्पदत्वेन ततस् तदीयासाधारणता-स्फूर्तौ योग्यताश्रयाभावात् । अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् [गीता ९.११] इति न्यायेन अलभ्य एवेति पाद-त्रयेण तस्योदय-मात्र-दौर्लभ्यं विवक्षितम् ।

ततश् चैवम्भूतो योऽसुलभ-स्फूर्तिः श्री-कृष्णः, तेन समं साक्षाद् एव प्रेम-भूमिकोत्कर्षम् अधिरूढेन परम-सख्येनापि विजह्रुर् इति श्री-शुकदेवस्य चमत्कारः ।

अथवा, योऽयम् अहो तदानीं विषूचीनया कृपया मायाश्रितानां साधारण-जनानाम् अपि दर्शित-सर्वाकारातिक्रमि-माहात्म्येन साक्षान् नराकृति-पर-ब्रह्मत्वेन स्फुरंस् ततोऽपि तथा तथा लब्धे लाभे बन्धु-भावस् तु तैर् न लब्धः । सोऽयं महोत्कर्षः । ततश् चैवम् उत्कृष्टतरे उत्कृष्टतमेऽपि तथा तथा लब्धे लाभे बन्धु-भावस् तु तैर् न लब्धः । 2

सखायस् तु तथा-भूतेन तेन सार्धं बन्धु-भावोत्कर्ष-रूपेण सख्येन विजह्रुर् इत्य् अतस् त एव कृत-पुण्य-पुञ्जाः श्री-भगवत्-पारितोषिकानेक-सत्-कर्म-कारि-वृन्देषु परम-श्रेष्ठा इत्य् अर्थः । अत एव बान्धवान्तरेषु नेदृशं सख्यम् अस्तीति तेभ्योऽपि माहात्म्यम् आयातम् ।

अत एव किम् एषां सखीनां साक्षात् तेन समं प्रणय-लक्षण-हार्द-विशेषेण विहरतां भाग्यं वर्णनीयम् ? ये साधारणा अपि व्रज-वासिनस् तेषाम् अप्य् आस्तां तत् तद् अन्यद् भाग्यम् । तद्-दर्शन-मात्र-भाग्यम् अपि परेषां महा-मुनीनां परम-दुर्लभम् एवेत्य् अभिप्रायेण यत्-पादांशुर् बहु-जन्म-कृच्छ्रत [भा।पु। १०.१२.१२] इत्य् अनन्तर-पद्यम् अपि व्याकृत्यैतद् एव सखीनां महा-भाग्य-वर्णनं पोषणीयम् । अत एवाक्रूरेण अथावरूढः [भा।पु। १०.३८.१५] इत्य् अत्र नमस्य आभ्यां च सखीन् वनौकस इति चोक्तम् ।

तद् एतत् तावद् अस्तु येषु सखिषु वत्सेष्व् अपि ब्रह्मणा हृतेषु अन्यान् सृज्यांस् तत् तुल्यान् दृष्ट्वा स्वयम् एवैतत् तया बभूव । तेष्व् अपि परितोषम् अप्राप्य तान् सखीन् एवानिनायेत्य् अप्य् अनुसन्धेयम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इत्थम् इति द्वयम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं भगवता सह क्रीडतो व्रज-बालान् प्रशंसन्न् आह—इत्थं सताम् इत्य्-आदि । मायाश्रितानां मायया कैतवेनाश्रितानां निष्कैतवानां सताम् उत्तमानां दास्यं गतानां भक्तानां मध्ये कृत-पुण्य-पुञ्जाः कृतं कारितं पुण्य-पुञ्जं यैः । अर्थ-विद्-द्रष्टॄणां श्रोतॄणां च, ते गोप-बाला नर-दारकेण नर-दारकाकारेण तेन कृष्णेन समम् इत्थं विजह्रुः । कीदृशेन ? ब्रह्म-सुखानुभूत्या ब्रह्म-सुखानुस्वरूपेण । अथवा, एक-देश-स्त्रीत्वात् स्व-मत्यै पुरुषायेतिवत् पुंलिङ्गेऽपि स्त्रीवद् रूपम् । नर-दारकाकृतिना ब्रह्मानन्द-ज्ञानेन, गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.१५.७५] इत्य्-आद्य् उक्तेः । पुनः कीदृशेन ? पर-दैवतेन देवतानां परोपदेवताधिदेवेन । अथवा, पर-दैवतेन सार्धं विजह्रुः । ब्रह्म-सुखानुभूत्येति करणे तृतीया । तत्र विहारे तेषां य आनन्द आसीत्, सैव ब्रह्म-सुखानुभूतिस् तया । विशेषणे वा तृतीया । कीदृशेन नर-दारकेण ? न विक्षेपे नरो विक्षेपः । तस्य दारकेण खण्डकेन । अथवा, सतां ज्ञानिनां ब्रह्म-सुखानुभूत्या, तेऽपि तद्-अतिरिक्तम् अन्यद् ब्रह्मेति न जानन्तीत्य् अर्थः । दास्यं गतानां पर-दैवतेन परमेश्वरेण, पूर्ववन् मायाश्रितानां रागिणां नर-दारकेण विक्षेप-खण्डकेन परम-निर्वृति-कारिणां नर-बालक-पक्षेऽनुत्कर्षाद् अचमत्कारः ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं तेषां क्रीडां निर्वर्ण्य व्रजौकसाम् इत्य् उत्तर-श्लोकोक्त्या तद् आदि-व्रजवासि-मात्राणाम् एव सौभाग्यं सर्वेभ्य एव सकाशाद् अधिकत्वेन स्तौति—इत्थम् इति । अत्र जगति प्रायस् त्रिविधा एव जना गण्यन्ते, ज्ञानिनो भक्ताः कर्मिणश् च, तत्र सतां भक्तिमत्त्वेन सच्-छब्देनोच्यमानानां ज्ञानिनां ब्रह्म च तत् सुखं च अणुभूतिश् च तया सहेति कृष्ण-शरीरस्यैव ब्रह्म-सुखानुभूतित्वं, तेनैव सह तेषां विहारात्, तस्मात् तद्-आकारस्य प्राकृतत्वेम् आचक्षाणाः ज्ञानि-मानिनो\ऽन्ये सच्-छब्देन नैवोच्यन्ते इति ज्ञेयम् ।

दास्यं-गतानां केवल-भक्तिमतां सतां पर-दैवतेन इष्ट-देवेनेति तदानीन्तना व्रजस्थ-जन-भिन्नाः प्रायो दास-भक्ता एवेति त एव निर्दिष्टाः । मायां वैषयिकं सुखम् आश्रितानां कर्मिणां नर-दारकेण प्राकृत-मनुष्य-बालतया प्रतीयमानेन कृष्णेन सह एते विजह्रुर् इति ज्ञानिनां तद्-अनुभव एव, न तु तेन सह विहारः सम्भवेत् । भक्तानां गौरवेण तद्-भजनम् एव, न तु विहार-योग्यता । कर्मिणां तु न तद्-अनुभवः प्रीत्य्-अभावात्, न तद्-भजनम् अपि, कुतस् तेन सह विहारः ? इत्य् एते तु विजह्रुः विहारैस् तं स्वानन्द-परिपूर्णम् अपि प्रेम-विलासमयम् आनन्द-विशेषं प्रापस्यैव स्वयम् अपि सर्वतो विलक्षणमाननन्-दुरित्य् अर्थः । अतः सर्वेभ्यः सकाशाद् एते एव कृत-पुण्या इति किं वक्तव्यं ? कृत-पुण्य-पुञ्जा एवेति लोक-प्रतीत्यैवोक्तिर् न तु नित्य-सिद्धानां तेषां निखिलेभ्यो ज्ञानिभ्यो भक्तेभ्यश् चोत्कृष्टतमानां तत्र न प्राचीन-पुण्यवत्त्वं वस्तुतो हेतुर् इति ज्ञेयम् । पुण्य-शब्देन भगवत्-प्रियाचरणं वा लक्षणीयं, तद्-वशीकारातिशय-रूप-प्रयोजन-लाभाय ॥११॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं तेषां विहारं निर्वर्ण्य तान् सरोमाञ्चम् अभिनन्दति इत्थम् इति । ते बाला हरिण सार्धम् इत्थं विजह्रुः । कीदृशेनेत्य् आह—सतां ज्ञानिनां ब्रह्म-सुखानुभूत्या सुखानुभूति-रूपेण ब्रह्मणा दास्यं गतानां दास्य-भक्तिमतां विरिञ्चाद्य्-अधिकृतां पर-दैवतेन पूर्णैश्वर्येण प्रभुना मात्रात्मश्रितानां वैषयिकानन्द-सेविनां कर्मिणां तु नर-दारकेण मायिक-मनुष्य-बालकतया प्रतीतेनेत्य् अर्थः । सतां निस्तरङ्गार्णववद् विज्ञानानन्द-बृहद्-वस्तुतया समाधौ विज्ञानं दास-भाजां तु गौरवेणैव भजनं ज्ञान-भक्त्यास् तु निर्निमेष-वीक्षण-कटाक्ष-वीक्षणवद् अन्तरं मन्यन्ते, मायाश्रितानां तु समाधि-दास्य-भक्त्योर् अब्रह्मान् न तद् द्वयं तेनातिदुर्लभेन परम-पुम् अर्थेन सर्वेश्वरेण सह विहारोऽपि सख्यमयोऽभूद् इति तत् सौभाग्यं कः शक्नुयाद्-वक्तुम् इत्य् अर्थः । सहार्थ-तृतीयया स्व प्रेम्णा वशीकृतेन तेन विहारे तेषां प्राधान्यं बोध्यते कीदृशास् ते कृताः सम्पादिताः ? पुण्यानां तद्-अनुवृत्ति-लक्षणानां चारूणाम् अर्थानां पुञ्जाः यैस् ते । पुण्यं तु चार्व् अपि इत्य् अमरः ॥११॥


॥ १०.१२.१२ ॥

यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो

धृतात्मभिर् योगिभिर् अप्य् अलभ्यः ।

स एव यद्-दृग्-विषयः स्वयं स्थितः

किं वर्ण्यते दिष्टम् अहो3 व्रजौकसाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बहु-जन्मभिः कृच्छ्रेण धृत आत्मा मनो यैस् तैर् अपि ॥१२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन सार्धं विहारवार्ता दूरे तावद् आस्तां तत्-संबन्धि-वस्तु-मात्रम् अपि दुर्लभम् इत्य् आह—यस्य पाद-पांसुः कोऽपि धूलि-कणः । यद् वा, यस्य पादपानां विहारास्पद-वृन्डवनीय-वृक्षाणाम् अंशुर् एकः किरणोऽपि । यद् वा, यत् पादौ पिबन्ति स-प्रेम निरीक्षन्ते ये भक्त-विशेषाः, तेषाम् अंशुः दूरतः किरणच्-छटापि धृतात्मभिर् एकाग्री-कृत-चित्तैर् लब्धुम् अनर्हः, नायं सुखापो भगवान् [भा।पु। १०.९.२१] इति-पूर्वोक्तेः । स्वयं स्थित इति स्व-दर्शन-साधनम् अनपेक्ष्येत्य् अर्थः । दिष्टं भाग्यं । यद् वा, दिष्ट-महः दिष्टस्य तेज उत्सवो वेति विश्वनाथः । सम्मुख-स्थितम् इवावलोक्याह—स एष इति । येषां नेत्र-गोचरः । स्वयं कृष्णः । अहो इत्य् आनन्दे । दिष्टं दैवम् ॥१२॥

———————————————————————————————————————

हेमाद्रि (कैवल्य-दीपिका-टीका) : यद् इति । बहुषु जन्मसु यत् कृच्छं तपः प्रभृतिः, तेन धृतात्मभिः जितेन्द्रियैः । यत् पाद-पांशुर् यत्-पाद-रजः स एव यद्-दृग्-विषयः । न तु पांशुः दिष्टं दैवं । अहो आश्चर्ये ॥१२॥ [मु।फ। १८.७]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यत्-पाद-पांशुर् इत्य्-आदि । यस्य पाद-रजो बहु-जन्मभिर् यत् कृच्छ्रं तपस् ततो हेतोर् धृतो वशीकृतो आत्मा यैस् तैर् आत्मारामैर् अप्य् अलभ्यम् । स एव, न तु रूपान्तरेण, अतः श्री-नन्द-किशोर-रूपम् अनादि इति ज्ञेयम् । तर्हि कथं नन्द-गृहे ? तत्राह—स्वयं स्थितो व्रजे स्व-स्वरूपेणैव स्थितः । स एव स्वयं दृग्-विषय इत्य् अनेनैव सिद्धे स्थित इति करणं व्रज-लीलाया नित्यत्व-सूचनार्थम् ॥१२॥

———————————————————————————————————————

सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१२२] अहो बत दूरे तावद् आस्ताम् एषां श्री-भगवता सह निरन्तर-विहार-सौभाग्य-महिमा तत्-सन्दर्शन-मात्र-सौभाग्यम् एवैतेषां केन वर्णयितुं शक्यम् इत्य् अभिप्रेत्य् आह—यत्-पाद-पांशुः [भा।पु। १०.१२.१२] इति ।

यस्य श्री-कृष्णस्य पाद-पद्मं तस्यैकस्यापि पांशुर् एको\ऽपि । यद् वा, पाद-पांशुः व्रज-भूम्य्-उदित-रेणु-राजि-विराजित-पाद-पद्म-चिह्न-रूप-पद-कदम्ब-सम्बन्धी यः पांशुः । यद् वा, कुत्रापि कथञ्चित् पतितः पाद-पद्म-पांशुः । एवं त्रिधापि साक्षाद् यत्-पाद-रेणुर् एको वा दूराद् गलित-पाद-रेणुवत् कथञ्चित् कश्चित् तत्-पाद-पद्म-सम्बन्धी वेत्य् अर्थः ।

अथवा, यस्य पादपानां वृन्दावनादि-वर्ति-क्रीडा-कदम्बादीनाम् एकस्याप्य् अंशुर् दीप्तिः । एवं दूराद् रवि-रश्मिवद् यत् सम्बन्धो\ऽपि कश्चिद् इत्य् अर्थः । बहुभिर् जन्मभिः कृच्छ्रेण ब्रह्मचर्यादि-क्लेशेन धृतो नियमतो विषयेभ्यो वा प्रत्याहृत्यात्मनि स्थिरीकृतात्मा मनो यैस् तैर् योगिभिः समाधि-योग-युक्तैर् अप्य् अलभ्यः लब्धुम् अशक्यः स एव सच्-चिद्-आनन्द-घन-मूर्तिः सर्वेन्द्रिय-वृत्त्य्-अतीतः, तत्र च स्वयं साक्षाच् छ्री-कृष्ण एव, न च तस्य कापि विभूतिः, कश्चिद् अंशो\ऽवतारो वा, श्री-नारायण-रूपो वा । येषां गोपानां दृग्-विषयः दृशोर् ग्रह्य-रूपवद् ग्राह्यतां प्राप्तः सन् स्थितः स्थिरतां प्राप्तः । कदाचित् कथञ्चिद् अप्य् अक्षिभ्यां नापयातीत्य् अर्थः ।

अत एषां व्रजौकसां दिष्टं भाग्यम् अहो किं वर्ण्यते किं वर्णनीयं ? वर्णयितुम् अशक्यम् इत्य् अर्थः । यद् वा, तेषां किं दिष्टं कतरत् पूर्व-जन्म-कृत-पूण्यम् एवैतद् वर्ण्यते यस्येदृशं फलं स्यात् ? अपि तु न किम् अपि दिष्टम्, इदम् केवलं भगवत्-कृपयैवेत्य् अर्थः ।

अथवा दिष्टम् अहो भाग-धेयोत्सवः ! किं वा, दिष्टस्य महस् तेजः स्वभाव इत्य् अर्थः । यद् वा, अ-कार-विश्लेषण अदृष्टं महः उत्सवः प्रभावो वेत्य् अर्थः । एवं सर्वथा तत् तद्-रूपो भक्ति-योग इति यावत्

अथवा पूर्वं सह-विहार-महा-सौभाग्यं वर्णयित्वा पश्चात् तद्-अन्तर् गतं दर्शन-मात्रं भाग्यं वर्ण्यते इति स्तुति-रीतिर् न भवेत्, न च महिम-वर्णन-क्रम-निर्वाह-सौष्ठवम् इत्य् अतो\ऽयम् अर्थः कल्पनीयः4 । अहो अस्तु तावत् सह-क्रीडा-पराणां भगवत्-प्रिय-सखानाम् एषां सौभाग्योत्कर्ष-महिमा व्रजे वसतां सर्वेषाम् अपि प्राणिनां माहात्म्यं किं वर्ण्यताम् ? इत्य् आह—यत्-पाद-पांशुर् इति । श्लोकार्थस् तु पूर्ववद् अनुसन्धेयः ।

एवं सति परम-योग-निष्ठेभ्यो व्रज-वासि-मात्रस्यैव महिमा सङ्गतः [सिद्धः] । ततश् च श्री-भगवत्-सङ्गिनां तद्-एक-प्रियाणां गोप-कुमाराणां परमोत्कर्षः, तात्पर्येण स्वतः सिध्यत्य् एव । अथ वा प्रस्तुत-गोप-बालक-गण-माहात्म्यम् एव साक्षात् अत्रापि प्रतिपाद्यम् ।

ततश् च दृग्-विषय इत्य् अस्यायम् अर्थः—चक्षुर्-इन्द्रियस्य विषयो रूपम् एवेत्य् अत्र योज्यं स स्वयं येषां दृग्-विषय एव स्थितः स्थैर्येण बभूव । यथा हि चक्षुर्-इन्द्रियेण रूपम् एव गृह्यते न तु रस-गन्धादि । तथा तेषां चक्षुर्भिः श्री-कृष्ण एव गृह्यते नान्यत् तत्-स्नेहाकृष्ट-चित्ततया साक्षाद् विद्यमानस्याप्य् अन्यस्यादर्शनात् । यद् वा, यथान्येषां चक्षुषा घट-पटादि-प्रत्यक्ष-निश्चये न गृह्यते, तथा तेषां चक्षुषा सर्वत्र सर्वम् एव साक्षात् श्री-कृष्ण-तया गृह्यते नान्यथेति । यथोक्तं श्री-जयदेवेन, पश्यति दिशि दिशि रहसि भवन्तम् [गी।गो। ६.२] इति । एवं सह-विहार-सौभाग्याद् अपि गोपी-सदृश-प्रेम्णा सर्वत्र सदा साक्षाद्-भगवत्-परिस्फूर्ति-सौभाग्य-महिमाधिकः स्याद् एवेत्य् अस्य पश्चान्-निर्देशः सङ्गच्छेत ॥१२२॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो दूरे तावद् आस्ताम् एषां तेन सह निरन्तर-विचित्र-विहार-सौभाग्य-महिमा ! तत्-सन्दर्शन-मात्र-भाग्य-माहात्म्यम् अपि केन निर्वक्तुं शक्यते ? यद् वा, आस्तां सहचराणां तेन सह तथा तथा विहरतां सौभाग्य-माहात्म्यं, व्रज-वासिनाम् अपि सर्वेषां तत् केन वर्ण्यम् ? इत्य् आह—यद् इति ।

यस्य पाद-सम्बन्धी कुत्रापि पतितः पांशुर् एकोऽपि साक्षात् स एव । किं वा, कथञ्चित् कश्चिद् अपि सम्बन्ध इत्य् अर्थः । यद् वा, यस्य पादपः श्री-वृन्दावन-कदम्बादि-वृक्षः, तस्यांशुर् दूरतः किरण-च्छटापि, बहुभिर् जन्मभिस् तत्र यम-नियम-प्रयाहारादि-क्लेशैर् धृतः स्थिरीकृत आत्मा मनो यैः । यतो योगिभिः समाधि-युक्तैर् अप्य् अलभ्यः लब्धुम् अशक्यः, स एव स्वयम् अवतारी श्री-कृष्णो येषां दृशोर् विषयः चक्षुर्भ्यां साक्षात् दृश्यः, स्थितः स्थिरतया नित्यं बभूव । यद् वा, स एव दृग्-इन्द्रियश् च विषयः, स्वयं स्वभावतः स्थितो भक्ति-विशेषेण चित्तान्तः-संलग्नत्वात् सर्वत्र श्यामसुन्दरः श्री-वल्लभेन्द्र-नन्दनो यैः सदा दृश्यते इत्य् अर्थः । एवं सत्य् अपि यत् तेषां कदाचिद् अन्य-दर्शनं, तत् केवलं क्रीडार्थं श्री-भगवत्-सुख-परिपोषायेति ज्ञेयम् ।

अहो आश्चर्ये । तेषां दिष्टं भाग्यम् । यद् वा, दिष्टस्य महः प्रभाव इत्य् अर्थः । यद् वा, दिष्टेन महो विचित्रोत्सवः किं वर्ण्यते वर्णयिष्यते, अपि तु वर्णयितुं न शक्यत इत्य् अर्थः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो दूरे तावद् आस्ताम् एषां तेन सह निरन्तर-विचित्र-विहार-सौभाग्य-महिमा-व्रज-वासि-मात्राणाम् अपि तद्-दर्शन-मात्र-सौभाग्यम् अपि परम-महद्भिर् अप्य् अन्यैर् अलभ्यम् इत्य् आह—यद् इति । यस्य पाद-सम्बन्धी कुत्रापि पतितः पांसुर् एकोऽपि साक्षात् स एव । किं वा, पाद-पांसुर् इति कथञ्चिद् कश्चिद् अपि सम्बन्धोऽपीत्य् अर्थः । किं वा, यस्य पादपः श्री-वृन्दावन-कदम्बादि-वृक्षः । यद् वा, यस्य पादौ पिबन्ति स-प्रेम निरीक्ष्यन्त इति भक्त-विशेषाः, तेषाम् अंशुः दूरतः किरण-च्छ् अटापि बहुभिर् जन्मभिस् तत्र यम-नियम-प्रत्याहारादि-क्लेशैर् धृतः स्थिरीकृत आत्मा मनो यैः । अतो योगिभिः समाधि-युक्तैर् अप्य् अलभ्यः लब्धुम् अशक्यः, स एव स्वयं भगवान् श्री-कृष्णः, येषां दृशोर् विषयः चक्षुर्भ्यां साक्षात् दृश्यः स्वयं स्वभावतः स्वरूपतां वा स्थितः, स्थिरतया नित्यम् अस्ति, यच् च किञ्चिज् जगत् सर्वं नारायणः स्थितः इतिवत् । अहो आश्चर्ये तेषां दिष्टं भाग्यम् । यद् वा, दिष्टेन महः विचित्रोत्सवः किं वर्ण्यते वर्णयिष्यते ? अपि तु वर्णयितुं न शक्यते इत्य् अर्थः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दिष्टम् इति मानुष-लीलानुसारोक्तिः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इदानीं वयस्य-बालकानां सौभाग्यं तावद् अतिदुर्लभम् एव, तद् आस्तां दूरे व्रज-वासि-मात्रस्यैव सौभाग्यं वर्णनीयं न भवतीत्य् आह—यत्-पाद-पांशुर् इत्य्-आदि । बहु-जन्म-कृच्छ्रतो बहु-जन्म-कृत-तपस्यातो हेतोर् बहु-जन्म-कृच्छ्रेण वा, धृतो निगृहीत आत्मा मनो यैस् तथा-भूतैर् अपि योगिभिर् यत्-पाद-पांशुर् अप्य् अलभ्यः । स एष येषां दृग्-विषयः सन् स्थितः, वर्तमाने क्तः । स वर्तमानो नित्य-प्रवृत्तः । एतेन व्रजस्थत्वस्य नित्यत्वं, अन्यथा दृग्-विषय इत्य् अनेनैव सिद्धेः, स्थित इत्य् अधिक-पदं स्यात् । तत्र कारणान्तरं नानुसन्धेयम् इत्य् आह—स्वयं स्वेच्छयैव । अथवा स्वरूपेणैव । अहो विस्मये । व्रजौकसां दिष्टं भाग-धेयं किं वर्ण्यते ? वर्णनीयं न भवतीति शेषः ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेन सार्धं विहार-वार्ता दूरे तावद् आस्तां तत्-सम्बन्धि-वस्तु-मात्रम् अपि दुर्लभम् इत्य् आह—यद् इति । पांसुर् एकोऽपि धूलि-कणः । यद् वा, यस्य पादपानां विहारास्पदं वृन्दावनीय-वृक्षाणाम् अंसुर् एकः किरणोऽपि धृतात्मभिर् एकाग्रीकृत-चित्तैर् लब्धुम् अनर्हः, नायं सुखापो भगवान् [भा।पु। १०.९.२१] इति पूर्वोक्तेः स्वयं स्थित इति स्व-दर्शन-साधनम् अनपेक्ष्यैवेत्य् अर्थः । दिष्टाम् भाग्यम् । यद् वा, दिष्ट-महः दिष्टस्य तेज उत्सवो वा ॥१२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तेषां तत्-सखानां सौभाग्य-वार्ता तावद् दूरे तिष्ठतु व्रज-वासि-मात्राणाम् अपि तद् अशक्यं वक्तुम् इत्य् आह—यद् इति । यस्य कृष्णस्य पाद-पांसुर् एकम् अप्य् अङ्घ्रि-रजः, यद्-धाम-तरूणाम् अंशुः किरणोऽप्य् एकः धृतामभिर् एकाग्र-चित्तैर् योगिभिर् अप्य् अलभ्यो लब्धुम् अशक्यः, नायं सुखापो भगवान् [भा।पु। १०.९.२१] इत्य्-आदि-पूर्वोक्तेः । स एव स्वयं स्थित इति स्व-दर्शनोपायम् अनपेक्ष्यैवेत्य् अर्थः । अहो परीक्षिन् नृपते ! तेषां व्रजौकसां दिष्टम् भाग्यं किं वर्ण्यते इति तन् नित्य-परिकरास् ते इति भावः । तथा च नन्दः किम् अकरोत् [भा।पु। १०.८.४६] इति प्रश्न-जन्यस्योष्ण्यस्यात्र निर्गमो दर्शितः ॥१२॥


॥ १०.१२.१३ ॥

अथाघ-नामाभ्यपतन् महासुरस्

तेषां सुख-क्रीडन-वीक्षणाक्षमः ।

नित्यं यद्-अन्तर् निज-जीवितेप्सुभिः

पीतामृतैर् अप्य् अमरैः प्रतीक्ष्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुख-क्रीडन-वीक्षणेन क्षमा यस्य सः । कथम्-भूतः । यस्यान्तर् अन्तरं छिद्रं पीतामृतैर् अपि ततो मृत्यु-भीतैर् अमरैः प्रतीक्ष्यते कथं मरिष्यति कदा वेति । यद् वा, कथं-भूतं सुख-क्रीडनम् । यद्-**अन्तर्-**हृदये अमरैः प्रतीक्ष्यते विचिन्त्यते पीतामृतैर् अपि पुनर् निज-जीवितेप्सुभिः । अयं भावः, नामृत-पान-मात्रेण जीवनं स-फलं भवति किन्तु भगवल्-लीलानुस्मरणेनेति तद् एव नित्यम् अन्तश् चिन्त्यत इति ॥१३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पीतामृतानां यदि मृतिभयं तदामृतस्यामृतत्व-व्याघातः स्याद् अतोऽर्थान्तरम् आह—यद् वेति । अयं भावः इति । निजं स्वोये च नित्ये च इति कोशान् निजं नित्यम् अर्थात् सफलं यज् जीवितं तद् इच्छुभिर् इति । न ह्य् अमृतपानेन नित्य-जीवनम् अपि तु मादकत्वात् तस्य भगव वैमुख्यापादकत्वेनानित्य-जीवनं भवति । किन्तु हरेर् अन्तश्चितनम् एव नित्य-जीवनम् इति तात्पर्यम् ॥१३॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथेति भिन्नोपक्रमे, प्रस्तुत-महा-रसोपधातकत्वात् । अभ्यपतत् सहसाभिमुखम् आजगाम । अन्यत् तैर् व्याख्यातम् । यद् वा, पीतं मुखेनात्मसात् कृतम् अमृतं मोक्षो यैर् मुक्तैर् अपीत्य् अर्थः । कथम्-भूतैः ? श्री-भगवल् लीला-दर्शनार्थ निज-जीवितेप्सुभिश् चिरं जिजीविषुभिर् अत-एवामरैः स्थूल-सूक्ष्म-देह-द्वय-नाश-रहितैश् चिद्-रूप-देहतया मृत्यु-शून्यैर् इति वा प्रतीक्ष्यते अपेक्ष्यते । अन्यत् समानम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथेति भिन्नोपक्रमे, प्रस्तुत-महा-रसोपघातकत्वात् । अभ्यपतत्-सह-साभिमुखम् आजगाम । अन्यत् तैर् व्याख्यातम् । यद् वा, पीतं मुखेनात्मसात् कृतम् अमृतं मोक्षो यैर् मुक्तैर् अपीत्य् अर्थः । कथम्-भूतैः ? श्री-भगवल् लीला-दर्शनार्थं निज-जीवितेप्सुभिश् चिरं जिजीविषुभिर् अत एवामरैः स्थूल-सूक्ष्म-देह-द्वय-नाश-रहितैश् चिद्-रूप-देहतया मृत्यु-शुन्यैर् इति वा प्रतीक्ष्यते अपेक्ष्यते । अन्यत् समानम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं तद् विहारस्य प्रतिक्षण-परमानन्दवर्धकत्वात् स्वतः समाप्त्य् असम्भवम् आकलय्य समाप्तिं च विना भोजन-पनादिकं न सिद्ध्येद् इति प्रात्यहिक-भोजन-समयात्ययं चावधार्य लीला-शक्त्यैव तद्-विच्छेदार्थं दुष्ट-संहारस्याप्य् अवश्यकर्तव्यतया तदानीम् एवान्तर्यामि प्रेरणवशात् कश्चिद्-अघासुरो ना तेषाम् अभिमुखमानिन्य इत्य् आह—अथेति । सुख-क्रीडनस्य वीक्ष्यणम् अपि न क्षमत इति सर्व-सुखदम् अपि तेषां क्रीडनं तस्य दुःखदम् अभूद् इति भावः । यद् अन्तः यस्याघासुरस्यान्तरं मरण-साधकच्5 छिद्रं पीतामृतैर् अपि ततो मृत्युभीतैर् अमरैः कथं मरिष्यतीति प्रतीक्स्ये । यद् वा, यत् सुख-क्रीडनम् अन्तर् हृदये प्रतीक्ष्यते प्रतिक्षणम् ईक्ष्यते चिन्त्यते इत्य् अर्थः । पीतामृतैर् अपि कृष्ण-लीलामृत-पानं विना जीवितं वस्तुतो जीवितं न भवति यतस् तस्मान् निज-जीवितेप्सुभिर् इत्य् अर्थः ॥१३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : चरितान्तरम् अःअ—अथेति भिन्न-क्रमे, अघ-नामा महा-मुरस् तेषाम् अभिमुखम् आपतत् अभिपत्य तेषां **सुख-**क्रीडनस्य वीक्षणे अक्षेमो बभूव यस्याघस्यान्तर्मरण-साधनं छिद्रम् अपरैः कथम् अयं मरिष्यतीति प्रतीक्ष्यते कीदृशैः ? पीतामृतैर् अपि निज-जीवितेच्छुभिर् यतो मृत्युभीतैर् इत्य् अर्थः ।

यद् वा, यत् **सुख-**क्रीडनकम् अमरैः प्रतीक्ष्यते प्रतिक्षणं ध्यायत इत्य् अर्थः । पीतामृतैर् इति तत् क्रीडनामृतपानं जीवनमतस् तस्मान् निज-जीवितेप्सुभिर् इत्य् अर्थः ॥१३॥


॥ १०.१२.१४ ॥

दृष्ट्वार्भकान् कृष्ण-मुखान् अघासुरः

कंसानुशिष्टः स बकी-बकानुजः ।

अयं तु मे सोदर-नाश-कृत् तयोर्

द्वयोर् ममैनं स-बलं हनिष्ये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण-प्रमुखान् अर्भकान् दृष्ट्वा इति व्यवसु निश्चित्याजगरं वपुर् धृत्वा तेषां ग्रस-नाशया पथि व्यशेतेति तृतीयेनान्वयः । कंसेनानुशिष्टः प्रहितः । बकी पूतना । कथं व्यवस्य तद् आह—अयं त्व् इति सार्धेन । मम तयोर् द्वयोः सोदरयोः स्थाने एनं कृष्णं -बलं -सैन्यं वत्स-तत्-पाल-सहितं हनिष्यामि ॥१४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयं कृष्णःतयोर् बकी-बकयोः । पिण्ड-दानार्थम् इति शेषः । उत्तर-श्लोक-दृष्ट्या कल्प्याः । बल-शब्देनात्र बलदेवो न ग्राह्यस् तस्य वत्स-पालाव् अगूहन-लीलायामन-गतत्वात् । अत एव स वक्ष्यति केयं वा कुत आयाता दैवी वा इत्य्-आदिना ॥१४॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्ण-मुखान् कृष्ण-प्रधानानान् यो\ऽभ्यपतत् सः । किं वा, महा-दुष्टत्वदिना प्रसिद्धः । अथास्मात् सोदर-नाशनाद् धेतोः । अत्र ममेति पाठः सर्व-सम्मतः । वाच्य-भेदाद् अपौनर् उक्त्यम् । अन्यत् तैर् व्याख्यातम् यद् वा, तयोर् द्वयोर् निमित्तयोस् तद् वैर-ग्रहणार्थम् इत्य् अर्थः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दृष्टेति त्रिकम् । अथाष्मत् सोदरनाशाद् धेतोः अत्र ममेति पाठः सर्व-सम्मतः चिच्-छुख-सम्मतश् च तेषां वाक्य-भेदाद् पौनर् उक्त्यम् ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण-मुखान् कृष्णादीन् दृष्ट्वा सः अघासुरः इति व्यवस्य निश्चित्य तेषां ग्रसनाशया पथि व्यशेतेति त्र्तीयेनान्वयः । बकी-पूतना व्यवसायम् आह—अयन्त्व् इति सार्धेन । अयम् कृष्णः मम सोदरयोर् नाशकृत् अथ अत एव तयोर् द्वयोः पिण्ड-दानार्थम् इति शेषः । उत्तर-श्लोकार्थ-दृष्ट्या कल्प्यः सबलं -सैन्यं हनिष्यामि ॥१४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सोऽधासुरः कृष्ण-मुखान् अर्भकान् दृष्ट्वा इति व्यवस्य तेषां ग्रसनाशया पथि व्यशेतेति तृतीय-श्लोक-स्थेनान्वयः । बकी पूतना । व्यवसायम् आह—अयन्त्व् इति सार्धकेन, अयं कृष्णः मे सोदरयोर् **बकी-**बकयोर् नाशकृत् अथ अतस् तयोर् द्वयोस् तिलोकार्थम् एनं अवलं **स-**सैन्यं हनिष्ये ॥१४॥


॥ १०.१२.१५ ॥

एते यदा मत्-सुहृदोस् तिलापः

कृतास् तदा नष्ट-समा व्रजौकसः ।

प्राणे गते वर्ष्मसु का नु चिन्ता

प्रजासवः प्राण-भृतो हि ये ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, तथापि व्रज-स्थास् त्व् अवशिष्येरन्न् एत्य् आह—एत इति । तिलापः कृतास् तिलोदकतया कल्पिताः । वर्ष्मसु देहेषु । प्रजा एवासवो येषां ते तथा ॥१५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतेषां हनने तत्-पितरोऽन्यान् एतादृशान् उत्पदयिष्यन्तीति चेत्, तेषां तत्र सामर्थ्यम् एव नङ्क्ष्यत्य् एतच् छोकाकुलत्वाद् इत्य् आह—नन्व् इति । तथापि एतेषां हननेऽपि । वर्ष्म संहननं वपुः इति कोशात् ॥१५॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नष्ट-समा मृत-प्रायाः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद् वा, तयोर् द्वयोर् निमित्तयोः तद्-वैर-ग्रहणार्थम् इत्य् अर्थः । नष्ट-समा मृत-प्रायः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तथापि व्रजौकसो\ऽवशिष्येरन्नेत्य् आह—एते इति । यदा एते कृष्ण-प्रभृतयो बाला मत् सुहृदोस् तिलापः कृतास् तदा व्रजौकसां नन्दाद्याः नष्ट-समाः मृत-तुल्याः अथवा नष्टा सम संवत्सरा येषां ते मृता एव भविष्यन्तीत्य् अर्थः । प्राणे गते वर्ष्मसु नष्टत्वे कानु चिन्ता हि यतो प्राण-भृतस् ते प्रजासवः प्रजा एव असवो येषां ते तथा-भूताः अतः तेऽपि मत् सुहृदोर् मम भगिनी-भृआत्रोस् तिलापः कृताः तिलोदकत्वेन कल्पिताः ॥१५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, व्रजौकसु नन्दादिषु जीवत्सु किम् एषां मारणेन तत्राहैत इति । यदैति **मत्-**सुहृदो वकीवकयोस् तिलापः प्रेत-तर्पणार्थस् तिलोदक-रूपाः कृतास् तद् एति स्फुटार्थं, प्राणे गते नष्टे सति वर्षसु देहेषु स्थितेष्व् अपि का चिन्ता न कापीत्य् अर्थः । कथम् एतद् युपपद्यते, तत्राह ये प्राणभृतः प्राणिनस् ते प्रजासवः पुत्र-प्राणा हि यतो भवन्तीति ॥१५॥


॥ १०.१२.१६ ॥

इति व्यवस्याजगरं बृहद् वपुः

स योजनायाम-महाद्रि-पीवरम् ।

धृत्वाद्भुतं व्यात्त-गुहाननं तदा

पथि व्यशेत ग्रसनाशया खलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स योजनायामं योजन-प्रमाणेन दैर्घ्येण युक्तं च तन् महाद्रिवत्-पीवरं च । व्यात्तं प्रसारितं गुहा-तुल्यम् आननं यस्मिंस् तत् ॥१६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आजगरम् अजगर-सम्बन्धि । तदा तेषां क्रीडा-काले ॥१६॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : व्यवस्य व्यवसाय-विशेषेणास्पन्दत्वादिना अशेततदा तस्मिन्न् एव क्षणे, आजगरत्वादिकं सर्वेषाम् एव तेषां युगपद्-ग्रसनार्थम्, यतः खलो धूर्तो\ऽप्रयासेन सर्वेषाम् एकदैव ग्रसनोपाय-साधनात् । यद् वा, खलो\ऽधमः क्रूरो वा, तादृश-बालानां ग्रसने प्रवृत्तेः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि यतः । व्यवस्य व्यवसाय-विशेषेण अस्पन्दत्वादिना यतः खलो व्यञ्चना-पूर्वकक-हिंसकः तादृश-बालानां ग्रसने प्रवृत्तेः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अघासुरः इति व्यवस्य निश्चित्य योजनायामं योजन-प्रमाणेन दैर्घ्येण युक्तं च तन् महाद्रिर् इव पीवरं स्थूलं च व्यात्तं प्रसारितं गुहावद् आननं यस्मिन्, तत् बृहद् विपुलं वपुः धृत्वा स-बल-कृष्ण-ग्रहणाशया पथि व्यशेत शयितवान् ॥१६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : इति व्यवस्य निश्चित्य आजगरं बृहद् वपुर् धृत्वा । कीदृशं ? वपुः योजनायामेन सहितं महाद्रिवत् पीवरं स्थूलं व्यात्तं प्रसारितं गुहा-तुल्यम् आननं यत्र तत् ॥१६॥


॥ १०.१२.१७ ॥

धराधरोष्ठो जलदोत्तरोष्ठो

दर्य्-आननान्तो गिरि-शृङ्ग-दंष्ट्रः ।

ध्वान्तान्तर्-आस्यो वितताध्व-जिह्वः

परुषानिल-श्वास-दवेक्षणोष्णः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अद्भुतम् इति यद् उक्तं, तद् दर्शयितुं विशिनष्टि । धरायाम् अधरोष्ठो यस्य सः। जलदेषु उत्तरोष्ठो यस्य सः । दर्याव् इवाननस्यान्तौ सृक्किणी यस्य सः । गिरेः शृङ्गाणीव दंष्ट्रा यस्य सः । ध्वान्तवद् अन्तरास्यं यस्य सः । वितताध्व-वज् जिह्वा यस्य सः । परुषानिल-वच्-छ्वासो यस्य सः । दव-वद्-ईक्षणयोर् उष्णः, दाववद् दृष्टिर् इत्य् अर्थः । परुषानिल-श्वासश् चासौ दवेक्षणोष्णश् च तथा ॥१७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : घरायां भूमौ । दयौ गृहे । प्रान्तावोष्ठस्य सृक्किणी इत्य् अमरः । ध्वन्तवत्-तमो-युक्तम् । अन्तरास्यं मुख-मध्यम् । वितताध्ववद् विस्तृत-मार्गवत् पुरुषानिलवत् कठोरवातवत् । निष्ठुरे पुरुषम् इत्य् अमरः । दववत् वनाग्निवत् । दवदावौ वनानलौ इत्य् अमरः । इत्य् अर्थ इति । दाववद् दावाग्निवद् इति तात्पर्यम् ॥१७॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दवाव् इव ईक्षणे यस्य सः अतस् तयोस् ताभ्यां वा उष्णश् चात एव चक्षुषी दावौ मत्वा तत एवोष्णः खरवातो\ऽयम् इत्य् अग्रे वक्ष्यति ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पर्षेति पुरुषेति वा पाठः परुषानिलवत् श्वसाभ्यां दववद् ईक्षणाभ्यां च तेषु वा उष्णः ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धरायाम् अधरोष्ठो यस्य सः । जलदे उत्तरोष्ठो यस्य सः । दर्यौ कन्दराव् इव आननस्यान्तौ सृक्किणी यस्य सः । ध्वान्तम् अन्तर्-आस्ये मुख-मध्ये यस्य सः । विस्तृतः पन्था इव जिह्वा यस्य सः । परुषानिलवत् श्वासो यस्य सः । दवाग्निवद् ईक्षणयोर् उष्णो यस्य, स च स च सः ॥१७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : धरायाम् अधरोष्ठो यस्य जलदे उत्तरोष्ठो यस्य दयो कन्दराविवाननस्यान्तौ सृक्कणी यस्य, धवान्तमन्तरास्ये मुख-मध्ये यस्य वितताध्व जिह्वा यस्य परुषानिलवत् श्वासो यस्य दववदीक्षणयोरुष्णः दावाग्नि-तुल्य-दृष्टिर् इत्य् अर्थः । पश्चात् कर्मधारयः ॥१७॥


॥ १०.१२.१८ ॥

दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावन-श्रियम् ।

व्यात्ताजगर-तुण्डेन ह्य् उत्प्रेक्षन्ते स्म लीलया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वस्तुतोऽजगरम् एव व्यात्त-तुण्डं दृष्ट्वा वृन्दावनस्य श्रीः संपदेषेति भ्रान्त्या मत्वा विपरीतं व्यात्ताजगर-तुण्ड-सादृश्येनोत्प्रेक्षितवन्तः ॥१८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् अघम् । तादृशं पूर्वोक्त-विशेषण-विशिष्टम् । अघासुरं दृष्ट्वा महा-सर्प-बुद्ध्या कांश्चित् पलायमानान् दृष्ट्वान्ये तानाहुः रे मूढा एतावत् प्रमाणः सर्पो न सम्भवतीत्य् अतो वृन्दावन-शोभातिशयाधायको जन्तु-विशेषो विधात्रैव रचितः । किं—तु महा-सर्प-प्रसारित-तुण्डाकार इति, निश्चिताः उत्प्रेक्षितवन्त । उत्प्रेक्षां कुर्वन्तः ॥१८॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि निश्चितम् लीलयेति तथोत्प्रेक्षणम् अपि तेषाम् एका क्रीडैवेत्य् अर्थः, तथैव सम्यक् सर्व-सङ्गत्य् आपादनात् ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि निश्चितं लीलयैवेति तथोत् प्रेक्षणम् अपि तेषाम् एका क्रीडैवेत्य् अर्थः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् अघासुरं दृष्ट्वा महा-सर्प-बुद्ध्या कांश्चित् पलायमानान् आश्वासयन्तः सर्वे\ऽन्ये मत्वेति

ननु, रे मूढाः ! एतावत् प्रमाणः सर्पो न सम्भवतीत्य् अतो वृन्दावन-शोभा-विशेषधायको जन्तु-विशेषो विधात्रैव रचितः किन्तु महा-सर्प-प्रसारित-तुण्डाकार इति निश्चित्य व्यात्तं प्रसृतं यदाजगर-तुण्डं ते सह उत्प्रेक्षन्ते उपमियते लीलयेति भयाभावः सूचितः ॥१८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तं तादृशम् अधं सर्वे दृष्ट्वा महा-सर्पधिया विद्रुतात् कांशिद् आश्वासयन्तो अन्ये वृन्दावन-श्रियं मत्वा भो मुग्धाः ! नेदृशः सर्पः सम्भवेद् अत एतद् वनशोभार्थः कश्चित् पदार्थः परेशेन निर्मितोऽस्तीति मन्वानास्तं व्यत्तेनाजगर-तुण्डेन सहोत्प्रेक्षन्ते लीलयेति भयाभावः ॥१८॥


॥ १०.१२.१९ ॥

अहो मित्राणि गदत सत्त्व-कूटं पुरः स्थितम् ।

अस्मत्-सङ्ग्रसन-व्यात्त-व्याल-तुण्डायते न वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्प्रेक्षाम् एव प्रश्नोत्तराभ्याम् आहुः—अहो इति । सत्त्व-कूटं सत्त्वाभासम् इदं वा वा । तत्राप्य् अस्मत् सङ्ग्रसनाय व्यात्तं यद् व्याल-तुण्डं तद्वद्-आचरति वा वा ॥१९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कांश्चिन् मुख्य-सखीन् सम्बोध्य स्व-निश्चयस्य प्रामाण्यार्थं पृच्छति—अहो इति । उत्प्रेक्षोन्नीयते यत्र हेत्व्-आदिर् निह्नवं विना इति चन्द्रालोकोक्तेः । सत्त्व-कूटं निश्चलः प्राणि-विशेषः कूट-शब्दस्य पूर्व-निपाताभावस् त्व् आर्षः । यद् वा, सत्त्वं कूटम् इति समासः । अत्र कूट-पदं गिरि-शृङ्ग-वाचकं ज्ञेयम् ।

कूटोऽस्त्री निश्चले राशौ लौहम् उद्गर-दम्भयोः ।

मायाद्रि-शृङ्गयोस् तुच्छे सीरावयव-यन्त्रयोः ॥

अनृते च इति मेदिनी ।

अस्मत् सङ्ग्रसनायास्माकं भक्षणाय । व्यात्तं प्रसृतम् । व्यालो दुष्ट-जने सर्पे इति मेदिनी । संशयोत्प्रेक्षयोर् अत्र संसृष्टिः । मित्राणीति क्लीबत्वं, मित्रं सुहृदि च द्वयोः इत्य् उक्तेः ॥१९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वैष्णव-तोषणी द्रष्टव्यम्, समम् तीकाद्वयम्।

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गदितव्यम् एवाहुः—सत्त्वेत्य्-आदिना । अस्मादिति-आदौ यद् अग्र-भाग इति शेषः ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कांश्चिन् मुख्यान्-सखीन् सम्बोध्य स्व-निश्चयस्य प्रामाण्यार्थं पृच्छति—अहो इति । सत्त्व-कूटं निश्चलः प्राणि-विशेषः, कूटोऽस्त्री निश्चले राशौ इति मेदिनी । पूर्व-निपाताभावस् त्व् आर्षः । यद् वा, गिरि-शृङ्ग-वाचक-कूट-शब्देनोपमितं व्याघ्रादिभिर् इत्य् अनेन समासः । अस्माकं सङ्ग्रसनार्थम् इव व्यात्त-सर्प-तुण्डवद् आचरश्ति वा ॥१९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्र केचित् स्व-मत-प्रामाण्यायान्यान् पृच्छन्ति—अहो इति । हे मित्राणि ! सखायः ! यूयं गदत अस्मत्-पुरः-स्थितं सत्त्व-कूटं निश्चलः प्राणि-विशेषः, कूटोऽस्त्री निश्चले राशौ इति मेदिनी । पूर्व-निपाताभाव आर्षः । अस्मत्-सङ्ग्रसनार्थम् इव व्यात्त-सर्प-तुण्डवद् आचरति वा ॥१९॥


॥ १०.१२.२० ॥

सत्यम् अर्क-करारक्तम् उत्तरा-हनुवद् घनम् ।

अधरा-हनुवद् रोधस् तत्-प्रतिच्छाययारुणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निश्चितं तथैवेत्य् आहुः—सत्यम् इति । अर्क-करैर् आरक्तं घनम् उत्तरोष्ठ-वत् पश्यत । तस्य घनस्य प्रतिच्छाययारुणं रोधः स्थलम् अधरोष्ठ-वत् पश्यत । पश्यतेति सर्वत्रान्वेति ॥२०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथैव उत्कानुसारेण यथा यूयं मन्यध्वे तथैवेति । सत्यं निश्चित-सत्ययोः इति यादवः । उत्तरोष्ठवद् उपरितनोष्ठवत् । प्रतिच्छायया प्रतिबिम्बेन अरुणं रक्तम् । अधरोष्ठवद्-अधस् तनोष्ठवत् ॥२०॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गदतेति केषाञ्चित् प्रश्नं केचिद् अनुमोदमाना आहुः—सत्यम् इति, यथार्थं वदथेत्य् अर्थः । तद् एवाहुः—अर्केत्य् आदिना गन्धवद् इत्य् अन्तेन ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गदतेति केषाञ्चित् प्रश्नं केचिद् अनुमोदमाना आहुः—सत्यम् इति युग्मकेन । यथार्थः वदथेत्य् अर्थः । तद् एवाहुः—अर्केत्य्-आदिना गन्धवद् इत्य् अन्तेन । अर्ककरा रक्तम् इत्य् एषां पश्चिमाभिमुखा गतिस् तस्य पूर्वाभिमुखा स्थितिर् इति गम्यते प्रातस् त्यत्वात् उत्तरेत्य् अत्र पुंवद् भावः आर्षः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यम् इति यथा यूयं मन्यध्वे तथैवेति ते प्राहुः—अर्ककरैर् आरक्तं घनम् एतस्योत्तरोष्ठवत् पश्यत तस्य घनस्य प्रतिच्छायया अरुणं रोधः-स्थलम् अधरोष्ठवत् पश्यत हन्वोरुत्तराधरत्वासम्भवत्वाद् अत्र हनु-शब्देनोष्ट-द्वयं लक्ष्यते ॥२०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तन्-मतं स्वीकृत्याहुः सत्यम् इति हन्वोर् उत्तराधर-भावासम्भवाद् अत्र हनु-शब्देनोष्ठ-द्वयं लक्ष्य अर्ककैर् आरक्तं घनम् एव अस्योत्तरोष्ठवत् पश्यत तस्य घनस्य प्रतिछायया अरुणं रोधोऽपरोष्ठवत् पश्यत ॥२०॥


॥ १०.१२.२१ ॥

प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे ।

तुङ्ग-शृङ्गालयोऽप्य् एतास् तद्-दंष्ट्राभिश् च पश्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सृक्किभ्याम् ओष्ठ-प्रान्ताभ्यां प्रतिस्पर्धेते तुल्यतया वर्तेते । नगोदरे गिरि-दर्यौ । एतास् तुङ्ग-शृङ्गालयस् तस्य दंष्ठ्राभिः स्पर्धमानाः ॥२१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तुङ्ग-शृङ्गालय उच्च-शृङ्ग-पङ्क्तयः ॥२१॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एताः साक्षाद् अवर्तमानाः । एवम् अग्रे\ऽपि । तु तस्य व्याल-तुण्डस्य दंष्ट्राभिस् तु, स्पर्धन्ते इति लेख्य स्पर्धमाना इति लेखक-भ्रमात् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एताः साक्षाद्-वर्तमानाः एवम् अग्रे\ऽपि तस्य व्याल-तुण्डस्य-दंष्टाभिस् तु स्पर्धन्ते इति लेख्ये टीकायां स्पर्धमान् इति लेखक-भ्रमात् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सृक्किभ्याम् अस्य ओष्ठ-प्रान्ताभ्यां प्रतिस्पर्धेते तुल्यतया वर्तेते नगोदरे गिरिदर्यौ एता इति तर्जन्या दर्शयन्ति तस्य सर्प-तुण्डस्य दंष्ट्राभिः स्पर्धन्ते ॥२१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सव्यासव्ये वाम-दक्षिणे नगोदरे गिरिदर्यावस्य सृक्कभ्यां मुख-प्रान्ताभ्यां प्रतिस्पर्धते सदृशतया वर्तते, तुङ्गाः शृङ्गालयो नग-शिखराणि तस्याजगरस्य दंष्ट्राभिः स्पर्धमानाः पश्यत ॥२१॥


॥ १०.१२.२२ ॥

आस्तृतायाम-मार्गोऽयं रसनां प्रतिगर्जति ।

एषाम् अन्तर्-गतं ध्वान्तम् एतद् अप्य् अन्तर्-आननम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्तृतायाम-मार्गो विस्तृतो दैर्घ्यवान् मार्गः । प्रतिगर्जति प्रतिस्पर्धते । एषां शृङ्गाणाम् अन्तर् गतं मध्य-गतं ध्वान्तम् एतद् अन्तर् आननम् आननस्य मध्यं प्रति गर्जति ॥२२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्धोकारोऽस्त्रियां ध्वातम् इत्य् अमरः ॥२२॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आस्तृतायाम-मार्ग इति श्री-वृन्दावने\ऽनन्त-पशु-वर्ग-चरणात् सर्वत्र स्वत एव महा-वर्त्म-वृत्तेः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आयाम-युक्तो मार्गः आयाम-मार्गः स चास्तृत इति ध्वान्तं छायात्मकं ध्वान्तानन-मध्ययोः काल-वर्णत्वात् साम्यम् ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आस्तृतायामः विस्तृत-दैर्घ्यः मार्गः पन्थाः रसनां जिह्वा प्रतिरसनया सह गर्जति स्पर्धते एषां शृङ्गाणां मध्य-गतम् अन्धकारं कर्तृ एतद् अप्य् अन्तरानन एतस्य आनन-मध्यं प्रति-गर्जति स्पर्धते ॥२२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आस्तृतायाम् अमार्गो विस्तृत-दैर्ध्यः पन्थाः अस्य रसनां जिह्वां प्रतिगर्जति त्वत्-समोऽहम् इति वदतीत्य् अर्थः । एषां शृङ्गाणाम् अन्तर्गतं ध्वान्तं कर्तृ एतद् अप्य् अन्तर् आनन-मध्यं प्रतिगर्जति ॥२२॥


॥ १०.१२.२३ ॥

दावोष्ण-खर-वातोऽयं श्वासवद् भाति पश्यत ।

तद्-दग्ध-सत्त्व-दुर्गन्धोऽप्य् अन्तर्-आमिष-गन्धवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दावेनोष्णः खरो वातोऽयम्, तेन दावाग्निना दग्धानां सत्त्वानां यो दुर्गन्धः, स एव सर्प्आन्तर्-गत्आमिष-गन्धवद् भाति ॥२३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : खरस् तीक्ष्णः, तिग्मं तीक्ष्णं खरं तद्वत् इत्य् अमरः । सत्त्वानां जीवानाम् । आमिषं मांसम् ॥२३॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भाति इति पश्यत, एवम् अस्य पूर्वाभ्यां वाक्याभ्यां परेण वान्वयः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भाति इति पश्यत इति मध्ये मध्ये विस्मयाय ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेन दावाग्निना दग्धानां सत्त्वानां यो दुर्गन्धः, स एव सर्प्आन्तर्-गत-दुर्गन्धवद् भाति ॥२३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अयं दावोष्ण-खर-वातोऽस्य श्वसवद् भाति, तेन दावाग्निना दग्धानां सत्त्वानां यो दुर्गन्धः, स एव सर्पान्तर्-गत्आमिष-दुर्गन्धवद् भाति ॥२३॥


॥ १०.१२.२४ ॥

अस्मान् किम् अत्र ग्रसिता निविष्टान्

अयं तथा चेद् बकवद् विनङ्क्ष्यति ।

क्षणाद् अनेनेति बकार्य्-उशन्-मुखं

वीक्ष्योद्धसन्तः कर-ताडनैर् ययुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं सन्तम् एवाजगरम् अन्यथोत्प्रेक्ष्य निर्भया ययुः । किं ग्रसिता ग्रसिष्यति ? अनेन श्री-कृष्णेन हन्त्रा । बकारेर् उशत् कमनीयं मुखम् ॥२४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-प्रकारेण । सन्तं सत्यम् । अन्यथा असत्यम् । अयम् अजगरवत् प्रतीयमानो जीव-विशेषः । तथा चेत् ग्रसने कृते सति दूरस्थस्य मुखं दृष्ट्वा "अस्मद्-दृष्टि-गोचर एव कृष्ण आस्ते, का चिन्ता ?" इति लब्ध-विश्वासाः, "एतद्-बिल-मध्ये किम् अप्य् अस्ति भोः सखायस् तद् अवश्यं पश्याम" इति बाल्य-चापल-कौतुकोल्लासात् कर-ताडनैर् निज-निर्भयत्व-द्योतनाय कर-ताडनं हास्याङ्गं सति सर्पे तत्-पलायनं वाभिप्रेतम् ॥२४॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एतद् वदन्त उद्धसन्तस् तस्य खलत्वानुसन्धानेन । किं वा, ज्ञात्वापि तथोत्प्रेक्षणेन स्वयं हसन्तः एव, विशेषतश् च श्री-कृष्णस्य सुन्दरं मुखं निरीक्ष्य उच्चैर् हसन्त इत्य् अर्थः । यद् वा, तन्-मुखं वीक्ष्येति तद् अनुमत्य्-अर्थम् इव । किं वा, भवतात्रावहितेन भाव्यम् इति विज्ञापनार्थम् इव । किं वा, परम-प्रियत्वेन स्वभावत एव कर-ताडनैर् इति कर-तालीः [दत्त्वा] कृत्वेत्य् अर्थः । तच् च लोक-रीत्या सर्प-सारणार्थम् इव, वस्तुतस् तु निर्भयत्वेन निज-वीर-दर्प-प्रकटनात्, बाल्य-क्रीडा-स्वभावाद् एव वा ययुर् अग्रतो\ऽधावन्न् इत्य् अर्थः ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् एतद् वदन्तः उद्धसन्तः तस्य खलत्वारोपणेन । किं वा, स्वयं हसत एव विशेषतश् च श्री-कृष्ण-मुखं निरीक्ष्य उच्चैर् हसन्त इत्य् अर्थः । किं वा, भवतात्रावहितेन भाव्यम् इति नर्मणा विज्ञापनार्थम् इव । कर-ताडनैर् इति कर-तालीः कृत्वेत्य् अर्थः । तच् च लोक-रीत्या सर्पापसारणार्थम् इव निर्भयत्वेन निज-वीर-दर्प-प्रकटनार्थम् इव च ययुः अग्रतोऽधावन्न् इत्य् अर्थः ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मिलिताः सर्वे किञ्चित् स-भयम् आहुः—अस्मान् इति । अयं यदि सत्य एव सर्पः स्याद् इति भावः । तन् मध्य एव केचिद् आश्वासयन्त आहुः "तथा चेत् क्षण-मात्राद् एव अनेन कृष्णेन हन्त्रा बक इव नाशं प्राप्स्यति" इत्य् उक्त्वा बकारेर् दूर-स्थितस्य कृष्णस्य मुखं वीक्ष्येति "अस्मद्-दृष्टिम् आचर एव कृष्ण आस्ते, का चिन्ता ?" इति लब्ध-विश्वासा उद्धसन्त इति "एतद्-बिल-मध्ये किम् अप्य् अस्ति भोः सखायः ! तद् अवश्यं पश्याम" इति बाल्य-चापल्यतः कौतुकोल्लासात् कर-ताडनैर् इति निज-निर्भयत्व-वीरत्व-द्योतनाय सर्पापसारणार्थं वा ययुर् अधावन् । वत्सा अपि पुच्छान् उद्यम्य तान् अन्वधावन्न् इति ज्ञेयम् ॥२४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मिलिताः सर्वे किञ्चिद्-भीता आहुरस्मान् इति । वस्तुतश् चेद् अयं सर्प एव स्याद् इति भावः । तत्रैव केचिद् आहुः—तथा चेद् अनेन कृष्णेन क्षणाद् एव बकवद् विनङ्क्ष्यतीति गदित्वा दूरस्थस्य बकारेर् उशन् मनोज्ञं मुखं वीक्ष्य इति तद्-दृष्टि-विषयेन का चिन्ता ? इति भावः । "एतद्-बिल-मध्ये किम् अस्ति ? तत् किं न द्रष्टव्यम् ?" इत्य् उद्धसन्तःकर-ताडनैर् इति निर्भयत्वं वीरत्वं च द्योतयन्तस् तद् ययुस् तान् अनु वत्साश् चोत्पुच्छा अधावन् ॥२४॥


॥ १०.१२.२५ ॥

इत्थं मिथोऽतथ्यम् अतज् ज्ञ-भाषितं

श्रुत्वा विचिन्त्येत्य् अमृषा मृषायते ।

रक्षो विदित्वाखिल-भूत-हृत्-स्थितः

स्वानां निरोद्धुं भगवान् मनो दधे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमृषा वस्तुतः सर्प-वपुर् असुर एव मृषायते स्वानां सर्प-सादृश्य-गोचरत्वेन प्रतीयते इति तान् निरोद्धुं वारयितुं यावन् मनो दधे तावत् प्रविष्टा इत्य् उत्तरेणान्वयः ॥२५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतथ्यम् असत्यम् । न तं जानन्तीत्य् अतज् ज्ञास् तेषां भाषितम् ॥२५॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थम् उक्त-प्रकारं स्वानां स्वकीयानाम् अपि मिथो\ऽतज् ज्ञस्य् एव भाषितम् अत एवातथ्यम् अयथार्थं श्रुत्वा, यतो\ऽमृषा सत्यं व्यात्ताजगर-तुण्डम् अपि मृषायते वृन्दावन-श्रीत्वेन भासते—अहो कौतुकम् इति । यद् वा, अतत्थ्यं मित्थ्या-भूतम् अपि वृन्दावन-श्रीत्वम् अमृषा सत्यम् एवामृषायते । एषां भाषित-परिपाट्या सत्य-वद्-भासते—अहो एषां महा-कविवद्-बुद्धि-वैभवम् इति विचिन्त्य, किं च, नत्वयम् अजगरो\ऽपि किन्त्व् अघ-नामा राक्षस इति विदित्वातो\ऽखिल-भूत-हृदि स्थितः परमात्मत्वात् । यद् वा, सर्व-प्रवर्तको\ऽपि तान् निरोद्धं मनो दधे, इच्छाम् अकरोत्, यतो भगवान् भक्त-वत्सलः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थम् उक्त-प्रकारं स्वानां स्वीयानाम् अपि मिथो अतज् ज्ञानाम् इव भाषितम् अत एवातथ्यम् अयथार्थं श्रुत्वा यतः अमृषा सत्यं व्यात्ताजगर-तुड्णम् अपि मृषायते वृन्दावन-श्रीत्वेन भासते अहो आश्चर्यम् इति किं च, न त्व् अयं केवलम् अजगरोऽपि किं तु अघनाम-राक्षस इति विदित्वा कुतः अखिल-भूत-हृदि स्थितः परमात्मत्वात् एवं सर्व-प्रवर्तकोऽपि भगवान् सर्वैश्वर्य-युक्तोऽपि तान् निरोद्धुं मनो दधे इच्छाम् अकरोत् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मिथः परस्परम् अतज् ज्ञानां भाषितं तथ्यम् अयथार्थं श्रुत्वा अमृषा सत्यम् एव सर्प-तुण्डं हन्त हन्तैषां मृषायते नेदं सर्प-तुण्डं किन्नु वृन्दावन-श्रीर् इति प्रतीतिर् भवतीति विचिन्त्य किं च, न केवलं सर्पोऽपि किन्त्व् अघ-नामकं रक्ष इति विदित्वा कुतः अखिल-भूत-हृदि स्थितः परमात्मत्वेन सर्वज्ञत्वात् स्वानां स्वांस् तान् निरोद्ध्वं वारयितुं मनो दधे ॥२५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मिथ इत्थम् अतज् ज्ञानां बालां भाषितम् अतथ्यमयथार्थं श्रुत्वा भगवान् अमृषा सत्यं सर्प-वपुर् एषां मृषायते नेदं सर्प-वपुः किन्तु वृन्दावन-श्रीर् इति वस्त्व् अन्तरतया प्रतीयते इति विचिन्त्य न त्व् एतावद् एव रक्षो राक्षओऽयम् इति विदित्वा यतोऽखिलेति सर्वज्ञ इत्य् अर्थः । स्वानाम् इति कर्मणि षष्ठी स्वान् बालान् निराद्धुं निवारयितुं यावन् मनो दधे तावत् प्रविष्टा इत्य् उत्तरेणान्वयः ॥२५॥


॥ १०.१२.२६ ॥

तावत् प्रविष्टास् त्व् असुरोदरान्तरं

परं न गीर्णाः शिशवः स-वत्साः ।

प्रतीक्षमाणेन बकारि-वेशनं

हत-स्व-कान्त-स्मरणेन रक्षसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तावत् प्रविष्टा एव केवलं, तु तेन गीर्णा गिलिताः । जीर्णाः इति पाठेऽपि स एवार्थः । कथं भूतेन । हतयोः स्वकयोर् अन्तं स्मरत्य् अनुध्यायतीति तथा तेन । अत एव बकारेः श्री-कृष्णस्य प्रवेशं प्रतीक्षमाणेन ॥२६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वकयोः बकी-बकयोः । प्रतीक्षमाणेन कदा प्रवेक्ष्यतीति विचार्यमाणेन । चात्र भगवतः सत्य-सङ्कल्पता व्यभिचरतीति शङ्कनीयम् । अस्मान् किम् अत्र ग्रसिता निविष्टानयं तथा चेद्-बक-वद् विनङ्क्ष्यति इति तद्-भक्त-सङ्कल्पस्याप्य् अत्र वर्तमानत्वात् । मत्-सङ्कल्प-मद्-भक्त-सङ्कल्पयोर् मध्ये मद्-भक्त सङ्कल्पस्यैव गरीयस् त्वम् इति भक्तवश्येन भगवतैव प्राक्-कृताया मर्यादायास् तथा लीला-शक्तेश् च सर्वोपमर्दिन्याः । सर्वदा जागरूकत्वात् ॥२६॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यावन् मनो दधे तावत् स-वत्साः शिशवः प्रविष्टा इत्य्-आदिकं तस्य बाह्य-लीलावद् आन्तर-लीला तदीयान्तर-वृत्तर् दशि-भक्ति-विनोदार्थ, अन्यथा सत्य-सङ्कल्पस्य ज्ञान-घन-मूर्तेस् तस्य तत् तद् असम्भवः । च वक्तव्यम्—लोक-हितार्था तस्य बाह्य-चेष्टा कथञ्चिद्-विज्ञेया स्यात्, समुद्र-कोटि-गम्भीराशयस्यान्तर-चेष्टा केन ज्ञातुं शक्येति, यतः प्रिय-जनेषु तस्य किञ्चिद्-गुह्यं नास्ति, तथा चोक्तं श्री-वैष्णव-प्रवरेण-उल्लङ्गित-त्रिविध-सीम समातिशायि, सम्भावनं तव परिव्रीढम् स्वभावम् माया-बलेन भवतापि निगुह्यमानं पश्यन्ति केचिद् अनिशं त्वद् अनन्य-भावाः । इति, अन्यथा श्री-बादरायणोर् विचिन्त्येत्य् आद्य् उपपत्तिः । यद् वा, यावन् मधनो दधे तावद् इति तद् इच्छा-प्रवृत्तेः प्राग् एवेत्य् अर्थः । यद् वा, रक्ष एव निरोद्धुं संहर्तुं स्वानाम् इत्य् अस्य पूर्वार्धेनैवान्वयः एवम् अत्र किञ्चित् समाधानं स्याद् अन्यत्र तु तथैव बोद्धव्यम् । न गीर्णा मुख-सम्बरणादिना गिलिता इत्य् अर्थः । तत्र हेतुः—प्रतीक्षमाणेनेति ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यावन् मनो दधे तावत् स-वत्साः शिशवः प्रविष्टा इत्य्-आदिकं तस्य बाह्य-लीलावद् अवान्तर-लीला सा च प्रिय-जन-प्रेम-रसावेशमयीति पूर्ववत् सिद्धान्त-पद्धतिः अन्यथा सत्य-सङ्कल्पस्य ज्ञान-घन-मूर्तेस् तस्य तत् तद् असम्भवात् वत्सानां प्रवेशश् चात्र पश्चात् स्थितानां बालानां करताडनेन धावनेन च विद्रवणात् अत एव तत्-सङ्गेन बालानां तद् भयानकतमो दावाग्निमयत्वेन अत्यन्त-प्रवेशम् अनिच्छताम् अपि तद् उदर-मध्य-पर्यन्त-गमनं तेषाम् असङ्ख्यानां तत्र समावेशस् तु लीला-शक्ति-प्रभावाद् एव ज्ञेयः गीर्णा मुख-सङ्कोचनादिना निरुद्धा इत्य् अर्थः । जीर्णा इति पाठे मारयितुं नेष्टा इत्य् अर्थः । अन्यत् तैः तत्र एवार्थ इति मुख-सङ्कोचनाङ्गमोटनादेर् जारणेच्छामयत्वात् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यावन् मनो दधे तावत् असुरस्योदर-मध्यं प्रविष्टाः किन्तु गीर्णा रक्षसा गिलिता जीर्णा इति पाठे\ऽपि स एवार्थ इति स्वामि-चरणाः कीदृशेन हतौ स्वकौ बकी-बकौ अन्तरन्तः-करणेन स्मरतीति तथा तेन अत एव बकारेः कृष्णस्य प्रवेशं प्रतीक्षिमाणेन न चात्र भगवतः सत्य-सङ्कल्पता व्यभिचरति स्मेत्य् आशङ्कनीयम् अस्मान् किम् अत्र ग्रसिता निविष्टानयं तथा चेद्-बकवद् विनङ्क्ष्यति इति भक्त-सङ्कल्पस्याप्य् अत्र वर्तमानत्वात् मत् सङ्कल्प-मद्-भक्त-सङ्कल्पयोर् मध्ये मद्-भक्त-सङ्कल्पस्यैव गरीयस् त्वम् इति भक्तवश्येन भगवतैव प्राक् कृताया मर्यादायास् तथा लीला-शक्तेश् च सर्वोपमर्दिन्याः सर्वदा जागरूकत्वात् ॥२६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रविष्टा एव किन्तु रक्षसा तेन गीर्णा न गिलिताः कीदृशेन ? वकारेः कृष्णस्य प्रवेशनं प्रतीक्षमाणेन तत्-प्रतीक्षां कुतः ? तत्राह—तेन हतौ स्वकौ बकी-बकावन्तः स्मरतीति तेन यद्य् अपि एते शिशवोऽपि तत्-पार्षदत्वात् सर्वज्ञा एव तथापि लीला-सिद्धये तल्-लीला-शक्तिर् एव तत्-सार्वज्ञ्यम् आवृणोतीत्य् उक्तम् एव अत्र अस्मान् किम् अत्र ग्रसिता निविष्टान् [१०.१२.२४] इत्य्-आदि-विदितेन भक्त-सङ्कल्पेन स्वानां निरोद्धुं भगवान् मनो-दधे इति भगवत्-सङ्कल्पः स्तभ्यते तस्यैव बलीयस्त्वात् ॥२६॥


॥ १०.१२.२७ ॥

तान् वीक्ष्य कृष्णः सकलाभय-प्रदो

ह्य् अनन्य-नाथान् स्व-कराद् अवच्युतान् ।

दीनांश् च मृत्योर् जठराग्नि-घासान्

घृणार्दितो दिष्ट-कृतेन विस्मितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-कराद् अवच्युतान् विनिःसृतान् । विस्मितः सन् कृत्यं किम् अत्र इत्य्-आदि विचिन्त्य तत्रोपायं ज्ञात्वा स्वयम् अप्य् अविशद् इत्य् अन्वयः ॥२७-२८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : घृणार्दितो दया-युक्तः । घृणा जुगुप्सा-कृपयोः इति मेदिनी । दिष्ट-कृतेन लिला-शक्त्य्-अनुकूल-काल-कृतेन तत्-प्रदेश-कर्मणा विस्मितः । कालो दिष्टोऽप्य् एनेहापि इत्य् अमरः । अहो न तावद् एषां प्रारब्ध-कर्म सम्भवति । न च तद् विनाप्य् अत्र कर्मणि अन्तर्यामी प्रवर्तयेत् तस्य मत्-स्वरूपत्वेन मत्-प्रातिकूल्यान् अर्हत्वाच् च । तस्मान् मत्-सहचारान् अपि एतादृशीर् दुरवस्था दर्शयत्या मत्-प्रातिकूल्येऽप्य् अशङ्कमानायाः प्रेम-पूर्णं मां करुण-रस-निमग्नी-कर्तु-कामाया मदीय-लीला-शक्तेर् एवेदं कर्म । मयि पुरुषोत्तमे रसमय-मूर्तौ तस्या एवैतावत् प्रभविष्णुत्वम् इति बन्धु-विच्छेद-शोकार्तत्वेऽपि विस्मयेनैषत् विस्मितो\ऽभूद् इति ॥२७॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वत एव विश्वस्य अभय-प्रदाता विशेषतश् च तान् अनन्य-नाथान् एकान्तिनः स्व-कराद् अपच्युतान् निजाभय-हस्ततो दूर-गतान्, अत एव दीनान् मरणेन निज-विच्छेद-शङ्कयार्तान् । किं च, मृत्यु-तुल्याघासुरस्य जठराग्नेर् घासान् बाह्याग्नेस्6 तृणवद् अत्यन्त-दाह्यताम् इव गतान् वीक्ष्य दिष्टस्य प्रारब्धस्य कृतेन फलेनेत्य् अर्थः । एतच् च श्री-भगवद्-भावनानुसारेण विस्मितो "अहो बत मद्-अग्रे मदीयानाम् एषाम् अपि एवं फलति" इति विस्मयं प्राप्तः । यद् वा, सदा स्मेर-मुखाब्जो\ऽपि दुःखेन विगत-स्मितो विषण्ण-मुखो बभूवेत्य् अर्थः ।

ननु, स एव फलदः, ते\ऽपि7 कर्म-वश्या न भवन्ति, तत् कथं तेन तस्य विस्मयः ? तत्राह—घृणार्दित इति स्नेह-परवशतया विचारान्तर्धानाद् इत्य् अर्थः, यतः कृष्णः कृपाकृष्ट-स्वभाव इत्य् अर्थः । यद् वा, तत्त्वतो\ऽतथा-भूताम् अपि घृणार्दितत्वेनैव स्व-कराद् दूरे निपतितान् मृत-प्रायां च विक्ष्य, अनन्य-नाथान् इति घृणार्दितत्वे हेतुः । अन्यत् समानम् ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वत एव विश्वस्याभय-प्रदाता विशेषतश् च तान् अनन्य-नाथान् स्व-करादव् अच्युतान् निजाभय-हस्ततो दूर-गतान् अत एव दीनान् मरणेन निज-विच्छेद-शङ्कयार्तान् । किं च, मृत्यु-तुल्यस्य अघासुरस्य जठराग्नेर् घासान् बाह्याग्नेस् तृणवद् अत्यन्त-दाह्यताम् इव गतान् वीक्ष्य दिष्टस्य प्रारब्धस्य कृतेन फलेनेत्य् अर्थः । एतच् च लोकवल् लीला-रसमय-श्री-भगवद्-भावनानुसारेणैव, वस्तुतस् तु दिष्टः स्वावतारे नियत-लीलावसर-शक्तिः । यद् वा, दिष्टं तैः स्वयम् उद्दिष्टम् अस्माकम् इत्य्-आदि-लक्षणं । तद् एव कृतं जातं । यद् वा, दिष्टं प्रमाणानुगमतिः अस्ति नास्ति दिष्टं मतिः [पा। ४.४.६०] इति पाणिनि-सूत्रे तथा व्याख्यातत्वात् । तच् चस्मिन् किम् अत्र ग्रसितेत्य्-आदि-लक्षणम् एव तेन यत् कृतं तेन विस्मितः--"अहो बत मद्-अग्रे मदीयानां निरुध्यमानानाम् एषाम् अपि एवं फलति" इति विस्मयं प्राप्तः । अथवा सदा स्मेर-मुखाब्जोऽपि दुःखेन विगत-स्मितः विषण्ण-मुखो बभूवेत्य् अर्थः ।

ननु, तत्र सति कथं तेषां दिष्टवशत्वं तत्राह, घृणार्दित इति । स्नेह-परवशतया विचारान्तर्धानादित्य् अर्थः । यतः कृष्णः कृपा-कृष्ट-स्वाभाव इत्य् अर्थः । अथ वा, तत्त्वतोऽतथाभूतान् अपि घृणार्दितत्वेन स्वकरात् दूरे निपतितान् दुःखितान् मृत-प्रायांश् वीक्ष्य मत्वा अनन्य-नाथान् इति घृणार्दितत्वे हेतुः अन्यत् समानम् ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दिष्टम् इति मानुष-लीलानुसारोक्तिः ॥२७.३१॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-कराद् इव महा-मणीनिव अपच्युतान् मृत्योर् अघासुरस्य जठराग्नौ घासान् तृणवत् पतनोन् मुखान् वीक्ष्य घृणया कृपया अर्दितः पीडितः दिष्ट-कृतेन लीला-शक्त्य् अनुकूल-काल-कृतेन तत् प्रवेश-कर्मणा विस्मितः कालादिष्टोऽप्य् अनेहापि इत्य् अमरः । अहो न तावद् एषां प्रारब्ध-कर्म न सम्भवति न तद्-विनाप्य् अत्र कर्मण्य् अन्तर्यामी प्रवर्तयेत् तस्य भवत्-स्वरूपत्वेन मत्-प्राति-कूल्यान् अर्हत्वाच् तस्मात् मत्-सहचरान् अपि एतादृशीं दुरवस्था दर्शयन्त्या मत्-प्रातिकूल्येऽप्य् अशङ्कमानायाः प्रेम-पूर्णं मां करुण-रस-निमग्नी-कर्तु-कामाया मदीय-लीला-शक्तेर् एवेदं कर्ममयी लीला पुरुषोत्तमे रसमय-मूर्तौ तस्या एवैतावत्-प्रभुष्णुत्वम् इति बन्धु-विच्छेद-शोकार्तत्वेऽपि विस्मयेनेषत् स्तिमितो\ऽभूद् इत्य् अर्थः ॥२७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स कृष्णस् तान् शिशून् स्वकरान् महा-मणी-निवापच्युतात् मृत्योर् अघस्य जठराग्नौ घासान् तृणमुष्ठीन् इव पतनाभिमुखान् वीक्ष्य घृणया कृपयार्दितः पीडित दिष्ट-कृतेन तत्-प्रवेश-कर्मणा विस्मितः कालो दिष्टोऽप्य् अनेहापीत्य् अमरोक्तेः दिष्टा लीलानुरूपः कालस्-तद् रचितेनेत्य् अर्थः । अहो मे लीला-शक्तेर् महिमा या रस-मूर्ति मां करुण-रसम् अनुभावयन्ती मत्-सुखान् अपि सर्पोदरे नयन्ती मत्-सङ्कल्पम् अप्य् अन्यथायतीति जात-विस्मयोऽभवद् इत्य् अर्थः । न तेषां तद् उदरे प्रविष्टानां क्लेशः बकार्युशन्-मुखं वीक्ष्येति तद्-वीक्षणानन्दवत्त्वात् दीनांश् चेति तु प्रातीनिकम् ॥२७॥


॥ १०.१२.२८ ॥

कृत्यं किम् अत्रास्य खलस्य जीवनं

न वा अमीषां च सतां विहिंसनम् ।

द्वयं कथं स्याद् इति संविचिन्त्य

ज्ञात्वाविशत् तुण्डम् अशेष-दृग् घरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं विचिन्त्य । अस्य जीवनम् अमीषा विहिंसनम् इति द्वयं वै निश्चितं कथं स्याद् इति ॥२८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्याघस्य । अमीषां गोपानाम् । तत् द्वयम् । अशेष-दृक् सर्ववित् ॥२८॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विचिन्त्येति पूर्वोक्त-न्यायेन घृणार्दितत्वनैव वा तुण्डं खलस्यैव तस्याशेषं खल-मरण-सद् रक्षणयोस् तथा तन्मुक्तेर् निज-विहारादेश् प्रकारं पश्यतीति तथा सः । यद् वा, अशेषान् वत्स-बालकान् पश्यन् सन् तेषां तादृग् अवस्थया स्नेहाकुलत्वाद् अविशद् इत्य् अर्थः । एवं दुःख-हरणान् मनोहरणाच् 8 हरि अहेर् अशेष-दृग् इति क्वचित् पाठः, ततश् विशेष्यः9 पूर्वोक्तः कृष्ण एव ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तुण्डं खलस्यैव तस्य अशेषं खलम् अरण-सद्-रक्षणयोस् तथा तन्मुक्तोर् निज-विहारादेश् प्रकारं पश्यतीति तथा सः यद् वा अशेषान् वत्स-बालकान् पश्यन् सन् तेषां तादृग् अवस्थया स्नेहाकुलत्वाद् अविशद् इत्य् अर्थः । एवं तेषां दुःख-हरणात् मनोहरणाच् हरिः ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र सङ्कटे किं कृत्यम् ? अस्य खलस्य जीवनं स्यात् वै निश्चितम् अमीषां विहिंसनं स्यात् इति द्वयं कथं स्याद् इति विचिन्त्य तत्र सहसैवापायं ज्ञात्वा तुण्डम् अविशत् यतो\ऽशेष-दृक् एवं कृते सत्य् एवं भविष्यतीनि भावि सर्वं पश्यतीति सः स्व-भक्त-विपदः खल-जीवन-संसारयोश् हरणाद् धरिः ॥२८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अत्र सङ्कटे किं कृत्यम् अस्य खलस्य जीवनं न स्यात् अमीषां सतां मत्-सखानां विहिंसनं न स्याद् इति द्वयं कथं स्याद् इति विचिन्त्य तत्रापायं ज्ञात्वा तत्-तुण्डं स्वयम् अविशत् यतोऽशेष दृक् एवं कृते सत्य् एवं स्याद् इति भावि सर्वं पश्यतीति सः स्व-भक्त-विपत्तेः खल-जीवनाविधयोश् हरणाद् हरिः सर्वज्ञस्यापि हरेर् उपायविचिन्तनं लोकवल् लीलत्वाद् असुरविमाहन-पर्यवसायि ॥२८॥


॥ १०.१२.२९ ॥

तदा घन-च्छदा देवा भयाद् धा-हेति चुक्रुशुः ।

जहृषुर् ये च कंसाद्याः कौणपास् त्व् अघ-बान्धवाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : घन-च्छदा मेघान्तरिताः । कौणपाः कूणपाशिनो राक्षसाः, कोणपो निरृतिस् तदीया इति वा ॥२९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुण-पाशिनः शव-भक्षका येघबान्धवास् तेषां भक्ष्य-प्राप्तेर् हर्ष उचित एव तत्-कर्म-निरीक्षणाय कर्स-प्रेषिता अन्ये दैत्याः कंसायापि तत्-कर्म शशंसुर् इति कंसादीनाम् अपि हर्षः । कंसाघयोर् भयान् मेघान्तरिता देवा भगवत्य् अनिष्ट-शङ्कया हाहेति चक्रुशुः । देवानाम् ऐश्वर्य-ज्ञानेऽपि भक्तत्वाद्-भक्तेश् प्रीत्यात्मकत्वात् प्रीतेश् विवेक-हर-स्वभावत्वान् न देव-सार्वज्ञ-हानिः । यद्य् अपि नैरृतो यातु-रक्षसी इत्य् अमरोक्तेर् नैऋतीया अपि राक्षसा एव यथापि तदीयानाम् **अघ-**बान्धवेभ्यो भेद-विवक्षया स्वामि-चरणैर् विकल्पः कृत इति प्रतीयते ॥२९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सकृद् यद् अङ्ग-प्रतिमेत्य्-आदि । अङ्गस्य प्रतिमा शैली-प्रभृतिः, सापि सकृत् एकवारम् अप्य् अन्तर् मनस्याहिता अर्पिता सती भगवतीं गतिं दधौ दधाति, मनोमयी वा यद् अङ्ग प्रतिमा—मनोमयी [भा।पु। ११.२७.१२] इति-आदीनां वक्ष्यमाणत्वात् । अङ्गस्य प्रतिमेति यस्य कस्यचिद् एवाङ्गस्य, अन्त दूरे सर्वाङ्ग-प्रतिमा । तत्र मनोमयी वोद्धव्या, मनसि कदाचिद् एव किञ्चिद् अङ्गं स्फुरति, सर्वाङ्ग-स्फुर्तिस् तु परम-भाग्य-भाजाम् एव भवति, अथवा, पादादि यावद् धसितं गदाभृतः [भा।पु। २.२.१३] इति ध्यान-क्रमास्योक्तत्वात्, अङ्गेति सम्भोधनं वा ॥३९॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : घनच्छदाः कंसस्याघस्य भयात्, काराद् अन्ये दुष्टाः । कंसस्य दैत्यत्वे\ऽपि कौणपत्वं प्रायो दैत्य-राक्षसयोर् अभेदात् । यद् वा, ये कंसादयो दैत्यास् ते । तेषां सर्वेषां हर्षो भगवद्-द्वेष-स्वभावेन स्वत एव, तदा दुर्मानसोल्लासोत्पत्तेः । किं वा, तत्रैव सर्वेषाम् अद्य-बान्धवानाम् आगमनेन साक्षाद् भगवत्-प्रवेश-दर्शनात्, कंसस्य सद्य एव चर-मुखेन श्रवणाद् इति ज्ञेयम् । यद् वा, कंस आद्यः श्रेष्ठो येषां ते कंसानुवर्तिन इत्य् अर्थः । अयं हर्षे हेतुः । एवम् अग्रे पद-द्वयम् अपि ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : घनच्छदाः कंसाद् अघाच् भयात् चकाराद् अन्ये च दुष्टाः कंसस्य दैत्यत्वेऽपि कौणपत्वम् अति-दुष्टत्वेनाभेद-विवक्षया यद् वा ये कंसादयो दैत्यास् ते तेषां सर्वेषां हर्षः भगवद्वेषि-स्वाभावेनैव दुर्मान-सोल्लासोत् पत्तेः किं वा, तत्रैव तेषां आगमनट् कंसस्य सद्य एव चरमुखेन श्रवणाद् इति ज्ञेयम् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : घनच्छदा मेघान्तरिताः कंसस्याघस्य भयात् हाहेति भगवत्य-निष्टाशङ्कया देवानाम् ऐश्वर्य-ज्ञाने\ऽपि भक्तत्वात् भक्तेश् प्रीत्यात्मकत्वात् प्रीतेश् विवेक-हर-स्वभावत्वात् कंसाद्या जहृषुर् इति चर-द्वारा सद्य एव वार्ताज्ञानात् कौणपाः राक्षसाः अघासुर-भ्रातुः पुत्रादयः ॥२९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तदा देवास् तद् ऐश्वर्य-ज्ञा अपि हरौ लब्ध-प्रीतयः प्रीति-स्वभावोद्भूतानिष्ट-शङ्कया हा हेति चक्रुशुः कीदृशोस्ते धनच्छेदाः कंसाद्य् अभयाद् अभ्रान्तरिता इत्य् अर्थः । ये कंसाद्या ये चाघबान्धवाः कौणपाः राक्षसास् ते जहृषुश्चारेण वार्तोपलम्भात् ॥२९॥


॥ १०.१२.३० ॥

तच् छ्रुत्वा भगवान् कृष्णस् त्व् अव्ययः सार्भ-वत्सकम् ।

चूर्णी-चिकीर्षोर् आत्मानं तरसा ववृधे गले ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चूर्णी-कर्तुम् इच्छोस् तस्य गले आदाव् एव तरसा ववृधे अवर्धत ॥३०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु, शकट-तृणावर्त-वध-दाम-बन्धनादि-लीलायां स्तोकेनैव बाल-वपुषा किञ्चिद् अप्य् अवर्धमानेन तत्-तद्-व्याप्तिं च चोः स्वयं भगवतो विभोरस्य किम् अघासुर-कण्ठ-व्याप्तिर् अशक्या यतो ववृध इत्य् उच्यते सत्यं तत्र-तत्र नर-बाल-लीलत्व-लक्षण-माधुर्यस्य भक्त-जन-लोचनास्वाद्यत्वावलौकिकं तादृशत्वम् एवोचितम् । अत्र तु तादृश-माधुर्य-ग्राहक-दृष्टृजनाभावात् स्वयं भगवतापि तेन लौकिक्येव रीतिर् आललम्ब इति तत्त्वम् । तद्-देवाक्रन्दम् असुराह्लादम् । तरसा वेगेन । सार्भवत्वकम् आत्मानम् इति संबन्धः ॥३०॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् हाहेत्य् आक्रोशनम् । ववृधे तस्य मुखासम्बरणाय वधोपायाय च गल-विवरम् आवृण्वन् कीलतया महा-स्थूलो बभूवेत्य् अर्थः, यतो भगवान् सर्वैश्वर्य-पूर्णः । अथ कथम् अपि न व्येति हीयत इत्य् अनिष्टाशङ्कापि सर्वा निरस्ता । यद् वा, किम् अर्थं ववृधे ? तत्राहृ—न व्ययः को\ऽप्य् अपचयो भक्तानां यस्मात्, बालकादीनां राक्षार्थम् इत्य् अर्थः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् हा हेत्याक्रोशनं चूर्णीचिकीर्षोर् मुख-संवरण-गात्र-मोटनादिनेति शेषः । ववृधे तस्य मुखासम्वरणाय वधोपायाय च गल-विवरम् आवृण्वन् कीलतया महा-स्थूलो बभूवेत्य् अर्थः । यतो भगवान् सर्वैश्वर्य-पूर्णः अतः कथम् अपि न व्येति हीयत इत्य् अनिष्ट-शङ्कापि सर्वा निरस्ता । यद् वा, किम् अर्थं ववृधे ? तत्राह, न व्ययः कोऽप्य् अपचयो भक्तानां यस्मात् बालकादीनां रक्षार्थम् इत्य् अर्थः । तत्र हेतुः कृष्णः भक्ताकृष्टचित्त इत्य् अर्थः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् साधूनां शोक-जल्पनम् असाधूनां हर्ष-जल्पनं च च श्रुत्वा अर्भैर् वत्सैश् च सहितम् आत्मानं श्याम-सुन्दर-स्वरूपम् ऊदरस्योकृत्य चूर्णीचिकीर्षोर् अस्य गले ववृधे ताव् एव शोक-हर्षौ वैपरीत्येन श्रोतुर् इति भावः । मनु, शकट-तृणावर्त-वध-दाम-बन्धनादि-लीलाया स्तोकेनैव बाल-वपुषा किञ्चिद् अप्य् अवर्धमानेन तत् तद्-व्याप्तिचञ्चो स्वयं भगवतो विभोर् अस्य किम् अघासुर-कण्ठ-रन्ध्र-व्याप्तिर् अशक्त्या यतो ववृधे इत्य् उच्यते सत्यं तत्र तत्र नर-बाल-लीलत्व-लक्षण-माधुर्यस्य विस्मय-रसाधायकस्य भक्त-जन-लोचतास्वाद्यत्वाद् अलौकिकं तादृशत्वम् एव समुचितम् अत्र तु तादृश-माधुर्य-ग्राहक-द्रष्टृजनाभावात् स्वयं भगवतापि तेन लौकिक्ये रीतिर् आललम्बे इति जानीमः ॥३०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद्-देवानां शोक-ज्ल्पनं कंसादीनां हर्ष-जल्पनं च श्रुत्वा अर्भैर् वत्सैश् च सहितम् आत्मानं स्वं नन्द-सुतं चूर्णीचिकीर्षोर् अघस्य गले तरसा वेगेन ववृधे तज्-जल्पन-द्वय-वैपरीत्येन श्रोतुम् इति भावः, तद्-गले हरि-मूर्तेर् वर्धनं तन्-माधुर्य-चेष्टा-द्राष्टुस् तस्मिन्न् अभावाद् इति बोध्यम् ॥३०॥


॥ १०.१२.३१ ॥

ततोऽतिकायस्य निरुद्ध-मार्गिणो

ह्य् उद्गीर्ण-दृष्टेर् भ्रमतस् त्व् इतस् ततः ।

पूर्णोऽन्तर्-अङ्गे पवनो निरुद्धो

मूर्धन् विनिर्भिद्य विनिर्गतो बहिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निरुद्धो मुखादीनां मार्ग-भूतः कण्ठो यस्यास्ति तस्योद्गीर्ण-दृष्टेर् बहिर् निर्गत-लोचनस्यान्तरङ्गे देह-मध्ये पूर्णः परिभृतो मूर्धन् मूर्धनि ब्रह्म-रन्ध्रं निर्भिद्य बहिर् विनिर्गतः ॥३१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतिकायस्य योजन-विस्तृत-देहस्य ॥३१॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव, ततस् तस्माद् अवर्धनाद् एव । तु च, भ्रमतश् च भ्रमरिकावद् आवर्तमानस्य पूर्णत्वे हेतुः—निरुद्ध इति, पुनर् उक्तिर् निरुद्ध-मार्गिण इत्य् उक्तत्वाद् अत्य् अन्त-पूर्णता विविक्षया पवनः प्राण-वायुः । अतिकायस्येति पवनस्य बृहत् तरत्वम्, तेन मूर्ध-भेदस्यापि तद् अभिप्रेतम् अत एव वि-शब्द-द्वयम् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि एव ततस् तस्माद् वर्धनाद् एव तु च इतस् ततो भ्रमतश् च भरमरिकावत् वर्तमानस्य किं वा, कुत्र स्थास्यामि यास्यामि वेति व्यग्रं विचारयतश् चेत्य् अर्थः । पूर्णत्वे हेतुः निरुद्ध इति । पवनः प्राण वायुः अतिकायस्येति पवनस्य बृहत्तरत्वं तेन मूर्ध-भेदस्यापि तद् अभिप्रेतत्वम् अत एव वि-शब्द-द्वयं मूर्धन् मूर्धन्इ स्थितं ब्रह्म-रन्ध्रम् इत्य् अर्थः ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निरुद्धा मुखादीनां मार्ग-भूतः कण्ठे यस्यास्ति तस्य उद्गीर्ण-दृष्टेर् बहिर् निर्गत-लोचनस्य अन्त-र्अङ्गे देह-मध्ये निरुद्धः पवनः प्राण-वायुः निर्गमनाभावात् पूर्णः मूर्धन् मूर्द्ध्नि स्थितं ब्रह्म-रन्ध्रं निर्भिद्य बहिर् गतः ॥३१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : निरुद्धा मुखादि-मार्ग भूतः कण्ठा यस्यास्ति तस्याद् गीर्ण-दृष्टेः बहिर् निर्गत-नेत्रस्यान्तर् अङ्गे काय-मध्ये पवनः प्राण-वायुर् निरुद्धो निर्गमाभावात् पूर्णः मूर्धानं विनिष्पाट्य निर्भिद्य बहिर् गतः ॥३१॥


॥ १०.१२.३२ ॥

तेनैव सर्वेषु बहिर् गतेषु

प्राणेषु वत्सान् सुहृदः परेतान् ।

दृष्ट्या स्वयोत्थाप्य तद्-अन्वितः पुनर्

वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राणेष्व् इन्द्रियेषु । स्वयामृत-वर्षिण्या दृष्ट्यैव ॥३२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परेतान् स्वविरहात्-जाठरानल-ज्वालया मूर्च्छितान् न तु सृतान् चिच्छक्त्य् अलिङ्गितत्वात् । तद् अन्वितः । वत्स-गोप-युतः मुकुन्द इति तन्-मोक्ष-सूचनार्थम् ॥३२॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेन पवनेनैव सह ब्रह्म-रन्ध्रेण वा परेतान् परेतान् इव तद् उदरान्तः-प्रवेशेन । किं वा, परम-विस्मयेन स्तब्धतया क्षणं तद्-दृष्ट्या वा, मृत-तुल्यान् निज-मधुर-स्निग्ध-दृष्ट्योत्थाप्य चेष्टयित्वा । यद् वा, पलायितान् स्व-परित्यागेणाग्रतो जवेन गमनात्, स्वया सस्मित-भ्रूक्षेपादि-सङ्केत-पूर्विकया मनोहरया दृष्ट्या ब्रह्म-रन्ध्रेण निर्गमाय तत्रोत्थाप्य । मुकुन्दो \ऽघासुरस्य मुक्तिं सुहृदां च परमानन्दं ददद् इत्य् अर्थः, यतो भगवान् जगद् धितार्थ स्वयम् अवतीर्णः परमेश्वरस् तद् अनुतत् पश्चाद् इतो वक्त्राद्-विनोदेन निर्ययौ ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेन पवनेनैव सह ब्रह्म-रन्ध्र-द्वारेण वा भगवन् नर-लीलानुकरणेन परेतान् इव क्षणं तद्दृष्ट्या मृत-तुल्यान् वा निज-मधुर-स्निग्ध-दृष्ट्या उत्थाप्य चेष्टयित्वा मुकुन्दः अघासुरस्य संसारात् मुक्तिं सुहृदाश् चाघान् मुक्तिं ददद् इत्य् अर्थः । यतो भगवान् जगद् धितार्थं स्वयम् अवतीर्णः परमेश्वरः तद् अनु ताननु, तत् पश्चाद् इतो वक्त्रात् विनोदेन निर्ययौ ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : परेतान् इति नर-लीलानुसारेण वस्तुतस् तु श्री-कृष्ण-वियोग-दुःखेनेव मूर्च्छितान् चिच्-छक्त्यालिङ्गितत्वात् ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परेतान् स्व-विरह-तज् जाठरानलयोर् ज्वालया मूर्च्छितान् दृष्ट्वा अमृत-वर्षिण्या ॥३२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तेनैव पवनेन सह प्राणेषु तद् इन्द्रियेषु बहिर् गतेषु सत्सु तद् उदर-गतान् वत्सान् सुहृदः सखींश् च परेतान् तद्-विरह-तज् जठरानल-ज्वालया मूर्च्छित-प्रायान् स्वया पीयूष-वर्षिण्या दृष्ट्वा स्व-स्थानुत्थाप्य अन्यद्-व्यक्तार्थाम् ॥३२॥


॥ १०.१२.३३ ॥

पीनाहि-भोगोत्थितम् अद्भुतं महज्

ज्योतिः स्व-धाम्ना ज्वलयद् दिशो दश ।

दश खेऽवस्थितम् ईश-निर्गमं

विवेश तस्मिन् मिषतां दिवौकसाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहि-देहे स्थितं शुद्ध-सत्त्वमयं ज्योतिर् निर्गत्य खेऽवस्थितम्तस्मिन्न् ईशे विवेश ॥३३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-तेजसा दश दिशो ज्वलयत् ईश-निर्गमं दश कञ्चित् कालं दृष्ट्वा । जीवस्य निराकारत्वेऽपि तत्-काल-प्राप्त-भगवच् छक्त्यालिङ्गितत्त्वात् तथा । दृश्यत्वम् इति तोषिण्याम् । पर-ब्रह्मणे व्यापक-महा-ज्योतिः-स्वरूपम् इव जीवस्यापि **ज्योतिः-**स्वरूपं मायिक-लोचनागम्यम् अपि तदानीं भगवता स्वेच्छयैव स्वस्यासुर-मुक्ति-प्रद-गुणस्य सर्व-लोक-प्रत्यक्षीकरणार्थं प्रदर्शनम् इत्य् अर्थः । भागवतीं गतिम् इत्य् उपरिष्टाद् उक्तेर् अघासुरः सारूप्य-मुक्तिं प्राप्य न तु सायुज्यं भगवति प्रवेशस् तु शिशुपालादिवज् ज्ञेय इति ॥३३॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्भुतम् अनिर्वचनीयम्, महत् प्रकाश-बाहुल्यात् दिवौकसाम् इत्य् अनादरे षष्ठी, परमाश्चर्येन तेषु पश्यत्सु सत्स्व् इत्य् अर्थः, तादृश-दुष्टस्यापि मुक्तेस् तथात्मतत्वानुभव-लक्षणाया अतीन्द्रियायास् तत्-प्रकारासम्भवाच् च । तेन प्रकारेण मुक्तिस् तस्याम् असन्देहाय । स च श्री-ब्रह्मादीनां विस्मयार्थम् । कृष्ण-प्रवेश-दर्शनन्तु प्रतीति-मात्रम् एव, वस्तुतस् तु ब्रह्मण्य् एव लयो\ऽतस् तत्त्व-विचारेणाभाव एव पर्यवस्यन्ती मुक्तिर् इयं परम-पुरुषार्थतायां न प्रविशति, विशेषतश् च भक्ति-रस-विराधिताया भक्तानां वर्जयेव, अतो दैत्यानां सोचिर्तैवेत्य् एष वैष्णव-सिद्धान्तः श्री-भागवतामृतोत्तर-खण्डे विवृतो\ऽस्त्य् एव ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पीनाहि-भोगोत्थितम् इति तु पाठो मूलेषु दृश्यते भोग-स्थितम् इति तु टीकायाम् एव अद्भुतम् अनिर्वचनीयं महत् प्रकाश-बाहुल्यात् दिवौकसाम् इत्य् अनादरे षष्ठी । यद् वा, परमाश्चर्येण तेषु पश्यत्सु सत्सु इत्य् अर्थः । तादृश-दुष्टस्यापि मुक्तेः अतीन्द्रियाया मुक्ति-प्राप्तेर् दर्शनाच् च तथा तद् दर्शनं च ब्रह्मादीनाम् असन्देहाय स च विस्मयार्थं तच् च ज्योतिस् तत्-काल-प्राप्त-भगवच् छक्तिमयम् एव ज्ञेयं जीवस्य निराकारत्वात् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्योती-रूपं तथा दर्शनं च स्व-महिम-व्यक्त्य् अर्थम् ॥३३.३५॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्योतिर् अहि-देहे स्थितं शुद्ध-सत्त्वमयम् इति श्री-स्वमि-चरणाः तादृश-दुष्टस्यापि तस्य मुक्तेः सर्व-लोक-प्रत्यायनार्थं जीवस्य निराकारत्वे\ऽपि तत् काल-प्राप्त-भगवच् छक्त्यालिङ्गितत्वात् तया दृश्यत्वम् इति वैष्णव-तोषिण्यादयः परब्रह्मणो व्यापक-महा-ज्योतिः स्वरूपम् इव जीवस्यापि ज्योति-स्वरूपं मायिक-लोचनागम्यम् अपि तदानीं भगवता स्वेच्छयैव स्व-स्वरूपम् इव स्वस्यासुर-मुक्ति-प्रदायकत्व-लक्षण-गुणस्य सर्व-लोक-प्रत्यक्षी-करणार्थं दर्शितम् इत्य् एके प्रपात्म-साम्यम् [भा।पु। १०.१२.३८] इति भगवतीङ्गतिम् इत्य् उपरिष्ठाद् उक्तेर् अघासुरः सारूप-मुक्तिं प्राप । न-तु सायुज्यम् इत्य् अतस् तत्-क्षण-प्राप्त-तदीय-चिन्मय-देह-ज्योतिर् एव तत् देहस् तु ज्योति-भूर् यस् त्वात् द्रष्टुं शक्यो नाभूत् भगवति प्रवेशस् तु सायुज्य-प्रथावतोः शिशुपाल-दन्तवक्रयोर् इव ज्ञेय इत्य् अपरे मिषतां मिषत्सु सत्स्व् अप्य् अनादरे वा षष्ठी ॥३३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अवस्य मुक्तिर् अभूद् इत्य् आह—पीनादहेर् भोगाद् देहाद् उत्थितं महत्-ज्योतिः ईशस्य नन्द-सूनोर् निर्गमं दश खेऽवस्थितं निर्गत तस्मिन्न् ईशे विवेश तत् सारूप्यम् उपलभ्य तत्-सन्निधावतिष्ठत् प्रापात्म-साम्यम् [भा।पु। १०.१२.३८] इत्य्-आदि-वक्ष्यमाणात् तस्य तद् उपलम्भे हेतुस् तु तद् उदरं प्रविश्य कृष्णेन निहतत्वं बोध्यम् । ज्योतिषश् चिद्-घन-विग्रस्य तस्य दर्शनन्तु हतारि-गति-दायकत्व-लक्षणस्य निर्गुणस्य लोके विख्यातये तच्-छ्री-विग्रहस्येव तद् इच्छयैव जातम् अन्यथा तस्यापि दर्शनं न स्यात् मिषतां पश्यतां षष्ठीयम् अनादरे ॥३३॥


॥ १०.१२.३४ ॥

ततोऽतिहृष्टाः स्व-कृतोऽकृतार्हणं

पुष्पैः सुगा अप्सरसश् च नर्तनैः ।

गीतैः सुरा वाद्य-धराश् च वाद्यकैः

स्तवैश् च विप्रा जय-निःस्वनैर् गणाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-कृतः स्व-कार्य-कृतः श्री-कृष्णस्यार्हणम् अकृताकुर्वत पूजाम् अकुर्वन् । सुगाः सुष्ठु गायन्तीति गन्धर्वादयः ॥३४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो भगवद् देहे तत्-प्रवेशानन्तरम् । अर्हणं पूजाम् ॥३४॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो महा-दुष्टस्य वधात् तत्राप्य् अपुनरावृत्ति-मोक्षाद्-वाद्य-धराः, विधा-धरा इति वा पाठः10विप्राः श्री-नारदादयः, आद्य चकार-द्वय-स्थाने सु-शब्द-द्वय-पाठः क्वचित्, अतिहृष्टत्वेन तत् तच् छोभनत्वात्, सुशोभनं रान्ति ददतीति सुरा इति पुष्पाणाम् अपि शोभनत्वम् आयातम् एव । सुगा इति गीतानां शोभनत्वं सिद्धम् । स्तवानां स्वत एव शोभनत्वम् अन्यथा स्तुतित्वासिद्धिः । गणाः श्री-भगवत् पार्षदाः सर्वे वा भगवदीया गोप-बालका वा, अतो जय-शब्दानाम् अपि शोभनत्वम् ऊह्यम् ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः स-परिकरेश-निर्गमात् **वाद्य-**धराः विद्याधरादयः वारिधरा इति वा पाठः । विप्राः श्री-नारदादयः गणाः श्री-गरुडादयः ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वकृतः स्वस्रष्टुः श्री-कृष्णस्य अर्हणं पूजाम् अकृत अकुर्वत् सुष्ठु गायन्तीति सुभाः गन्धर्वादः वाद्य-धरा विद्या-धरादयः विप्रा वशिष्ठादयः गणाः गरुडादयः ॥३४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ततः सुरा देवा अतिहृष्टा सन्तः स्वकृतः स्वस्रष्टुर्-नन्द-सूनोर् अर्हणम् अकृत अकुर्वत । सुगा गन्धर्वादयः वाद्य-धरा विद्या-धरादयः विप्राः सप्तर्षयः गणा गरुडादयः ॥३४॥


॥ १०.१२.३५ ॥

तद्-अद्भुत-स्तोत्र-सुवाद्य-गीतिका-

जयादि-नैकोत्सव-मङ्गल-स्वनान् ।

श्रुत्वा स्व-धाम्नोऽन्त्य् अज आगतो ऽचिराद्

दृष्ट्वा महीशस्य जगाम विस्मयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, तेषां यान्य् अद्भुत-स्तोत्रादीनि तेषां नैकोत्सवा ये मङ्गल-स्वनास् तान् स्व-धाम्नोऽन्ति समीपे श्रुत्वाजो ब्रह्माचिराद् आगत ईशस्य श्री-कृष्णस्य महि महिमानं दृष्ट्वा विस्मयं प्रापेति ॥३५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् अपि आह—किं च, इति तेषां सुरादीनाम् । स्वधाम्नः सत्य-लोकस्य ॥३५॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एवाग्रे सर्वेषां विशेषणतयाद्भूतेति तु-शब्दश् च । आदि-शब्देनाप्सरो-नुपुर-शब्द-करतालिकादयश् च, मङ्गलस्वनाश् च नमो नमस्त इत्य् आदयः । महि माहात्म्यं तन्मुक्ति प्रदान-विचित्र-वृन्दावन-विहार-वेशादि-सौन्दर्यम् । अन्यत् तैर् व्याख्यातम् । यद् वा, ते च ते अद्भुत-स्त्रोत्रादि-रूपाश्चाद्भुत-स्तोत्रादिना वा, नैकोत्सवा नैकः अनेक उत्सवो येभस् तद्रूपा वा मङ्गल-स्वनास् तान्, कर्मणि षष्ठी । महीशं पृथिव्याम् अवतीर्णं निजाशेष-भगवता-विस्तारणेन पृथ्वी-पालनपरं दृष्ट्वेत्य् अर्थः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अद्भुत-श्रोत्रादीन् श्रुत्वा स्व-धाम्नः सकाशाद् अन्ति कृष्णस्य समीपे अचिरात् शीघ्रम् आगतोऽज ईश्वस्य महि माहात्म्यं तनु-मुक्ति-प्रदान-लक्षणं कुत्राप्य् अन्यत्र तादृशस्यादृष्टं दृष्ट्व् एत्य्-आदि-ज्योज्यम् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अद्भुत-स्तोत्राणि च सुवाद्यानि च गीतिकाः सुकुमारा गीतयश् च जय-शब्दादयश् च नैकोत्सवा अनेकोत्सवा **मङ्गल-**स्वनाश् च तान् स्व-धाम्नः सत्य-लोकस्य अन्ति निकट एव श्रुत्वेति महर्जनस् तपो-लोकस्था अपि परम्परयैव श्रुत्वा गीतादिकं चक्रुर् इति ज्ञेयं श्रुत्वा अजो ब्रह्मैव अचिराद् सद्य एव अघासुरस्य ज्योतिर् वैकुण्ठ प्रति गच्छद् एव ईशस्य महि महिमान दृष्ट्वा आगतो \ऽन्यैर् अलक्ष्यमानो वृन्दावनम् एव तत्र च ईशस्य महिमानं दृष्ट्वा विस्मयं प्राप ॥३५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अद्भुत-स्त्रोत्राणि च सुवाद्यानि च गीतिकाः सुकोमल-गीतयश् च जयादयश् चानेकात्सवा मङ्गलस्-वनाश् च तान् स्व-धाम्नः सत्य-लोकस्यान्ति सन्निधौ श्रुत्वेति महरादयश् च लोकास् तत् स्तोत्रादि-शब्दैः पूरिता इति सूच्यते अतो विरञ्चिर् अघस्यापि स्व-सारूप्य-दान-लक्षणम् ईशस्य महि महिमानं दृष्ट्वा विज्ञाय वृन्दाटवीम् अचिराच् छीघ्रम् आगतः विस्मयं जगाम ॥३५॥


॥ १०.१२.३६ ॥

राजन्न् आजगरं चर्म शुष्कं वृन्दावने ऽद्भुतम् ।

व्रजौकसां बहु-तिथं बभूवाक्रीड-गह्वरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बहु-तिथं बहु-कालम् । आक्रीड-गह्वरं क्रीडार्थं महा-बिलम् ॥३६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् अद्भुतम् आह—राजन्न् इति कथाश्रुतौ देदीप्यमानम् इत्य् अर्थः । आक्रीडगह्वरत्वम् अपि वत्सरान्तरवज् ज्ञेयम् ॥३६॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवत्-स्पर्श-प्रभावेन तस्यात्मा कृतार्थो\ऽभूद् इति किं वक्तब्यम्, पाञ्च-भौतिक-मृत-देहो\ऽपि परम-कृतार्थतां प्रापेत्य् आह—राजन्न् इति, परमाश्चर्येण हर्षभरेण वा सम्बोधनम् । शुष्कं सद् इति वाद्यादिना क्रीडा-योग्यत्वम् उक्तम्, चिरस्थायित्वं चाभिप्रेतम् । आ सम्यक् क्रीड्यते \ऽस्मिन्न् इत्य् आक्रीडं च तद् गह्वरं गुप्त-स्थानं च ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवत्-स्पर्श-प्रभावेण स कृतार्थोऽभूद् इति किं वक्तव्यं तस्य पाञ्चभौतिक-मृत-देहोऽपि पूतनावत् सौरभ्यादि-प्राप्त्या सर्व-मनोरमतां प्रापेत्य् आह—राजन्न् इति । परमाश्चर्येण ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पूतना-वद् देहस्यापि सौगन्ध्यादि-मय-पुण्य-रूपत्व-प्राप्तिम् आह—राजन्न् इति । आक्रीड-गह्वरत्वं वत्सरान्तरे ज्ञेयम् ॥३६.३७॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बहुतिथं बहु-कालं आ सम्यक् क्रीडार्थक-गह्वरं बभूव ॥३६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : बभुतिथं चिर-कालं आ सक्यम् क्रीडागह्वरं बभूवेति भगवद् अङ्ग-स्पर्शेन तस्य रजत-गिरि-भूतत्वाद् इति भावः ॥३६॥


॥ १०.१२.३७ ॥

एतत् कौमारजं कर्म हरेर् आत्माहि-मोक्षणम् ।

मृत्योः पौगण्डके बाला दृष्ट्वोचुर् विस्मिता व्रजे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यच् चाति-चित्रं वृत्तम् इत्य् आह—एतद् इति ।

कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।

कैशोरम् आ-पञ्च-दशाद् यौवनं तु ततः परम् ॥

हरेः कौमारजं पञ्चमाब्द-कृतं कर्म तदैव दृष्ट्वा पौगण्डके षष्ठेऽब्दे बाला अद्यैवैतद्-वृत्तम् इत्य् ऊचुः । किं तत् कर्ममृत्योः सकाशाद् आत्मनाम् अहेश् च मोक्षणम् । आत्मनां प्रसिद्धान् मृत्योर् अहेस् तु संसार-लक्षणात् । अघासुरस्य ज्योतिषः श्री-कृष्णे प्रवेशम् अपि तदा दृष्टं कथितवन्त इत्य् अर्थः ॥३७॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतोऽप्य् अद्भुततरम् आह—अन्यच् चेत्य्-आदिना । वृत्तं जातम् । दशमावधि दशम-वर्ष-पर्यन्तम् । आपञ्च-दशात् पञ्च-दश-वर्ष-पर्यन्तम् । ततः पञ्च-दश-वर्षात् । आत्मनां स-गोप-वत्सानाम् । इत्य् अर्थ इति । अहो अद्यास्माभिर् महद् आश्चर्यं दैत्य-देह-निर्गतं तेजः कृष्णे प्रविष्टं दृष्टम् इति भावः ॥३७॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कौमारे जायत इति तथा तत् अस्य हरेः पौगण्डे तस्यारम्भ-मात्रत्वेन्ल्पत्वात् क-प्रत्ययः । हरेर् इति मृत्यु-हरणात् । च-शब्दाद् देवादि-कृत-महोत्सवं च दृष्ट्वा विस्मिताः सन्तः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्य हरेः पौगण्डे तस्यारम्भ-मात्रत्वेनाल्पत्वात् कन् प्रत्ययः च शब्दात् देवादि-कृत-महोत्सवं च, अन्यत् तैः । यद् वा, प्रश्न-बीजत्वाय प्रहेलिकावद् आह—कौमारजं कर्म पौगण्डकेदृष्ट्वोचुर् इति किं तत् ? अहेर् मृत्योर् हेतोः आत्मनामहेः सकाशान् मोक्षणं सर्वे मिथो दर्शयन्त इत्य् आदावैश्वर्य-ज्ञानास्पर्शात् अद्यानेनेत्यादि-मात्र-तद् वक्ष्यमाणात् ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यद् अपि आश्चर्यम् एकं शृण्व् इत्य् आह—एतत् हरेः कौमारजं पञ्चमाब्द-कृतं कर्म दृष्वा अस्य हरेः पौगण्डके वयसि षष्ठे\ऽब्दे बाला अद्यैतद्-वृत्तम् इत्य् ऊचुः किं तत्, आत्मनाम् अहेः सकाशान् मोक्षणं कुतः मृत्योः अहि-मरणाद् धेतोर् इत्य् अर्थः ॥३७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अन्यच् चाश्चर्यं शृण्व् इत्य् आह एतद् धरेः कौमारजं पञ्चमाब्द-कृतं कर्मास्य पौगण्डे षष्ठेऽद्यैव तद् अभूद् इति बाला व्रजे ऊचुः एतत् किं ? आत्मनाम् अहेः सकाशान् मोक्षणं कुतः मृत्योः अहेर् मरणाद् धेतोः—

कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।

आ-षोडशाच् च कौशोरं यौवनं स्यात् ततः परम् ॥ इति ॥३७॥


॥ १०.१२.३८ ॥

नैतद् विचित्रं मनुजार्भ-मायिनः

परावराणां परमस्य वेधसः ।

अघोऽपि यत्-स्पर्शन-धौत-पातकः

प्रापात्म-साम्यं त्व् असतां सुदुर्लभम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नैतद् विचित्रम् इति । किं तद् इत्य् अपेक्षायाम् आह—अघोऽपीति । आत्म-साम्यं स्व-समान-रूपताम् ॥३८॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मनुजार्भस्य माया-छलम् अस्यास्तीति **मनुजार्भ-**मायी तस्य ब्रह्मादि-मनुष्यान्तानानां स्रष्तुः परमस्यात्मसाम्यम् । यस्य कृष्णस्य स्पर्शनेन धौतं निवृत्तं पातकम् असुर-तापादकं प्राक् कृतं कर्म यस्य सः । असतां पापिनाम् ॥३८॥

———————————————————————————————————————

हेमाद्रि (कैवल्य-दीपिका-टीका) : नैतद् इति । एतद् गोपैः सह क्रीडनम् । मनुजार्भ-मायिनो मनुष्य-बाल-रूपाः मायाः स्वीकृतवन्तः । परावराणां कारण-कार्याणाम् । वेधसः कर्तुः । परमस्य कर्त्र्-अन्तर-रहितस्य । अघो अघासुरः साम्यम् इत्य् एवोक्ते सारूप्यं स्याद् अत उक्तम् आत्मेति ॥३८॥ [मु।फ। १८.८]

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-दुष्टस्यापि तादृश्या मुक्त्या केषाञ्चिद्-अद्भुत-बुद्धिं दृष्ट्वा श्री-भगवत् प्रभावम् आह—नेति द्वाभ्याम् । परावराणां कारण-कार्याणाम् उत्तम-नीचानां वा पूर्व अपराणां वा सर्वेषां परमस्य वेधसः श्रेष्ठ-विधातुर् ब्रह्मणो\ऽपि जनकत्वात् सृष्टर् आदिकारणत्वाच् च ।

यद् वा, परावऋआणां परमस्य श्रेष्ठस्य, यतस् तेषां वेधसः स्रष्टुर् इति परमेश्वरत्वेन परम-स्वातन्त्र्यम् उक्तम् । तत्र च मनुजाभः श्री-नन्द-कुमारश् चासावत एव मायी च दयावान् ।

यद् वा, मा लक्ष्मीः शोभा सम्पद् वा, ताम् एतुं प्राप्तुं शीलम् अस्येति, तथा तस्य निजाशेष-भगवत्ता सम्पत्ति प्रकटन-परस्येत्य् अर्थः ।

यद् वा, मनुजार्भेषु गोप-बालकेषु मायिनो दयावत इति बाल-गोपाल-रूपेण भगवत्त्व-प्रकटनम् एवाभिप्रेतम् अतो विचित्रम् अद्भुतं न भवति । आत्मा व्यापकं ब्रह्म, तस्य सात्म्यं स्वरूपतां निर्वाणम् इत्य् अर्थः । साम्यम् इति पाठे अविद्या-निवृत्त्या स्व-स्वरूपेणावस्थानम् इत्य् अर्थः, तथा चोक्तं मुक्ति-लक्षणं द्वितीये मुक्तिर् हित्वान्यथा-रूपं स्वरूपेण व्यवस्थितिः [भा।पु। २.१०.६] इति । असतां दुष्टानां परम-दुर्लभम् अपि प्राप ।

ननु, श्री-गोकुल-बालकादि-महत्सु महा-पराधिनस् तस्य तद् अपि कथं सम्भवेत् ? तत्राह—यद् इति । महद् अपराध-लक्षणम् अपि पातकं श्री-भगवत् स्पर्श-विशेष-प्रभावेणैव क्षीणम् इत्य् अर्थः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महा-दुष्टस्यापि तादृश्या मुक्त्या केषाञ्चिद् अद्भुत-बुद्धिं दृष्ट्वा श्री-भगवत् प्रभावम् आह—नेति द्वाभ्याम् । परावराणां सर्वेषाम् अंशिनाम् अंशानां च परमस्य श्रेष्टस्य यतस् तेषां वेधसः प्रादुर्भाव-कर्तुश् च इति परम-स्वातन्त्र्यम् उक्तं तत्र च मनुजार्भः श्री-नन्द-कुमारश् चासौ मायी च दयावान् अमर्याद-लीलत्वेन तादृश-दयालुत्वेन च यः प्रसिद्धस् तस्य परम-विलक्षण-स्वारूपस्य तत्र प्रवेशासंभवात् असतां दुष्टानां परम-दुर्लभम् अपि प्राप ।

ननु, श्री-गोकुल-बालकादिषु महत्सु महा-पराधिनस् तस्यासुरस्य तद् अपि कथं संभवेत्? तत्राह—यद् इति, यस्य तत्-पर्यन्त-दुर्गत-जीवेषु तमः-कृत-दुर्गति-मात्र-समवधान-मात्र-जातया सद् असद् विचार-शून्यत्वेन स्वतन्त्रया कृपयावतीर्णस्य सर्व-विलक्षणस्य स्पर्श-विशेष-प्रभावेणैव सोयम् अघमयोऽपि धूत-पातकः खण्डिताघमयभाव इत्य् अर्थः । आत्मा नासुरः किन्तूपाधिर् एव स च नाशित एव निर्दोषो निजांशस् त्व् अनुगृहीत इति नात्र दोषश् च प्रत्युत तस्यासुर-भावापगमनं परम-कृपा-सूचकत्वाद् उपादेयम् एवेति भावः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अद्यानेन इत्य्-आदि वक्ष्यमाणात् अत एव तावत्-कालं मायावृतत्वात् । परावराणाम् अशिनाम् अंशानां च सर्वेषां परमस्य स्वयं भगवतः वेधसस् तत् तद्-आविर्भाव-कर्तुर् मनुजार्भस्य मनुष्य-लीलस्य श्री-नन्दस्यार्भस् तल् लीलश् च स मायी परम-दयालुश् च सः । तस्येति परम-शक्तित्वं सर्व-कारणत्वं स्वतन्त्र-लीलत्वं तादृश-पतितोद्धारित्वं च दर्शितम् आत्म-सात्म्यम् आत्म-साम्यम् इत्य् अनेन प्रवेश-वचनेन च तत्-सायुज्यम् उक्तम् ॥३८.४०॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनुजार्भ एव माया तदीय-स्वरूपं तद्वत् श्रुति-प्रसिद्धान्-माया-शब्दस्य स्वरूप-वाचकत्वात् परावराणां सर्वेषाम् अंशानाम् अंशिनाम् अपि परमस्य वेधसः स्वेच्छाभिमतम् एव कर्तुः एतत् विचित्रं न, किं तद् इत्य् अत आह—अघापीति । धूत-पातक इति पातकम् इत्य् उपलक्षणं शरीर-दौर्घन्ध्यादेर् अपि-अपगम इति किं वक्तव्यं ? पूतना-दृष्ट्या शरीर-सौगन्ध्यम् एव व्याख्येयं सप्रिय-सखस्य कृष्णस्य क्रीडास्पदी-भावित्वात् आत्म-साम्यं स्व-समान-रूपत्वम् असताम् असुराणां सायुज्यं दुर्लभं सारूप्यं तु भक्त-सम्प्रदानीयत्वात् सुदुर्लभम् ॥३८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मनुजार्भो नराकृति-बालकश्च असौ मायी च कृपावान् तस्य कृष्णस्येतद्-विचित्रंपरावराणां परमस्य स्वयं प्रभोः वेधसः स्वेच्छाभिमत-कर्तुः किम् एतत् तत्राह अघापीति । यत्-संस्पर्शेन धुतं पातकं लिङ्गपर्यन्तं यस्य सः आत्मसात्म्यं समान-रूपतां असताम् असुराणां सुदुर्लभं तेषां लिङ्गमद् अलक्षणा मोक्षा भवेद् इत्य् अर्थः ॥३८॥


॥ १०.१२.३९ ॥

सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता

मनोमयी भागवतीं ददौ गतिम् ।

स एव नित्यात्म-सुखानुभूत्य्-अभि-

व्युदस्त-मायोऽन्तर्-गतो हि किं पुनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य-अङ्गं मूर्तिस् तस्य प्रतिमा प्रतिकृतिस् तत्रापि केवलं मनो-मयी साऽपि बलाद् अन्तर्-आहिता सती भागवतीं गतिं ददौ प्रह्रादादिभ्यः, स एव साक्षात् स्वयम् अन्तर्-गतः किं पुनः नित्या चासाव् आत्म-सुखानुभूतिश् च तयाभितो व्युदस् ता माया येन सः ॥३९॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतिकृतिः प्रतिनिधि-विग्रहः । तत्रापि प्रतिकृतित्वे अन्तर्-आहिता ध्याता । स एव यस्य प्रतिकृतिर् मोक्षं ददाति । **आत्म-**सुखानुभूतिर् आत्मानन्दानुभवः । व्युदस् तापाकृता । माया कारणाज्ञानम् । किं पुनर् वक्तव्यम् इति शेषः । यस्य प्रतिकृतिर् जगन्नाथ-मदन-गोपाल-गोविन्दादि-रूपा मनसैव ध्याता तत्रापि सकृद् एव खट्वाङ्गादिभ्यो भागवतीं गतिं ददौ ॥३९॥ [अतः परं विश्वनाथः]

———————————————————————————————————————

हेमाद्रि (कैवल्य-दीपिका-टीका) : सकृद् इति । यद्-अङ्ग-प्रतिमा यत् स्वरूपः प्रकृतिः । भागवतीं स्थितिं ददाति । स एव साक्षात् दृष्टो ददातीति किं पुनर् अन्तर् हृदये आहिता निक्षिप्ता । मनोमय्य् अपि मनः परिणाम-रूपापि । नित्यस्यात्म-सुखस्यानुभूत्या अभितो व्युदस्ता यथा पुनर् नोदेति । तथा हिंसिता माया येन स तथा । अत्र च गोपानाम् अलौकिकेन भगवता सह विहारेणाघासुरस्य भगवत्-सायुज्येन विभावेन जात-विस्मयः । शुकेनानुभूतस् तत् साधु-वादश् चात्रानुभावः ॥३९॥ [भा।पु। १०.१२.३९]

———————————————————————————————————————

चैतन्यमत-मञ्जूषाः- सकृद् यद् अङ्ग-प्रतिमेत्य् आदि । अङ्गस्य प्रतिमा शैलीप्रभृतिः, सापि सदृत् एकवारम् अप्य् अन्तर्-मनस्याहिता अर्पिता सती भागवतीं गतिं दधौ दधाति, मनोमयी वा यद् **अङ्ग-**प्रतिमा मनोमयी [भा।पु ११.२७.१२] इत्य्-आदिना वक्ष्यमाणत्वात् । अङ्गस्य प्रतिमेति यस्य कस्यचिद् एवाङ्गस्य, अस्तुदूरे सर्वाङ्गप्रतिमा । तत्र मनोमयी बोद्धव्या, मनसि कदाचिद् एव किञ्चिद् अङ्गं स्फुरति, सर्वाङ्ग-स्पूर्तिस् तु परम-भाग्यभाजाम् एव भवति, अथ वा, पादादि यावद् धस्तितं गदाभृतः [भा।पु २.२.१३] इति धान-क्रमस्योक्तत्वात्, अङ्गति सम्बोधनं वा ॥३९-४४॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मनोमयीति मनसः सहजास्थैर्येण सदा सर्व-सौन्दर्याद्य् अपरिस्फूर्त्या शौल्यादि-प्रतिमाभ्यो मनोमय्य्आः प्रतिमाया न्यूनताभिप्रेता । नित्यम् आत्मनां सर्व-जीवानां सुखानुभूतिर् यस्मात्, यतो\ऽभितो विशेषेणोदस् तमायस् तथा च वक्ष्यति श्री-ब्रह्मा अत्रैव माया-धमानावतारे [भा।पु।१०.१४.१६] इति स चासौ स च यतः परमः सर्वतः श्रेष्ठः निजाशेष-भगवत्ता-प्रकटनात् । अङ्गेति स-न्याय-हर्ष-सम्बोधने ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नित्यात्मेति तैर् व्याख्यातम् । यद् वा, नित्यम् आत्मनां सर्व-जीवानां सुखानुभूतिर् यस्मात् यतोऽभितो विशेषेणोदस् तमायः तथा च वक्ष्यति श्री-ब्रह्मा अत्रैव माया-धमनावतारे इति, स चासौ स च यतः परमः सर्वतः श्रेष्ठः निजाशेष-भगवत्ता-प्रकटनात् यत् यस्य अङ्गेति सन्याय-हर्ष-सम्बोधने ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथाघासुरस्य भगवति लयेन विस्मयमानं राजानं प्रति श्री-शुकदेवोक्तिः—सकृद्-यद् अङ्गेत्य्-आदि । यस्य अङ्गप्रतिमा अवयव-प्रतिकृतिर् अन्तर्मनस्याहितापिता सती मनोमयी भूत्वा भागवतीं गतिं ददौ ददाति, हे अङ्गे ! स पुनः परमः श्री-कृष्णोन्तर्-गतः सन् भागवतीं गतिं यद् दास्यति तत् किं पुनः ? यद् वा, मनोमयी अङ्ग-प्रतिमा सकृद् एकवऋअम् अप्य् अन्तर्-आहिता सतीति मनोमयी मणिमयी [भा।पु ११.२७.१२] इत्य् आदौ प्रतिमाया अष्टविधत्वं वक्ष्यति । मनोमयी प्रतिमेति सिद्धेर् अङ्ग-शब्दोपादानं मनोमय्या मूर्तेर् एकम् अप्य् अङ्गम् इत्य् अर्थः । इति स्वयम् अयं यद् अन्तर्-गतस् तस्याघासुरस्य तथात्वे किं वैचित्र्यम् इति शेशः ॥३९.४४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् प्राप्तौ कारणम् आह—यस्य अङ्गं मूर्तिस् तस्य च प्रतिमा प्रतिकृतिर् जगन्नाथ-मदन-गोपाल-गोविन्दादि-रूपा सापि मनोमयो मनसैव ध्याता तत्रापि सकृद् एव अन्तर्-आहिता भगवतीं गतिं ददौ खट्वाङ्गादिभ्यः स एव साक्षात् नित्यात्मा नित्य-शरीरश् चासौ सुखानुभूति-रूपश् च अभिव्युदस् तम् आयश् चेति सः परमः स्वयम् अवतारी स्वयम् एवान्तर्-गतः किं पुनः दद्याद् एवेति अर्थः ।

ननु, खट्वाङ्गादीनां तत् प्राप्तौ भक्तिर् एव कारणम् अघादीनां तु प्रातिकूल्यात् भक्ती अभाव एव तत् प्राप्ति-प्रतिबन्धी भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति भगवत्-कृत-नियमात् ? सत्यं स च नियमो\ऽन्यस्मिन्न् एव समये कृष्णस्यावतार-समये तु पूर्णाया एव कृपा-शक्तेर् उदयोद्रेकात् तत् सम्बन्ध-मात्रेणैव तत् प्राप्तिर् यद् वक्ष्यते—

कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव वा ।

नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥

न चैवं विस्मयः कार्यो भवता भगवत्यजे ।

योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ [भा।पु। १०.२९.१५]

इति कृष्णस्य पूर्णत्वे लक्षणम् इदम् असाधारणं यद् वैरिभ्योऽपि मोक्षं ददातीति तेषाम् अपि मध्ये व्रजौकसां बहुतिथं बभूवाक्रीड-गह्वरम् इत्य् उक्तेर् अघासुर-देहस्य स्वक्रीडा-सुख-प्रदीभावित्वात् तात्कालिक तत् प्रातिकूल्यस्यानुकूल्यमय-भक्तित्व-मननात् तस्मै सारूप्य-मोक्षं वैकुण्ठे एव ददौ न तु स्वधाम्नि वृन्दावने तद्-भक्तेस् तादृश-वैशिष्ट्याभावात् इति ज्ञेयम् ॥३९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सारूप्य-प्राप्तौ हेतुम् आह—यस्य कृष्णस्याङ्गं श्री-मूर्तिस् तस्य प्रतिमा प्रतिकृतिः श्रीर्-अङ्ग-जगन्नाथादि-रूपा सापि मनामया मनसा भाविता तत्रापि सकृद् एकवारम् एवान्तर्-आहिता सती भागवतीं गतिं ददौ निरपराधेभ्यः खट्वाङ्गादिभ्यः स एव नित्यात्मा नित्य-मूर्तिश् चासौ सुखानुभूतिश् चाभिव्युदस् तम् आयश् चेति परमः स्वयं प्रभुः स्वयम् एव तद् अन्तः प्रविष्ट किं पुनः दद्याद् एवेति अर्थः । धात्रीवेश-मार्थेण पूतनाया धात्री-पदम् इवोदर-प्रवेश-मात्रेणाघस्यापि सारूप्यं स्वयं प्रभुत्वे लिङ्गं बोध्यम् ॥३९॥


॥ १०.१२.४० ॥

श्री-सूत उवाच—

इत्थं द्विजा यादव-देव-दत्तः

श्रुत्वा स्व-रातुश् चरितं विचित्रम् ।

पप्रच्छ भूयोऽपि तद् एव पुण्यं

वैयासकिं यन् निगृहीत-चेताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : येन श्रवणेन निगृहीतं वशी-कृतं चेतो यस्य सः ॥४०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यादव-देवेन श्री-कृष्णेन दत्तः परीक्षित् । स्वरातुः कृष्णस्य तद् एव श्री-कृष्ण-चरितम् एव । हे द्विजा इति । हरि-लीलामृत-पानम् एव द्विजाति-धर्म इति सम्बुद्धि अभिप्रायः ॥४०॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं स्वयम् एव श्री-बादरायणिना कथयितुम् आरभ्यमाणाया अपि कथाया मध्ये परमौत्सुक्येन महा-राजो\ऽपृच्छद् इत्य् आह—इत्थम् इति । यादव-देवेन श्री-भगवता दत्तो ब्रह्मात्रतो रक्षित्वा पाण्डवेभ्य\ऽर्पितः । यादव-देवेति पाण्डवैः सह सम्बन्धं च सूचयति । इत्य् आदयो भूयः प्रश्ने हेतवः । विचित्रं परमाद्भुतं वैयासकिं श्री-व्यास-नन्दनम् इति सर्व-वेदार्थ-तत्त्वाभिज्ञातोक्ता । यद् इति तैर् व्याख्यातम् । तत्र येन श्रवणेनेति श्रुत्वेति अस्य परामशार्द् इति,

यद् वा, येन चरितेन नितरां गृहीतं प्रेम-विशेषाविर्भावनेन परमोत्कण्ठया पीडितं चेतो यस्य सः । तथापि प्रश्ने हेतुः—पुण्यं शुभावहम् इति तत् पीडायास् तद् एकौषधत्वाद् इति भावः ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्राकस्मात् सूत उवाचेति तत् प्रसङ्गे परमानन्दस्य वैशिष्ट्यात् सोऽपि तत्र तौ तुष्टावेति अर्थः । येन चरितेन निगृहीतं तद् वियोगमय-प्रेमाविर्भावेन पीडितं चेतो यस्य सः तथापि प्रश्ने हेतुः पुण्यं शुभावहम् इति तत् पीडायास् तद् एकौषधत्वाद् इति भावः ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (कृष्ण-सन्दर्भः ५०]: किं च, इत्थं द्विजा इति इत्य्-आदि । येन श्रवणेन नितरां गृहीतं वशीकृतं चेतो यस्य सः ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे द्विजाः ! यादव-देवेन उत्तरायै युधिष्ठिराय वा दत्तः परीक्षित् स्वस्य राता गृहीता यः श्री-कृष्णस् तस्य येन श्रवणेन नितरां गृहीतं वशीकृतं चेतो यस्य सः ॥४०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हे द्विज्ञा ! यादव-देवेन कृष्णेनात्तरायै दत्तः परीक्षित् स्वरातुर् आत्मपदस्य तस्य विचित्रं चरितं श्रुत्वा तद् एव भूयोऽपि पप्रच्छुः यच् छ्रवणेन निगृहीतं वशीकृतं चेता यस्य सः ॥४०॥


॥ १०.१२.४१ ॥

श्री-राजोवाच—

ब्रह्मन् कालान्तर-कृतं तत्-कालीनं कथं भवेत् ।

यत् कौमारे हरि-कृतं जगुः पौगण्डकेऽर्भकाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कालान्तरे कौमारे कृतं पौगण्डके कथं ज्ञात्वोचुर् इत्य् अर्थः ॥४१.४३॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । पूर्व-कालिकस्य पर-कालिकत्व-सम्भवाद् इति भावः । ब्रह्मन्न् इति सर्वज्ञताम् आह ॥४१॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कालान्तर-कृतं पूर्व-कालीनं सद्य-स्तनं कथं सम्भवेत्, तद् एवाह—यद् इति । एतच् च दुर्घटम् इति भवतावगम्यत एवेति सम्बोधयति—ब्रह्मन् साक्षाद्-वेद-रूपेति ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कालान्तर-कृतं पूर्व-कालीनं कर्म तत् कालीनं सद्यः काल-दृष्टं कथं सम्भवेत् ? तद् एवाह—यद् इति । यत् कौमारके हरिणा कृतं तत् पौगण्ड-कृतम् इति कथम् ऊचुः ? टीकायां च पौगण्डके कृतम् इति कथं ज्ञात्वोचुर् इत्य् अन्वयः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कालान्तर-कृतं पूर्व-काल-निष्पादितं कर्म तत्-कालीनं सद्यः काल-दृष्टं कथं भवेत् ? तद् एवाह—यद् इति । पौगण्डके अद्यैव हरि-कृतम् इदं कर्मेति कथम् ऊचुर् इत्य् अर्थः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालान्तर-कृतं पूर्व-काल-निष्पादितं कर्म तत्-कालीनं सद्यः काल-दृष्टं कथं भवेत् ? तद् एवाह—यद् इति । पौगण्डके अद्यैव हरि-कृतम् इदं कर्मेति कथम् ऊचुर् इत्य् अर्थः ॥४१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कालान्तरे पूर्वकृतं कर्म तत्-कालीनं सद्यः काल-दृष्टं कथं भवेत् तद् एवाह यद् इति ॥४१॥


॥ १०.१२.४२ ॥

तद् ब्रूहि मे महा-योगिन् परं कौतूहलं गुरो ।

नूनम् एतद् धरेर् एव माया भवति नान्यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनागतम् अतीतं च सम्यक्पश्यन्ति योगिनः इत्य् उक्तेः । सर्वं वर्णयितुं भवान् समर्थोस्तीत्य् आह—हे महा-योगिन्न् इति । तत् तस्माद् ब्रूहि यतः परं कौतूहलम् आश्चर्यम् । एतत् पूर्व-कालिकस्य परमालिकत्वम् । अन्यथा मायां दुर्घट-घटनाशक्तिं विना ॥४२॥

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथं सम्भवेत् ? तत् तत् प्रकारम् इत्य् अर्थः । यतः परमं कौतुहल-मात्रास्माकं श्रवणौत्सुक्यं सन्देहो वा । यद् वा, तत्-कौतुहलम् आश्चर्यं ब्रूहि व्युत्पादयेति अर्थः । महोगिन् । परम-भक्ति-युक्तेति श्री-भगवद्-वृतं तवाज्ञातं न किञ्चिद् अस्तीति भावः ।

ननु, परम-गुह्यम् एतत् ? तत्राह—हे गुरो ! उपदेष्टुः किञ्चिद्-गोप्यं शिष्ये नासीति भावः । नूनं वितर्के निश्चये वा । एतत् कौतुहलं तेषां तादृश-वचनं वा । मायेति अभेदोक्तिर् अत्यन्त-मायिकत्व-विवक्षया । हरेर् इति मायया सर्व-विचार-हरणाभिप्रायेणैवेति अन्य-माया निरस्ता । तद् एव द्रढ्यति—नान्यथेति, तन्मायां विना न सम्भवेद् इत्य् अर्थः, गोप-कुमाराणां तेषां भ्रमादि अस्म्भवात् ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् इति कथं सम्भवेत् तत् प्रकारम् इत्य् अर्थः । कौतूहलं कौतुक-जनकम् इत्य् अर्थः । महा-योगिन् ! परम-भक्ति-युक्तेति श्री-भगवद्-वृत्तं तया ज्ञातं न किञ्चिद् अस्तीति भावः ।

ननु, परम-गुह्यम् एतत् तत्राह—हे गुरो ! उपदेष्टुः किञ्चिद् गोप्यं शिष्ये नास्तीति भावः स्वयम् एव सिद्धान्तं तर्कयति एतत् तेषां तादृशं दर्शन-भानं माया-दुर्घट-घटनी शक्तिः हरेर् इति मायया सर्व-विचार-हरणाभिप्रायेण एवेति अन्य-माया निरस्ता, तद् एव द्रडयति-नान्यथा तन्मायां विना न सम्भवेद् इत्य् अर्थः । गोप-कुमाराणां तेषाम् अन्यतो भ्रमादि असम्भवात् ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : हरेर् एव माया दुर्घट-घटना शक्ति नान्यस्य तत्र तद्-अशक्तेः ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माया दुर्घट-घटणा पटीयसी शक्तिः हरेर् इत्य् अन्य-**माया-**निरस्ता योगमायेति अर्थः । तयैव भगवन्-नित्य-परिजनानां मोहन-सम्भवात् ॥४२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एतद् धरेर् माया परांशरूपा योगो शक्तिर् भवति तयैव तत्-पार्षदानां मोह-सम्भवात् ॥४२॥


॥ १०.१२.४३ ॥

वयं धन्यतमा लोके गुरोऽपि क्षत्र-बन्धवः ।

यत् पिबामो मुहुस् त्वत्तः पुण्यं कृष्ण-कथामृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षत्र-**बन्धवोपीति सम्बन्धः । यत् यतः । श्रवणार्थम् अतौत्सुक्येन गुरुं प्रोत्साहयति—वयम् इति । बहुत्वं बन्धु-वर्गापेक्षया क्षत्र-बन्धवः क्षत्रियाधमा अपि एतच् चात्यन्तविनयात् तत्र गुण-विशेषं दर्शयति—त्वत्त इति । हे गुरो त्वच् छिष्यत्वेनैव धन्याः कृतार्थाः विशेषतश् च त्वत्तः कृष्ण-कथामृत-पानेन धन्यतराः मुहुः पानेन च धन्यतमा इत्य् अर्थः ॥४३॥ विश्वनाथ

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रवणार्थम् अति औत्सुक्येन गुरुं प्रोत्साहयति—वयम् इति, बहुत्वं बन्धु-वर्गापेक्षया । किं वा, तच् छिष्यत्वादिनात्मनो बहुमानाद् अपि क्षत्र-बन्धवः क्षत्रियाधमा अपि एतच् चात्यन्त-विनयात् पुण्यं मनोज्ञं तत्र गुण-विशेषं बोधयति । त्वत्त इति हे गुरो ! त्वच् छिष्यत्वेनैव धन्याः कृतार्था विशेषतश् च त्वत्तः कृष्ण-कथामृत-पणेन धन्यतराः, मुहुर् मुहुः पानेन च धन्यतमा इत्य् अर्थः ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रवणार्थम् अत्यौत्सुक्येन गुरुं प्रोत्साहयति—वयम् इति बहुत्वं बन्धु-वर्गापेक्षया अपि किं वा, तच् छिष्यादिनात्मनो बहुत्वम् आनात् क्षत्र-बन्धवः क्षत्रियाधमा अपि एतच् चात्यन्त-विनयात् पुण्यं मनोज्ञं तत्र गुण-विशेषं बोधयति—त्वत्त इति । हे गुरो ! त्वच् छिष्यत्वेनैव धन्याः कृतार्थाः विशेषतश् च त्वत्तः श्री-कृष्ण-कथामृत-पानेन धन्यतराः मुहुः पानेन च धन्यतमा इत्य् अर्थः ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे गुरो इति मम त्वच् छिष्यत्वात् ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अपि उत [भा।पु। १.१.८] इति विधेर् अवश्यवक्तव्यत्वं व्यञ्जितं पिबाम इति स्वासक्ति-व्यञ्जनया स्वस्य स्निग्धत्वं च ॥४३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हे गुरोः ! **क्षत्र-**बन्धवोऽपि वयं धन्यतमाः ॥४३॥


१०.१२.४४ ॥

श्री-सूत उवाच—

इत्थं स्म पृष्टः स तु बादरायणिस्

तत्-स्मारितानन्त-हृताखिलेन्द्रियः ।

कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः

प्रत्याह तं भागवतोत्तमोत्तम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेन यः स्मारितोऽनन्तस् तेन हृतानि अखिलेन्द्रियाणि यस्य तथाभूतोऽपि कथञ्चिल् लब्ध-बहिर्-दृष्टिः । हे भागवतोत्तमोत्तम ! हे शौनक ! ॥४४॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हृतानि अन्तर्मुखी-कृतानि । तथा-भूतोऽपि हरि-स्मृत्य्-अन्तर्-मुखेन्द्रियोऽपि । कथञ्चिन् महता यत्नेन कृच्छ्राद् उच्चैः करताल-शङ्ख-भेरी-दुन्दुभि-निशानादि-वाद्य-युक्त-कीर्तनोद्घोषैर् बहुल-प्रयासेन लब्ध-बहिर्-दृशिर् जातेन्द्रिय-बहिर् वृत्तिर् इत्य् अर्थः । पुनर् इत्य् अनेन पूर्वम् अपि वारं वारम् ईदृशो जातो\ऽस्ति इति बोध्यते । तत्र तत्रैव "तात" इति वारं वारं सम्बोधनम् इत्य् अभिज्ञा आहुः । तद्-अर्थे श्री-परीक्षिता महा-व्यग्रेण सता निजान्तिके तत्-तद्-वाक्यादि-श्री-कृष्ण-कीर्तन-सामग्री-श्री-जनमेजयतो रक्षितास्तीति आख्यायिका प्रसिद्धा । शनैर् इति तदानीम् अनुवर्तमानेन प्रेम-भरेणाक्रान्तत्वात् । हे भागवतोत्तमोत्तम ! इति । परम-गुह्यम् अपि श्रोतुम् अर्हर्तीति भावः । भागवताः साधरण्येन हरि-भक्तास् तद् उत्तमास् तच्-चरिताकर्णन-परास् तद्-उत्तमाः पौनः-पुन्येन तद् विषयकानुयोगेन श्रवणेऽलं-बुद्धि-शून्याः ।

सामान्येन हरौ भक्तः प्रोक्तो भागवतो बुधैः ।

तद्-ईहा-श्रुति-संयुक्ता विप्रा भागवतोत्तमाः ।

मुहुर् मुहुः पृच्छति यो मुरारे

लीलां समस्ताघ-हरी प्रसक्तः ।

सदा ह्य् अलं धीर-हितोऽत्र वाच्यः

स ब्राह्मणो भागवतोत्तमोत्तमः ॥ इति ब्रह्म-संहितोक्तेः ॥४४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

———————————————————————————————————————

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बादरायणिर् इति पितृ-नाम्नोल्लेखात् तस्यापि नन्दनत्वेन माहात्म्य-विशेषः सूचितः । अत एव तेन तदीय-प्रश्न-विशेषेण स्मारितस् तत्-तद्-विशेषेण हृदयं प्रापितोऽनन्तः शाद्वल-जेमनादि-ब्रह्म-स्तूयमानता-पर्यन्तानन्तैश्वर्य-माधुरीकः कृष्णः, तेन हृताखिलेन्द्रियः प्रेम-भरेण तद्-एक-परिस्फूर्त्या लीन-सर्वेन्द्रिय-वृत्तिर् इत्य् अर्थः । अयं प्रमोद-मोहानुभावः प्रलयाख्यः कम्प-पुलकादिवत् प्रेम-विकार-विशेषो ज्ञेयः ।

"संस्मारित" इति क्वचित् पाठः, तथापि स एवार्थः । स च स्वाम्य्-असमत्तः, चित्-सुखस्य तु सम्मतः । कृच्छ्रात् उच्चैः कर-ताल-शङ्ख-भेरी-दुन्दुभि-निशाणादि-वाद्य-युक्त-कीर्तनोद्घोषणैर् बहुल-प्रयासेन लब्ध-बहिर्-दृशिः जातेन्द्रिय-बहिर्-वृत्तिर् इत्य् अर्थः । पुनर् इत्य् अनेन पूर्वम् अपि वारं वारम् ईदृशो जातोऽस्तीति बोध्यते । तत्र तत्रैव "तात" इति वारं वारं सम्बोधनम् इत्य् अभिज्ञाः आहुः, तद्-अर्थं श्री-परीक्षिता महा-व्यग्रेण सता निजान्तिके तत्-तद्-वाद्यादि श्री-कृष्ण-कीर्तन-सामग्री श्री-जनमेजयतो रक्षितास्तीत्य्-आख्यायिका प्रसिद्धा । शनैर् इति तदानीम् अप्य् अनुवर्तमानेन प्रेम-भरेणाक्रान्तत्वात् । हे भागवतोत्तमोत्तम ! इति तत्-परम-गुह्यम् अपि श्रोतुम् अर्हसीति भावः । क्वचित् स्वाम्य्-असमत्तो द्वितीयान्त-पाठश् चित्-सुख-सम्मतः । ततश् च प्रतिवचने हेतुर् ज्ञेयः ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बादरायणिर् बदरिकाश्रमे महा-तपसा श्री-व्यासाज् जात इति माहात्म्य-विशेषः सूचितः । अत एव तेन श्री-कृष्ण-कथा-रसिकेन श्री-परीक्षिता तदीय-प्रश्न-विशेषेण वा स्मारितो विशेषतो हृदयं प्रापितोऽनन्तोऽपरिच्छिन्न-सुख-रूपः कृष्णः ।

यद् वा, वक्ष्यमाण-वत्स-बालादि-रूप-धारणादिना अनन्तः । यद् वा, स शाद्वल-जेमनादि-अनिर्वचनीय-लीला-रस-सिन्धुश् चासौ स्मारितश् च योऽनन्तोऽपरिच्छिन्न-माहात्म्यः श्री-कृष्णस् तेन हृताखिलेन्द्रियः प्रेम-भरेण तद्-एक-परिस्फूर्त्या लीन-सर्वेन्द्रिय-बहिर्-वृत्तिर् इत्य् अर्थः । अयं प्रलयाख्यः कम्प-पुलकादिवत् प्रेम-विकार-विशेषो ज्ञेयः

"संस्मारित" इति क्वचित् पाठः, तत्रापि स एवार्थः । कृच्छ्रात् उच्चैः कर-ताल-शङ्ख-भेरी-दुन्दुभि-निशाणादि-वाद्य-युक्त-कीर्तनोद्घोषणैर् बहु-प्रयासेन लब्ध-बहिर्-दृशिः जातेन्द्रिय-बहिर्-वृत्तिर् इत्य् अर्थः । पुनर् इत्य् अनेन पूर्वम् अपि वारं वारम् ईदृशो जातोऽस्तीति बोध्यते । तत्र तत्रैव "तात" इति वारं वारं सम्बोधनम् इत्य् अभिज्ञा आहुः, तद्-अर्थं च श्री-परीक्षिता महा-व्यग्रेण सता निजान्तिके तत्-तद्-वाद्यादि श्री-कृष्ण-कीर्तन-सामग्री-श्री-जनमेजयतो रक्षितास्तीति आख्यायिका प्रसिद्धा । शनैर् इति तदानीम् अप्य् अनुवर्तमानेन प्रेम-भरेणाक्रान्तत्वात् । हे भागवतोत्तमोत्तम इति तत्-परम-गुह्यं श्रोतुम् अर्हसीति भावः । क्वचित् द्वितीयान्त-पाठस् ततश् च प्रतिवचने हेतुर् ज्ञेयः ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (कृष्ण-सन्दर्भः ५३) : अनन्तः प्रकटित-पूर्णैश्वर्यः श्री-कृष्णः । सर्वदा तेन स्मर्यमाणेऽपि तस्मिन् प्रतिक्षणं नव्यत्वेन तत्-स्मारितेति उक्तम् ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अनन्तः शाद्वल-जेमानादिकम् आरभ्य ब्रह्मणः स्तूयमान-तात्पर्यं प्रकाशिते अनन्तैश्वर्य-माधुरीकः ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृच्छ्रात् उच्चैर् भगवन्-नाम-कीर्तनोद्घोषैः तत्रत्य-नारद-व्यासादि-मुनि-कृतैर् अतियत्न-भराद् इत्य् अर्थः । हे भागवतोत्तमोत्तम शौनक ! ॥४४॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

दशमे द्वादशो\ऽध्यायः सङ्गतः सङ्गत सताम् ॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तेन तत्-प्रश्नेन स्मारितः स्मृति-पथं प्रापितो अनन्तः शाद्वल-जेमनादि-ब्रह्म-स्तूयमान-तात्पर्यन्तानन्त-माधुर्यैश्वर्य कृष्ण-स्नेहेन हृताखिलेन्द्रियः प्रेम्णा तद्-एक-स्फूर्त्या विलीन-सर्वेन्द्रिय-वृत्तिर् इति ज्ञान-रूपः प्रेम-मोहोऽभूद् इति बोध्यम् । कृच्छ्राद् उच्चैर् भगवन्-नाम-कीर्तन-शङ्ख-दुन्दुभि-नाद-रूपात् प्रयत्नाद् इत्य् अर्थः ॥४४॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे श्री-सुदर्शन-

सूरिकृत-शक-पक्षीये द्वदशोऽध्यायः ।

॥१२॥


(१०.१३)


  1. यदा ↩︎

  2. सोऽयं इत्य्-आद्य्-अतिरिक्त-पाठः ख-घ-च-करलिपिषु लभ्यते ॥ ↩︎

  3. अतो ↩︎

  4. कथनीयः ↩︎

  5. सावकच् इति पाथान्तरम् ↩︎

  6. वात्याग्ने ↩︎

  7. फल-दानेऽपि ↩︎

  8. मणि-हरणाच्  ↩︎

  9. विशिष्ट ↩︎

  10. वाद्यधरा विद्याधरादयः, वारि-धारा इति वा पाठः ↩︎