०९

श्री-कृष्णस्योलूखले बन्धनम् ।

॥ १०.९.१ ॥

श्री-शुक उवाच—

एकदा गृह-दासीषु यशोदा नन्द-गेहिनी ।

कर्मान्तर-नियुक्तासु निर्ममन्थ स्वयं दधि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

नवमे पय उद्रिक्तौ गत्वा गोप्य् अथ तत्-कृतम् ।

विलोक्य भाण्ड-भङ्गादि कृष्णं दाम्ना बबन्ध तम् ॥*॥

तनूदराश्रितं विश्वं दृष्ट्वा विस्मित-चेतसः ।

बन्धन-द्व्य्-अङ्गुलापूर्त्या पूर्णताम् अन्वदर्शयत् ॥**॥

स्वयं दधि निर्ममन्थ ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्सिक्ते पात्राद् बहिर् निःसृते । तत्-कृतं कृष्ण-कृतम् । आदिना नवनीत-प्रक्षेपादयो ग्राह्याः । तं येन भाण्ड-भङ्गादि कृतम् इति । दाम्ना रज्ज्वा ।*। तनूदराश्रितम् अल्प-जठरगम् । अद्भुत-धियो यशोदायाः बन्धने द्व्य्-अङ्गुलस्यापूर्त्या न्यूनतया पूर्णतां सर्वत्र परिपूर्णः कथं बध्येत ? इत्य् [अन्वर्थताम्]{।मर्क्} ।**।

नन्द-गेहिनी नन्द-भार्या । कर्मान्तरेषु गृह-मार्जनोक्षणादि-रूपेषु नियुक्तासु योजितासु । अत्र विश्वनाथः—एकदा दीप-मालिका-महोत्सव-दिने । कार्त्तिक-मासोपास्य-दामोदर-लीलायाः सम-कालत्वाद् इति तोषिणी-काराः । गृह-दासीषु यावद् गृह-कर्माधिकारिणीषु सर्वास्व् एव कर्मसु नैमित्तिकेतर-कर्मसु नियुक्तासु दधिषु चाखिलेषु निर्मथ्यमानेषु, एवं दधि पुत्र-श्रेयो-निबन्धेन दासीनाम् अविज्ञत्वं सम्भाव्य पुत्रोपभोगाय स्वयं ममन्थ । अस्याः पद्म-गन्धि-पयसः केवल-[तृणञ्चराया]{।मर्क्} दुग्धं नीरोगम् अनेन मत्-पुत्र-श्रेयो भविष्यतीति हेतोः । अन्यथा लोक-शास्त्र-प्रसिद्धासङ्ख्य-धेनु-मतल्लिका-दुग्धानां तयैकया दध्नेः मथनस्यासम्भवात् । ममन्थ इत्य् उपलक्षणं दोहन-तापादीनाम् अपि ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं भक्त-वात्सल्य-रसेन उपालम्भनानन्देऽप्य् अतृप्तस्य नियन्त्रणानन्द-विशेष-कामनया श्री-भगवतो दाम-बन्धनाङ्गीकार-लीलां वदन्, तयैव महाभागा इति प्राक् सूचितं, श्री-नन्दाद् अपि श्री-यशोदाया भाग्य-भरम् एव वर्णयति—एकदा इत्य्-आदिना । यशोदा इति दामोदरत्वादिना श्री-कृष्णस्य भक्त-वश्यतादि-यशोदा नन्दस्य गेहिनी इति बहुल-दास्य्-आदि-सम्पत्तिर् उक्ता । तथाप्य् एकस्मिन् दिने गृहस्थ-दासीषु कर्म-करीषु सर्वास्व् अन्य-कर्मान्तरेषु पुत्रार्थ-दधि-मथन-दुग्धावर्तन-व्यतिरिक्त-कर्मसु नियुक्तासु सतीषु । दधि केवलं पुत्रोपभोग्यं नवनीतार्थकं ज्ञेयं, अन्यथा लोक-शास्त्र-प्रसिद्धासङ्ख्येय-धेनु-वरानन्त-दुग्धानां तयैकया दधि-मन्थनासम्भवः, अत एव स्वयं निःशेषं ममन्थ उत्तम-नवनीतार्थम् ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तत्र तात्त्विक-सिद्धान्तं वक्तुं तत्-प्रतिपादन-योग्यां पूर्वापर-विलक्षणां लीलाम् उदाहरन् दधि-पयश्-चौर्यानुक्रमत्यक्रान्ताम् अनुस्मृत्य वर्णयति—एकदा इत्य्-आदिना । यशोदा इति दामोदरत्वादिना श्री-कृष्णाय प्रेम-वश्यतातिशय-यशो-दानात् नन्दस्य गेहिनी इत्य् अर्धाङ्गत्वात्, तेन तस्यापि माहात्म्यम् अवगन्तव्यम् इति बोध्यते । एकस्मिन् दिने गृह-दासीषु यावद् गृह-कर्माधिकारिणीषु सर्वास्व् एव कर्मान्तरे नैमित्तिक-स्वरूपे नियुक्तासु सतीषु चाखिलेष्व् एव मथ्येषु सत्सु दध्य् एकं ममन्थ । तच् च पुत्र-श्रेयो-निबन्धनेज्या-निवेद्याय पुत्रोपभोगाय च ज्ञेयम् । तया तस्यैव सर्वोपादेयत्वेन गृहीतत्वात् । अत एव निः निष्ठिततया ममन्थ, अन्यथा लोक-शास्त्र-प्रसिद्धासङ्ख्य-धेनु-मतल्लिका-दुग्धानां तयैकया दधि-मन्थनासम्भवः स्यात् । कर्मान्तरं चात्र परम-विशिष्टं ज्ञेयं, सर्व-परित्यागेन सर्वासाम् एव नियुक्तत्वात् । गोपानाम् अपि तद्-दिने यतस् ततो गतत्वेनावगम्यमानत्वात् । तच् च नूनम् इन्द्र-याग-रूपं तस्येव व्रजे तादृश-मान्य-चरत्वात् कार्त्तिक-मासोपास्य-दामोदर-लीलायाः सम-कालत्वाच् च तत् यागस्य च कार्त्तिकीयत्वं तद्-आरम्भेनैव प्रवर्तित-श्री-गोवर्धन-मखस्य कार्त्तिक-शुक्ल-प्रतिपदि लोकागमयोर् विधीयमानत्वात् । तथा च शरद्-वर्णनायाम् आग्रयण-सहयोगेन स एव इन्द्रियैश् च महोत्सवैर् [भा।पु। १०.२०.४८] इति वक्ष्यते । अत्र इन्द्रियार्थैर् इत्य् अर्थत्वेऽपि इन्द्रम् इन्द्रिय-कामस् तु [भा।पु। २.३.२] इति न्यायेन स एव देवतेति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एकदा इति प्रायोऽयं दीप-मालिका-महोत्सवो भवेत्, दामोदर-लीलोपासनस्य कार्त्तिकेऽभिधानात् ॥१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

निषिद्ध्य मन्थनं पीत्वा स्तनं चाट्र्प्तिमान् क्रुधा ।

भाण्डं भित्त्वा द्रुतो मात्रा नवमे बद्ध ईश्वरः ॥

चौर्य-क्रोधादिमान् मात्रा बद्धस् त्वं कृष्ण रोदिषि ॥

अतिचमत्कार-कारकस्यासाधरणस्य श्री-कृष्ण-विषयक-नन्द-यशोदाश्रयक-महा-वात्सल्य-प्रेम्णः साधनम् अप्य् असाधारणम् अपूर्वं श्रेयो भवितुम् अर्हतीति तद्-अनाकर्णितवतः प्रश्न-कर्तुः राज्ञोऽपि चित्तं नातिप्रसन्नम् आलक्ष्य तत्र मुख्यं सिद्धान्तम् अभिव्यञ्जयितुं दिनान्तर-गतां दाम-बन्धन-लीलां वक्तुम् उपक्रमते—एकदा इति । दीप-मालिका-महोत्सव-दिन इति श्री-वैष्णव-तोषणी । अत्र "श्यमैक-कर्ण-तुरङ्गवत्-परार्ध-सङ्ख्यास्व् अपि गोषु मध्ये व्रजस्य याः पद्म-गन्धाद्या अतिसुस्वादु सुगन्धि-पयसं सुगन्धि-तृण-मात्र-चारिण्यः सप्ताष्ट एव गावो वर्तन्ते, तासाम् एव दुग्ध-दध्य्-आदिकं मत्-पुत्रस्य रोचकं भविष्यति" इति विचारयन्ती श्री-यशोदा निर्ममन्थ स्वयम् इति स्व-पुत्र-रोचनीय-नवनीतोत्क्रमण-दुग्धावर्तनादौ वात्सल्य-प्रेमोत्थ-हठाद् एव दासीनां विज्ञत्वम् असम्भाव्यम् "अद्यारभ्य काल-क्सय-भक्ष्य-नवनीत-दुग्धादिकं सर्वम् अहम् एव साधु साधयिष्यामि यथा तत् तद् एव रोचयन् कृष्णश् चौर्यार्थं पर-गृहं न यास्यति" इति भावः । दधि इत्य् अनन्तानां दध्नां मध्ये यद् एकं सार-भूतं पूर्वेद्युः स्वयम् एव साधितं, तद् एवेति भावः । निर्ममन्थ इत्य् उपलक्षणं दुग्धम् अप्य् आवर्तयामास ॥१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

निवार्य दध्नो मथनं निपीत-

स्तन्योऽप्य् अतृप्तेः कुपितः परेशः ।

विभिन्न-भाण्डो नवमे जनन्या

द्रुतोऽपराधाद् उदरे निबद्धः ॥

परीक्षितः प्रश्नानुसारेण प्रतिवाचं दत्त्वाप्य् अतिकृपालुः श्री-शुकः स्व-कृपा-पात्रं तं प्रत्य् अपृष्टोऽपि नन्द-यशोदयोर् नैतत् सौभाग्यं साधन-हेतुकम्, अपि त्व् अनादि-सिद्धम् एवेति स्व-सिद्धान्तं दर्शयति—एकदा इत्य्-आदिभिः । एकस्मिन् वासरे जातं तच् चरितं निशम्य तयोस् तादृशं सौभाग्यं परिचिन्व् इतीत्य् अर्थः । गृह-दासीष्व् इति सकल-दधि-मथन-रसवत्य्-उपकरण-विधानादिषु कर्मसु ता नियोज्येत्य् अर्थः । यशोदा दध्य्-एकं निर्ममन्थ । सा हि पुत्र-भावेन कृष्णम् उपास्ते । तस्या नैत्यिकं कृत्यम् एतत् स्व-पुत्रातिप्रिय-हैयङ्गवं पद्म-गन्धादीनां पञ्चानां सर्वोत्तमानां गवाम् इदं दधि बोध्यम् । अन्यथा राज्ञ्यास् तस्यास् तद् असम्भवः । नन्द-गेहिनी इति तद्-अर्ध-शरीरत्वात् तस्यापि तत्-सम-सौभाग्यता सूच्यते ॥१॥


॥ १०.९.२ ॥

यानि यानीह गीतानि तद्-बाल-चरितानि च ।

दधि-निर्मन्थने काले स्मरन्ती तान्य् अगायत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा अगायत इति -कारान्वयः ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गीतानि कविभिर् इति शेषः । यदा स्वयं दधि निर्ममन्थ, तदा अगायत इति द्वयोः सम्बन्धः । -कारोऽत्रानुक्त-समुच्चायकः, तेन यदा तदा इति लब्धम् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यानि यानि इति वीप्सया सर्वाण्य् अपि सङ्गृह्णाति, इह लोके गीतानि प्रसिद्धानि । यद् वा, व्रजे गीत-रूपेण निबद्धानि तस्या बालः, तस्य चरितानि पूतना-वधादीनि, तान्य् एव अगायत, स्नेह-भरेण परमाश्चर्यत्वेन च तैर् एव चित्ताक्रमणात् । विशेषश् च दधि-निर्मन्थने काले स्मरन्ती चिन्तयन्ती ।

यद् वा, तद्-बाल-चरितानि सदैव स्मरन्ति इति तत्-कालस्य स्वभावेन गीताश्रयत्वात्, तदानीं तान्य् एव अगायत । एवं स्नेह-विशेषेण पुत्राशेष-चरित-गानार्थं स्वयम् एव दधि निर्मन्थितुं तद्-दिने दासीनां सर्वासां कर्मान्तर-नियोजनम् । तच् च श्री-भगवतो दामोदरत्वेच्छयैवेति ज्ञेयम् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यानि यानि तस्य बालस्य च चरितानीह तव सभायां मया गीतानि, तानि सर्वाणि स्वयं स्मरन्ती वात्सल्य-विलासेन भावयन्ती दध्नो निर्मन्थनं यत्र, तस्मिन् काले गानावसरे अगायत-कार उक्त-समुच्चये निर्ममन्थ अगायच् चेति नाना-कवि-जन-रचितानि सर्वाणि स्वयं तत्-क्षण-निबद्धानि वेति ज्ञेयं गीत-रूपेणेति शेषः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स प्रसिद्धो यो बालः कृष्णः, तस्य चरितानि यानि गीतानि गीत-च्छन्दसा कवि-पुरन्ध्रीभिः स्वयं वा निबद्धानि, तानि स्मरन्ती अनुसन्दधती अगायत गृहान्तः-शयित-कृष्णादर्शनोत्थस्य स्वान्तः-क्षोभस्योपशान्तये इति भावः ॥२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यानि यानि तद्-बाल-चरितानि गीत-छन्दसा निबद्धानि, तानि स्मरन्त्य् अगायत गृहान्तर-शायित-पुत्रादर्शनोत्थ-क्षोभ-शान्तये ॥२॥


॥ १०.९.३ ॥

क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं

पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः ।

रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च

स्विन्नं वक्त्रं कवर-विगलन्-मालती निर्ममन्थ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सूत्र-नद्धं काञ्ची-बद्धम् । रज्जोर् आकर्षेण श्रमो ययोः, तयोर् भुजयोश् चलन्तौ कङ्कणौ च । कवरात् केश-पाशाद् विगलन्त्यो मालत्यो यस्याः सा ॥३-४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षुमा अतसी, तत्-सम्भवं क्षौमम्, अतसी स्याद् उमा क्षुमा इत्य् अमरः । यद् वा, क्षुमः कृमि-विशेषेऽपि क्षुमी स्यात् तैल-साधने इति कोशात्, कृमि-तन्तु-निर्मितम् । सूत्रं कार्पासजे काञ्च्यां साधने शास्त्र-सूचके इति धरणिः । कबरः केश-सङ्घाते वर्ण-भेदे सुखाधिके इत्य् अपि । मालत्यो जाति-पुष्पाणि । सुमना मालती जातिः इत्य् अमरः । पुष्पे जाति-प्रभृतयः स्व-लिङ्गा व्रीहयः फले इत्य् अमरोक्तेर् मालती पुष्पेऽपि स्त्री-लिङ्गान्त्यैव । कार्तिके मालत्या एव प्राधान्यात् । क-प्रत्यय-ह्रस्वाभावस् त्व् आर्षः । जातः कम्पो यत्र तज् जात-कम्पं द्वितीयान्तानां बिभ्रती-पदेनान्वयः । यद् वा, जातं कं घृतं यस्मात्, तज् जातकं दधि कं जलं कं घृतं शिरः इति कोशात् । सुभ्रूः यशोदा-हर्ष-सूचनायेयम् उक्तिः निर्ममन्थ । किम्भूता ? पञ्च वस्तूनि बिभ्रती । तान्य् आह—वासः पृथु-कटि-तटेपुत्र-स्नेह-स्तुत-कुच-युगम्रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले वक्त्रं चेति। अपरं पूर्ववत् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं मातृ-योग्यत्वेन तस्या गानादि-वैदग्धीं प्रदर्श्य सौन्दर्यं चोद्दिशन् तदानीन्तन-वेश-विशेषं वर्णयति—क्षौमम् इति कौशेयम् । तच् च पीतम् इति ज्ञेयम् । तस्यास् तन्त्रोक्त-श्याम-वर्णत्वेन शोभा-भरापेक्षया । सूत्र-नद्धम् इति तत्रैव शोभा-भरं बोधयति । यद् वा, दधि निर्मन्थनार्थं विशेषतः काञ्च्या दृड्ध-बद्धम् इत्य् अर्थः । पुत्र-स्नेहेन स्नुतं प्रस्नुतं क्षीरं कुच-युगम् इति पुत्र-चरित-गानान् निरन्तरं वा स्नेह-भर-स्वभावात्, सुभ्रूर् इति तदानीं भ्रुवश् चालनेन शोभातिशयाभिप्रायेण । कुण्डले च चलन्ती । कबरः केश-बन्धः । मालती इत्य् अत्र क-प्रत्ययाभाव आर्षः । एवं स्नेह-भरोदयः सूचितः ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं तद्-एक-स्निग्धायां तन्-मातरि निज-स्नेह-भरोदया ताम् एव वर्णयन् परम-सौन्दर्येण परम-स्नेहेन च तन्-मातृत्व-योग्यतां दर्शयति—क्षौमम् इति । तत्र सुभ्रूः पृथु-कटि-तट इत्य् उपलक्षणेन सर्वाङ्ग-सौन्दर्यं व्यञ्जितं वेष-सौन्दर्यं क्षौमम् इत्य्-आदिना । क्षौमम् अतसी-तन्तूत्थं वाल्कं क्षौमा स्याद् उमा क्षुमा इति चामरः । अतिसूक्ष्मं चेदम् अवलोक्यते नाना-रागं चेति । अत्र तु सचित्रं पीतं ज्ञेयम् अस्याः क्रम-दीपिकाभिप्रायतः श्याम-वर्णत्वेन शोभाभरावेक्षया एतस्याः पीत-वर्णत्वं तु गौतमीये । सूत्र-नद्धम् इति तत्रापि शोभा-दर्शिना सूत्रं नीवि-बन्धं मन्थनार्थं विशेषतो वा तन्-नद्धं स्वाभाविक-चेष्टा-सौन्दर्यम् आह—रज्ज्वा इत्य्-आदिना । कुण्डलेचलन्ती कबरः केश-बन्धः मालतीत्य् अत्र क-प्रत्ययाभावः समासान्तो विधिर् अनित्य इति ज्ञापनात् । मालतीति तस्या एव कार्त्तिके प्राधान्यात् । स्नेहम् आह—पुत्रेति । जातेति च पुत्र-चरित-गानात् सुभ्रूर् इति भ्रुवश् चालन-व्यञ्जनया हर्षादि-भाव-विलासोऽपि वर्णितः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वात्सल्य-प्रेम्णा रूप-गुणाभ्यां च कृष्णस्य यशोदैवानुरूपा मातेति द्योतयन् वात्सल्य-रसोपासकानाम् अवश्य-कर्तव्यं श्री-कृष्ण-मातुर् ध्यानम् आह—क्षौमम् अतसी-तन्तूत्थं पीत-चित्रम् अतिसूक्ष्मं भवेत् । तेनास्याः श्याम-वर्णत्वं क्रम-दीपिकोक्तं ध्वनितम् । सूत्र-नद्धं नीव्या निबद्धम् । पृथु-कटि-तटे सुभ्रूर् इत्य् आभ्यां सर्वाङ्ग-सौन्दर्यत्वं च व्यञ्जितं रज्जोर् आकर्षेण श्रमो ययोस् तयोर् भुजयोश् चलन्तौ कङ्कणौ वक्त्रं इत्य् अन्तानां बिभ्रति इत्य् अनेन सम्बन्धः । मेघ-तुल्यात् कवराद् विगलन्ती जल-बिन्दु-श्रेणीव मालती यस्याह् सा क-प्रत्ययाभाव आर्षः ॥३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : दधि मथ्नन्त्या हरिर् मातुर् ध्यानार्थं शोभां वर्णयति—क्षौमम् इति । सुभ्रूर् यशोदा जातकं दधि निर्ममन्थ । कीदृशी ? पृथु-कटि-तटे क्षौमम् अतसी स्याद् उमा क्षुमा इत्य् अमरोक्तेर् अतसी-तन्तूत्थम् अतिसूक्ष्मं चित्रम् अनर्घं वसनं सूत्र-नद्धं काञ्च्या निबद्धं पुत्र-स्नेहेन स्नुतं कुच-युगंरज्ज्वोर् आकर्षेण श्रमो ययोः, तयोर् भुजयोश् चलन्तौ रत्न-मयौ कङ्कणौ च, कर्णयो रत्न-जटिते कुण्डले च हार-केयूर-नूपुराणाम् उपलक्षणं, स्विन्नं स्वेद-बिन्दुवद् वक्त्रं चेति पञ्च-वस्तूनि बिभ्रती तैर् विशिष्टासतीत्य् अर्थः । कवराद् अभ्र-तुल्याद् विगलन्ती तारा-ततिर् इव मालती यस्याः सेत्य् अभूतोपमा व्यज्यते । कव-भाव आर्षः । पृथु-कटि-तटे सुभ्रूर् इत्य् आभ्यां पदाभ्यां सर्वावयव-सौन्दर्यं सूच्यते । विद्युदे गौरीयं मन्त्र-पीठावरणे दृष्टा इन्दीवरस्याम् एति क्वचित् ॥३॥


॥ १०.९.४ ॥

तां स्तन्य-काम आसाद्य मथ्नन्तीं जननीं हरिः ।

गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न्यषेधन् निवारितवान् ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव स्तन्य-कामो मधुर-लीलानुरूपया स्वाभाविक-क्षुधैव वा । तां तादृक्-स्नेह-रस-मयीम् । यतो जननीम् इति तस्यापि तद्-गर्भज-बुद्धिं बोधयति । दध्नो मन्थानं मन्थन-दण्डं गृहीत्वा पाणिभ्यां धृत्वा, अतो न्यषेधत्, दधि-मथनात् तां दधि-मन्थनं वा न्यवारयत् । तेन च तस्याः सुखम् एवाभूद् इत्य् आह—प्रीतिम् आ समन्ताद् वहन् प्रापयन् कुर्वन्न् इति वा, स्तन-पाने प्रयत्नतो मन्थन-दण्ड-ग्रहणेन निषेधेन चातुर्याच् च । एवं मनोहरणाद् धरिर् एकाकितयागमनं च स्वयं श्री-मातृ-हस्तेन बन्धनानन्दम् अनुभवितुं तद्-विघ्न-शङ्कयाग्रजस्य सहचराणाम् अपि केनापि छलेन दूरे परित्यागाद् इति ज्ञेयम् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्-स्नेह-विशेष-मय-बाल्य-लीला-रूपया क्षुधा स्तन्य-कामःतां तादृक् स्नेह-रस-मयीं यतो जननीम् इति श्री-कृष्णान्तः-स्थित-भावम् एवानुवदति—तेन च तस्याः सुखम् एवाभूद् इत्य् आह—प्रीतिम् आ समन्तात् वहन् प्रापयन् स्तन-पाने प्रयत्नात् मन्थन-दण्ड-ग्रहणेन निषेधन-सामार्थ्याच् चातुर्याच् च एव मनोहरणाद् धरिः शय्यातः उत्थायेति ज्ञेयम् । कार्त्तिके प्रातर् एव मन्थन-व्यवहारात् बालान्तरैर् असंमिलितत्वाच् च ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आसाद्य प्रातर् अन्तर्-गृहात् प्रबुद्ध्य बहिर् निःसृत्य क्षुधा रुदन्-मुखः सन्न् इत्य् अर्थः । मन्थानं मन्थन-दण्डं गृहीत्वा इति मातर् मा मथानेति स्व-वचनं मानयिष्यन्तीं मातरम् अभिज्ञायेति भावः । अतस् तच् चातुर्यं ज्ञात्वा या मातुः प्रीतिस् ताम् आवहन् ॥४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आसाद्य इति गृह-मध्ये प्रबुद्ध्य बहिर् निर्गम्य क्षुधा रुदन्-मुखः सन्न् इत्य् अर्थः । मन्थानं गृहीत्वा इति मया निषिद्धापि मन्थनं न त्यजेद् इति ज्ञात्वेत्य् अर्थः । अतस् तद्-बुद्धि-नैपुण-विज्ञाया मातुः प्रीतिम् आवहन् ॥४॥


॥ १०.९.५ ॥

तम् अङ्कम् आरूढम् अपाययत् स्तनं

स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् ।

अतृप्तम् उत्सृज्य जवेन सा ययाव्

उत्सिच्यमाने पयसि त्व् अधिश्रिते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अधिश्रिते चुल्लिम् आरोपिते उत्सिच्यमाने अतितापेनोद्रियमाने ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अधिश्रितेऽधिक-पक्वे वा पयोऽवरोपयितुम् इति शेषः । अहो लालस्यास्य बुद्धिर् इत्य् उक्त्वा मथनाद् उपरम्य उपविष्टा स्वयम् अङ्कम् आरूढं तम् उत्सृज्य ययौ

ननु, श्री-कृष्णाद् अपि तस्या दुग्धम् अतिममतास्पदम् अभूत्, यद्-अनुरोधेनातृप्तः कृष्णोऽप्य् उपेक्षितः ? सत्यम् । तत्-पयस् तस्यैव—यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३५] इत्य् उक्तेः । बालोऽयं न काम् अपि स्व-सम्पत्तिं रक्ष्यां जानातीत्य् अतो मयैव सा रक्ष्येति तत्-त्यागस् तत्-स्नेह-मयः गोप-जातीनां च सर्वतो दुग्ध-सम्पत्ताव् एवाग्रह इति ।

यथात्म-सम्पत्त्य्-अर्थं सह्यमानेऽप्य् आत्म-दुःखे स्नेह-विशेष एवात्मनि गम्यते तद्वद् इहापि ज्ञेयम् । पितरौ च पुत्रस्यापात-दुःखं सोढ्वाप्य् उदर्क-देह-धन-विद्यादि-सम्पत्त्य्-अर्थ-कर्माणि सदैवेहेते तच् चौषध-पायन-स्नपनादौ प्रसिद्धम् इति तोषणी ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स-स्मितं मुखं तस्य ईक्षमाणा स्नेह-स्नुतत्वाद् एव क्षुधितत्वाद् एव वा । तत्-पानेऽतृप्तम् अपि त्यक्त्वा । तत्रैव हेतुः—उत्सिच्यमान इति । एवं दृष्टि-गोचरेऽनतिदूरे पयः-पाक-स्थानं ज्ञेयम् । तत्-पयोऽपि मथ्यमान-दधिवद् एव तस्यैवोपभोगापेक्षया लव-मात्रम् अन्यत्र गमन-दोषोऽपि परिहृतः स्यात्, अत एव तु-शब्दः ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स-स्मितं पयसः स्वयं स्नुतत्वान् मधुरत्वाच् च स्मितेन गण्डे लक्ष्यमाणेन सहितं मुखं तस्य ईक्षमाणा अतृप्तम् अपि त्यक्त्वा । ननु, तं पाययन्त्य् एवाङ्के कृत्वा कुतो न गता ? तत्राह—जवेन इति । तथा सति वेगेन गमनासिद्धेः । तत्रैव हेतुः—उत्सिच्यमान इति उदञ्चतीत्य् अर्थः । एवं दृष्टि-गोचरे अनतिदूरे पयः पाक-स्थानं ज्ञेयम्, तत्-पयोऽपि मथ्यमान-दधिवद् एव इति क्षणिक-तत्-त्यागोऽपि कृतः । अथवा—यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३५] इति कैमुत्यम् । तस्यास् तु विशेषतः सर्वं तस्यैव पितरौ च पुत्रस्यापात-दुःखं सोढ्वाप्य् उदर्क-देह-धन-विद्यादि-सम्पत्त्य्-अर्थ-कर्माणि सदैव हते तच् चौषध-पायन-स्नपन-ताडनादौ प्रसिद्धम् । अन्यत्र च न सम्भवतीत्य् अन्य-भाव-दुर्बोधो माता-पितृ-स्नेह-परिपाकः खल्व् असौ गोप-जातीनां च सर्वतो दुग्ध-सम्पत्ताव् एवाग्रहः । ततोऽयं बालको न काञ्चिद् अपि स्व-सम्पत्ति-रक्षां जानातीत्य् अतो मयैवाधुना सा कर्तव्येति धिया तत्-परित्यागेन तद्-अर्थ-गमनम् अपि तत्-स्नेह-मयम् एव यथात्म-सम्पत्त्य्-अर्थं सह्यमानेऽप्य् आत्म-दुःखे स्नेह-विशेष एवात्मनि गम्यते तद्वद् इति विवेचनीयम् । अत एव तु-शब्दः ॥५॥


जीव-गोस्वामी (प्रीति-सन्दर्भः २३९) : अथ तर्जन-विस्वादौषध-पायनादिवत्-तदात्व-भवं तत्-सुखम् अप्य् अतिक्रम्यायातिभद्रायैतत् समृद्धये चेष्टा यथा—तम् अङ्कम् इति । यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३५] इत्य् अनेन कैमुत्य-प्राप्तेस् तद्-गृह-सम्पत्ति-सम्पादन-प्रयत्नस् तु सुतराम् एव तदायति-समृद्ध्य्-अर्थ एव । तत्र गोप-जातीनां सत्य् अपि महा-सम्पत्त्य्-अन्तरे तत्-कारणे च दुग्ध-हेतुक-सम्पत्त्य्-अर्थम् एव महान् आग्रहः स्वाभाविकः । तस्माद् आयतीय तत्-सम्पत्ति-वर्धनार्थं दुग्ध-रक्षायाम् औत्सुख्यम् इदं वात्सल्य-विलसितम् एव सत् वात्सल्यं पुष्णाति समुद्रम् इव तरङ्ग-सङ्घः । अत्र तस्या हृडयम् ईदृशम्--"अयं सम्पत्ति-रक्षां न जानाति । ततः सम्प्रति मद्-एक-कर्तव्यासौ" इति । अत्र च स्नेह-स्नुतम् इति स्वाभाविक-गाढ-स्नेहं दर्शयित्वा तथैव सूचितम्। एवं तत्-कृते दधि-मण्ड-भाण्ड-भङ्गेऽपि तस्या बहिर् एव कोपाभासो दर्शितः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो बालस्यास्य बुद्धिर् इत्य् उक्ता मन्थनाद् विरम्योपविष्टा स्वयम् एवाङ्कम् आरूढं तम् उत्सृज्य एत्य् अत्र हेतुः जवेन इति तत्रापि हेतुः उत्सिच्यमाने अतितापेनोद्रिच्यमाने सति पयसि उत्तारणार्थम् इत्य् अर्थः । अधिश्रिते चुल्लीम् आरोपिते । ननु, कृष्णाद् अपि तस्या दुग्धम् अतिममतास्पदम् अभूत्, यद्-अनुरोधेन अतृप्तः कृष्णोऽप्य् उपेक्षितः ? सत्यम्—

तद् भक्ष्य-पेयादिषु काप्य् अपेक्षता

यया पुनः सोऽपि समेत्य् उपेक्ष्यताम् ।

प्रेम्णो विचित्रा परिपाट्य्-उदीरिता

बोध्या तथा प्रेमवतीभिर् एव या ॥५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मथनं हित्वोपविष्टा स्वयम् एवाङ्कम् आरूढं तं स्तनम् अपाययत् अतृप्तं हरिम् उत्सृज्य, न तु सा जवेन वेगेन सा ययौ । तत्र हेतुः—अधिश्रिते चुल्लीम् आरोपिते तद्-भोग्ये पयस्य् अतितापेन उत्सिच्यमाने पात्राद् अतिरिच्यमाने सति तद्-उत्तारणायेति शेषः । पयसि तस्या ममत्वं पुत्रार्थत्वान् न दूषणम् अपि तु भूषणम् एव ॥५॥


॥ १०.९.६ ॥

स जात-कोपः1 स्फुरितारुणाधरं

सन्दश्य दद्भिर् दधि-मन्थ-भाजनम् ।

भित्त्वा मृषाश्रुर् दृषद्-अश्मना रहो

जघास हैयङ्गवम् अन्तरं गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दृषद्-अश्मना शिला-पुत्रेण । अन्तरं गृह-मध्यं गतःरह एकान्ते नवनीतम् अभक्षयत् ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दधि-मण्डो भवेन् मस्तु इति हलायुधः । दृषद्-अश्माल्प-पाषाणे इति धरणिः । हैयङ्गवं नव-नवनीतं ह्यो गो-दोहोद्भवं धृतंहैयङ्गवीणं संज्ञायाम् इति निपाताद् हैयङ्गवीनं हैयङ्गवम् इतीत्य् आर्षम् ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जात-कोपस् त्यक्तत्वाद् अतृप्तत्वाद् वा इत्य्-आदिकम् अशेष-मातृ-स्नेह-भरेण तत्-कालीन-स्वभावेन वा रोदिति । अधुना त्व् अमृषाश्रुर् अतृप्तत्वात् । दृषद्-अश्मना इति निःशब्दम् अधो-देशे शनैर् अल्प-च्छिद्रार्थम् । हैयङ्गवं तुङ्ग-शिक्य-स्थितं जघास । महद् उलूखलम् एकम् आनीय परिवर्त्य तद्-अङ्घ्रेर् उपरि-भागम् आरूढः सन्न् इति ज्ञेयम् । तच् चातृप्तत्वेन बुभुक्षया । किं वा, कोपाद् एव ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जात-कोपस् त्यक्तत्वाद् अतृप्तत्वाद् वेत्य् आदिकम् अशेष-मातृ-स्नेह-भरेण तत्-कालीन-स्वभावेन वा बाल्य-लीला-माधुर्यम् एव ज्ञेयम् । मृषा कारणाभावेऽपि मातृ-प्रतारणार्थम् अश्रुर् यस्य सः । यद् वा, कदाचित् कैतवादिना मिथ्यापि रोदित्य् अधुना त्व् अमृषाश्रुर् अतृप्तत्वात् । दृषद्-अश्मना इति निःशब्दम् अधो-देशे शनैर् अल्प-च्छिद्रार्थम् । हैयङ्गवं तुङ्ग-शिक्य-स्थितं जघास । महद् उलूखलम् एकम् आनीय परिवर्त्य तद्-अङ्घ्रेर् उपरि-भागम् आरूढः सन्न् इति ज्ञेयम् । तच् चातृप्तत्वेन बुभुक्षया किं वा कोपाद् एव ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स जात- इति । अन्तरं गृहाभ्यन्तर-गृहं गतः ॥६-७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृषा वृथापि बाल्य-स्वभावाद् एवाश्रुर् यस्य सः । दृषाद्-अश्मना शिला-पुत्रेण निःशब्द-च्छिद्रार्थं तत्-तले इति ज्ञेयम् । अनन्तरं गृहाभ्यन्तरं हैयङ्गवं ह्यो गो-दोहस्य सद्यो नवनीतम् ॥६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अतृप्तस्य पुत्रस्य उत्सर्जनाद् अवज्ञानात् कोपोऽभूद् इत्य् आह— इति । न हरिर् जात-कोपः सन् स्फुरितम् अरुणाधरं दद्भिः सन्दश्य कोपाद् अमृषाश्रुर् दृष-दश्मना सूक्ष्माग्रेण शिला-खण्डेन दधि-मण्ड-भाजनं भित्त्वा, तेन तत्-तले निःशब्दं सूक्ष्मं रन्ध्रं विधाय क्षुधितत्वाद् एवान्तरं गृह-मध्यं गतो रह एकान्ते हैयङ्गवं ह्यो-गो-दोहस्य सद्यो धृतं रस-रूपं मात्रा तद्-अर्थम् एव न्यस्तं जघास भक्षितवान् । शिशुभिः सूचित-स्व-चापलो मातृ-कोपानुत्थानाय कदाचिन् मृषाश्रुश् च बाल-स्वभावेन भवेद् यस् त्व् अमृषाश्रुः कोपाद् अभूद् इति तथोक्तं ।

ननु विजिघत्सोऽपिपास [छा।उ। ८.१.५] इति श्रुतेः, नित्य-तृप्तस्यातृप्तिर् अरोषणो ह्य् असौ देव इति स्मृतेः । रोष-शून्यस्य रोषश् चेह विरुध्यते इति [चेद् युयते]{।मर्क्} मौग्ध्यवत् प्रभीतवच् च मातृ-वात्सल्य-रस-पोषी स्वरूप-धर्म एवातृप्ति-कोप-लक्षणः स उक्त-युक्तेः, न तु प्राकृत-रसस्याष्टादश-महा-दोषाविरहितत्व-स्मरणात् रहो-भवत्त्वाच् चेदं कोपादिकं नानुकृति-रूपम् इति तत्त्व-विदः ॥६॥


॥ १०.९.७ ॥

उत्तार्य गोपी सुशृतं पयः पुनः

प्रविश्य सन्दृश्य च दध्य्-अमत्रकम् ।

भग्नं2 विलोक्य स्व-सुतस्य कर्म तज्

जहास तं चापि न तत्र पश्यती ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुशृतं सुतप्तं दधि-मन्थन-स्थानं प्रविश्य भिन्नं सन्दृश्य दृष्ट्वा ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्तार्य चुल्ल्या अन्यत्र निधाय । तत् सर्वम् । तं सुतम् । तत्र दधि-मन्थन-स्थाने । विलोक्य वाम-तर्जन्या नासाग्रं स्पृष्ट्वेति भावः ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सद्य उत्तार्य, संदृश्य साक्षाद् दृष्ट्वा दधि-मण्ड-प्रवहनात्3तच्सुतस्यैव कर्म इति विलोक्य निर्धार्य-तादृशे कर्मण्य् अन्यस्याप्रवृत्तेर् अशक्तेश् च । तम् अपि तत्रापश्यन्ती जहास—तस्यापि चापल्येन भेदेन चातुर्येण वा भीत्यापसरणेन वा । च-काराच् छनैस् तं मृगयामास च, विशेषेण पादाब्जाङ्गुष्ठ-द्वयाग्रवष्टम्भनेन ॥ ७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुष्ठु शृतं पक्वं भग्नं भिन्नं, तच् च सुतस्यैव कर्म इति विलोक्य निर्धार्य तादृशे कर्मण्य् अन्यस्याप्रवृत्तेर् भङ्ग-चातुर्य-विशेषोपलब्धस् तस्य कोप-सम्भावनाच् तम् अपि तत्र अपश्यन्ती जहास तस्यातिचापल्येन भेदने चातुर्येण भीत्यापसरणेन गृहान्तस्थ-किङ्किण्यादि-तच्-चालित-भाण्डादि-शब्दाश्रवणेन च ॥७॥


जीव-गोस्वामी (प्रीति-सन्दर्भः २४०) : (१०.९.५ तीकात् पश्चात्) मनसि तु प्रबल-चापल्य-दर्शनेन हर्ष एव । यथाह—उत्तार्य इति । स्पष्टम् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुशृतं सुपक्वम् । दधि-मन्थन-स्थानं प्रविश्य दध्य्-अमत्रकं दधि-पात्रम् अतिचिक्वणत्वेन अतिदृढत्वेनानुकम्पायां कन् । भग्नं विलोक्य इति वाम-तर्जन्या नासाग्रं स्पृष्ट्वेति ज्ञेयम् ॥७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.९.८ ॥

उलूखलाङ्घ्रेर् उपरि व्यवस्थितं

मर्काय कामं ददतं शिचि स्थितम् ।

हैयङ्गवं चौर्य-विशङ्कितेक्षणं

निरीक्ष्य पश्चात् सुतम् आगमच् छनैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उलूखलाङ्घ्रेः परिवर्तितस्य उलूखुलस्य उपरिशिचि शिक्ये । चौर्येण विशङ्कितं चञ्चलम् ईक्षणं यस्य तं सुतम् ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पश्चात् पृष्ठतः काकादि-भयाद् विवर्त्य स्थापितोलूखुलोपरि स्वस्तिकासनेन उपविष्टम् । अन्तर्-गृह-प्रवेशानन्तरं यत् किञ्चिद् भुक्त्वा सत्वरम् अवशिष्टं हैयङ्गवीनं स-भाण्डम् एव गृहीत्वा मातृ-वञ्चनाय पश्चाद्-द्वारेण निर्जनं गृह-पश्चाद्-देशं गत्वेति शेषः । पूर्वं शिक्ये स्थापितं यत् तद् एवेति चौर्येणानीतम् इत्य् अर्थः । चौर्याद् धेतोर् मातृ-ताडन-भयाद् विशङ्किते तद्-आगमनानुसन्धान-परे ईक्षणे यस्य तं गृहान्तर्गतैर् अतिर्यग्-ग्रीवं निरीक्ष्य तद्-दृष्टि-वञ्चनार्थं तत्-पृष्ठतस् तं जिघृक्षन्ती । शनैः स्व-पाद-शब्दाभावार्थम् ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अवस्थितम् [अवधानेनोर्दावस्थित्या]{।मर्क्} सन्तम् । मर्कोऽयम् इति जाताव् एकत्वम्, मर्कटेभ्य इत्य् अर्थः । पश्चात् सुतस्य पृष्ठतस् तद्-दृष्टी-वञ्चनार्थम् ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : काकादि-भयाद् विवर्त्य स्थापितस्योलूखुलस्योपरि स्वस्तिकासनेन उपविष्टम् अन्तर्-गृह-प्रवेशानन्तरं यत् किञ्चिद् एव भुक्त्वा सत्वरम् अवशिष्टं हैयङ्गवीनं स-भाण्डम् एव गृहीत्वा मातृ-वञ्चनाय पश्चाद्-द्वारेण निर्जनं गृह-पश्चाद्-देशं गत्वेति शेषः। पूर्वं शिक्ये स्थापितं यत् तद् एवेति विशेष-चापल्य-दर्शनम् अप्य् उक्तं, पश्चात् सुतस्य पृष्ठतः तद्-दृष्टि-वञ्चनार्थम् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उलूखलेति पश्चाद्-द्वारेण तस्मान् निर्गम्येति शेषः ॥८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दधि-क्लिन्न-चरण-चिह्नेन किङ्किणी-शब्देन च तच्-चालित-भाण्डादि-शब्देन च गृहान्तः-स्थितं नवनीतं भुञ्जानम् अनुमाय हसन्ती किञ्चिद् विलम्ब्य यावत् तत्र यियासति स्म तावद् एव पक्ष-द्वारेण निःसृत्य बहिः-प्राङ्गनान्तरे काकादि-भयाद् अधोमुखी-कृत-उदूखलस्य उपरि कृष्णे स्वस्तिकासनेनोपविष्टे सति यद् अभूत् तद् आह—उदूखलेति शिचि शिक्ये स्थितं ततश् चोरयित्वा आनीतम् इत्य् अर्थः । चौर्याद् धेतोर् मातृ-ताडन-भयाद् विशङ्किते तदा गमनानुसन्धान-परे ईक्षणे यस्य तम् । गृहान्तर्-गतैर् अतिर्यग्-ग्रीवं निरीक्ष्य पश्चात् तद्-दृष्टि-वञ्चनार्थं तत्-पृष्ठतस् तं जिघृक्षन्ती शनैर् इति स्व-चरण-शब्दाभावार्थः ॥८॥


॥ १०.९.९ ॥

ताम् आत्त-यष्टिं प्रसमीक्ष्य सत्वरस्

ततोऽवरुह्यापससार भीतवत् ।

गोप्य् अन्वधावन् न यम् आप योगिनां

क्षमं प्रवेष्टुं तपसेरितं मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तपसा एकाग्र्येण ईरितं तद्-आकारतां नीतम् अत एव प्रवेष्टुं क्षमं योग्यं योगिनां मनोऽपि यं नाप तम् । अथवा, अन्वधावत् केवलं त्व् आपयोगिनां मनोऽपि यं प्रवेष्टुं न क्षमम् इति ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्त-यष्टिं स्वीकृत-यष्टिकाम् । तत उलूखलाङ्घ्रेः । भीतवद् इति । न हि तस्य कुतोऽपि भयम्, अपि तु तस्यैव भीषास्माद् वातः पवते [तै।उ। २.८.१]4 इत्य्-आदि-श्रुतेः । सर्व-भय-हेतुत्वम् आह—अपससार धावनं चकार । मनो-गोचरस्य हस्तादिना ग्रहणं सर्वथासम्भावीत्य् अत आह—अथवा इति । कुतो नाप ? इत्य् आकाङ्क्षायाम् आह—यतो हेतोः । नैतन् मनो विशति [भा।पु। ११.३.३६] इत्य्-आदि वक्ष्यमाणत्वात् । यं प्रवेष्टुं यत्र प्रवेशं कर्तुं विषयीकर्तुम् । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.७.१] इति श्रुतेः । यद् वा, साहाजिक-मातृ-स्नेह-भर-ज्ञानेन तत्त्वतोऽन्तर्-भयाभावात् । यद् वा, भीतवद् इति । मतुब्-अन्तं भय-युक्तं यथा स्यात्, तथा दुद्राव । भय-भावनया स्थितस्य इति कुन्त्य्-उक्तेः । गोपी यशोदा । योगः समाधिः, तद्वतां मनस् तपसा ज्ञानेन ईरितम् अपि प्रवेष्टुं ब्रह्मणि लीनीभवितुं क्षमम् अपि यं नाप—नायं सुखापः [भा।पु। १०.९.२१] इत्य् अग्रे वक्ष्यमाणत्वात् ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण सम्यग् ईक्षित्वा इति स्व-ताडनार्थं तस्या यष्टि-ग्रहणासम्भवात् । प्राक् कदापि तद्-दर्शनाच् च तन्-निर्धारार्थम्, अतः सत्वरो वेगवान् सन् तत उलूखलाङ्घ्रेर् अवरुह्य अपससार धावित्वा पलायतेत्य् अर्थः । भीतवद् इति सहज-मातृ-स्नेह-भर-ज्ञानेन तत्त्वतोऽन्तर्-भयाभावात् । यद् वा, भीतोऽन्यो यथा तथैवेत्य् अर्थः । एषा मातरि वात्सल्यादि-लीला-माधुरी । योगः समाधिस् तद्वतां मनः प्रवेष्टुं ब्रह्मणि लीनीभवितुं क्षमं योग्यम् अपि तपसा ऐकाग्र्येण ईरितं त्वद्-उन्मुखत्वाय प्रेरितम् अपि यं नाप नास्पृशद् अपीत्य् अर्थः । तं गोपी श्री-यशोदा अन्वधावत् धावन्तं धावनेन साक्षात् पश्चाद् ययाव् इति तस्याः सर्व-भक्तेभ्योऽप्य् अधिको भाग्य-भरो दर्शितः ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकर्षेण सम्यग् ईक्षित्वा इति स्व-ताडनार्थं तस्या यष्टि-ग्रहणासम्भवात् प्राक् कदापि तद्-दर्शनाच् च तन्-निर्धारार्थम्, अतः सत्वरः सन् अपससार मातृ-वञ्चनाय यमलार्जुनाख्य-चैत्य-वृक्ष-सन्निहित-नाना-जनता सदन-निज-पुर-पुरो-द्वारं प्रत्य् एवेति ज्ञेयं । भीतवद् इति सहज-मातृ-स्नेह-भर-ज्ञानेन तत्त्वतोऽन्तर्-भयाभावात् । यद् वा, भीतोऽन्यो यथा तथैवेत्य् अर्थः । एषा मातरि बाल्यादि-लीला-माधुरीं माता तु तस्मिन् दिने पुरो-द्वारम् अपि निर्गत-जनं ज्ञात्वा अन्वधावद् एवेत्य् आह । योगः समाधिः तद्वतां मनः प्रवेष्टुं ब्रह्मणि श्री-भगवत एवाविर्भावान्तरे वा लीनीभवितुं क्षमं योग्यम् अपि तपसा ऐकाग्र्येण ईरितं त्वद्-उन्मुखत्वाय प्रेरितम् अपि यं नाप नास्पृशद् अपीत्य् अर्थः । नायम् [भा।पु। १०.९.२१] इत्य्-आदौ स्पष्टीभावित्वात् तम् अन्वधावत्, पदे पदे प्राप्यमानम् इवाधावत् । अहो अस्तु तावद् अस्याः सन्ततम् अङ्क-शयनादि-समय-सौभाग्य-भरो दर्शितः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्र-भीषणार्थम् आत्त-यष्टिं भीतवद् इति साहजिक-मातृ-स्नेह-भर-ज्ञानेन तत्त्वतोऽन्तर्-भयाभावात् । यद् वा, भीतवद् इति मतुब्-अन्तं भय-युक्तं यथा स्यात् तथा अपससार दुद्रावेत्य् अर्थः । भय-भावनया स्थितस्य [भा।पु। १.८.३१] इति कुन्त्य्-उक्तेः । गोपी यशोदा योगः समाधिस् तद्वतां मनः तपसा ज्ञानेन ईरितम् अपि प्रवेष्टुं ब्रह्मणि लीनी-भवितुं क्षमम् अपि यं नाप । नायं सुखाप [भा।पु। १०.९.२१] इत्य्-आदौ स्पष्टीभावित्वात् ॥९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ततः किम् अभूत् ? तद् आह—ताडनार्थम् आत्त-यष्टिं गृहीतातिसूक्ष्म-रत्न-चित्र-लघु-लकुटिकां तां मातरं प्रसमीक्ष्य ताडयेद् एवाद्येति विज्ञाय सत्वरस् तत उलूखलाङ्घ्रेर् अवरुह्य अपससार पलायाञ्चक्रे भीतं भयं यत्र विद्यते तद् यथा भवं तथा भय-भावनया स्थितस्य [भा।पु। १.८.३१] इति कुन्ती-वाक्यात् । गोपी राज्ञी तन्-माता तम् अन्वधावत्योगिनां मनो यं नाप कीदृक् तपसा समाधि-पर्यन्तेन ईरितं परिशोधितं प्रवेष्टुं क्षमं योग्यम् अपि तत्-प्रसादेन तन्-मनस् तस्मिन् प्रविश्यन्, न तु स्व-सामर्थ्येनेति भावः ॥९॥


॥ १०.९.१० ॥

अन्वञ्चमाना जननी बृहच्-चलच्-

छ्रोणी-भराक्रान्त-गतिः सुमध्यमा ।

जवेन विस्रंसित-केश-बन्धन-

च्युत-प्रसूनानुगतिः परामृशत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्वञ्चमाना एव कृष्णम् अनुगच्छन्ती । बृहत्योश् चलयोः श्रोण्योर् भरेणाक्रान्ता स्तब्धा गतिर् यस्याः सा । विस्रंसितात् केश-बन्धनाच् च्युतैः प्रसूनैर् अनुगतिर् अनुगमनं यस्याः सा । यद् वा, जवेन कम्पितात् केश-बन्धनात् पुरः पतितानि प्रसूनान्य् अनु भयम् उत्पादयन्ती पश्चाद् गतिर् यस्याः सा परामृशद् धृतवती ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रसूनैः सह अनुगमनं सर्वथा अयोग्यं प्रसूनानां जडत्वाद्, अतोऽर्थान्तरम् आह—यद् वा इति ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बृहच्-चलच्-छ्रोणी-भराक्रान्त-गतिर् अपि जवेन धावन-वेगेन तं परामृशत् पृष्ठतो धृतवती, यतो जननी ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बृहद् इत्य्-आदि-रूपापि जवेन परामृशत् तं पृष्ठतो धृतवती स्नेह-मयेनेति शेषः । यतो जननी ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च योगि-दुष्प्रापं तम् अनुधावनेन सा न प्रापेति वाच्यम् इत्य् आह—अन्वञ्चेति । विस्रंसितात् केश-बद्धाट् च्युतैः प्रसूनैर् अनुगतिर् अनुगमनं यस्याः सा ॥१०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न च सा योगि-मनोऽगम्यं तम् अनुपधावती न प्रापेति वाक्यम् इत्य् आह—अन्वञ्च- इति । विस्रंसितात् केश-बन्धात् च्युतैर् मालती-प्रसूनैर् अनुगतिर् यस्याः सा । परा पृष्ठतोऽमृशद् अगृह्णाद् इत्य् अर्थः ॥१०॥


॥ १०.९.११ ॥

कृतागसं तं प्ररुदन्तम् अक्षिणी

कषन्तम् अञ्जन्-मषिणी स्व-पाणिना ।

उद्वीक्षमाणं5 भय-विह्वलेक्षणं

हस्ते गृहीत्वा भिषयन्त्य् अवागुरत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अञ्जन्-मषिणी अञ्जन्ती सर्वतः प्रसरन्ती मषी ययोस् ते अक्षिणी स्व-पाणिना कषन्तं संमर्दयन्तम् । भिषयन्ती ह्रस्वश् छान्दसः । भीषयन्ती भयम् उत्पादयन्ती अवागुरद् अभर्त्सयत् ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मषी दीप-कज्जलम् । मषी लेखन-द्रव्ये दीप-कज्जल-सुवीरयोः इति धरणिः । यद् वा, अवागुरत् ताडनार्थं हस्तम् उद्धृतवती न केवलं योगि-प्रायं धृतवत्य् एव, किं तु ब्रह्मादिभिर् अनिशं स्तूयमानं तम् अभर्तस्यद् अपि । महा-काल-यमादीनाम् अपि भय-हेतुं यष्ट्या अताडयच् चेत्य् आह—कृतागसम् इति । यद् वा, अवागुरत्—"भो अशान्त-प्रकृते ! वानर-बन्धो! मन्थनी-स्फोटक ! अद्य नवनीतादिकं कुतः प्राश्नासि ? तथा बध्नाम्य् अद्य यथा बालैः खेलितुं नवनीतम् अपहर्तुं च न प्रभविष्यसि । इदानीं यष्टि-ताडनात् किं बिभेषि ?" इति तर्जयन्ती यष्ट्य्-उत्थानेन ताडनोद्यमं चकार, न तु तताड । गुरी उद्यमे ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृतम् आगो येन दधि-भाजन-भेदन-नवनीत-चौर्यादि-लक्षणं येन तम् । अतस् ताडणम् आशङ्क्य तत्-परिहारार्थं प्रकर्षेण रुदन्तम् । अत एव अञ्जन्-मषिणी अश्रुभिः प्रसरत्-कज्जले स्वतः-स्फुरन् कज्जले वाक्षिणी वाञ्चमानम् अपि मातृ-हस्तेनाश्रु-मार्जनम् अपराधाद् अप्राप्य स्वस्य एव पाणिना कषन्तं संमर्दयन्तं बहुलाश्रु-निर्गमार्थम् । किं वा, अस्रापसारणार्थं मार्जयन्तं किञ्चित् भयेन विह्वले चञ्चले ईक्षणे नेत्रे । किं वा, विह्वलम् आकुलं निरीक्षणं यस्य तम् । किं वा, भय-विह्वलेक्षणं यथा स्यात्, तथा रुदन्तम् उच्चैर् वीक्षमाणा अवलोकयन्त्य् अपि पुनस् तादृश-विकर्माणाचारणार्थं भिषयन्ती—"इतः-प्रभृति नवनीतादिकं किञ्चिन् न दास्ये । त्वां बद्ध्वा गृहान्तर् धास्ये, यथा कुत्रापि गत्वा क्रीडितुं न शक्नोषि । क्रीडनकानि सहचर-बालकादींश् च द्रष्टुम् अपि न शक्ष्यसि" इत्य्-आदि-वाक्येन । तथा यष्ट्य्-उत्थापनादिना च यस्य भयम् उत्पादयन्त्य् अवागुरत्—"हे अशान्त ! रोषाक्रान्त ! लुब्ध-प्रकृते ! वानर-प्रिय ! लुण्ठाक !" इत्य्-आदि-निर्भर्त्सनम् एव सह वात्सल्य-भरेणाकरोत्, न च ताडयामास । यत् त्व् अपाठे भय-विह्वलेक्षणं यथा स्यात्, तथोच्चैर् ऊर्ध्व-मुखतयावलोक्यमानेति तस्य कातर्य-मुखम् अतोऽवागुरद् एव । यद् वा, भयेन कम्पमाने हस्ते गृहीत्वा क्षणम् अवागुरत् । अन्यत् समानम् ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृतम् आगो येन तम् अतस् ताडनम् आशङ्क्य तत्-परिहारार्थं प्रकर्षेण रुदन्तम्, अत एव अञ्जन्-मषिणी अश्रुभिः प्रसरत्-कज्जले अक्षिणी वाञ्छ्यमानम् अपि मातृ-हस्तेनाश्रु-मार्जनम् अपराधाद् अप्राप्य स्वस्य एव पाणिना कषन्तं संमर्दयन्तं बहुलाश्रु-निर्गमार्थम् । किं वा, अस्रापसारणार्थं मार्जयन्तं किञ्चित् भयेन विह्वले ईक्षणे नेत्रे यस्य तम् । किं वा, तथा रुदन्तम् उच्चैर् वीक्षमाणा अवलोकयन्त्य् अपि पुनस् तादृश-विकर्माभ्यास-सङ्कोचनेन सुप्रकृत-तपो-दानार्थं भिषयन्ती भाययन्ती भाययितुम् अवागुरत् अवागुरत, गुरी उद्यमे । "हे अशान्त ! रोषाक्रान्त ! लुब्ध-प्रकृते ! वानर-प्रिय ! गृह-लुण्ठाक ! इतः-प्रभृति नवनीतादिकं किञ्चिन् न दास्ये । बद्ध्वा गृहान्तर् धास्ये, यथा कुत्रापि गत्वा क्रीडितुं न शक्तोऽसि । क्रीडनकानि सहचर-बालकादींश् च द्रष्टुम् अपि न शक्ष्यसि" इत्य्-आदि-वाक्येन तथा यष्ट्य्-उत्थापन-प्रायादिना ताडनोद्यमम् इव कृतवतीत्य् अर्थः, न च ताडयामास । "उद्वीक्ष्यमाना" इति स-भयत्व-पाठे भय-विह्वलेक्षणं यथा स्यात्, तथा उच्चैर् ऊर्ध्व-मुखतया अवलोक्यमाना इति तस्य कातर्यम् उक्तम् । अतोऽवागुरद् एव । यद् वा, भयेन विह्वले कम्पमाने हस्ते गृहीत्वा क्षणम् अवागुरत् । अन्यत् समानम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भिषयन्ती भाययितुम् इत्य् अर्थः । अवागुरत् अवागुरत भर्त्सनादिना ताडनोद्यमम् इव कृतवती ॥११॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगि-दुष्प्रापं तं न केवलं धृतवत्य् एव किन्तु ब्रह्म-रुद्रादिभिर् अनिशं स्तूयमानं तम् अभर्त्सयद् अपि, महा-काल-यमादीनाम् अपि भय-हेतुं तं यष्टि-मात्रेणाप्य् अभाययद् अपीत्य् आह—कृतागसम् इति अञ्जन्-मषिणी अञ्जन्ती सर्वतः प्रसरन्ती मषी ययोस् ते अक्षिणी स्व-पाणिना स्व-वाम-पाणि-पृष्ठेनैव संमर्दयन्तं दक्षिण-पाणेर् मातृ-गृहीतत्वात् भीषयन्ती यष्ट्या भाययन्ती ह्रस्व-सुगाव् आर्षौ [पा।] । यद् वा, भीषयमाणा तदा ह्रस्व-परस्मैपदे आर्षे । अवागुरत्—"भो अशान्त-प्रकृते ! वानर-बन्धो ! मन्थनी-स्फोटक ! अद्य नवनीतादिकं कुतः प्राप्स्यसि ? तथा बध्नाम्य् अद्य यथा सहचर-बालकैः सह खेलितुं नवनीतम् अपहर्तुं च न प्रभविष्यसि।" इदानीं यष्टि-ताडनोद्यमं चकार, न तु तताड । गुरी उद्यमे ॥११॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न केवलं योगि-मनो-ग्राह्यम् अपि तम् अगृह्णाद् एव, अपि तु विधि-हरादिस् ततस् तम् अभर्त्स्ययत् । कालस्यापि भय-हेतुं तं यष्ट्याप्य् अभाययच् चेत्य् आह—कृत- इति । तं कृष्णं हस्ते दक्षिणे गृहीत्वा भीषयन्ती यष्ट्या भाययन्ती ह्रस्व-सुगाव् आर्षौ [पा।] अवान्तर-ताडनोडमम् अकरोन् नाव् अताडयद् इत्य् अर्थः । गुरी उद्यमे । तं कीदृशं ? कृतागसं सापराधम् अतस् ताडनम् आशङ्क्य तत्-परिहाराय प्ररुदन्तम् अञ्जन्ती सर्वतः प्रसरन्ती मषी कज्जलं ययोस् ते अक्षिणी स्व-पाणिना दक्षिण-पाणैर् गृहीतत्वाद् वाम-पाणि-पृष्ठेन कषन्तं मर्दयन्तं मातृ-हस्तेन बाध्यमानम् अप्य् अश्रु-मार्जनम् अपराधान् स्व-पाणिना एव कुर्वन्तम् इत्य् अर्थः । कीदृशी सा ? इत्य् आह—भय-विह्वलेक्षणं तम् उद्वीक्षमाणा इति । "हे चौर्य-पण्डित ! कोपाक्रान्त ! कपि-कुलम् इव मन्थनी-छिद्र-कर ! गृह-लुण्ठाक ! तिष्ठ त्वं। तथाहम् अद्य यतिष्ये, यथा कुत्रापि गत्वा क्रीडितुं न शक्नुयाः । क्रीडनकानि सखि-बालांश् च द्रष्टुम् अपीशो न भवेः" इति व्यञ्जयन्ती रुक्ष-मुद्रया तं पश्यन्तीत्य् अर्थः । ताडने यदि तवातिशया भीस् तत् किम् अद्य दधि-भाण्डम् अभाङ्क्षीः मातर् एव मथनैव करिष्ये पातयस्व करतो बत यष्टिम् इति । यद् वा, भयेन विह्वले कम्पमाने हस्ते गृहीत्वा क्षणम् अवागुरत् । अन्यत् समानम् ॥११॥


॥ १०.९.१२ ॥

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भक-वत्सला ।

इयेष किल तं बद्धुं दाम्नातद्-वीर्य-कोविदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इयेष ऐच्छत । अतद्-वीर्य-कोविदा तत्-प्रभावानभिज्ञा ॥१२॥


**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : "**मातर् मा मा ताडय" इत्य् उक्ते, ताडने यदि विशेष-भीस् ते तर्हि "किम् अद्य दधि-भाण्डम् अभाङ्क्षीः ?" "मातर् एवम् अथ नैव करिष्ये । पातय कराद् यष्टिम्" इति पुत्रोक्ति-कातर्य-विक्लव-मना हन्त कदाचिद् अयं मन्युना वनं प्रविशेद् इति शङ्कया तन्-निरोधार्थम् उपायं निश्चिकायेत्य् आह—त्यक्त्वा इति । तद्-वीर्यस्य मर्व्-अव्यापकत्व-लक्षणस्य तद्-ऐश्वर्यस्य न कोविदा । शुद्ध-तन्-माधुर्यैक-निमग्नत्वाद् इति भावः ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यतोऽर्भक-वत्सला, अतोऽतद्-वीर्य-कोविदा तत्-प्रभावानुसन्धान-रहिता स्नेह-भराक्रान्त-चित्तत्वेनान्यास्फूर्तेः । यद् वा, तद्-वीर्यत-कोविदापि बन्धुम् इयेष । यद् वा, तद्-वीर्य-कोविदा तच्-चापल-भर-दुर्वारिताद्य्-अभिज्ञा । अतस् तं बन्धुम् एवैच्छत् । पक्ष-द्वयेऽपि हेतुर् अर्भक-वत्सला । यद् वा, तस्य वीर्यं बलं, तस्मिन् कोविदा, "महा-बलिनम् एतम् अहं बन्धुं न शक्नुयाम्" इत्य् एतद् वितर्कयन्तीत्य् अर्थः । तथापि बन्धुम् इयेष । कुतः ? अर्भक-वत्सला मातृ-स्नेहेनात्मनो बालक-बुद्ध्या स्नेहेन ततोऽप्य् अधिक-बलवत्ताभिमानात् । किं वा, वात्सल्येन तद्-धितार्थं तद्-अतिचापल्य-दोष-निरसन-व्यग्रतया किञ्चिद् अन्याननुसन्धानात् । किल प्रसिद्धौ निश्चये वा ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यतोऽर्भक-मात्रे वत्सला किम् उत स्वार्भके तस्मिन् इत्य् अर्थः । अतोऽतद्-वीर्य-कोविदा तत्-प्रभावानुसन्धान-रहिता स्नेह-भराक्रान्त-चित्तत्वेनान्यास्फूर्तेः । यद् वा, तद्-वीर्य-कोविदा तच्-चापल-भर-दुर्वारताद्य्-अभिज्ञा अतस् तं बद्धुम् एवैच्छत् । किल प्रसिद्धौ निश्चये वा ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **"**मातर् मा मा ताडय" इत्य् उक्ते, "ताडने यदि तवातिशया भीस् तत् किम् अद्य दधि-भाण्डम् अभाङ्क्षीः ?" "मातर् एवम् अथ नैव करिष्ये, पातय स्व-करतो बत यष्टिम्" इति पुत्रोक्ति-कातर्य-विक्लव-मना हन्त कदाचिद् अयं मन्युना वनं प्रविशेद् इति शङ्कया तन्-निरोधार्थम् उपायं निश्चिकायेत्य् आह—त्यक्त्वा इति । तद्-वीर्यस्य मर्व्-अव्यापकत्व-लक्षणस्य तद्-ऐश्वर्यस्य न कोविदा । शुद्ध-तन्-माधुर्यैक-निमग्नत्वाद् इति भावः ॥१२॥


**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : "**मातर् मा मा ताडय" इत्य् उक्ते, "ताडने यदि तवातिशया भीः, तत् किम् अद्य दधि-भाण्डम् अभाङ्क्षीः ?" "मातर् एवम् अथ नैव करिष्ये, पातय स्व-करतो बत यष्टिम्" इति पुत्रोक्ति-कातर्य-विक्लव-मना हन्त कदाचिद् अयं मन्युना वनं प्रविशेद् इति शङ्कया तन्-निरोधार्थम् उपायं निश्चिकायेत्य् आह—त्यक्त्वा इति । तद्-वीर्यस्य मर्व्-अव्यापकत्व-लक्षणस्य तद्-ऐश्वर्यस्य न कोविदा, शुद्ध-तन्-माधुर्यैक-निमग्नत्वाद् इति भावः ॥१२॥


॥ १०.९.१३-१४ ॥

न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् ।

पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥

तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् ।

गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अकोविदत्वम् आह—न चान्तर् इति पञ्चभिः । बन्धनं हि बहिः-परिवृतेन दाम्ना अन्तर् आवृतस्य भवति । तथा च, पूर्वापर-विभागवतो वस्तुनः पूर्वतो दाम धृत्वा परितः परिवेष्टनेन सम्भवति, न त्व् एतद् अस्तीत्य् आह—न चान्तर् इति । किं च, व्यापकेन व्याप्यस्य बन्धो भवति, तच् च विपरीतम् इत्य् आह—पूर्वापरम् इति । किं च, तद्-व्यतिरिक्तस्य चाभावान् न बन्ध इत्य् आह—जगच् च य इति ॥१३॥ तं मर्त्य-लिङ्गम् अधोक्षजम् आत्मजं मत्वा बबन्ध इति ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : को वेत्ति मत्तोऽधिकम् इत्य् आत्मानं मन्यमानः कोविद इति । इगुपधात्वात् कः बाहुलकाद् विभक्तेर् अलुक्, विद् ज्ञाने तद्-भिन्नत्वम् आह । अन्यद् आह—किं च इति । पुनर् अन्यद् आह—किं च इति । तद्-व्यतिरिक्तस्य कृष्ण-भिन्नस्य । जगतां ब्रह्माण्डानां च यः समूहो यस्मिन् स जगच्-चय इति । यद् वा, यः कृष्ण एव जगत्, सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इति श्रुतेः । तद्-भिन्नं किञ्चिन् नास्तीति भावः । यो बन्धः स जगतः, यः कृष्णश् च सोऽजगत् जगन् न, तस्य जगद्-ईश्वरत्वात् । यद् वा, योजनं योऽजो आर्षत्वात् कुत्वाभावः बन्धस् तं गच्छतीति यो जगत् । न योजगदयोजगद् इति सर्व-बन्धन-निवर्तकस्य कुतो बन्धनम् ? इति भावः ॥१३॥

मर्त्य-लिङ्गम् इति । मर्त्यस्य लिङ्गम् एव न तु मर्त्यं, यतोऽधोक्षजम् इन्द्रिय-जन्य-ज्ञानाविषयम् अत एव अव्यक्तं न केनापि प्रमाणेन उपनिषदं विना व्यज्यत इत्य् अव्यक्तम् । यथा प्राकृतं [सामाय]{।मर्क्} नर-बालम् अनेनापि तस्याप्राकृतावं सिद्धम् इति । यस्य विभुत्वेन सर्वेण जगतापि बन्धनं न सम्भवेत् तस्य जगद् एक-देशी-भूतेन दाम्ना कथं बन्धनं भवेद् इति । न च साकारत्वेन तस्य विभुत्वं सम्भवेद् इति वाच्यम् । साकारस्यैव तस्योदरे सर्व-जगतो यशोदया दृष्टत्वात् ।

तर्हि सा कथं बबन्ध ? तत्राह—आत्मजं मत्वा असाधारण-वात्सल्य-प्रेम-विषयीकृत्येत्य् अर्थः । तस्य प्रेमाधीनत्वाद् विभुत्वेऽप्य् अचिन्त्य-शक्त्यैव बन्धनम् इति भावः । अव्यक्तं प्रेम-वश्यत्वाद् एव प्रच्छन्नीभूत-महैश्वर्यं मर्त्य-लिङ्गं मनुष्याकारं, तद् अप्य् अधोक्षजम् अतीन्द्रियं यथा प्राकृतं बध्नाति, तथैव चित्-पुञ्जम् अपि तं बबन्ध इत्य् अहो प्रेम-बलं यस्या इति भावः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न चान्तर् न बहिर् यस्य इत्य्-आदि । न विद्यते प्राकृतस्येव अन्तरम् अस्थि-मांस-रक्तादि बहिर् मल-मूत्रादि केवल-सच्चिदानन्दात्मकत्वात् । वक्ष्यति च रुक्मिणी व्यतिरेकेण—त्वक्-श्मश्रू-रोम- [भा।पु। १०.६०.४५] इत्य्-आदि । कथम् अस्य बन्धनम् ? इति भावः । अतः पूर्वोक्तम् अतद्-वीर्य-कोविदत्वं [भा।पु। १०.९.१२] व्रजेश्वर्या दर्शितम् । यद् वा, अन्तरम् अन्तर्यामिवत्त्वं बहिः परिच्छिन्नत्वं जीवस्यैव तथा । यद् वा, नान्तरं न च बहिर् यस्येति अन्तर् बहिर् एक-रूपम् अत्युज्ज्वल-स्वच्छत्वात् । अथवा, अन्तरम् अन्तरङ्गा, बहिर् बहिरङ्गा सर्व-समत्वात् । न पूर्वं न प्राक्, न चापरं न च पश्चात् यस्य, व्यापकत्वात्, अथ च जगतः पूर्वं च परं च पश्चात् । अहम् एवासम् एवाग्रे [भा।पु। २.९.३२] इत्य्-आदेः स्वयम् उक्तत्वात् । तस्य बन्धनम् अशक्यम् इति भावः ॥१३-१४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो महा-भाग्यं श्री-यशोदाया इत्य् आह—न च इति द्वाभ्याम् । यस्य अन्तर् बहिश् च न अस्ति, तथा पूर्वं पूर्व-भागोऽप्य् अपरं पश्चाद् भागश् च न अस्ति, सच्-चिद्-आनन्द-घन-मूर्तित्वेनावितर्क्य-स्वरूपत्वात् । सर्वत्रैव नञः प्रयोगस् तत्-तद्-अभाव-दार्ढ्यार्थम् । अत एव समुच्चये -कारौ अपि-शब्दश् च । पूर्वेत्य्-आदिना व्यापकत्वम् अप्य् उक्तम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अन्तर् बहिश् च नास्ति व्योमवत् सर्व-व्यापकत्वाद् अतो बन्धनं न सम्भवतीति भावः। किं च, पूर्वं कारणम् अपरं मृद्-आदेर् घटादिवत् कार्यं च नास्ति, अतः सदैक-रूपत्वेन आत्मनो मननं च न घटेतेति भावः । किं च, बन्धन-साधनम् अपि तस्य न किञ्चित् कल्पत इत्य् आह—पूर्वेत्य्-आदि ।

किं च, अधोक्षजम् इन्द्रिय-ज्ञानागोचरम् इत्य् अर्थः । यतोऽव्यक्तं परम-सूक्ष्मम् । तथापि मर्त्य-लिङ्गं कृपया मनुष्याकारेण प्रकटीभूतम् इत्य् अर्थः । यद् वा, अधोक्षजं शकटाक्षाद् अधः सङ्कटात् पुनर् इव [जातमतावा]{।मर्क्}त्मजम् एव मत्वा मम गर्भजोऽयम् इत्य् अभिमानं कृत्वा प्राकृतं सामान्य-जनम् इव । किं वा, प्रकृष्टाकारं मधुर-मृदुलाङ्गम् अपि यथावत् दृढतयोलूखुले नवनीत-चौर्यार्थं तेनैवानीते कलभ[मालाने]{।मर्क्} इव, दाम्ना गो-बालादि-निर्मित-दधि-मथन-मृदु-रज्ज्वा बबन्ध । यतो गोपिका सहज-स्नेह-भराक्रान्त-चित्तेत्य् अर्थः । श्लेषेण तद्-रक्षण-परेति तद्-बन्धनं चोदर इति ज्ञेयम् । दामोदरत्वेन प्रसिद्धत्वाद् अत्र तन् नोक्तम् । श्री-हरि-वंशे—दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धद् उदूखले [ह।वं। २.७.१४] इति । तच् च दुःखाप्राप्त्य्-अर्थम् एव ॥१३-१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो प्रेम-बलं श्री-यशोदाया इत्य् आह—न च इति युग्मकेन । व्यापकत्वेन बहिर् नास्ति अतस् तत्-प्रतियोगितया प्रतीतम् अन्तरम् अपि नास्ति । एवं पूर्वापरे अपि जगच् च य इति कारण-व्यतिरेके कार्य-व्यतिरेकात् यद् अनन्यत् जगत् इत्य् अर्थः । ततश् च तच्-छक्त्यैव जगच्-छक्तेस् तद्-अंशांश-भूतया रज्ज्वा कथं तद्-बन्धः स्यात् ? न ह वह्निम् अर्चिषो दहेयुर् इति भावः । सर्वत्रैव नञ्-प्रयोगस् तत्-तद्-अभाव-दार्ढ्यार्थम् । अत एव समुच्चये -काराव् अपि-शब्दश् च । तम् एव बबन्ध यत्-तदोः सामानाधिकर्णयान् न च स्वरूपान्तरम् इत्य् अर्थः ॥१३॥

यथा प्राकृतं बालं तथैव च तर्हि कथं बबन्ध ? तत्राह—मर्त्य-लिङ्गं दृश्यमान-मनुष्य-बालकाकारं तर्हि कथं न चान्तर् इत्य्-आदि ? तत्राह—अधोक्षजम् इन्द्रिय-ज्ञातातीतरूपम् । अत एव—

नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निज-शक्तितः ।

ताम् ऋते परमात्मानं कः पश्येद् अमितं प्रभुम् ॥

इति नारायणाध्यात्म-दृष्ट्या न केनापि व्यज्यत इत्य् अव्यक्तं उभयथाप्य् अचिन्त्य-स्वरूप-तद्-धर्मम् इत्य् अर्थः । श्रुतिश् च, अर्वाग् देवा अस्य विसर्जनेनाथ को वेद यत आबभूव [ऋग्-वेद-खिल6] इत्य् आद्या तस्मात्

अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् ।

प्रकृतिभ्यः परं यत् तु तद् अचिन्त्यस्य लक्षणम् ॥

इत्य् उद्यम-पर्वाद्य्-उपदेशेन श्रुतेस् तु शब्द-मूलत्वात् [२.१.२७] इति न्यायेन अस्थूलो नर-मध्यमो व्यापको हरिर् इत्य्-आदि,

अस्थूलश् चानशुश् चैव स्थूलोऽणुश् चैव सर्वतः ।

अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्त-लोचनः ॥

ऐश्वर्य-योगाद्भगवान् विरुद्धार्थोभिधीयते ।

इति श्री-मध्वाचार्य-दर्शित-श्रुति-पुराण-प्रामाण्येन तथैव तूरीयम् अतुरीयम् आत्मानम् अनात्मानम् उग्रम् अनुग्रं वीरम् अवीरं महान्तम् अमहान्तं विष्णुम् अविष्णुं ज्वलन्तम् अज्वलन्तं सर्वतो-मुखम् असर्वतो-मुखम् इति नृसिंह-तापनी-दृष्ट्या,

मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना ।

मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥

न च मत्-स्थानि भूतानि भूतानि पश्य मे योगम् ऐश्वरम् । [गीता ९.४-५]

इति साक्षाच्-छ्री-स्वयं-भगवद्-उपदेशेन प्रत्येकाचिन्त्य-विरुद्धाविरुद्धानन्त-शक्तिमयत्वात् घटत एव युगपत् तद्-द्वयम् अपीत्य् अर्थः । अतः श्रीमत्या मात्रैव निजाङ्क-प्रविष्टस्यापि तस्य मुखान्तर्-विश्वं दृष्टं सर्व-रज्जुभिर् अपि द्व्य्-अङ्गुल-मात्रं न पूरयितव्यम् इति च । अतः स्वाभाविकाचिन्त्य-शक्तित्वात् माया-कल्पना च परास्ता क्ल्̥प्त-परिग्रहे लघुः क्ल्̥प्त-परिग्रह इति न्यायात् व्यर्थत्वाच् च तर्हि कथं तद् विभुत्वं तस्यां नास्फुरत् ? तत्राह—आत्मजं मत्वा वात्सल्य-रस-पूर्ण-मनस्त्वेन तद्-अंशाच्छादनाद् इत्य् अर्थः । तच् च बन्धनम् उदरे ज्ञेयं दामोदरत्वेन प्रसिद्धत्वाद् अत्र नोक्तं । श्री-हरिवंशे तूक्तं दाम्ना चेवोदरे बद्ध्वा प्रत्य् अबन्धद् उलूखले [ह।वं। २.७.१४] इति । तच् च दुःखाप्राप्त्य् अर्थम् एव वस्तुतो बन्धनं तु भयेन गमन-शङ्कयैव कृतम् उलूखलं पुरोद्वाराभ्यन्तर-पतितम् अन्यद् एव ज्ञेयं द्वाराग्र्यावस्थानोचितचैत्यतरु-युगल-समीपगत्वात् चैत्यत्वं चाग्रे वक्ष्यते ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न चान्तर् इति । किं च ॥१३॥

भगवत्-सन्दर्भः २७- विभुत्वं चाह—न चान्तर् इति । टीका च— बन्धनं हि बहिः-परीतेन दाम्ना अन्तरावृतस्य भवति । तथा पूर्वापर-विभागवतो वस्तुनः पूर्वतो दाम धृत्वा परितः परिवेष्टनेन भवति । न त्व् एतद् अस्तीत्य् आह—न चान्तर् इति । किं च, व्यापकेन व्याप्यस्य बन्धो भवति । तच् चात्र विपरीतम् इत्य् आह—पूर्वापरम् इति । किं च, तद्-व्यतिरिक्तस्य चाभावान् न बन्ध इत्य् आह—जगच् च यः इति । तं मर्त्य-लिङ्गम् अधोक्षजम् आत्मजं मत्वा बबन्धेति ।इत्य् एषा

जगच् च यः इत्य् अत्र यस्य कारणस्य व्यतिरेकेण कार्यस्य जगतो व्यतिरेकः स्याद् इति, तद्-अनन्यस्य जगतस् तच्-छक्त्यैव शक्तेस् तद्-अंशांश-रूपया रज्ज्वा कथं बन्धः स्यात् ? न हि वह्निम् अर्चिषो दहेयुर् इति भावः ।

तं मर्त्य-लिङ्गम् इत्य्-आदौ । टीका-कृताम् अयम् अभिप्रायः—ननु सर्व-व्यापकं कथं बबन्ध ? न हि ब्रह्माण्ड-गोलकादिकम् अपि कश्चिद् बध्नाति । तत्राह—मर्त्य-लिङ्गं मनुष्य-विग्रहम् । तर्हि कथं व्यापकत्वं ? तत्राह—अधोक्षजम् अधः-कृतम् इन्द्रियजं ज्ञानं येन, तं सर्वेन्द्रिय-ज्ञानागोचरं प्रत्यक्षादि-प्रमाणैर् अचिन्त्य-स्वरूपम् इत्य् अर्थः । तस्मात् तद्-आकारत्वेऽपि तस्मिन् विभुत्वम् अस्त्य् एवेति भावः । अधोक्षजत्वाद् एवाव्यक्तत्वम् अपि व्याख्यातम् इति तन् नोद्धृतम् ।

ननु मनुष्य-विग्रहत्वेऽप्य् अपरित्यक्त-विभुत्वं कथं मातुर् नास्फुरत् ? तत्राह—आत्मजं मत्वेति । वत्सलाद्य्-अभिध-प्रेम-रस-विशेषस्य स्वभावोऽयम् । यद् असौ स्वानन्द-पूरेण तस्य तादृशत्वं प्रत्य् अनुभव-पद्धतिम् आवृणोतीत्य् अर्थः । इत्थं चातद्-वीर्य-कोविदत्वं तस्या माहात्म्यम् एव तं रज्जुभिर् बद्धम् अपि कर्तुस् तस्य प्रेम-रसस्यानुभाव-रूपत्वात् । तद् उक्तम्—नेमं विरिञ्चो न भव [भा।पु। १०.९.२०] इत्य्-आदि ।

प्राकृतं यथा इत्य् अनेन अधोक्षजम् इत्य् अनेन च वस्तुनो व्यापकत्वं मायया तु मर्त्य-लिङ्गत्वम् इत्य् अपि परिहृतम् । यद् धि तर्क-गोचरो भवति, तत्रैव कदाचिद् असम्भव-रीति-दर्शनेन साभ्युपगम्यते, यत् तु स्वत एव तद्-अतीतं, तत्र तत्-स्वीकृतिर् अतीव-मूर्खता । यथा बाडव-नाम्नो वह्नेर् जल-निधि-मध्य एव देदीप्यमानतायाम् ऐन्द्रजालिकता-स्वीकरणम् । श्रुतिश् च—अर्वाग् देवा अस्य विसर्जनेनाथ को वेद यत आबभूव [ऋ।वे। १०.१२९.६] इत्य्-आद्या ।

किं च, यद् गतं बन्धनं तस्य श्री-विग्रहस्यैव व्यापकत्वं विवक्षितं यत्-तदोः सामानाधिकरण्यात् । तस्यास् तत्राकोविदत्वोपपादनत्वाच् च । तत्र विग्रहत्वं परिच्छिन्नायाम् एव सम्भवति, कर-चरणाद्य्-आकार-सन्निवेशात् । तस्माद् अस्यैव तस्मिन् परिच्छिन्नत्वं विभुत्वं च युगपद् एव । मूल-सिद्धान्त एव परस्पर-विरोधि-शक्ति-शत-निधानत्वं तस्य दर्शितम् । दृश्यतेऽपि लोके त्रिदोषघ्न-महौषधीनां तादृशत्वम् ।

तथैव विभुत्वम् उक्तं ब्रह्म-संहितायाम्—

पन्थास् तु कोटि-शत-वत्सर-संप्रगम्यो

वायोर् अथापि मनसो मुनि-पुङ्गवानाम् ।

सोऽप्य् अस्ति यत्-प्रपद-सीम्न्य् अविचिन्त्य-तत्त्वे

गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४०] इति ।

श्रुतिश् च मध्व-भाष्य-प्रमाणिता—अस्थूलोऽनणुर् अमध्यमो मध्यमोऽव्यापको व्यापको हरिर् आदिर् अनादिर् अविश्वो विश्वः सगुणो निर्गुणः इति ।

तथैव नृषिंह-तापनी च—तुरीयम् अतुरीयम् आत्मानम् अनात्मानम् उग्रम् अनुग्रं वीरम् अवीरं महान्तम् अमहान्तं विष्णुम् अविष्णुं ज्वलन्तम् अज्वलन्तं सर्वतो-मुखम् असर्वतो-मुखं [नृ।ता।उ। २.३] इत्य्-आदिका ।

ब्रह्म-पुराणे—

अस्थूलोऽनुरूपोऽसाव् अविश्वो विश्व एव च ।

विरुद्ध-धर्म-रूपेऽसाव् ऐश्वर्यात् पुरुषोत्तमः ॥ इति ॥

तथैव दृष्टं श्री-विष्णु-धर्मे—

परमाण्व्-अन्त-पर्यन्त-सहस्रांशाणु-मूर्तये ।

जठरान्तायुतांशान्त-स्थित-ब्रह्माण्ड-धारिणे ॥ इति ॥

अतः श्री-गीतोपनिषदश् च—

मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना ।

मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥

न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । [गीता ९.४-५] इति ।

अव्यक्त-मूर्तिनेति तादृश-रूपत्वाद् बुद्धि-वैभवागोचर-स्वभाव-विग्रहेणेत्य् अर्थः ॥१३-१४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ कौतुकेन दधि-भाण्ड-भेद-नवनीतापहार-चापल-जात-कोपा व्रजेश्वरी पुनर् एवं चापल्यं मा करोत्व् इति स्व-तनयं विनिनीयुर् दाम्ना बबन्धेति तस्य लीला-स्तवं दर्शयति—न चान्तर् न बहिर् इत्य्-आदि । यस्य न चान्तः प्राकृतवद् धातु-सम्बन्धः । न बहिस् त्वग्-आदि-सम्बन्धोऽपि । यस्यान्तर्-बहिर् आनन्द-घनत्वात् । अथवा, अन्तर् अन्तर्यामित्वं बहिः परिच्छिन्नत्वम् । नान्तर् न बहिर् इत्य् अन्तर् बहिर् एक-रूपत्वम् । अथवा, अन्तर् अन्तरङ्गा बहिर् बहिरङ्गा न यस्य सर्व-समम् । न पूर्वं न प्राक् नापि चापरं न पश्चात् । अहम् एवासम् एवाग्रे [भा।पु। २.९.३२, ६.४.४७7] इति स्वोक्तेः । अथ च, यो जगतः पूर्वश् चापरश् च बहिश् च । अनादित्वात् पूर्वः । अनन्तत्वाद् अपरः पर इत्य् अर्थः । अपावृतत्वाद् बहिर् जगतो यो जगच् च जगद्-आधारत्वात् । एवम्भूतं तं श्री-कृष्णं विग्रहं कथं बध्नात्व् इति पूर्वोक्तम् अतद्-वीर्य-कोविदत्वं व्रजेश्वर्या वात्सल्येनैव कृतम् । न त्व् अज्ञानेन ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मादि-स्तम्ब-पर्यन्तं स्व-माया-गुणैर् निबध्नन्तम् अपि सर्व-व्यापकम् अपि महा-महेश्वरं तं स्व-प्रेम-बलाद् एव पट्ट-मय-दाम्ना बबन्ध अपीत्य् आह—न च इति द्वाभ्यां । बन्धनं हि बहिः-परीतेन दाम्ना आवृतस्य परिच्छिन्नस्य वस्तुनः सम्भवति । यस्य तु विभूत्वाद् बहिर् न विद्यते तत्-प्रतियोगित्वाद् अन्तश् च न विद्यते, तत्र क्व वा दाम्ना स्थातव्यम् ?

किं वा, तेनावरीतव्यम् इति भावः । सर्व-देश-व्यापकत्वम् उक्त्वा प्रसङ्गात् सर्व-काल-व्यापकत्वम् आह—न पूर्वं नापि चापरम् इति । यस्मात् प्राक् पश्चात् कालौ नस् त इत्य् अर्थः । किं च, व्यापकेन व्याप्यस्य बन्धो भवति तच् चात्र विपरीतम् इत्य् आह—पूर्वापरम् इति । जगच् च य इति तच्-छक्ति-कार्यत्वाद् इत्य् अर्थः । ततश् च सम्पूर्णेन जगतापि तद्-बन्धो न सम्भवेत् । किं पुनर् जगद्-अंशांश-भूतेन दाम्नेत्य् अर्थः । न च साकारत्वेन तस्य विभुत्वं सम्भवेद् इति वाच्यं साकारस्यैव तस्योदरे सर्व-जगत इदन्तास्पदस्य यशोदया दृष्टत्वात् तर्हि सा कथं बबन्ध ? तत्राह—तम् आत्मजं मत्वा असाधारण-वात्सल्य-प्रेम-विषयी-कृत्येत्य् अर्थः । तस्य प्रेमाधीनत्वात् विभुत्वेऽप्य् अचिन्त्य-शक्त्यैव बन्धनम् इति भावः। अव्यक्तं प्रेम-वश्यत्वाद् एव प्रच्छन्नीभूत-महैश्वर्यं, मर्त्य-लिङ्गं मनुष्याकारं तद् अप्य् अधोक्षजम् अतीन्द्रियम् । यथा प्राकृतं बध्नाति तथैव चित्-पुञ्जम् अपि तं बबन्ध इत्य् अहो प्रेम-बलं यस्या इति भावः ॥१३-१४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.९.१५ ॥

तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः ।

द्व्य्-अङ्गुलोनम् अभूत् तेन सन्दधेऽन्यच् च गोपिका ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्व्य्-अङ्गुलोर् न द्वाभ्याम् अङ्गुलाभ्यां ऊनम् अपूर्णम् ॥१५-१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यावद् वै तं न निवर्तते तावन् नाहं वश्यो भवामीत्य् अङ्गुल-द्वयोनत्वेन द्योतितम् इति भावः । यद् वा, नाहं रज्जुभिर् बद्धुं शक्यः, किन्तु द्वाव् एव मम बन्धन-हेतू भक्ति-वैराग्य-रूपाव् इति ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : द्व्य्-अङ्गुलोनम् इत्य्-आदि । द्वाभ्याम् अङ्गुलीभ्यां ऊनोऽहं कदापि न बद्धो भवामि । एकं भक्त-परिश्रमः, अपरं मदीया कृपेति । यदैतद् द्वयं भवति, तदा बद्धः स्याम् इति द्व्य्-अङ्गुलोन-शब्द-तात्पर्यार्थः ॥१५-१७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्व-शब्देन कृतागम इत्य् अनेन च बन्धन-योग्यतोक्ता, अपराधे हि पर-बालकवद् उपेक्षानौचित्यात् । द्व्य् अङ्गुलोनम् इति द्वि-चणकादिवल्लोकोक्तिर् इत्या स्वल्प-मात्रत्वे तात्पर्यम् । यद् वा, त्रिषु भक्ति ज्ञान-कर्मसु मध्ये द्वाभ्यां जान-कर्मभ्यां स्वस्यालभ्यत्वात् तथा दर्शितम् अन्यं दाम सन्धानञ्चातिभीत्या तस्य पलायनम् आशङ्क्यास्मिन् बद्धं त्रयं धृत्वा भ्रामं भ्रामम् । किं वा, हस्तेनैकेन तं गृहीत्वा हस्तान्तरेण दाम-सङ्ग्रहणात् । किं वा, दास्यादिभिः काभिश्चत् कौतुकेन तद् अर्पणात् ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्व-शब्देन कृतागस इत्य् अनेन च बन्धन-योग्यतोक्ता, अपराधे हि पर-बालकवद् उपेक्षानौचित्यात् । द्व्य्-अङ्गुलोनम् इति द्वि-चणकादिवल्-लोकोक्ति-रीत्या स्वल्प-मात्रत्वे तात्पर्यम् । यद् वा, त्रिषु भक्ति-ज्ञान-कर्मसु मध्ये द्वाभ्यां ज्ञान-कर्माभ्यां स्वस्यालभ्यत्वात् तथा दर्शितम् अन्य-दाम-सन्धानं चातिभीत्या तस्य पलायमान-शङ्क्यास्मिन् बद्धं त्रयं धृत्वा भ्रामं भ्रामम् । किं वा, हस्तेनैकेन तं गृहीत्वा हस्तान्तरेण दाम-सङ्ग्रहणात् । किं वा, दास्यादिभिः काभिश्चित् कौतुकेन तद्-अर्पणात् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ततश् चारब्धे बन्धने परिच्छिन्नस्यापि व्यापकत्वम् आपादयितुं पुरान्तर्वर्तिनीभिः कौतुकात् सर्वतः सर्व-गोपिकाभिर् आनीताभी रसनाभिर् अपि परस्पर-ग्रथिताभिर् अपि बन्धना-पर्याप्ताव् उपस्थितायां पुनर् अन्याभिर् अपि ग्रथनेऽपि द्व्य्-अङ्गुल-मात्रोनता जायत इत्य् आह—द्व्य्-अङ्गुलोनम् इत्य्-आदि । प्रथमं यद् आनीतं दाम, तद् द्व्य्-अङ्गुलोनम् अभूत् । तद्-अनन्तरं यद् आनीय तत्र ग्रथितम्, तद् अपि द्व्य्-अङुलोनम् इति क्रमेण सर्वेषाम् एव परस्पर-ग्रथितानाम् अपि द्व्य्-अङुल-मात्रोनता यद् आसीत्, तत्रैतद् बीजम् । न चान्तर् बहिर् इत्य्-आद्य्-उक्त-प्रकारो भगवान् बन्धुम् अशक्य एव । किन्तु द्वाभ्याम् एव बद्धो भवति—भक्त-परिश्रमः, स्वय्स कृपा चेति । तद्-द्वितयं यदा युगपद् भवति, तदैव बद्धो भवतीत्य् अर्थः । तद् यावन् नाभूत् तावद् एव द्व्य्-अङ्गुल-न्यूनतेति द्वि-शब्दोपादानम् ॥१५-१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेम्ना सम्भविष्यत्य् अपि तस्य बन्धने प्रथमं तद्-आकारस्य मातृ-क्रोड-परिच्छिन्नस्यापि विभुत्वम् आह त्रिभिः—तद्-दामेति । सहचरैः सह खेलनं पर-गृहेषु दधि-चौर्यं चावश्यकं प्रात्यहिकं कृत्यं चिकीर्षोर् मम बन्धनं मा भवत्व् इति तद्-इच्छायां जातायां मत्-प्रभुं का बध्नीयाद् इति तदीय सत्य-सङ्कल्पता शक्त्या प्रेरिता विभुता-शक्तिः सहसैव तद्-देहे प्रादुरासीद् इत्य् आह—द्व्यङुलोनं द्वाभ्याम् अङ्गुलीभ्याम् अपूर्णम् । ततश् च तेन दाम्ना सह अन्यद् दाम सन्दधे ग्रन्थिं दत्त्वा जुगुम्फेत्य् अर्थः ॥१५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.९.१६ ॥

यदासीत् तद् अपि न्यूनं तेनान्यद् अपि सन्दधे ।

तद् अपि द्व्य्-अङ्गुलं न्यूनं यद् यद् आदत्त बन्धनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् सन्धितम् आसीत् तद् अपि । तेन सन्धित-सन्धितेन ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या ।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदित्य् अस्यान्यदित्य् अनेन पूर्वेणान्वयः, यद्-यस्माद् इति वा, बध्यतेनेनेति बन्धनं दाम यद्-यद् आदत्त तत् सर्वम् अपि द्व्य् अङ्गुलं न्यूनम् एवासीद् इति पूर्वेणान्वयः ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद् इत्य् अस्यान्यद् इत्य् अनेन पूर्वेणान्वयः । यद् यस्माद् इति वा । बध्यतेऽनेनेति बन्धनं दाम यद् यद् आदत्त तत् सर्वम् अपि द्व्य्-अङ्गुल-न्यूनम् एवासीद् इति पूर्वेणान्वयः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : (पञ्चदशम-श्लोकस्य टीका द्रष्टव्या) ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बध्यतेऽनेनेति बन्धनं दाम ॥१६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : बध्यतेऽनेन बन्धनम् ॥१६॥


॥ १०.९.१७ ॥

एवं स्व-गेह-दामानि यशोदा सन्दधत्य् अपि ।

गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्मितं कुर्वतीनां मध्ये स्वयम् अपि हसन्ती विस्मयम् आप ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विस्मयम् आप—"कोऽयं देवो यक्षो दैत्यो वा यतो बन्धं नाप्नोति ?" इति विस्मिता बभूव । न तु तस्य स्वाभाविकी महिम-रूपां सिद्धिं वेदेति भावः ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुष्ठु स्मयन्तीनां स्मयमानानाम् अपि गोपीनाम् । अनादरे षष्ठी । अतिनिर्बन्धेन प्रयत्नश् चिकीर्षमाणेऽपि पुत्र-बन्धने सामर्थ्याभावात् परमाश्चर्येण तासां यत् सुस्मयनं, तद् अप्य् अनाहत्येत्य् अर्थः । स्व-गेहे यानि दामानि तानि सर्वाण्य् अपि सन्दधती सती । यद् वा, सन्दधती बन्धनाभिनिवेशेन सन्धानं कुर्वत्य् अपि, सप्तम्य्-अर्थे षष्ठी । गोपीषु स्मयन्तीषु विस्मिताभवत् । सर्वैः समुचितैर् अपि दामभिर् द्व्य्-अङ्गुलापूर्तेः । एवं बाल्य-लीलायाम् एव पारमैश्वर्येण भगवत्ता-भर-प्रकटन-माधुर्यम् अपि पूर्ववद् ऊह्यम् । तथा बालक-रूपेण परिच्छिन्नत्वेऽप्य् अनन्त-दामभिर् द्व्य्-अङ्गुलापूर्त्या तस्यैवापरिच्छिन्नत्वम् एव ।

नन्व् एकम् एव वस्तु तेनैव परिच्छिन्नम् अपरिच्छिन्नं चेति विरुद्धम् । स परिच्छेदः प्रातीतिकः पारमर्थिको वा ? यदि तु प्रातीतिकस् तर्हि प्रतीतेर् वास्तवत्वाभावात् परिच्छेदस्य मिथ्यात्वम् एव, यथा बहु-योजन-सहस्र-विस्तारस्य रवि-मण्डलस्य हस्त-मात्रतया प्रतीतेः । यदि तु पारमर्थिकस् तर्हि तसापरिच्छिन्नत्वं वदन् जन उपहासास्पदम् एव स्यात्, यथा करतल-स्थस्य हरिण्-मनेः । अत्रोच्यते—प्राकृते वस्तुन्य् एवायं नियमः । तर्काप्रतिष्ठानात् [वे।सू। २.१.११] इति न्यायाद् अचिन्त्यैश्वर्यत्वाच् च तर्कागोचरे भगवति सर्वोऽपि विरोधः समाधीयत एव । तथा चोक्तं स्कन्द-पुराणे प्रभास-खण्डे—

अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत्

प्रकृतिभ्यः परं यच् च तद् अचिन्त्यस्य लक्षणम् ॥ इति ।

अत एव कौर्मे—

अस्थूलश् चानणुश् चैव स्थूलोऽणुश् चैव सर्वतः ।

अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्त-लोचनः ।

ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते ॥ इति ।

एवं सर्वत्रोन्नेयम् ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुष्ठु स्मयन्तीनां स्मयमानानाम् अपि गोपीनाम् । अनादरे षष्ठी । अतिनिर्बन्धेन सन्धीयमानेऽपि मुहुर् बन्धने रज्जु-पर्यायैर् अपर्यवसिते परमाश्चर्येण यच् च तासां सुस्मितं तद् अप्य् अनाद्र्ट्येत्य् अर्थः । स्व-गेहे यानि दामानि मन्थन-नेत्राणि तानि सर्वाण्य् अपि सन्दधती सती । यद् वा, सन्दधती बन्धनाभिनिवेशेन सन्धानं कुर्वत्य् अप्य् अभवत्, सप्तम्य्-अर्थे षष्ठी । गोपीषु स्मयन्तीषु सतीषु स्वयम् अपि स्मयन्ती विस्मिताप्य् अभवत् । अतोऽस्मिन् दिने स-पुत्रा श्री-रोहिण्य् अपि श्रीमद्-उपनन्दादि-गृहे निमन्त्रितैव गतासीद् इति गम्यते, अन्यथा सा न्यवरयिष्यद् इति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यत्र स्थितेऽपि प्रेमणि भक्त-वैयग्र्य-विशेष-तज्-ज्ञान-तत्-कृपा-विशेषाभ्यां द्वाभ्याम् ऊनत्वेन तद्-वशं करणं न स्याद् इत्य् एषा तु दैवी सूचना । वक्ष्यते च, दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने [१०.९.१८] इति । अतः श्री-रोहिण्य्-आदि-श्रीमद्-उपनन्दादि-गृहे निमन्त्रितैव गतासीद् इति लभते । अन्यथा सा वात्सल्याद् अवारयिष्यद् इति ॥१७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : (पञ्चदश-श्लोकस्य टीका द्रष्टव्या) ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोपीनां गोपीषु प्रतिवेशि-पुरन्ध्रीषु सुस्मयमानासु सतीषु विस्मितेत्य् अहो मुष्टि-परिमितम् अस्योदरं शत-हस्त-परिमितेन दाम्नापि न वेष्ट्यते । तत्रोदरं तिलमात्रम् अपि न विपुलीभवति । दामाप्य् अङ्गुलि-मात्रम् अपि न न्यूनीभवति । तद् अपि वेष्टनं न पूर्यत इत्य् एको विस्मयः । प्रतिवारम् एव वेष्टने द्व्य्-अङ्गुल-न्यूनतैव न तु त्र्य्-अङ्गुल-चतुर्-अङ्गुलादि-न्यूनतेति द्वितीयं विस्मयः ॥१७॥


॥ १०.९.१८ ॥

स्व-मातुः स्विन्न-गात्राया विस्रस्त-कबर-स्रजः ।

दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वमातुः कृपया स्व-बन्धने आसीत् स्वयं बद्धोऽभूद् इत्य् अथः । स्विन्न-गात्राया इत्य् अनेन तस्या वैराग्यं सूचितम् । एक-सम्बन्धि-ज्ञानम् अपर-सम्बन्धि-स्मारकम् इति न्यायेन ज्ञानम् अपि तस्या जातम् इति ज्ञान-वैराग्ययोः सदा साहचर्य-नियमात् विस्मयम् आह—मुष्टि-परिमितम् अप्य् अस्योदरं शत-हस्त-मित-दाम्नापि न वेष्ट्यतेऽहो उदरं तिल-मात्रम् अपि न विपुलीभवति दामाप्य् अङ्गुलि-मात्रम् अपि न न्यूनीभवति तद् अपि वेष्टनं न पूर्यते इत्य् एको विस्मयः । प्रतिवारम् एव वेष्टने द्व्य्-अङ्गुल-न्यूनतैव न तु त्र्य्-अङ्गुलादि-न्यूनतेति द्वितीयो विस्मयः । ततश् चाहो मणिमयानति-दीर्घ-किङ्किणी-चेष्टितावलग्नस्य गृहस्थित-सर्व-दामभिर् अपि यद् बन्धनं न निष्पद्यते तद् अस्य शुभं यद् बालकस्य ललाटे विधात्रा बन्धनं न लिखितम् इत्य् अनुमीयते तद् अतो हे यशोदे विरम्यताम् इति पुनर्ध्री-जन-प्रतिबोधतयापि यशोदयाद्य सन्ध्या-पर्यन्तम् अद्य् एतद्-ग्राम-स्थैर् अपि दामभिर् ग्रथितैर् एतद् उदरस्यावधिर् अधिजिगमिषणीय इति प्रौढ-वादवत्या पुत्राभिमत्या परमेश्वर-बन्धनोद्यमे परित्यक्ते सति भक्त-भगवतोर् मध्ये भक्त-हठ एव तिष्ठेद् इत्य् अतो मातुः श्रमम् आलक्ष्य मातृ-वत्सलो भगवान् एव स्व-हठं तत्याजेत्य् आह—स्व-मातुर् इति । कृपयेति । सर्व-शक्ति-चक्रवर्तिनी परम-भास्वती कृपा-शक्तिर् एव भगवच्-चित्तं नवनीतम् इव विद्रुतीकृत्य सत्य-सङ्कल्पता-विभुताशक्ती सहसैवान्तर्धापया मासेत्य् अर्थः । परिश्रमं कृपयेत्य् आभ्याम् इत्य् असूचि । यावद् भक्त-निष्ठा भजनोत्था श्रान्तिस् तद्-दर्शनोत्था स्व-निष्ठा कृपा चेति द्वाभ्याम् एव भगवान् बद्धो भवेत् । ते द्वे यावन् नाभूतां तावद् द्व्य्-अङ्गुलोनतासीत् तयोर् उद्भूतयोस् तु बद्धोऽभूद् इति प्रेम्णा स्व-बन्धन-प्रकारः स्वयम् उदाहृतो भगवतेति ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तथा च स्वमातुः स्विन्न-गात्रायाः इति मातृ-रूपस्य भक्तस्य यदा परिश्रम आसीत्, तदैव, कृपयासीत् स्व-बन्धने इति स्व-कृपापि जाता । बद्धोऽपि बभूव ॥१८॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१२९] अथ पूर्वं महा-भागेति सूचितं श्री-नन्दाद् अपि विशिष्टं भगवत्याः श्री-यशोदाया माहात्म्यम् । तत्रैकदा नवनीत-प्रिय-स्व-पुत्रार्थं स्नेह-भरेण स्वयं दधि मथ्नती श्री-यशोदा तदानीम् एव स्तन्य-कामेनागतं मथन-दण्ड-ग्रहणेन तद्-विघ्नम् आचरन्तं स्व-सुतं स्तन्यं पाययन्ती, तद्-अर्थम् एव सार-ग्रहणाय चुल्लीम् आरोपितं पयो\ऽतितापेनोद्रिच्यमानं दृष्ट्वा, अतृप्तम् अपि तम् उत्सृज्य, तत्र गत्वा, तद् उत्तार्यागता, दधि-मथन-भाण्डं शनैः शिला-पुत्रेण स्व-पुत्रेणाधो-भग्नं दृष्ट्वा, तं चादृष्ट्वान्वेषयन्ती गृह-मध्ये हैयङ्गवं चोरयन्तं क्षिपन्तं च पक्ष-द्वारतो बहिर्-भूय तत्र स्थावरत्वे उदूखलोपर्य् उपविश्य मर्कट-शावकान् नवनीतम् आशयन्तं वीक्ष्य यष्टिम् आदाय, शनैस् तत्-पृष्ठतो गच्छन्तीयं तम् अथ पलायमानम् अनु धावन्ती वेगेन धृत्वा, प्ररुदन्तं भर्त्सयन्ती पुत्र-वत्सला यष्टिं त्यक्त्वा, हितेच्छया बन्धुम् इच्छन्ती स्व-बालकस्योदरे धृतं दाम लोके संख्याल्पकतया प्रसिद्धेनाङ्गुलीनां द्वयेनोनं वीक्ष्य बहुभिः स्व-गेह-दामभिः सन्धीयमानम् अपि तथैवालोक्य परम-विस्मिता परिश्रान्ता च यदाभृत् तदानीं तद्-विषयकं श्री-कृष्ण-वात्सल्य-विशेषं श्री-शुकदेव-पादा अवर्णयन्—स मातुः [भा।पु। १०.९.१८] इति द्वाभ्याम् ।

स परिच्छेद-त्रयातीत-तनुर् अपि कृष्णो मातुः परिश्रमं परमायासं ज्ञात्वा कृपया स्वस्य बन्धने आसीत् बन्धनानर्हो\ऽपि स्व-कारुण्य-विशेषेण बन्धनं स्वयं स्वीकृतवान् इत्य् अर्थः । स्व-मातुर् इति पाठे नित्यात्म-मातृ-रूपेण वर्तमानायाः परम-प्रसाद-योग्यायाश् चेत्य् अर्थः । श्रम-लक्षणं-स्विन्न-गात्रायाः प्रस्वेदार्द्र-सर्वाङ्गा इति तथा विस्रस्त-कबरेभ्यः केश-बन्धेभ्यः स्रजः कबराः स्रजश् च वा यस्या इति च । एतच् च बन्धन-स्वीकार-हेतु-स्नेह-भर-विकार-लक्षणत्वे\ऽपि द्रष्टव्यम् ॥१२९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स निजाशेष-भगवत्ता सार प्रकटन-परः कृष्णः सर्व-चित्ताकर्षक-लीलः । स्वेति पाठे श्री-देवकीतो\ऽपि स्वीयत्वेन वात्सल्य-विशेष-पात्रंत्वं बोध्यते । अत एव कृपया स्व-बन्धने दुघटे\ऽप्य् आसीत्, द्व्य् अङ्गुल-पूरणेन बन्धनम् अङ्गीचकारेत्य् अर्थः । यद् वा, स्वस्य परिश्रमं दृष्ट्वा स्विन्न-गात्रायाः स्व-परिश्रम दर्शन खेदेन स्विन्नाङ्ग्या मातुः कृपया वात्सल्येन स्व-बन्धने मातृ-कर्तृक-बन्धने आसीद्-बन्धो\ऽभूद् इत्य् अर्थः । विशेषेण स्रस्ताः खण्ड-खण्डशः सर्वत्र पतिताः कबरात् स्रजः । किं वा, विस्रस्तः स्वर्वतः स्खलितः कबरः स्रजश् च यस्याः सा ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स निजाशेष-भगवत्ता-सार-प्रकटन-परः कृष्णः सर्व-चित्ताकर्षक-लीलः । स्वेति पाठे श्री-देवकीतोऽपि स्वीयत्वेन वात्सल्य-विशेष-पात्रत्वं बोध्यते । अत एव कृपया स्व-बन्धने दुर्घटेऽप्य् आसीत् । द्व्य्-अङ्गुल-पूरणेन बन्धनम् अङ्गीचकारेत्य् अर्थः । यद् वा, स्वस्य परिश्रमं दृष्ट्वा स्विन्न-गात्रायाः स्व-परिश्रम-दर्शन-खेदेन स्विन्नाङ्ग्या मातुः कृपया वात्सल्येन स्व-बन्धने मातृ-कर्तृक-बन्धने आसीद् बद्धोऽभूद् इत्य् अर्थः । विशेषेण स्रस्ताः खण्ड-खण्डशः सर्वत्र पतिताः कवरात् स्रजः । किं वा, विस्रस्तः सर्वतः स्खलितः कवरः स्रजश् च यस्याः सा ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तद्-द्वयस्य समावेशे सति बद्धोऽपि बभूवेति दर्शयति—स्व-मातुः स्विन्न-गात्राया इत्य्-आदि । मातृ-रूपस्य भक्तस्य परिश्रमो जातः । स्वस्यापि कृपा च जाता । द्वाभ्यां द्व्य्-अङ्गुल-न्यूनता च गता । बद्धोऽपि बभूवेति रहस्यम् ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् चाहो मणिमयान् अतिदीर्घ-किङ्किणी-वेष्टितावलग्नस्यास्य गृह-स्थित-सर्व-दामभिर् अपि यद् बन्धनं न निष्पद्यते, तद् अस्य शुभम् । यत् बालकस्य ललाट-पत्रे विधात्रा बन्धनं न लिखितम् इत्य् अनुमीयते तद् इत उद्यमात् प्रिय-सखि यशोदे विरम्यताम् इति पुरन्ध्री-जन-प्रबोधितयापि यशोदयाद्य सन्ध्या-पर्यन्तम् अप्य् एतद्-ग्राम-स्थैर् अपि दामभिर् ग्रथितैर् एतद् उदरस्यावधिर् अधिजिगमिषणीय इति प्रौढ-वादवत्या पुत्राभिमत्या परमेश्वर-बन्धनोद्यमे ह्य् अपरित्यक्ते सति भक्त-भगवतोर् मध्ये भक्त-हठ एव तिष्ठेद् इत्य् अतो मातुः श्रमम् आलक्ष्य मातृ-वत्सलो भगवान् एव स्व-हठं तत्जाजेत्य् आह—स इति । स्वमातुर् इति च पाठः । कृपया इति सर्व-शक्ति-चक्रवर्तिनी परम-भास्वती कृपा-शक्तिर् एव भगवच्-चित्तं नवनीतम् इव विद्रुतीकृत्य तत्र स्वयं प्रादुर्भूय पूर्वोद्भूते सत्य-सङ्कल्पता विभुता-शक्ती तत्र सहसैवान्तर्धापयामासेत्य् अर्थः । अत्र परिश्रमम् इति कृपयेत्य् आभ्यां द्व्य्-अङ्गुल-न्यूनता समाहिता भक्त-निष्ठा भजनोत्था श्रान्तिस् तद्-दर्शनोत्था स्व-निष्ठा कृपा चेति द्वाभ्याम् एव भगवान् बद्धो भवेत् । ते द्वे यावन् नाभूतां तावद् द्व्य्-अङ्गुल-न्यूनता आसीत् । तयोर् उद्भूतयोस् तु बद्धोऽभूद् इति प्रेम्ना स्व-बद्धेन प्रकार स्व-मातरि स्वयम् उदाहृतो भगवतेति ज्ञेयम् ॥१८॥


॥ १०.९.१९ ॥

एवं सन्दर्शिता ह्य् अङ्ग हरिणा भृत्य-वश्यता ।

स्व-वशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न चैवं स्वातन्त्र्य-भङ्ग इत्य् आह—एवं सन्दर्शितेति । सेश्वरम् इदं विश्वं वशे यद् अधीनम् इत्य् अर्थः ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु स्वतन्त्रो भगवान् इति सर्वैर् गीयते बन्धने च तस्य स्वतन्त्रता-नाशेन परतन्त्रता स्याद् इति चेत्, तत्राह—न चैवम् इति । एवम् उक्त-रीत्या । अङ्ग हे नृप । स्वस्यात्मनो वशो वशवर्ती तेन न हि तस्यान्यो वश-कर्ता, सर्वस्य वशी इत्य्-आदि-श्रुतेः । यस्य कृष्णस्येदं विश्वं वशे । तद् उक्तम्—

स-सुरासुर-गन्धर्व-स-यक्षोरग-राक्षसम् ।

जगद्-वशे वर्ततेदः कृष्णस्य सचराचरम् ॥ इति ।

भगवतः परम-पारमैश्वर्ये सत्य् अपि प्रेम-वश्यता-निबन्धनं बन्धनम् इदं परम-चमत्कारित्वाद् भूषणम् इदं, न तु दूषणम् इत्य् आह—एवं हरिणा स्वस्यात्मारामत्वे बुभुक्षया पूर्ण-कामत्वेऽप्य् अतृप्त्या शुद्ध-सत्त्व-स्वरूपत्वेऽपि कोपेन स्वाराज्य-लक्ष्मीवत्त्वेऽपि चौर्येण महा-काल-यमादि-भयदत्वेऽपि भय-पलायनाभ्यां मनोग्रयानत्वेऽपिप् मात्रा बलाद् ग्रहणेन आनन्दमयत्वेऽपि दुःख-रोदनेन सर्व-व्यापकत्वेऽपि बन्धनेन भक्त-वश्यता स्वाभाविक्य् एव स्वस्य सम्यग्-दर्शिता । अज्ञान् प्रति दर्शनायोपयोगाभावाद् ब्रह्म-भव-सनत्कुमारादीन् विज्ञान् अप्य् अतिचमत्कारं प्रापय्यानुभावितेति नेदम् अनुकरण-मात्रत्वेन व्याख्येयम् । दर्शयंस् तद्-विदां लोके आत्मनो भक्त-वश्यताम् इत्य् अत्र तद्-विदाम् इति प्रयोगाद् इति भावः । स्व-वशेन स्वाधीनेन कुतः स्वाधीनत्वं ? तत्राह—यस्य चिच्-छक्ति-सार-भूतेन प्रेम्णैतस्यानन्दातिशय-प्रदर्शनार्थम् एव भक्त-वश्यत्वं निष्पद्यते नान्यथेति ज्ञेयम् । इति चक्रवर्ती ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् एतद् अध्यायाद् आरम्भत उक्त-प्रकारेण वा, अङ्गेति प्रेम सम्बोधने, हि निश्चिअये । हरिणेति तथा भक्तानां मनो-हरणात् स्व-वशेन स्वतन्त्रेणापि, यतः कृष्णेन साक्षात् परमेश्वरेणेत्य् अर्थः । तद् एवाभिव्यञ्जयति—यस्येति । यद् वा, सन्दर्शितेत्य् अत्र हेतुः—कृष्णेनेत्य् उक्तार्थम् एवैतत् । सम्यग्-दर्शितेति सं-शब्देन ब्रह्मादिभ्यः पूर्व पूर्व भक्तेभ्यस् तत्य्हा वीरासन् दौत्य् असारथ्याद्य् अनुगृहीत—श्री-युधिष्ठिरादिभ्यो\ऽपि महान् विशेषः सूचितः—केनापि साक्षात् तथा तद्-बन्धनात् ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, पूर्णत्वं परमेश्वरत्वं च साधितं तथा बुभुक्षा तृप्त्य्-अभावः कोपश् चौर्यं भयं पलायनं बलाद् ग्रहणं रोदनं बन्धनं च वर्णितं तत् तद् अप्य् अन्तरत्वेन रहस्यत्वेन भवताम् अपि रस-हेतुत्वेन तात्त्विकम् एवाधिगम्यते, ततः कथम् इव तादृशे तत् तद् इति उच्यते सत्यं तत्र गुणैः पूर्णत्वम् ईश्वरत्वं च वर्तते तथापि भक्तानुग्रहस् त्व् अवश्यं मन्तव्यः यं विना न ते कस्यापि सुख-करा भवन्ति । अकोमल-हृदयत्वेनारोचमानत्वात् । ततस् त्व् एषां गुणत्वम् अपि हीयते जन-सुख-हेतवो धर्मा हि गुणाः स्वतश् च निर्दयता-रूपो दोष एव, न च तस्मिन् न सम्भवति साधारणत्वापातेनानैश्वर्यात्—अयम् आत्मापहत-पाप्मा एष उ एव वामनीः वासानि वामानि सर्वाण्य् अभियन्ति इति श्रुतेः । तस्मात् सर्वेषां गुणत्व-साधको दोषान्तर-विरोधी च स एव मुख्यो गुणो मन्तव्यः । यथैव षष्ठे पुंसवन-व्रत-प्रसङ्गे स एवादौ पठितः,

यथा त्वं कृपया भूत्या तेजसा महिमौजसा ।

जुष्ट ईश गुणैः सर्वैस् ततोऽसि भगवान् प्रभुः ॥ [भा।पु। ६.१९.५] इति ।

स च भक्त्य्-अनुरूप एव न्याय्यः, न्यूनत्वे दोषस्य तद्-अवस्थत्वात्, तत्र यदि सर्वतो भावेन निरुपाधि-तद्-वशता-मयी भक्तिः स्यात्, तर्हि तस्यापि तद्-वशत्व-पर्यन्तता युक्ता न चैवम् ऐश्वर्यं हीयते । अन्यत्र जागरूकत्वात् यथा बद्धस्यापि वक्ष्यमाणयोर् नलकूबरमनीग्रीवयोः । किम् च प्रत्युत, तेन गुणेन सर्वाकर्षणाद् विगुणीभूयैवैश्वर्य-वृद्धिः स्यात् । अतो भक्त-वश्यताप्य् आवश्यकता । तथा च श्री-वैकुण्ठ-देवेन स्वयम् अप्य् उक्तम्,

अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज ।

साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः ॥ [९.४.६३] इत्य्-आदि ।

अत्र साधुभिर् इति तद्-ग्रस्त-हृदयत्वे हेतुः साधुषु प्रोज्झित-कैतवेषु ममापि निष्कैतवताया एव युक्तत्वाद् इत्य् अर्थः । अतः सा च वशता तद्-अनुकूलतान्तर्-भैर् ईहामय्य् एव स्याद् इति तद्-भाव-भावित-बॢअयादि-भावत्वाद् युक्तैव तस्यापि तत्-तद्-भावितेति अतस् तादृशस्यापि श्री-कृष्णस्य तादृशं भावं तत्त्विकम् एव मत्वा विस्मयानन्दाभ्यां श्री-कुन्ति-देव्य् अपि मुमोह यथा तद्-वाक्य,

गोप्य् आददे त्वयि कृतागसि दाम तावद्

या ते दशाश्रु-कलिलाञ्जन-सम्भ्रमाक्षम् ।

वक्त्रं निनीय भय-भावनया स्थितस्य

सा मां विमोहयति भीर् अपि यद् बिभेति ॥ [भा।पु। १.८.३१] इति ।

तद् एतद् अभिप्रेत्य् आह—एवम् इति । एवम् उक्त-प्रकारेण दर्शिता तत्रापि सम्यक् । अन्यत्र बन्धन-पर्यन्त-ममता विलासास्पदत्वाभावात् । अङ्गेति प्रेम-सम्बोधने हि निश्चये हरिणेति । तथा भक्तानां मनोहरणात् स्व-वशेन स्वतन्त्रेणापि यतः कृष्णेन स्वयं भगवतेत्य् अर्थः । तद् एवाभिव्यञ्जयेति—यस्येति ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् अपि एतत्-प्रकारेणैव सम्यग्-दर्शिता न ऊर्ध्वम् अस्तीति भावः ॥१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवतः परम-पारमैश्वर्ये ऽस्त्य् अपि प्रेम-वश्यता निबन्धनं बन्धनम् इदं परम-चमत्कारित्वाद् भूषणम् एव न तु दूषणम् इत्य् आह—एवं हरिणा स्वस्य आत्मारामत्वे ऽपि बुभुक्षया पूर्ण-कामत्वे ऽप्य् अतृप्त्या शुद्ध-सत्व-स्वरूपत्वे ऽपि कोपेन स्वाराज्य-लक्ष्मीवत्वे ऽपि चौर्येण महा-काल-यमादि-भयदत्वे ऽपि भय-पलायनाभ्यां मनोग्रयानत्वे ऽपि मात्रा बलाद्-ग्रहणेन आनन्दमयत्वे ऽपि दुःख-रोदनेन सर्व-व्यापकत्वे ऽपि बन्धनेन भक्त-वश्यता स्वाभाविक्य् एव स्वस्य सम्यक् दर्शिता अज्ञान् प्रति दर्शनाय उपयोगाभावात् ब्रह्म-भव-सनत्कुमारादीन् विज्ञानम् अप्य् अतिचमत्कारं प्रापय्यानुभावितेति नेदम् अनुकरण-मात्रत्वेन व्याख्येयं, दर्शयंस् तद्-विदां लोके आत्मनो भक्त-वश्यताम् [१०.११.९] इत्य् अत्र तद्-विदाम् इति प्रयोगाद् इति भावः । स्व-वशेन स्वाधीनेनापि, न तु, तर्हि कुतः स्वाधीनत्वं ? तत्राह—यस्य इति । चिच्-छक्ति-सार-भूतेन प्रेम्णैव तस्यानन्दातिशयार्थम् एव भक्तवश्यत्वं निष्पद्यत इति प्राक् प्रपञ्चितम् ॥१९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.९.२० ॥

नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया ।

प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवत्-प्रसादम् अन्येऽपि भक्ता लभन्ते इदं त्व् अतिचित्रम् इति सरोमाञ्चितम् आह—नेमम् इति । विरिञ्चः पुत्रोऽपि । भवः स्वात्मापि । श्रीर् जायापि ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लेभिरे उलूखले यद् यं प्रसादं गोपी यशोदाप तं विरिञ्च्य्-आदयो नापुर् इति भावः । लेभिरे धान्य-कुट्टनम् इति निघण्टुः । अत एवोक्तम् अभियुक्तैः,

यशोदायाः परं नास्ति देवता इति मे मतिः ।

यस्या उलूखले बद्धो मुक्तिदो मुक्तिम् इच्छति ॥ इति ।

यथा-श्रुतस् तु स्वामि-चरणैर् व्याख्यात एव ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नेमं विरिञ्च इत्य्-आदि । विमुक्तिर् मुक्तेः कैवल्याद् अपि विशिष्टा या दास्य-रूपा, तां ददातीति । तस्मात् श्री-कृष्णात् गोपी यशोदा यत् यं प्रसादं प्राप । यत् तद् अव्ययम् । तत् के लेभिरे ? न कोऽपीत्य् अर्थः । भव ब्रह्मादयोऽपि न लेभिर एव, कोऽत्र सन्देह इति प्रत्येकं निषेध-प्राधान्यात् न-काराः । इमं तं न ब्रह्मा, न भवः, न श्रीः ।

यद् वा, नेमम् इति सर्वनाम-पदं नेमम् अपि अर्धम् अपि । अपि-शब्दः सर्वत्र योज्यः । विरिञ्चोऽपि भवोऽपि श्रीर् अपि न लेभिरे । अत्यन्ताभावे वीप्सा । त्रयाणां कर्तॄणाम् एक-क्रियाया बहुत्वम्, यथा देवदत्तो यज्ञदत्तो विष्णुमित्रश् च गच्छन्ति । द्वौ नञौ प्रकृतार्थं गमयतः इति नाशङ्कनीयम् । यथा, न खलु न खलु बाणः सन्निपातोऽयम् अस्मिन् इत्य्-आदि । मा मा मानद इत्य्-आद्य्-अभियुक्ताः । यद् वा, एते प्रसादं न लेभिरे, न, लेभिरे एव, किन्तु नेमं नैतादृशं, गोपी यत् प्राप, न तादृशम् इति ॥२०॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१३०] अहो भगवत्-प्रसादम् अन्ये\ऽपि लभन्ते, इदं त्व् अतिचित्रम् इति परम-विस्मिता भक्त-प्रवर-श्री-बादरायणि-पादाः स-रोमाञ्चित-बाष्प-कम्प-वैयग्र्यम् आहुः—नेमम् [भा।पु। १०.९.२०] इति ।

यत् तत् अनिर्वचनीयं प्रसादंगोपी इति प्रेम-विशेषोक्तिः श्री-नन्द-गोप-पत्नी श्री-यशोदा प्राप प्रकर्षेण लेभे । इमं प्रसादं विरिञ्चः पुत्रो\ऽपि, भवः सखापि, अङ्ग-संश्रया सदा वक्षः-स्थिता जगत्-पूज्या श्रीः महा-लक्ष्मीर् वल्लभापि न लेभिरे । कुतो\ऽन्ये जनाः ? इति शेषः ।

तेषां परमेश्वरत्वादिना गौरवेण भजनम् अस्यास् तु केवलं स्नेहेन, तत्र च पुत्रत्वेन, तत्रापि भगवन्-महिम-विशेषापादक-क्रिया-विशेषेणेति प्रसाद-विशेष-लाभः स्वत एव सम्पद्यत इति सिद्धान्तः पूर्वम् उक्तो\ऽस्त्य् एव । नञः पुनः पुनर् उक्तिश् च निषेधातिशयार्था ।

किं वा, लेभे इति वक्तव्ये लेभिरे इत्य् आर्षत्वात् । किं वा, लेभिरे नान्ये केचिद् अपीत्य् अध्याहार्यम् । ततश् च लेभे इति स्वतो वचन-व्यत्ययेन पूर्व-वाक्य-त्रयं सुसङ्गतम् एव । विमुक्तिदाद् इत्य् अनेन च ये\ऽन्येभ्यो\ऽपि संसार-बन्धनाद् विमुक्तिं ददाति सः । अमुया गोपाल्या गो-पाशैर् बद्ध इत्य् एतद्-भक्त-वात्सल्य-मयं परमाश्चर्यं द्योतते । किं च8, विमुक्तिर् विशिष्टा मुक्तिः सालोक्य-सामीप्यादि-रूपा सान्द्र-परमानन्द-मयी । ताम् अपि कदाचित् कस्मैचिद् एवासौ दत्ते । अहो लभन्तां वा कतिचित् ईदृशं च प्रसादं न कोऽप्य् अन्यो\ऽलभतेति सूच्यते ॥१३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञुजयति—नेमम् इति । अङ्ग-संश्रयेति नित्य-बक्षः-स्थलस्थ-श्री-त्वेनाशक्यमानेदृशी तद् वश्यता निरस्ता—तथैकस्यैवाङ्गस्य वक्षसो वशीकरणात् । यद् वा, अङ्ग-संश्रयत्वे\ऽपि तद् अधीनत्वाभावाल्लेभिरे लेभ इत्य् अर्थः । यद् वा, विरिञ्चो न लेभे, भवो न लेभे, लेभिर अन्य केचिद् अपि । यद् वा, दौ नञौ प्रकृतार्थं गमयतः इति न्याये प्रवृत्ते तृतीयो नञ् निषेधार्थो वृत्तः । विरिञ्चो भवः श्रीर् न लेभिर इत्य् अर्थः । यद् वा, भवादयः केचित् प्रसादं लेभिरे, गोपी तु यत् तद् अनिर्वचनीयम् । किं वायं तं त्वति-प्रसिद्धं च प्रसादं प्राप, इमं न विरिञ्चः प्राप, न भवः प्राप, न श्रीर् अपि प्रापेत्य् अर्थेः । विमुक्तिदाद् इति केभ्यश् चिन्मुक्तिं केभ्यो\ऽपि विशिष्ट-मुखिं श्री-वैकुण्ठ-लोक-लब्धि-लक्षणां ददातीति तथा तस्माद् इत्य् अर्थः । एवं यो\ऽन्येभ्यो विमुक्तिं ददाति, स तया साक्षाद् वद्ध इति परम-भक्तिवश्यता द्योतिता ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जति—नेमम् इति । अङ्ग-संश्रयेति नित्य-वक्षः-स्थल-स्थ-श्रीत्वेनाशक्यमानेदृशी तद्-वश्यता निरस्ता । तथैकस्यैवाङ्गस्य वक्षसो वशीकरणात् । यद् वा, अङ्ग-संश्रयत्वेऽपि तद्-अधीनत्वाभावाल् लेभिरे लेभ इत्य् अर्थः । यद् वा, विरिञ्चो न लेभे, भवो न लेभे, लेभिर अन्ये केचिद् अपि । यद् वा, द्वौ नञौ प्रकृतार्थं गमयतः इति न्याये प्रवृत्ते तृतीयो नञ् निषेधार्थो वृत्तः । विरिञ्चो भवः श्रीर् न लेभिरे इत्य् अर्थः । यद् वा, भवादयः केचित् प्रसादं लेभिरे, गोपी तु यत् तद् अनिर्वचनीयम् । किं वायं तं त्व् अतिप्रसिद्धं च प्रसादं प्राप, इमं न विरिञ्चः प्रापः, न भवः प्राप, न श्रीर् अपि प्रापेत्य् अर्थः । विमुक्तिदाद् इति केभ्यश्चिन् मुक्तिं केभ्योऽपि विशिष्ट-मुक्तिं श्री-वैकुण्ठ-लोक-लब्धि-लक्षणां ददातीति, तथा तस्माद् इत्य् अर्थः । एवं योऽन्येभ्यो विमुक्तिं ददाति, न तया साक्षाद् बद्ध इति परम-भक्ति-वश्यता द्योतिता ॥२०॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १५१) : तद् एतत् कारणं तद्-आभासम् एव मन्यमानस् तयोर् ब्रह्मादिभ्योऽपि सौभाग्यातिशयस्य ख्यापनार्थम् अनन्तरम् एव एकदा गृह-दासीषु [भा।पु। १०.९.१] इत्य्-आद्य्-अध्यायम् आरब्धवान् । तत्रैव च साक्षाच्-छ्री-भगवद्-बन्धन-रूप-महा-वशीकरण-कारण-वात्सल्यम् अपि विदितं, तेन ब्रह्मणोऽपि शिव-लक्ष्मीभ्याम् अपि दुर्लभं भगवत्-प्रसाद-भरम् आह—नेमं विरिञ्च इति ।

स आदि-देवो जगतां पुरो गुरुः [भा।पु। २.९.५] इत्य् उक्तेः विरिञ्चिस् तावद् भक्तादि-गुरुः, स च । भवस् तु वैष्णवानां यथा शम्भुः [भा।पु। १२.१३.१६] इत्य्-आदि-दर्शनात्, ततोऽप्य् उत्कर्षवान्, स च । श्रीस् तु तयोर् अपि भगवद्-भक्ति-शिक्षा-निदर्शन-प्रथम-रूपत्वात् परमोत्कर्षवती । तद् एवम् उत्तरोत्तर-विन्यासेन यथोत्तर-महिमानं सूचयित्वा श्रीस् तु न केवलं भक्ति-मात्रेण तादृश्य् एव । किं तर्हि परम-सख्येन ततोऽप्य् अनिर्वचनीय-माहात्म्येत्य् आह । अङ्ग-संश्रयेति । एवंभूतापि सा च प्रसादं लेभिरे एव । कस्मात् ? विमुक्तिदात्—

अस्त्व् एवम् अङ्ग भजतां भगवान् मुकुन्दो

मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् । [भा।पु। ५.६.१८]

इत्य् उक्त-रीत्या प्रायो विमुक्तिम् एव ददाति न तु तथाभूतं प्रसादं, तस्मात् श्री-भगवत एव किन्तु गोपी श्री-गोपेश्वरी यत् तद् अनिर्वचनीयं प्रसाद-शब्देनापि वक्तुं शङ्कनीयं, तस्मात् प्राप, तद्-रूप-प्रसादं विरिञ्चिश् च भवश् च श्रीश् च न लेभिरे न लेभिरे ने लेभिरे इत्य् अर्थः । लेभिरे इत्य् अस्य प्रत्येकं नञ्-त्रयेणान्वयः । नञस् त्रिर्-आवृत्तिश् च निषेधस्यातिशयार्था । पूर्वोत्तराध्याय-द्वये श्र्-बादरायणेर् विवक्षितम् इदम् । द्रोण-धरयोस् तावत् साधारण-देवतात्वं चेत् तर्हि तयोः श्री-शिवादि-दुर्लभ-चरणारविन्द-स्फूर्ति-लेशस्य श्री-कृष्णस्य तथा प्राप्तौ स्वतः सम्भावना नास्ति । न च तयोस् तादृश-गाढ-भजनादिकं कुत्रचिद् वर्ण्यते । अन्यथा तद् एवाहम् आख्यास्यम् । न च ताभ्यां यद् ईदृशं फलं लब्धं तद् ब्रह्मणि पूर्वं प्रार्थितं, किन्तु दुर्गति-तरण-हेतुत्वेनोत्तम-भक्ति-मात्रम् । न च ब्रह्मापि श्री-कृष्णस्य महा-भक्तैर् अपि दुर्लभ-पुत्रत्वादिकं विशिष्य ताभ्यां वरं दत्तवान् । न च नेमं विरिञ्चिः इत्य्-आदिनोच्यमान-तादृश-प्रसादाप्ति-राहित्यस्य ब्रह्मणो वरस् तादृश-फल-दाने भवति समर्थः । वक्ष्यते च तत्-प्रसादाप्ति-राहित्यातिशयः । तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् [भा।पु। १०.१४.३४] इत्य्-आदिना । तस्मात् तयोस् तादृश-महोदये कारणं नास्ति किन्तु निष्कारणत्वेन तयोर् नित्याम् एव तादृशीं स्थितिं विज्ञाय मया श्री-भगवल्-लीलयैव स्व-भक्ति-विशेष-प्रचार-कारणक-श्री-भगवद्-इच्छयैव द्रोण-धरा-रूपेणांशेनैवावतीर्णयोर् ऐक्य-विवक्षया यथा कथञ्चित् कारणाभास एवोपन्यस्त इति । किं च श्रीमद्-भागवतेऽस्मिन् श्री-भगवत्-प्रेमैव सर्व-पुरुषार्थ-शिरोमणित्वेनोद्घुष्यते । तस्य च परमाश्रय-रूपं श्री-गोकुलम् एव । तत्रापि श्री-व्रजेश्वरौ । ततस् तत् परमाश्रय-नित्यत्वे सिद्ध एव तादृश-ग्रन्थ-प्रयत्नः सकलः स्यात् । यत एव श्री-ब्रह्मादिभिस् तत्र यत् किञ्चिज् जन्म प्रार्थ्यते इति ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नेमम् इत्य्-आदि-द्वयम् ॥२०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इदानीं श्री-व्रजेश्वर्याः सौभाग्यम् अनुस्मृत्य जात-विस्मयः श्री-शुको वदति—नेमं विरिञ्च इत्य्-आदि । विशिष्टा मुक्तिर् विमुक्तिः, प्रेमाकारा वृत्तिस् तां ददातीति तथा । तस्मात् श्री-कृष्णात् यत् यं प्रसादं गोपी प्राप, तं प्रसादं के लेभिरे, न केऽपीत्य् अर्थः । किं-शब्दोऽध्याहार्यः । न केऽपीत्य् उक्तेर् असम्भाव्य-जन-प्रतिषेधस्योपस्थितौ पुनः सम्भाव्यमानान् ब्रह्मादीन् अपि निषेधति । अपि-शब्दः प्रत्येकं योज्यः । न विरिञ्चो ब्रह्मापि, न भवः श्री-रुद्रोऽपि, किं बहुना ? अङ्गे सम्यग् अविरतः श्रयः श्रयणं यस्याः सा श्रीर् अपि, प्रत्येकं न-कारः प्रत्येक-निषेधस्य प्राधान्यात् । इमम् अनुभूयमानम् । अथवा, ब्रह्मापि भवोऽपि श्रीर् अपि न न लेभिरे । अत्यन्ताप्राप्तौ न नेति वीप्सा । त्रयाणां कर्तॄणाम् एक-क्रियायां बहुत्वं, देवदत्तो यज्ञदत्तो विष्णुमित्रश् च गच्छन्तीतिवत् । द्वौ नञौ प्रकृत्य्-अर्थं गमयत इति नाशङ्कनीयम्, यथा—मा मा वैदर्भ्य् असूयेथाः [भा।पु। १०.६०.२९] इत्य्-आदि । न खलु न खलु वाणः सन्निपात्योऽयम् अस्मिन् [अ।शा।] इत्य्-आदि च । समग्र-प्राप्तिस् तु दूराद् आस्ताम् । अर्ध-प्राप्तिर् अपि तेषां नास्तीत्य् आह—नेमम् अपि अर्धम् अपि । नेमं-शब्दोऽर्ध-वचनः सर्व-नाम । अपि-शब्दः सर्वत्रान्वयितव्यः ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्त-वश्यस्य तस्य भक्तेष्व् अपि मध्ये व्रजेश्वर्या आधिक्यम् अपारं वश्यत्वातिशय-दर्शनेन सरोमाञ्चम् आह—नेमम् इति । विशिष्टा मुक्तिर् विमुक्तिः । प्रेमा तत्-प्रसादाद् अपि कृष्णात् यत् प्रसादं गोपी श्री-यशोदा प्राप्तं तत् तं प्रसादं विरिञ्चो भवः श्रीर् अपि न लेभिरे न लेभिरे न लेभिर इत्य् अन्वयः । नञ्-त्रयेण लेभिरे इत्य् अस्य त्रिर्-आवृत्त्या प्राप्त्य्-अभावातिशय उक्तः । यद् वा, विरिञ्चो भवः श्रीर् अपि प्रसादं न लेभिरे अपि तु प्रसादं लेभिर एव । किन्तु गोपी यं प्रसादं प्राप इमं न लेभिरे इत्य् अन्वयः । विरिञ्चः पुत्रोऽपि स आदि-देवो जगतां परो गुरुर् [भा।पु। २.९.५] इत्य् उक्तेस् ततोऽप्य् उत्कर्षवान् अपि श्रीर् जायापि अङ्ग-संश्रयत्वेन सख्य-भक्ति-रसवत्त्वात् दासाभ्यां ताभ्याम् उत्कर्षवत्य् अपि यस्याः सकाशात् प्रेम्णा न्यूना एव सा यशोदा साधन-सिद्धा पूर्व-जन्मनि ब्रह्म-दत्त-वरा धरा आसीद् इति महान् एवान्ययः । नहि ब्रह्मणो वर-दान-लभ्यम् एतादृशं प्रेम-सौभाग्यं भवितुम् अर्हति स ब्रह्मापि—तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां [भा।पु। १०.१४.३४] इति प्रार्थयमानोऽस्या न्यूनातिन्यून-कक्षायाम् एव गण्यत इत्य् अतः श्रुति-स्मृत्य्-आगम-प्रसिद्धे नित्य-सिद्धे एव नन्द-यशोदे त्वया ज्ञेये । नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयं [भा।पु। १०.८.४६] । यशोदा वेत्य् अल्प-विमर्शे त्वदीय-प्रश्ने मयाप्य् अस्पष्ट-प्रायं द्रोणो वसूनां प्रवर इति तद्-एकांशाश्रयं प्रत्युत्तरं दत्तम् इति भावः ॥२०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : श्री-यशोदा सौभाग्येन विस्मितो मुनिः स-रोमाञ्चं तदाह नेमम् इति । मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगं [भा।पु। ५.६.१८] इत्य् उक्त-दिशा प्रायेण मोक्ष-प्रदात् यदीमं प्रसादं बन्धनाङ्गीकार-रूप-कृपा-विलासं गोपी राज्ञी यशोदा प्राप, तत् तं विरिञ्चो भवश् च स्वावतारोऽपि स्व-भक्त्याग्रेसरोऽपि न लेभिरे न प्रापुः । लेभिरे इत्य् अस्य न तु त्रयेण त्रिर्-आवृत्त्या सर्वथा तत्-प्राप्तेर् अभावः । तथा च नन्दः किम् अकरोत् [भा।पु। १०.८.४६] इति तत्-प्रश्नस्योत्तरं तत्र तद्-अंशम् आगन्तुकम् आदाय गदितं वस्तुतस् त्व् अनादितस् तैः तत्-पितरौ निउपम-तत्-सौभाग्यवन्ताव् इति गृहाण न चैतत् सौभाग्यं ब्रह्म-वह-हेतूक्तं सम्भाव्यं तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां [भा।पु। १०.१४.३४] इत्य्-आदि निगदता तेन तत्-प्रजापाद-रजोभिषेकस्य वाञ्छितत्वात् ॥२०॥


॥ १०.९.२१ ॥

नायं सुखापो भगवान् देहिनां गोपिका-सुतः ।

ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : फलितम् आह—नायम् इति । देहिनां देहाभिमानिनां तापसादीनां ज्ञानिनां निवृत्ताभिमानानाम् अपि ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : फलितं लब्धम् । आत्म-भूतानाम् । ज्ञानी त्व् आत्मैव मे मतः [गीता ७.१५] इत्य् उक्तेर् भगवद्-रूपाणाम् अपि ज्ञानिनाम् अपि ज्ञान्नाम् अयम् इति शृङ्ग-ग्राहिकया दर्शयति—गोपिका-सुतो यशोदा-सूनुर् इत्य् अनेन स-गुण-विग्रह इत्य् उक्तम् । ज्ञानिनस् त्व् अव्यक्त-विग्रहोपासका अत एवोक्तं—क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसां [गीता १२.५] इति भगवद्-गीतासु । या निर्वृतिस् तनुभृतां तव पाद-पद्मे [भा।पु। ४.९.२६] इत्य्-आदि-ध्रुवोक्तेश् च सुखेन भक्तिमताम् एव लभ्यः । भक्त्या लभ्यस् त्व् अनन्यया [गीता ११.५५] इत्य् उक्तेः । भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः [गीता ११.५५] इति स्मृतेश् च । भक्तिर् एवैनं दर्शयति [गो।ता।उ।] इति श्रुतेश् च ।

गोपिका-सुत इत्य् अपि भक्त्यैव गोपी-सुतताम् आहेति । अत्र श्री-भागवते भगवत्-प्रेमैव सर्व-पुरुषार्थ-शिरोमणित्वेन वर्ण्यते । तस्य स्थितिर् नित्य-सिद्ध-भक्तेष्व् एव तेष्व् अपि गोकुल-वासिन एव श्रेष्ठा इत्य् आह—नायम् इति । देहिनां देहाध्यासवतां भक्तिमतां ज्ञानिनां देहाध्यास-रहितानाम् आत्माराम-भक्तानां तथाभूतत्वे सत्य् एव प्राप्ति-योग्यतायां निषेध-सम्भवात् । आत्म-भूतानां पूर्व-श्लोकोक्तानां विरञ्चि-भव-श्रियां तत्र विरिञ्चि-भवयोः स्वावतारत्वात्, लक्ष्म्याः स्वरूप-शक्तित्वेनात्म-भूत्वम् । एवं त्रिविध-जनानां गोपिका-सुतोभगवान् न सुखापः

किं तद् ? इति विकुण्ठ कौशल्यादि-सुत एव दुःखम् एवाभिव्यञ्जयति—एषाम् इह श्री-यशोदायाम् एतद् उपलक्षितेषु वात्सल्य-सख्य-कान्त-भावाश्रयेषु व्रज-लोकेषु या भक्तिः—स्त्रिय उरुगेन्द्र-भोग-भुज [भा।पु। १०.८७.२३] इत्य्-आदिना, यथा त्वल्-लोक-वासिन्यः इत्य्-आदिना च श्रुत्य्-आदिभिर् अनुगति-मयी तद्-गतां यथा सुखापः, तथा तेषां नेति । तेन गोपिकाद्य्-अनुगतिमय-न्यूनता-दुःखाङ्गीकारस् तु विरिञ्चि-मय-लक्ष्म्य्-आदिभिर् ईश्वराभिमानिभिः स्व-स्व-लोक-स्थितैर् दुःशक एव । अन्येषां तादृशोपदेशस्यालाभाद् अरोचकत्वाद् वा तद्-अनुगत्य्-अभाव एवेति भाव इति चक्रवर्ती ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नायम् इत्य्-आदि । गोपी-सुतोऽयं भगवान् अन्यत्र भगवच्-छब्दस्य तूपचारः । आत्म-भूतानां ज्ञानिनाम् अपि न सुखापः च-कारोऽप्य् अर्थः । किम् उत देहिनाम् । तर्हि केषां सुखापः ? तत्राह—इह श्री-कृष्णो भगवति गोपिका-सुते भक्तिमताम् ॥२१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लब्धोचितम् एवेत्य् आह—नायम् इति । अयं स्वीकृत-महा-बन्धनोऽपि गोपिका-सुतः राज्ञी-पुत्रः श्री-यशोदा-नन्दनः परम-गुण-रूपादि-युक्तः श्री-कृष्णः । इह गोपिका-सुते । यद् वा, चित्तारूढत्वाच् छ्री-नन्द-व्रज इत्य् अर्थः । या भक्तिर् भगवद्-भजनम् आदरो वा तद्वताम् अपि जनानां, यथा सुखापः सुलभस् तथा देहिनां देहातिरिक्तात्म-ज्ञानवतां ज्ञानिनाम् आत्म-तत्त्वानुभविनां जीवन्-मुक्तानाम् इत्य् अर्थः । आत्म-भूतानां च सिद्ध-मुक्तीनां सिद्धानाम् अपीत्य् अर्थः । किं वात्मीयानां भक्तान्तराणाम् अपि न सुखापः । किन्तु दुःखेन कथञ्चित् केनचिद् अंशेनैव प्राप्य इत्य् अर्थः । अथवा श्री-ब्रह्मादीन् अन्यान् भक्तान् प्रति यद्यपि तादृशः प्रसादो मास्तु, तथापि तैर् भक्तैर् एवायं लभ्यो न त्व् अन्यैर् इति । यद् वा, तेषाम् एव सुखं सम्पादयति, न त्व् अन्येषाम् इति । प्रसङ्गाद् भक्ति-माहात्म्यम् आह—नायम् इति । अयं सुदुर्लभः प्रसादः, भगवान् साक्षात् परमेश्वरो गोपिका-सुतो गोकुल-जनैक-प्रिय इत्य् अर्थः । पद-त्रयेण परम-दौर्लभ्यम् उक्तम् अतो देह्य्-आदीनां न सुखापः, किन्तु भगवद्-भक्तिमताम् एव, इह यत्र कुत्रापि स्थाने । यद् वा, अस्मिन्न् एव लोके वर्तमान-देहे वा सुखापः सुख-लभ्यः । किं वा, सुखं प्रापयतीति तथा सः । आत्म-पोतानाम् इति पाठं केचित् पठन्ति । तत्रात्मैव पोतस् तरण-साधनं येषां ज्ञानिनाम् । अन्यत् समानम् । यथेत्य् अस्यात्रैव वान्वयः । यथावत् सुखापो मोक्षस्य दुःख-निवृति-मात्र-रूपत्वेन मुक्तानाम् अपि न सुखाप इति ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ कथम् अस्यास् तादृशी तत्-प्राप्तिर् जाता परेषां वा कथं स्यात् ? तत्राह—नायम् इति । अयं गोपिका-सुतो भगवान् देहित्वेनाभिमानवतां तप-आदिभिर् न सुखापः, किं तु

एतावान् एव यजताम् इह निःश्रेयसोदयः ।

भगवत्य् अचलो भावो यद् भागवत-सङ्गतः ॥ [भा।पु। २.३.११]

इत्य् उक्त-रीत्या कथञ्चित् कदाचित् तद्-भक्त-सङ्गो यदि स्यात् तदा क्रमत एव प्राप्यः । एवं ज्ञानिनां देहाद्य्-अतिरिक्तात्म-ज्ञान-वताम् आत्म-भूतानां तद्-विज्ञानवताम् अपि न सुखापः किन्तु पूर्ववत् तद्-भक्त-सङ्गाद् एव आत्म-भूतानाम् इति पाठं केचित् पठन्ति तत्र आत्मैव पोत-स्तरण-साधनं येषां ज्ञानिनाम् इत्य् अर्थः । तर्हि सुखाप इत्य् अपेक्षायां तन्-निदर्शनम् आह—यथा इह श्री-गोपिका-सुतो भक्तिमतां सुखापः । अनेन महा-नारायणादि-भक्तिमन्तोऽपि व्यावृत्ताः । युक्तं च तेषाम् असुखाप इति देहिनां ज्ञानिनाम् अ देहि-सामान्य-दृष्ट्या भक्तान्तराणांच गोप-लीला-दृष्ट्या तत्रादरानास्पदत्वात् तद्-भक्तानां सुखाप इति च युक्तम् इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य्-आदिषु तेषां तादृश-तल्-लीलायाः सर्वोत्तमतया अनुभवाद् इति ज्ञेयम् । तत्र गोपिका-सुत इति निर्विशेषणम् एवोपलक्षणं गोपिकाया एव सर्वोपादेयत्वेन विवक्षितत्वात् इह-शब्दश् च तद्-वाच्येव न जगद्-आदि-वाची प्राप्तत्वात् व्यर्थत्वाच् च भक्तिमन्तश् च त्रैकालिक-भक्त-परम्परा एव अविशेषेण प्राप्तत्वात् ताम् उपदिशतां वेदानां तद्-उपदेशकोपदेश्य-परम्पराणां चानाद्य्-अनन्त-काल-भावित्वात् तच् च विशेषणं भक्ति-सुख-प्राप्ति-रूपयोः साधन-साध्ययोर् उभयोर् अप्य् अवस्थयोर् दत्तं तस्मात् ते सार्वकालिक-तद्-भक्ता गोपिका-सुतत्वेनैव साधयन्ति लभन्ते च तम् इति स्थिते नित्यैव तस्य तद्-रूपेणावस्थितिः सिद्धा तथा गोपिका-सुतत्वेनैव साधन-निर्णयो गोपिकायाश् च तत्-साधनत्वे स्वाश्रय-दोषापातान् न साधनावकाश इति सैव निर्धार्यते । अत एव गोपिकायाः सुखाप इति किं वक्तव्यं गोपिकायास् तु सुत एव स इति व्यञ्जितम् उपलक्षणं चैतत् श्री-नन्दस्य तदीयानाम् अपि तेषां तादृशत्वं च श्री-कृष्ण-जन्माष्टम्य्-आदि-व्रते तदीय-नाना-मन्त्रे चावरण-पूजायां द्रष्टव्यं तस्मात् पूर्वं मया तयोर् अंशाभ्यां द्रोण-धराभ्यां यल्-लीला-मात्रं तद् एवापात-प्रबोधार्थ-मात्रार्थम् उक्तम् इति भावः ॥२१॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १५२) : तस्मात् स्वाभाविक्य् एव तयोस् तादृशी स्थितिर् इति प्रतिपादयंस् तत्-सम्बन्धेनैव भजतां सुखापो नान्येषाम् इत्य् आह—नायम् इति ।

सुखेनाप्यत इति सुखापःअयं श्री-गोपिका-सुतः भगवान् देहिनां देहाभिमानिनां तप-आदिना न सुखापः, न सुलभः, किन्तु तैर् अतिचिरेणैव तेन शुद्धेऽन्तःकरणे कथञ्चिद् भक्तावलोकन-लेशेन जात-सद्-बुद्धिभिस् तद् एव तप-आदिकं तस्मिन्न् अर्पयद्भिः कथञ्चिद् एवासौ लभ्यते । तथा आत्म-भूतानाम् आविर्भूताद्वैत-वृत्तीनां निवृत्त-देहाभिमानानां ज्ञानिनाम् अपि तादृशेन ज्ञानेन न सुखापः, किन्तु पूर्वेणैव करणेन जात-तद्-आसत्तिभिस् तेन ज्ञानेन यद् ब्रह्म स्फुरति, तद् एवायम् इति चिन्तयद्भिस् तैः कथञ्चिद् एवासौ लभ्यते ।

ततश् च द्वयोर् अपि तयोः साधनयोर् हीनत्वात् तल्-लाभश् च न साक्षात् किन्तु केनचिद् अंशेन व्यञ्जितम्—ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः [गीता १२.४], क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् [गीता १२.५] इति श्री-भगवद्-उक्तेः । शाब्दे परे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनम् अलं विचक्ष्व [भा।पु। १.५.७] इति श्री-व्यास-प्रश्नानन्तरात् ।

भवतानुदित-प्रायं यशो भगवतोऽमलम् ।

येनैवासौ न तुष्येत मन्ये तद् दर्शनं खिलम् ॥ [भा।पु। १.५.८]

इति श्री-नारद-प्रतिवचनाच् च । सुखापस् तु केषाम् इत्य् अपेक्षायां निदर्शनम् आह—इह गोपिका-सुते भक्तिमतां यथा तथा च श्री-ब्रह्मोक्तिः—ज्ञाने प्रयासम् उदपास्य [भा।पु। १०.१४.३] इत्य्-आदि, श्री-नारदोक्तिश् च यजते यज्ञ-पुरुषं स सम्यग्-दर्शनः पुमान् [भा।पु। १.५.३८] इति । सुखाप इति श्री-गोपिकायास् तु सुखाप इति किं वक्तव्यम् । तस्याः सुत एवायं भगवान् इत्य् अतो गोपिका-सुत इति विशेषणं दत्तम् ।

सुखम् आपयतीति वा सुखापः । यतश् चायं न देहाभिमानिनां सुखापः यतो गोपिकासुतस् तत्-सुतत्व-लीलायाः स्व-साधारण-दृष्ट्यानादरात् । तथा ज्ञानिनाम् अपि न सुखापः यतो गोपिकासुतः सर्वात्मैक-वृत्त्य्-उदयेन भगवत्-स्वरूपानन्द-वैचित्री-सारोपरिचर-तल्-लीला-तत्त्वानुभवात् । यथेह श्री-गोपिका-सुते भक्तिमताम् इति निदर्शनम् ।

सुखेनाप्यते ज्ञायते इति वा सुखापः सुबोधः । ततश् चायं देहाभिमानिभिस् तर्कादिना न सुबोधः । तथा ज्ञानिभिर् अपि ज्ञानेन न सुबोधः । तत्र पूर्ववद् धेतुर् गोपिका-सुत इति । देहेभिः देहाभिमानिभिर् अपि । तत्-तद्-अलौकिक-कर्म-लिङ्गकात् तर्कात् ज्ञानिभिर् अप्य् अनावृत-ब्रह्मत्वावगमात् सुबोध एव । सत्यं तथापि यथेह श्री-गोपिका-सुते भक्तिमद्भिः सुबोधस् तथा न । ते हि श्री-कृष्ण-भक्ताः स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य् अभावोऽप्य् अजित-रुचिर-लीलाकृष्ट-सारः [भा।पु। १२.१२.६९] इत्य्-आदि-दर्शनात् तादृश-लीलानुभवस्यैव परम-पुरुषार्थत्वम् अवगच्छन्तीति भावः । अत्रार्थ-त्रयोऽपीह-पदेन श्री-परव्योम-नाथादि-भक्तिमन्तोऽपि व्यावृत्ताः । गोपिका-सुत इति विशेषणेन च त्रैकालिक-तद्-भक्तानां तत्-सम्बन्धि-सुखापत्वं प्रति तत्-सुतत्वायोग-तद्-अन्यत्व-योगौ व्यवच्छिद्येते । इत्य् अतो विद्वद्-अनुभव-याथार्थ्येन नित्य एव तत्-सम्बन्धो विवक्षितः ।

अत एवायं गोपिका-सुत इति स्वयम् अपि साक्षाद् अङ्गुल्या निर्दिश्यते । तस्माद् अपि साधूक्तं नित्य एव श्री-व्रजेश्वरयोस् तत्-सम्बन्ध इति । अत्र एकदा गृह-दासीषु [भा।पु। १०.९.१] इत्य्-आदिकम्, नेमं विरिञ्चः [भा।पु। १०.९.२०] इत्य्-आदि पद्य-द्वयान्तम् इदम् उत्तर-वाक्यं, द्रोणो वसूनां प्रवरः [भा।पु। १०.८.४८] इत्य्-आदिकस्य पूर्व-वाक्यस्य बाधकत्वेनैवोक्तं, पूर्व-विरोध-धर्मान्तर-प्रतिपादनाद् अयुक्तत्वाच् च पूर्वस्य असद्-व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्य-शेषात् [वे।सू। २.१.१७] इतिवत् । तत्र च यथैवासच्-छब्दस्य गत्य्-अन्तरं चिन्त्यते, तथात्रापि । तच् च पूर्वम् एव दर्शितं पूर्वोत्तराध्याय-द्वये बादरायणेर् विवक्षितम् इदम् आरभ्य प्रकरणेन ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथैवं भगवत्-प्राप्तिर् भक्त्यैव भवति, न ज्ञानाद् इत्य् आह—नायं सुखाप इत्य्-आदि । अयं गोपिका-सुतो भगवान् श्री-कृष्णो देहिनां मध्ये इह श्री-यशोदा-किशोरे भक्तिमतां यथा सुखापः सुलभस् तथात्म-भूतानां ब्रह्म-भूतानाम् अपि ज्ञानिनांन सुलभः, तेषां तु दुर्लभ एव ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, श्री-भागवतेऽस्मिन् भगवत्-प्रेमैव सर्व-पुरुषार्थ-शिरोमणित्वेनोद्घुष्यते । तस्य मूल-भूताश्रयाणां भक्तानां मध्ये नित्य-सिद्धत्व एव तस्य नित्य-स्थितिः सम्भवेत् । तेष्व् अपि मध्ये गोकुल-वर्तिनस् तन्-मात्र्-आदय एव श्रेष्ठाः, येषां वात्सल्यादि-भाव-विषयी-भूतः कृष्णस् तद्-अनुगमन-भक्तिमद्भिर् एव सुलभो नान्यैर् इत्य् आह—नायम् इति ।

अयं गोपिका-सुतो न सुखापः । केषां ? देहिनां देहाध्यासवतां भक्तिमतां ज्ञानिनां देहाध्यास-रहितानाम् आत्माराम-भक्तानां तथा-भूतत्वे सत्य् एव प्राप्ति-योग्यतायां निषेध-सम्भवात् आत्म-भूतानां पूर्व-श्लोक-निर्दिष्टानां विरिञ्च-भव-श्रियां तत्र विरिञ्च-भवयोः स्वावतारत्वेन लक्ष्म्याः स्वरूप-शक्तित्वेनात्म-भूतत्वम् एवं त्रिविध-जनानां गोपिका-सुतो भगवान् न सुखापः । किं तद् इति विकुण्ठ-कौशल्यादि-सुत एव दुःखम् एवाभिव्यञ्जयति यथा इह श्री-यशोदायाम् एतद्-उपलक्षितेषु वात्सल्य-सख्य-कान्त-भावाश्रयेषु व्रज-लोकेषु या भक्तिः स्त्रिय उरुगेन्द्र-भोग-भुज-दण्ड [१०.८७.२३] इत्य्-आदिना, यथा त्वल्-लोक-वासिन्य इत्य्-आदिना च व्यञ्जिता । श्रुत्य्-आदिभिर् अनुगति-मयी तद्वतां यथा सुखापस् तथा नेति ।

तेन गोपिकाद्य्-अनुगतिमय स्व-न्यूनता दुःखाङ्गीकारस् तु विरिञ्च-भव-लक्ष्म्यादिभिर् ईश्वराभिमानिभिः स्व-स्व-लोक-स्थितैर् दुःशक एव अन्येषां तु तादृशोपदेशस्यालाभाद् अरोचकत्वाद् वा तद्-अनुगत्य्-अभाव एवेति भावः । तत्र सुखाप दुष्प्राप-शब्दाभ्यां प्राप्त्य्-अप्राप्ती एवोच्यते इति केचिद् आहुः ॥२१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं नन्द-यशोदयोः सौभाग्यम् अभिधाय तद्-अनुगानां व्रजौकसां तद् आह—नायम् इति । अयं गोपिका-सुतो भगवान् कृष्णः देहिनाम् अनिवृत्त-देहाभिमानानां ज्ञानिनाम् उदित-स्व-परात्म-ज्ञानानां तापसादीनाम्, आत्मनि भूतानां स्थितानां विनिवृत्त-देहाभिमानानां सनकादीनां च । यद् वा, आत्म-भूतानां पूर्वोक्तानां विरिञ्चादीनां तथा सुखापो न यथेह व्रजे निवसतां गोपिका-सुत-भक्तिमताम् इति । तत्-तत्-सर्वापेक्षया व्रजौकः सुतस्यातिशयिततनं सुख-प्रापणम् इति नित्य-सिद्ध-सौभाग्यस् ते । एवम् एवोक्तं सूत्र-कृतापि उपपन्नस् तल्-लक्षणार्थोपलब्धेर् लोकवत् [वे।सू। ३.३.३०] इति साधकोत्कर्षः सिद्धे पर्यवस्येद् इति तत्र भावः ॥२१॥


॥ १०.९.२२ ॥

कृष्णस् तु गृह-कृत्येषु व्यग्रायां मातरि प्रभुः ।

अद्राक्षीद् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तैर् बद्धस्याप्य् अन्य-मोचकत्वम् आह—कृष्णस् त्व् इति ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अद्भुतम् आह—भक्तैर् इति । व्यग्रायां लग्नायाम् । अर्जुनौ ककुभ-वृक्षौ । पूर्वं गुह्यकौ पूर्व-जन्मनि यक्षौ ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-यशोदा कृष्णं बबन्ध । स चान्यं मोचयामासेति भिन्नोपक्रमे तु-शब्दः । गृह-कृत्येष्व् इति बहुत्वेन तेषाम् अनुपरतिः सूचिता । यद् वा, पुनः पुत्रार्थं नवनीत-साधन-काऋयेषु बहुत्वं गौरवात् । अत एव व्यग्रायाम् अतस् तद्-अर्थम् अन्यत्र तस्या यानं ज्ञेयम् । दृढ-बन्धन-मोचनोलूखलाकर्षण-शक्त्यम् अनेन पुत्रस्यान्यत्र गमन-शङ्कापगमात् । तथा च श्री-विष्णु-पुराणे तस्या वचनम्—यदि शक्तोऽसि गच्छ त्वम् अतिचञ्चल-चेष्टित [वि।पु। ५.६.१६] इति । दाम-बद्धस्यैव गमनम् । गमने स्वातन्त्र्यं च बोधितम् अत एव प्रभुस् तदानीं प्राप्त-स्वातन्त्र्यात् । यद् वा, जगद्-उद्धारे समर्थः । यतः कृष्णः साक्षाद् भगवान् अतोऽद्राक्षीद् अनुग्रहीतुम् अग्रहीतुम् ऐच्छद् इत्य् अर्थः ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं श्री-गोपिकायां केवल-बालत्वेऽप्य् अन्यत्राव्याहत-ज्ञानादिमत्त्वं वक्तुं प्रस्तौति—कृष्णस् त्व् इति । एवं यशोदा श्री-कृष्णं बबन्ध स चान्यं मोचयामासेति भिन्नोपक्रमे तु-शब्दः गृह-कृत्येष्व् इति बहुत्वेन तेषाम् उपरतिः सूचिता तं त्यक्त्वा गमनं च तस्य प्राङ्गण-समीपस्थत्वात् वक्ष्यमाणानां बालानां रक्षितत्वात् दृढ-बन्धन-मोचनोलूखलाकर्षण-शक्तेर् अमननेन पुत्रस्यान्यत्र गमन-शङ्कापगमात्, तथा च श्री-विष्णु-पुराणे तस्या वाक्यं—यदि शक्नोषि गच्छत्व् अमति-चञ्चल-चेष्टित [वि।पु। ५.६.१५] इति ।

पूर्वम् अद्राक्षीत् इत्य् उक्तं । तत्र पूर्व-पूर्व-तद्-दर्शन-सम्भवेऽपि सम्प्रति गच्छ तद्-उक्तिस् तद्-विशेषानुसन्धानापेक्षयेति तच् च यद्यपि स्व-योग्यत्वात् तल्-लीला-शक्ति-कृतम् एव तथापि स्व-बन्धनानुसन्धानेन तद्-बन्धानुसन्धानस्य योग्यत्वाद् इवेत्य् उत्प्रेक्षणीयं दृष्ट्वा विचारितवान् इत्य् अर्थः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तैर् बद्धस्याप्य् अन्य-मोचकत्वं वक्तुम् आह—कृष्णस् त्व् इति ॥२२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं मातुर् हठ-रक्षया ताम् आनन्द्य नारदस्य स्वैकान्तिनो वचन-सत्यता-विधानेनानन्दाय मनो दधे इत्य् आह—कृष्णस् त्व् इति । तन्-निविष्ट-चित्तायाम् एव मातरि तस्मिन् कोष-बोधनाय गृह-कृत्येषु व्यग्रायां सत्याम् अर्जुनाव् अद्राक्षीत् मात्रा निबद्धोऽहं तद्-ऋणी न तद्-ऋण-निर्यातने समर्थः किन्तु तत्-पुर-द्वार-स्थितयोर् वृक्षयोर् मोक्षं करिष्यामीति भावेनेत्य् आशयः ॥२२॥


॥ १०.९.२३ ॥

पुरा नारद-शापेन वृक्षतां प्रापितौ मदात् ।

नलकूवर-मणिग्रीवाव् इति ख्यातौ श्रियान्वितौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शाप-हेतुम् आह—मदाद् इति । तत्रापि हेतुः श्रियान्विताव् इति ।

श्रुति-चक्षुर् वाग्-विहीनं

कुरुते लक्ष्मीर् जनस्य को दोषः ।

गरल-सहोदर-जाता

यन् न मारयति तच् चित्रम् ॥ इत्य् उक्तेः ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मदाद् अभिमानान् मधु-मत्तताया वा हेतोः । तत्र हेतुः श्रिया सम्पदान्विताव् इति । यद् वा, शोभया पुष्पादि-समृद्ध्या वान्विताव् इत्य् अर्जुनयोर् विशेषणम् ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तम् एव तस्य विचारम् आह—पुरेति । मदाद् अभिमानात् मधुमत्तायाश् च हेतोः यतः श्रिया सम्पदावितौ ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

ऋणित्वाद् एव बद्धोऽहं मात्रा तद्-अनृणीभवन् ।

किं कुर्वे इति संचिन्त्य मोचयत् तत् पुर-द्रुमौ ॥२३॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

दशमे नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पुरेति प्रस्फुटम् ॥२३॥

स्तेयकोपवतो जीवान् गुणैर् वध्वैवरोदये ।

तद्वन् मात्रा निबद्धस् तैर् मारुहीत्य् आहुर् अर्भकाः ॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे

उलूखल-बन्धनं नाम नवमोऽध्यायः ।

॥९॥


(१०.१०)


  1. सञ्जात-कोपः ↩︎

  2. भिन्नं ↩︎

  3. दधि-मण्ड-प्रहरणात् ↩︎

  4. भीषास्माद् वातः पवते भीषोदेति सूर्यः भीषास्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः ॥ ↩︎

  5. उद्वीक्षमाणा ↩︎

  6. क़ुओतेद् ब्य् मध्व तो गीता १०.११। ↩︎

  7. अहम् एवासम् एवाग्रे नान्यत् किञ्चान्तरं बहिः ।

    संज्ञान-मात्रम् अव्यक्तं प्रसुप्तम् इव विश्वतः ॥ ↩︎

  8. किन्तु ↩︎