यमलार्जुनोद्धारः ।
॥ १०.१०.१ ॥
श्री-राजोवाच—
कथ्यतां भगवन्न् एतत् तयोः शापस्य कारणम् ।
यत् तद् विगर्हितं कर्म येन वा देवर्षेस् तमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
दशमेऽपातयद् रिङ्गन्न् अन्तरा यमलार्जुनौ ।
तत्रत्याभ्यां च देवाभ्यां कृष्णः स्तुत इतीर्यते ॥*॥
यद् विगर्हितं कर्म, येन वा देवर्षेर् भागवतोत्तमस्यापि तमः क्रोधः, तद् एतत् कथ्यताम् इति ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यमलौ युग्मौ ताव् अर्जुनौ चेति कर्मधारयः, द्वितीया त्व् अन्तरायोगात् । अन्तरा मध्ये रिङ्गणं स्खलनं समे इत्य् [अमरः ।]{।मर्क्} रिङ्गन् हस्त-पादादिभिश् चलन् तत्रत्याभ्यां देवाभ्यां नल-कूवराभ्याम् ।
अर्जुनः ककुभे पार्थे कार्तवीर्य-मयूरयोः ।
मातुर् एक-सुतेऽपि स्यात् पुंलिङ्गो धवलेन्यवत् ॥ इति मेदिनी ॥*॥
भागवतोत्तमस्याप्य् असम्भावित-तमसोऽपि । विगर्हितं निन्दितम् । येन कर्मणा । तद् एतत् कर्म ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-दामोदरस्य परम-मनोहर-लीला-श्रवणेन चित्तारूढस्य तस्य भाव-विशेष-कौतुकेन क्षणं स-बन्धनस्य स्थित्य्-अर्थम् इव कथान्तरम् आपातयन् पृच्छति—कथ्यताम् इति । तमो\ऽभूद् इति शेषः । "येनासीद् देवर्षेस् तमः" इति पाठान्तरं सुगमम्, आर्षत्वाच् छन्दो-भङ्गादोषः । तच् च सर्व-सम्मतं न स्यात् । तद् एतत् कथ्यताम् अधुनैव कथ्यताम् इत्य् अर्थः ।
यद् वा, तद् अवाच्यम् अपि महद्-अपराध-कथने\ऽपि दोषाद् विशेषतो गर्हितम् इति यथा मुनि-पुत्र-शापे गर्हितं मत् कर्म कारणम्, ततो\ऽपीदम् अधिकतरं न्यूनं भवेत् । अन्यथा भागवतोत्तमस्य श्री-नारदस्य क्रोधासम्भव इत्य् अर्थः । भगवन् ! हे सर्वज्ञ ! इति यथा मद्-विगर्हित-कर्मणा मुनेः शापो\ऽपि भवत्-सङ्गमादिनानुग्रह एव वृत्तः, तथा तयोर् अपि किम् अभूत् ? तच् च त्वया ज्ञायत एवेति भावः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तस्य बद्धस्य मातृ-कोपाद् व्यग्रस्य चाव्याहत-सर्वज्ञमयीं विचार-रूपामान्तर-लीलाम् अपि कौतुकात् पृच्छति—कथ्यताम् इति । तमोऽभूद् इति शेषः । तद् एतच् छापस्य कारणम् इति योज्यं, "येनासीद् देवर्षेस् तमः" इति पाठान्तरं सुगमम् आर्षत्वाच् छान्दो-भङ्गादोषः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-युगल-मोक्षण-लीला-श्रवण-रस-पोषार्थं पृच्छति—कथ्यताम् इति ॥१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
कुवेरात्मजयोः शापः कथा प्रोक्ता पुरातनी ।
तद् विमोचयिता कृष्णस् ताभ्यां तु दशमे स्तुतः ॥
तयोर् विगर्हितं यत् कर्म येन वा कर्मणा देवर्षेर् अपि तमः क्रोध एतत्तयोः शापस्य कारणं कथ्यताम् इत्य् अन्वयः ॥१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.२ ॥
श्री-शुक उवाच—
रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ ।
कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुदृप्तौ गर्वितौ । मन्दाकिन्यां गङ्गायाम् । मदेन धनादिजेनोत्कटाभुच्छ्रङ्खलौ ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रुद्रानुचरत्वाद् एव सुदृप्तौ महा-गर्ववन्तौ । यद् वा, सुदृप्तत्वे हेतुः—धनदात्मजाव् इति । रुद्रस्यानुचरौ भूत्वापि तद् अधिष्ठित-महा-पुण्य-स्थाने, तत्र च मन्दाकिन्यां मन्दाकिनी-तटे, मदिरा-पानात् तथा गङ्गायां निषिद्धाया अपि जल-क्रीडाया विधानात्, तत्र च विवस्त्राव् इति वक्ष्यमाणाद्-गङ्गायां नग्नात्वाच् च महापराधा उक्ताः । मदैः श्र्यादि सम्बन्धिभिर् उत्कटौ मत्तौ, किञ्च, मदिरां पीत्वा वारुणीं वरुण-निर्मिताम् इति महा-मादकत्वम् उक्तम् । स्त्रिय एव जनाः, परिचारक-रूपा लोका वा, तैः सह, अन्विति तयोर् अप्यादौ गानं बोधयति, मत्तत्वात् । यद् वा, निरन्तरम् इत्य् अथः ॥२.३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-शुक-देवश् च तादृश-तद् विचारम् अनुसृत्य वक्तुम् आरब्धवान् तत्र रुद्रस्येति युग्मकम् वारुणीं क्षीरोद-मथनाज् जातां किं वा वरुण-निर्मिताम् इति महा-मादकत्वम् उक्तं तां पीत्वा कैलादोपवन-मध्ये या मन्दाकिनी तस्यां तत् समीपे पुष्पिते वने प्रथमं चेरतुः ॥२.३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.३ ॥
वारुणीं मदिरां पीत्वा मदाघूर्णित-लोचनौ ।
स्त्री-जनैर् अनुगायद्भिश् चेरतुः पुष्पिते वने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वारुणीं वरुणाज् जातां कदन्बादि-सम्भवाम् वारुणी वृक्ष-कोटरात् इति वक्ष्यमाणत्वात् । यद् वा, ततोऽभूद् वारुणी देवी इति समुद्र-मथनाख्यानोक्तेः । वरुण-देवताकं यद् अन्नं तन्मयी सरेति स्वामिचरणाः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.४ ॥
अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि ।
चिक्रीडतुर् युवतिभिर् गजाव् इव करेणुभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गङ्गायाम् अन्तर् मध्ये । कथं-भूते । अम्भोजानां वनानि तेषां राजयस्ता विद्यन्ते यस्मिंस् तस्मिन् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अम्भोजानां सरोजानाम् । राजयः प्ङ्क्तयः । करेणुभ्यां नेमे स्त्री इत्य् अमरः । करेणुभिर् गजीभिः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गजाविवेति महा-मत्ततया जल-क्रीडने दृष्टान्तः । अन्यत् तैर् व्याख्यातम् । यद् वा, अम्भोज-वनेन राजितुं शीलम् अस्य, तस्मिन् जल इति शेषः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गङ्गायां चिक्रीडतुः किं कृत्वा अन्तः प्रविश्य अन्त कथम्-भूते ? अम्भोजवनानां राजिर्यत्रेत्य् अव्यय-विशेषणत्वेन नपुंसकत्वान्नुम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अम्भोज-वनेन राजितुं शीलं यस्य तस्मिन् ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गङ्गायां चिक्रीडतुः किं कृत्वा अन्तर् मध्ये प्रविश्य, कीदृशे अम्भोजानां वनराजिर् यत्र तस्मिन् ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.५ ॥
यदृच्छया च देवर्षिर् भगवांस् तत्र कौरव ।
अपश्यन् नारदो देवौ क्षीबाणौ समबुध्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपश्यत्, दृष्ट्वा च क्षीबाणौ मत्तौ समबुध्यत ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र गङ्गा-तटे । क्षीबाणावश्लील-भाषिणौ वा अश्लील-भाषी स्यात् क्षीवा मदत्तोऽथ हिंसकः इति धरणिः । हे कौरवेति । शुद्ध-वंशजत्वाद् एव त्वाम् इदं गोप्यं वक्ष्यामीति भावः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्व् अर्थे च-कारो भिन्नोपक्रमे । यद् वा, अपश्यत् सम्यग्-बुध्यत चेति च-कारान्वयः । यदृच्छया तयोः केनापि भाग्योदयेनेत्य् अर्थः । आगत इति शेषः । देवर्षिर् इति नियन्तृत्वम्, भगवान् इति दयालुत्वम्—इति वक्ष्यमाण-शापानुग्रहयोर् योग्यता उक्ता । हे कौरवेति तत्र तस्यागमनासम्भवे\ऽप्य् आगमनात् कौतुकेन सम्बोधनम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्व् अर्थे चकारो भिन्नोपक्रमे । यद् वा अपश्यत् सम्यग् अवबुद्ध्यत चेति चकारान्वयः । यदृच्छया स्वैरितया आगत इति शेषः । देवर्षिर् इति नियन्तृत्वं भगवान् इति दयालुत्वम् इति वक्ष्यमाण-शापानुग्रहयोर् योग्यतोक्ता कौरवेति तस्यागमनासम्भवे\ऽप्य् आगमनात् कौतुकेन सम्बोधनम् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृष्ट्वा च क्षीवाणौ मत्तौ समबुध्यतेति मत्तयोर् अनयोर् मम कृपा न फलवती भविष्यतीति तयोर् मदापनोदनार्थं दध्याव् इति भावः॥५.६॥
॥ १०.१०.६ ॥
तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शाप-शङ्किताः ।
वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुत इत्य् अत आह—तं दृष्ट्वेति ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पर्यधुर् वेष्टितवत्यः । तत्र हेतुः तं दृष्ट्वेति ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गुह्यकाव् इति तदा सात्त्विकत्वाभावेन देवत्वहानेः केवल-यक्षतयैवोपलक्षितौ । एव-शब्देन देवीनाम् अग्रहेणापि न पर्यधत्ताम् इति बोध्यते ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गुह्यकाव् इति तदा सात्त्विकत्वाभावेन देवत्व-हानेः केवल-यक्षतयोपलक्षितौ एव-शब्देन देवीनाम् आग्रहेणापि न पर्यधाताम् इति बोध्यते ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१०.७ ॥
तौ दृष्ट्वा मदिरा-मत्तौ श्री-मदान्धौ सुरात्मजौ ।
तयोर् अनुग्रहार्थाय शापं दास्यन्न् इदं जगौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुग्रहार्थाय अनुग्रहश् च मद-नाशोऽर्थश् च श्री-कृष्ण-दर्शनं तद् अर्थम् । इदं वक्ष्यमाणं न ह्य् अन्य इत्य्-आदि ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुग्रहार्थयोः समाहार-द्वन्द्वः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुरात्मजावपि मदिरा-मत्तौ, यतः श्री-मदेनान्धौ सद् असद्-दृष्टि-हीनौ, मदिरेत्यादि-विशेषण-द्वयं शापे, सुरेति चानुग्रहे हेतु-विवेचनीयः । जगौ तत्त्वतो\ऽन्तःकोपाभावेन सदा वीणासक्त-पाणितया वीणयागायत् । किं वा, गाथा-रूपेणोच्चैः स्वयम् अवोचत् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुरात्मजाव् अपि मदिरामत्तौ यतः श्री-मदेन अन्धौ सद् असद् दृष्टि-हीनौ मदिरेत्य् आदि विशेषण-द्वयं शापेसुरेति चानुग्रहे हेतुर् विवेचनीयः तयोर् अनुग्रहार्थायेति तौ प्रति स्व-योग्यस्यानुग्रहस्य योऽर्थः उपशान्ति-भगवद् भक्ति-भगवत् साक्षाकार-संवलन-रूपं तस्मै तं प्रापयितुं स्थावरत्व-प्रापकं शापं दास्यन् अनुग्रह-स्वभावत्वाद् एषां सोयम् अनुग्रह-परापराधं स्व-शापाद् अभिभूय स्वरूपेणैव पर्यवसितः स्यात् ततश् च तद् रूपोऽर्थः स्वयम् एव व्यक्तीभवतीति भावः । तत्र च सति यत् खलु-विशेषेण बृहद् वनान्तर्भावि-श्री-मद् व्रज-राज-द्वार्यर्जुनाख्य-गोप-सखनाम् अवृक्षतया जन्म प्रापतुः यच् च येन येनावतारेणेत्य् आदिरीत्या परमहित-लीला श्री-बाल-गोपाल-साक्षात्कारादिकं लेभाते तत्रेदं सम्भावयामः तदानीं तेन श्री-मद् देवर्षिणा तु तोकेन जीव हरं यद् उलूकिकायाः इत्य्-आदि-रूपः निरर्गल-कारुण्यमय-तल् लीला-गानं क्रियामाणम् आसीद् इति तत् कारुण्यतादात्म्यापन्न-निजानुग्रहेण तत् पर्यन्तो\ऽप्य् अर्थो दत्त इति जगौ तत्वतोऽन्तः कोपाभावेन गाथारूपेणोच्चैः स्वयम् अवोचत् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-विधानाम् अनुग्रहस्य योऽर्थः श्री-कृष्ण-दर्शनं तस्ये ॥७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुग्रहस्य अर्थः फलं भगवत् साक्षात्कारस् तद् अर्थं शापं दास्यन्न् इति यथा अतिवत्सलः पित्रादिको ऽतिमधुरं क्षीरादिकं भोजयिष्यन् पुत्रादिकम् अतिनिद्राणम् आलक्ष्य तन् निद्रा-भङ्गार्थं नख-द्वयाघातं करोति तद्वद्-इत्य्-अर्थः । जगाव् इत्य् अन्ये ऽपि श्रुत्वा स्वहितं जानन्त्व् इति भावः ॥७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.८ ॥
श्री-नारद उवाच—
न ह्य् अन्यो जुषतो जोष्यान् बुद्धि-भ्रंशो रजो-गुणः ।
श्री-मदाद् आभिजात्यादिर् यत्र स्त्री द्यूतम् आसवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जोष्यान् प्रियान् विषयान् जुषतः सेवमानस्य पुंसः श्री-मदाद् अन्य आभिजात्यादिः सत्-कुल-विद्यादि-जनितो मदः । अन्यो वा रजो-गुणो रजः-कार्य-हास्य-हर्षादि-रूपे न हि । तथा बुद्धि-भ्रंशो बुद्धिं भ्रंशयतीति तथा, किन्तु श्री-मद एवेति । तद् आह—यत्र इत्य्-आदि-चतुर्भिः । यत्र श्री-मदे ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मद इति । शेष-कल्पनातो वरं श्लोकान्तर्गत-पदेनान्वयः । ऋजु-मार्गेण सिध्यतो\ऽर्थस्य वक्रेण साधनायोगात् इति न्यायात् । अत आह--अन्यो वा इति । श्रीमद एव सर्व-परः इत्य् आह—किन्तु इति । स्त्री-शब्देन पर-स्त्री-सङ्गः स्व-स्त्री-सङ्गस्य शास्त्रीयत्वात् । द्युत-पदेन तत्-क्रीडा । आसव-पदेन च तत्-पानं लक्ष्यते ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-मदेनान्ध्यं दृष्ट्वा श्री-भ्रंश-शापं दातुम् आदौ श्री-मदं निन्दति—न हीति पञ्चभिः । अभिज्ञातिः सत् कुलम्, तद् उद्भव आभिजात्यो मदः, आदि-शब्दाद्-विद्यादि-मदः, तथा चोक्तम्—
विद्या-मदो धन-मदस् तथा चाभिजनो मदः ।
एते मदा मदान्धानां त एव हि सताम् दमाः ॥ [म।भा। ५.३५.४३1] इति,
न ह्य् अन्यो जुषतो जोष्यान् बुद्धि-भ्रंशो रजो-गुणः ।
श्री-मदाद् आभिजात्यादिर् यत्र स्त्री द्यूतम् आसवः ॥
यत्र श्री-मदे सति स्त्र्यादयो भवन्ति । यद् वा, यस्मिन् विषये सति श्री-मदे सति स्वत एव सद्यस् तेषां प्राप्तेः । स्त्रिया आदौ निर्देशस् तस्या सर्वान् अथ-मूलत्वात्, किं वानर्थापादने स्त्र्यादीनां यथोत्तरं श्रेष्ठ्यम्, तत्र द्युते कलहादि-दुःखेन वृथा धन-व्ययेन च तस्य स्त्रीतः शैष्ठ्यम्, तस्माच् च मत्ततया देह-रक्षादेर् अप्य् अननुसन्धानेन चासवस्य ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-मदेनान्धां दृष्ट्वा श्री-भ्रंश-रूपं शापं दातुम् आदौ श्रीमदं निन्दति-न हीतीति पञ्चभिः । अभिजातिः सत्-कुलं तद्-उद्भवः आभिजात्यो मदः आदि-शब्दाद् विद्यादि-मदः तथा चोक्तं—
विद्या-मदो धन-मदः तथैवाभिजनो मदः ।
मदा एतैर् अलिप्तानां त एव हि सतां दमाः ॥
यत्र श्री-मदे सति स्वत एव सद्यस् तेषां प्राप्तेः तेषां काम-क्रोधयोर् महा-हेतुत्वात् तयोश् च
काम एष क्रोध एष रजो-गुण-समुद्भवः ।
महाशनो महा-पाप्मा विध्येनम् इह वैरिणम् ॥ गीता ।
इत्य्-आदिना निन्दितत्वेन श्री-मद् भीतासूक्तत्वात् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्योष्यान् प्रियविषयान् जुसतः सेवमानस्य पुंसः श्रीमदान्धस्य आभिजात्यादिर् बुद्धि-भ्रंशको हि निश्चयेन न भवति। यथा श्रीमदः अवश्यम् एव बूद्धिं भ्रंशयतीत्य् अर्थः। अभिजातिः सत्कुलं तद्-उद्भवः आदिशब्दाद् विद्यादि मदः। रजोगुणोद्भवत्वाद्रजो गुणः श्रीमदे सति यथा पापानि जायन्ते तथा नान्यत्रेत्य् आह, यत्रेति चतुर्भिः ॥८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.९ ॥
हन्यन्ते पशवो यत्र निर्दयैर् अजितात्मभिः ।
मन्यमानैर् इमं देहम् अजरामृत्यु नश्वरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इमं नश्वरं देहम् अजरा-मृत्यु अजरश् च अमृत्युश् च यथा तथा मन्यमानैः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र येषु स्त्र्यादिषु सत्सु पशवो भूतानि पशुर्वै स देवानाम् इति श्रुतेः । पशु-शब्दो मनुष्येऽपि वर्तते । हननमपि मारण-धन-हरण-प्रवासनापमानादि-भेदाद् बहुविधं ज्ञेयम् । यथातिवत्सलो जनकादि-रति-मधुरं क्षीरादिकं भोजयितुं पुत्रादिकं निद्राणम् आलक्ष्य तन् निद्रा-भङ्गार्थं नख-द्वयाघातं करोति तद्वत् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परम् अपि महा-पाप-जनकं परद्रोह-लक्षणं सुदुष्टं कर्मात्र घटत इत्य् आह—हन्यत इति भोजन-सुखार्थं पशव इति भक्ष्याभक्ष्य-विचारो\ऽपि निरस्तः । निर्दयैर् असद्भिर् यतो\ऽजितेन्द्रियैर् अत एवं साक्षाज् जरा मरण धर्मकम् अपि, तत्र च नश्वरं प्रतिक्षणं रोगादिना नाश-शीलीलम् अप्य् अजरा-मृत्यु वस्त्विति मन्यमानैः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च महा-पाप-जनकं परद्रोह-लक्षणं सुदुष्टं कर्मात्र घटत इत्य् आह—हन्यन्त इति । भोजन-सुखार्थं पशव इति साक्षात् भक्ष्याभक्ष्य-विचारो\ऽपि निरस्तः । निदयरसद्भिः यतः अजितेन्द्रियैः अत एव इमं साक्साज् जारादि-धर्मकम् अपि तत्र च प्रतिक्षण-परिणामित्वेन नाशा-लीलम् अपि अजरमृत्युवस्त्विति मन्यमानैः टीकायाम् अजरश् च यो देह-विशेषः पश्चान् मृत्युर् अप्य् अन्यः तयोः द्वन्द्वक्यं तद्वन् मन्यमानैर् इत्य् अर्थः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हन्यन्त इति अजरश् च यो देह-विशेषः पश्चाद्-अमृत्युर् अप्य् अन्यस् त्वयोर् द्वन्द्वैक्यं तन् मन्यमानैर् इत्य् अर्थः ॥९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जरा-मृत्युभ्यां दृष्टाभ्याम् अपि इमं देहं न नश्वरं मन्यमानैः।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.१० ॥
देव-संज्ञितम् अप्य् अन्ते कृमि-विड्-भस्म-संज्ञितम् ।
भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नर-देव-भूदेव संज्ञितम् अपि श्वादिभिर् भक्षितं विट्-संज्ञितं दग्धं भस्म-संज्ञितम् अन्यदा कृमि-संज्ञितम् । तत्-कृते तद्-अर्थं यो भूत-ध्रुक् भूत-द्रोग्धा । यतो भूत-द्रोहान् निरयो भवति स किं स्वार्थं वेद । नैव वेदेत्य् अर्थः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निरयो निर्गतोऽयः सुखं यतः स निरयो नरकः । यद् वा, तत्-कृते अन्तः काम-क्रोध-लोभाक्रान्त-चित्ततया स्वयम् अज्ञानीभूय विहितत्याग-पूर्वकं लोके निज-ज्ञानितां प्रकट्य लोकान् कर्मतः प्रचाय्याहं ब्रास्मीति मामेवेश्वरं जानीत तत् तम् असि इति श्रावयित्वा च त्वम् अपीश्वरोऽसीति देह-पूजां कारयितुं भूतं नित्य-भूतं परमात्मानं स्वस्य तत् तुल्य-भावनया गृह्यतीर्ष्यतीति भूत-ध्रुक् स किं स्वार्थं स्वस्यानीशतां वेद यतो भगवद्-द्रोहान् निरयो भगवति राजाभिमानि-तन्तुवायस्य राज-दण्डवद्यम् अदण्डो भवतीति भावः । भूत-ध्रुक् को लभेत शम् इति तद् अवध्यायी न क्वचित् सुखम् एधते इति च कंस-भार्याभिर् वक्ष्यमाणत्वात् । इत्य् अर्थ इति । स तु सर्वथा स्वार्थापरिज्ञाणिति भावः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्वस्थार्थं हितम् इत्य् अर्थः ॥१०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वस्यार्थं हितम् इत्य् अर्थः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नरदेव भूदेव सञ्ज्ञितम् अपि अन्ते मरणानन्तरं श्वादिभिर् अभक्षितं पुत्रादिभिर् अदग्धं चेत् कृमि-सज्ञितं भक्षितञ् चेत् विट्-सञ्ज्ञितं दग्धञ् चेत् भस्म-सञ्ज्ञितं भवेत्, तस्य देहस्य कृते यो भूतद्-ह्रुक्, यतो भूत-द्रोहात्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.११ ॥
देहः किम् अन्न-दातुः स्वं निषेक्तुर् मातुर् एव च ।
मातुः पितुर् वा बलिनः क्रेतुर् अग्नेः शुनोऽपि वा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं देहेऽहं भावोऽपि न घटत इत्य् आह—देह इति । निषेक्तुः पितुः । मातुः पितुर् वा माताम् अहस्य पुत्रिका-करणे ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्न-दातुर् नित्यं भोजन-प्रदस्य निषेक्तुंर् गर्भाधान-कर्तुः पितुर् इति स्वामि-चरणाः । बलिनो बलात्कारेण ग्रहीतू राज्ञादेः क्रतुर् द्रव्यं दत्त्वा मौल्येन ग्रहीतुः । अग्नेः अन्त्ये तस्य तत्रैवाहुति-निक्षेपात् । शुन इत्य् उपलक्षणं गृध्रादेर् अपि । आहुत्यभावे तैर् एव भक्ष्यत इति तेषाम् अपि स्वत्वं तत्र । अपि वेत्य् उक्तेः मृदि निखनने कृम्यादिभिर् भक्ष्यते तद् अतस् तेषाम् अपि स्वत्वम् इति ज्ञेयम् ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देहे ममतापि न घटेतेत्याशयेणाह—देह इति । स्वं स्वत्वास्पदम् । बलिनो बलाद्-विशिष्ट्याद्य् अर्थ-गृह्णतः एवार्थे अपि-शब्दः, अस्य एव शब्दस्यापि पूर्वैर् अप्य् अन्वयः । एवम् अन्न-दात्रादीनां प्रत्येकम् । स्वत्व-निर्धाराद् देहस्यात्य् अन्तानात्मीयतोक्ता ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देहे ममता निर्धारणम् अपि न घटेत बहु-विप्रतिपत्तर् इत्य् आह देह इति-स्वं धनं स्वीयम् इत्य् अर्थः । बलिनः बलाद्विष्ट्याद्यर्थं गृह्नतः एव-शब्दस्यापि पूर्वैर् अप्य् अन्वयः क्रेतुर् वा बलिनोऽग्रेर् इति वा बलिनः क्रेतुर् अग्रेर् इति वा पाठः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : देह इति स्वं वस्त्विति शेषः ॥११॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहे ममता निर्धारणमपि न घटते बहुविप्रतिपत्तेर् इत्य् आह, देह इति। निषेक्तुः पितुः स्वं धनम्, मातुः पितुर्मातामहस्य वा पुत्रिकाकरणे सति। बलिनो बलाद्विष्ट्यर्थं गृह्नतः ॥११॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.१२ ॥
एवं साधारणं देहम् अव्यक्त-प्रभवाप्ययम् ।
को विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋतेऽसतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अव्यक्त-प्रभवाप्ययम् अव्यक्तात् प्रभवस् तस्मिन्न् एवाप्ययो यस्य तम् आत्म-सात्-कृत्वा आत्मेति मत्वा । असतो मूढाद् ऋते ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-प्रकारेण । साधारणम् अनेकस्वत्वास्पदम् । अव्यक्तात् प्रकृतेः अव्यक्तादीनि भूतानि व्यक्तम् अध्यानि भारत । अव्यक्त-निधानान्य् एव इति स्मृतेः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अव्यक्तं प्रधानम्, तत् प्रभावाप्य् अयत्वेन मायिकत्वम्, तथाप्य् आत्मेति मत्वा । यद् वा, अव्यक्तादीश्वरात् प्रभवाप्य् अयौ यस्येत्य् अस्वाधीनत्वम् उक्तम्, तथाप्य् आत्मीयम् इति मत्वा, विद्वान् तत् तत्त्वं जानन्न् इत्य् अर्थः । यद् वा, अविद्वान् अपि को हन्ति ? हन्यमानस्य साक्षाद्-दुख-दर्शनात् । तच् चाग्रे वक्ष्यति । असतः श्री-मद्-दुर्बुधेर् विना ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पूर्वोक्त-प्रकारेण देहं साधारणम् अपि विद्वान् जानन् तथा अव्यक्त प्रधानवत्कारणावस्थायाम् अविविक्तं भूत-पञ्चक्वं तत्र प्रभवाप्य् अयौ यस्येत्यापात-मात्र-प्रतीतम् अपि जानन् को नाम तमात्मत्वेनाङ्गीकृत्य जन्तून् हन्ति न को\ऽपि असन्तस्तु जानन्तोऽपि घ्नन्तीत्य् अर्थः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अव्यक्तात् प्रभवस् तस्मिन्न् एवाप्ययो यस्य तम् । आत्मसात् कृत्वा आत्मत्वेनाङ्गीकृत्य असतोऽज्ञान् विना ॥१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.१३ ॥
असतः श्री-मदान्धस्य दारिद्र्यं परम् अञ्जनम् ।
आत्मौपम्येन भूतानि दरिद्रः परम् ईक्षते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं श्री-मद-विचेष्टितम् उक्त्वा तत् प्रतीकारं निश्चिनोति—असत इति । परं श्रेष्ठं, दारिद्र्यम् एव केवलम् इति वा । कुत इत्य् अत आह—आत्मौपम्येनेति । ततो न द्रुह्यतीति भावः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-प्रतीकारं श्री-मद-नाशकं दारिद्र्यस्य श्रैष्ठ्यम् असहमानोर्थान्तरम् आह—केवलम् इति । एकम् इत्य् अर्थः । तत्र हेतुम् आशङ्कते—कुत इति । आत्मौपम्येन स्व-सादृश्ये नेति । इति भाव इति—सुख-दुःखे स्ववन् मन्यत इति तथापिअम् ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो बतासाधोर् अन्यस्यान्यथा कथञ्चित् हितं स्यात्, श्रीमत्तस्य त्व् असाधोर् दारिद्र्येणैवेत्य् आह—असत इत्य्-आदि । दारिद्र्यम् एव परंआञ्जनम् इत्य् अन्धता-निदानस्य श्रीमदस्य वैद्यकोक्त-निदान-विपर्यय- न्यायेन दारिद्र्येणैव प्रतीकार-सिद्धेः । आत्मौपम्येनेति यथा मम सुखं दुःखं च स्यात्, तथान्यस्यान्यस्यापीति कस्यैच्द् अपि दुःखार्थं न कदापि प्रवर्तते इति भावः । एवं निर्दयत्वादि-हेतु-श्रीमद-वैपरीत्येन दारिद्र्ये समयत्वं बोधितम्, पशु-हननादिकं च निरस्तम् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो बतासाधोर् अन्यस्यान्यथापि कथञ्चित् हितं स्यात् श्रीमत्तस्य त्व् असाधोर् दारिद्र्येणैवेत्य् आह—असत इत्य्-आदि । परंअं जनम् इति निदान-विपर्यय-न्यायेन ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-मद-रोग-प्रतीकारं निश्चिनोति—असत इति । परं केवलम् ॥१३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : श्री-मद-रोगस्य प्रतीकारं निश्चिन्वन्न् आह—असत इति । परं केवलं यतो दरिद्रः स्व-तौल्येन भूतानीक्षते, अतो न द्रुह्यतीत्य् अर्थः ॥१३॥
॥ १०.१०.१४ ॥
यथा कण्टक-विद्धाङ्गो जन्तोर् नेच्छति तां व्यथाम् ।
जीव-साम्यं गतो लिङ्गैर् न तथाविद्ध-कण्टकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-दृष्टान्तम् आह—यथेति । मुखाम्लान्यादि-लिङ्गैः सर्वेषां जीवानां सुख-दुःखे समे इति ज्ञातवान् इत्य् अर्थः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां कण्टक-व्यथां मुख-म्लान्यादि-लिङ्गैर् दुःख-सूचकैर् मुख-कार्ष्ण्यादिभिः सुख-सूचकैर् मुख-विकासादिभिश् चिह्नैः । इत्य् अर्थ इति—न हि दुःखं विना मुख-मालिन्यं, सुखं विना वा मुख-विकाशो भवतीति जानातीति भावः । तथाविद्ध-कण्टको नेति । स त्व् इत्थं वदति—"किं ते शक्ति-प्रहारो जातः, किम् अर्थम् अल्प-कण्टक-क्षतेन रोदिषि ?" इति भावः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जन्तोः कस्यचिद् अपि प्राणिनः । तां कण्टक-वेध-कृताम् । अविद्ध-कण्टकः कण्टकेनाविद्ध इत्य् अर्थः, स तथा नेच्छतीति न, अपि त्व् इच्छत्य् एव, दुःखाज्ञानात् । अन्यत् तैर् व्याख्यातम् । यद् वा, लिङ्गैर् अङ्गादिभिर् लक्षणैर् जीवेनान्येन साम्यं प्राप्तो\ऽप्य् अविद्ध-कण्टकश् चेत् तर्हि तथाविद्ध-कण्टक-सदृशो न भवति, किन्तु इच्छत्य् एवेत्य् अर्थः । एवं दरिद्रो निज-दुःखानुमानेनान्य-दुःखम् अवकलयत्य् एवेति भावः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यतो यथेति । जन्तोः कस्यचिद् अपि प्राणिनः तां कण्टक-वेध-कृतां नेच्छति, तस्य सा भवत्व् इति न वाञ्छतीत्य् अर्थः । यतो लिङ्गैः मुख-म्लान्यादिभिर् जीवस्य तस्य साम्यं निज-दुःखानुस्मरणात् कृपोदयेन तुल्यावस्थत्वं गतः प्राप्तो भवति अविद्ध-कण्टकः कण्टकेनाविद्ध इत्य् अर्थः । राजदन्तादिवत् पर-निपातः । यद् वा, अविद्धः अलग्नः कण्टको यस्य सः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लिङ्गैर् मुख-म्लान्यादिभिर् दृष्टैर् जीवे परस्मिन् साम्यं गतः । पूर्वानुभूत-स्व-व्यथा-सादृश्यं तत्रानुमिमान इत्य् अर्थः । अविद्ध-कण्टकः कण्टकेनाविद्धः राज-दन्तादिः ॥१४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्र दृष्टान्तम् आह—यथेति । जन्तोः स्वान्यस्य तां व्यथां नेच्छति, लिङ्गैर् मुख-म्लान्यादिभिर् दृष्टैर् अन्यस्मिन् जीवे साम्यं गतः पूर्वानुभूत-स्व-व्यथा सादृश्यं तत्रानुमिमान इत्य् अर्थः । न तथेति कण्टकेनाविद्धो\ऽविद्ध-कण्टकः राज-दन्तादिः ॥१४॥
॥ १०.१०.१५ ॥
दरिद्रो निरहं-स्तम्भो मुक्तः सर्व-मदैर् इह ।
कृच्छ्रं यदृच्छयाप्नोति तद् धि तस्य परं तपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, दारिद्र्यं मोक्षम् अपि साधयतीत्य् आह—दरिद्र इति श्लोक-चतुष्टयेन । निरहं-स्तम्भो निर्गतोऽहङ्कार-रूपः स्तम्भो यस्मात् सः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दरिद्रम् उद्दिश्यान्यद् अप्य् आह—किं चेति । स्तम्भो गर्वः, गर्व-रोधनयोः स्तम्भः इति हलायुधः । सर्व-मदैः विद्याभिजनादि-मदैः सर्वैर् अनादृतत्वाद् दरिद्रस्य सत्-कुल-मादादयो\ऽपि प्रायो नश्यन्तीति भावः । यदृच्छया देवेच्छया । तत् कृच्छ्रम् । तस्य दरिद्रस्य । एतद् वै परं तपो यद् व्यथितस् तप्यते इति श्रुतेः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निर्गतो\ऽहङ्कारेण धनित्वादि-गर्वेण यः स्तम्भो\ऽनम्रता स यस्मात् । यद् वा, निर्गतो\ऽहङ्कारस्य स्तम्भ आश्रयो धनैश्वर्यादिर् यस्माद्द् अतः सर्वैर् धनादि-सम्बन्धिभिर् मदैर् युक्तो भवति । एवं निरहं-स्तम्भत्वादिना दरिद्रस्य श्रीमदोक्त-देह-जराद्य्-अमनन-वैपरीत्यम् अपि सूचितम् । किं च, अन्नाद्य्-अभावेन क्षुधादिना कष्टं यदृच्छया स्वभावत एव प्राप्नोति । परं श्रेष्ठम् इत्य् अभिमान-नाश-हेतुत्वात् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहङ्कारेण धनित्वादि-गर्वेण यः स्तम्भो नम्रत्वाभावः स निर्गतो यस्मात्, अतः सर्वैर् धनादि-सम्बन्धिभिर् मदैश् चित्त-विक्षेपैर् मुक्तो भवति । किं च, अन्नाद्य्-अभावेन यदृच्छया स्वभावत एव प्राप्नोति यत् तत् तप इति अभिमान-नाशकत्वात् । तच् च परं श्रेष्ठम् इति प्रसिद्ध-तपोवद् अभिमान-नाश-हेतुत्वात् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दारिद्र्ये सति मोक्ष-साधनानि स्वत एव भवन्तीत्याह—दरिद्र इति त्रिभिः । अहङ्कारेण धनित्वादि-गर्वेण यः स्तम्भः नम्रत्वाभावः । स निर्गतो यस्मात् सः सर्व-मदैर् मुक्त इति दरिद्रस्य सर्वैर् अनादृतत्वात् सत्-कुल-मदादयोऽपि प्रायो नस्यन्तीति भावः ॥१५-१६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : किं च, दारिद्र्ये सति मुक्ति-साधनानि स्वतो भवन्तीत्याह त्रिभिः । अहं धनीति यः स्तम्भः, स निर्गतो यस्मात् सः सर्व-मदैः सत्-कुलतादि-हेतुकैर् मुक्तस् तस्य सर्वैर् अवज्ञातत्वात् तेऽपि प्रायः प्रनस्यन्तीत्य् अर्थः । स यदृच्छया कृच्छ्रम् आप्नोति तद् अस्य परं तपः ॥१५॥
॥ १०.१०.१६ ॥
नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्यान्न-काङ्क्षिणः ।
इन्द्रियाण्य् अनुशुष्यन्ति हिंसापि विनिवर्तते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु कृच्छ्रानुभवः कथं तप इति चेत्, तत्राह—अनुशुष्यन्ति । देह-शोषम् अनुशोषं गच्छन्ति । इन्द्रिय-प्राबल्य-दौर्बल्ये प्रवृत्ति-निवृत्ती ते चान्नसत्ताभावाभ्यां स्तः अन्नाप्राप्त्येन्द्रिय-प्राबल्यानुविधायि-हिंसा-लक्षणा प्रवृत्तिर् नश्यति, हिंसा-नाश एव महत्-तप इति । नातः परं तपो ब्रह्मन् यद् धिंसादि-निवर्तनम् इत्य् उक्तेः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्येन्द्रिय-जयादिकं च तपो\ऽसाध्यम् अपि स्वतो भवतीत्य् आह—नित्यम् इति । अन्न-काङ्क्षिणो भक्ष्य-मात्रेच्छोर् अनु निरन्तरं शुष्यन्ति, विषय-रसाद् उपरंअन्तीत्य् अर्थः । अत एव हिंसा विषयोपभोगार्थ-पर-पीडादि-लक्षणाप्य् उपरंअति । एवम् अजितात्म-श्रीमत्त्व-विपरीतं स्त्र्य्-आदि-निवर्तकं दरिद्रस्य जितात्मत्वम् उक्तम् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्येन्द्रिय-जयादिकं च तपो साध्यम् अपि स्वतो भवतीत्य् आह—नित्यम् इति । अन्न-काङ्क्षिणः भक्ष्य-मात्रेच्चोः अनु निरन्तरं शुष्यन्ति विषय-रसाद् उपरमन्तीत्य् अर्थः । अत एव हिंसा-विषयोपभोगार्थ-पर-पीडनादि-लक्षणाप्य् उपरमति एवं श्रीमदाद् अजितात्मता । ततश् च हिंसादिकं तद्-विपरीते तु दारिद्र्ये हिंसादि-निवर्तकं जितात्मत्वम् इत्य् उक्तम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हिंसा पर-पीडा ॥१६॥
॥ १०.१०.१७ ॥
दरिद्रस्यैव युज्यन्ते साधवः सम-दर्शिनः ।
सद्भिः क्षिणोति तं तर्षं तत आराद् विशुद्ध्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : युज्यन्ते स्वत एव सङ्गच्छन्ते । तर्षं तृष्णाम् ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्स् तृष्णाक्सायात् । आराच्छीघ्रम् । सिध्यति मुक्तो भवतीत्य् अर्थः । आराद् दूर-समीपयोः इति विश्वः ।
ननु, [दरिद्रस्य तृष्णैव सर्व-दोदामयीति वाच्यं तस्या अपि प्रतीकार-सम्भवाद् इत्य् आह—दरिद्रस्यैवेति । धनित्वदारिद्र्योस् तुल्य-दर्शित्वेनोभयेषाम् अपि गृहे विरक्तस्-अञ्चारस्य सम्भवेऽपि साधवो दरिद्रस्यैव युज्यन्ते दद्रिद्र-कर्तृकस्यैव तद् वन्दन-सन्तोषण-सम्बादादि-सम्भवात् तस्यैव ते स्वयं संयोग-जनित-फलदायका भवन्ति न तु धनिनो मदान्धस्य । अत्रानयोः सन्निधौ वर्तमानोऽहम् एव प्रमाणम् इति भावः । ततश् च सद्भिः सत्-संयोग-महिम्नैव तं तर्षं तृष्णां दरिद्रः स्वयम् एव क्षिणोति क्षीणीकरोति तत्-कृपालब्धस्य भक्त्य-मृतस्य तृष्णाहर-स्वभावत्वाद् इति विश्वनाथः]{।मर्क्} ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, सत्सङ्गत्या चायं कृतार्थो भवतीत्य् आह—दरिद्रस्येति । दरिद्रम् ईश्वरं च समं तत्त्व-विचारेण तुल्यं द्रष्टुं शीलम् एषाम् इति तथा-भूता अपि दरिद्रस्यैव, न तु धनादि-मत्तानाम्, युज्यन्ते स्वयम् एव मिलन्ति, तेषां वैभवेनान्तिके गमनस्याप्य् असम्भवात् । यद् वा, दीन-वात्सल्याद् दरिद्रहितार्थम् एव युक्ता भवन्तीत्य् अर्थः । अथवा, मा लक्ष्मीस् तया सह वर्तत इति समो भगवान्, तद् दर्शिनः सदा चित्तान्तस् तद् अनुभविनो महान्तो दरिद्रस्यैव युज्यन्ते, प्रायोकिञ्चनैर् भगवद्-भक्तैः सह दरिद्रस्य विषयाभावेन समतया सख्यात्, तथा दीनेषु तेषां कृपाधिक्याच् चातः सद्भिर् हेतुभिस् तम् अन्न-विषयकं तर्षं लोभम् अक्षय्यं वा विषय-रागं स्वयं दरिद्र एव क्षिणोति, ततस् तर्षक्षयात् । आरात् शीघ्रम्, हि निश्चितम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च सत्सङ्गत्या चायं कृतार्थो भवतीत्य् आह—दरिद्रस्येवेति, साधवोऽपि दरिद्रस्यैव युज्यन्ते प्रयन्तं विनापि मिलिता भवन्ति, उभयेषाम् अपि विविक्त-सञ्चाराद् इति भावः । एवाकारान् अन् तु धनिनां तेषां जन-सङ्घट्ट-प्राये तद् वासे दौर्घट-गमनत्वाद् इति भावः । न चान्य-लोकवत्तेर् अपि दरिद्रस्यायोगो धनिनो योगश् च यत्नेनापद्यत इत्य् आह-समं धन-हानि-लाभयोस् तुल्यं द्रष्टुं शीलं येषां ते अतः सद्भिर् युज्यमान-मात्रैर् हेतुभिस् तमन्न-विषयकम् अपि सर्वं तर्षं स्वयन्द्ररिद्र एव क्षिणोति आराच्छ्रीघ्रं हि निश्चितम् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च दरिद्रस्यैका तृष्णैव सर्वदोषमयीति वाच्यं, तस्या अपि प्रतीकारसम्भवाद् इत्य् आह, दरिद्रस्यैवेति धनित्व-दारिद्र्ययोस् तुल्य-दर्शित्वेन उभय गृहान् कृपया गच्छन्तो ऽपि साधवो दरिद्रस्यैव युज्यन्ते दरिद्रेणैव तद्वन्दन सम्भाषण संवादादि सम्भवात् तस्यैव ते स्वयं योगजनित फलदायिका भवन्तीत्यर्थः। नतु धनिनो मदान्धस्य अत्रानयोः सन्निधौ वर्तमानो ऽहम् एव प्रमाणम् इति भावः। ततश् च सद्भिः सत्सङ्ग महिम्नैव तं तर्षं तृष्णां दरिद्रः स्वयम् एव क्षिणोति क्षिणीकरोति। तत्-कृपालब्धस्य भक्त्य्-अमृतस्य तृष्णाहर स्वभावत्वात् अतएव पूर्वम् उक्तं कृच्छ्रं यदृच्छयाप्नोतीति कृच्छ्रस्य यादृच्छिकत्वं नतु कर्म-जनितत्वं भक्तस्य कर्मानङ्गीकारात् ॥१७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.१८ ॥
साधूनां सम-चित्तानां मुकुन्द-चरणैषिणाम् ।
उपेक्ष्यैः किं धन-स्तम्भैर् असद्भिर् असद्-आश्रयैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु साधूनाम् अपि धनिकः प्रियः स्यान् न दरिद्र इति तत्राह—साधूनाम् इति । धनेन स्तम्भो गर्वो येषां तैः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साधु-समागमे शङ्कते—नन्व् इति । धनिको धनी उपेक्ष्यैस् त्यक्त-प्रायैः । तत्र हेतुः असद्भिर् धन-मदावज्ञात-सज्जनैः । तत्रआपि हेतुः असतां विटनटपिशुन-वेश्यादि-जनानाम् आश्रयैः । प्रायेण व्यसनासक्ता धनिनो व्यसनि-प्रियाः इति सङ्ग्रहात् ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्वाट्यानाम् अपि कदाचिद् धन-द्वारेण सत्सङ्गो नाम घटेत ? तत्राह—साधूनाम् इति सदाचऋआणां समचित्तानाम् आत्म-तत्त्ववेदिनाम् इत्य् अर्थः । मुक्तिर् अपि कुत्सिता यस्माद् भजनानन्दात् तं ददातीति मुकुन्दो भगवान्, तच् चरणेप्साशीलानाञ्चैषां त्रिविधानाम् उत्तरोत्तरम् उपेक्षायां शैष्ठ्यम् ऊह्यम् । यद् वा, मुकुन्द-चरणैषिणाम् इत्य् अस्यैव विशेषणत्वे यथोत्तरं हेतु-हेतुमत्त्वम्, स्वयम् असद्भिः पुनश् चासताम् आश्रयैः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, साधुभिर् मा क्रियतां स्व-लाभार्थं धन-योगे यन्तः अनुग्रहार्थं तु क्रियतां तत्राह—साधूनाम् इति । एते साधवः सदाचारास् ते तु यत्र स्त्रीद्यूतमासव इति दर्शनाद् असन्तो सदाचाराः एते समचित्ता धनित्वाद्य् अनित्ययोः समदृष्टयस् ते तु धन-गर्वित्वेन तयोर् विषम-दृष्टयः एते मुकुन्द-चरणैषित्वेन तद् एकाश्रयास् ते तु विषयैषित्वेनाद् असद्-आश्रयाः इत्य् एवं प्रकृति-विरोधाद् अनभिर् उचेरुपेक्ष्यैस् तादृश-यत्नमयानुग्रहायोग्यस् तादृशानुग्रह-रूपं प्रयोजनं किं स्यान् नैवेत्य् अर्थः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च साधूनां धनोपाधिका धनिक-संयोगः सम्भवतीत्य् आह, साधूनाम् इति। धनेन स्तम्भो गर्वो येषां तैः। असद्भिर् अवैष्णवैः असद्-आश्रयैर् अवैष्णव-सेविभिः तेन गर्वरहिता अदरिद्रा वैष्णव-सेविनो धनिनो ऽपि साधुभिः संयुज्यन्त एवेति भावः ॥१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.१९ ॥
तद् अहं मत्तयोर् माध्व्या वारुण्या श्री-मदान्धयोः ।
तमो-मदं हरिष्यामि स्त्रैणयोर् अजितात्मनोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तमो-मदम् अज्ञान-कृतं मदम् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्व् असत्वेतद् अत्र भवण् एतयोर् दण्डम् उपेक्षां वा करिष्यतीत्य् अपेक्षायां दण्डमेवैतयोर् हितत्वात् करिष्यामीत्य् आह—तद् इति । स्त्रैणयोः स्त्रीवशवर्तिनोः । अजितात्मनोर् अवशीकृतमनसोः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, माध्या मत्तता क्षणाद् अपयास्यति ? तत्राह—श्रीमद् आन्धयोर् इति, श्री-मद् आन्धतायाः स्थायित्वाद् असकृन् माध्वीकपानेन मत्तताप्य् अनुवत्स्यत्य् एवेति भावः । अत एव स्त्रेणयोः स्त्री—लम्पटयोः । ननूपभोगेन स्त्रैणता शाम्येत ? नेत्य् आह—अतितात्मनोर् असंयमित-मनसोर् इति । यद् वा, विशेषणानाम् एषां यथेष्टं हेतु-हेतुमत्ता द्रष्ट्व्या ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, माध्व्या मत्तता क्षणाद् अपयास्यति तत्राह—श्रीमदान्धयोर् इति । श्री-मदान्धतायाः स्थायित्वाद् असकृन् माध्वीपानेन मत्तताप्य् अनुवर्त्स्थत्येवेत्य् अर्थः । अत एव स्त्रैणयोः स्त्री-लम्पटयोः ननूप-भोगेन स्त्रैणता शाम्येत् नेत्य् आह—अजितात्मनोः असंयमितमनसोर् इति ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदनयोर् गर्व-रोगस्य काञ् चिकित्सां करोमीति मनसि विचार्य निश्चिनोति, तद् अहम् इति चतुर्भिः। माध्व्या मधुमय्या तमो ऽज्ञानं ॥१९.२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.२० ॥
यद् इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ ।
न विवाससम् आत्मानं विजानीतः सुदुर्मदौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तमः-प्लुतौ तमो-व्याप्तौ ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोक-पालस्य कुबेरस्य । विवाससं नग्नम् । आत्मानं देहम् । तत्र हेतुः सुदुर्मदौ मदिरामत्तौ ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुत्रौ भूत्वापि तमोगुण-व्याप्तौ, न केवलम् अज्ञानेन नग्नौ, किन्तु श्री-मदेन मय्य् अवज्ञयापीत्याशयेनाह—सुदुर्मदाव् इति । अस्य वटोर् अग्रे नग्नत्वे को वा दोष इति महा-दुष्ट-मदावित्त्य् अर्थः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुत्रौ भूत्वापि तमो-गुण-व्याप्तौ न केवलम् अज्ञानेन नग्नौ किं तु मदेन मय्य् अवज्ञयापीत्य् आशयेनाह-सुदुर्मदाव् इति । अस्य वटोर् अग्रे नग्नत्वे को वा दोष इति महा-दुष्टमदाव् इत्य् अर्थः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.२१ ॥
अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः ।
स्मृतिः स्यान् मत्-प्रसादेन तत्रापि मद्-अनुग्रहात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शपति, अतोऽर्हत इति । अनुगृह्णाति, स्यातां नैवम् इत्य्-आदिना । मत्-प्रसादेन स्मृतिः स्यात् ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शपति शापं ददाति । यतः सुदुर्मदौ अतः स्थावरतां वृक्षतां प्राप्तम् इति शेषः । अनुगृह्नाति—अनुग्रहं करोति । एवं विवाससौ पुनर् न स्यातं भवेताम् । तत्रापि स्थावरत्वे\ऽपि ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत इति निज-कर्म-दोषाद् एवेत्य् अर्थः । स्यावरतां वृक्ष-योनि-मर्हतः, तमः-प्लुतत्वेन स्थावर-तुल्यत्वात् । स्मृतिर् ज्ञानं पूर्व-जन्म-वृत्त-स्मरणं वा,तेन पुनस् तादृश-पाप-कर्मण्य् अप्रवृत्तेः, साधु-सेवायां च प्रवृत्तेर् अत एव सुच्छायादिना सदा व्रज-जनानां सेवा ताभ्यां कृता । तथा च श्री-हरिवंशे—यौ तावर्जुन-वृक्षौ तु व्रजे सत्योपयाचनौ [विष्णु।प।७.२२] इति । मम प्रसादेनेत्य् अन्यथा तादृश-शाप-कर्मिणोस् तद् असम्भव इति तत्त्वतः क्रोधाभावः, शापाश् च केवलं कृपयवेति बोधयति ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत इति युग्मकम् । अतो निज-कर्म-दोषाद् एवेत्य् अर्थः । स्थावरतां वृक्ष-योनि-महतः तमःप्लुतत्वेन स्थावर-तुल्यत्वात् अतः स्थावरत्वेन परम-दारिद्र्ये सति एवम् ईदृशौ पुनर् न स्याताम् ननु, स्थावरत्वं बहूनां वर्तते नैतावता शिक्षा स्यात् तत्राह-स्मृतिः पूर्व-जन्म-वृत्तानुस्मरणम् अत एव सदा परम-भगवत् प्रियाणां व्रज-जनानां सेवा च ताभ्यां कृता तथा च श्री-हरिवंशे यौ तावर्जुन-वृक्षौ तु व्रजे सत्योपयाचनौ इति ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थावरताम् इति निरावरणयोः स्तब्धयोर् अद्रुवाणयोर् अनयोः स्थावरत्वम् एवोचितम् इति भावः। स्थावरत्वे ऽपि मत्-प्रसादेन स्मृतिर् अस्तु, स्मृतौ सत्याम् अपि मद्-अनुग्रहाद् इत्य्-आदि। देवमानेन शरच्-छते वर्षशते वृत्ते सति वासुदेवस्य सान्निध्यं लब्ध्वा लब्ध-भक्ती सन्तौ स्वर्लोकतां भविष्यतः प्राप्स्यतः। भू प्राप्तौ परस्मैपदम् आर्यम् ॥२१-२३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.२२ ॥
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्-छते ।
वृत्ते स्वर्लोकतां भूयो लब्ध-भक्ती भविष्यतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वर्-लोकतां देवत्वं पुनर् लब्ध्वा मद्-अनुग्रहाल् लब्ध-भक्ती भविष्यत इति ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दिव्य-शरच्छते दैविक-वर्षशते वृत्तेऽतीते सति । वासुदेवस्य सन्निध्यं श्री-कृष्ण-नौकट्यं यथात् स्यात् तथा । तावत् कालस्यैव भगवद् अवतारे शिष्टत्वात् भूयः पुनः स्वर्लोकतां देवत्वं लब्ध्वा मद् अनुग्राद् इति पूर्व-श्लोक-गतम् इह सम्बध्यते । तस्मिन् देवत्वे । लब्धा भक्तिर् याभ्यां तौ लब्ध-भक्ती भविष्यथ इति सम्बन्धः । यद् वा, लब्ध-भक्ती सन्तौ स्वर्लोकतां भविष्यथः प्राप्स्यथः । भुवः प्राप्तौ परस्मैपदम् अर्षं वासुदेवस्य सान्निध्यं लब्ध्वेति योज्यम् ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वासुदेवस्य मयि यो\ऽनुग्रहस् तस्मात् तस्यैव सान्निध्यं लब्ध्वा श्री-मथुरायां बृहद् वने श्री-नन्दावास-निकटे सर्वोपकारक-सुच्छाय महार्जुन वृक्ष-जन्म प्राप्त्येति ज्ञेयम् । दिव्य-शरच्छते इति शाप-कालम् आरभ्य तावत् काल एव श्री-भगवद् अवतारात् । लब्ध-भक्ती भविष्यतः इति विना निःशेष दोष दुःखान् अपगमात् । यद् वा, भक्ति-रसिकानां भक्ति-व्यतिरिक्ता-शीरस्फूर्तेः, लब्धेति भक्तेः स्थिरतां बोधयति ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वासुदेवस्य मयि योऽनुग्रहस् तस्मात् तस्यैव सान्निध्यं लब्ध्वा दिव्य-शरच्-छत इति तावत् काल एव श्री-भगवद्-अवतारात् लब्ध-भक्ती भविष्यथ इति भक्ति-रसिकानां भक्ति-व्यतिरिक्ताशीर् अस्फूर्तेः लब्ध्वेति भक्तेः स्थिरतां बोधयति ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.२३ ॥
श्री-शुक उवाच—
एवम् उक्त्वा स देवर्षिर् गतो नारायणाश्रमम् ।
नलकूवर-मणिग्रीवाव् आसतुर् यमलार्जुनौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यमलार्जुनौ सहोत्पन्न-ककुभौ ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नाराहणस्याश्रमं श्री-वैकुण्ठ-लोकम्, तदैव प्रिय-श्री-रुद्रानुचर-शापेन महापराधं मत्वा तं क्षमयितुम् । किं वा, स्तोक्त-सिद्धिं प्रार्थयितुम् । यद् वा, बदरिकाश्रमम्—साक्षाच् च्री-भगवति लज्जादिना तत्-प्राथनस्यायोग्यत्वात् तद् अवतारे निज-गुरौ तत् प्रार्थनार्थम् । यद् वा, भक्त्या तद् दर्शनार्थम्, तत एव तत्र गच्छन् वर्त्मन्यापतितं कृत्यं समाधाय निजाचरितं तद् अशेषं गुरौ निवेदयितुं गतः । तमलौ सहजातौ श्री-कृष्णस्यार्जुन-सस्वत्वात् तन् न्म्नाप्येतौ किल सो\ऽनुग्रहीष्यतीति श्री-नारदानुग्रहेणैव तत् संज्ञकौ वृक्षौ बभूवतु ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नाराहणस्याश्रमं श्री-वैकुण्ठ-लोकम्, तदैव प्रिय-श्री-रुद्रानुचर-शापेन महापराधं मत्वा तं क्षमयितुम् । किं वा, स्तोक्त-सिद्धिं प्रार्थयितुम् । यद् वा, बदरिकाश्रमम्—साक्षाच् च्री-भगवति लज्जादिना तत्-प्राथनस्यायोग्यत्वात् तद् अवतारे निज-गुरौ तत् प्रार्थनार्थम् । यद् वा, भक्त्या तद् दर्शनार्थम्, तत एव तत्र गच्छन् वर्त्मन्यापतितं कृत्यं समाधाय निजाचरितं तद् अशेषं गुरौ निवेदयितुं गतः । तमलौ सहजातौ श्री-कृष्णस्यार्जुन-सस्वत्वात् तन् न्म्नाप्येतौ किल सो\ऽनुग्रहीष्यतीति श्री-नारदानुग्रहेणैव तत् संज्ञकौ वृक्षौ बभूवतु ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१०.२४ ॥
ऋषेर् भागवत-मुख्यस्य सत्यं कर्तुं वचो हरिः ।
जगाम शनकैस् तत्र यत्रास्तां यमलार्जुनौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तुतम् आह—ऋषेर् इति ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रस्तुतं प्रसङ्गम् । ऋषेर् नारदस्य । वचः वासुदेवस्य सान्निध्यम् । इत्य्-आदि-रूपम् ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ऋषेर् इति तद् वचः सत्यता भगवतो महा-भागवतोत्तमत्वेन भगवत् तुल्यस्येति परम-भक्तिश् चोक्ता, अत एव सत्यं कर्तुम् । हरिर् इति तच्छापाद् उद्धरणाभिप्रायेण । शनकैर् इति शीघ्र-गत्योलूखलाकर्षण-शब्दोत्थानेन तत्र श्री-यशोदाद्य् आगमनस्य शङ्कया, बाल्य-लीलया महोलूखलाकर्षणेन शीघ्र-गमनाप्रकाटनात् । एवं बलेन तद् आकर्षणार्थं रिङ्गणेनैव गमनं ज्ञेयम् । तथा चोक्तं द्वितीये—यद् रिङ्गतान्तर-गतेन [भा।पु।२.७.२३] इति ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् इतिहासं प्रदर्श्य तस्य सम्प्रति यद् भगवद् अनुस्मृतत्वं दर्शितं तद् एव दर्शयति—ऋषेर् इति । तद् वचः सत्यता योग्या सा च तेनैव प्रवर्तनीयेति भावः । तत्रापि भगवतः भक्त्याख्यपरम-विद्या-ज्ञानात्परम-पुज्यस्य भागवत-मुख्यस्येति च क्वचित् पाठः ॥ हरिर् इति तच् छापाद् उद्धरणाभिप्रायेण शनकैर् इति शब्द-समुत्थानेन मात्राद्य् आगमन-शङ्कया किं वा, बाल्य-लीलया ततश् चोलूखलस्य शनैर् आकर्षणेन यतनम् अपि न जातम् इति ज्ञापितम् एवं बलेन तदाकर्षणार्थं रिङ्गणेनैव गमनम् उक्तं च द्वीतीये यद् रिङ्गतान्तरगतेन इति ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रस्तुतमाह ऋषेरिति ॥२४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.२५ ॥
देवर्षिर् मे प्रियतमो यद् इमौ धनदात्मजौ ।
तत् तथा साधयिष्यामि यद् गीतं तन् महात्मना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किम् इति सत्यं कर्तव्यं तत्राह—देवर्षिर् इति । यद् यतः । तत् ततः ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वचः-सत्यकरणे हेतुम् आशङ्कते—किम् इतीति । महात्मना नारदेन यद् यथा गीतं तत् तथा साधयिष्यामीति ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद् यथा गीतं तेन महात्मना महान् आत्मा स्वभावो मद्भक्ति-विस्तारेण यस्य तेन । अयं प्रियतमत्वे हेतुः तथेमौ साधयिष्यामि सम्पादयिष्यामि, स्थावरयोर् नेरूर्धं परम-भक्तिमन्तौ करिष्यामीत्य् अर्थः, लब्ध-भक्ती भविष्यत इति तद् दानात् ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यत् यस्मात् देवर्षि मे प्रियतमस् तत् तस्मात् तेन महात्मना महानुभावेन यद् यथा गीतं तथा तेन प्रकारेणेमौ धनदात्मजौ साधयिष्यामि स्थावर-योने रुद्धस्य पुनः स्वर्गं दत्त्वा परम-भक्तिमन्तौ करिष्यामीत्य् अर्थः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यत् देवर्षिर् मे प्रियतमः तत् तस्माद् इमौ धनदोत्मजौ तथा साधयिष्यामि यत् यथा तेन महात्मना गीतम् इत्य् अन्वयः ॥२५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यस्माद् देवर्षिर् मे प्रियतमस् तस्माद् इमौ तथा साधयिष्यामि यद् यथा तेन महात्मना गीतम् इत्य् अन्वयः ॥२५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.२६ ॥
इत्य् अन्तरेणार्जुनयोः कृष्णस् तु यमयोर् ययौ ।
आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यमयोर् यमलयोः सहजातयोः । आत्मनः कृष्णस्य तन्-मध्य-प्रवेश-मात्रेण ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तरेण मध्ये । सप्तम्य् अर्थे एनच् । तिर्यक् तिरशीनं गतं जातम् ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् अस्माद् हेतोः कृत-महापराधयोर् एतयोर् मदे तद् अद्भुत-बाल्य-लीला-सम्पर्केणैव तत् पापक्षयो भक्ति-लब्धिः स्यान् न चान्यथेति विचार्येत्य् अर्थः । तिर्यग् गतं श्री-भगवद् अभिप्रायानुसारेण तिर्यकत्वं प्राप्तम् इत्य् अर्थः । यद् वा, तिर्यक् यथा स्यात् तथा चलितम्—तिर्यग् वक्रे\ऽतिरो\ऽर्थे च इति विश्वः । भूतम् इति क्वचित् पाठ इति तस्य सचेतनत्वम् इव सूचितम्, तच् च श्री-भगवत् सम्बन्धेन । किं वा, तत् क्रीडोपकरणाम् अपि सच् चिद् आनन्द-रूपत्वेन, एवं दाम्नो\ऽप्य् ऊह्यम्, अन्यथा सच् चिद् आनन्द-घनेन श्री-भगवता सह तयोस् तादृश-संयोगासम्भवात् । अत एव पाद्मे श्री-दामोदराष्टके—नमस्ते\ऽस्तु दाम्ने स्फुर-दीप्ति-धाम्ने इति, श्री-हरिवंशे\ऽपि तद् दाम तस्य बालस्य प्रभावाद् अभवद्-दृढम् [विष्णु।प ७.१९] इति । इत्थम् उलूखल-भङ्ग-दामत्रोटनादिशङ्का च स्वत एव परिहृता स्यात् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति अस्माद् धेतोः कृतमहद् अपराधयोर् मद्-बाल्य-लीला-क्रीडनकताप्राप्त्यैव तादृशत्वं स्याद् इति विचार्येत्य् अर्थः । तिर्यग् गतं श्री-भगवद् अभिप्रायानुसारेण तिर्यक्त्वं प्राप्तम् इत्य् अर्थः तिर्यक् वक्रे तिरोर्थे च इति विश्वः । अत्र मात्र-पदेन यत्नं विनेति ध्वन्यते गतम् इति तस्यैव कर्तृत्वं इति तस्य सचेतनत्वम् इव सूचितं तच् च लीला-शक्तेः स्वयं सर्व-सम्पादकत्वेन यथा हरिवंशे तद् दाम तस्य बालस्य प्रभावाद् अभवद् दृढम् इति पाद्मे नमस्तेऽस्तु दामे स्फुरदीप्ति-धाम्ने इति ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्म-निर्वेश-मात्रेण अयत्नेनापीत्य् अर्थः । तेन चोलूखलस्य तिर्यग्-गत्या लीला-शक्तेः प्रभूता दर्शिता एवम् अन्यत्रापि ज्ञेयम् ॥२६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति विचार्य यमयोः सहजातयोर् द्वयोर् अन्तरेण मध्ये ययौ ततश् च आत्मनः प्रवेश-मात्रेण उलूखलं तीर्यग् गतं तिरश्चीनम् अभूत् ॥२६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.२७ ॥
बालेन निष्कर्षयतान्वग् उलूखलं तद्
दामोदरेण तरसोत्कलिताङ्घ्रि-बन्धौ ।
निष्पेततुः परम-विक्रमितातिवेप-
स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनु अञ्चतीत्य् अन्वक् । तत्र हेतुः, दामोदरेणेति । उत्कलितः उत्पाटितोऽङ्घ्रि-बन्धो मूल-बन्धो ययोस् तौ । परमस्य श्री-कृष्णस्य विक्रमितं विक्रमस् तेनाति-वेपः कम्पो येषु ते स्कन्ध-प्रवाल-विटपा ययोस् तौ ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-स्वस्मिन् बद्धम् उलूखलम् । निष्कर्षताकृष्टवता । बालेन यमलार्जुणौ निष्पेततुः । अनुरत्र वीप्सितोऽस्ति पश्चाद् अर्थे अन्वक् पृष्ठगामि । तत्र पृष्ट-गामित्वे न हि बद्धोदरपाशबद्धवस् त्व् अग्रतश् चलत्य-सम्भववाद् इति भावः । परमस्य ब्रह्मादिध्येयस्य हरेः । स्कन्ध-प्रवाल-विटपाः स्कन्धो महा-शाखाश्रयः । प्रवलानि पत्राणि । विटपोऽल्प-शाखाश्रयस्तर्ववयवः । चण्ड-शब्दो भयङ्कर-शब्दः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् तिर्यग् गत्या2 तयोर् लग्नं निःशेषेण कर्षयताकर्षता दामोरेण कर्त्रात् कलिताङ्घ्रि-बन्धौ तरसा वेगेन निःशेषं पेततुः । कथम् ? तद् आह—परमेत्यादि । अन्यत् तैर् व्याख्यातम् । यद् वा, दामोदरेण हेतुना भूमि-निर्गताङ्घ्रि-बन्धौ, अतो दामोदरस्याविक्रमितेन विक्रमाप्रकटनेनापि । किं वा तेनाविक्रमितौ विक्रमम् अप्रापिताव् अपि । किं वा, न विद्यते विक्रमितं विक्रमो ययोर् विषये तथा-भूतापि महा-कम्प-युक्त स्कन्ध-प्रवाल विटपौ कृत-चन्ड-शब्दौ च सन्तौ परं केवलं स्वयम् एव निष्पेत-तुर्ण तु पूतनावद् अन्यं कञ्चित् पातयामासतुर् इत्य् अर्थः । बालेनेति बलाप्रकटनादिना बाल्य-लीलाया अव्यभिचारः, दामोदरेणेति तस्याम् एव माधुर्यम् उत्कलितेत्यादिना चैश्वर्यम्, एवं पूर्ववद् भगवत्ता विशेष-प्रकटनम् उह्यम् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् तिर्यग् गत्या तयोर् लग्नं निःशेषेण कर्षता आकर्षता दामोदरेण कर्त्रात् उत्कलिताङ्घ्रि-बन्धौ सन्तौ तरसा वेगेन निश्शेषं पेततुः तद् आह—परमेत्य् आदि । विटपा अत्र शाखाः विटपः पल्लवे षिङ्गे विस्तारे गुल्म-शाखयोः इति विश्वः । अन्यत् तैः यद् वा, परम् इति छेदः दामोदरेणैव यत् अविक्रमितं विक्रम-सदृशीकृतं तेनातिवेप इत्य्-आदिः परं केवलं स्वयम् एव निपेस्ततुः न तु पूतनावत् किञ्चिद् अपातयताम् इत्य् अर्थः, बालेनेति । बलाप्रकटानादिना बाल्य-लीलाया अव्यभिचारः दामोदरेणेति तस्माद् एव माधुर्यं उत्कलितेत्य् आदिना चैश्वर्यं सूचितम् एवं पूर्ववन् मधुरं भगवत्ता-प्रकटनम् ऊह्यम् अत्र च मान-करणं हरिवंशे
स च तेनैव नाम्ना तु कृष्णो वै दाम-बन्धनात् ।
गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥ इति ॥२७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : परम-विक्रमम् इति पततोस् तयोर् एव महा-मर्दस् तेनेत्य् आदि ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तिरश्चीनम् एव उलूखलम् अन्वक् स्वानुकूलं यता स्यात् तथा निःशेषेण कर्षता बालेन उत्कलित उत्पाटितो ऽङ्घ्रि-बन्धो ययोस् तौ परम-विक्रमितेन अतिबलेनाकर्षणेनातिवेपा अतिकम्पमानाः स्कन्धादयो ययोस् तौ दामोदरेणेति—
स च तेनैव नाम्ना तु कृष्णो वै दाम-बन्धनात् ।
गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥
इति हरिवंशोक्ता प्रसिद्धिः स्मारिता ॥ २७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.२८ ॥
तत्र श्रिया परमया ककुभः स्फुरन्तौ
सिद्धाव् उपेत्य कुजयोर् इव जात-वेदाः ।
कृष्णं प्रणम्य शिरसाखिल-लोक-नाथं
बद्धाञ्जली विरजसाव् इदम् ऊचतुः स्म ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ककुभः प्रति सर्वतः स्फुरन्ताव् इत्य् अर्थः । यद् वा, दिशः प्रकाशयन्ताव् इति । कुजयोर् वृक्षयोः स्थितोऽग्निर् यथा मूर्तिम् आनुपैति तथोपेत्य । विरजसौ निर्मदौ निरहङ्कारिणौ नष्ट-गर्वाव् इति यावत् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तदा पतनान्तरम् इति यावत् । ककुभः सर्वा दिशः । प्रतिर् द्वितीयया इति प्रति-शब्द उपतिष्ठते तृतीयया सह-शब्दवत् । स्फुरन्तौ देदीप्यमानौ गच्छन्तौ वा इत्य् अर्थ इति । इहाध्याहृत-प्रतियोगे कर्म-प्रवचनीयत्वेन द्वितीया । अध्याहारे श्रमं विमृश्यार्थान्तरम् आह—यद् वेति । निर्मदौ शापक्षयाद्-गतरजस्त्वेन सात्त्विकौ । इदं वक्ष्यमाणम् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तयोर् वृक्षयोः स्थितौ सिद्धौ देवावित्य् अर्थः । किं वा शापान् मुतौ सफल-जन्मानौ वा सन्तौ, अतः सर्वा दिशः स्फुरन्तौ, अन्तर्भूत-ण्यन्तम् इदम्, शोभयन्तावित्य् अर्थः । यद् वा, कुजयोः ककुभो दिग् भागात् तद् अन्तिके उपेत्य मिथो ज्योतिर् मिलनाद् एकजातवेदा इव स्फुरन्तौ । शिरसैव प्रकर्षेण नन्वेति दण्ड-प्रणामे श्री-मुखादि-सन्दर्शनासिद्धेः कृस्णम् इति तदानीम् अप्य् उलूखलाकर्षणम् अभिप्रायेण । ननु दामोदरत्वेनात्य् अन्त-बाल्य-लीलापरं बालकं तौ कथं प्रणतवन्तौ ? तत्राह—अखिल-लोकानां नाथम् ईश्वरम्, तद् ऐश्वर्य-प्रभावात् तत्र च श्री-नारदानुग्रहेण तद् विज्ञानोत्पत्तेर् इति भावः । ननु कृत-तादृशापराधौ श्री-नारद-प्रसादेन स्मृत-तद्-वृत्तौ च कथं लज्जादिकं विहाय श्री-भगवत्-पार्श्तोपगमनादिकम् अकुर्वाताम् ? तथाह—अखिलेत्य् अनन्य-गतित्वाद् इत्य् अर्थः । विरजसाव् इति प्राक् तमःप्लुताव् अप्य् अधुना श्री-भगवत्-सपर्शादिना श्री-नारदानुग्रहेणैव वा विगत श्रीमद् अहेतु-रजो-गुणाव् एव सन्तावित्य् अर्थः । स्म विस्मये, महापराधिनोर् अपि सद्यस् तादृशत्व-सिद्धेः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ककूभो व्याप्य स्फूरन्तौ कुजयोर्वृक्षयोः, जातवेदा अग्निर्मिथो ज्योतिर्मिलनादेक जातवेदा इव स्फूरन्तावित्य् अर्थः।
जीव-गोस्वामी (क्रम-सन्दर्भः) : कुजयोः ककुभः सकाशात् उपेत्य स्फुरन्तौ सम्भ्रमेण कम्पमानौ द्वयोस् त्विषा परस्पर-मिलितत्वात् एकी-भूयाग्निर् इवोपेत्य त्वत्-प्रेक्षणं तन्-महिम-परिपाटीम् आरभते ॥२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ककूभो व्याप्य स्फूरन्तौ कुजयोर् वृक्षयोः जात-वेदा अग्निः मिथो ज्योतिर्मिलनाद् एक एव जातवेदा इव स्फूरन्ताव् इत्य् अर्थः ॥२८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.२९ ॥
कृष्ण कृष्ण महा-योगिंस् त्वम् आद्यः पुरुषः परः ।
व्यक्ताव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणा विदुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपालं मां युवां देवौ किम् इति प्रणताव् इति चेत् तत्राहतुः, हे कृष्ण कृष्ण महा-योगिन्, अचिन्त्य-प्रभावस् त्वं न गोपालः, किन्तु परः पुरुषः । यत आद्यः कारण-भूतः । तत्रापि न निमित्त-मात्रं किन्तूपादानम् अपि त्वम् एवेत्य् आशयेन तुष्टुवतुः, व्यक्ताव्यक्तम् इति । स्थूल-सूक्ष्मम् इदं ते रूपं विदुः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्तुतिं कुर्वाणौ दृष्ट्वा निज-वैभवं गोपयितुम् आह—गोपालं इति । सर्वतो निकृष्टं पशु-पालनं कुर्वतम् इति भावः । देवौ सर्वोत्तमौ । तत्र तस्यामाशङ्कायाम् । आदरे वीप्सा कृष्ण कृष्णेति । कृषन्ति निजापदं नाशयन्तीति कृष्णा देवास् तेषाम् अपि कृष्ण हे देव-देवेत्य् अर्थः । अचिन्तत्य-प्रभावः वक्तुम् अशक्यैश्वर्यो महा-योगिन् नित्यस्यायम् अर्थः । यतो यस्मात् । तत्रापि कारणत्वे\ऽपि । न केवलं निमित्त-मात्रं किन्त्विति ब्राह्मणा वेदतात्पर्यविदो व्यासाद्याः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्ण कृष्ण महा-योगिन्न् इत्य्-आदि । ते तव यशोदानन्दनस्य रूपं व्यक्ताव्यक्तं विदुः, भक्तेषु व्यक्तं यथार्थतया प्रकटम्, अभक्तेष्व् अव्यक्तम् अयथार्थत्वेन स्फुरत् ते तव तत्त्वं न जानन्तीति भावः । किम्-भूतस्य ? ब्रह्मणो वृहतः, अथवा, ब्रह्मण इत्य् अनादरे षष्ठी, ब्रह्म चानादृत्य विदुर् इत्य् अर्थः । रूपं कीदृशम् ? इदं विश्वम् इदम् एव विश्वं ज्ञाति-प्राण-धनादिकम् इति प्रतीतिर् यत्र ॥२९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद्य् अपि आवां महापराधिनौ, तथापि त्वया नितराम् अनुगृहीतौ, तच् च तवोचितम् एवेत्य् आशयेनोचतुः—कृष्णेति हे नराकृति पर-ब्रह्मन् ! वीप्सा-परमानन्देन प्रेम-सभ्रमेण वा । किं वा, जिह्वाकर्षक-कृष्ण-नाम-स्वभावेन । यद् वा, उलूखल-कर्षणादि-बाल्य-लीलारतस्य महाचञ्चलस्य क्षणं स्थैर्यापादनेनाभिमुखीकरणाय कृष्णत्वम् एव प्रपञ्चयता । महायोगिन् हे अचिन्त्६यानन्तैश्वर्येर्तेत्य् अर्थः, यतस् त्वम् आद्यः सर्व-देव-शेष्ठः परः पुरुषश् च परमात्मा परमेश्वरो वा, अत ईदृशी कृपा युक्तैवेति भावः, किं च, इदं सर्वम् एव कार्य-कारणात्मकं जगद ब्रह्मणः सर्व व्यापकस्य तव । किं वा, त्वद् विभूति-रूपस्य ब्रह्मणो रूपं विवर्तं विदुर् वेदान्तिनः । एवम् आवयोर् अपि नित्य-त्वदीयत्वेनोनुग्रहो घटैतैवेति भावः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उलुखले बद्धं गोपालबालं मां युवां देवौ किम् इति प्रणतावित्यत आहतुः—कृष्ण कृष्णेति । द्वित्वं द्वयोर् एव युगपद्-उक्तेः । भगवान् त्वं परः पुरुषो तत्राप्याद्यस्वयम भगवान् अतस्त्वं गोपालबालो भवस्येवेति भावः। हे महायोगिन्! अचिन्त्यप्रभाव! अस्मन्मोचकस्य तवैतद्बन्धनकारण मतर्क्यम् इति भावः। सर्वस्वरूपस्य तव केन बन्धनं सम्भवेदित्य् आहतुः, व्यक्ताव्यक्तं कार्यकारणात्मकं ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्ण कृष्णेति परम-स्वरूपत्वात् परम-नामत्वाच् च प्राङ्-निर्देशो वीप्सा च परः पुरुषो भवान् तत्त्वेऽपि आद्यः स्वयं भगवान् इत्य् अर्थः ॥२९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उलुखले बद्धं गोपाल-बालं मां युवां देवौ किम् इति प्रणताव् इत्य् अत आहतुः—कृष्ण कृष्णेति । द्वित्वं द्वयोर् एव युगपद् उक्तेः त्वं परः पुरुषो भगवान् तत्राप्य् आद्यः स्वयं भगवान् अतस् त्वं गोपाल-बालो भवस्येवेति भावः । हे महायोगिन्न् अचिन्त्य-प्रभाव! अस्मन्-मोचकस्य तवैतद् बन्धन-कारणम् अतर्क्यम् इति भावः । सर्व-स्वरूपस्य तव केन बन्धनं सम्भवेद् इत्य् आहतुः—व्यक्ताव्यक्तं कार्य-कारणात्मकं ॥२९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.३० ॥
त्वम् एकः सर्व-भूतानां देहास्व्-आत्मेन्द्रियेश्वरः ।
त्वम् एव कालो भगवान् विष्णुर् अव्यय ईश्वरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नियन्तापि त्वम् एवेत्य् ऊचतुः, त्वम् एक इति । देहः, असवः प्राणाः, आत्माऽहङ्कारः, इन्द्रियाणि च तेषाम् ईश्वरः । नन्व् अस्य कालो निमित्तं प्रकृतिर् उपादानं प्रकृतेर् जातो महान् विश्वात्मतया परिणमते पुरुषः कर्ता नियन्ता च किम् अत्राहम् अत आहतुः, त्वम् एव काल इत्य्-आदिना सार्धेन । यतो भगवान् ईश्वरो विष्णुस् त्वम् अतः कालो नाम तव लीला ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नियन्ता प्रेरकः । स्व-विषय-शक्तिप्रदः । एतादृशस्तु कालो भवतीति चेत् तत्राहतुः—त्वम् एवेति । विष्णुर् व्यापनशीलः । व्यापकस्याप्य् आकाशस्योत्पति-विनाशवत्त्वाद् अहं न तादृशस् तत्राहतुः—अव्यय इति । तत्-कुतस् तत्राहतुः—ईश्वरोन्तर्यामी ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, त्वम् इति, इत्थं तवैव सर्व-प्रवर्तकत्वेन तत्त्वतो3\ऽस्मद् अपराधाभावात् । किं वा, स्वत एव बहिर् अन्तस् त्वद् एक-नाथत्वाद् अनुग्राह्यौ भवाव एवेति भावः । ननु सर्व-प्रवर्तकः कालो जगत् कारणानां च महद् आदीनाम् एव रूपम् ? तत्राहतुः—त्वम् एवेति सार्धेन कालत्वे हेतुतया भगवान् इत्य्-आदि विशेषण-चतुष्कम्, भगवान् सर्व-सामर्थ्य-युक्तो विष्णुर् व्यापकः न त्येति क्षीयत इत्य् अव्ययः, ईश्वर, सर्व-नियन्ता, कालस्यापि तद् अंशत्वेन तादृशत्वात् सूक्ष्मेति कारणावस्थोक्ता, रजः सत्त्वेति विश्वस्य वैचित्र्य् अपेक्षया सच् चिद् आनन्द-शक्तेर् व्यवच्छेदार्थं च । यद् वा, रज आदि-गुणाश् च त्वम् एवेत्य् अभिप्रायेण पुरुषो जीवो\ऽव्यक्तः केवल-चैतन्य-रूपत्वेन परम-सूक्ष्मत्वात् । अध्यक्ष इति पाठे देहाद्य् अधिष्ठातेत्य् अर्थः । तम् एव लक्षयति—सर्वे क्षेत्रस्य देहस्य विकारा बाल्याद् अवस्थास् तद् अनुसन्धान-कर्ता, तथा चैकादशे—नात्मा जजान न मरिष्यति नैधते\ऽसौ, न क्षीयते सवन-विद् व्यभिचारिणां हि [भा।पु।११.३.३८] इति । यद् वा, पुरुषः प्रकृत्य् अधिष्ठाता सृष्टि-हेतुर् अध्यक्षः साक्षी अत एव सर्वेति कालादीनां चतुर्णां यथोत्तरं सृष्ठि-हेतुत्वे श्रैष्ट्यातत् क्रमेण निर्देशः ॥३०-३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च त्वम् इति एतच् चार्धकम्, इत्थं तवैव सर्व-प्रवर्तकत्वेन तत्त्वतोऽस्मद् अपराधाभावात् किं वा स्वत एव बहिर् अन्तस् त्वद् एक-नाथत्वाद् अनुग्राह्यौ भवाव एवेति भावः ।
ननु, सर्व-प्रवर्तकः कालः जगत् कारणानां च महद् आदीनाम् एव रूपं विश्वं तत्राहुतुः—त्वम् एवेति सार्धेन । कालादित्वे हेतुतया भगवान् इत्य्-आदि-विशेषण-चतुष्कं भगवान् सर्व-सामर्थ्य-युक्त विष्णुर् व्यापकः न व्येति क्षीयत इत्य् अव्ययः ईश्वरः सर्व-नियन्ता कालस्य त्वदंशत्वेनैव तत् तद् धर्मत्वात् त्वम् एव मुख्यः कालः इत्य् अर्थः । तथा महत्तत्त्वस्य व्यापकत्वेनैव महत्त्वात् तदादि-व्यापकस् त्वम् एव मुख्यो महान् इत्य् अर्थः । तथा भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः इत्य्-आदि-तृतीयस्कन्धादितो भगवांस् त्वम् एव सर्व-कारणत्वेनाव्ययत्वात् मुख्या प्रकृतिर् इत्य् अर्थः । तथा पुरुषस्य त्वद् अंशत्वेनैव देहेन्द्रियादि-सत्त्वात् त्वम् एव मुख्यः पुरुष इत्य् अर्थः । सूक्ष्मेति भूमिर् आपोऽनलो वायुः इत्य्-आदि-गोतोक्ताष्टावयवकार्यात्मक-प्रकृतेः कारणावस्थोक्ता रजः-सत्त्वेति विश्वस्य वैचित्र्यापेक्षया सच्चिदानन्द-शक्तेर् व्यवच्छेदार्थं च सा च तव प्रकृतित्वानुगतैव प्रकृतिः । प्रकृतिश् च प्रतिज्ञा दृष्टान्तानुपरोधात् [१.४.२३] इति न्यायात् मूल-प्रकृतिस् तु त्वम् एवेत्य् अर्थः । यद् वा, सूक्ष्मा दुर्ज्ञेया तर्हि कथं ममापि रज-आदिमयत्वं ? नेत्य् आह—अरजः सत्त्वतमोमयीति अव्यक्तः सूक्ष्म-चैतन्य-रूपत्वात् अध्यक्ष इति पाठे देहाद्य् अधिष्ठातेत्य् अर्थः । तम् एव लक्षयति—सर्व-क्षेत्रस्य देहस्य विकारा बाल्याद्य् अवस्थास् तद् अनुसन्धानकर्ता तथा चैकादशे नात्मा जनान न मरिष्यति नैधतेऽसौ न क्षीयते सवन-विद्व्यभिचारिणां हि इति । यद् वा, पुरुषः प्रकृत्य् अधिष्टाता सृष्टि-हेतुः अव्यक्तः सर्वागोचरः पाठान्तरे सर्व-साक्षी अत एव सर्वेति ॥३०-३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च त्वद् अन्यो बन्धकः को ऽपीश्वरोऽस्तीत्य् आहुः—त्वम् इति । असवः प्राणाः आत्माहङ्कारः सर्वात्मकत्वात् त्वम् एवैक ईश्वर इत्य् आहतुः—तम् इति । कालो नाम तव चेष्टा महान् कार्यं प्रकृतिः शक्तिः पुरुषो ऽंशः कीदृशः अध्यक्षो ऽन्तर्यामी सर्वेषु क्षेत्रेषु विकारान् मन आदीन् वेत्ति अतो विष्णुर् ईश्वर एको भगवांस् त्वम् एव ॥३०-३१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.३१ ॥
त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमोमयी ।
त्वम् एव पुरुषोऽध्यक्षः सर्व-क्षेत्र-विकार-वित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रकृतिः शक्तिः, पुरुषोंऽशः, महान् कार्यम्, अतस् त्वम् एव सर्वम् इत्य् अर्थः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं चान्येसाम् एव निमित्तोपादानादि-रूपताप्रसिद्धास् तान् आह—नन्व् इति । अत्र निमित्तोपादानादौ अहं किम् । इत्य् अर्थ इति । शक्ति-शक्तिमतोर् अभेदोग्न्यादौ दृष्टः । लीलापि शक्तिकायत्वा च्छक्तिर् एव । अंशाशिनोर् अप्य् अभेद एव वहिस्पुलिङ्गस्य वह्नि-रूपत्व-दृष्टेर् इति भावः । सर्व-क्षेत्राणां विकाराणि जनादिषट् वेति साक्षितया पश्यतीति तथा ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.३२ ॥
गृह्यमाणैस् त्वम् अग्राह्यो विकारैः प्राकृतैर् गुणैः ।
को न्व् इहार्हति विज्ञातुं प्राक् सिद्धं गुण-संवृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अहम् एव चेत् सर्वं तर्हि घटादि-ज्ञाने मज्-ज्ञानं किं न भवति, भवतीति चेत् सर्वोऽपि ब्रह्म-वित् स्याद् अत आहतुः, गृह्यमाणैर् इति । दृश्यत्वेन वर्तमानैर् बुद्ध्य्-अहङ्कारेन्द्रियादिभिर् द्रष्टा त्वं न गृह्यसे इति भावः । ननु तर्हि जीवो जानातु नैवेत्य् आहतुः, को न्व् इहेति । जीवाद्य्-उत्पत्तेः प्राग् एव स्व-प्रकशतया सिद्धं त्वां को वा जानाति । गुण-सम्बृतो देहाद्य्-आवृतः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वस्य सर्व-रूपत्वे शङ्कान्तरम् उद्वाटयति—नन्व् अहम् इति । प्राकृतैः प्रकृति-कार्यभूतैः गुनैर् लिङ्गैः । इति भाव इति । दृश्यस्य द्रष्टृता द्रष्टुर् दृश्यत्वं च न भवतीति तात्पर्यम् । एते जडत्वान् न जानन्तुं जीवः कथं न जानाति चेतनत्वाद् इति शङ्कते न कोपीत्य् अर्थः । को अद्धा वेद कः प्रावोचत्कुत आयाता इयं विसृष्टिः इत्य्-आदि श्रुतेः । क इह नु वेदवतावर-जन्म लयो इत्य् अग्रे वक्ष्यमाणत्वाच् च । अज्ञाने हेतुः—गुण-संवृतो देहाद्य् आविष्टमनस् त्वाद् अवकाश एव विचारस्य नेति भावः ।
विषयाविष्टचिन्तानां विष्ण्वावेशः सुदूरतः ।
वारुणीदिग्गतं वस्तु कथम् ऐन्द्रीं व्रजल्लभेत् ॥ इति मैत्रेयोक्तेः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इह संसारे वर्तमानः, यतो गुण संवृतो\ऽतः को नु विशेषेण तत्त्वतो ज्ञातुम् अर्हति शक्नोति ? वि-शब्देनेश्वरो\ऽस्तीति सामान्येन ज्ञान-सत्ता सूचिता । अन्यत् तैर् व्याख्यातम् तत्र विकारैः प्राकृतैर् इत्य् अस्य व्याख्या-बुद्धि-विकारैर् इति गुणैर् इत्य् अस्य चेन्द्रियादिभिर् इति, अथवैवं परमानुग्रह-कृद् अपि साक्षाद्-दृश्यमानो\ऽपि त्वम् अस्माद् दृशैर् वशीकर्तुं तत्त्वतो ज्ञातुं वा न शक्य इत्य् आहतुः—गृह्येति गृह्यमाणैः साक्षाद् अनुभूयमानैर् विकारैः सदैव विक्रिया शु यैः प्राकृतैः स्वाभाविकैर् गुणेः कारुण्यादिभिर् विशिष्टो\ऽपि त्वम् अग्राह्यो वशी-कर्तुम् अशक्य इत्य् अर्थः, परम-स्वतन्त्रत्वात् । यद् वा, तत्त्वतो ज्ञातुम् अशक्यः, एकस्यैव युगपत् स गुणत्व-निर्गुणत्वादिना परम दुर्वितर्क्यत्वात् । तत्र चेह श्री-नन्द-गोकुले प्राक् प्रथमत एव सिद्धं नित्यं प्रकटतया वर्तमानम् अपि त्वाम् । किं वा, प्राक् प्राचील्नान् अपि गुणान् भक्ति-लक्षणान् सम्यग् आश्रित आश्रितो\ऽपि को विशेषेण ज्ञातुम् अर्हति योग्यो भगवत्ता प्रकटनेन परम दुर्बोध-लोलत्वात् । यद् वा, यतो गुणैर् दामभिर् गुणान् वा संश्रितस् त्वम् उक्त-स्वरूपस्य तव कथम् अपि दाम-बन्धना सम्भवे\ऽपि तत् स्वीकारेण परम-मोहोत्पादनाद् इति भावः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विज्ञातुं साक्षात् कर्तुम् अन्यत् तैः तत्र विकारैः प्राकृतैर् इत्य् अस्य व्याख्या बुद्धि-विकारैर् इति गुणैर् इत्य् अस्य चेन्द्रियादिभिर् इति । अथ च श्लेषेण एवं परमानुग्रह-कृद् अपि साक्षात् दृश्यमानोऽपि त्वम् अस्माद् दृशैर् वशीकर्तुं तत्त्वतो ज्ञातुं वा न शक्यत इत्य् आहतुः—गृह्येति, गृह्यमाणैः साक्षाद् अनुभूयमानैः अविकारैः सदैव विक्रिया-शून्यैः प्राकृतैः स्वाभाविकैर् गुणैः कारुण्यादिभिर् विशिष्तोऽपि त्वम् अग्राह्यः वशीकर्तुम् अशक्य इत्य् अर्थः । परमस्वतन्त्रत्वात् अवतारिकायाः पक्षान्तरे तत्त्वतो ज्ञातुम् अशक्यः एकस्यैव युगपद् विभुत्व मध्यमत्वादिना परम-दुर्वितर्कत्वात् तत्र च इह श्री-नन्द-गोकुले प्राक् प्रथमत एव सिद्धं नित्यं प्रकटतया वर्तमानम् अपि त्वां गुणान् भक्ति-लक्षणान् सम्यक् श्रितः आश्रितोऽपि कः विशेषेण ज्ञातुम् अर्हति योग्यो भवति शक्तोऽपि वा अपितु न कोऽपि लौकिकालौकिकता-प्रकटनेन परम-दुर्बोध-लीलत्वात् । यद् वा, गुणैर् दामभिर् अग्राह्योऽपि त्वं तान् गुणान् संश्रितः तैर् बद्ध इत्य् अर्थः । तथानुक्तिस् त्वाद् अदरेण अतः कोन्वित्य्-आदि-बन्धन-दर्शनेन परम-मोहोत्पादनाद् इति भावः । स्मृत इति पाठेऽपि सम्यक् वृतत्वेन स एवार्थः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वत् कृपयैव त्वं दृश्यसे वस्तुतस् त्वम् अदृश्य एवेत्य् आहतुः—गृह्यमाणेस् त्वया दृश्यमानैर् विकारैर् बुद्धीन्द्रियादिभिर् द्रष्टा त्वं न गृह्यसे कीदृशैः प्राकृतैर्-गुण-कार्यै तेनाप्राकृतैर् अगुण-कार्यैर् बुद्धीन्द्रियादिभिस् तु त्वं दृश्यस एवेति भावः ।
नन्व् अप्राकृतत्वाज् जीवो जानातु नैवेत्य् आहतुः को ऽन्विहेति । प्राक् सिद्धम् इति त्वदीय-तटस्थ-शक्ति-विलासत्वाज् जीवस्यापि त्वं कारणम् इत्य्-अर्थः । गुण-संवृत इति गुणातीतस् तु स तद् भक्त्या कथञ्चित् त्वां जानातीति भावः ॥३२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.३३ ॥
तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।
आत्म-द्योत-गुणैश्-छन्न-महिम्ने ब्रह्मणे नमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो दुर्ज्ञेयत्वात् केवलं प्रणमतः, तस्मै तुभ्यम् इति । आत्मनः स्वस्मात् द्योतः प्रकाशो येषां तैर् गुणैश् छन्नो महिमा यस्य । अभ्रैर् इव रवेस् तस्मै ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो ज्ञानाविषयोतो हेतोः । महिमा महत्त्वम् ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवते परमेश्वराह चित्ताधिष्ठात्रे, अतो वेधसे जगत् स्रष्ट्रे, ब्रह्मणे जगद् व्यापकायः । यद् वा, भगवते षड्-गुणेश्वर्य-युक्ताय, तत्रापि वासुदेवाय भगवत्त्व-प्रकटनार्थं वसुदेवाज् जाताय, अतो वेधसे सर्व-जीव-हित-कर्त्रे, अत एव ब्रह्मणे सर्वतो बृहत्त्वं गतायेत्य् अनाच्छाद्य-महित्वम् उक्तम्, तथापि छन्न-महिम्ने । अत्र गुणानां शक्तिं सम्भावयत्य् आत्माद्योतैर् इति, वस्तुतस् तु तेषां मित्थात्वेनाच्छन्नत्वम् एवोक्तम् । अन्यत् तैर् व्याख्यातम् । यद् वा, तस्मै परम-दुर्वितर्क्याय वसुदेवनन्दनाय तुभ्यं नमः । परम-दुर्वितक्र्यत्वे हेतुः—भगवते\ऽशेषैश्वर्य-युक्ताय, अत एव वेधसे विधात्रे अपूर्व-दर्शितानन्ताश्चर्य-लीलाकारिणे भगवत्त्वं वेधस्त्य् अञ्चाभिव्यञ्जयतः, महिमा-अणिम प्रति-योगी अपरिच्छिन्नते\ऽप्य् अपरिच्छित्वम् उक्तम् । ननु सच् चिद् आनन्द-घनोदरे प्राकृतैर् दामभिर् बन्धनम् अपि कथं घटताम् ? तत्र हेतुः—आत्मद्योतैः स्व प्रकाशैस् तान्य् अपि सच् चिद् आनन्द-रूपाणीत्य् अर्थः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मै कृष्णस् तु भगवान् स्वयम् इत्य्-आदौ प्रसिद्धाय तुभ्यं नमः पुनर् भगवते महा-वैकुण्ठ-नाथाय नारायणाख्याय च पुनस् तच् चतुर्व्यूह-प्रथमाय बासुदेवाय च पुनर्वेधसे सृष्टि-कर्त्रे सङ्कर्षणादि-रूपाय पुरुषाय च पुरुषायैव स ते आत्मद्योतेत्य् आदिरूपिणे च ब्रह्मणे क्वचिद् अधिकारिणि निर्विशेषाकारेण स्फुरते च तस्मात् तत् तत् सर्वात्मकत्वात् परम-बृहत्तमायेत्य् उपसंहारो वा लीलानुरूपेण चायमर्थः । तस्मै श्री-नन्द-गोकुले प्राग् अपि सिद्धाय तुभ्यं श्री-नन्दात्मजाय भगवते नमः क्वचिद् वसुदेवापत्याय च वेधसे अद्भुत-लीला सम्पादयित्रे अत एवात्मद्योतैः स्वरूप-प्रकाश-विशेषैर् एव गुणैर् बाल्य-लीलेत्यादिभिर् आच्छन्नैश्वर्याय यद् वा आत्मना त्वया त्वत् प्रभया द्योतन्ते त्वद्वद् आभाति ये गुणा दामानि तैर् बद्धत्वेनाच्छन्न-विभुत्वाय सर्वम् अपि त्वयि सम्भवतीत्य् आहतुः ब्रह्मण इति ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्वं सर्वम् एवं प्राकृत-सर्वात्मकत्वम् उक्त्वा तद्-अतीत-तद्-आत्मकत्वम् अप्य् आहतुः, तस्मै स्वयं भगवते महा-नारायणाय वासुदेवाय तच्-चतुर्व्यूह-प्रथमाय वेधसे प्राकृत-सृष्टि-कर्त्रे सङ्कर्षणादि-रूपाय । कीदृशाय पुरुषाय ? आत्मेति । अत एव तत्-तत्-सर्वात्मकत्वात् ब्रह्मणे परम-बृहते ॥३३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतो दुर्ज्ञेयत्वात् केवलं प्रणमत—तस्मा इति । वेधसे विश्वकर्त्रे दुर्ज्ञेयत्वस्य कारणं गुण-संवृत इति संवृतत्वम् उक्तम् एव पुनर् अपि स्पष्टयतः आत्मना तयैव द्योतन्ते इति त्वत् प्रकाशैर् गुणैश् छन्नो महिमा मेघैर् इव रवेर् यस्य तस्मै ॥३३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.३४ ॥
यस्यावतारा ज्ञायन्ते शरीरेष्व् अशरीरिणः ।
तैस् तैर् अतुल्यातिशयैर् वीर्यैर् देहिष्व् असङ्गतैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहोऽहम् ईश्वर इति कुतो ज्ञानं तत्राहतुः, यस्येति ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहो आश्चर्यम् अशरीरिणः प्राकृत-शरीर-रहितस्यानाशिनो वा । अशरीरं वा वसन्तम् इत्य्-आदि-श्रुतेः । अशरीर एवान् अपेक्षितास्मत्समवायय इति वृत्रोपख्यानोक्तेश् च । देहीवाभाति मायया इति । न हन्यते हन्यमाने शरीरे इत्य् आद्य् उक्तेश् च । शरेरेषु तियग् आदि-देहेषु । तैष् तैः प्रसिद्धैस् तच्-छब्दावृत्तिर् बहुत्वापेक्षया । अतुल्यातिशयैः साम्याधिक्यवर्जितर् असाधारणैर् देहिषु शरीरिषु असङ्गतैः सभावितैः भूम्य् उद्धरणमन्दर-गोवर्धन-धारणदावानल-पानादि-रूपैः ।वीर्यैः पराक्रमैः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यस्यावतारा इत्य्-आदि । यस्यावताराः शरीरेषु, मत्स्यादि-शरीरेषु, यस्य कीदृशस्य ? अशरीरिणः, त्वन्तु मत्स्यादिवत् शरीरी न भवसि, सच् चिद् आनन्द-विग्रह एव त्वम्, सरेषां परम-मनोहरत्व-सुखदत्व-परमानन्द-प्रदत्वाच् च कारुण्यादि-गुणत्वाच् च, न तु विग्रहवान् । तैस् तैर् इत्य्-आदि—तैर् अनिर् वाच्यैस् तैः प्रसिद्धैर् न विद्यते तुल्यम् अतिशयश् च येषां तैर् गुणैर् विशिष्टत्वात्, देहिषु ब्रह्मादिष्व् असङ्गतैः, केवलं त्वय्य् एव सङ्गतैः ॥३४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीरिषु4 मत्स्यादिषु देहिषु मध्ये वाशरीरिणः प्राकृत-शरीर-रहितस्य तव । किं वा, शरीरिषु वर्तमाना अप्य् अशरीरिणस् तद् धर्म-रहिताः । अतस् तस् तैर् अनिर्वचनीयेर् यतो\ऽतुल्यातिशयैर् वाय्यैः प्रभावैर् अद्भुत-चरितैर् वा देहिषु जीवेष्व् असङ्गतैर् अघटमानैर् इत्य् अर्थः । अवतारा अपि ज्ञायन्ते, किं पुनस् त्वम् अवतारीत्य् अर्थः । सर्वथा जाज्ज्वल्यमानात् कथम् अप्य् अनाच्छाद्यान् माहात्म्य-विशेषाद् इति भावः । अन्यतैर् व्याख्यातम् । यद् वा, एवम् अवतारित्वं परम-दुर्ज्ञेयम् एव, कथञ्चित् तवावतारा वा ज्ञातुं शक्यन्त इति । एवं स्व-प्रेम-विवृद्धये विचित्र-लीलयात्मानम् आच्छादयन्न् अपि त्वं नितरां प्राकट्यम् एव यासीर् इत्य् आहतुः—यस्येति । अर्थः स एवोभयत्र ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विवक्षितम् आहतुः—यस्येति युग्मकेन । शरीरिषु मत्स्यादि-जातिषु मध्ये अशरीरिणः प्राकृत-शरीर-रहितस्य तव किं वा शरीरिषु वर्तमाना अप्य् अशरीरिणः तद् धर्म-रहिताः शरीरेष्व् इति पाठे स एवार्थः । अतस् तैर्स् तैर् अनिर्वचनीयैः अत एवातुल्यातिशयैर् वीर्यैः प्रभावैर् अद्भुत-चरितैर् वा देहिषु जीवेषु असङ्गतैर् अघटमानैर् इत्य् अर्थः । अवतारा अपि ज्ञायन्ते किं पुनस् त्वम् अवतारीत्य् अर्थः । अन्यत् तैः यद् वा एवं स्व-प्रेम-विवृद्धये विचित्र-लीलयात्माच्छादयन्न् अपि त्वं नितरां प्राकट्यम् एव यासीर् इत्य् आहतुः—यस्येति । अर्थः स एव ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं महिमानं निरूप्य तथा-भूतस्य तस्यावतारेष्व् अपि महिमातिशयम् अमार्यादं दर्शयित्वा तत्र तस्य कैमुत्यम् आपादयन्तौ साक्षात्-तद्-अवतारे सर्व-लोक-भाग-धेयान्तः-पतित-स्व-भाग-धेयं श्लाघेते—यस्येति द्वाभ्याम् । भगवति देह-देहित्वयोर् भेदाभावात् जीववद् असौ शरीरी न भवतीत्य् अशरीरिणः ॥३४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यं परमेश्वर एवम्-भूतो भवत्य् एव युवां तु माम् एव परमेश्वरं केन लक्षणेन ब्रुवाथे तत्राहतुः यस्य अवतारा मत्स्यादयः शरीरिषु मत्स्यादि-जातिषु मध्ये ज्ञायन्ते अनुमीयन्ते अशरीरिणः प्राकृत-शरीर-रहितस्य तव कैः देहिषु जीवेष्व् असङ्गतैर् अघटमानैर् वीर्यैः प्रभावैः स भवान् अवतारी खल्व् एव भवसि हस्ति-सहस्रेणापि दुरुत्पाटनयोर् आवयोर् अर्जुनयोर् अर्जुन-समौजसो बाल्य-लीलोदिति बल-लवेनाप्य् उत्पाटनात् रज्जूलूखलयोर् अपि तादृश शक्त्यापर्णाद् इति भावः । भवाय भूत्यै विगतो भवो यस्मात् तस्मै मोक्षाय अंश-भागेन अंशांशेन ब्रह्म-रुद्रादिना आशिषां सर्व-कामनानां पतिर् दाता यः स एवेत्य् अर्थः ॥३४-३५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.३५ ॥
स भवान् सर्व-लोकस्य भवाय विभवाय च ।
अवतीर्णोऽंश-भागेन साम्प्रतं पतिर् आशिषाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भवायोद्भवाय । विभवाय विगतो भवो यस्मिंस् तस्मै । कैवल्यायेत्य् अर्थः ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्यावतारा ज्ञायन्ते स भवानीति सम्बन्धः । भवो जन्म । इत्य् अर्थः इति । जन्म-निवृत्तिर् एव कैवल्य-पदार्थ इति तात्पर्यम् । सर्व-लोलस्येति केचिद्-दृष्ट्वा केचि स्पृष्ट्वा केचित् स्मृत्वा केचिज् ज्ञात्वा केचिन् मम कर्माण्य् एव श्रुत्वा स्मृत्वा च संसारान् मुच्यन्त इत्य् आह—अंश-भागेनेति व्याख्यात-चरम् । आशिषामभीप्सितानाम् । पतिर् दाता । गीतोक्तार्तादिचतुर्विध-भक्ताभीष्टद इति भावः । स भवान् अवतारी खल्व् एव भवति हस्ति-सहस्रेणापि दुरुत्पाटनयोर् आवयोर् अर्जुनयोर् अर्जुन-समौजसोर् बाल्य-लीलोदितबललवेनाप्य् अपि पाटनात् । रज्जूलूखलयोर् अपि तादृश-शक्त्य् अर्पणाद् इति भावः । अंशांशेन ब्रह्म-रुद्रादिना आशिषां सर्व-कामानां पतिर् दाता यः स एव भवान् इत्य् अर्थः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अवतीर्णो\ऽंश-भागेनेत्य् आदि । हे अंश-भागेन ! अंशानां भागो भाग्यं तस्य इन प्रभो । अथवा, अंशाश् च भागाश् च तेषां इन, अथवा, अंशनां भागेन भाग्येनेति तृतीयान्तं वा वा पदम् ॥३५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्ववतारी चेत् तर्हि श्री-वैकुण्ठ-लोकं विहाय किम् अर्थम् अत्रागतो\ऽसि ? त्राहतुः—स इति । भवाय विभवाय चेत्य् अहिकामुष्मिकाशेष-सम्पत्त्य् अर्थम् अंश-भागेन परिपूर्वतयेत्य् अर्थः यद् वा, अंशानां जीवानां भाग्येन हेतुना । साम्प्रतम् अवतीर्णः । किञ्चाशिषां भक्त-कामितानां सर्वेषाम् एव पतिः पालकः परिपूरक इत्य् अर्थः । साम्प्रतम् इत्य् अस्य यथा-स्थितम् अत्रैव वान्वयो गोकुल-क्रीडा-समये\ऽस्मिन्न् इत्य् अर्थः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो भाग्यम् इत्य् आहतुः—स इति । भवाय विभवाय चेति ऐहिकामुष्मिकाशेषसम्पत्य् अर्थः । साम्प्रतम् अवतीर्णः यतः आशिषां भक्तकामितानां सर्वेषाम् एव पतिः पालकः परिपूरक इत्य् अर्थः । साम्प्रतम् इत्य् अर्थः यथा स्थितम् अत्रैव वान्वयः गोकुल-क्रीडा-समये अस्मिन्न् इत्य् अर्थः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१०.३६ ॥
नमः परम-कल्याण नमः परम-मङ्गल ।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदम् एव रूपं परतमं नमन्तः नम इति परमं कल्याणं यस्मात् तत्-तथा मोक्ष-प्रदेत्य् अर्थः । परम-मङ्गल ऐहिकामुष्मिक-प्रत्य् ऊहवारकः । तद् एवाहतुः—शान्ताय इति । मोक्ष-प्रदत्वम् आह—वासुदेवाय यदूनां पतये ति । परम-मङ्गलत्वम् आह—मङ्गलाय च लोकानाम् । आस्ते यदुकुलाम्भोधावाद्योनन्तसखः पुमान् इत्य् आद्य् उक्तेः । परमस्य महादेवस्यापि मङ्गलम् यच्च्यौचनिस्सृत-सरित्-प्रवरोदकेन शिवः शिवोऽभूत् इत्य् उक्तेः । वासुदेवाय नन्द-नन्दनाय । शूरसेननन्दनाय वा । यदूनां क्षत्रियाणां गोपानां वा पतये ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अवतार-प्रयोजनं निर्दिश्योप-संहतस् तद् एवाशेष-माहात्म्यामृतमय-नाम-द्वारा कीर्तयन् भक्त्या मुहुः प्रणमतः नम इति । स्वतः परम-कल्याण-स्वरूप । यद् वा, परमं प्रेम-लक्षणं यस्मात् । किं च, विश्वस्य मङ्गलम् ऐहिकाम् उष्मिक-सुखं यस्माद् इति निष्काम-सकाम-भक्त-भेदेन सम्बोधन-द्वयम् । तत् कुतः ? वासुदेव-नन्दनाय, अतः शान्ताय निर्विकाराय सुख-स्वरूपाय वा, विशेषतो यदूनां यादवानां स्कान्दे मथुरापण्डानुसारेणयदु-शब्देन गोपोक्तेः श्री-नन्दादीनां वा पालकाय, तथा च तत्र—रक्षिता यादवाः सर्वे इन्द्र-वृष्टि-निवारणात् इति, यत्राभिषिक्तो भगवान् मघोना यदुवैरिणा इत्य्-आदि । यद् वा, श्रीवासुदेवायेति जन्म-लीला, शान्तायेति युद्धात्य् आरम्भे\ऽपि क्रोधाद्य् अभावेन, तथा तादृश-यज्ञ-पत्नी-प्रार्थने\ऽपि धर्मादि-प्रदर्शनेन शान्तिमत्त्वात् । यदूनां पतय इति श्री-मथुरागमनानन्तरं यादव-पालन-द्वारा द्वारका-क्रीडा चेति संक्षेपेण सर्वावतार-प्रेयाजनं परम-कल्याणत्वं विश्व-मङ्गलत्वयोर् हेतुत्वेनोद्दिष्टम् ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अवतार-प्रयोजनेन स्व-मङ्गकारितौचितीम् उपपाद्य तादृशं च तद् गुणं तादृश तन् नाम-कीर्तन-द्वारैवानुमोदमानौ तद् उचित-सेवायाम् अप्य् अक्षमं मन्यौ केवलं भक्त्या मुहुः प्रणमतः-नम इति । हे स्वतः-परम-कल्याण-स्वरूप ! किं च विश्वस्य मङ्गलं ऐहिकाम् उष्मिक-सुखं यस्माद् इति सकाम-निष्काम-भेदेन सम्बोधन-द्वयं परम-मङ्गलेति क्वचित् पाठे परमाणां श्री-शिवादीनाम् अपि मङ्गलेति व्याख्येयं यच्छौचनिःसृत-सरित् प्रवरोदकेन इत्य्-आदौ शिवः शिवोऽभूत् इत्य् उक्तेः तत् कुतः वासुदेवाय सर्वहितार्थम् एव वसुदेव-द्वारा प्रकटाय अतः शान्ताय निर्दोषाय सुख-स्वरूपाय वा नित्यम् एव तु यदूनां क्षत्रियाणां गोपानां च तेषां पतये कुल-पति-रूपाय श्री-गोपानां च यादवत्वं स्कन्द-मथुरा-माधात्म्ये व्यक्तं रक्षिता यादवाः सर्वे इन्द्र-वृष्टि-निवारणात् इति तथा यत्राभिषिक्तो भगवान् मघोना यदुवैरिणा इत्य्-आदिना ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवानूद्य नमस्कुरुतः—नम इति । परमाणां शिवादीनाम् अपि मङ्गल-रूप-वासुदेवाय वसुदेव-द्वारा प्रकटाय शान्ताय सर्वस्य परम-सुख-रूपाय यदूनां क्षत्रिय-विशेषाणां गोप-विशेषाणां च ॥३६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परम-कल्याणं यस्मात् तस्मै हे स्वयं च परम-मङ्गल-स्वरूप ॥३६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.३७ ॥
अनुजानीहि नौ भूमंस् तवानुचर-किङ्करौ ।
दर्शनं नौ भगवत ऋषेर् आसीद् अनुग्रहात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नौ आवाम् । अनुचरः कुबेरो नारदो वा तस्य किङ्करौ । भगवतस् तव दर्शनम् ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुबेरस्य महादेवानुचरत्वं विमृश्याह—नारदो वेति । ऋषेर् नारदस्य ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं स्तुत्वान् अवसरे श्री-भगवन् निकटे तत्रावस्थितिम् अयुक्तां मन्वानौ निज-स्थानं गन्तुम् आज्ञां गृह्नीतः—अनुजानीहीति प्रस्थापय, भूमन् ! हे परमेश्वर ! अयं भावः—स्थावरत्वेन त्वत् सङ्गे भ्रमणाद्य् अशक्त्यात्र वृक्षतयावस्थितिं नैवेच्छावो देवत्वेन च त्वत् क्रीडा-विशेष-स्थाने\ऽस्मिन् स्थातुं नार्हाव एव, अतस् त्वद् भजनार्थं निज-गृहम् एव किल गच्छाव इति । अन्यत् तैर् व्याख्यातम् । यद् वा, स्तुत्या काञ्चिद् आज्ञां प्रार्थयते—अनुजानीहीति, आवां प्रति काञ्चिद् आज्ञां विधेहीत्य् अर्थः । भूमन् ! हे सर्वतः परिपूर्णेति यद्य् अपि तव काप्य् अपेक्षा नास्ति, तथाप्य् अनुजानीहीति भावः, तच् च भक्त-वात्सल्याद् एवेत्य् आहतुः—अनुचरस्य भक्तस्य सख्युर् वा श्री-शङ्करस्य किङ्करौ रुद्रस्यानुचरावित्य् उक्तेः । यद् वा, श्रुत्वा5 भक्ति-विशेषेण दासानु-दासतां प्रार्थयेते—अनुचराणां किङ्कराव् इति निरन्तरं जानीहि । यद् वा, परमाभीष्टं प्रार्थयेते—अनुजानीहीति, तवानुचराणां गोप-बालानां किङ्करौ अनु अनुजानीहि, एषां किङ्करौ कृत्वात्रैव रक्षेत्य् अर्थः । नन्वति-द्र्लभम् इदम्, तत्राहतुः—अनुग्रहाद् इति । नौ आवां प्रति तव दर्शनं भगवतः परम-दयालोर् अचिन्त्य-प्रभावस्य वा । ऋषेः श्री-नरदस्य महापराधिनोर् अपि महद् अनुग्रहेणालभ्य-लाभ-सिद्धेर् अत्रावस्थितेर् अनुज्ञापि सुलभेति भावः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं स्तुत्वा देवत्वेनानवसरे तत्रावस्थितिमयुक्तां मत्वा तादृशं स्थावरत्वम् एवानुशोचन्तावाहतुः—अनुजानीहीति । गन्तुम् एवेति भावः । भूमन् ! हे परमेश्व ! अन्यत् तैः । यद् वा, अनुजानीहि आवां प्रति किञ्चिद् आज्ञां विधेहीत्य् अर्थः । भूमन् हे सर्वतः परिपूणेति यद्य् अपि काप्य् अपेक्षा नास्ति तथापीति भावः । तच् च भक्त-वात्सल्याद् एवेत्य् आहतुः अनुचरस्य भक्तस्य श्री-शङ्करस्य किङ्करौ रुद्रस्यानुचरावित्य् उक्तेः । यद् वा श्री-नारद-किङ्करौ तत् प्रसादेनैवैतादृश-फल-प्राप्तेस् तद् अनुगति-स्मरणस्यैव प्रस्तुतत्वात् युक्तत्वाच् च । यद् वा, अनुचराणां किङ्कराव् इति निरन्तरम् अनुजानीहि यद् वा, तवानुचराणां गोप-बालकानां किङ्करौ अनुजानीहि एषां किङ्करौ कृत्वा अत्रैव रक्षेत्य् अर्थः ।
नन्व् अतिदुर्लभम् इदं तत्राहतुः—अनुग्रहाद् इति । नौ आवाभ्यां तव दर्शनं भगवतः परम-दयालोः अचिन्त्यप्रभावस्य वा प्रभोः ऋषेः श्री-नारदस्य महापराधिनोर् अप्य् अलभ्यलाभ-सिद्धेर् एतद् अप्य् आशास्महे इति भावः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : [+++]{।मर्क्}
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुचरस्य नारदस्य किङ्करौ ॥३७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.३८ ॥
वाणी गुणानुकथने श्रवणौ कथायां
हस्तौ च कर्मसु मनस् तव पादयोर् नः ।
स्मृत्यां शिरस् तव निवास-जगत्-प्रणामे
दृष्टिः सतां दर्शनेऽस्तु भवत्-तनूनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र गतयोर् अवयोः पूर्व-स्वभावो विषय-प्रवणता इत्य्-आदि भवतु । न इत् बहु-वचनम् । अस्मदो द्वयोश् च [पा। १.२.५९] इति द्वि-वचन-स्थाने बहु-वचनम् । अस्मत्-सङ्गिनां सर्वेषाम् अपीति वा बहु-वचनम् । तव निवास-भूतं यज् जगत् तस्य प्रणामे । त्वन्-निवास-भूतम् इति बहु-मानेन जगतः प्रणामे शिरोस् त्व् इत्य् अर्थः । भवत्-तनूनां भवतो मूर्तीनाम् ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रालकायाम् । पूर्व-स्वभावो विषय-प्रवणता इत्य्-आदि भवतु । न हि बहुवचनम् । अस्मदो द्वयोश् च इति सूत्रेण । यद् वा, क्लिष्ट-कल्पनातोर्थान्तरम् एव वरं तद् आह—अस्मद् इत्य्-आदि । इत्य् अर्थ इति सर्वत्रास्माकं भगवद्-दृष्टिर् भवत्व् इति तात्पर्यम् । तव पादयोः स्मृत्यां मन इति सम्बन्धः । सतां यथा-शास्त्रं वर्तमानानाम् । निवासो वहति स्थानं जगद्य् अस्य तस्य सम्बोधनम् ॥३८॥। विश्वनाथौ
क्द्- षड्वर्गम् आह—वाणी इति । पादयोः स्मृत्यां मनः । शिरः प्रणामे हि । निवास-जगत् जगन् निवासो यस्येति । निवास-शब्दस्य सप्तमी-विशेषणे बहुव्रीहाव् इति पूर्व-निपातः ॥३८॥ [मु।फ। ७.९३]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-नारदानुग्रहेण मद् भक्ताव् एव युवां वृतौ, ततस् तत्रैव गच्छतम् इति चेत् तर्हि सर्व-भक्ति-प्रकारं देहीति । यद् वा, वासुदेवस्य सान्निध्यं लब्ध्वेति तद् अनुग्रहम् एकम् अधिकं त्वं सम्पादय, एवं लब्ध-भक्ती भविष्यथ इत्य् अन्यच् च सम्पादयेत्य् आहतुः—वाणीति । तव पादयोर् गुणानां भक्त-वात्सल्यादीनां कोमलत्वादीनां च अनु निरन्तरं कथने एव, न च याग-योगादि-निरूपणे, नो\ऽस्माकम्, सम्बन्ध्य् अपेक्षया बहुत्वम्, वाणी वाग् इन्द्रियम् अस्तु, पादयोर् इति भक्त्या दास्येच्छया, अतः केवल-शुष्क-तत्त्व-विचारादिकं निरस्तम् । श्रवणाव् इति द्विवचनेन श्रवणेन्द्रियस्य साकल्येन प्रवृत्तिर् अभिप्रेता । एवम् अग्रे\ऽपि । कथायां कथा-मात्रे, श्रवणे स्वातन्त्र्याभावात्, स्वयं कथने च भगवन् माहात्म्य-वर्णनस्यैव योग्यत्वाद्-गुणानुकथन इति तत्रोक्तम् । तव कर्मसु पूजा-परिचर्या-लक्षणम्, च शब्दो\ऽवधारणे, तद् अन्य-व्यवच्छेदकः सर्वैर् एवान्वेति । शिर इति शिरसो\ऽङ्गेषु-तमतयाष्टाङ्ग-प्रणामापेक्ष्याणि पादाद्य् अङ्गानि सर्वाणि गृहीतान्य् एव । यद् वा, एकदैव कीर्तनाद्य् अशेषापेक्षया हस्ताद्य् अङ्गानां परिचर्यादौ प्रवृत्या शिरो-मात्रेणैव प्रणाम-सम्भवात् । निवासो वसति-स्थानं जगद्य् अस्य तत्र सम्बोधनम् । तवेति पुनर् उक्तेर् अयं भावः—जगन् निवासतया जगत् प्रणामेन त्वत् प्रणामे सिद्धे\ऽप्य् एकान्तित्व-सिद्धये तवैव प्रणामे\ऽस्त्विति । दृष्टि-चक्षुर् इन्द्रियम्, कथम्-भूतानाम् ? सतां भवतस् तनूनाम् अधिष्ठानानाम् इत्य् अर्थस् तेषु सदा तव स्फूर्तेः । यद् वा, भवतस् तनवः श्री-शल-ग्रामादि-मूर्तयः पूज्यत्वेन वर्तन्ते येषु, वैष्णव-धर्म-पराणाम् इत्य् अर्थः । यद् वा, सतां श्री-वैष्णवानां भवत् तनूनां च श्री-मूर्तीनां दर्शने, साक्षात् तद् दर्शने\ऽस्त्विति च गृहे\ऽसम्भवत्वाद् भयादिना न प्रार्थितम् इत्य् उह्यम् । एवं कीर्तन श्रवण पूजा-परिचर्या स्मरण-वन्दनात्मिका षड्-विधा भक्तिः प्रार्थिता । सख्यात्म-निवेदनयोः प्रायः फले पर्यवसानात् साधन-वर्ग-मध्ये\ऽप्रार्थनम् । यद् वा, कीर्तनादि-सिद्धया ते स्वत एव फलिष्यत इति । किं वा, कीर्तनस्य प्रार्थनम्—सर्वेन्द्रिय-क्षोभकारिण्या वाचो भगवत् कीर्तने प्रवृत्त्या नियमनाद् इन्द्रियाणां स्व-स्व-कर्मसु सुख-प्रवृत्तेः । यद् वा, नाहं वसामि वैकुण्ठे इत्य्-आदि वचनानुसारेण भगवतः कीर्तन-प्रियतया कीर्तनस्य भक्ति-प्रकारेषु मुख्यत्वात् । किं वा, कीर्तने रस-विशेषात्, वैष्णवानां श्री-मूर्तोनां तद् दर्शनेन साम्यात् तस्य च साक्षात्कार-रूपस्य सर्व-भक्ति-प्रकार फलत्वाद् अन्ते प्रार्थनम्, मध्ये चान्य् एषां निज-रसानुसारेण च तत् तत्-क्रमादित्य् अलम् अति-विस्तारेण ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-नारदानुग्रहेण मद् भक्ताव् एव युवां वृत्तौ ततस् तत्रैव गच्छतम् इति चेत् तर्हि सर्व-भक्ति-प्रकारं देहीति भक्ति-स्वभावेनैव प्रार्थयेते घाणीति । तव पादयोर् गुणानां भक्त-वात्सल्यादीनां सौन्दर्यादीनां च अनु निरन्तरं कथनं एव न तु योग-यागादि-निरूपणे नः अस्माकं वाणी वाग् इन्द्रियम् अस्तु पादयोर् इति भक्त्या न तु तन् मात्र-विवक्षया श्रवणाव् इति द्विवचनेन श्रवणेन्द्रियस्य साकल्येन प्रवृत्तिर् अभिप्रेता एवम् अग्रेऽपि कथायां कथा-मात्रे ब्रह्मत्व-सृष्ट्यादि-हेतुत्व-कथनेपीत्य् अर्थः । श्रवणे स्वातन्त्र्याभावात् स्वयं कथने तु भगवन् माधुर्यस्यैव रस्यत्वात् गुणानुकथायाम् इत्य् अत्रापि गुण-कथायाम् इत्य् एव पूर्वस्वारस्यात् ज्ञेयं कर्मसु पूजा-परिचर्यालक्षणेषु च-शब्दः सर्वैर् एवान्वेति शिर इति तत्र प्राधान्याद् अवशिष्टत्वाच् च तत् तु तव निवासो वसति-स्थानं जगद् यस्य तस्य संबोधनं तवेति पुनर् उक्तिः जगन् निवासतया जगत् प्रणामेन त्वत् प्रणामे सिद्धेऽपि तद् एक-दृष्ट्य् अपेक्षया तव निवास-भूता ये जगतो जङ्गम-रूपाः श्री-वैष्णव-रूपास् तेषां प्राणामे शिरश् च तस्योभय-लिङ्गमानम् एतत् इत्य् उक्तेः यद् वा तव निवासोऽयं यो व्रजस् तत्रस्थस्य जगतः सर्वस्य दूरतोऽपि प्रणामे दृष्टिः चक्षुर् इन्द्रियं भवत् तनूनि-विशेषाणां सतां श्री-नारदादीनां यद् वा सतां श्री-वैष्णवानां भक्त-तनूनां च अर्चारूपाणां च दर्शने साक्षात् त्वद् दर्शनेऽस्त्विति तु गृहष्व् असम्भवं भयादिना न प्रार्थितम् एवं स्पर्शादिकम् उपलक्ष्यम् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तव निवासोऽयं यो व्रजस् तत्र-स्थस्य जगतः सर्वस्य दूरतोऽपि प्रणामे ॥३८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अनुचर किङ्करत्वाद् एवावयोस् त्वद्-वात्सल्यातिशयम् आलक्ष्यानैर् दुर्लभम् अपीदं प्रार्थयितुम् उत्सहावह इत्य् अभिव्यञ्जयन्त्याव् आहतुः वाणीति । अत्रैक एव चकार एवार्थकः प्रतिसप्तम्य्-अन्तं योज्यः । तेन तव गुणासु कथन एव वाणी भवतु न त्व् अन्य-कथायाम् इत्य् एवं सर्वत्र व्याख्येयम् । नः आवयोर् मनस् त्वदीय-पादयोः स्मृत्यां निवास-भूतानां जगतां जङ्गमानां नारदादि-भक्तानां प्रणामे शिरो\ऽस्तु । हे निवास जगद् इति सम्बोधन-पदं वा । भवत्-तनूनां त्वन्-मूर्ति-रूपाणाम् ॥३८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.३९ ॥
श्री-शुक उवाच—
इत्थं सङ्कीर्तितस् ताभ्यां भगवान् गोकुलेश्वरः ।
दाम्ना चोलूखले बद्धः प्रहसन्न् आह गुह्यकौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सङ्कीर्तितः संस्तुतः ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोकुलेश्वर इति । दाम्ना चोलूखले बद्ध इति च भक्तिवशवर्तित्वम् आह—भक्त्य् अधीनो गोपालत्वं दाम-बन्धनं चापि स्वीकृतवान् इति ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोकुलेश्वर इति दाम्नोलूखले बद्धो\ऽपि गुह्यकावाह, यतो भगवान् सर्व-लोक-हितार्थं स्वयम् अवतीर्ण इत्य् अर्थः । यद् वा, गोकुलेश्वर इति तयोर् अपि तत्र जन्मादिना सम्भाषणं युक्तम् एवेति भावः । यतो\ऽसौ गोकुल-जनैकवश्य इत्य् आह—दाम्नेति । च एव, बद्ध एव, न तु तस्मात् स्वयं मुक्तः सन् । यद् वा, च अपि, दाम्ना बद्धो\ऽपि । प्रकर्षेण हसन् स्मयमान इत्य् अर्थः, यतो गोकुलेश्वरो गोकुल-क्रीडा-कौतुकीत्य् अर्थः, किं च, भगवान् निजाशेषैश्वर्य सार-सर्व-स्वाभिव्यञ्जक इत्य् अर्थः । एवं श्री-नारदानुग्रह-प्रभावेण तयोः परम-धन्यतोक्ता । प्रहासस् तु स्वभावत एव । किं वा, तयोः पूर्व-वृन्तान्ते अद्भुत-श्रीनारद-कारुण्याद् वा, स्तुत्यादिना प्रहर्षाद् वा, निज-दाम-बन्धन-दर्शन-कौतुकाद् वेति तत्र वञ्चना निरस्ता । श्लेषेण गोकुलस्येन्द्रिय-वर्गस्येश्वर इति तत् प्रभावेनैव तद् भक्तौ सर्वेन्द्रिय-प्रवृत्तेस् तयोस् तत् पथि प्रार्थित-सिद्धिर् अभिप्रेता ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोकुलेश्वरः प्रहसन् गुह्यकावाह—गुह्यकाव् इति । तयोस् तादृश-पूर्वावस्थत्वं सूचयित्वा भाग्यातिशयं दर्शयति । प्रहासे हेतुः स्वरं भगवान् ताभ्याम् अपीत्थं भगवत्त्वेनैव कीर्तितः दाम्ना चोलूखले बद्धः इति प्रथमतस्तावद्-बद्धस् तत्रापि दाम्ना तत्राप्य् उलूखल इत्य् अर्थः । अतो भयेनैवैतौ न हसत इत्य् अभिप्रेत्य स्वयम् एव हसति स्मेति भावः । गोकुलेश्वरो भगवान् इति गोकुलेशनशीलत्वाद् गोकुलेश्वरनामायम् अस्माकं भगवान् एवं प्रिय-जनन-प्रेमवश्यतया गोकुले नित्य-कौतुक-शील इति गोकुलं चेदं परम-विलक्षणं जानीहीति च व्यञ्जयति ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इत्थम् इति दाम्नेत्य् आदि प्रहासे कारणं गोकुलेश्वर इति शीलार्थ-प्रत्ययेन तन्-नाम्ना च नित्य-तादृश-लीलात्वं दर्शयति ॥३९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सङ्कीर्तितः संस्तुतः दाम्ना चकारत् प्रेम्ना च बद्धः प्रहसन्न् इति प्रहासो ऽयमेते उपदेवादयो मन् मायया बद्धाः स्वमोचनार्थं यं मां स्तुवन्ति सोहं यशोदादि-गोपीभिर् दाम्ना प्रेम्ना च बद्धो ऽभीक्ष्णं भर्तसितश् चेह गोकुले तिष्ठामि अत्रत्यानां तासाम् भर्तसनेनाहं यथा प्रीये न तथानयोः स्तुत्येति व्यञ्जयति ॥३९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.४० ॥
श्री-भगवान् उवाच—
ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना ।
यच् छ्री-मदान्धयोर् वाग्भिर् विभ्रंशोऽनुग्रहः कृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वाग्भिः, न ह्य् अन्यो जुषतो जोष्यान् [भा।पु। १०.१०.८] इत्य्-आदिभिः । श्री-विभ्रंश-रूपो ऽनुग्रहः कृत इति ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुग्रहः कृतः श्री-भ्रंशे भवत्-स्मृत्य्-आदि-सम्भवाद् इति भावः । यस्याहम् अनुगृह्नामि हरिष्यते तद्-धनं शनैः [भा।पु। १०.८८.८] इति वक्ष्यमाणत्वात् ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतन् मम ज्ञातम् एव इत्य् अन्यथा महद्-अपराधिषु ममेदृश-कृपानुपयोगात् । किं वा, मद्-भक्त-प्रवरत्वेन मद्-इच्छयैव कृतत्वाद् इति भावः । यद् वा, ऋषेर् आसीद् अनुग्रहात् [भा।पु। १०.१०.३७] इति तयोर् उक्त्या प्रीतः सन् ताम् एव द्रढयन् तयोः प्रहर्षार्थम् अन्वमोदत इति दिक् । करुणात्मना दया-शिलेन । करुणात्मताम् आह—श्री-मदान्धयोर् अप्य् अनुग्रह कृत इति । अन्यत् तैर् व्याख्यातम् ।
यद् वा, स्याताम् नैवं यथा पुनः [भा।पु। १०.१०.२१] इत्य्-आदि बहुल-वर-प्रदानमयीभिर् वाग्भिः । कथम्-भूतः ? विगतो भ्रंशः अधः-पातो महापराध-कृतो यस्मात् ।
यद् वा, भ्रंशश् च्युतिः, तद्-रहितः परम-स्थिर इत्य् अर्थः—गोकुले ममेदृश-लीलायां सान्निध्य-प्रापणात्, परम-भक्ति-प्रापणाच् च ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतन् मम ज्ञातम् एव इति अन्यथा महद्-अपराधिषु ममेदृश-कृपानुपयोगात् । यद् वा, ऋषेर् आसीद् अनुग्रहात् [भा।पु। १०.१०.३७] इति तयोर् उक्त्या प्रीतः सन् ताम् एव द्रढयन् तयोः प्रहर्षार्थम् अन्वमोदतेति करुणात्मना दया-शीलेन । करुणात्मताम् एवाह--श्री-मदान्धयोर् अप्य् अनुग्रहः कृत इति । अन्यत् तैः ।
यद् वा, स्याताम् नैवं यथा पुनः [भा।पु। १०.१०.२१] इत्य्-आदि-बहुल-वर-प्रदानमयीभिर् वाग्भिः । कथम्-भूतः ? विगतो भ्रंशोऽधः-पातो महापराध-कृतो महा-नरकादि-रूपो यस्मात् ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विगतो भ्रंशो यस्मात् ॥४०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वाग्भिः न ह्य् अन्यो जुषतो जोष्यान् [भा।पु। १०.१०.८] इत्य्-आदिभिः श्री-विभ्रंश-रूपो अनुग्रहः एव कृत इति ॥४०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.४१ ॥
साधूनां सम-चित्तानां सुतरां मत्-कृतात्मनाम् ।
दर्शनान् नो भवेद् बन्धः पुंसोऽक्ष्णोः सवितुर् यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : युक्तम् एवैतद् इत्य् आह—साधूनां स्व-धर्म-वर्तिनां सम-चित्तानाम् आत्म-विदां सुतरां मत्-कृतात्मनां मय्य् अर्पित-चित्तानाम् । तेषां कृपातिरेकात् सुतराम् इत्य् उक्तम् । सवितुर् दर्शनाद् अक्ष्णोर् यथा बन्धो न भवेत्, तद्वत् ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् अनुग्रह-करणम् । कृपातिरेकाद् दयाधिक्यात् । तद्वत् साधूनां दर्शनाद् अपि बन्धो न, किं तु बन्ध-निवृत्तिर् एव, तत्-कृपया मत्-स्मरण-दर्शनादिना इति भावः । "दर्शनान्त" इति पाठे दर्शन-पर्यन्त एव ।
याद् वा—दर्शनेनान्तो नाशो यस्य सः । इह सवितुर् दर्शनान् अप्य् अन्धानां तमो यथा न नश्यति, तथा नानापराध-मलिन-चेतसाम् असुराणां श्री-नारदादि-दर्शनाद् अपि न बन्ध-क्षय इत्य् अप्य् असूचि ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सद्-दर्शनाद् अपि पुं-मात्रस्यापि संसार-बन्धो न भवेत्, किं पुनस् तादृश-बहुल-वाक् प्रयोगानुग्रहाद् भवतोः श्री-रुद्र-सेवकयोः ? इत्य् अर्थः । पुंस इति प्रायस् तस्यैव साधु-दर्शन-योग्यत्वात् । अक्ष्णोर् बन्धो दृष्ट्योः प्रसरणम् । यद्य् अपि सूर्य-दर्शनात् प्राग् अपि तमो-नाशेनाक्ष्णोर् बन्धो न तिष्ठेत्, तथापि सम्यक्तापेक्षया मत्-कृतात्मनाम् इत्य् अत्र दृष्टान्तत्वेन दर्शनाद् इत्य् उक्तम् ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : साधूनाम् इति तैर् व्याख्यातम् एव । तत्र पूर्वयोर् यथायथं यत् किञ्चित् बन्धन-हारित्वं सुतराम् इत्य् अनेन व्यञ्जितं । यद् वा, साधूनाम् इति कृपालुतायां सम-चित्तानाम् इत्य् अपराधाग्रहणे मत्-कृतात्मनाम् इत्य् अस्य स्वाभाविक-गुण-व्यञ्जकं विशेषण-द्वयं, तेषां दर्शनाद् अपि पुंसो जीव-मात्रस्य सुतरां संसार-बन्धो न भवेत्, किं पुनस् तादृश-बहुल-बालक-प्रयोगानुग्रहात् भवतोर् अवज्ञातृत्वाद् एव तद्-अपेक्षा जातेति । सुतराम् इत्य् अपेक्षया तत्-पूर्वतोऽपि तन्-नाशात् ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सम-चित्तानाम् इति अपराधाग्रहणे साधूनाम् इत्य् अनुग्रहे विशेषणम् ॥४१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तं दृष्ट्वाप्य् असम्मानयतोर् आवयोस् तद् अनुग्रहः कथं सम्भवेत् ? तत्राह—साधूनाम् इति । सम-चित्तानां स्वमानापमानाभ्याम् अक्षुभ्यतां । सुतराम् अतिशयेन मय्य् एव कृत आत्मा मनो यैस् तेषाम् दर्शनान्तः दर्शन-पर्यन्त एव । यद् वा, दर्शनेनान्तो नाशो यस्य सः । सवितुर् दर्शनाद् अक्ष्णोर् बन्धस् तमः कृतो यथा नश्यति, तथेति । तेनान्धानां सवितुर् दर्शनाद् अपि यथा तमो न नश्यति, तथैव नानापराध-मलीमस-मानसानाम् असुराणां श्री-नारदादि-दर्शनाद् अपि न बन्ध-क्षय इति ज्ञापितम् ॥४१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.४२ ॥
तद् गच्छतं मत्-परमौ नलकूवर सादनम् ।
सञ्जातो मयि भावो वाम् ईप्सितः परमोऽभवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राधान्याद् एकस्य सम्बोधनम् । हे नलकूवर, युवां तत् तस्मात् सादनं स्व-निकेतं मत्-परमौ सन्तौ गच्छतम् । वां युवयोर् अपेक्षितो मयि प्रेमा जात एव । अभवः न भवो यस्मिन् सः ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राधान्याद् वा लिङ्ग-समवायेन यस्मात् साधु-दर्शनं बन्ध-हेतुर् न तस्माद् धेतोः । भवः संसारः ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मत्-परमौ मद्-एकान्तिनौ सन्तौ, यतः सञ्जात इति । अन्यत् तैर् व्याख्यातम् । यद् वा, हे मत्-परमौ ! युवयोर् मयि भावः प्रेमा सम्यग् जात एव, यतः परमो भवो\ऽभ्युदयो मद्-एक-भक्ति-लक्षणो वाणी गुणानुकथने [भा।पु। १०.१०.८] इत्य्-आदिना युवाभ्याम् ईप्सितः । एवं युवयोः सौशील्येनैव स्वतो मद् भावो वृत्तः । तत् किं मया स देय इति सहज-विनयादि-समस्त-कल्याण-गुणामृतोदधिना साक्षात् तथास्त्व् इत्य् अनुक्तो\ऽपि वाक्-चातुर्या वरो वाञ्छतीतो\ऽपि नितरां दत्त एव ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मत्-परमौ मद्-एकान्तिनौ सन्तौ यतः सञ्जात इति । अन्यत् तैः । यद् वा, युवयोर् मयि भावः प्रेमा नारदानुग्रहात् सम्यग् जात एव । यतः परमो भवः अभ्युदयः मद्-एक-भक्ति-लक्षणः वाणी गुणानुकथने [भा।पु। १०.१०.८] इत्य्-आदिना युवाभ्याम् ईप्सितः । एवं श्री-नारदानुग्रह-सम्बन्धेन निज-सन्तोषातिशय-व्यञ्जनात् तद्-अतिशयोऽपि स्याद् इति व्यञ्जितं, सहज-विनयादि-गुणामृत-पयोनिधित्वात् साक्षात् तु नोक्तम् इति ज्ञेयम् ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राधान्याद् एकं संबोध्याह—हे नलकूवर! अहम् एव परमः सेव्यो ययोस् तथा भूतौ सन्तौ सादनं सदनं न भवः संसारो यतः सः ॥४२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.१०.४३ ॥
श्री-शुक उवाच—
इत्य् उक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः ।
बद्धोलूखलम् आमन्त्र्य जग्मतुर् दिशम् उत्तराम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बद्धोलूखलं बद्धम् उलूखलं यस्मिंस् तम् ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उलूखले बद्धो बद्धोलूखलः । आहिताग्न्य्-आदित्वात्6 साधुः । उलूखलस्यापि तच्-छक्त्य्-आवेशात् तस्मा अपि प्रणामादि कृतम् । तद् उक्तं पाद्मे, नमस् तेऽस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने इत्य्-आदिना । उत्तरां दिशं तत्रत्य् आमलकाम् ॥४३॥
यत्र मन्थां विबध्नते रश्मीन् यमितवा इव ।
उलूखल-सुतानाम् अवेद्व् इन्द्र जल्गुलः ॥ [ऋ।वे। १.२८.८]
ता नो अद्य वनस्पती ऋष्वा वृष्वेभिः सोतृभिः ।
इन्द्राय मधुमत्-सुतम् [ऋ।वे। १.२८.५] इति श्रुतिर् यमलऋजुन-पातम् आह ।
अर्थः—यत्र उलूखले मन्थां मन्थानम् इव मन्थानं लोक-क्लेश-करं मां विबध्नते विशेषेण बध्नन्ति मातरः रश्मीन् आदाय रश्मिभिर् इत्य् अर्थः । यमितवा इव विनिग्रहीतुम् इव न तु वस्तुतो निग्रहीतुं । मातृत्वेन मयि स्निग्धत्वात् तेन उलूखलेन सुतानां पीडितानाम् । कर्मणि षष्ठी । उलूखल-पीडितान् अस्मान् । हे इन्द्र-मोचन-समर्थे । अव रक्ष । पादादित्वाद् आद्य्-उदात्तम् आख्यातम् । इदु एवम् एव त्वं जल्गुलो\ऽसि एनं मुञ्चामीति [जल्पुतुं]{।मर्क्} मां च गोपितुं त्रातुं लातुं आदातुं स्वाधीनं कर्तुं च समर्थो\ऽसि यथोऽतोवमाम् इत्य् अर्थः । एवं यदा सर्वान् प्रार्थयन्न् अपि न मोचनं लभते, तदा वनस्पत्योर् अन्तरो गत्वा बन्धन-दाम त्रोटितुं यावद् बलं करोति, तावद् वनस्पती एवोन्मूलितौ । दृष्ट्वा वदति ता ला इति । तातो नो\ऽस्माकं व्रज-वासिनां वनस्पति-प्रसिद्धौ यमलाव् अर्जुनजातीतौ भो वनस्पती ! अद्य इन्द्राय इन्द्रं प्रति गन्तुं सुतं तद्-उन्मूलनेन आत्मानं पीडयतं । तद् एव मधुमत् अमृत-युक्तम् अतिसम्यम् इत्य् अर्थः । यत्र ऋष्टौ गतिमन्तौ युवां स्थावरत्वान् उक्तौ स्थ इत्य् अर्थः । ऋश्वेविर्भिर् गतिमद्भिर् जगमैर् जनैः सोतृभिर् अस्माद् बन्धन-करैर् उपलक्षिताव् इति ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुनः पुनः परिक्रमादौ हेतुः—बद्धम् उलूखलां यस्मिन्न् इत्य् उदरे उलूखल बन्धनेन परम-मोहन-रूप-लीलादि-दृष्ट्या भक्त्य्-उद्रेकेण परित्यागाशक्तिः । यद् वा, उलूखल-सहितस्यैव तस्य परिक्रमादिना उलूखलादेर् अपि परिक्रमादिकं बोधितम् । आमन्त्र्य अनुज्ञाम् आदायेत्य् अर्थः । उत्तरां दिशम् इति प्रायस् तस्याः साधु-वर्ग-सेवितत्वेन तद्-दिग्-गमनेच्छया तद्-दिग्-वर्ति-निज-गृहं गतौ, न तु गृहापेक्षयेति भावः ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् बद्धोलूखलम् इति श्री-शुकदेवस्य कौतुकोक्तिः, यतस् तया बद्धस् सन् देवा अपि स्तुवन्ति वदन्त इति तथा तादृश-भक्त-वश्यतामय-मधुर-लीलादि-दृष्ट्या मुहुः परिक्रमादि-हेतुश् च । अत्र बहुव्रीहिणा निर्देश उलूखलस्य तद्-अनुगति-विवक्षया । सा च बन्धनीय-बन्धनाश्रय-वैपरीत्य-मय-तल्-लीला-कौतुक-व्यञ्जिकेति । उलूखल-मात्र-विशेषेषणं न तूपलक्षणम् । ततस् तस्मा अपि प्रणामादिकं कृतम् इति ज्ञेयं । तथोक्तं पाद्मे—नमस् तेऽस्तु दाम्ने स्पुरद्-दीप्ति-धाम्ने इति । आमन्त्रणे च भक्त्येति ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उलूखले बद्धं बद्धोलूखलम् आहिताग्न्य्-आदिः ॥४३॥
इति सारार्थ-दर्शिन्यांअः हर्षिणां भक्त-चेतसाम् ।
दशमे दशमो ऽध्यायःअः सङ्गतः सङ्गतः सताम् ॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
(१०.११)
-
विद्या-मदो धन-मदस् तृतीयो \ऽभिजनो मदः ।
एते मदावलिप्तानाम् एत एव सतां दमाः ॥ ५.३४.४२ ↩︎
-
तात्पर्यगत्या ↩︎
-
त्वत्तो ↩︎
-
शरीरेषु ↩︎
-
स्मृत्वा ↩︎
-
आहिताग्न्यादि (आहिताग्न्यादि)।—अ च्लस्स् ओफ़् चोम्पोउन्द् wओर्द्स् हेअदेद् ब्य् थे wओर्द् आहिताग्नि (आहिताग्नि) इन् wहिछ् थे पस्त् पस्स्। पर्त्। इस् ओप्तिओनल्ल्य् प्लचेद् फ़िर्स्त्। ए।ग्।आहिताग्निः अग्नयाहितः (आहिताग्निः अग्नयाहितः); जातपुत्रः पुत्रजातः (जातपुत्रः पुत्रजातः) थे च्लस्स् आहिताम्न्यादि (आहिताम्न्यादि) इस् स्ततेद् तो बे आकृतिगण (आकृतिगण), च्फ़्। काश्।ओन् प्।इइ।२.३७। ↩︎