गोपानां गोकुलं परित्यज्य वृन्दावने गमनं, तत्र श्री-कृष्ण-द्वारा वत्सासुर-वृकासुरयोर् वधः ।
॥ १०.११.१ ॥
श्री-शुक उवाच—
गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् ।
तत्राजग्मुः कुरु-श्रेष्ठ निर्घात-भय-शङ्किताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
एकादशे समागत्य वृन्दावनम् अथार्भकैः ।
वत्सान् पालयतानेन हतौ वत्स-बकासुरौ ॥
निर्घातो वज्र-पात इति भयेन शङ्किताः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्भकैः सुबल-स्तोककृष्णादिभिः । अनेन श्रेष्ठकेन ॥ शङ्किता जात-शङ्काः । श्री-नन्दादि-त्रासावेशेन ततो रक्षितम् इव सम्बोधनं—हे कुरु-श्रेष्ठ ! इति । यद् वा, अनुचराणां गोपानां किङ्कराव् अनुजानीहि । एषां किङ्करं कृत्वा अत्रैव रक्षेत्य् अर्थः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पततोर् द्रुमयोः सम्बन्धिनम् । यद् वा, पततोः सतोः रवं निर्घात-तुल्यं महा-शब्दं दूराच् छ्रुत्वा तत्-स्थाने आगता आवासाद् बहिः-प्रदेशे तयोर् वृत्तेस् तत्र श्री-यशोदादि-गोपीनां शीघ्र-गत्य्-असम्भवात् । किं वा, पुंसां मुख्यत्वात् तेषाम् एवादौ गमनम् उक्तं, पश्चात् ता अभ्यागता इति ज्ञेयम् । निर्घातो निरभ्र-गर्जितम् उत्पात-विशेषः । हे कुरु-श्रेष्ठ ! इति कुरु-वंश-रक्षा-हेतोः परम-भागवतस्य तव क्षेमाय सदा परम-व्यग्रास् त्वत्-पितामहा यथा स्नेह-भरेण विविध-शङ्काकुला भवन्ति, तद्वद् इति भावः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्राजग्मुर् इति । तत्र गमनाय द्रुतं प्रतस्थुर् इत्य् अर्थः । निर्घातो निरभ्र-गर्जितम् उत्पात-विशेषः । भयं दैत्यादिभ्यः ताभ्याम् सन्दिग्धाः, यतो मूर्च्छितत्वाद् एव निकट-स्थानां व्रजेश्वरादीनां प्रथमतम् आगमनं न जातम् इति ज्ञेयम्। हे कुरु-श्रेष्ठ ! इति श्री-नन्दादि-त्रासावेशेन सम्बोधनं, ततो रक्षणार्थम् इव ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
एकादशे हरेर् मोक्षः फल-क्रेय-कथादिकम् ।
वृन्दावनागमोत्साहं वनं वत्स-बकार्दनम् ॥१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
एकादशे नन्दसूनोर् मोक्षो वृन्दावने गमः ।
सुप्रीतिर् वत्स-रक्षा च तथा वत्स-बक-क्षयः ॥
निर्घातः विद्युत्-पातः ॥२॥
॥ १०.११.२-३ ॥
भूम्यां निपतितौ तत्र ददृशुर् यमलार्जुनौ ।
बभ्रमुस् तद् अविज्ञाय लक्ष्यं पतन-कारणम् ॥
उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् ।
कस्येदं कुत आश्चर्यम् उत्पात इति कातराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तल् लक्ष्यं प्रत्यक्षतः पुरतो दृश्यम् अपि पतन-कारणम् अविज्ञाय बभ्रमुः ॥२॥ लक्ष्यं कारणं दर्शयति—उलूखलम् इति । भ्रम-कारणम् आह—कस्येदं राक्षसादेः कर्म ? कुतो वा कारणाद् आश्चर्यम् उत्पात इति कातरा भीताः सन्तो बभ्रमुर् इत्य् अर्थः ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पतन-कारणं तच् छ्री-कृष्ण-रूपं लक्ष्यं साक्षान् नेत्र-गोचरम् अपि बभ्रमुः । "अहो भूमि-कम्पातिबल-वायु-चलनादि विना कथम् एतौ पेततुः ?" इति भ्रान्तिं जग्मुः ॥२॥ इत्य् अर्थ इति—पूर्वेण सम्बन्धोऽत्र क्रिया-पदेन कार्य इत्य् अर्थः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नितराम् उन्मूलनादिना पतितौ । अन्यत् तैर् व्याख्यातम् । यद् वा, तत् तत्र लक्ष्यं पतन-कारणत्वेन लक्षयितुम् योग्यम् अप्य् अविज्ञाय अनालक्ष्य बभ्रमुस् तत्-कारणं निर्धारयितुम् न शेकुर् इत्य् अर्थः । तथा च श्री-हरि-वंशे—
केनेमौ पातितौ वृक्षौ घोषस्यायतनोपमौ ॥
विना वातं विना वर्षं विद्युत्-प्रपतनं विना ।
विना हस्ति-कृतं दोषं केनेमौ पातितौ द्रुमौ ॥ [ह।वं। २.७.२८-२९] इति ॥३॥
लक्ष्यत्व-प्रकारम् आह—उलूखलम् इति । बालकं च तत्र ददृशुर् इति पूर्वेणैवान्वयः । विकर्षन्तं बलाद् आकृष्य नयन्तम् । एतच् चाबलवत्त्व-बोधनेन स्वस्यैश्वर्याच्छादनार्थम् उलूखल-विकर्षणेन उलूखलस्य च तस्मिन्न् एव दाम्ना बन्धनेन । च-काराद् द्वयोर् मध्यतस् तन्-निःसरण-चिह्न-दर्शनेन चेत्य्-आदि-लक्षणैर् इत्य् अर्थः । तथाप्य् अविज्ञाने हेतुर् बालकम् इत्य् अल्पार्थे कः, अतिशिशोः, तादृश-कर्मासम्भवात् । तच् चाग्रे व्यक्तं भावि । इदम् आश्चर्यम् अकस्मान् महा-वृक्ष-द्वय-निपातन-लक्षणं कस्य केन कृतम् ? इत्य् अर्थः । ननु देवेन दैत्येन वा केनचिद् इति चेत् तर्हि कुतः कम्साद् धेतोस् तम् अनालोकयन्त आहुः—उत्पातोऽयम् इत्य् अस्माद् उत्पात-ज्ञानात् कातरास् तद् बालकं प्रत्य् अनिष्ट-शङ्कया विह्वला बभूवुर् इत्य् अर्थः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भूम्याम् इत्य् अर्धकम् । नितराम् उन्मूलनादिना पतितौ ददृशुर् दूराद् इति शेषः । बभ्रमुर् इति सार्धकम् । उलूखलम् इत्य्-आदि-लक्षणं पतन-कारणं लक्ष्यं लक्षयितुम् शक्यम् अपि तद् अविज्ञाय दूरस्थत्वात् सम्भ्रान्तत्वाद् पतित-वृक्ष-शाखादि-व्यवहितत्वाच् च तत्र स्थितम् अननुभूय बभ्रमुः सन्दिदिहुः । तद्-अनुभवे सति प्रथमं तद्-अनिष्ट-शङ्कयाविष्टाः स्युः, न तु तद्-उत्पात-हेतु-जिज्ञासयेति । तथा तस्य तद्-धेतुत्वे ज्ञाते सति जिज्ञासा-परा न स्युर् इति च भावः ॥२॥
पुनश् च निकटे समागत्यापि शाखा-व्यवहितं तद् अदृष्टा "कस्य इदम् ?" इत्य्-आद्य् उक्त्वा कातरा बभूवुः । इदम् आश्चर्यं कस्य केन कृतम् ? इत्य् अर्थः । तथा च विवृतं तद् वाक्यं श्री-हरिवंशे—
केनेमौ पातितौ वृक्षौ घोषस्यायतनोपमौ ॥
विना वातं विना वर्षं विद्युत्-प्रपतनं विना ।
विना हस्ति-कृतं दोषं केनेमौ पातितौ द्रुमौ ॥ [ह।वं। २.७.२८-२९] इति ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ऊचुर् इत्य्-आदि-लक्षणं पतन-कारणं लक्ष्यं लक्षयितुं शक्यम् अपि तद् अविज्ञाय दूरस्थत्वात् सम्भ्रान्तत्वात् पतित-वृक्ष-शाखाव्यवहितत्वाच् च तत्र स्थितम् अननुभूय बभ्रमुः सन्दिदिहुः ॥२॥ पुनश् च निकटे समागत्यापि शाखादि-व्यवहितं तम् अदृष्ट्वा कस्येदम् इत्य्-आद्य् उक्त्वा कातरा बभूवुः, "इदम् आश्चर्यं कस्य केन कृतम् ?" इत्य् अर्थः ॥३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तयोः पतन-कारणं बालकं लक्ष्यं लक्षयितुम् शक्यम् अपि अविज्ञाय प्रेम्णा तादृश-योग्यताकत्वेनासम्भाव्या बभ्रमुः । भ्रमम् एवाह कस्येदं कर्म ? कुतो हेतोस् तस्माद् आश्चर्यम् एतद् उत्पात इति निश्चित्य कातरा भाग्येन विधात्रा बालः कृष्णो रक्षित इति व्याकुला बभूवुः ॥२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भूम्याम् इत्य् अर्धकं । ददृशुर् दूराद् एव बभ्रमुर् इति सार्धकम् । उलूखलम् इत्य्-आदि लक्षणम् । तयोः पतन-कारणं लक्ष्यं लक्षयितुं शक्यम् अपि तद् अविज्ञाय दूरस्थत्वात् पतित-वृक्ष-शाखादि-व्यवधानाच् च तत्र स्थितम् अननुभूय बभ्रमुः सन्दिदिहुः । अथान्तिके समागत्य शाखा-पत्र-व्यवहितं तम् अवीक्ष्य कस्येदम् इत्य् उक्त्वा कातरा बभूवुः । इदम् आश्चर्यं कर्म कस्य केन कृतम् ? इत्य् अर्थः । एवम् उक्तं श्री-हरि-वंशे—
केनेमौ पातितौ वृक्षौ घोषस्यायतनोपमौ ॥
विना वातं विना वर्षं विद्युत्-प्रपतनं विना ।
विना हस्ति-कृतं दोषं केनेमौ पातितौ द्रुमौ ॥ [ह।वं। २.७.२८-२९] इति ॥२-३॥
॥ १०.११.४ ॥
बाला ऊचुर् अनेनेति तिर्यग्-गतम् उलूखलम् ।
विकर्षता मध्यगेन पुरुषाव् अप्य् अचक्ष्महि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मध्यगेन वृक्षयोर् मध्य-गतेन । न केवलम् एतावत्, वृक्षाभ्यां निर्गतौ दिव्यौ पुरुषाव् अप्य् अचक्ष्महि दृष्टवन्तो वयम् इति ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विकर्षता अनेन हेतुना कर्त्रा वा निष्कासिताव् इति शेषः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनेन एतत् कृतम् इत्य् ऊचुः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च व्यवहितं तं दर्शयित्वा बालाः स्वयम् ऊचुः । किम् ऊचुः ? तत्राहुः—अनेन इति । सम्भ्रान्तत्वेन पूर्ण-वचनाशक्तेर् उत्पाटितम् इति तु नोचुः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च व्यवहितं तं दर्शयित्वा बालाः स्वयम् ऊचुः । किम् ऊचुः ? तत्राहुः—अनेन इति । सम्भ्रान्तत्वेन पूर्ण-वचनाशक्तेर् उत्पाटितम् इति तु नोचुः । कीदृशेन सता उत्पाटितम् इत्य् अपेक्षायाम् ऊचुः—तिर्यग्-गतम् उलूखलम् इत्य्-आदि एषाम् अमोहस् तु श्री-दामोदर-माधुर्य-वशेनेति गम्यते ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनेन कृष्णेन वृक्षयोर् मध्य-गतेन तिर्यग्-गतम् उलूखलं विकर्षता इत्य् एतन्-मात्रं बाला ऊचुः सम्भ्रान्तत्वेन पूर्ण-वचनाशक्तेर् "एताव् उत्पाटितौ" इति तु नोचुः । अविश्वसतस् तान् पुनर् ऊचुः—वृक्षाभ्याम् निर्गतौ द्वौ पुरुषाव् अप्य् अचक्ष्महि दृष्टवन्तो वयम् इति ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अनेन वृक्षौ पातितौ इति वृक्षाभ्याम् विनिर्गतौ पुरुषाव् अपि अचक्ष्महि दृष्टवन्तो वयम् इति च बाला ऊचुः ॥४॥
॥ १०.११.५ ॥
न ते तद्-उक्तं जगृहुर् न घटेतेति तस्य तत् ।
बालस्योत्पाटनं तर्वोः केचित् सन्दिग्ध-चेतसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : केवलं तार्किका न जगृहुर् एव । अन्ये तु सन्देह-युक्त-चित्ता बभूवुर् इति ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते गोपाः । तद्-उक्तं बालोक्तम् इति न जगृहुर् इति । किं तस्यातिबालस्य तत्-प्रत्यक्षं तर्वोर् वृक्षयोर् उत्पाटनं स-मूलयोर् भूमेर् निष्कासनं न घटेत सङ्गच्छेत्। तार्किकास् तर्क-प्रधानाः । अन्ये तु तार्किकेतरे तु पूर्व-कृत-पूतना-मारण-शकटोच्चाटनादिना तस्मिन् स-सन्देहा जाता अनेनैवैतत् कृतम् उत्पाततो वा जातम् इति द्विचित्ता बभूवुर् इति भावः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न जगृहुः श्री-नन्दादयः, स्नेह-भराक्रान्त-चित्तत्वात् । केचित् पुरोहितादयः, कदाचित् कथञ्चित् तेषु तद्-ऐश्वर्यस्यापि परिस्फुर्तेः । तथापि न तेषां प्रेम-भरो हीयते, प्रतुयुत तयासौ वर्धेत इवेति ज्ञेयम्, यथा खाण्डवाग्नेः परिवृद्धस्य सतो मेघ-वृष्टिर् अपि न निर्वापणे शक्तः, केवलं घृतासारवद्-वृद्धि-हेतुताम् एव प्राप्नोति । यद् वा, तस्मिन् सदा तेषां महा-बलिष्ठ-विविधाश्चर्यमयतया बुद्धेर् इति दिक् । तद् वृत्तं च स्नेह-भरेणातिबालत्वस्यैव मननात् सन्देह-निरासार्थं साक्षात् त्वम् एवेति किल न पप्रच्छुर् इति बोद्धव्यम् । किं वा, स्नेह-भराकुलतया प्रश्ने\ऽप्य् अशक्तेः । किं वा, बाल्येन तस्योक्ताव् अप्य् अविश्वासाद् इति दिक् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न जगृहुः श्री-नन्दादयः, ममतार्द्र-चित्तत्वात् । केचित् पूतनादि-नाशाल् लब्ध-व्याप्तिना तर्केण किञ्चित् कर्कशायमान-चित्ता विप्रा अपि स्वाभाविक-ममतार्द्रत्वेन सन्दिग्ध-चेतस एव बबूवुः । ततश् चागन्तुकेन आश्चर्य-करेण तत्-प्रभाव-ज्ञानेन तेषाम् अपि स्वाभाविक-स्नेह-वृद्धिर् एव जाता, लवणाकरस्य रसान्तरेणापि लवण-रस-वृद्धिवद् इति भावः । तद्-वृत्तं च स्नेह-भरेणातिबालत्वस्यैव मननात् सन्देह-निरासार्थं साक्षात् तम् एव ते किल न पप्रच्छुर् इति बोद्ध्व्यं । किं वा, स्नेह-भराकुलतया प्रश्ने\ऽप्य् अशक्तेः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेषु परम-वात्सल्य-स्वभावा न जगृहुः ॥५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते नन्दादयः तस्मिन् ममतार्द्र-चित्तत्वात् तत्-प्रभावाननुसन्धानात् तद्-उक्तं न जगृहुः । केचिद् अन्ये तु नारायण-समो गुणैः [भा।पु। १०.८.१९] इति गर्गोक्ति-स्मृत्या स्वाभाविक-प्रेमोदयेन च सन्दिग्ध-चेतस एव बभूवुः ॥५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.६ ॥
उलूखलं विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम् ।
विलोक्य नन्दः प्रहसद्-वदनो1 विमुमोच ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवन्-मायावि-मोहितस्य नन्दस्याचरितम् आह—उलूखलम् इति ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मायावि-मोहितत्वाच् छोकं न चक्रे, किं तु प्रहसन्-मुखस् तम् उलूखलात् पृथक् चकार । "अहो किम्-अर्थं बाल उलूखले बद्धः ?" इत्य् एवं वदन्न् इति भावः । "प्रहसद्-वदनम्" इति पाठो\ऽपि विष्णु-पुराणोक्त-रीत्या श्रेयान्—नवोद्गताल्प-दन्तांशु-सित-हासं च बालकम् [वि।पु। ५.६.१९] इति तस्य प्रकट-हासश् च पितृतो\ऽपि शङ्कमानस्य तत्-प्रसाद-दर्शनेन स पुनः पितृ-सन्तोषार्थं निज-दुःखाभाव-बोधनाय जात इति तोषिणी-कारः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उलूखलं विकर्षन्तम् इत्य्-आदि । प्रहसद्-वदन इत्य् अस्यायं भावः—"अहो यशोदाया असमीक्ष्य-कारिता, अस्यापीदृशं बन्धनम् अल्पीयस्य् अपराधे यया कृतम् !!" अथवा, "अस्यैवेदं कार्यम्, न मृषा वदन्ति शिशवः, यद् अयं परम-प्रभावः, गर्गेणोक्तत्वात्" ॥६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उलूखलम् इत्य्-आदेः पुनर् उक्तिर् विशेषतः श्री-नन्दस्य तादृश-लीला-दर्शनात्, तथोलूखलाकर्षणेन पुत्र-स्वास्थ्य-तद्-बलाधिक्याद्य्-अनुमानाच् च । प्रहास-हेतु-प्रहर्ष-बोधनार्थं । स्वं स्वीयम् आत्मजम् औरसं पुत्रम् । यद् वा, स्वं निज-धन-रूपम् आत्मजम् इति स्नेह-भर-विषयत्वम् उक्तम् । विशेषेण तत्-सर्वाङ्ग-निरीक्षण-पूर्वकं लोकयित्वा बाल्य-लीला-विशेष-दर्शनाच् च प्रहसद्-वदनः सन् पुत्रस्य बन्धन-दृष्ट्या महा-वृक्ष-पाताद् अनिष्ट-शङ्कया च श्री-यशोदां प्रत्य् अन्तः-क्रोधाद् वदनेत्य् उक्तिः । "प्रहसद्-वदनम्" इति द्वितीयान्त-पाठो वा । तथा च श्री-विष्णु-पुराणे—नवोद्गताल्प-दन्तांशु-सित-हासं च बालकम् [वि।पु। ५.६.१९] इति । तस्य प्रकट-हासश् च श्री-नन्द-सन्तोषार्थं निज-भय-दुःखाभाव-बोधनाय । विशेषत उलूखलाद् दाम्नश् च मुमोच । ह हर्षे ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-नन्दस्य वात्सल्य-प्राबल्यम् आह—उलूखलम् इति । उलूखलम् इत्य्-आदेः पुनर्-उक्तिर् विशेषतः श्री-नन्दस्य तादृश-लीला-दर्शनाय तथोलूखलाकर्षणेन पुत्र-स्वास्थ्य-तद्-बलाधिक्याद् अनुमानात् प्रहर्ष-बोधनार्थं । तथापि विलोक्य इति साङ्ग-प्रत्यङ्ग-विशेषेण दृष्ट्वेत्य् अर्थः । बद्धस्य भीतस्य बालस्योल्लासनार्थं प्रहसद्-वदनः सन् पुत्रस्य बन्धन-दृष्ट्या महा-वृक्ष-पाताद् अनिष्ट-शङ्कया च श्री-यशोदां प्रत्य् अन्तः-क्रोधाद् वदनेत्य् उक्तिः । "प्रहसद्-वदनम्" इति द्वितीयान्त-पाठो वा । तथा च श्री-विष्णु-पुराणे—नवोद्गताल्प-दन्तांशु-सित-हासं च बालकम् [वि।पु। ५.६.१९] इति तस्य प्रकट-हासश् च पितृतो\ऽपि शङ्कमानस्य तत्-प्रसाद-दर्शनेन स पुनः पितृ-सन्तोषार्थ-निज-भय-दुःखाभाव-बोधनाय च जातः । विशेषत उलूखलाद् दाम्नश् च मुमोच द्वितीय-बन्धनस्योलूखल-गतस्य प्रथम-मोचनीयत्वात् । ह हर्षे । एवं श्री-यशोदाया बन्धन-क्षमतावन् मोचन-क्षमतया श्री-नन्दस्यापि तादृशत्वं दर्शितम् । अत्र च बन्धन-दाम्नां बहुल्यं तैः प्रेमावेशेनैव न सम्भालितम् इति ज्ञेयम् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-व्रजेश्वरस्य परम-वात्सल्य-चेष्टाम् आह—उलूखलम् इति । विलोक्य इति साङ्ग-प्रत्यङ्ग-विशेषेण दृष्ट्वेत्य् अर्थः । प्रहसद्-वदन इति बालस्य भीतस्य भय-हानार्थं । "प्रहसद्-वदनम्" एव यस्य सः । अन्तस् तु स्वयम् अप्य् उद्विग्न इत्य् अर्थः । द्वितीयान्तः पाठो वा तस्य तेजस्वित्व-स्वभावाद् एव ॥६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विलोक्य विशेषेणाङ्ग-प्रत्यङ्ग-निर्बाधं दृष्ट्वा प्रहसद्-वदन इति "मत्-क्रोडाद् अपि यस्याः क्रोडं त्वम् अतिप्रियं मन्यसे, सा त्वज्-जननी त्वाम् अल्पापराधेनैव बध्नाति स्म । तत् त्वाम् अहं कथं मोचयामि ?" इत्य् उपालम्भन-द्योतकः प्रहासः ।
त्वं माययैव जीवानां बन्ध-मोक्षौ यथा व्यधाः ।
तथा त्वत्-पितरौ तौ ते प्रभो प्रेम्णैव चक्रतुः ॥६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.७ ॥
गोपीभिः स्तोभितोऽनृत्यद् भगवान् बालवत् क्वचित् ।
उद्गायति क्वचिन् मुग्धस् तद्-वशो दारु-यन्त्रवत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : “**ज्ञास्यन्ते माम्” इति शङ्कमानोऽतीव बाल्यम् अनुकरोति स्म तद् आह—गोपीभिर् इति । स्तोभितः कर-तालादिना प्रोत्साहितः ॥७॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : “**ज्ञास्यन्ते माम् अयं महत्-पुरुषः साक्षाद् अक्लिष्ट-कारित्वाद् इति गोपादयो बोधिष्यन्ते । एतन् माभूत्” इति शङ्कमानस् तेषां प्रीत्य्-अर्थम् अतीव-बाल्यं बाल-भावम् । तद् बाल-भावम् । बालवद् इत्य् उक्तेर् न तु स बालः, किं तु सर्व-कर्ता । मुग्धः सुन्दरः । तद्-वशो गोपी-वशः । तद्-वशत्वम् एवाह ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद्-वशो दारु-यन्त्रवद् इति “एहि गच्छ, पत, उत्तिष्ठ, वद, मौनं समाचर” इतिवत् भक्त-वशतैव तस्यैश्वर्यम् ॥७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं भक्त-वश्यतां प्रदर्शयन् परम-स्निग्धाया मातुः पितुश् च सुख-विशेषं विस्तार्य श्री-गोपीनां परमानन्दं व्यतनोद् इत्य् आह—गोपीभिर् इति द्वाभ्याम् । प्रायो जरतीभिर् भगवान् अखिलैश्वर्य-सम्पूर्णो\ऽपि बालवद् अन्यो बालो यथा, तद्वद् इत्य् अत्यन्त-बाल्य-लीलाभिनिवेशेन निजैश्वर्य-विस्मृतिः सूचिता । “पालक” इति पाठे बाल्य-लीलानुरूपम् एव तद् इति भावः । ततश् च भगवान् इति नृत्यादौ नैपुण्य-विशेषस् तेन चैश्वर्य-विशेष एव सूचितः । यद् वा, बालानां कं सुखं यस्मात् स इति वयस्यानाम् आपि सन्तोषार्थम् इति भावः । क्वचिद् इत्य् अस्य मुग्ध इत्य् अनेनाप्य् अन्वयः—नृत्यादिकं किञ्चिद् अजानन्न् इव कदाचिन् मुग्ध-भावम् अपि दर्शयतीत्य् अर्थः । यद् वा, नृत्यादौ सर्वत्र सर्वथा सुन्दरो मनोरम इत्य् अर्थः । तथा नृत्यादौ हेतुः—दारु-यन्त्रं तासाम् एव क्रीडोपकरणं तद्-विद्योपजीविनां वा दारु-निर्मिता सूत्र-सञ्चारादि-शिल्पतो नृत्यादि-परा पुत्तलिका, तद्वत् । तासां वशो\ऽधीन इति ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलम् असौ परम-स्निग्धाया मातुः पितुश् चैवं प्रेम-वशताम् आपन्नः, अपि त्व् अन्यासां अपीति दर्शयन्न् अतिप्राक्तन-बाल्य-चरितम् आह—गोपीभिर् इति द्वाभ्याम् । प्रायो जरतीभिः भगवान् अखिलैश्वर्य-सम्पूर्णोऽपि बालवत् अन्यो बालो यथा, तद्वद् । इति तत् प्रेम-रस-वश-बाल्य-लीलाभिनिवेशेण निजैश्वर्य-विस्मृतिः सूचिता । “बालक” इति पाठे बाल्य-लीलानुरूपम् एव तद् इति भावः । क्वचिद् इत्य् अस्य मुग्ध इत्य् अनेनाप्य् अन्वयः अतिबालत्वेन नृत्यादिकं किञ्चिद् अजानन् क्वचिन् मुग्ध-भावम् अपि दर्शयतीत्य् अर्थः । यद् वा, नृत्यादौ सर्वत्र सर्वथा मनोरम इत्य् अर्थः । तथा नृत्यादौ हेतुः दारु-यन्त्रं सूत्र-सञ्चारादि-शिल्पतो नृत्यादि-परा पुत्रिका, तद्वत् । तासां वशः अधीन इति ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्यासाम् अपि गोपीनां तस्मिन् प्रेम-वश्यतां दर्शयन् प्राचीन-बाल्य-लीलाम् आह—गोपीभिर् इति द्वाभ्याम् ।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पित्रोस् तयोः सौभाग्य-महिमा केन वक्तुं शक्यस् तदीय-व्रज-वासि-मात्रस्याप्य् अतिमात्र-वश्यो ब्रह्मादि-वशीकर्तापि कृष्ण इत्य् आह—सार्ध-त्रयोदशभिः । स्तोभितः “यदि नृत्यसि, तदा तुभ्यं खण्ड-लड्डुकं दास्यामि” इति प्रोत्साहितः । बालवत् यथान्यः प्राकृतो बालः, तद्वद् एवेत्य् अर्थः । मुग्धस् तासां प्रेम्णैव निजैश्वर्याननुसन्धानात् । दारु-यन्त्रं सूत्र-प्रोत-पुत्तलिका ॥७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.८ ॥
बिभर्ति क्वचिद् आज्ञप्तः पीठकोन्मान-पादुकम् ।
बाहु-क्षेपं च कुरुते तद्-विदां2 च प्रीतिम् आवहन् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : “**इदम् आनय” इत्य् आज्ञप्त आनेतुम् असमर्थ इव बिभर्ति केवलं पीठादि बाहु-क्षेपं कर-चालनं च । तद्-विदां च इति च-कारान्वयः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पीठकं काष्ठ-पीठम् । उन्मानं प्रस्थम् । पादुकं पाद-पीठं पाद-रक्षणं वा ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् प्रयोजनम् आह—स्वानां श्री-गोपीनां । किं वा, ताभिर् नर्तनादि-बाल्य-लीलया निज-भक्तानां सर्वेषां एव प्रितिम् आनन्दं प्रेमाणं वा सम्यग् उच्चैः प्रापयन्न् इति, “स्वानां च” इति पाठस् तेषां सम्मतः । "तद्-विदां च" इति च-कारस्यान्वय इति व्याख्यानात् । अत्र काश्चिद् बालाः, काश्चिच् च वृद्धा इति गोपीत्वेन सर्वा अप्य् एकत्रोक्ताः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बाहु-क्षेपं भुजौ मुहुर् उत्थाप्य पराक्रम-दर्शनं न केवलं तत्र तासाम् एव जातम्, अपि तु गोप-मात्राणाम् इत्य् आह—स्वानां ज्ञातीनाम् अविशेषेण तासां गोप-जातीनाम् इत्य् अर्थः । “स्वानां च प्रीतिम् आवहन्” इति पाठस् तेषां सम्मतः । तद्-विदां च इति च-कारस्यान्वयः इति व्याख्यानात् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : बाहु-क्षेपं भूजौ मुहुर् उत्थाप्य पराक्रम-दर्शनं । तत्र सर्वेषां गोपानाम् अप्य् आनन्दम् उदाहरति—स्वानां ज्ञातीनां गोप-जातीनाम् इत्य् अर्थः । अत एव ये केचिद् वृद्ध-भृत्या आसन्, तेषाम् अपि वश्यतेत्य् अर्थः ॥८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पीठक इति कियद् अस्य बलम् अभूद् इति जिज्ञासुभिः प्रथमं “हे कृष्ण ! पादुकाम् आनय” इति ततस् ततो\ऽधिक-भारम् उन्मानम् आनयेति ततस् ततो\ऽप्य् अधिक-भारं पीठकम् आनयेत्य् आज्ञप्त आदिष्टस् तत् तद् आनयन् बिभर्ति स्व-मृदुल-जठरोपरीत्य् अर्थः । बाहु-क्षेपं तत्र तत्र कर्मणि भुजौ मुहुर् उत्थाप्य स्व-पराकृअम-दर्शिणां स्वानां ज्ञातीनां ॥८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.९ ॥
दर्शयंस् तद्-विदां लोक आत्मनो भृत्य-वश्यताम् ।
व्रजस्योवाह वै हर्षं भगवान् बाल-चेष्टितैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् ऐश्वर्यं विदन्ति ये, तेषाम् । एवं व्रजस्य हर्षम् उवाह इति ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऐश्वर्यम् ईश्वर-भावम् । यद् वा, साक्षात् स्वयं भगवान् एवैषावतीर्ण इति जानतां नारदादीनाम् । उवाह प्राप ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रयोजनान्तरम् आह—दर्शयन्न् इति । तद्-विदां तं भगवन्तं विदन्तीति "भक्तानाम् एवाहं वश्यो नान्येषाम्" इति ज्ञान-परान् प्रति साक्षद् अबोधयन्न् इत्य् अर्थः । अयम् अपि प्रीत्य्-उद्वहने हेतु-विशेषो द्रष्टव्यः । एवं भक्ति-माहात्म्य-प्रदर्शन एव तात्पर्यम् उह्यम् । अन्याभिर् अपीदृशीभिर् बाल्य-लीलाभिर् व्रज-जनानां सर्वेषाम् एवानन्दं सदाकरोद् इत्य् आह—व्रजस्य इति । वै प्रसिद्धम् एवेति । तानि किं विस्तार्य कथयितव्यानीति भावः । एवं विविध-बहुलाद्भुत-बाल्य-चेष्टितान्य् अन्यान्य् अपि सन्तीति सूचितम् । तत् साकल्याकथने सिद्धान्तः प्राग् उक्त एव ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आनुषङ्गिकं प्रयोजनम् आह—दर्शयन्न् इति । तद् ऐश्वर्यम् एव विदन्ति न तु भृत्य-वश्यतां, ये तान् साक्षात् बोधयन्न् इत्य् अर्थः । अत्र भृत्य-शब्दस् तद्-ऐश्वर्य-मात्र-दर्शिनां भवानुवादेन स्वानाम् इति तु श्री-भगवतः अन्याभिर् अपीदृशीभिर् बाल्य-लीलाभिर् व्रज-जनानां सर्वेषाम् अप्य् आनन्दं सदाकरोत् इत्य् अहा—व्रजस्य इति । वै प्रसिद्धम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आनुषङ्गिकं प्रयोजनम् आह—दर्शयन्न् इति । केवलं गोप-जातीनाम् एव प्रीतिम् उदावहद् इत्य् आह—व्रजस्य इति तद्-वासिनः सर्वस्यैव ।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन केवलं ज्ञातीनाम् एव अपि तु सर्वेषाम् एव व्रज-वासिनां प्रीति-प्रदो वश्यत्वाद् इत्य् आह—दर्शयन्न् इति । तद्-विदां तद् ऐश्वर्य-विज्ञान् ब्रह्मादीन् इति नैतद्-अनुकरणत्वेन व्याख्येयम् ॥९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.१० ॥
क्रीणीहि भोः फलानीति श्रुत्वा सत्वरम् अच्युतः ।
फलार्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः परं प्रक्षिप्तः पाठो\ऽस्ति गोप-वृद्धा महोत्पातान् [१०.११.२१] इत्य् अतो\ऽर्वाक्, अतो न व्याख्यायते ॥१०॥
**
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुनर् औत्सुक्यातिशयेन तेषां किञ्चिद् आह—क्रीणीहि इति सार्ध-दशभिः । यद्य् अपि श्री-स्वामि-पादानाम् एते सम्मता न लक्ष्यन्ते, तैर् एषां किञ्चिद् अस्पर्शनात्, तथापि बहुल-पुस्तकेषु दृश्यमानत्वात् तथा [श्लोकानां] केषाञ्चित् श्री-चित्सुखेन [यति-वरेण] व्याख्यातत्वात् तत्त्व-वादिभिश् च धृतत्वात् रसमयत्वाच् च व्याख्यायन्ते ।
सर्वाणि फलानि साध्यानि प्रकर्षेण ददातीति तथा । सो\ऽपि पीलु-फलार्था सन् । सत्वरया अनेनैव च्युतानि धान्यानि यस्मात् कर-द्वयात् तत् । फलैः पीलु-फलैः ।
अत्रैवम् उन्नेयम्—फल-विक्रय-मात्रोपजीव्यया तया बहुलामूल्य-रत्नानि लब्ध्वा भयादिना सङ्गोप्य स्व-गृहं नीतानि । यद् वा, विचित्र-वर्ण-पीलु-फल-सादृश्येन तानि पीलु-फलानि मत्वा श्री-भगवद्-दर्शनेन परितृप्ता तान्य् अविक्रीयैव गृहे गत्वा परिचित्य निह्नत्य रक्षितानीति तद्-वार्ता व्रजे प्रसिद्धिम् अप्राप्ता केनापि नोद्भावितेति । एवं विक्रयणादिना व्रज-सम्बन्धेनान्यत्रत्यानाम् अपि प्रहर्षणम् उक्तम् ॥१०-११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् औत्सुक्यातिशयेन तासां किञ्चिद् आह—क्रीणीहि इति सार्ध-दशभिः । यद्य् अप्य् एते श्लोकास् तैर् नादृताः, तथापि पुस्तकेषु दृश्यमानत्वाच् चित्सुखेन तु किञ्चिद् व्याख्यातत्वात् तत्त्ववादिभिश् च धृतत्वात् रसमयत्वाच् च व्याख्यास्यान्ते । अत्र बहुत्र नाना-पाठत्व-नानाक्रमत्वे सत्य् अपि गौडादि-देशीय-सम्प्रदाय-दृष्ट्या क्रम-पाठ-विशेषौ ध्रियेते । तत्र स्वानां प्रीति-दातृत्वं किं वर्णनीयम् ? अहो तद्-दूर-वास-सम्बन्धेन पुलिन्द-जातीनाम् अपीत्य् आह द्वाभ्याम्—क्रीणीहि भोः फलानि इति ।
अच्युतः परिपूर्ण-सर्वार्थोऽपि फल-मात्रार्थी सर्व-फल-प्रदः सर्व-पुरुषार्थानां च प्रकृष्ट-दातापि धान्यम् आदाय धान्यम् एवादाय तत्रापि ययाव् एव, न तु स्वल्प-हस्त-धृतं स्वल्पम् एवेदम् इति विचारितवान् इति बाल्य-लीलावेशो दर्शितः । तत्र धान्यादानं पुरतस् तन्-मात्र-प्राप्तेः इति त्वरातिशयो दर्शितः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र क्रीणीहि इत्य्-आदयः श्लोका बहुविधा वर्तन्ते व्याख्याताश् च चित्सुखेन ॥१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेष्व् अतिनीचानां पुलिन्द-जातीनाम् अपि प्रीति-प्रद इत्य् आह—क्रीणीहि इति । अच्युतः परिपूर्णे\ऽपि फल-मात्रार्थी सर्व-फल-प्रदो ऽपि त्वरया पुरतः स्थित-धान्य-मात्र-प्राप्तेर् धान्याञ्जलिम् आदाय ययौ ॥।१०॥
**———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्व-पुर-वासिनां हर्षावहत्वम् उक्त्वा पुराद् बहिर् निवसन्तीना पुलिन्द-जातीनाम् अपि हर्षावहत्वम् आह—क्रीणीहि इति । सार्वज्ञाद् अच्युतो नन्द-सूनुर् अमृत-स्वादूनि सरूपाणि फलानि मद्-अर्थम् एतया नीतानीति विद्वान् सर्व-फल-प्रदो\ऽपि फलार्थी सत्वरश् चत्वर-स्थित-धान्य-राशेर् धान्याञ्जलिम् आदाय तद्-अन्तिकं ययौ ॥।१०॥
॥ १०.११.११ ॥
फल-विक्रयिणी तस्य च्युत-धान्य-कर-द्वयम् ।
फलैर् अपूरयद् रत्नैः फल-भाण्डम् अपूरि च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नोथिन्ग् हेरे छेच्क् प्रेविओउस्
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः किं वृत्तम् ? इति स-कौतुकं राजानं प्रत्य् आह—फल-विक्रयिणी इति । स-त्वरयानेन पथ्य् एव च्युतानि धान्यान्य् अपि यस्मात् तादृशम् अपि तत्-कर-द्वयं । फल-विक्रयिण्य् अपि उद्भूत-महा-स्नेहा फलैः रत्नाकारैः पील्व्-आदिभिर् अपूरयत् । तत्र च सर्वैर् इत्य् अपि ज्ञेयं । तस्य तत्र जात-लोभत्वेन वैभव-शक्तेः साहाय्यात् च्युत-धान्य-करत्वेऽपि तदीय-स्वाभाविक-सर्व-फल-प्रदत्व-शक्त्या तत्-सम्पत्तिर् अपि कृतेत्य् आह—रत्नैर् इति । स्वयम् आविर्भूतत्वात् तैर् एव कर्तृभिः । ततश् च तन्-माधुर्यावेश-विवशेन्द्रियतया तद् अज्ञातवती यावत् तद्-गृह-प्रवेशं स्थित्वा लाभालाभादिकं विस्मृत्य गृहम् एव जगामेति ज्ञेयं । सर्व-फल-प्रदं इत्य् अनेनोत्तर-काले\ऽपि तदा वेश-लक्षणा परम-फल-प्राप्तिर् अपि तस्याः सूचिता ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च तावन् मात्रम् अपि धान्यं तया प्राप्तम् इत्य् आह—च्युतेति । अभ्यन्तरात् त्वरया बहिर् निगमे वर्त्मन्य् एव सर्व-धान्यानि पतितानि । ततश् च द्वि-त्रि-मात्र-धान्य-युक्ते केवलञ्जलाव् एव नीयताम् इत्य् उक्त्वा फल-पात्रे न्यस्ते फल-विक्रयिण्य् अप्य् उद्भूत-स्नेह-फलैः पील्व्-आदिभिस् सर्वैर् एव अपूरयत् फलेषु तस्य जात-लोभत्वेन स्तोके\ऽपि तत्-कर-तल-द्वये तदीय-वैभव-शक्तेः साहाय्यात् । ततश् च रत्नैर् इति तदीय-सर्व-फल-प्रदत्व-शक्त्या तत्-प्रेम-पर्यन्ता सर्वैव सम्पत्तिर् अभूद् इति ज्ञेयम् ॥११॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सा फल-विक्रयिणी तद्-दर्शन-लब्ध-मनोरथाभ्यन्तरात् त्वरया गमनेन पथि च्युत-धान्य तस्य कर-द्वयम् अवशिष्टानि पञ्चषाणि धान्यानि फल-पात्रे निक्षिप्य देहीति प्रसारितं, फलैर् अपूरयत् फल-भाण्डं च रत्नैर् अपूरीत्य् आश्चर्यस् तस्य महिमा एतद्-आदीनां कन्याश् च कृष्णे परमानुराग-धवाः—क्वेमाः स्त्रियो वनचरीः इत्य्-आदि-वाक्येनोद्धवेन श्लाघिष्यन्ते ॥११॥
॥ १०.११.१२ ॥
सरित्-तीर-गतं कृष्णं भग्नार्जुनम् अथाह्वयत् ।
रामं च रोहिणी देवी क्रीडन्तं बालकैर् भृशम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ श्री-यशोदया परम-वात्सल्येन नित्यं क्रियमाणं पुत्र-लालनादिकम् उद्दिशन् दामोदर-लीलायाः क्रम-प्राप्तं दिनैक-कृत्यम् आह—सरिद् इत्य्-आदिना उदयम् इत्य् अन्तेन । अत्र पाठस् तत्-कृअमश् च विविधः, तत्र गौड-सत्-सम्प्रदाये पुस्तकानुसारेण व्याख्यायते—सरितः श्री-यमुनायास् तीरे गतम् । कुतः ? भग्नाव् अर्जुनौ येन, तम् । तयोस् तत्-तीर-वर्तित्वात् । यद् वा, तद्-भञ्जनानन्तर्य-मात्रापेक्षया तथोक्तम् । यद् वा, तादृश-क्रीडान्तर-शङ्कया । किं वा, तत्-कृईडा-श्रमेण क्षुधा-सम्भावनया कृष्णं क्रीडाकृष्ट-चित्तं भगवन्तम् आह्वयत् । रोहिणी तद्-भोग-साधनान्य् असक्तया श्री-यशोदयैव प्रेषितेति ज्ञेयम् । तथा कृष्णाह्वानेन रामाह्वानम् अप्य् ऊह्यम्, अन्योन्य-स्नेहेन द्वयोर् ऐक्यात् ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ श्री-यदोदायाः श्री-रोहिणीतोऽपि श्री-रामे\ऽपि वशीकारि वात्सल्यातिशयं दर्शयितुं श्री-यशोदया परम-वात्सल्येन नित्यं क्रियमाणं पुत्र-लालनादिकम् उद्दिश्यन् दामोदर-लीलायाः क्रम-प्राप्तं दिनैक-कृत्यम् आह—सरिद् इत्य्-आदिना उदयम् [१०.११.२०] इत्य् अन्तेन । सरित्-तीर-गतम् इति भग्नौ अर्जुनौ येन, तम् आह्वयद् इति वात्सल्येन तद्-अनुसन्धानाद् अनिष्टा शङ्का दर्शिता । कृष्णं क्रीडाविष्ट-चित्तम् । अथ इति कार्त्स्न्ये, सर्वैर् एव नामभिर् इत्य् अर्थः । रोहिणी तद्-भोजन-साधनात्यासक्त्या श्री-यशोदयैव प्रेषितेति ज्ञेयं । तथा च श्री-कृष्णाह्वानेन रामाह्वानम् अप्य् ऊह्यम् उत्तरानुरोधेन ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रोहिण्याः सकाशाद् अपि श्री-यशोदायाम् अतिवात्सल्यवत्यां राम-कृष्णाव् अतिस्नेह-वाशाव् इति दर्शयन् यमलार्जुन-भङ्गादिना एव लीलान्तरम् आह—सरित्-तीरे खेलनार्थं गतं कृष्णं रामं च उत्तर-वाच्यानुरोधात् तद्-भोजन-साधानासक्तया श्री-यशोदया प्रेषिता रोहिणीति कर्तृ-पदं ज्ञेयम् ॥१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : चरितान्तरम् आह—सरित्-तीरम् इत्य्-अर्धकम् । कृष्णं आह्वयत् रामं उत्तर-वाक्यानुरोधात् तद्-भोजन-सम्पनासक्तया यशोदया प्रेषिता । रोहिणीति कर्तृ-पदं बोध्यम् । तस्याः प्रेषणं तद्-दासीभिर् आह्वानेनागच्छेताम् इति भावः ॥१२॥
॥ १०.११.१३ ॥
नोपेयातां यदाहूतौ क्रीडा-सङ्गेन पुत्रकौ ।
यशोदां प्रेषयामास रोहिणी पुत्र-वत्सलाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् आहुतव् अपि पुत्रौ कृष्ण-रामौ यदा क्रीडायाम् आसङ्गेन आसक्त्या न समीपम् आगतौ, तदा यशोदां प्रेषयामास इति परम-सुस्निग्धतया हस्त-ग्रहणादिना तयोर् आनयने तस्या एव सामर्थ्यात् । किम् अर्थम् ? तद् आह—पुत्रयोर् वत्सला, तयोः स्नान-भोजनाद्य्-अर्थम् इति भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च नोपेयातां इति । एवम् आहूताव् अपि यशोदां प्रेषयामास इति । उभयत्रापि तस्या एव वात्सल्याधिक्यानुभवेन शीघ्र-तद्-आकर्षण-सामर्थ्य-निर्णयात् । किम् अर्थं ? तत्राह—पुत्रयोर् वत्सला सरित्-तीरे नानोपद्रव-शङ्कया तयोः स्नपन-भोजनेच्छया चेति भावः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यशोदां प्रेषयामास इति तस्या एवाधिक-वात्सल्यवत्यास् तद्-द्वयाकर्षण-सामर्थ्य-निर्णयात् ॥१३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तया आहुतव् अपि पुत्रकौ क्रीडासङ्गेन हेतुना नोपेयातां । तदा सा रोहिणी यशोदां प्रेषयामास इति तस्याः सकाशाद् अस्यां तद्-वात्सल्यातिशयो येन तौ तद्-वश्याव् इति सूच्यते । नन्व् एतयो राज-पत्न्योर् भवनान् निर्गत्य सरित्-तीर-पर्यन्त-गमनं कथम् ? इति चेत् तत्-प्रदेशस्य निर्जनस्य भवन-कक्षान्तर-तुल्यत्वात् पक्ष-द्वारेण तद्-आगमनं सुघटम् इति गृहाण । यत्र रमण-पुलिनं तत्-क्रीडा-स्थलं प्रसिद्धं । धूलि-धूसरिताङ्गस् त्वम् [१०.११.१८] इति वक्ष्यते ॥१३॥
॥ १०.११.१४ ॥
क्रीडन्तं सा सुतं बालैर् अतिवेलं सहाग्रजम् ।
यशोदाजोहवीत् कृष्णं पुत्र-स्नेह-स्नुत-स्तनी ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सा अनिर्वचनीय-पुत्र-स्नेहाक्रान्त-चित्ता बालैः सह अतिवेलं भृशम् । किं वा, वेलाम् अतिक्रान्तं क्रीडन्तं सुतं श्री-कृष्णम् अग्रजं च रामम् । यद् वा, सहाग्रजं साग्रजं वीक्ष्य अजोहवीद् आजुहाव ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च, क्रीडन्तं इति । अजोहवीत् पुनः पुनर् आजुहाव निकट-गमने पलायन-शङ्कया ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अजोहवीत् पुनः पुनर् आजुहाव निकट-गमने पलायन-शङ्कयेति दूरत एवेति भावः ॥१४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अतिवेलां वेलाम् अतिक्रम्य क्रीडन्तं अजोहवीत् पुनर् आह्वयत् अन्तिक-गमने पलायेतेति शङ्कया दूराद् एवेति भावः ॥१४॥
॥ १०.११.१५ ॥
कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब ।
अलं विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तो\ऽसि पुत्रक ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्ण कृष्ण इति वीप्सा दूरतः श्रवणाय । हे अरविन्दाक्ष ! हे तात ! इति स-लालन-सम्बोधनं शीघ्रागमनाय । असन्धिः प्लुत-प्रकृतिस्थत्वात् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्ण कृष्ण इति विप्सा दूरतः श्रवणाय निजाग्रह-व्यक्तये च । हे अरविन्दाक्ष ! हे तात इति स-लालनं सम्बोधनं शीघ्रागमनाय । असन्धिः प्लुत-प्रकृति-स्थत्वात् असंहिततया पाठात् । भयेऽपि कारणे सति यत् क्षुत्-क्षान्त इत्य् एवोक्तं । तत् तस्यामङ्गलत्वेन वक्तुम् अनिष्टत्वात् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कृष्ण कृष्णेति वीप्सा दूरतः श्रवणाय ॥१५॥
॥ १०.११.१६ ॥
हे रामागच्छ ताताशु सानुजः कुल-नन्दन3 ।
प्रातर् एव कृताहारस् तद् भवान् भोक्तुम् अर्हति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथप्य् अनायान्तम् अग्रजो मद्-वाक्य-प्रतिपालको बलाद् अनेष्यतीत्य् आशयेन श्री-बलदेवम् आह्वयति—हे राम इति, यतः कुल-नन्दनस् त्वम् इति स्व-पुत्रस्य श्रीघ्रागमनार्थम् ईर्ष्यां जनयति । अविसर्ग-पाठे\ऽपि सम्बोधनेन स एवार्थः । हे पुत्रक ! इति तस्मिन्न् अपि पुत्रवत् स्नेहाद् अनुकम्पायां कन् । श्लेषेण पुत्रस्य श्री-कृष्णस्य कं सुखं यस्माद् इति शीघ्रागमनार्थं प्रोत्साहनम् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथाप्य् अनायान्तम् अग्रजो मद्-वाक्य-प्रतिपालको बलाद् आनेष्यतीत्य् आशयेन श्री-रामम् आह्वयति—हे रामागच्छ इति । यतः कुल-नन्दनस् त्वम् इत्य्-आदिना कृष्णस्य शीघ्रागमनार्थम् ईर्ष्यां जनयति । सम्बोधन-पाठेऽपि स एवार्थः । हे पुत्रक ! इति तस्मिन्न् अपि पुत्रवत् स्नेहात् अनुकम्पायां कन् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यद् वाक्यं प्रतिपालको राम एनं बलाद् आनेष्यतीति भावेन तम् आह्वयति हे रामेति अनुकम्प्ये तात-शब्दः तातो\ऽनुकम्प्ये जनके इति मेदिनी ॥१६॥
॥ १०.११.१७ ॥
प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः ।
एह्य् आवयोः प्रियं धेहि स्व-गृहान् यात बालकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : व्रजाधिपः श्री-वल्लवेन्द्रः । हे दाशार्ह ! इति मित्र-श्रीवसुदेव-पुत्रत्वेन परमापेक्ष्यं त्वां विना तस्याभोजनाद् इति भावः । आवयोः श्री-यशोदा-रोहिण्योः श्री-नन्द-यशोदयोर् वा । क्रीडासक्तस्य श्री-कृष्णस्य प्रिय-चिकीर्षया तम् अप्य् अनायान्तं वीक्ष्य क्रीडनाद् बालकान् निवारयति—स्वेति ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च—प्रतीक्षते इति । हे दाशार्ह इति मित्र-पुत्रत्वेन परमापेक्ष्यं त्वां विना तस्य भोजनम् एव न स्याद् इति भावः । आवयोः सख्योर् दम्पत्योर् वा क्रीडासक्तस्य श्री-कृष्णस्य प्रेमासक्त्या तम् अपि क्रीडाभिनिविष्टं वीक्ष्य क्रीडनात् बालकान् निवारयति । स्व स्व इति वीप्साया अभावः त्वरा वाक्यत्वात् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भोक्षमाण इति युवां विना भोक्तुम् अशक्तुवन्तं तं स्व-पितरं क्षुधया पीडयसीति भावः । स्व-गृहान् यात इति युष्मन्-माता-पितरो\ऽपि वयम् इव क्लिश्यन्ति तान् सुखयतीति भावः । वस्तुतस् तु क्रीडा-विच्छेद एव तात्पर्यम् ॥१७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भोक्ष्यमाण इति "युवां विना स न भोक्ष्यते इति पितरं क्षुधा किं पीडयथ ?" इति भावः । आवयोर् मात्रोः दम्पत्योर् वा । "हे बालकाः ! स्व-गृहान् यूयं यात युष्मन्-मातरो\ऽपि वयम् इव क्लिश्यन्ति ताः सुखयत" । क्रीडा-विच्छेदार्थम् एतत् ॥१७॥
॥ १०.११.१८ ॥
धूलि-धूसरिताङ्गस् त्वं पुत्र मज्जनम् आवह ।
जन्मर्क्षं ते\ऽद्य भवति विप्रेभ्यो देहि गाः शुचिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-कृष्ण-प्रीत्या बालकान् अपि विहाराद् अनुपरमतो विक्ष्य प्रयोजन-विशेषं दर्शयन्ती श्री-कृष्णम् आह्वयति—धूलि- इति । मज्जनं स्नानम् आवह, सम्यक् प्रापय, विप्रादि-द्वारा मन्त्र-जलादिना कुर्व् इत्य् अर्थः, यतस् तव जन्मर्क्षं रोहिणी-नक्षत्रम् अद्य भवति । पाठान्तरे "भवतः" सदा वर्धमानस्येत्य् अर्थः । तत्र प्रयोगम् अप्य् आह—विप्रेभ्य इति । स्नानादिना शुचिः सन् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-कृष्णस्य प्रीत्या बालकान् अपि विहाराद् अनुपरमतो वीक्ष्य मृषैव प्रयोजन-विशेषं च दर्शयन्ती कृष्णम् आह्वयति—धूलि- इत्य्-आदि । मज्जनं स्नानम् आवह विधिवत् कुर्व् इत्य् अर्थः । विप्रेभ्य इति उत्पत्त्यै तत्-सम्प्रदानक-दानोत्साहवन्तं तम् उल्लासयति यतस् तव जन्मर्क्षम् अद्य भवति । "भवतः" इति पाठे सदा वर्धमानस्येत्य् अर्थः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अप्य् अनायान्तं क्रीडोत्साहम् विरमयितुं दानोत्साहम् उत्पादयति—विप्रेभ्य इति ॥१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : क्रीडोत्साह-त्यागाय दातुस् तस्य दानोत्साहं जनयन्त्य् आह—जन्मर्क्ष ते\ऽद्य इति ॥१८॥
॥ १०.११.१९ ॥
पश्य पश्य वयस्यांस् ते मातृ-मृष्टान् स्वलङ्कृतान् ।
त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथाप्य् अनागच्छतस् तस्य मात्सर्यं जनयति—पश्य इति । वीप्सा प्रेम्णा कोपेन खेदेन वा । मातृभिर् मृष्टाः स्नपनादिना निर्मली-कृताश् चैते4 सुष्ठ्व् अलङ्कृताश् चेति तथा तान् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथाप्य् अनागच्छतस् तस्य तदैवागतान् अन्यान् बालान् दर्शयित्वा मात्सर्यं जनयति—पश्य इति । वीप्सा प्रेम्णा तज्-जेन कोपेन खेदेन वा । मातृभिर् मृष्टाः स्नपनादिना निर्मलीकृताश् च ते [पशात्]{।मर्क्} सुष्ठ्व् अलङ्कृताश् चेति तथा तान् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदैवागतान् यान् बालान् दर्शयित्वा मात्सर्यं जनयति—पश्य इति ॥१९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तदैव तत्रागतान् बालान् प्रदर्श्य मात्सर्यम् उत्पादयन्त्य् आह—पश्य इति । विहरस्व इति विहारो न वर्ज्यते इत्य् अर्थः ॥१९॥
॥ १०.११.२० ॥
इत्थं यशोदा तम् अशेष-शेखरं
मत्वा सुतं स्नेह-निबद्ध-धीर् नृप ।
हस्ते गृहीत्वा सह-रामम् अच्युतं
नीत्वा स्व-वाटं कृतवत्य् अथोदयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अशेषस्य जगतः शेखरं चूडामणिम् इव शिरो-धार्यम् अपि गृहीत्वा अच्युतम् इत्य् अभङ्गाद्य्-अभिप्रायेण । सह-रामं किं वा रामम् अच्युतं च सह एकदैव गृहीत्वा स्व-वाटं निज-स्थानम्, उदयं स्नपन-भोजनालङ्कारणादि-मङ्गलम् । अथ अन्तरं सद्य एवेत्य् अर्थः । हे नृपते ! नर-श्रेष्ठत्वाद् एव त्वयि श्री-यशोदा-स्नेह-भर-लालनादि-वृत्तं कथ्यत इति भावः । यद् वा, तस्य परमाश्चर्यत्वात् तत्-कथनेन प्रेम-भरोदयाद् वा सादर-सम्बोधनम् ॥२०॥
**
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहरति—इत्थम् इति । इत्थं सलालनोक्ति-पूर्वक-शनैर् गमन-प्रकारेण अशेषस्य चूडामणिम् इव शिरोधार्यम् अपि सुतं मत्वा मत् सुतो\ऽयम् इत्य् अनुभूय अत एव स्नेहेन नितरां बद्धा वशीकृता धीर् यस्याः सा । अत एव क्रीडन्तम् अपि हस्ते गृहीत्वा । अच्युतम् इति अपलायनाद्य्-अभिप्रायेण स्व-वाटं निज-गृह-स्थानम् उदयं स्नपन-भोजनालङ्कारादि-मङ्गलं स्व-प्रतिज्ञाततया तद्-आग्रहाज् जन्मर्क्ष-योग्याभ्युदयम् एव वा। अथानन्तरं सद्य एवेत्य् अर्थः । कार्त्स्न्येन वा । हे नृप ! इति तत्र तस्य स्नेहोदय-दर्शनात् त्वम् एव नॄन् पालयसीति स-लालन-सम्बोधनम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् अशेषस्य शेखरं चूडा-मणिं सुतं मत्वा न त्व् अशेष-शेखरं मत्वेत्य् अर्थः । स त्व् अशेष-शेखरः सुतश् च भवतीत्य् अर्थः । यद् वा, तं सुतं अशेषस्य स्व-कुलस्य शेखरं मत्वा स्व-वाटं निज-स्थानं उदयं स्नपन-भोजनाल्ङ्कारादि-मङ्गलम् ॥२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : इत्थं सलालनोक्ति-पूर्वक-शनैर् गमनेन प्रकारेण तं कृष्णम् अशेष-शेखरं स्वयं सुतं मत्वा अनुभूय तादृशस्यैव सुतत्वात् । यद् वा, तं सुतं अशेषस्य शेखरं शिरो\ऽवतंसं मत्वा स्व-वाटं स्व-स्थानम् स्व-मन्दिरं नीत्वा, वाटो मार्ग-वृत्ति-स्थाने इति मेदिनी । उदयं स्नपन-भोजनालङ्कारार्पणादि-मङ्गलं भोजनम् इदं स्व-सरूपम् इत्य् उपरि वक्ष्यामः ॥२०॥
॥ १०.११.२१ ॥
श्री-शुक उवाच—
गोप-वृद्धा महोत्पातान् अनुभूय बृहद्-वने ।
नन्दादयः समागम्य व्रज-कार्यम् अमन्त्रयन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
रन्तुं वृन्दावनं गन्तुम् अन्तः कृष्णेन यन्त्रिताः ।
स्वतन्त्रा इव नन्दाद्या मन्त्रम् एतम् अमन्त्रयन् ॥
व्रज-कार्यं गोकुलस्य हित-कृत्यम् ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तश् चेतसि । यन्त्रिताः प्रेरिताः । एतं वक्ष्यमाणम् ॥*॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : समागम्य आस्थान्यां मिलित्वा व्रज-कार्यं व्रज-प्राणस्य श्री-कृष्णस्य हितानुसन्धानात् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
स्वाभाविकेन तत्-प्रेम्णा प्रेरिता गोप-पुङ्गवाः ।
हर्य्-एक-मङ्गलाहार्यं व्रज-कार्यम् अमन्त्रयन् ॥
यमलार्जुन-भङ्गेन्द्र-याग-समापनान्तरं समागम्य आस्थान्यां मिलित्वा व्रज-कार्यं व्रज-प्राणस्य श्री-कृष्णस्य हितानुसन्धानात् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) :
स्वाभाविकेन तत्-प्रेम्णा प्रेरिता गोप-पुङ्गवाः ।
हर्य्-एक-मङ्गलाहार्यं व्रज-कार्यम् अमन्त्रयन् ॥
इत्य् आह—गोप- इति । व्रज-कार्यं व्रज-प्राणस्य श्री-कृष्णस्य हितानुसन्धानात् प्रियकाद् इति शीले क्विप् ॥१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
महावने विहृत्यैवं विजिहीर्षा यदाजनि ।
वृन्दावने हरेस् तर्ह्य् एवौपनन्दी रराज गीः ॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं बृहद्-वने क्रीडित्वा तद् अलञ्चकार । अथ तृणावर्त-वधावसर-दृष्ट-शोभे वृन्दवने चिक्रीडिषुस् तद्-गमन-हेतूपद्रवानुदस्थापयद् इत्य् गोप-वृद्धा इति । महोत्पातान् वृकान् वत्स-बाल-क्लेश-करान् इति श्री-हरिवंशाद् बोध्यम् ॥२१॥
॥ १०.११.२२ ॥
तत्रोपानन्द-नामाह गोपो ज्ञान-वयो-\ऽधिकः ।
देश-कालार्थ-तत्त्व-ज्ञः प्रिय-कृद् राम-कृष्णयोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तेषु नन्दादिषु ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तेषु तस्मिन् वा मन्त्रणे । गोप इति श्लेषेण वाक्-पतिर् इत्य् अर्थः । किं च, ज्ञानेन वयसा च अधिको महान् अतो यस्मिन् देशे काले च कर्तव्यो यो**\ऽर्थः** प्रयोजनम्, तस्य तत्त्वज्ञः । अतः श्री-नन्द-राजस्यासौ मन्त्री ज्येष्ठ-भ्राता च ज्ञेयः । एवं तादृशोक्तौ योग्यतोक्ता । किं च, राम-कृष्णयोः प्रिय-कृत् तयोः श्री-वृन्दावनं जिगमिषाम् अभिप्रेत्य तत्र गमन-मन्त्र-प्रदानेन प्रीतिं सम्पादयन्न् इत्य् अर्थः । यद् वा, नित्यं प्रकृत्यैव प्रिय-कृत् प्रेम्णा हित-कर्ता, अतो महोत्पातानुभवेन तयोर् अनिष्ट-शङ्कया एव आह इत्य् अर्थः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तेषु प्रयोजनं देशादीनां त्रयाणाम् एकैकेषां मिलितानां च यत् तत्त्वम् उत्तम-मध्यमादित्वं तज्ज्ञ इति ज्ञानाधिक्यं विशेषितं वय-आधिक्यान् नाम-साम्याच् च श्री-नन्द-राजस्यासौ मन्त्री ज्येष्ठ-भ्राता चेति गम्यते । एवं तादृशोक्तौ योग्यतोक्ता। किं च, श्री-राम-कृष्णयोः प्रिय-कृत् प्रकृत्यैव प्रेम्णा हित-कर्ता । अतो महोत्पातानुभवेन तयोर् अनिष्ट-शङ्कयैव आह इत्य् अर्थः । अत्र ज्येष्ठ-कनिष्ठतया नाम-वैपरीत्य-सम्भवेऽपि स्वरसत एव पूर्वं ज्येष्ठस्य उपनन्देति नाम कृतम् । उप समीपे नन्दयतीति । पश्चात् तद्-युग्मकत्वेन कनिष्ठस्य नन्देति कृतं । तत्-पितृ-चरणैः तच् च तत् तारतम्य-संवादित्वाद् दैव-घटितम् एव। तथा सर्व-लक्षण-सम्पन्नत्वाद् एव तस्मै कनिष्ठायापि परम-प्राज्ञेन तेन ज्येष्ठेनैव स्वेच्छया गोकुल-राज्यं समर्पितम् इति विवेचनीयम् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपनन्दो नन्द-राजस्य ज्येष्ठो मन्त्रीति प्राज्ञः ॥२२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वृन्दावन-गमन-बुद्धि-दानायोपनन्दं प्रैरयद् इत्य् आह—तत्रोपनन्द इति । व्रज-राजस्य पर्जन्यस्योपनन्दाभिनन्द्-नन्द-सन्नन्द-नन्दनाभिधानाः पञ्च-पुत्रा बभूवुः । तेषूपनन्दः पित्रा स्वस्मै दीयमानं राज्य-तिलकं मध्यमायापि नन्दाय महा-गुणाय सर्वैकमत्येन प्रादात् । स्वयं च तद्-अमात्यो\ऽस्थाद् इति ख्यातम् । देशादीनां त्रयाणाम् एकैकेषां मिलितानां वा यत् तत्त्वं स्वरूपम् उत्तमत्व-मध्यमत्वादि तज्ज्ञः ॥२२॥
॥ १०.११.२३ ॥
उत्थातव्यम् इतो\ऽस्माभिर् गोकुलस्य हितैषिभिः ।
आयान्त्य् अत्र महोत्पाता बालानां नाश-हेतवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतो बृहद् वनात् । गोकुलस्य गो-यूथस्य । अत्र बृहद्-वने ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उत्थातव्यम् अन्यत्र गन्तव्यम् इत्य् अर्थः । कुतः ? गोकुलस्य तत्रत्यानां सर्वेषां हितैषिभिर् इति श्री-कृष्ण-हितेनैव तद्-धित-सिद्धेः । यद्य् अपि श्री-नन्द-नन्दनम् अधिकृत्यैव वक्ष्यमाणा महोत्पाताः, तथापि बालानाम् इति बहुत्वम्, सर्वेषाम् अपि गोपानां भयोत्पादनेन शीघ्र-गमनात् । यद् वा, बालक-वर्ग-शिरोमणौ तस्मिन् महोत्पातैः सर्व-बालकेष्व् अपि व्रज-जनानां नाश-हेतव एव ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उत्थातव्यम् अन्यत्र गन्तव्यम् इत्य् अर्थः । कुतः ? गोकुलस्य तत्रत्यानां सर्वेषां हितैषिभिर् इति बालानाम् इति च सामान्योक्तिः श्री-नन्दस्यासङ्कोचार्थं । "प्रजानाम्" इति पाठे\ऽपि स एवार्थः । "व्रजानाम्" इति च पाठः क्वचित् । वस्तुतस् तु तद्-धितादिनैव सर्व-हितादि-सिद्धेः तत्-तद्-उक्तिः ॥२३॥
**जीव-गोस्वामी (क्रम-सन्दर्भः) : "**बालानां" "व्रजानाम्" इति पाठ-द्वयेऽपि समूह-निर्देशो व्रजेश्वर-सङ्कोचत एवाग्रे श्री-कृष्णैक-निष्ठत्वेनातीत-भयोद्देशात् कथञ्चित् तेन निर्दिष्टं निर्धारति हरेर् [२४] इति ॥२३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गोकुलस्य तद्-वासि-मात्रस्य ॥२३॥
॥ १०.११.२४ ॥
मुक्तः कथञ्चिद् राक्षस्या बाल-घ्न्या बालको ह्य् असौ ।
हरेर् अनुग्रहान् नूनम् अनश् चोपरि नापतत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनः शकटम् ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महोत्पातान् एव दर्शयन् तेषां स्वतो\ऽप्रतिकार्यतां च बोधयति—मुक्त इति त्रिभिः । बालक इति स्वयं मोचनाशक्तिर् उक्ता । अतः कथञ्चिद् इति साक्षात् कारणादर्शनात् केनाप्य् अस्मद्-भाग्येनैवेत्य् अर्थः । हि अनुभवे । असौ सर्वेषाम् अस्माकं जीवन-भूतः । परोक्ष-निर्देशो गोप-वृद्धाः [२१] इत्य् उक्त्या सभायां मन्त्रणे वृद्धानाम् एव योग्यत्वेन बालकस्य तस्य तत्र साक्षाद् अविद्यमानत्वात् । यद् वा, असाव् अयं साक्षाद्-दर्शनेन तस्मिन् उपनन्देन तस्यापि तत्रैव नीतत्वात् । किं वा, कौतुकेन स्वयम् एव तेन तत्र गतत्वात् । नूनं निश्चये । अमुष्योपरि सर्वोत्पातादि-दुःखं हरतीति हरिः, तस्येति वैष्णवानाम् अस्माकं गृहे विशेषतो रक्षा-मन्त्र-विदां श्री-यशोदादीनां सान्निध्ये राक्षस्याः किञ्चित्-करणाशक्तेस् तस्याः सकाशाद् अमुष्य मुक्तिर् अस्मद्-भाग्येनापि सम्भवात् । दूरे रहस्याशरणे शकटाधः शायितस्य उपरि स्वयं पततो\ऽपि शकटस्यापतनं च परम-दुर्घटं केवलं तद्-अनुग्रहाद् एव भवतीति भावः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतस् तान् अधिकृत्यैव महोत्पातानुतापं सूचयन् कौतुकेन स्वयम् एव तत्रागतं श्री-कृष्णम् अङ्के कृत्वा स-स्नेहं दृष्टान्तयति—मुक्त इति त्रिभिः । राक्षस्य्-आदि-शब्देन स्व-गणेन अप्रतिकार्यत्वं दर्शितं । बालक इत्य् अनेन तेन तु सुतराम् । अतः कथञ्चिद् इति साक्षात्-कारणादर्शनात् केनाप्य् अनिर्वचनीयेनैव कारणेनेत्य् अर्थः । हि प्रसिद्धौ । सर्वेषाम् एवानुभवात् कथञ्चित् तेनोक्तम् एव निर्धारयति—हरेर् इति । नूनं निश्चये ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असौ कृष्णः ॥२४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : बालान् अधिकृत्यैव महोत्पातानुतापं सूचयन् कौतुकात् तत्रागतं कृष्णम् अङ्के कृत्वा स-स्नेहं दृष्टान्तयति—मुक्त इति त्रिभिः ॥२४॥
॥ १०.११.२५ ॥
चक्र-वातेन नीतो \ऽयं दैत्येन विपदं वियत् ।
शिलायां पतितस् तत्र परित्रातः सुरेश्वरैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विपदं वीनां पक्षिणां पदं विहार-स्थानम् । विगत-प्रतिष्ठं वा । वियन् नभः ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षिणां विहारो ल्न केवलम् आकाशे, किं तु भूमाव् अपीत्य् अरुच्या विगता प्रतिष्ठावमानं यस्य तद्-विगत-प्रतिष्ठम् अनन्त-पद-वाच्यत्वाद् वियतः तत्र तदा ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अयम् इति प्रस्तुततया काल-नैकट्यापेक्षया वा । पक्षान्तरे स्नेह-भर-जननार्थम् अङ्गुल्या दर्शयति । दैत्येन नीतः, तत्र च वियद् आकाशं नीतः, तत्रापि विपदम् । तैर् व्याख्यातम् एव । तत्राप्य् ऊर्ध्वम् इत्य् अर्थः । यद् वा, आपद्-रूपं ततः पातादिना महानर्थ-सम्भवात् । यद्य् अपीदृशं श्री-भगवति प्रयोक्तुं न योग्यम्, तथापि विभीषिकार्थम् । किं वा, अनिष्टा-शङ्कीनि बन्धु-हृदयानि भवन्ति इत्य्-आदि-न्यायेन स्नेह-भराकुलत्वाद् घटत एव । अग्रे न म्रियेत [२६] इत्य् एवम् अन्यत्राप्य् ऊह्यतम् । पश्चात् पतितो\ऽपि तत्र शिलायाम् इत्य् एवम् उपर्य् अधो\ऽपि विपद् । वर्गतः सुर-श्रेष्ठैस् तत्-तल्-लोक-पालैर् एव परितस् त्रातः । यद् वा, ततस् ततः सर्वतो रक्षया हरेर् एव शक्त्य्-अतिशयं मत्वा । गौरवेण सुरेश्वरैर् इति बहुत्वम्, सुरेश्वरेणेत्य् अर्थः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दैत्येन नीतः, तत्र च वियद् आकाशं नीतः, तत्रापि विपदम् । अन्यत् तैः । तत्र विगत-प्रतिष्ठम् इति अत्यूर्ध्वम् इत्य् अर्थः । सुरेश्वरैः अच्युत-प्रेरितैः तत्-पार्षद-रूपैर् एवेत्य् अर्थः । तद् अप्य् अच्युत-रक्षणम् इत्य् अपि-शब्दात् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सुरेश्वरैर् अच्युत-प्रेरितैस् तत्-पार्षदैः ॥२५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चक्रवातेन तृणावर्तेन वियद् आकाशं वियत्-प्रापकत्वाद् विपदं । सुरेश्वरैः सुरेश्वरेण विष्णुना, बहुत्वं गौरवेण । तत्रापीत्य् उत्तर-वाक्ये\ऽपि-कारात् ॥२५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : चक्रवातेन तृणावर्तेन वियद् आकाशं वियत्-प्रापकत्वाद् विपदं । सुरेश्वरैः हरिणा, बहुत्वं गौरवात् ॥२५॥
॥ १०.११.२६ ॥
यन् न म्रियेत द्रुमयोर् अन्तरं प्राप्य बालकः ।
असाव् अन्यतमो वापि तद् अप्य्5 अच्युत-रक्षणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यतमो वा कश्चिद् बालः । अच्युतेन एव रक्षणम् आसीत् ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असौ कृष्णो बालकः । अन्यतमः कृष्णाद् भिन्नः । यन् न म्रियेत तद् अच्युत-रक्षणम् इति योजना ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : म्रियेत इत्य् अयुक्तम् अप्य् अमङ्गल-स्मारणं तेषां स्नेह-वर्धनार्थम् । अच्युतेन सर्व-व्यापकेन भगवतैव रक्षणम् अभूत्, अन्यथा इतस् ततः स्थितानां बालकादीनाम् अप्य् आकाश-स्पर्शि-महा-वृक्ष-द्वय-निपाताद् अन्येन तत्र तत्र रक्षानासम्भवात् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सास्र-गद्गदम् आह—यन् न म्रियेत इति । दुःखैर् एवाश्लीलम् अपि प्रयुक्तम् इदम् इति । तत्रापीति तद् अपीति वा पाठः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्राप्य् अच्युत-रक्षणम् इत्य् अपि-शब्दात् ॥१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असौ कृष्णः ॥२६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सास्रं स-गद्गदं चाह—यन् न म्रियेत इति । दुःख-भवाद् अश्लीलम् अपि प्रयुक्तं तच् च झटित्य्-उत्थानायेति बोध्यम् । असौ कृष्णः । यद्य् अप्य् एषां नित्य-पार्षदत्वात् कृष्णैश्वर्य-बुद्धिर् विस-तन्तुवद् अन्तर् अस्त्य् एव, तथापि वात्सल्य-प्रेम्णा तद्-अन्तर्-धानाद् अनिष्ट-शङ्का बलभद्रादीनाम् इव ज्ञात-तद्-ऐश्वर्याणाम् अप्य् अभ्युदेतीति बोध्यम् ॥२६॥
॥ १०.११.२७ ॥
यावद् औत्पातिको\ऽरिष्टो व्रजं नाभिभवेद् इतः ।
तावद् बालान् उपादाय यास्यामो\ऽन्यत्र सानुगाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अरिष्टोऽनर्थः । इतः स्थानात् ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : औत्पातिकः उत्पात-प्रभवोऽरिष्टोऽशुभ-सूचकः, अरिष्टम् अशुभे तक्रे सूतिकागार आसवे । शुभे मरण-चिह्ने च इति मेदिनी । अन्यत्र स्थानान्तरे ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् असकृत् परमेश्वरेण रक्षा कृता । तादृशं च कुतो\ऽस्माकं भाग्यं येन सदा तेन सा कार्या ? तस्मात् तद्-आदिष्ट-नीति-शास्त्रानुसरणाच् चोत्पात-स्थानम् एतद् आशु परित्यक्तुम् एव युज्यत इत्य् आह—यावद् इति । औत्पातिक उत्पातजः । व्रजं सर्वम् एव गोकुलम् । यद् वा, निज-प्राणाधिक-श्री-नन्द-बालकाभिभवेन सर्वस्यापि व्रजस्य अभिभवापत्तेस् तद्-अपेक्षयैव व्रजम् इत्य् उक्तम् । बालान् इति बालानाम् इति पूर्ववत् । यद् वा, गौरवेण बहुत्वं श्री-कृष्णम् इत्य् अर्थः । सानुगाः पुत्र-कलत्र-मित्र-भृत्य-पुरोहितादि-सहिताः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् असकृत् परमेश्वरेण रक्षा कृता । तादृशं च कुतोऽस्माकं भजनं येन सदा तेन सा कऋया ? तस्मात् तद्-आदिष्ट-नीति-शास्त्रानुसाराच् चोत्पात-स्थानम् एतद् आशु परित्यक्तुम् एव युज्यत इत्य् आह—यावद् इति । औत्पातिकः उत्पातजः व्रजम् इत्य्-आदिकं पूर्ववच् छ्री-कृष्णाभिप्रायेणैव ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्वम् अस्मिन् नगरे विष्णु-कथा-कीर्तन-दर्शन-परिचर्यादिकं बहुतरम् आसीत् यावन् नन्दस्य बालको अयम् अभूत् तावद् आस्थान्यादिषु सर्वत्रास्यैव कथा-कीर्तन-दर्शनादिकं प्रतिक्षणं भवत्य् अतस् तादृशं च कुतो\ऽस्माकं स्म्प्रति तद् भजनं येन सदा विष्णुनैव रक्षा स्याद् अतस् तद्-आदिष्ट-नीति-शास्त्रम् एवानुसरणीयम् इत्य् आह—यावद् इति ॥२७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तथैवाह—यावद् इति । औत्पातिक उत्पातजः अरिष्टः अशुभवान् क्लेशः, अरिष्टे तु शुभाशुभे इत्य् अमरः ॥२७॥
॥ १०.११.२८ ॥
वनं वृन्दावनं नाम पशव्यं नव-काननम् ।
गोप-गोपी-गवां सेव्यं पुण्याद्रि-तृण-वीरुधम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पशव्यं पशुभ्यो हितम् । नवानि काननान्य् अवान्तराणि विह्यन्ते यस्मिंस् तत् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवान्तराणि निधुवन-बिल्वादीनि । यद् वा, कः क-कार आनने मुखे आदौ येषां ते काननाः, कदम्ब-कपित्थ-केशर-काल-स्कन्धादयो वृक्षा । नवा नित्य-नूतनाः कानना यत्र तत् तथा । यद् वा, नव-सङ्ख्याकाः काननाः कदम्ब-कर्णिकार-कमल-केसर-काञ्च-नारकाल-स्कन्ध-कपित्थ-कुञ्जराशन-केतक-रूपा यत्र तत् तथा । भावि-लीलाभिप्रायेणाह । यद् वा, न बकस्यासुरस्याननं मुखं यत्र तत् तथा । बक-मुखस्यात्रैवोत्पाटनात् । अत्र पक्षे नञ्-अर्थेन न-शब्देन समासावयवयोः सावर्ण्यं चानुध्येयम् । यद् वा, पुण्याद्रयः गोवर्धन-बृहत्सान्व्-आदयः । पुण्य-तृणानि कुश-काशोशीरादीनि । पुण्य-वीरुधो विष्णुक्रान्ता-माधव्य्-आद्याः । यद् वा, आद्रि-पदेन द्रुमा ग्राह्याः, अद्रयो द्रुम-शैलार्काः इत्य् अमरः । तथा च पुण्य-द्रुमाः कदम्ब-तमालादयः । पुण्या अद्रि-तृणवीरुधो यत्र तत् तथा समासान्तोच्॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् इति नीतिः, तत्राह—वनम् इति । अस्त्य् एवेति शेषः । परम-पतिव्रतायाः श्री-भगवद्-अनुगृहीताया श्री-वृन्दाया वनम् इति सर्वोपद्रव-राहित्यं सर्व-सद्-गुणमयत्वं च सूचितम् । तद् एवाभिव्यञ्जयति—पशव्यम् इत्य्-आदिना । पुष्ट्य्-आदि-कारित्वाद् रोगाद्य्-अविषयत्वाच् च पशुभ्यो हितम् इत्य्-आदिना बृहद्-वनाद् वैशिष्ट्यं बोधयति । नवानि सम्प्रति तत्र कृष्ण-कृईडार्थं स्वयम् उत्पन्नानि ।
किं वा, नव नव-सङ्ख्यकानि ताल-वनादीनि षट् मुञ्जान्धकार-विरह-वनानि त्रीणीत्य् एवम् । किं च, पुण्याः पुण्य-जनकत्वादिना परमोत्तमा अद्रयः श्री-गोवर्धनादयः, तृणानि दर्भ-दूर्वादीनि, वीरुधश् च विष्णु-पर्णाद्या यस्मिन् । यद् वा, पुण्या एवाद्र्य्-आदयः सर्वे\ऽपि यस्येत्य् अन्यत्रापुण्यानाम् अपि तत्र पुण्यत्वात् पुण्याद्रिषु स्वत एव पुण्य-वृक्षाणाम् अप्य् अन्तर्गतत्वात् पृथग् अनुक्तिः । यद् वा, नवानि सदा पत्र-पल्लवादि-सम्पत्त्या नित्य-नूतनानि काननानि कदम्बादि-वृक्ष-वनिका यस्मिन् । यद् वा, वृन्दाया वनम् इत्य् उपवनतया फल-पुष्प-प्रधान-वृक्षाणां स्वतः सत्ता सूचितैव । किं च, पुण्येत्य् एवम् असाधारणत्वम् उक्तम् । तथा च श्री-हरिवंशे—
श्रूयते हि वनं रम्यं पर्याप्त-तृण-संस्तरम् ।
नाम्ना वृन्दावनं नाम स्वादु-वृक्ष-फलोदकम् ॥
अझिल्लि-कण्टक-वनं सर्वैर् वन-गुणैर् युतम् ।
कदम्ब-पादप-प्रायं यमुना-तीर-संश्रितम् ॥
स्निग्ध-शीतानिल-वनं सर्वर्तु-निलयं शुभम् ।
गोपीनां सुख-सञ्चारं चारु चित्र-वनान्तरम् ॥
तत्र गोवर्धनो नाम नातिदूरे गिरिर् महान् ।
भ्राजते दीर्घ-शिखरो नन्दनस्येव मन्दरः ॥
मध्ये चास्य महाशाखो न्यग्रोधो योजनोच्छ्र्तः ।
भाण्डीरो नाम शुशुभे नील-मेघ इवाम्बरे ॥
तत्र गोवर्धनं चैव भाण्डीरं च वनस्पतिम् ।
कालिन्दीं च नदीं रम्यां द्रक्ष्यावश् च यतः सुखम् ॥ [ह।वं। २.८.२२-२८] इति ।
अत एव गोपादीनां सेव्यं सेवितुं योग्यं, सेव्यम् इति भक्त्य्-अपेक्षया । किं वा, आसक्त्या नित्योपभोग-विवक्षया । अनेन तत्र दुष्टजनत्वाभावो हिंस्राणां च हिंसा-राहित्यम्, शाश्वतिक-वैराणाम् अपि मिथः सौहार्दं सूचितम् । तथा चाग्रे तत्रैव, यत्र नैसर्ग-दुर्वाराः सहासन्न-मृगादयः [भा।पु।१०.१७.६०] इत्य्-आदि । पशव्यम् इत्य् उक्ते\ऽपि पुनर् गवां सेव्यम् इत्य् उक्तिर् विशेषतो गो-वृद्ध्य्-आदि-कारि श्री-गोवर्धन-वर्ति-सुलभ-सुतृण-जलाद्य्-अभिप्रायेण । यद् वा, पशुषु गवां मुख्यत्वेन तासां हित-विशेषापेक्षया ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् इति नीतिः । तत्राह--वनम् इति । अस्तीति शेषः । वृन्दायाः पाद्म-कार्तिक-माहात्म्योक्त-रीत्या श्री-भगवत्-प्रेयसीत्वं प्राप्ताया वनम् इति सर्वोपद्रव-राहित्यं सकल-सद्-गुणमयत्वं सूचितम् । तद् एवाभिव्यञ्जयति—पशव्यम् इत्य्-आदिना । आरोग्यादि-प्रद-जल-तृणादित्वात् पशुभ्यो हितं नव-काननम् इति बृहद्-वनस्य जीर्ण-काननत्वं च सूचयति । तच् च चिर-कालं गवादि-सम्मर्द-च्छिद्यमान-नवाङ्कुरादित्वात् तथा तथा वृन्दावनस्य पूर्व-व्रज-वासत्वं सूचयति । द्वयोर् अनादि-कालत्वेऽपि तस्मिन् नवत्व-निर्देशेन तद्-उच्छिन्न-चरत्वावगमात् । गोपादीनां सेव्यम् इति तत्र दुष्ट-जनत्वाद्य्-अभयं दर्शितं । पुण्या एव आद्रयस् तृणानि वीरुधश् च यत्र । अदन्तत्वम् आर्षः [। ह-दन्ताद्]{।मर्क्} [वेति टापावीरुधा]{।मर्क्}-शब्द एव वा । सर्वम् इति यत्र पुण्यम् इत्य् अर्थः । पुण्यत्वेन प्रसिद्धानाम् एव तत्र स्थिते कास्कराद्य्-अपुण्य-द्रुमादीनां क्वचित् स्थिते वा तज्-जन्मत्वेन पुण्यत्व-सिद्धेः । अत्र विशेषः श्री-हरिवंशे, श्री-रामं प्रति श्री-कृष्ण-वाक्यम्—
श्रूयते हि वनं रम्यं पर्याप्त-तृण-संस्तरम् ।
नाम्ना वृन्दावनं नाम स्वादु-वृक्ष-फलोदकम् ॥
अझिल्लि-कण्टक-वनं सर्वैर् गुण-गणैर् युतम् ।
कदम्ब-पादप-प्रायं यमुना-तीर-संस्थितम् ॥
स्निग्ध-शीतानिल-वनं सर्वर्तु-निलयं शुभम् ।
गोपीनां सुख-सञ्चारं चारु-चित्रवनान्तरम् ॥
तत्र गोवर्धनो नाम नातिदूरे गिरिर् महान् ।
भ्राजते दीर्घ-शिखरो नन्दनस्येव मन्दरः ॥
मध्ये चास्य महा-शखो न्यग्रोधी योजनोच्छ्रितः ।
भाण्डीरो नाम शुशुभे नील-मेघ इवाम्बरे ॥
तत्र गोवर्धनं चैव भाण्डीरं च वनस्पतिम् ।
कालिन्दीं च नदीं रम्यां द्रक्ष्यावश् च यतः सुखम् ॥ [ह।वं। २.८.२२-२८] इति ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुण्याद्रि इति वृन्दावनस्य महा-विस्तीर्णत्वं बोधयति ॥२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चास्मत् प्राचीन-राजधानीं नन्दीश्वरो गन्तुं शक्यः यद् भयान् नन्दीश्वरात् पलाय्यात्र महा-वने वयम् अवसाम, तस्यारिष्टस्य सम्प्रत्य् अपि तत्रैव स्थितेः । न च व्रज-भूमेर् अन्यत्र इयासा सम्भवेत्, अरोचकत्वाद् एव । तस्मान् नन्दीश्वर-महा-वनयोर् मध्य-वर्ति-स्हानम् एवावासार्थं युज्यत इति विचार्याह—वनम् इति । पशव्यं पशुभ्यो हितं नवानि काननाय् अवान्तराणि यत्र तत् ॥२८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.२९ ॥
तत् तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् ।
गोधनान्य् अग्रतो यान्तु भवतां यदि रोचते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् तद् वनम् एतादृशं ततस् तत्र वने युक्त योजयत यूयम् । नूयते स्तूयते ति नवं स्तुतं कं जलं यस्याः सा नवका कालिन्दी, न जलं यमुना-वारि साक्षाद्-ब्रह्मैव केवलम् इत्य् उक्तेः । नव-काननेऽग्रे यस्य तत् तथेति मुखाग्र-चेष्टा-कृष्णास्येष्व् आननं चलनेऽपि च इति यादवः । नवानां हर्य्-आदि-[योते]{।मर्क्}श्वराणां कं सुखं यया सा नवका भक्तिस् तस्या आननं चेष्टनं यत्रेति वा । नवानां जम्बू-दीपस्थ-खण्डानां कं शिरः कर्म-भूमित्वेन मुख्यत्वान् नवकं भारत-खण्डं तस्याननं मुखम् इव श्रेष्ठम् । भारते व्रज-भूः श्रेष्ठा तत्र वृन्दावनं परम् इति व नौतीति नवं कस्याननं काननं नवं स्तुवत् काननं यत्र इति वा नवकाननम् । यद् वा, नवसु खण्डेषु कीयते गीयते मत्स्यादि-रूपैर् इति नवको हरिस्तस्याननं चेष्टात्रेति नवकाननम् । नवानां नन्दानां कं कं सुखं येन स नवकस् तस्याननं चेष्टनं नवकाननं तद् विद्यते नित्यम् अत्रेति तथा मत्वर्थीयोच् ।
न च नन्दीश्वरोऽस्मत् प्राचीन-राजधानीं गन्तुं शक्त्यः यद् भयान् नन्दीश्वर-महावनयोर् मध्यवर्तिस्थानम् एव वासार्थं युज्यते इति विचार्याहवनम् इति । नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् इति नीत्या च वृन्दायाः पाद्मोर् जमाहात्म्योक्तरीत्या भगवत् प्रेयसीत्वं प्राप्ताया वनं नवकानम् इत्य् उक्तेर् बृहद् वनस्य जीर्णत्वं प्राप्तं किं कारस्करादीनाम् अपुण्य-वृक्षादीनाम् अपि तत्र जातत्वात् पुण्यत्वम् एवेति । तत्र विशेषस्तु हरि-वंशीय-कृष्ण-वाक्यतोऽवसेयः । तथा हि—
श्रुयते हि वनं रम्यं पर्याप्त-तृण-सम्भवम् ।
नाम्ना वृन्दावनं नाम स्वादु-वृक्षा-फलोदकम् ॥
अमीनि-कण्टक-वनं सर्वैर् गुण-गणैर् युतम् ।
कदम्ब-पाद-पप्रायं यमुना-तीर-संस्तुतम् ।
स्निग्ध-शीतानिलवनं सर्वर्तु निलयैर् युतम् ।
गोपीनां सुख-सञ्चारं चारुचित्रवनान्तरम् ।
तत्र गोवर्धनो नाम नातिदूरे गिरिर् महान् ।
राजते दीर्घ-शिखरो नन्दनस्येव मन्दरः ।
मध्ये चास्य महा-शाखो न्यग्रोधो योजनोच्छ्रितः ।
भाण्डीरो नाम शुशुभे नील-मेघ इवाम्बरे ।
तत्र गोवर्धनं चैव भाण्डीरं च वनस्पतिम् ।
कालिन्दीं च नदीं रम्यां द्रक्ष्यावश् च यतः सुखम् । [ह।वं। २.८.२२-२८] इति ।
अत्र नातिदूर इति नातिप्रान्ते न च मध्ये किं तु पार्श्व-देश एवेत्य् अर्थः । अहो वृन्दावनं रम्यं यत्र गोवर्धनो गिरिः इति स्कान्दात् । यत् तुभाण्डीर-मध्यस्थितत्वम् उक्तं तद् इत्थं प्रतिपद्यते । स खलु वृन्डवन-सिमस्थात् क्रीडनकुट्टिमाद् उत्तरस्य योजनद्वयान्ते यमुना-तीरे दक्षिणे सम्प्रति च भाण्डीरतया प्रसिद्धो देशो योजन-प्रमाणोस्ति एवं योजनत्रये लब्धे तत्-परस्य योजनद्वयस्य मिश्रणया वृन्दावनस्य पञ्च-योजन-प्रमाणत्वं सिद्ध्यति तद् उक्तं गौतमीये—वृन्दावनम् उद्दिश्य भगवता पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ॥२९॥ इति चक्रवर्ति-तोषिणीकारौ ।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्र नातिदूर इति नातिप्रान्ते न च मध्ये किं तु पार्श्व-देश एवेत्य् अर्थः अहो वृन्दावनं रम्यं यत्र गोवर्धनो गिरिः इति स्कान्दात् । अत्रैव तत्रेति द्विरुक्तत्वात् पुरस् तस्यैव योजनीयत्वाच् च यत् तु भाण्डीरस्य मध्य-स्थितत्वम् उक्तं तत्रेदं प्रतिपद्यते स खलु वृन्दावनसीमस्थाद् भक्त-क्रीडन-कुट्टिमाद् उत्तरस्यां योजन-द्वयान्ते यमुना-दक्षिण-तीरे सम्प्रति च भाण्डीरतया लोक-प्रसिद्धो देशः स्वयम् अपि शास्त्रेण प्रसाधयिष्यमाणस् तथा योजन-विस्तारतया प्रमापयिष्यमाणश् च प्रसिद्ध्यतीति योजनत्रये लब्धे तत् परस्य योजन-द्वयस्य मिश्रणतया वृन्दावनस्य पञ्च-योजन-प्रमितत्वम् एव सिद्ध्यति तथाचोक्तं वृन्दावनम् उद्दिश्य बृहद्-गौतमीये स्वयं भगवता—
पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ।
कालिन्दीयं सुषुम्णाख्या परमामृत-वाहिनी ॥ इति ।
अत्र यत् खलु सुषुम्णा-रूपकेण यमुनाया वृन्दावन-मध्य-वाहित्वं दर्शितं तच् छ्री-हरिवंशे चान्यत्र व्यज्यते सीमान्तम् इव कुर्वन्तीति तस्याविशेषणेन । तद् एवं स्थिते भाण्डीरस्य विस्तारे चोच्छ्राये च योजन-प्रमितत्वेन यमुना-तीरस्थत्वेन च यमुनोत्तर-तीरेऽपि दीर्घाभिः शाखाभिर् व्याप्तिर् लभ्यते ततः परतोऽपि वृन्दावनस्येति यत् तु पुण्याद्रि-तृणवीरुधम् इति नद्योद्रयः खग-मृगाः सदयावलोकैर् इति च योजन-पञ्चकाद् अप्य् आधिक्यं लभ्यते तत् खलु गङ्गातीरस्य गङ्गात्ववत् तद् बहिः स्थित-कतिपय-गोचारण-भूमेर् अपि तद् अन्तःपात-विवक्षयागम्यं यत एव पूर्वरीत्या गोवर्धन-दिश्यपि यमुनाम् आरभ्य वृन्दावनस्य सार्ध-द्वय-योजन-मात्र व्याप्त्या गोवर्धनस्य तत् पार्श्वस्थिततायाम् अपि यन् नन्दनन्दनस्येव मन्दरः इति प्रोक्तं तद् अपि सङ्गच्छते यद् वा आदिवाराहादौ कालिय-ह्र्ददादि-कतिपयतीर्थानां वृन्दावन-करणोपादेयतया वर्णितत्वात् संक्षिप्तम् इव तत् प्रतीयते तत् खलु तद् अधिदैवत श्री-गोविन्द-देवाधिष्ठानत्वेन मुखत्व-विवक्षया श्री-केशवाधिष्ठानत्वेन मथुरापुया इवेति तद् एतन् मत एव खदिर-काम्यक-वनादीनां पृथक्त्वं स्यात् न तु प्राङ्मते इति ज्ञेयं तत् तस्माद् अद्यैव यास्यामः यामेत्य् अर्थः । स्थानस्यास्य सोपद्रवत्वात् कालस्यास्य च शोभनत्वाद् इति भावः । व्यतिरेकेण द्रढयति माचिरम् अविलम्बम् इत्य् अर्थः । यदि भवतां भवद्भ्यो रेचत इति विनयेन ॥१८॥
तत् तस्माद् अद्यैव यास्यामो यामेत्य् अथ इत्य् अदूरवर्तित्वं चोक्तम् । मा चिरम् अविलम्बम् इत्य् अर्थः, अन्यथौत्पातिकारिष्ट-सम्भवात् । तत्त्वतस् तु पूर्व-स्थाने ममत्वेन क्षणान्तरे वैमत्य् आशङ्कया तथोक्तम् । यदि भवतां भवद्भयो रोचत इति विनयेन सर्वान् वशीकरोति ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र नातिदूर इति नातिप्रान्ते न च मध्ये किं तु पार्श्वदेश एवेत्य् अर्थः अहो वृन्दावनं रम्यं यत्र गोवर्धनो गिरिः इति स्कान्दात् । अत्रैव तत्रेति द्विरुक्तत्वात् पुरस् तस्यैव योजनीयत्वाच् च यत् तु भाण्डीरस्य मध्य-स्थितत्वम् उक्तं तत्रेदं प्रतिपद्यते स खलु वृन्दावनसीमस्थाद् भक्त-क्रीडन-कुट्टिमाद् उत्तरस्यां योजन-द्वयान्ते यमुना-दक्षिण-तीरे सम्प्रति च भाण्डीरतया लोक-प्रसिद्धो देशः स्वयम् अपि शास्त्रेण प्रसाधयिष्यमाणस् तथा योजन-विस्तारतया प्रमापयिष्यमाणश् च प्रसिद्ध्यतीति योजनत्रये लब्धे तत् परस्य योजन-द्वयस्य मिश्रणतया वृन्दावनस्य पञ्च-योजन-प्रमितत्वम् एव सिद्ध्यति तथाचोक्तं वृन्दावनम् उद्दिश्य बृहद्-गौतमीये स्वयं भगवता—
पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ।
कालिन्दीयं सुषुम्णाख्या परमामृत-वाहिनी ॥ इति ।
अत्र यत् खलु सुषुम्णा-रूपकेण यमुनाया वृन्दावन-मध्य-वाहित्वं दर्शितं तच् छ्री-हरिवंशे चान्यत्र व्यज्यते सीमान्तम् इव कुर्वन्तीति तस्याविशेषणेन । तद् एवं स्थिते भाण्डीरस्य विस्तारे चोच्छ्राये च योजन-प्रमितत्वेन यमुना-तीरस्थत्वेन च यमुनोत्तर-तीरेऽपि दीर्घाभिः शाखाभिर् व्याप्तिर् लभ्यते ततः परतोऽपि वृन्दावनस्येति यत् तु पुण्याद्रि-तृणवीरुधम् इति नद्योद्रयः खग-मृगाः सदयावलोकैर् इति च योजन-पञ्चकाद् अप्य् आधिक्यं लभ्यते तत् खलु गङ्गातीरस्य गङ्गात्ववत् तद् बहिः स्थित-कतिपय-गोचारण-भूमेर् अपि तद् अन्तःपात-विवक्षयागम्यं यत एव पूर्वरीत्या गोवर्धन-दिश्यपि यमुनाम् आरभ्य वृन्दावनस्य सार्ध-द्वय-योजन-मात्र व्याप्त्या गोवर्धनस्य तत् पार्श्वस्थिततायाम् अपि यन् नन्दनन्दनस्येव मन्दरः इति प्रोक्तं तद् अपि सङ्गच्छते यद् वा आदिवाराहादौ कालिय-ह्र्ददादि-कतिपयतीर्थानां वृन्दावन-करणोपादेयतया वर्णितत्वात् संक्षिप्तम् इव तत् प्रतीयते तत् खलु तद् अधिदैवत श्री-गोविन्द-देवाधिष्ठानत्वेन मुखत्व-विवक्षया श्री-केशवाधिष्ठानत्वेन मथुरापुया इवेति तद् एतन् मत एव खदिर-काम्यक-वनादीनां पृथक्त्वं स्यात् न तु प्राङ्मते इति ज्ञेयं तत् तस्माद् अद्यैव यास्यामः यामेत्य् अर्थः । स्थानस्यास्य सोपद्रवत्वात् कालस्यास्य च शोभनत्वाद् इति भावः । व्यतिरेकेण द्रढयति माचिरम् अविलम्बम् इत्य् अर्थः । यदि भवतां भवद्भ्यो रेचत इति विनयेन ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्मात् तत्र वृन्दावने भवतां भवद्भ्यः शस्ताः ॥१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.३० ॥
तच् छ्रुत्वैक-धियो गोपाः साधु साध्व् इति वादिनः ।
व्रजान् स्वान् स्वान् समायुज्य ययू रूढ-परिच्छदाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एक-धियो विप्रतिपत्ति-रहिताः । व्रजान् शकट-व्यूहान् । रूढाः शकटादिष्व् आरोपिताः परिच्छदा यैस् ते ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विप्रतिपत्ति-रहिता विरुद्धोक्ति-वर्जिताः । गृहे वस्त्रे संविधायां तिरस्कारे परिच्छदे इति कोशः । परिच्छदा दोह-पात्र-मन्थन्य्-आदयः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकस्मिन् श्री-कृष्ण एव धीर् येषाम् । अत एव विप्रतिपत्तिर् अहित-धीत्वात् साध्व् इत्य्-आदि । व्रजान् इति तैर् व्याख्यातम् । यद् वा, इतस् ततः स्थितानन्त-व्रज-वर्ति-गवादीन्, सम्यक् आ सर्वतो योजयित्वा एकत्र मेलयित्वा ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकस्मिन् श्री-कृष्ण एव धीर् येषां अत एव विप्रतिपत्तिर् अहितधीत्वात् साध्वित्य्-आदि इतस् ततः स्थितान् एक-व्रजवर्ति-गवादीनेवात्र मेलयित्वा रूढा शकटान्य् आरूढाः परिच्छदा एषान्ते ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रजान् व्रज-वर्ति-गवादीन् एकत्र मेलयित्वा रूढाः शकटान्य् आरूढा परिच्छदा येषां ते ॥१९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.३१-३२ ॥
वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च ।
अनःस्व् आरोप्य गोपाला यत्ता आत्त-शरासनाः ॥
गोधनानि पुरस्कृत्य शृङ्गाण्य् आपूर्य सर्वतः ।
तूर्य-घोषेण महता ययुः सह-पुरोहिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्ताः कृत-प्रयत्नाः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनःसु शकटेषु । सर्वोपकरणानि भोजन-पात्र-शय्या-पेषण-किर्तन-यन्त्रादि-रूपाणि ॥३१॥ शृङ्गाणि शृङ्गाराणि वाद्यानि मृग-शृङ्गाणि वा । यद् वा,
शृङ्गं तु गवलं हेम-निबद्धाग्रिम-पश्चिमम् ।
रत्न-जाल-स्फुरन्-मध्यं मन्त्र-घोषाभिधं स्मृतम् ॥ [भ।र।सि। २.१.३७३]
इति भक्ति-रसामृतोक्त-लक्साणं शृङ्गम् अत्र ज्ञेयम् । गवलं माहि शृङ्गम् इत्य् अमरः । केचित् तु गोरिदं गवलम् इहालप्-प्रत्ययो बाहुलकात् । सह-पुरोहिताः शाण्डिल्य-सहिताः, शाण्डिल्यः सर्व-धर्मज्ञो नन्दादीनां पुरोहितः इति स्कान्दोक्तेः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रूढ-परिच्छदत्वम् एव विवृण्वन् यान-प्रकारम् आह—वृद्धान् इति द्वाभ्याम् । आत्त-शरासनाः पथि दुष्ट-कंसादि-भयात् । सह-पुरोहिताः पुरोहित-साहिताः । यद् वा, पुरोहिताश् च ययुः, सह एकदैव परम-पुण्य-स्थानापेक्षया, निज-गृहाद्य्-अनपेक्षणात् । हे राजन्न् इति भवादृशेनापि सद्यस् तथा गन्तुं न शक्यत इति भावः ॥३१.३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रूढ-परिच्छदत्वम् एव विवृण्वन् यान् अप्रकारम् आह—वृद्धान् इति युग्मकेन । हे राजन्न् इति तेषां श्री-कृष्ण-प्रेमार्ति निगमयति [॥२०॥]{।मर्क्}
गृहीत्वा [१०.११.४३] इति तैर् व्याख्यातम् । तत्र सह लाङ्गूलं यथा स्यात्, तथा गृहीत्वा केन द्वार-भूतेनेत्य् अपेक्षायाम् आह—अपरेति योज्यम् । यद् वा, अपराभ्यां पादाभ्यां सहित लाङ्गूलं तस्य गृहीत्वा भ्रामयित्वा तम् इति पूर्वेणान्वयः । तदानीन्तन-क्षेपण-क्रीडणोपयोगि-कपित्थ-फल-पातनार्थं कपित्थाग्रे चिक्षेप अच्युत इति तं महा-कायं भ्रामयतोऽपि निज-स्थानाच् च्यवनात् स इति सार्धकं स दैत्यः महा-काय इति मरणे मायापगमान् निज-महावत्स-दैत्य-रूपाभिव्यक्तेः षड् विशाध्याये कपित्थानि च लीलयेति वक्ष्यमाणत्वात् कपित्थ-फलैः सह ह विस्मये तादृश-महाकायस्यापि बाल-रूपतयैव महा-कपित्थाग्रे प्रक्षेपात् विस्मतास् तस्य महा-कायत्वादिना हेलया वधेन च साध्विति सहसा दुर्वितर्क-ज्ञानात् दुर्धर्ष-मारणाच् च तत्र विस्मयाद् धर्षाच् च वीप्सा तद् वधेनामराणां च परम-हितम् अभूद् इत्य् आह—देवाच् चेति ॥३२.३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यत् ताः प्रयत्नवन्तः ॥३१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दर्शयन् भ्रू-संज्ञया बलद् एवं ज्ञापयन् मुग्ध इव अजानन् इव आसदत् निकटं प्राप ॥३१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपराभ्यां सहितं लाङ्गूलं तस्य गृहीत्वा अच्युतः संसार-सिन्धौ च्युतिस् तस्य दूरीकुर्वन् कपित्थाग्रे इति तद् देहेनैव क्रोडोपयोगिक-पित्थ-फल-पातनार्थम् इति भावः । गतं जीवितं यतस् तद् यथा-स्यात् तथा प्राहिणोत् स वत्सासुरः ॥३२.३३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.३३ ॥
गोप्यो रूढ-रथा नूत्न-कुच-कुङ्कुम-कान्तयः ।
कृष्ण-लीला जगुः प्रीत्या निष्क-कण्ठ्यः सुवाससः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नूत्नैः कुच-गतैः कुङ्कुमैः कान्तिर् यासां ताः । नूत्नेषु कुचेषु यत् कुङ्कुमं, तेन कान्तिर् यासाम् इति वा ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आद्य-समासे कुच-पदे लक्षणाकरणात् समासान्तरम् आह—नूत्नेष्व् इति । निष्कं पदक-संज्ञं हेम-भूषणम् ॥३३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रैव विशेषम् आह—गोप्य इति द्वाभ्याम् । रूढा आरूढा रथाः शकट-भेदाः । किं वा, उच्चैर् गानार्थं शोभा-भरार्थं च शकटतो\ऽप्य् उत्तमा विस्तीर्णोच्चतरा यान-विशेषा याभिस् ताः । नूत्न- इति तैर् व्याख्यातम् । यद् वा, नूत्न-कुचेषु कुङ्कुमाद् अप्य् अधिका कान्तिर् यासाम् । नूत्नेति वृद्धानां व्यावर्तनार्थम् । किं वा, सदा सर्वासाम् अपि रथ-रूढानां तासां प्रायो नित्य-नव-यौवनत्वात् । कृष्णस्य चित्ताकर्षकस्य लीलाम् । निष्काणां स्त्री-भूषणेषु मुख्यत्वात् तैर् अन्यान्य् अपि ज्ञेयानि ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्रैव विशेषम् आह—गोप्य इति द्वाभ्याम् । रूढा आरूढाः रथाः तत् प्रायाः शकट-भेदा याभिस् ताः निष्काणां स्त्री-भूषणेषु मुख्यत्वात् तैर् अन्यान्य् अपि ज्ञेयानि नूत्नेत्य् अत्र तेषां प्रथमाथस्तु समीचीनः सर्वैर् एव व्रज-जनैस् तद् गुण-गानस्य प्रसिद्धत्वात् कृष्ण-रामाभ्यां सह तयोर् जन-कर्तृकायाः कथायाः श्रवणोत्सुके तयोर् एव कर्तृभूतयोर् वा ॥२२॥
अन्यैर् न व्याख्यातम्।
॥ १०.११.३४ ॥
तथा यशोदा-रोहिण्याव् एकं शकटम् आस्थिते ।
रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवणोत्सुके ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-कथा कृष्ण-राम-कथा तल्-लीलेति यावत् ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा इति वाक्यालङ्कारे, पूर्वोक्त-समुच्चये वा । ततश् च तयोर् अपि निष्क-कण्ठिकादिकं द्रष्टव्यम् । कृष्ण-रामाभ्यां सह एकम् एव शकटम् आस्थिते आरुढे । तत्र हेतुः—तयोः कृष्ण-रामयोः सकाशात् कथा-श्रवणोत्सुके, स्नेहेन तयोर् अन्योन्यम् अत्यागात् । यद् वा, द्वयोर् अपि पुत्रयोः कथा-श्रवणे\ऽभेदेन द्वयोर् अपि मात्रोर् औत्सुक्यात् । यद् वा, तयोर् अन्योन्यं या वार्ता, तच्-छ्रवणोत्सुके, कृष्णस्यादौ निर्देशो यथा-संख्य-न्यायात् । किं वा, माधुरी-भरेण तस्यैव कथा-श्रवणे औत्सुक्य-विशेषात् तेन शोभा-विशेषाच् च ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : []{।मर्क्}
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकं शकटम् इति द्वयोर् एव पुत्र-द्व-विरह-सहनाशक्तेः ॥२३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.३५ ॥
वृन्दावनं सम्प्रविश्य सर्व-काल-सुखावहम् ।
तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्रजावासं गोकुल-वसति-स्थानम् ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्ध-चन्द्रवद् अर्ध-चन्द्राकारम् । अर्ध-चन्द्रवद् इति पश्चाद्-भागे प्रतिस्व-द्रव्य-स्थापनार्थम्, अग्र-भागे विस्तीर्ण-गवादि-सुख-निर्गमार्थं शकटी-वाट-पर्यन्तश् चन्द्रार्धाकार-संस्थितः [वि।पु। ५.६.३०] इति विष्णु-पुराणे । एवं तद्-दिने शकटैर् एव चक्रुः, दिनान्तरे तु यथा श्री-हरिवंशे—
कण्टकीभिः प्रवृद्धाभिस् तथा कण्टकिभिर् द्रुमैः ।
निखातोच्छ्रित-शाखाभिर् अभिगुप्तं समन्ततः ॥ [ह।वं। २.९.२२] इति ।
कालिय-हृदाद् दाक्षिण-प्राय-दिशि चतुःक्रोशी-विस्तीर्णाष्ट-क्रोशी दीर्घो व्रजावास-गोवर्धनम् अग्रे विधायैव इति ज्ञेयम् ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् सुखेन यमुनानोत्तरणादि-पूर्वकं प्रविश्य, तच् च ग्रीष्मारम्भे ज्ञेयम् । पूर्णस्तु धर्म-समयस् तयोस् तत्र वने सुखम् इत्य्-आदिना श्री-हरिवंशादौ वृन्दावन-क्रीडायाः प्राग् एव ग्रीष्म्र्तु-वर्णनात्, यमुनोत्तरणं च तदानीं तेषाम् अतिसुकरत्वात् स्पष्टं नोक्तम् । तच् च कालिय-हृदाद् उपरि स्थाने प्रसिद्धम् । सर्वस्मिन् काले सुखम् आ सम्यक् वहति प्रापयति तथा तत्, अतस् तत्र शीतोष्णादि-बाधा गृहाद्य् अपेक्षा च नास्तीति भावः । व्रजो गवाम् आवासः स एव तेषाम् अप्य् आवासस् तम् । यद् वा, व्रजस्य व्रज-वर्तिनां सर्वेषाम् एवावासम् आवावासं वसतिस्थानम् । अर्ध-चन्द्रवद् इति तस्मिन् दिने यमुना-तीरे विश्रामात् तस्थ च ऋजुत्वात् तत्र शकट-वर्ग-वेष्टनेनार्ध-चन्द्राकारतयैवावास-सन्निवेश-सिद्धेः । यद् वा, यमुनायास् तत्रर्ध-चन्द्राकृतित्वेन सन्निवेशात् तथोक्तम् । यद् वा, पश्चाद् भागे द्रव्यादि-स्थानापेक्षयाग्रे च गवादीनां सुख-निर्गमाय विस्तीर्ण-द्वारापेक्षया सदा सर्वत्र तथैवावास-सन्निवेशोपपत्तेः । तथा च श्री-विष्णु-पुराणे—
स समावासितः सर्वो व्रजो वृन्दावने ततः ।
शकटीवाट-पर्यन्तश् चन्द्रार्धाकार-संस्थितः ॥ [वि।पु। ५.६.३१] इति ।
श्री-हरि-वंशे\ऽपि—
निवेषं विपुलं चक्रे गवाञ्वैव हिताय च ।
शकटावर्तपर्यन्तं चन्द्रार्धाकार-संस्थितिम् ॥ [ह।वं। २.९.२०] इति ।
एवं तद् दिने शकटैर् एव चक्रुर् दिनान्तरे च यथा-रुचि स-कण्टक-शाखादि-परिवेष्टनेन लतादि-संवेष्टनेन च गवाम् आत्मनश् चावासं रचयामासुर् इति बोधव्यम्, तथा च श्री-हरि-वंशे—
कण्टकीभिः प्रवृद्धाभिस् तथाकण्टकितैर् द्रुमैः ।
निखातोच्छ्रित-शाखाभिर् अभिगुप्तं समन्ततः ॥ [ह।वं। २.९.२२] इति ।
अन्ये\ऽपि विशेषास् तत्रैव—मध्ये योजन-विस्तारं तावद् द्विगुणम् आयतम् [ह।वं। २.९.२१] इति । तथा कालिय-हृद-वर्णने व्रजस्योत्तरतस् तस्य क्रोश-मात्रे निरामये [ह।वं। २.११.४८] इत्य्-आदि । एवं कालीह-हृदस्य दक्षिणे क्रोशान्तरे दैर्घं योजन-द्वयं व्याप्य व्रजः । यत्र च श्री-नन्दराजस्य मुख्य-वासः प्रावो नन्दीश्वर-गिरि पार्श्वे, श्री-यमुना च ततो दूरवर्तिन्य् अपि तदानीन्तनानाम् आशु-गम्या निकटैव भाति, तच् चाग्रे व्यक्तं भावि । गवाम् आवासस् तु कदाचिन् नन्दीश्वरे, कदाचिच् च सुतृणापेक्षया प्रायस् तत् पूर्वतः कुत्र कुत्रापि तदा च तत्र तत्रैव गोपा गोप्यश् च दुग्धाद्य् अर्थं यान्तीति युक्त्या लोक-प्रसिद्ध्या व्यवहार-दृष्ट्या च ज्ञेयम्, अत-एवेतस् ततः काले काले व्रजतीति व्रज उच्यत इति दिक् ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम् इति सम्यक् सुखेन मार्गं ददौ सिन्धुर् इव श्रियः-पतेः इतिवत् । किं वा, मिथो बद्ध-प्लवी-कृत-महा-शकट-वृन्दैर् यमुनोत्तरादि-पूर्वकं प्रविश्य उत्तरण-स्थानं तु योजन-परिमितत्वात् कालिय-हृदाद् उत्तरतो ज्ञेयं । दक्ष् इणतो मथुरा-नैकट्येन सङ्कटत्वात् । अथवा, कालिय-ह्रद-दक्षिणस्यां दिशि वक्ष्यमाणाद् व्रज-वासान् मथुरा-वृन्दावनं सन्धिर् वत्स-क्रीडन-भक्त-क्रीडनयोर् मध्य-प्रदेश एव तत् स्यात् महा-काननत्वेन निर्जनत्वात् अर्ध-चन्द्रवद् इति पश्चाद् भागे द्रव्यादि-स्थानापेक्षया पुरतश् च गवादीनां सुख-निर्गमाय विस्तीर्ण-द्वारापेक्षया सदा सर्वत्र तथैवावास-सन्निवेशोपपत्तेः तथा श्री-विष्णु-पुराणे—
स समावासितः सर्वो व्रजो वृन्दावने ततः ।
शकटी-वाट-पर्यन्तश् चन्द्रार्धाकार-संस्थितिः ॥ [वि।पु। ५.६.३०] इति ।
श्री-हरिवंशे—
निवेशं विपुलं चक्रे गवां चैव हिताय च ।
शकटावर्त-पर्यन्तश् चन्द्रार्धाकार-संस्थितम् ॥ [ह।वं। २.९.२०] इति ।
एवं तद् दिने शक्तटैर् एव चक्रुः दिनान्तरे च तथा श्री-हरिवंशे—
कण्टकीभिः प्रवृद्धाभिस् तथा कण्टकिभिर् द्रुमैः ।
निखातोच्छ्रित-शाखाभिर् अभिगुप्तं समन्ततः ॥ [ह।वं। २.९.२२] इति ।
अत्र कण्टकीभिः कण्ट-युक्ताभिर् वल्लीभिर् इत्य् अर्थः । आसां द्रुमाणां च जीवितम् एव रोपणं ज्ञेयं शाखानां तु छिन्नानां तथान्यो विशेषस् तत्रैव मध्ये योजन-विस्तारं तावद् द्विगुणम् आयतम् इति तथा कालिय-हृद-वर्णने व्रजस्योत्तरतस् तस्य क्रोश-मात्रे निरामये इत्य्-आदि उत्तर-शब्दोत्र प्राय ईशान-कोण-वाची तस्य दक्षिणस्यान् दिशि महा-पुर्या मथुराया निवेशात् ईशान-कोणस्य चोत्तरानुगतत्वात् । अत एवादि-वाराहेऽपि तत् स्थान-माहात्म्यम्—
उत्तरे हरि-देवस्य दक्षिणे कालियस्य तु ।
अनयोर् देवयोर् मध्ये मृतास् ते चापुनर्भवाः ॥इति ।
अत्र हरि-देवो गोवर्धनाधिष्ठाता कालियः कालिय-दमन इति ज्ञेयं मथुराया नातिदूरत्वेपीदं स्थानं निर्जनम् एव पुर्याः पश्चाद् दिग् गतत्वात् महा-घन-वनत्वाच् च एवं कालिय-हृदस्य नैऋत-कोणे क्रोशान्तरे सट्टीकराख्यं प्रदेशम् अन्तर्भाव्यदैर्घ्ये योजन-द्वयं व्रजः स्यात् किं तु गोवर्धनम् अग्रे निधायेति ज्ञेयम् अन्यत्र हि द्वारायोग्यत्वं दक्षिणस्यां मथुराख्य-महा-नगर-वासेन आग्नेय्यान्तेन यमुना च पूर्वस्यां यमुनायाम् ऐशान्यां कालिय-हृदेन गवादि-प्रचारस्या सङ्कीर्णत्वात् उत्तरस्यां वायव्यां पश्चिमस्यां च शीत-वाताद्य् आगमेन दुःख-हेतुत्वात् अद्यापि मथुरादि-देशे ऐशान्यादिदिक चतुष्टयाद् अन्यत्रैव गोष्ट-द्वार-निर्माण-दर्शनाच् च । अतः—
न नः पुरोजन-पदा न ग्रामा न गृहा वयम् ।
वनौकसस् तात नित्यं वन-शैल-निवासिनः ॥
इत्य् उक्त्वा पुरोद्वाराग्र-देशस्थत्वात् श्री-गोवर्धनस्यैव पूजा-विधानं वक्ष्यते तद् एवं श्री-नन्द-राजस्य मुख्यावासो नन्दीश्वर-गिरिम् अभितो यः प्रसिद्धः स तु कालान्तरे जात इति ज्ञेयम् अत एव इतस् ततो व्रजतीति व्रजो निरुच्यते अत एव गोठ-नन्द-निलयो वा गोरै इति लोक-विख्यात्यागोष्ट-नन्द-निलय-गोकुलाख्यानि स्थानान्तराणि चट्रैव वृन्दावने दृश्यन्त इति दिक् ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रेति श्री-हरि-वंश-रीत्या कालिय-ह्रदाद् दक्षिण-प्रायायां दिशि अष्ट-क्रोशी दीर्घं चतुष्क्रोशी विस्तीर्णो व्रजावास इति ज्ञेयम् ॥३५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्ध-चन्द्रवद् इति पश्चाद् भागं प्रति स्व-द्रव्य-स्थापनार्थम् अग्र-भागे विस्तीर्णे गवादीनां सुख-निर्गमार्थं च शकटी-वाट-पर्यन्तश् चन्द्रार्धाकार-संस्थितिः इति श्री-विष्णु-पुराणे च एवं तद् दिने शकटैर् एव चक्रुः दिनान्तरे तु यथा श्री-हरि-वंशे—
कण्टकीभिः प्रवृद्धाभिस् तथा कण्टभिर् द्रुमैः ।
निर्वातोच्छ्रित-शाखाभिर् अभि-गुप्तं समन्ततः ॥ [ह।वं। २.९.२२] इति ॥३५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.३६ ॥
वृन्दावनं गोवर्धनं यमुना-पुलिनानि च ।
वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राम-माधवयोः बल-कृष्णयोः । उत्तमा अत्यन्ता । हे नृप ! इति सम्बोधनं तु प्रहर्षाधिक्याद् एव । उत्तमा वैकुण्ठाद्य् अपेक्षाया अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी इति प्राप्तैतादृश-माहात्म्या मधुवन-महावनापेक्षया चेति ज्ञेयम् ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रापि स्थान-त्रयम् अतिमनोहरम् इत्य् आह—वृन्देति । पूर्वोक्त्या गोवर्धन-यमुना-पुलिनानां तद्-अन्तर्गतत्वे\ऽपि पृथग् उक्तिस् तत्र तत्र तत् तत् प्रसिद्धेस् तत् तत् सौन्दर्यादिभेदस्य चापेक्षयोत्तमेत्य् अन्यत्रापि प्रीतिर् जातैवैषु चाधिकेत्य् अर्थः । यद् वा, वैकुण्ठापेक्षयोत्तमा, अत एव माधव-शब्द-प्रयोगः । एवम् आश्चर्येण प्रहर्षेण वा हे नृपेति । कृष्णस्य प्रीत्यां तत्रैव रामस्य प्रीतिर् इति द्ययोः साम्येन निर्देशः ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् च वृन्दावनं भेदत्रयात्मकम् एव श्री-कृष्णस्यापि परम-मनोहरम् इत्य् आह—वृन्देति । वृन्दावनम् इति केवल-वनस्य सौष्ठवं गोवर्धनम् इत्य्-आदिना तत्रत्य-विशेषाणाम् उत्तमेति वैकुण्ठाद्य् अपेक्षया अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी इति प्राप्त-तादृश-महान्त्य-मधुवन-महावनाद्य् अपेक्षया च अत एव माधव-शब्द-प्रयोगः सर्व-लोक-रमण-हेतोर् अपि रामस्येत्वेव किं वक्तव्यं तस्याप्य् आलम्बन-रूपस्य सर्व-सम्पत्तिदेव्याः पत्युर् अपीत्य् अर्थः । एवम् आश्चर्येण प्रहर्षेण चाह हे नृपेति ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : []{।मर्क्}
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.३७ ॥
एवं व्रजौकसां प्रीतिं यच्छन्तौ बाल-चेष्टितैः ।
कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-कालेन तद्-योग्य-कालेन ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कल-वाक्यैर् मधुरास्फुटैर् वचनैः, ध्वनौ तु मधुरास्फुटे कले इत्य् अमरः । तद्-योग्य-कालेन वत्स-पालनऋह-समयेन ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-श्री-वृन्दावनागमनादि-प्रकारकैः, किंवोक्त-सदृशैर् अद्भुतैः स्वाभाविकैश् चान्यैर् अपि मनोहरैश् चेष्टितैः कल-वाक्यैश् च व्रजओकसां सर्वेषाम् एव प्रीतिम् आनन्दं कुवन्तौ सन्तौ, यच्छन्ताव् इति कल-वाक्याव् इति पाठे स एवार्थः, यद्य् अपि पूर्वम् एव मृद-भक्षण-लीलायां वाक्याभिव्यक्तिर् उक्तास् ते, तथाप्य् अत्र कल-वाक्याव् इति मधुर-विचित्र-वार्ता-विशेषाभि-प्रायेण । स्वकलेनेति चतुर् वर्ष-वयः-प्राकट्य इत्य् अर्थः । अत्रैवम् उह्यम्—वृहद् वने वर्ष-त्रयं स्थितौ, चतुर्थे वृन्दावनम् आगम्गत्य बाल्य-लीलया दिनानि कतिचिन् नित्वानन्तरं वत्स-पालौ बभूवतुर् इति । यच् च श्री-हरिवंशे बृहद् वन-क्रीडायाम् एवोक्तम्—
एवं तै बाल्यम् उत्तीर्णौ कृष्ण-सङ्कर्षणावुभौ ।
तस्मिन्न् एव व्रज-स्थाने सप्तवर्षौ बभूवतुः ॥ [ह।वं। २.८.१] इति,
तच् च कल्प-भेद-व्यवस्थयान्योन्य-बहुल-विरुद्धवत् परिहार्यम् ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र श्री-बृहद्-वन-लीलायां प्रसिद्ध्या वयो-योग्यतादिना च क्रमो\ऽयं लक्ष्यते पूतना-वधः शकट-भञ्जनं नाम-करणं रिङ्गणम् अघृष्ट-जानु-रिङ्गणं तृणावर्त-वधः प्रथम-विश्व-दर्शनं गोपीभिः स्तोभित [भा।पु। १०.११.७] इत्य्-आदि क्रीणीहि भो [भा।पु। १०.११.१०] इत्य्-आदि वत्स-पुच्छ-ग्रहणं मृत्तिका-भक्षणं द्वितीय-विश्व-दर्शनं दधि-पयश्-चौर्यम् उलूखल-बन्धः सरित्-तीर-गतम् इत्य्-आदि-वृन्दावन-प्रवेश इति ।
अथ श्री-वृन्दावन-लीलाम् उपक्रमते । एवं पूर्वोक्त-प्रकारेण कल-वाक्यैर् मनोहर-भाषितैश् च प्रीतिम् आनन्दं यच्छन्तौ । "कल-वाक्यौ" इति पाठे स एवार्थः । स्व-कालेन इति कौमार-मध्य एवेत्य् अर्थः ।
कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले ।
अघृष्ट-जानुभिः पद्भिः विचक्रमतुर् ओजसा ॥ [भा।पु। १०.८.२६]
इत्य् उक्तत्वाच् चतुर्थस्यापि वर्षस्यापि वर्षस्यान्तेऽवश्यं कौमार-परित्यागो लभ्यते पञ्चमस्य तु साधारणापत्तेः वृन्दावने च कौमार-लीला-वत्स-हरण-सम्बन्धि वर्सास्यान्तर्भावात् प्रायः सार्धम् एक-वर्षं भवेत्, एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे [भा।पु। १०.११.५९, १०.१४.६१] इति । तद्-अनन्तरम् उक्त्वा ततश् च पौगण्ड-वयः-श्रितौ व्रज [भा।पु। १०.१५.१] इति हि वक्ष्यते । तस्माद् अत्रैवम् ऊह्यं बृहद्-वने मास-त्रयाधिक-वर्ष-द्वयं स्थित्वा तृतीये वृन्दावनम् आगत्य, बाल्य-लीलया मासान् कतिचिन् नीत्वा, तद्-अनन्तरं वत्स-पालौ बभूवतुर् इति । अतो यत् तु श्री-हरिवंशे बृहद्-वान-क्रीडायाम् एवोक्तम्—
एवं तौ बाल्यम् उत्तीर्णौ कृष्ण-सङ्कर्षणाव् उभौ ।
तस्मिन्न् एव व्रज-स्थाने सप्त-वर्षौ बभूवतुः ॥ [ह।वं। २.८.१] इति ।
तच् च प्रौढत्वापेक्षया सप्त-वर्षाव् इवेति मन्तव्यं । विरोधान्तरवत् कल्प-भेद-विवक्षयेति केचित् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कल-वाक्यैर् मनोहर-भाषितैश् च ॥२६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-कालेन स्वोचित-समयेन ॥२६-२७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.३८ ॥
अविदूरे व्रज-भुवः सह गोपाल-दारकैः ।
चारयामासतुर् वत्सान् नाना-क्रीडा-परिच्छदौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कौमार-लीलां निरूपयति—अविदूर इत्य्-आदिना ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कौमार-लीलां कुमारावस्थ-लीलाम् । अविदूरे समीपे । चारयामासतुः तृणानि भक्षयाञ्चक्रतुः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अविदूर इति नातिदूरे बाल्यान् न चातिनिकटे सुतृणाभावात्6 सुख-विहारासिद्धेश् च, किन्तु व्रज-स्थानाद् आह्वान-प्राप्य-प्रदेश इत्य् अर्थः । नाना-विधा वेणु-शृङ्ग-वेत्र-तुम्बी-वीणा-कन्दुकादयः क्रीडायाः परिच्छदाः साधनानि ययोस् तौ ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अविदूर इति नातिदूरे बाल्यात् न चातिनिकटे सतृणाभावात् सुख-विहारासिद्धेश् च, किं तु व्रज-स्थानाद् आह्वान-प्राप्य-प्रदेश इत्य् अर्थः । नाना-विधा वेणु-वेत्र-शृङ्ग-वीणा-१०कन्दुकादयः क्रीडायाः परिच्छदाः साधनानि ययोस् तौ ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : रामादय इति तद्-गुण-संविज्ञानतापि घटते तच् च षष्ठ-सन्दर्भस्य शततम-वाक्यत्वात् पूर्वत्र द्रष्टव्यम् ॥३८॥
व्रजं बालान् इति पूर्ववत् श्री-कृष्णाभिप्रायेण ॥२७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रामादय इति रामस्य सर्वज्ञस्यापि तद् वध-समर्थस्यापि मोहे भ्रातृ-स्नेह एव हेतुर् द्रष्टव्यः रुक्मणी-हरणे\ऽपि श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् [भा।पु। १०.५३.२०] इत्य्-आदौ तस्य तादृशत्वस्य द्रक्ष्यमाणत्वात् ॥३८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.३९ ॥
क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् ।
क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिम-गो-वृषैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षेपणैर् बिल्वामलकादि क्षिपतो दूरे चालयतः । किङ्किणी-युक्तैः पादैः क्षिपतस् ताडयतः । वत्स-पाला एव द्वि-त्राः कम्बलादि-पिहिता वृष-रूपम् अनुकुर्वन्ति । तैः सह स्वयम् अपि तथैव वृषायमाणौ नर्दन्तौ तद्-अनुकारि-शब्दान् कुर्वन्तौ युयुधाते इत्य् अर्थः ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षेपणैर् अश्म-यन्त्रैर् वा कृत्रिम-गो-वृषैर् मृद्-आदि-निर्मित-गो-वृषैर् वा ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तान् एव दर्शयन् बाल्य-क्रीडाम् आह—क्वचिद् इति द्वाभ्याम् । कस्मिंश्चित् काले प्रदेशे वा तत्-तद्-योग्ये वेणु-वादनं देश-कालादिकं प्राप्य, अतः-प्रभृत्य् एव प्रवृत्तम् इति ज्ञेयम् । क्षेपेणैव क्वचित् पादैश् च क्षिपतस् ताडयतः, परस्परम् इति परेणान्वयः । यद् वा, अन्यं किञ्चिद् इति शेषः । यद् वा, क्षेपणैर् यन्त्रादिभिः, पादैश् च वेणुम् एव किञ्चिद् अन्याद् व, दूरे प्रक्षिपतः ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तान् एव दर्शयन् बाल्य-क्रीडाम् आह द्वाभ्याम् । तत्र क्वचिद् इति सार्धकं कस्मिंश्चित् काले देशे वा तत्-तद्-योग्ये वेणु-वादनं च वयो-देशयोर् वैशिष्ट्यात् तत्-प्रभृत्य् एव प्रवृत्तम् इति ज्ञेयम् । क्षेपणैर् यन्त्रादिभिः बिल्वामलकादिकं दूरे प्राक्षिपतः किङ्किणी-युक्तः पादैः नृत्यतः इति शेषः । स्व-स्व-यूथत्वे नापादितैः कृत्रिम-गो-वृषैः सह ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्षेपणैर् यन्त्र-विशेषैः लोष्ट्रादिकं क्षिपतः, किङ्किणी-युक्तैः पादैः नृत्यत इति शेषः । कृत्रिम-गो-वृषैः स्व-स्व-युथीकृतैः ॥३९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : []{।मर्क्}
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.४० ॥
वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् ।
अनुकृत्य रुतैर् जन्तूंश् चेरतुः प्राकृतौ यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रुतैः शब्दैः । जन्तून् हंस-मयूरादीन् ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । नहि केवलं शब्दं युद्धं विना वृषाः कुर्वन्तीति भावः । अनुकृत्य विडम्ब्य ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यथा प्राकृतौ लौकिक-बालाव् इवेति बाल्य-लीला-निष्ठोक्ता । यद् वा, प्रकृष्टम् आकृतम् आकृतिर् ययोर् वन्य-वेशादिना परम-सुन्दरौ सन्ताव् इत्य् अर्थः । यथा यथाव चेरतुर् इतस् ततो बभ्रमतुर् इति वेणु-वादनादि-क्रीडायाः परिभ्रमणम् एव मुख्यं प्रयोजनम्, वत्स-चारणं च गौणं केवलं तद्-उपकरणत्वेनेति बोधयति । तत्र वेश-विलास-विशेष-चोक्तः श्री-विष्णु-पूराणे—
बर्हि-पत्र-कृता-पीडौ वन्य-पुष्पावतंसकौ ।
ग्प-वेणु-कृतातोद्यौ पत्र-वाद्य-कृतस्वनौ ॥
काक-पक्षधरौ बालौ कुमाराव् इव पावकी ।
हसन्तौ च रमन्तौ च चेरतुस् तन् महद् वनम् ॥
क्वचिद् धसन्तावन्यो\ऽयं क्रीडमानौ तथापरैः ।
गोप-बालैः समं वत्सांश् चारयन्तौ विचेरतुः ॥ [वि।पु।५.६.३३-३५] इति
हरि-वंशे च—
पर्ण-वाद्यं श्रुति-सुखं वादयन्तौ वराननौ ।
शुशुभाते वन-गतौ त्रि-शीर्षाव् इव पन्नतौ ॥
मयूराङ्गज-कर्णौ तौ पल्लवापीडधारिणौ ।
वन-माला-कुलोरस्कौ द्रुम-पोताविबोद्गतौ ॥
अरविन्द-कृतापीडौ रज्जु-यज्ञोपवीतिनौ ।
सशिक्य-तुम्बकरकौ गोप-वेणु-प्रवादकौ ॥
क्वचिद् धसन्ताव् अन्यो\ऽन्यं क्रीडमानौ क्वचित् क्वचित् ।
पर्ण-शय्यासु संसुप्तौ क्वचिन् निद्रान्तरैषिणौ ॥
एवं वत्सान् पालयन्तौ शोभमानौ महा-वनम् ।
चञ्चर्यन्तौ रमन्तौ स्म किशोराव् इव चञ्चलौ ॥ [ह।वं। २.८.३-७]
अत्र त्रिशीर्षव् इवेति वेणी-त्रय-युत-शिरस्कत्वात् । एवं वत्स-पालनेन प्रथमे\ऽहनि बाल्य-क्रीडोद्दिष्टा, अन्यस्मिन्न् अपि प्रायस् तादृश्य् एवोह्या ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्व् इत्य् अर्धकम् । प्राकृतौ लौकिक-बालकौ यथा तथैवेति निर्धारणावेशेन बाल्य-लीला-निष्ठोक्ता एवं वेणु-वादनादि-क्रीडया परिभ्रमणम् एव मुख्यं प्रयोजनं वत्स-चारणं तु तद् उपकरणत्वेणेति बोधयति । तत्र वेष-विलास-विशेषाश् चोक्तः श्री-विष्णु-पुराणे—
बर्हि-पत्र-कृतापीडौ वन्य-पुष्पावतंसकौ ।
गोप-वेणु-कृतातोद्यौ पत्र-वाद्य-क्र्त-स्वनौ ॥
काक-पक्ष-धरौ बालौ कुमाराव् इव पावकी ।
हसन्तौ च रमन्तौ च चेरतुस् तन् महद् वनम् ॥
क्वचिद् धसन्ताव् अन्योन्यं क्रीडमानौ तथा परैः ।
गोप-बालैः समं वत्सांश् चारयन्तौ विचेरतुः ॥ [वि।पु।५.६.३३-३५] इति ।
श्री-हरि-वंशे च—
पर्ण-वाद्यं श्रुति-सुखं वादयन्तौ वराननौ ।
शुशुभाते वन-गतौ त्रिशीर्षाव् इव पन्नगौ ॥
मयूराङ्गज-कर्णौ तु पल्लवापीड-धारिणौ ।
वन-माला-कुलोरस्कौ द्रुम-पोताव् इवोद्गतौ ॥
अरविन्द-कृतापीडौ रज्जु-यज्ञोपवीतिनौ ।
स-शिक्य-तुम्ब-करकौ गोप-वेणु-प्रवादकौ ॥
क्वचिद् हसन्ताव् अन्योन्यं क्रीडमानौ क्वचित् क्वचित् ।
पर्ण-शय्यासु संसुप्तौ क्वचिन् निद्रान्तरैषिणौ ।
एवं वत्सान् पालयन्तौ शोभमानौ महा-वनम् ।
चञ्चूर्यन्तौ रमन्तौ स्म किशोराव् इव चञ्चलौ ॥ [ह।वं। २.८.३-७] इति ।
अत्र त्रिशीर्षाव् इवेति वेणी-त्रय-युत-शिरस्कत्वात् । एवं वत्स-पालने प्रथमेऽहनि बाल-क्रीडा दृष्टा अन्यस्मिन्न् अपि प्रायस् तादृश्य् एवोह्या । तत्रैव कदाचिद् विशेषम् आह—कदाचिद् इत्य्-आदिना । यमुना-तीर इति प्रायो वत्स-क्रीडनक-भक्त-क्रीडनकयोः समीपे स्वकैर् ममतास्पदैः प्रियतमैर् इत्य् अर्थः । तैः सहेति तादृश-लीला-सुख-विघातकत्वेनातिद्वेष्यत्वं व्यञ्जितम् ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : []{।मर्क्}
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.४१ ॥
कदाचिद् यमुना-तीरे वत्सांश् चारयतोः स्वकैः ।
वयस्यैः कृष्ण-बलयोर् जिघांसुर् दैत्य आगमत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जिघांसुः हननेप्सुः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रैव कदाचिद् विशेषम् आह—कदाचिद् इत्य्-आदिना । स्वकैर् आत्मीयैः । यद् वा, स्वयोः कं सुखं येभ्यस् तैः स्वकैः सुख-रूपैर् वेति सर्वथा प्रियतमैर् इत्य् अर्थः । वयस्यैर् इति प्रायः सम-वयस्कता च द्योतिता, तैः सहेति तेषां सन्तोषार्थम् अवश्यं जिघांसु-दुष्ट-वधः कार्य इति भावः ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : []{।मर्क्}
जीव-गोस्वामी (क्रम-सन्दर्भः) : समीडिरे प्रशशंसुः आनक-शङ्ख-सहितैः संस्तवैर् वैदिक-तान्त्रिकैश् च समीडिरे तुष्टुवुः ॥४१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण-बलयोर् इति षष्ठी आर्षी ॥३०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.४२ ॥
तं वत्स-रूपिणं वीक्ष्य वत्स-यूथ-गतं हरिः ।
दर्शयन् बलदेवाय शनैर् मुग्ध इवासदत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुग्ध इवाजानन्न् इव । आसदत् समीपम् आगमत् ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं दैत्यं मुग्ध इवाज्ञात इव ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हरि-दुष्टानां प्राण-हरणाच् छिषष्टानां च मनोहरणात् । यद् वा, मुक्ति-प्रदानेन तस्यापि सर्व-दुःख-हर्तेति भावः । बलदेवाय दर्शयन् सङ्केतेन तं ज्ञापयन्न् इति दैत्यत्वेन तद्-वत्स्यापि वधार्थम् । यद् वा, मुखतया दुष्टान्तिकयाने तत् तत्त्व्;अज्ञान-शङ्कया भाविपरम-स्निग्धाग्रज-चिन्ता-निरासार्थम् ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वत्स-मध्ये वत्स-रूपेण गमनं च भयं बलात् कंस-प्रहितत्वं च बोधयति पूतनादि-हननात् हरिः दुष्टानां प्राण-हरणात् शिष्टानां च मनो-हरणात् मुक्ति-प्रदानेन तस्यापि सर्व-दुःख-हरणात् बल-देवाय दर्शयन् सङ्केतेन ज्ञापयन् इति कौतुकार्थम् ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वस्थानम् आगतं प्राणम् इति कृष्णं प्रकर्षेणेतस् ततः सकाशाद् आनीय तद् वत् स-बक-वध-चरित्रं जगुर् उच्चैस् स्वरेणोचुः । यद् वा, स्वरतालादिना गीतं जग्रन्तुर् दिनान्तरे\ऽपि गानार्थम् इति भावः ॥४२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.४३ ॥
गृहीत्वापर-पादाभ्यां सह-लाङ्गूलम् अच्युतः ।
भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गत-जीवितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सह लाङ्गूलं यथा भवति तथा अपर-पादाभ्यां गृहीत्वा ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपर-पादाभ्यां पश्चिम-पादाभ्याम् । कपित्थाग्रे दधि-फल-संज्ञ-वृक्षोपरि प्राहिणोच् चिक्षेप । कपित्थाग्रे प्रक्षेपणं तु तदानीन्तन-क्रीडोपयोगि-फल-पातनार्थम् एवेति तोषिणी-कारः ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपराभ्यां पश्चिमाभ्यां सहितं लाङ्गुलं तस्य गृहीत्वा, तम् इति पूर्वेणान्वयः । भ्रामणेनैव गत-जीवितं कपित्थ-फल-पातनार्थं कपित्थाग्रे चिक्षेपः अच्युत इति भ्रमणादिनापि निज-स्थानान्त च्युतो भवतीति शक्ति-विशेषो दर्शितः ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : [+++]{।मर्क्}
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अति-प्रियेण श्री-कृष्णेन स्व-दर्शन-दानेनैवादृताः तृषितान्य् अमृतं पिबन्ती-वेक्षणानि येषां ते ऐक्षन्त क्षतादि-शङ्कया सर्वाङ्गेषु न्यभालयन्तः ॥४३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.४४ ॥
स कपित्थैर् महा-कायः पात्यमानैः पपात ह ।
तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्व् इति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स दैत्यः । अन्यैः कपित्थैः । कपित्थ-शाखा-युक्त-फलैर् वा । तं पतितं दैत्यम् ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स दैत्यो महा-काय इति मरणे मायापगमान् निज-दैत्य-रूपाभिव्यक्तेः, अतस् तेनैव पात्यमानैः कपित्थ-वृक्षैः सह । यद् वा, षड्विंशाध्याये कपित्थानि च लीलया [१०.२६.९] इति वक्ष्यमाणत्वात् स्वयम् एव पातयितुम् इष्यमाणैः कपित्थ-फलैः सह । ह विस्मये । विष्मितास् तस्य महा-कायत्वादिना हेलया वधेन च शशंसुः, श्री-कृष्णं तुष्टुवुः । वीप्सा महा-दुष्ट-वधेन । तत्र च भगवद्-दाक्ष्य-विशेषेण प्रहर्ष-भरात्, तद्-वधेन अमराणां च परम-हितम् अभूद् इत्य् आह—देवाश् च इति । तद्-वत्स-वधं च विविधाश्चर्यानुभवेनानद्भुतत्वाद् बाला व्रजे नोचुः । किं वा, क्रीडा-सहस्रासक्ततया तदानीं विस्मृत्य पश्चाद् बक-वधे वृत्ते प्रसङ्गाद् अनुस्मृत्य तद्-धतम् एकदैव कथयामासुर् इति ज्ञेयम् ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स दैत्यो महा-काय इति मरणे माहापगमान्न् निज-दैत्य्-रूपाभिव्यक्तेः, अतस् तेनैव पात्यमानैः कपित्थ-वृक्षैः सह । यद् वा, षाड्-विशाध्याये कपित्थानि च लीलया [९म श्लो] इति वक्ष्यमाणत्वात् स्वयम् एव पातयितुम् इष्यमाणैः कपित्थ-फलैः सह । ह विस्मये, विष्मितास् तस्य महा-कायत्वादिना हेलया वधेन च शाशंसुः, शृइ-कृष्णं तुष्टुवुः । विप्सा महा-दुष्ट-वधेन । तत्र च भगवद्दाक्ष्य-विशेषेण प्रहर्षभरात्, तद् वधेनामराणां च परम-हितम् अभूद् इत्य् आह—देवाश्चेति । तद्-वत्सवधं च विविधाश् चर्यानुभवेनानद्भुतत्वाद् बाला व्रजे नोचुः । किं वा, क्रीडासहस्रासक्ततया तदानीं विस्मृत्य पश्चाद् बक-वधे वृत्ते प्रसङ्गाद् अनुस्मृत्य तद्द्धतम् एकदैव कथयामासुर् इति ज्ञेयम् ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : [तत्र गोपानाम् अन्योन्यं विस्मयोक्तिम् आह त्रिभिः । मृत्यवः मृत्यु-हेतवः भयं कृतं निरपराधानाम् अस्माकं बालकस्यास्य च यस्माद् अपकारः प्रथमं कृतस् तस्मात् ॥४४॥]{।मर्क्}
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विस्मिता इति तस्य महाकायत्वेन हेलया वधेन च ॥४४॥
॥ १०.११.४५ ॥
तौ वत्स-पालकौ भूत्वा सर्व-लोकैक-पालकौ ।
स-प्रातराशौ गो-वत्सांश् चारयन्तौ विचेरतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वेषां लोकानाम् एकौ मुख्यौ पालकौ । प्रातर्-आशः प्रातर्-भोज्यम् अन्नं तत् सहितौ ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ कृष्ण-बलौ । एके मुख्यान्य-केवलाः इत्य् अमरः । सर्व-लोकैक-पालकाव् अपि भक्त-वात्सल्यात् वत्स-पालकाउ । स-प्रातराशौ प्रातर् भोजन-सहितौ । प्रातः-शब्दोऽत्र पूर्वाह्न-परः । सायं प्रातर् मनुष्याणाम् अशनं देव-निर्मितम् इति स्मृतौ तथा व्याख्यातत्वाद् । अन्यथा आद्य-यामे न भुञ्जीत इति विरोधः स्यात् । मध्याह्न-कर्तव्य-भोजन-सहिताव् इति तात्पर्यम् । बालत्वाद् यथा श्रुतम् एवास्तु वा ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्व-लोकानां मुख्य-पालकाव् अपि वत्स-पालकौ भूत्वा इति भक्त-वात्सल्यादि-विशेष उक्तः । यद् वा, वत्स-पालकौ भूत्वा सर्व-लोकैक-पालकौ सन्तौ वत्स-पालन-द्वारा तत्-तन्-मधुर-विहार-विस्तारेण स्वत एव तत्-कीर्तनादिना जगतः परम-रक्षा-सिद्धेः । तत्र पालकत्वे द्वयोर् अपि साम्येन निर्देशः, श्री-बलदेवस्य तद्-अवतारत्वेन परम-भक्तत्वेन च श्री-भगवता सहाभेद-मननात् । एवम् अन्यत्राप्य् ऊह्यम् । स-प्रातराशौ अश्यत इत्य् आशं गृहीत-प्रातर्-भोज्याव् इत्य् अर्थः । यद् वा, अशनम् आशः कृत-प्रातर्-भोजनाव् इत्य् अर्थः । विशेषेण पूर्वतः किञ्चिद् वयो-बलाधिक्य-प्रकटनेन किञ्चिद् दूर-प्रदेश-प्रयाणादिना समग्र-दिनम् एव चेरतुर् यतो गवां वनान्तश् चरन्तीनां धेनूनां वत्सान् चारयन्तौ सायं व्रजे समागतानाम् एव तासां वत्सापेक्षणात्, एवं विकाले गो-दोहनावसरे गवां व्रजागमनात् प्राक् तयोर् गृहागमनं ज्ञेयम् ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्व-लोकानां मुख्य-पालकाव् अपि वत्स-पालकौ भूत्वा इति भक्त-वात्सल्यादि-विशेष उक्तः । यद् वा, वत्स-पालकौ भूत्वा सर्व-लोकैक-पालकौ सन्तौ वत्सासुरादि-वधेन देव-लोकादि-पालनात् । स-प्रातराशौ अशनम् आशः प्रातर्-भोजन-कारिणौ सन्ताव् इत्य् अर्थः । विशेषेण पूर्वतः किञ्चित् वयो-बलाधिक्य-प्रकटनेन किञ्चिद् दूर-प्रदेश-प्रयाणादिना समग्र-दिनम् एव चेरतुः, यतः गवां वत्सान् चारयन्तौ सायं व्रजे समागतानाम् एव तासां वत्सापेक्षणात् ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एक-पालकौ मुख-पालकौ प्रातराशः प्रातर् भोजनम् ॥४५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एक-पालकौ मुख-रक्षकौ प्रातराशेन प्रभात-भोजनेन सहितौ ॥४५॥
॥ १०.११.४६ ॥
स्वं स्वं वत्स-कुलं सर्वे पाययिष्यन्त एकदा ।
गत्वा जलाशयाभ्याशं पाययित्वा पपुर् जलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभ्याशं समीपम् ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जलं पाययिष्यन्तः पानं कारयिष्यन्तः । जलस्याशयः स्थानं महासरः । तच् च नन्दीश्वर-गृहे पूर्वतः प्रसिद्धं बक-स्थलम् । तद्-अभ्याशम् स्थानेऽभिप्राय आशयः इति यादवः ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बकासुर-वधं वक्ष्यन् सर्वेषां बालानां युगपद्-बक-दर्शनार्थं सहैवागमनम् आह—स्वम् इति । सर्वे श्री-कृष्णादयः, जलाशये महा-सरो नन्दीश्वर-गिरेः पूर्वतो बक-स्थलम् इति प्रसिद्धम्, तस्यान्तिकम् ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बकासुर-वधं वक्ष्यन् सर्वेषां बालानां युगपद् वक-दर्शनाच् चयम् आह—स्वम् इति । सर्वे श्री-कृष्णादयः जलाशयो महा-सरः नन्दीश्वर-गिरेः पूर्वतो बक-स्थलम् इति प्रसिद्धं तस्यान्तिकं महा-सत्त्वम् अतिस्थूल-प्राणि-विशेषम् अवस्थितं बकवद् अवधानेनैकत्र स्थिरतया वर्तमानम् अतस् तस्माद् गिरेश्च्युतं शृङ्गम् इव तस्य श्वेतशिलत्वात् बृहद् आकारस्यापि तत्र दूरे च्युतत्वे हेतुः व्रजेति वै प्र्सिद्धौ महान् दुष्टतमत्वादिना वपुषा च बक-रूप-धृक् नित्यम् एव किं वा तद्-दुष्ट-चेष्टार्थं तीक्ष्ण-तुण्डो\ऽपि बलवान् अपि अग्रसद् एव नत्वन्यात् किञ्चिद् अनिष्टं कर्तुम् अशक्नोद् इत्य् अर्थः । ग्रसनम् अपि केवलं श्री-भगवद् इच्छयैवेत्य् आह—कृष्णं दुर्वितर्क-विचित्र-लीला-महार्णवत्वेन प्रसिद्धम् इत्य् अर्थः ॥४६॥
{wइद्थ्=“६.५इन्” हेइघ्त्=“१.८३७५इन्”}
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जलाशयो महासरः नन्दीश्वर-गिरेः पूर्वतो बकस्थलम् इति ख्यातं तस्य अभ्याशम् अन्तिकं गत्वा ॥४६॥
॥ १०.११.४७ ॥
ते तत्र ददृशुर् बाला महा-सत्त्वम् अवस्थितम् ।
तत्रसुर् वज्र-निर्भिन्नं गिरेः शृङ्गम् इव च्युतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ये गोपाः । तत्र जलाशयाभ्याशे । महत् सत्त्वं पराक्रमो व्यवसायो वा यस्य तम् असुरम् ॥४७॥
सत्त्वोऽस्त्री जन्तुषु क्लीवे व्यवसाये पराक्रमे ।
आत्मभावे पिशाचे च रदे द्रव्य-स्वभावयोः ॥
इति यादवः । दृष्ट्वा च तत्र सुस्नेसुः । उद्विग्ना बभूवुर् इति यावत् ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-सत्त्वम् अतिस्थूल-प्राणि-विशेषम् एव स्थितं बक-रूपत्वाद् बकवद् अवधानेन एकत्रैव स्थिरतया वर्तमानम् । अतो गिरेश् च्युतं शृङ्गम् इव । च्युतत्वे हेतुः—वज्र इति । एतेन कठिनतराङ्गत्वादिकम् अपि ध्वनितम् । तस्य च तत्र सदैव बक-रूपेणावस्थितिः । किं वा, तदानीम् एव तत्र दुर्बुद्ध्य्-आगमनं बोद्धव्यम् । तत्रसुश् च, सतां भाव्य्-अनर्थस्य प्राग् एव मनस्य् उदयात् । यद् वा, परम-स्निग्ध-स्वभावेन महा-दुष्ट-दर्शनाच् छ्री-भगवत्य् अनिष्ट-शङ्कोत्पत्तेः, यतस् ते बालाः श्री-कृष्णैक-प्राणास् तद्-वयस्या इत्य् अर्थः । यद् वा, ते सर्वे श्री-कृष्णादयः भीतवद् व्याघ्र-सिंहयोः [१०.१५.१४] इति पञ्चदशाध्याय-वक्ष्यमाणवत् सो\ऽप्य् अत्रस्यत् । अन्ये\ऽपि सर्वे तल्-लीलानुसारेण अत्रस्यन्न् इत्य् अर्थः॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वज्रेण निर्भिन्नं गिरि-शृङ्गम् इव ॥४७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वज्रेण निर्भिन्नं गिरेर् नन्दीश्वरस्य शृङ्गं शिखरम् इव तस्य श्वेत-शिलत्वात् ॥४७॥
॥ १०.११.४८ ॥
स वै बको नाम महान् असुरो बक-रूप-धृक् ।
आगत्य सहसा कृष्णं तीक्ष्ण-तुण्डो \ऽग्रसद् बली ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स महा-सत्त्वो नाम्नापि बको रूपम् अपि बकस्यैव दध्रे इति भावः । सहसा शीघ्रम् ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै प्रसिद्धौ । महान् दुष्टतरत्वादिना वपुषा च, बक-रूप-धृक् नित्यम् एव । किं वा, तदानीम् एव दुश्चेष्टार्थं तीक्ष्ण-तुण्डो\ऽपि बलवान् अप्य् अग्रसद् एव, न त्व् अन्यत् किञ्चिद् अनिष्टं कर्तुम् अशक्नोद् इत्य् अर्थः । ग्रसनम् अपि केवलं श्री-भगवद्-इच्छयैवेत्य् आह—कृष्णं दुर्वितर्क्य-विचित्र-लीला-महार्णवम् इत्य् अर्थः ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.११.४९ ॥
कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयो\ऽर्भकाः ।
बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राम आदिर् येषां ते, न तु रामः ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राम आदिर् येषाम् इत्य् अतद्-गुण-संविज्ञानो बहु-व्रीहिः । अत आह—न तु राम इति। विचेतसो ज्ञान-हीनाः पाषाण-तुल्याः । यद् वा, रामस्यापि तादृशत्वे भ्रातृ-स्नेह एव हेतुः । रुक्मिणी-हरणे तद् उक्तम्—श्रुत्वैतद् भगवान् रामः [भा।पु। १०.५३.२०] इत्य् आरभ्य, भ्रातृ-स्नेह-परिप्लुतः इति । तद् अपि तद्-योग-माययैवेति ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विचेतसो बभूवुर् मुमुहुः । श्री-भगवन्-माहात्म्य-वेदिनो\ऽपि दुष्टं बकं सद्यो हन्तुं शक्ता अपि श्री-बलदेवादयः परम-स्नेहाकृताः सद्यः सर्व-ज्ञान-क्रीया-शक्ति-रहिता बभूवुर् इति । अत्र दृष्टान्तः—प्राणं विना इन्द्रियाणि इव इति ज्ञान-क्रिया-शक्ति-युक्तान्य् अपीन्द्रियाणि कथञ्चित् प्राणे मुख्ये लीने सति सपदि किञ्चिद् अपि कर्तुम् असमर्थानि यथा नश्यन्तीव, तद्वद् इत्य् अर्थः ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विचेतसो बभूवुर् मुमुहुः । श्री-भगवन्-माहात्म्य-वेदिनो\ऽपि दुष्टं बकं सद्यो हन्तुं शक्ता अपि श्री-बलदेवादयः परम-स्नेहाकुलतया सद्यः सर्व-ज्ञान-क्रीया-शक्ति-रहिता बभूवुर् इत्य् अर्थः । अत्र दृष्टान्तः—प्राणं विना इन्द्रियाणि इव इति श्री-बलदेवस्यापि तादृशत्वं श्री-रुक्मिणी-हरणाय गते श्री-कृष्णे दृश्यते, श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् [भा।पु। १०.५३.२०] इत्य्-आदौ ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रामादय इति रामस्य सर्वज्ञस्यापि तद्-वध-समर्थस्यापि मोहे भ्रातृ-स्नेह एव हेतुर् द्रष्टव्यः रुक्मिणी-हरणेऽपि, श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् [भा।पु। १०.५३.२०] इत्य्-आदौ तस्य तादृशत्वस्य द्रक्ष्यमाणत्वात् ॥४९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : रामादय इति सर्वज्ञस्यापि तन्-मारण-समर्थस्यापि रामस्य मोहो भ्रातृ-वात्सल्य-निमित्तको बोध्यः, अनिष्टाशङ्कीनि बन्धु-हृदयाणि भवन्ति इति न्यायात् । वक्ष्यति चैवं रुक्मिणी-हरणे ॥४९॥
॥ १०.११.५० ॥
तं तालु-मूलं प्रदहन्तम् अग्निवद्
गोपाल-सूनुं पितरं जगद्-गुरोः ।
चच्छर्द सद्यो\ऽतिरुषाक्षतं बकस्
तुण्डेन हन्तुं पुनर् अभ्यपद्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जगद्-गुरोर् ब्रह्मणः । तुण्डेन चञ्चुना ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तालु-मूलम् अग्निवत् प्रदहन्तं कौतुकेन केनापी हेतुना वा मुखान्तः-प्रविष्टस्य गले नेतुम् अशक्यस्य तालु-मूल एव लग्नत्वात् । प्र-शब्देनाग्नितो\ऽपि दाह-विशेषो बोधितः । जगद्-गूरोर् ब्रह्मणः पितरम् अपि गोपालस्य वन्य-जनस्य सूनुं बालकम् इति विरोधे\ऽप्य् अविरोधवत् तस्य दुवितर्क्या परमाश्चर्य-लीलेयं घटेतैवेति । यद् वा, गोपाल-सूनुम् अपि जगद्-गुरोः पितरम् इति महा-कौतुकित्वात् तस्य बकेन ग्रसनं परमेश्वरत्वाच् च सम्यग् ग्रसनाशक्यत्वं सम्भवेद् एवेति भावः । एवं बाल्य-क्रीडा-विशेषस्य तत्रैव निजैश्वर्य-विशेषस्य सम्प्रदर्शनेन भगवता विशेषः पूर्ववज् ज्ञेयः । अतिरूषा तं हन्तुम् अभ्यपद्यत उद्यतो\ऽभूत्, यतो\ऽक्षतं क्षत-रहितम् । यद् वा, स्व-बलेन किञ्चित् स-क्षती-कर्तुम् अशक्तम् अपि हन्तुम् अभ्यपद्यत । तत्र हेतुः—अति इति । महा-क्रोधेन विचारापगमाद् इति भावः । यद् वा, क्षतं यथा स्यात्, तथा हन्तुं प्रहर्तुम् ॥५०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तालु-मूलम् अग्निवत् प्रदहन्तं युद्ध-वैचित्री-कौतुकेन मुखान्तः प्रविष्टस्य गले नेतुम् अशक्यस्य तालु-मूल एव लग्नत्वात् गोपाल-सूनुम् अपि केनचिद् अंशेन जगद्-गुरोर् ब्रह्मणः पितरम् इति महा-कौतुकित्वात् तस्य बकेन ग्रसनं महानुभावत्वाच् च सम्यग् ग्रसनाशकत्वं सम्भवेद् एवेति भावः । अतिरुषा तं हन्तुम् अभ्यपद्यत उद्यतोऽभूत्, यतः अक्षतं क्षत-रहितम् । यद् वा, स्व-बलेन किञ्चित् सक्षती-कर्तुम् अशक्तम् अपि अभ्यपद्यत । तत्र हेतुः—अति- इति महा-क्रोधेन विचारापगमाद् इत्य् अर्थः ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं कृष्णं प्रदहन्तम् इति तस्य नीलोत्पल-सुकुमार-शीतलस्यापि स्पर्शो वह्नेर् इव वज्रस्येव तत्-तनु-दोषाद् एव जातो जिह्वा-दोसात् सिताया अपि तिक्तत्वम् इवेति ज्ञेयम् । अक्षतं क्षत-रहितम् इति तत्र श्री-कृष्ण-गात्रस्य वज्रायितत्वं ध्वनितम् ॥५०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तं कृष्णं बकश् चच्छर्द अक्षतं तं पुनर् अपि तुण्डेन चञ्चुना हन्तुम् अभ्यपद्यत तालु-मूलम् अग्निवत् प्रदहन्तम् इन्दीवर-मृदुर् अशीतलस्य कृष्णस्य अग्नेर् इव वज्रस्येव स्पर्शस् तत्-तालु-दोषद् एव रसना-दोषात् सिताया इव तिक्तत्वम् इत्य् एके । वस्तुतस् तु क्रूरया शक्त्या स सिद्धः जगद्-गुरोर् विरिञ्चस्य पितरम् अपि गोपालस्य नन्द-राजस्य सूनुम्
॥५०॥
॥ १०.११.५१ ॥
तम् आपतन्तं स निगृह्य तुण्डयोर्
दोर्भ्यां बकं कंस-सखं सतां पतिः7 ।
पश्यत्सु बालेषु ददार लीलया
मुदावहो वीरणवद् दिवौकसाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तुण्डयोश् चञ्च्वोः । वीरणवद् अग्रन्थि-तृण-विशेषवत् ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वीरणं श्री-तृणं विदुः इति कोशात् । कटोपादान-भूतम् इति प्रसिद्धम् । यस्य मूलम् उशीरं तद्-वीरणम् इति तोषणी ॥५१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निगृह्य नितरां गृहीत्वा, ग्रहणेन पीडयित्वा वा । कंस-सखम् इति महा-दुष्टत्वं बलिष्ठत्वादिकं सूचितम् । सतां गतिर् इति तेषां रक्षार्थम् अवश्यं तद्-वधो युक्त इति भावः । एवं पद-द्वयेन दुष्ट-निग्रह-शिष्टानुग्रह-लक्षणं दारण-प्रयोजनम् उक्तम् । यद् वा, कंस-सखम् इति तद्-दारणेन कंसो\ऽपि दारित इवेति । सतां गतिर् इति च श्री-रामादीनां प्राणा रक्षिता इत्य् अर्थः । अतस् ते मोहतो व्युत्थापिता इति ज्ञेयम् । अत एव इतस् ततो भगवन्तं वा पश्यत्सु तेषां सन्तोषार्थं लीलया अनायासेन भङ्गी-विशेषेण वा । वीरणवद् [ददार] विदारितवान् । एवम् अत्रेदं तत्त्वम्—"मुग्धवन् मया उपेत्य गृहीतो वत्सासुरो\ऽनवहितत्वाद् एव किञ्चित् कर्तुम् अशक्तो\ऽप्रयासेन हत इति न मन्त्यव्यम्, किन्तु जानता अवहितेनापि निजाशेष-शक्तिं दर्शयतापि न किञ्चिन् मम केनापि कर्तुं शक्यते" इति बोधयित्वा सुहृद्-वर्गान् प्रहर्षयितुं श्री-भगवान् एव तद्-गले प्रविष्ट इति । अन्यथा कथञ्चिद् अपि बकेन तद्-ग्रसनं न सम्भवेद् इति दिक् । तद्-वधेन देवानाम् अपि हितम् अकरोद् इत्य् आह—दिवौकसां सर्वेषां एव स्वर्ग-वासिनां मुदावह इत्य् एवं बकासुरस्य महा-भयङ्करत्वादिकम् अपि ध्वनितम् ॥५१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निगृह्य ग्रहणेन पीडयित्वा कंस-सखम् इति महा-दुष्टत्व-बलिष्ठत्वादिकं सूचितम् । सतां गतिर् इति तेन तद्-वधो युक्त इति भावः । एवं पद-द्वयेन दुष्ट-निग्रह-शिष्टानुग्रह-लक्षणं दारण-प्रयोजनम् उक्तं । यद् वा, कंस-सखम् इति तद्-दारणेन कंसो\ऽपि दारित इवेति । सतां गतिर् इति च श्री-रामादीनां प्राणा रक्षिता इत्य् अर्थः । अतस् ते तद्-एक-जीवन-स्वभावत्वात् तन्-निर्गमे स्वत एव मोहतो व्युत्थिता इति ज्ञेयम् । उशीरं यस्य मूलं तद् वीरणं तस्येषीकाम् इवेत्य् अर्थः । एवम् अत्रेदं तत्त्वं—"मुग्धवन् मयोपेत्य गृहीतो वत्सासुरोऽनवहितत्वाद् एव किञ्चित् कर्तुम् अशक्तोऽप्रयासेन सहत इति न मन्तव्यं, किं तु जानता अवहितेनापि निजाशेष-शक्तिं दर्शयतापि न किञ्चिन् मम केनापि कर्तुं शक्यते" इति बोधयित्वा सुहृद्-वर्गान् प्रहर्षयितुं भगवान् एव तद्-गले प्रविष्ट इति । तद्-वधेन देवानाम् अपि हितम् अकरोद् इत्य् आह—दिवौकसां सर्वेषाम् एव मुदावह इति एवं बकासुरस्य महा-दुरन्तत्वादिकम् अपि ध्वनितम् ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुण्डयोश् चञ्च्वोर् निगृह्य नितरां गृहीत्वा मुदावहः आनन्द-प्रापकः उशीरं यस्य मूलं तद् वीरणं तद्वत् ॥५१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तुण्डयोश् चञ्च्वोर् निगृह्य वीरणवत् यन् मूलम् उशीरं तद् वीरणं तृणं, तद्वत् । दिवौकसां मुदावहो हर्ष-प्रापकः ॥५१॥
॥ १०.११.५२ ॥
तदा बकारिं सुर-लोक-वासिनः
समाकिरन् नन्दन-मल्लिकादिभिः ।
समीडिरे चानक-शङ्ख-संस्तवैस्
तद् वीक्ष्य गोपाल-सुता विसिस्मिरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : समीडिरे तुष्टुवुः । आनकैः शङ्खैर् अन्यैश् च संस्तवैः सह ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बकारिं कृष्णं, तद् बक-हिंसन-रूपं वा तत्। तन्-मरणोत्तरं पुष्प-वृष्ट्य्-आदि ॥५२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुदावहने लक्षणम् एवाह—तद् एति । सम्यग् अवाकिरन् व्यापयामासुर् नन्दनस्य मल्लिकादिभिः पुष्पैर् इति तेषां परमोत्तमता सूचिता । आनक-शङ्क-वाद्य-सहितैः संस्तवैर् उत्तमस् तोत्रैः सम्यग् ईडिरे तुष्टुवुस् तल् लीलया बक-विदारणं सुर-लोक-वासिनां च महोत्सवं वीक्ष्य साक्षाद् अनुभूय विसिस्मिरे विस्मिता बभूवुः, यतो गोप-पुत्राः श्री-कृष्ण-स्नेहाकुल-चित्ततयान्यानुसन्धान-शक्ता इत्य् अर्थः । किं वा, स्वर्ग-वासिनाम् अपि महोत्सवेन बकस्य महादुष्टताद्य् अनुमानाद् विसिस्मिरे, यतो गोपाल-सुता देवेषु सादरा इति भावः । यद् वा, विशेषेण स्थितं चक्रूर् नन्दनस्य मल्लिकादि-पुष्पाणां श्री-वृन्दावनजेभ्यस् तेभ्यो\ऽतिन्यूतत्वेन, तथानकादिवाद्य् अस्य वेणु-दलादि वाद्यतो\ऽतिन्यूनत्वेन, तथा देवं संस्तावानां गोकुल-वासी-स्तोत्रेभ्यो\ऽतिन्यूतत्वेन पुष्प-वर्साद्य् उत्कर्षासिद्ध्या महोत्सव-लक्षणासम्पत्तेः, यतो गोपाल-सुताः श्री-कृष्ण-प्रिय-सखाः परम-विदग्धा इत्य् अर्थः ॥५२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुदावहने लक्षणम् एवाह—तदा इति । सम्यक् अवाकिरन् तैर् व्याप्तं चक्रुः । नन्दनस्य मल्लिकादिभिः पुष्पैर् इति तेषां परम-प्रियैर् इत्य् अर्थः । **आनक-शङ्ख-**वाद्य-सहितैः संस्तवैर् उत्तम-स्तोत्रैः सम्यक् ईडिरे तुष्टुवुः, बक-वध-कर्मणा प्रशशंसुः संस्तवैः पुरुष-सूक्तादिभिर् इत्य् अर्थः । विसिस्मिरे मित्राभ्युदयज-परमानन्द-मयं विस्मयं प्रापुर् इत्य् अर्थः । यतो गोपालानां तेषां यत् किञ्चित् तद्-एकाभ्युदयैक-जीवनानां तत्-स्नेह-विशेषावृतैश्वर्य-ज्ञानानां सुताः ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समाकिरन् सम्यग् आकीर्णं व्याप्तं चक्रुर् इत्य् अर्थः । संस्तवैः प्राचीनैः ॥५२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.५३ ॥
मुक्तं बकास्याद् उपलभ्य बालका
रामादयः प्राणम् इवेन्द्रियो गणः ।
स्थानागतं तं परिरभ्य निर्वृताः
प्रणीय वत्सान् व्रजम् एत्य तज् जगुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-स्थानम् आगतं प्राणम् इव कृष्णम् । प्रणीय एकी-कृत्य ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परिरभ्य आलिङ्ग्य । तत् बक-हिंसनम् ॥५३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तं बकारिं स्व-स्थानम् आगतं सन्तम् उपलभ्य समीपे प्राप्य परिरभ्य निर्वृताः सन्तः । बकास्यान् मुक्तम् इति स्नेहोद्रेकेण निर्भरालिङ्गनम्, तेन च निर्वृति-भरं सूचयति । तेषाम् आदौ श्री-भगवन्-निकटे स्वयम् अनागमनं हर्ष-भराकुलत्वेन । किं वा, तदानीम् अपि सम्यक् स्वास्थ्यानुदयेन अशक्तेर् इति ज्ञेयम् । यद् वा, स्थानागतम् इति प्राणस्यैव विशेषणम् । दृष्टान्तस् तु सद्यः स्वस्थतायां तद्-एक-हेतुः—निर्वृतायां च । यद् वा, उपलभ्य ज्ञात्वा स्व-स्थाने आगतम् अपि धावित्वाग्रे\ऽभिगम्य परिरभ्य । अन्यत् समानम् ।
वत्सान् प्राणीय दिनान्तरवत् कालम् अनवेक्ष्य सर्वान् परावृत्य । यद् वा, पालकानां दुर्दशां दृष्ट्वा दुःखेनेतस् ततो गतान् मेलयित्वा । यद् वा, प्रकर्षेणानीय मृत-प्रायांस् तान् भगवद् अमृत-दृष्ट्या जीवयित्वेत्य् अर्थः । तद् बक-वधादिकं जगुः, प्रहर्षेण गीतवद् उच्चैः सुस्वरेण कथयामासुः । यद् वा, तदानीम् एव तद्-गीतं निबद्ध्य तद्-द्वारा कथयन्न् इत्य् अर्थः ॥५३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्नेह-विशेषम् एव दर्शयति—तं बकारिं स्व-स्थानम् आगतं सन्तम् उपलभ्य समीपे प्राप्य पश्चात् परिरभ्य निर्वृताः सन्तः बकास्यान् मुक्तम् इति-स्नेहोद्रेकेण निर्भरालिङ्गनं तेन च परम-निर्वृति-भरं सूचयति । तेषाम् आदौ श्री-भगवन्-निकटे स्वयम् आगमनं, तदानीम् अपि सम्यक् स्वास्थ्यानुदयेन अशक्तेर् इति ज्ञेयम् । तच् च प्राणादि-दृष्टान्तेनैव व्यञ्जितं । स्थान-गतम् इति प्राणेऽप्य् अन्वितं वत्सान् प्रणीय दिनान्तरवत् कालम् अनपेक्ष्य सर्वान् परावर्त्य । यद् वा, पालकानां दुर्दशां दृष्ट्वा दुःखेन इतस् ततो गतान् मेलयित्वा तद् बक-वधादिकं जगुः, सम्भ्रम-मिश्रेण प्रहर्षेण गीतवद् उच्चैः सुस्वरेण कथयामासुः । एवं वत्स-वधाश् चानद्भुततमत्वेन असुरत्वाप्रतीति-शङ्कया च तद्-दिने नोक्त्वा सम्प्रत्य् एव कथित इति ज्ञेयं । षड्विंशाध्याये श्री-गोपैः तस्याप्य् अनुवादात्, श्री-शुकस्य प्रेमज-विस्मृतेर् वा ॥५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.५४ ॥
श्रुत्वा तद् विस्मिता गोपा गोप्यश् चातिप्रियादृताः ।
प्रेत्यागतम् इवौत्सुक्याद् ऐक्षन्त तृषितेक्षणाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिप्रियेण अतिप्रीत्या आदृताः सादराः । प्रेत्यागतम् इव लोकान्तराद् आगतम् इव । तृषितान्य् अतृप्तान्य् अमृतं पिबन्तीव ईक्षणानि येषां ते ॥५४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् बक-मारणम् । दर्शनेऽलं-बुद्धि-रहिता इति तृषितेक्षणार्थः ॥५४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपा गोप्यश् च विस्मिताः सत्यः, अतो\ऽत्यन्त-प्रीत्या आदृता व्याप्ता, अत-एवौत्सुक्याद् आसक्त्या ऐक्षन्तु तं चिरं तद् द्र्शनान् न निवृत्ता बभूवुर् इत्य् अर्थः, यतस् तृषितेक्षेणा अतृप्त-नेत्राः परम-प्रीत्य् औत्सुक्याद् ईक्षणे हेतुः—प्रेत्येति इव उत्प्रेक्षायां स्नेहभरेण तेषां तथा मननात् । यद् वा, प्रेत्य् आगतं कञ्चित् कश्चिद्-बन्धुर् इव, अथ वा गोप्यो विस्मिता बभूवुः । त्व् अर्थे चकारः प्रेमभरेण तासां ग्पेभ्यो विशेषात् तम् एवाभिव्यञ्जयति—अतिप्रियेण प्राणाधिकेन श्री-कृष्णेनादृताः प्रेम-दृष्ट्यादिना सम्मानिताः, अतस् तृषितेक्षणाः सत्य औत्सुक्याद् ऐक्षन्त । यद् वा, दिवा तद् विरहेण स्वतस् तद् दर्शन-तृष्णा-युक्तेक्षणा एव विशेषतो बक-वधादि-श्रवणेनौसुक्याद् ऐक्षन्त । अन्यत् समानम् ॥५४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपा गोप्यश् च विस्मिता अहो बत [५५] इत्य्-आदि-वक्ष्यमाण-रीत्या जात-विस्मयाः। अतोऽतिशयेन प्रियं प्रेम-युक्तं यथा स्यात्, तथा आदृताः तद्-रक्षणादिषु जातात्यन्त-मनः-प्रयत्नाः । अत एव औत्सुक्यात् आसक्त्या ऐक्षन्त तं चिरं तद्-दर्शनान् न निवृत्ता बभूवुर् इत्य् अर्थः । यतस् तृषितेक्षणाः अतृप्त-नेत्राः परम-प्रीत्यौत्सुक्याद् ईक्षणे हेतुः—प्रेत्य इति । इव उत्प्रेक्षायां, स्नेह-भरेण तेषां तथा मननात् । यद् व, प्रेत्यागतं कञ्चित् कश्चिद् बन्धुर् इव । यद् वा, दिवा तद्-विरहेण स्वतस् तद्-दर्शन-तृष्णा-युक्तेक्षणा एव, विशेषतो बक-वधादि-श्रवणेनौत्सुक्याद् ऐक्षन्त । अन्यत् समानम् ॥५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.५५ ॥
अहो बतास्य बालस्य बहवो मृत्यवो\ऽभवन् ।
अप्य् आसीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो बत इत्य्-आदि-श्लोक-त्रयस्य इति नन्दादय इत्य् अनेनान्वयः । अपि एवम् अपि तेषाम् एवानिष्टम् आसीत् । यतस् तैः पूर्वम् अन्येषां भयं कृतम् ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहो आश्चर्ये । बत खेदे । मृत्यवो मृत्यु-हेतवः । एवम् अपि बहु-विध-मृत्यु-हेतौ सत्य् अपि । तेषां मृत्यु-हेतूनाम् । यतः कारणात् । तैर् मृत्यु-हेतुभिः पूतनादिभिः । पूर्वम् अन्य-जन्मनि । अन्येषां लोकानाम् । भयं दुःखम् । "भुङ्क्ते जनो यः । पर-दुःखस् तत्" इत्य् उक्तेः । यो हि यस्य विषमं विचिन्तयेत् प्राप्नुयात् स कुमतिर् हि तत्-फलम् इति हरि-विलासोक्तेश् च । यद् वा, अनेन श्री-कृष्णेन पूर्वम् अभयं भय-निवर्तकं कर्म कृतम् ॥५५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र गोपानाम् अन्योन्यं विस्मयोक्तिम् आह—अहो इति त्रिभिः । अहो आश्चर्ये, बत खेदे । किं वा, अहो बतेत्य् एकम् एव पदम् अत्यन्त-खेदे, अस्यैव मृत्यवस्तद् धेतवः । बालस्येति स्नेहभरेण तेषां तस्मिन् सदा बाल-बुद्धेः । अन्यत् तैर् व्याख्यातम् यद् वा, तत्र हेतुं तर्कयन्ति, अपि किं तेषां बकादिनां विप्रियम् अनिष्ठम् अनेन पूर्वं कतम् आसीत्, यतो यस्माद् अनिष्टकरणाद् येभ्यो वा भयम् अस्यास्माकं वा भवतिः ॥५५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो इति चतुष्कम् । इति इति चतुर्थेनान्वयात् । व्याख्या तु पृथक् क्रियते । तत्र गोपालानाम् अन्योन्यं यथा युक्तं विस्मयोक्तिम् आह—अहो इति त्रिभिः । अहो आश्चर्ये । बत खेदे। अस्यैव मृत्यवः तद्-धेतवः । बालस्य इति स्नेह-भरेण । अन्यत् तैः । यद् वा, यतः पूर्वं प्रथमम् आगत्य तस्य भयं कृतम् ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र गोपानाम् अन्योन्यं विस्मयोक्तिम् आह त्रिभिः । मृत्यवः मृत्यु-हेतवः भयं कृतं निरपराधानाम् अस्माकं बालकस्यास्य च यस्माद् अपकारः प्रथमं कृतस् तस्मात् ॥५५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.५६ ॥
अथाप्य् अभिभवन्त्य् एनं नैव ते8 घोर-दर्शनाः ।
जिघांसयैनम् आसाद्य नश्यन्त्य् अग्नौ पतङ्गवत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अथ घोर-दर्शना अपि नाभिभवन्ति न घर्षयन्ति ॥५६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्य् अपि घोर-दर्शना । अथापि तथापि । एनं श्री-कृष्णम् । घर्षयन्ति तिरस्कुर्वन्ति । जिघाङ्घया हननेच्छया । पतङ्गवच् छलभवत् । पतङ्गः शलभे शालि-प्रभेदे पक्षि-सूर्ययोः इति मेदिनी । असद् ब्रह्मेति चेद् वेदः स्वयम् एव भवेद् असत् इति श्रुतिर् इवेति भावः ॥५६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथापि यद्य् अपि पूर्वं विप्रियाचरणाद् धन्तुम् आयान्ति, तथापीत्य् अर्थः । घोरं दर्शनम् अपि, किम् उत कर्म येषां ते\ऽप्य् एते बकादयः । "ते" इति क्वचित् पाठः। नाभिभवन्ति धर्षयितुं न शक्नुवन्तीत्य् अर्थः । एव निर्धारे । लौकिकवद् उक्तिर् अप्य् एषां तेषां स्नेह-भराक्रान्त-चित्तत्वान् न किल दोषाय कल्पत इति सर्वत्रैवोह्यम् । न केवलम् एतावद् एव, किन्तु स्वयं सदा एव म्रियन्ते\ऽपीत्य् आहुः—जिघांसया इति । कुतो\ऽप्य् आगतानां बहूनाम् अप्य् एकस्माद् एव स्वयं सद्यो-मरणे दृष्टान्तः—अग्नौ पतङ्गवद् इति ॥५६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेषाम् एव विप्रियत्वं विवृणोति—अथापि इति । अथ पूर्व-हेतोर् एव घोर-दर्शना अपि इत्य् अन्वयः । अथवा तत्र हेतुं तर्कयन्ति तेषां बकादीनां, पुरानेन व्रजपते ! साधवो दस्यु-पीडिता [भा।पु। १०.८.१७] इत्य्-आदि-गर्गोक्त-रीत्या विप्रियम् अनिष्टम् अनेन पूर्वं कृतम् आसीत् यतः येभ्यो भयम् अस्य भवति । अथापि यद्य् अपि पूर्व-विप्रियाचरणाद् धन्तुम् आयान्ति, तथापीत्य् अर्थः । घोरं दर्शनम् अपि, किम् उत कर्म येषां ते\ऽपि एते बकादयः इति तेषां पापिष्ठत्वम् उक्तम् । "नैवं ते घोर-दर्शना" इति क्वचित् पाठः । नाभिभवन्ति धर्षयितुं न शक्नुवन्तीत्य् अर्थः । एव इति कदाचित् कथञ्चिद् अपीत्य् अर्थः । न केवलम् एतावद् एव किन्तु स्वयं सद्य एव म्रियन्ते अपीत्य् आहुः—जिघांसया इति । कुतोऽप्य् आगतानां बहूनाम् अप्य् एकस्माद् एव स्वयं सद्यो मरणे दृष्टान्तः अग्नौ पतङ्गवद् इति अनेनास्य पुण्य-प्रभावत्वम् अप्य् उक्तम् । अतो हिंस्रः स्व-पापेनेत्य्-आदिवद् एवोत्प्रेक्षितम् ॥५६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अनेन बालकेन पूर्व-जन्मनि तेषां विप्रियं प्रथमं कतमत एवास्मिन् जन्मनि हन्तुम् एनम् एते एवायान्तीति कथं न सम्भाव्यते ? तत्राहुः—अथापि । यद्य् एवम् अपि स्यात्, तर्हि तैर् अयम् अभिभूयेतैवेत्य् अर्थः । किन्तु ते नाभिभवन्ति अभिभवितुं न शक्नुवन्ति प्रत्युत जिघांसया इत्य्-आदि ॥५६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.११.५७ ॥
अहो ब्रह्म-विदां वाचो नासत्याः सन्ति कर्हिचित् ।
गर्गो यद् आह भगवान् अन्वभावि तथैव तत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गर्गो यद् आह—तस्मान् नन्दात्मजोऽयं ते नारायण-समो गुणैः [भा।पु। १०.८.१९] इत्य्-आदि ॥५७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहो ब्राह्मणानां प्रभाव इत्य् अभिप्रेत्याह—गर्ग इति ॥५७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-भगवन्-माहात्य्मानुभवेनापि ते स्नेह-भरेण तम् "ईश्वरो\ऽयम्" इति न विदुः, किन्तु "को\ऽपि महा-पुरुषो\ऽयम्" इति निश्चित्य गर्ग-वाक्येन तद् एव द्रढ्यन्ति । अहो इति आश्चर्ये । ब्रह्म-विदां वेदार्थ-तत्त्व-ज्ञानां, भक्ति-निष्ठानाम् इत्य् अर्थः। असत्या न सन्ति न भवन्ति । अन्वभावि अनुभूतम् इति श्री-वल्लवेन्द्रस्य भागवतत्वाद् बन्धुवात्सल्याच् च रहस्य् अपि गर्गेणोक्तं श्री-भगवन्-माहात्य्मयं तेषु किञ्चिद् अभिव्यक्तम् अभूद् इति गम्यते । तच् च सहज-स्नेहवतां तेषां स्नेह-विवृद्धय एवाकल्पतेति ॥५७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र प्रमाणं दर्शयन्तोऽपि वात्सल्य-स्वभावेन साश्चर्यम् आहुः—अहो इति । ब्रह्म-विदां वेदार्थ-तत्त्वज्ञानां भक्ति-निष्ठानाम् इत्य् अर्थः । असत्या न सन्ति न सम्भवन्ति । अन्वभावि अनुभूतम् इति । श्री-वल्लवेन्द्रस्य सरल-स्वाभावत्वाद् बन्धु-वात्सल्याच् च रहस्य् अपि गर्गेणोक्तं तन् माहात्म्यं तेषु किञ्चिद् अभिव्यक्तम् अभूद् इति गम्यते ॥५७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र हेतुर् अस्य नारायण-समत्वम् एवेत्य् आहुः—अहो इति । गर्गो यद् आह—नारायण-समो गुणैः [भा।पु।१०.८.१९] इत्य्-आदि ॥५७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कथम् एतत् सम्भवति ? तत्राह—अहो इति । अस्य सर्वेश्वरत्वात् तत्र गर्ग-वाक्यं प्रमाणम् इति नन्द-राजस्य सारल्याद् बन्धु-सौहार्दाच् च रहस्य् अपि गर्गोक्तस्य किञ्चित् प्रकाशनं बोध्यम् ॥५७॥
॥ १०.११.५८ ॥
इति नन्दादयो गोपाः कृष्ण-राम-कथां9 मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन्10 भव-वेदनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति पूर्वोक्त-रीत्या । रममाणास् साह्लादाः । भव-वेदनां संसार-दुःखम् ॥५८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति अनेन प्रकारेण । रामस्यैतादृश-प्रसङ्गाभावे\ऽपि निर्देशस् तयोर् अन्यो\ऽन्यं स्नेह-भरेणैक्यात् । तत्र च श्री-कृष्णस्य प्राधान्याद् आदौ पूर्ववन् निर्देशः । यद् वा, रमयन्ति सुखयन्तीति रामा याः कथाः, ताः । "कथाम्" इति क्वचित् पाठः । कुर्वन्तः कथयन्तः । यद् वा, गाथादि-रूपेण निबध्नन्तो\ऽत एव रममाणाः सुखम् अनुभवन्तः, किं वान्यो\ऽयं श्री-भगवता सह वा क्रीडन्तः । भव-वेदनां सांसारिक-दुःखं नाविदन् न ज्ञातवन्तो\ऽपि, किम् उत प्रापुर् इत्य् अर्थः । एतच् चानुषङ्गिकम् ॥५८-५९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् अनेन प्रकारेण गता आगमिष्यमाणाश् च कृष्ण-राम-कथाः, "कथाम्" इति क्वचित् पाठः, कुर्वन्तः कथयन्तः । न केवलम् एतावद् एव, अपि तु रममाणाः श्री-भगवता सह क्रीडन्तश् च भव-वेदनां भवे संसारे सांसारिकाणां यद् दुःखं, तेष्व् अवतीर्णां अपि नाविदन् न ज्ञातवन्तोऽपि । अतः क्षुधार्ता इदम् अब्रुवन् [भा।पु। १०.२२.३८] इत्य्-आदौ यत् तेषां क्षुधादिकं दृश्यते, तत् तु न भव-सम्बन्धि, किं तु लीलोपोद्वलकात्वाल् लिला-मयम् एवेति भावः । अत्र एवं विहारैर् [५९] इत्य्-आदि-पद्यम् अपि पठन्ति । अत्र पुरतः पुनः कौमार-लीला-वर्णनं स्मृति-विशेष-चमत्काराभिनयेन अतोऽग्रेऽपि तस्य पुनर् उक्तिर् इति ज्ञेयं सम्बन्धोक्ताव् उभयत्र व्याख्यातत्वात् ॥५८-५९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथां कुर्वन्तः आस्थान्याम् उपविश्य बाल्य-चापल्य-कथां वत्स-बकादि-वध-कथां च पुनः पुनः संलपन्तः गीत-पद्यादिभिर् उपनिबध्नन्तो वा भवस्य सांसारस्य वेदनां ज्ञापनं—"भो व्रज-राज ! वयं तावद् भवताम् अर्धं व्यतीतम् एव अधुनापि कथं पुत्र-कलत्र-कुटुम्बादि-कथासु निमज्जथ ? घोरः संसारो\ऽयं वर्तते । अस्माद् उद्धारार्थं ज्ञान-वैराग्य-तपो-नारायण-स्मरणादिषु कथं न यतध्वे ?" इति देशान्तरागत-वृद्ध-गोपालादिभिर् ज्ञापितं—नाविदन् नैवावदधुः । व्याख्यान्तरं त्याज्यं न पुनः कल्पते राजन् ! संसारो\ऽज्ञान-सम्भवः [भा।पु। १०.६.४०] इति पूर्वोक्तेस् तेषां संसारस्यैव निषेधात् कुतस् तदीय-पीडा-शङ्का ? इति
इति अनेन प्रकारेण गता आगमिष्यमाणा किन्तु लिलोपोद्वलकत्वाल् लीलामयम् एवेति भावश् च । "कृष्ण-राम-कथाम्" इति क्वचित् पाठः । कुर्वन्तः कथयन्त न केवलम् एतावद् एव, अपि तु राममाणा श्री-भगवता सह क्रीडन्तश् च भव-वेदनां भवे संसारे संसारिकाणां यद् दुःखं तत् तेष्व् अवतीर्णा अपि नाविदन् न ज्ञातवन्तो\ऽपि । अतः क्षुधार्ता इदम् अब्रुवन् [भा।पु। १०.२२.३८] इत्य्-आदौ यत् तेषां क्षुधादिकं दृश्यते, तत् तु न भव-सम्बन्धि ॥५८-५९॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कृष्ण-राम-कथां बाल्य-चपल्यादि-विषयां पूतना-वधादि-विषयां च कुर्वन्तो मिथः संलपन्तः भव-वेदनां नाविदन् तदानीं कृष्ण-वीक्षार्थम् आगतस्य भवस्य श्री-शिवस्यापि वेदनां तद्-विषयां ज्ञानं नालभन्त । रममाणाः कृष्णेन सार्धं क्रीडन्तस् तद्-आवेशाच् छिवागमनम् अपि नावदध्युः । वेदना ज्ञान-पीडयोः इति मेदिनी । तत्-समानं तु श्री-यशोदाद्या व्यधुर् इति बोध्यम् । भव-वेदनां संसार-पीडाम् इति तु भ्रान्तम् एव, न पुनः कल्पते राजन् [भा।पु। १०.६.४०] इत्य्-आदिना तेषां संसार-प्रतिषेधाद् एव ॥५८॥
॥ १०.११.५९ ॥
एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे ।
निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
वत्स-यूथ-गत हत्वा वत्स-दम्भासुरं हरिः ।
मुनि-यूथ-गतं चाहन्न् अग्रण्यं दम्भिनां बकम् ॥*॥
इति श्रीमद्-भागवते महापुराणे दशम-स्कन्धे पूर्वार्धे टीकायां वत्स-बक-वधो नामैकादशो\ऽध्यायः ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कौमारैर् बालावस्था-भवैः विहारैः क्रीडा-विशेषैः । कश्चित् स्तम्भादि-मूले निलीय तिष्ठति, तम् अपरो न्विश्य गृह्नातीति या क्रीडा, तन् निलायनं । स्व-शरीरेण मृद्-दार्व्-आद्यैर् जल-रोधनं सेतु-बन्धः । यथा वृक्षाद् वृक्षान्तरम् उत्प्लवते तथोत्तङ्ग-मृत्तिका-निर्मित-शिशुमाराकारोपरि शिरसि पदं निधाय पतनम् उप्लवनम् । पांशु-भित्तौ मणिं निधाय तद् उपरि हस्तं निदधाति कश्चित् कश्चित् तम् अन्विष्य गृह्नातीतीयम् अपि काचित् क्रीडास्ति सात्र आदि-पदाज् ज्ञेया । अन्या वाधुनिक-बाल-प्रसिद्धा वीटाक्षेप-कन्दुक-क्षेपादि-रूपा इति ॥५९॥
वत्सस्य दम्भः छद्म यस्य स वत्स-दम्भः, स चासाव् असुरश् चेति तथा । अग्रण्यं मुख्यम् । यत्र बकः स्थितस् तत्र र्षयो\ऽप्य् अतिष्ठंस् तपः कुर्वाणा इति ज्ञेयम् ॥*॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवम् इति । जहतुर् अन्तर्धापयामासतुः ॥५९॥
अन्यैर् न व्याख्यातम्।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यां संहितायां वैयासिक्यां दशम-स्कन्धे
नाम एकादशोऽध्यायः ।
॥ १०.११ ॥