०८

गर्गागमनं, जातककथन-पूर्वकं नाम-करण-संस्कारः, मृद्-भक्षण-व्याजेन यशोदायै विश्व-रूप-प्रकटीकरणं च ।

॥ १०.८.१ ॥

श्री-शुक उवाच—

गर्गः पुरोहितो राजन् यदूनां सुमहा-तपाः ।

व्रजं जगाम नन्दस्य वसुदेव-प्रचोदितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अष्टमे नाम-कर्मास्य बाल-क्रीडा-कुतूहले ।

मृद्-भक्षणाभियोगे च विश्व-रूपं निरूप्यते ॥

विश्वरूपादि-बालस्य निशम्याशङ्किनः पितुः ।

नाम-कृद्-गर्ग-वाक्येन निजं तत्त्वम् असूसुचत् ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बाल-क्रीडायाः कुतूहले कौतुके मृद्-अशन-सम्बन्धे च । आशङ्किनः शङ्कावन्तः । पितुर् नन्दस्य । निजं तत्त्वं स्वम् ऐश्वर्यम् । सुमहातपाः सर्व-तपस्वि-मुख्यः ॥१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ऐश्वर्य-संवलितं बाल्य-चरितम् उक्त्वाधुना केवलं बाल्य-स्वाभाविकं परम-मनोहरं यथा-क्रमं कथयन्न् आदौ यथा-कालं नाम-करणम् अह गर्ग इत्य्-आदिना जना इत्य् अत्यन्तेन । हे राजन्न् इति क्षत्रियाणां पुरोधसैव संस्काराः क्रियन्त इति व्यवहारा भवता ज्ञयत एवेति भावः । सु-महा-तपाः । यद् वा, श्रीभगवन् नाम—भाग्यवान् । यद् वा, महा-भागवतोत्तम इत्य् अर्थः । वसुदेवेन प्रेरित इति पुत्र-संस्कारे\ऽप्य् आज्ञाया अपेक्ष्यत्वात् ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् ऐश्वर्य-संवलितं बाल्य-चरितम् उक्त्वाधुना केवलं बाल्य-स्वाभाविकं परम-मनोहरं यथा-क्रमं कथयन्न् आदौ यथा-कालं नाम-करणम् अह गर्ग इत्य्-आदिना जना इत्य् अत्य् अन्तेन । हे राजन्न् इति क्षत्रियाणां पुरोधसैव संस्काराः क्रियन्त इति व्यवहारा भवता ज्ञयत एवेति भावः । सु-महा-तपाः । यद् वा, श्रीभगवन् नाम—भाग्यवान् । यद् वा, महा-भागवतोत्तम इत्य् अर्थः । वसुदेवेन प्रेरित इति पुत्र-संस्कारे\ऽप्य् आज्ञाया अपेक्ष्यत्वात् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अधोक्षज-धिया तद्-अधिष्ठानत्वेनाभेद-दृष्ट्या ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अष्टमे नाम-करणं रिङ्गणं गव्यम् ओषणम् ।

मृद्-भक्षणं विश्व-रूप-दर्शनं च निगद्यते ॥

असुर-वध-प्रसङ्ग-सङ्गत्यैव तृणावर्त-वधम् उक्त्वा तत् प्राचीनानि नाम-करणादीनि चरितान्य् अनुस्मृत्य वक्तुम् उपक्रमते-गर्गः पुरोहित इत्य्-आदिना ॥१-३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.२ ॥

तं दृष्ट्वा परम-प्रीतः प्रत्युत्थाय कृताञ्जलिः ।

आनर्चाधोक्षज-धिया प्रणिपात-पुरःसरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अधोक्षज-धिया, अव्यक्त-रूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि इत्य् उक्तेः ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आनर्च नन्द इति शेषः । अधोक्षजधियेन्द्रिय-ज्ञानागोचरो\ऽपि भगवान् अयं साक्षाद्-भूत इति-बद्धया, इति परम-भक्तिर् उक्ता । यद् वा, शकटस्य श्री-भगवद् उपर्यपतनादिना शकटाक्षस्याधः पुनर् जात इवेत्य् एवं शकट-भञ्जनानन्तरं व्रजे\ऽधोक्षजन-नाम्ना प्रसिद्धे तस्मिन् स्व-पुत्रधिया तद् आसक्त्या तत् क्षेमार्थम् इत्य् अर्थः । प्रणिपातो दण्डवत्-प्रणामो विनयेनाति-नम्रता वा, तत् पूर्वकम् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आनर्च नन्द इति शेषः । अधोक्षज-धिया परमेश्वर एव भक्त्येत्य् अर्थः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.३ ॥

सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् ।

नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुनृतया यथार्थ-मधुरया । पूर्णस्य कृतकृत्यस्य । नन्दयित्वा श्लाघयित्वा ॥३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सु-उपविष्टं पाद-प्रक्षालनादिना पथि—श्रमापनोदनेन सदासने सुखोपविष्टम्, कृत-मौनम् इत्य् अर्थः । पूर्णस्य श्री-भगवद्-भक्त्या सिद्ध-सर्वार्थस्य । तत्र हेतुः—ब्रह्मन् ! हे सर्व-वेद-स्वरूपेति वेदस्य हि सृष्टयादौ स्तुत्या सुप्रसन्ने भगवति भक्ति-विशेषेणभीष्ट-सिद्धेः, तद् आख्यानं बृहद्-वामन-पुराणे व्यक्तम् एव । यद् वा, साक्षाद्-ब्रह्म-स्वरूपेति । तस्य हि भगवन् महा-विभूतित्वेन स्वत एव साक्षत् सर्वार्थ-सम्पत्तेः ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सूपविष्टं पाद-प्रक्षालनादिना पथि श्रमापनोदनेन सदासने सुखोपविष्टम्, कृतम् आतिथ्यं मधुपर्काद्य्-अर्पण-लक्षणं यस्य तं सूनृतया मधुर-स्तोत्र-रूपया मुनिं नन्दाभिप्रेत-श्रवणाय प्राक् कृतं मौनम् इत्य् अर्थः । पूर्णस्य श्री-भगवद्-भक्त्या सिद्ध-सर्वार्थस्य । तत्र हेतुः—ब्रह्मन् ! हे सर्व-वेदार्थ-ज्ञानेन बृहत्तम, भगवान् ब्रह्म कार्त्स्न्येन इत्य्-आदिना, वेदैश् च सर्वैर् अहम् एव वेद्यः [गीता १५.१५] इत्य्-आदिना च तद्-भक्ताव् एव तात्पर्य-पर्यवसानात् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.४ ॥

महद्-विचलनं नॄणां गृहिणां दीन-चेतसाम् ।

निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्णश् चेत् कथं धनिनां गृहम् आगतस् तत्राह—महद्-विचलनम् इति । महतां स्वाश्रमाद् अन्यत्र विचलनं न स्वार्थं किन्तु गृहिणां मङ्गलाय । ननु तर्हि स एव महद्-दर्शनार्थं किम् इति नागच्छन्ति तत्राह । दीन-चेतसां कृपणानां क्षणम् अपि गृहं त्यक्तुम् अशक्नुवताम् इत्य् अर्थः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्णत्वम् आशङ्क्य समाधत्ते—महद् इत्य्-आदि । निःश्रेयसत्वम् आशङ्कते—नन्व् इति । यदि महद्-विचलनं गृहि-मङ्गलं तर्हि तदा, त एव गृहिण एव । इत्य् अर्थ इति—इदं कृतम् इदं करिष्य इत्य् एवम् इति कृत्यासक्तत्वात् तेषां नहि महद्-दर्शनावकाश इति भावः ॥४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महतां श्री-भगवत्-सेवैक-निष्ठानां विशेषेण चलनं स्व-स्थानाद् अन्यत्र दूरे गमनम् । नृणाम् इति कर्म-स्वधिकारेण सदा तत् पराणाम् इत्य् अर्थस् तत्रापि गृहिणाम् अत एव दीन-चेतसां निःश्रेयसाय सर्व-मङ्गलाय । भगवन् ! हे सर्वज्ञेत्य् अर्थः, प्रवृत्तिं च निवृत्तिम् इत्य्-आदि-वचनात् । यद् वा, साक्षाच् छ्री-नारायणेत्य् अर्थः—पूजादौ भगवद्-भागवतयोर् अभेदात् । एवं तस्य सर्व-सामर्थ्यम् अपि सूचितम् । कल्पते घटते\ऽन्यथा दीन-उजननिः श्रेयसार्थ-व्यतिरेकेण कदाचिद् अपि न घटते, यतः कथम् अपि महतां विपद् विघ्नाद्य् अभावात् । यद् वा, महतां विचलनं श्रीभगवत् सेवालक्षणात् स्व-धर्मात् किञ्चित् स्खलनम् अपि गृहिणां निश्रेयसाय समर्थं स्याद् अन्यथा तेषां स्व-गृहे भगवत् सेवापरतयान्य् अन्यत्रा-प्रस्थानेनान्य् अकर्मानाचरणेन च गृहासक्तानां कदाचिद् अपि निःश्रेयसासिद्धेर् इत्य् अर्थः ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महतां श्री-भगवत्-सेवादि-निष्ठत्वाद् विशेषेण चलनं स्व-स्थानाद् अन्यत्र दूरे गमनम् । नृणाम् इति स्वभावत ऐहिक-पारलौकिक-कर्म-पराणाम् इत्य् अर्थः । तत्रापि गृहिणां जाया-पुत्रादीनाम् अपि तत्-तद्-धित-व्यग्राणाम् अज्ञेषु मद्-विधेषु कृपया स्वयम् आगमनम् उचितम् एवेति भावः । कल्पते घटते अन्यथा दीन-जन-निःश्रेयसार्थ-व्यतिरेकेण कदाचिद् अपि न घटते महतां निःश्रेयस-स्वाभाव्यात् ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्णस्य तव किं करवाम अपि तु न किम् अपि कर्तुम् अर्हाम इत्य् अर्थो वा प्रश्नार्थत्वात् पूर्णस्य तव किम् अपेक्षितं वर्तते तत् ब्रूहि वयं करवामेत्य् अर्थो वा आद्ये मम त्वद्-गृहागमनस्य वैयर्थ्यं द्वितीये पूर्णत्वस्येति चेन् मैवम् उभयत्राप्य् उभयं न व्यर्थं प्रत्युता अभिनन्दनीयत्वात् परम-सार्थकं कृपापारवश्यात् सन्तकुमार-वामनादीनां परम-पूर्णानाम् अपि पृथु-बलि-प्रभृतीनां गृहागमनस्य दृष्टत्वाद् इत्य् आह-महतां स्वाश्रमाद् अन्यत्र विचलनं गृहिणां निःश्रेयसाय परम-मङ्गलाय कल्पते समर्थं भवति तद् एव तेषाम् अपेक्षितम् अपीत्य् अर्थः । नॄणाम् इति राहिष्व् अपि मध्ये नॄणाम् एव न तु देवादीनाम् एवं नृष्व् अपि मध्ये गृहिणाम् एव न तु ब्रह्मचार्यादीनां तत्रापि दीनं तृणाद् अपि दुर्भगं मन्यं चेतो येसाम् इति तेष्व् एव महत् कृपाधिक्य-सम्भवात्, न तूत्तमं-मन्य-कठोर-वक्र-चेतसाम् इत्य् अर्थः ॥४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.५ ॥

ज्योतिषाम् अयनं साक्षाद् यत् तज् ज्ञानम् अतीन्द्रियम् ।

प्रणीतं भवता येन पुमान् वेद परावरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वया बालयोर् नाम-करणादि करणीयम् इति वक्तुं तस्य ज्ञानातिशयम् आह—ज्योतिषाम् अयनम् इति । यद् अतीन्द्रिय-ज्ञानम् असाधनं ज्योतिषाम् अयनं तत्-प्रतिपादकं ज्योतिः-शास्त्रम् इत्य् अर्थः । तत् साक्षाद् भवता प्रणीतं येन अन्योऽपि पुमान् परावरं परं कारणं पूर्व-जन्म-कृतं कर्म अवरं कार्यं तस्मिन् जन्मनि भावि-फलं तद् वेद । उक्तं च जातके—

यद् उपचितम् अन्य-जन्मनि शुभाशुभं तस्य कर्मणः पङ्क्तिम् ।

व्यञ्जयति शास्त्रम् एतत् तमसि द्रञाणि दीप इव ॥ इति ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बाल-नाम-करणाद्य्-अर्थं गर्गं श्लाघते नन्द इत्य् आह—स्वयेति । गर्गेण इत्य् अर्थ इति । अयन-शब्देन शिशुमारादि न ग्राह्यं, किन्तु शास्त्रम् एवेति तात्पर्यम् । येन ज्योतिः-शास्त्रेण अन्योऽर्वाचीनोऽपि । जातके बृहज्-जातके । उपचितं सम्पादितम् । अन्य-जन्मन्य् अन्ये एतत्-कालिक-जन्म-प्राग्-जन्मनि । व्यञ्जयति प्रकाशयति । ग्रहाणां स्थान-योग-दृष्ट्य्-अवस्थादि-वशाद् इति । एतज्-ज्योतिः प्रकाशकं शास्त्रम् इत्य् अर्थः ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ज्योतिषां ग्रहाणाम् अयनम् इति करणे ल्युट् अयतेर् गत्य्-अर्थतया ज्ञानार्थत्वात्, करणस्यापि हेतुत्वात् तत्-प्रतिपादकम् इत्य् एवार्थः । तच् च प्रणीतम् इत्य् उक्त्या ज्योतिः-शास्त्रम् इत्य् एव पर्यवसीयते । कीदृशं तज्-ज्ञानं तत्-साधनम् अतीन्द्रियम् इन्द्रियागोचर-ज्ञान-जनकत्वात् तद्-अतिक्रान्तं च तद् एव विशेषण-द्वयस्य अतीन्द्रिय-ज्ञान-साधनम् इत्य् एव निर्गलितोऽर्थः ।

यद् वा, अयनं ज्ञान-साधनं शास्त्रम् इत्य् अर्थः । यत् यस्मात् तत् भवद्-आदिषु विख्यातम् अतीन्द्रियं ज्ञानं स्याद् इति ।

परं पूर्व-जन्म-वृत्तम्, अवरम् एतज्-जन्म-भावि-फलम्, तद् वेदेति बालयोस् तत् तद् भवता कथनीयम् इति भावः । तत्र पूर्व-जन्म-वृत्त-जिज्ञासा तुपूर्व-जन्मनि शुभाद् अस्मिन्न् अपि शुभं भावीत्य्-आद्य् अभिप्रायेण, अत एवाग्रे श्री-भगवतः पूर्व-वृत्त-कथनम् पुमान् यः कश्चित् पुरुष इति तच्-छस्त्रस्य सुगमत्वादि-गुण उक्तः ॥५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परं पूर्व-जन्म-वृत्तम्, अवरम् एतज् जन्म-भावि-फलम्, तद्-वेदेति मत्-पुत्रस्य तत् तद् भवता कथनीयम् इति भावः । तत्र पूर्व-जन्म-वृत्त-जिज्ञासा पुण्यं पुण्यानुबन्धि स्यात् इत्य्-आदि-न्यायेन पूर्व-जन्मनि शुभाद् अस्मिन्न् अपि शुभं भावीत्य् आद्य् अभि-प्रायेण, अत एवाग्रे श्री-भगवतः पूर्व-वृत्त-कथनम् । पुमान् यः कश्चित् पुरुष इति तच् छस्त्रस्य सुगमत्वादि-गुण उक्तः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्योतिषां ग्रहाणाम् अत्रायनम् इति करणे ल्युट् अयतेर् गत्य्-अर्थतया ज्ञानार्थत्वात्, करणस्यापि हेतुत्वात् तत्-प्रतिपादकम् इत्य् एवार्थः । तच् च प्रणीतम् इत्य् उक्त्या ज्योतिः-शास्त्रम् इत्य् एव पर्यवसीयते । कीदृशं तज्-ज्ञानं तत्-साधनम् अतीन्द्रियम् इन्द्रियागोचर-ज्ञान-जनकत्वात् तद्-अतिक्रान्तं च तद् एव विशेषण-द्वयस्य अतीन्द्रिय-ज्ञान-साधनम् इत्य् एव निर्गलितोऽर्थः ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बालक-द्वय-नाम-करणार्थं प्रार्थना-बीजं सृजन्न् आह—ज्योतिषां ग्रहादीनाम् अयनं ज्ञापकं ज्योतिः-शास्त्रं यद् यतः अतीन्द्रियं ज्ञानं भवेत् तद् भवता जायत इति किं वक्तव्यं त्वया प्रणीतं कृतं येन अन्योऽपि पुमान् परम् उत्तर-काल-भावि च दृष्ट्वा भद्राभदृआदिकं कथनीयम् इति भावः ॥५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.६ ॥

त्वं हि ब्रह्म-विदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि ।

बालयोर् अनयोर् नॄणां जन्मना ब्राह्मणो गुरुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विवक्षितम् आह—त्वं हीति । दैवज्ञो मन्त्रविच् च त्वम् अतो नाम-करणादि-संस्कारान् कर्तुम् अर्हसीत्य् अर्थः । नन्व् एतद् गुरुणा करणीयम् इति चेत् तत्राह—नॄणाम् इति ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । उभय-विद एव संस्कार-करणेऽधिकारो न त्व् एकैक-विद इति भावः । पुनर् आशङ्कते—नन्व् इति । नृणाम् इति जन्मना ब्राह्मण इत्य् उक्तेः ।

यस्य यल् लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।

यद् अन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् ॥ [भा।पु। ७.११.३५]

इत्य् अपास्तम् । तथा च जातितो यो ब्राह्मणस् तपो-विद्या-युतः स एव गुरुः कार्यो न तु क्षत्रियादिः ।

संस्कर्ता चोपदेष्टा च विप्र एव न चेतरः ।

सर्वैर् विप्र-गुणैर् युक्त इत्य् आह भगवान् मनुः ॥ इति

किं च,

वर्णानाम् आश्रमाणं च मुख्योऽभूद् ब्राह्मणो गुरुः ।

अन्योन्य-गुरवो विप्रा न ह्य् एषाम् अपरो गुरुः ॥ इति वरतन्तूक्तेः ॥६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि यतो ब्रह्म-विदां श्रेष्ठो महा-भागवतोत्तमत्वाद् अतः संस्कारान् जात्य्-अनुरूपान् नाम-करण-विद्यादि-फलकेष्टादीन् वैष्णवानुरूपां च तिलकादीन् अत एव सुन्दरोर्द्ध-पुन्द्रादिकं पद्म-पुराणादौ श्री-कृष्णस्य श्रूयते जन्म-ना जन्म-मात्रेणैव किं पुनर् ज्ञानादिनेत्य् अर्थः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि यतो ब्रह्म-विदां श्रेष्ठो महा-भागवतोत्तमत्वात्, अत एव संस्कारान् जात्य्-अनुरूपान् जन्मना जात्यैव किं पुनर् ज्ञानादिनेत्य् अर्थः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जन्मना जात्यैव ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, एतादृश-महानुभावस्यापि तव मद्-गृहागमनं मन्-निःश्रेयसायैव तच् च मम निःश्रेयसम् ऐहिकं पारलौकिकं च । तत्रैहिकं निःश्रेयसम् अद्य निष्पाद्यम् एकं त्वच्-चरणेषु निवेदयामि, कृपया शृण्व् इत्व् आह—त्वम् इति । न केवलं ज्योतिर्-विदाम् एव त्वं श्रेष्ठ इति भावः । तेनोभय-गुण-युक्तत्वात् त्वम् एव दैवज्ञो मन्त्रविच् च कर्तुम् अर्हसि इत्य् अर्थः । नन्व् एतद्-गुरुणा करणीयम् इति चेत्, तत्राह—नृणाम् इति ॥६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.७ ॥

श्री-गर्ग उवाच—

यदूनाम् अहम् आचार्यः ख्यातश् च भुवि सर्वदा ।

सुतं मया संस्कृतं ते मन्यते देवकी-सुतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्युत्साहिनं नन्दं प्रति गुप्तम् एतत्-कार्यम् इत्य् अभिप्रायेण प्रत्याचक्षाण इवाह—सुतम् इति । कंसो मन्यते मन्येत कल्पयेद् इत्य् अर्थः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् संस्कारादि प्रत्याचक्षाण इव निवर्तयन्न् इव । नन्दो वक्ति भवत्व् इति । ख्यातः प्रसिद्धः । ततः ख्यातेः । इत्य् अर्थ इति । मन्यतेः सम्भावनार्थत्वम् अत्रेति तात्पर्यम् ॥७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्वतः सर्वस्यां पापमतिर् दुर्मतिर् दुष्ट-बुद्धिर् यदि हन्ता वसुदेवं युस्मान् वा, हन्तेति विविके नाम-करणादीच्छया भयम् उत्पादयति, वस्तुतस् तु गत्य् अर्थाद्धन-धातोः प्राप्स्यति आयास्यतीत्य् अर्थः । अपीत्य् एव पाठो मुक्तस् तथैव तैर् व्याख्यानात् । तत् तदा सद्य एवेत्य् अर्थः । अनयो\ऽपराधो\ऽनर्थो वा । नः इति बहुत्वं श्री-भगवन् नाम-करणार्थागमनेनात्मनो\ऽन्तर् बहुमानात्, स्वज्ञात्य् आद्य् अपेक्षया वा । अन्यत् तैर् व्याख्यातम् । यद् वा, तत् तस्मान् मत् संस्काराद् धेतोर् गताशङ्को निःसंशयः, सन्न् इत्य् अर्थः ॥७-८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदूनाम् इति त्रिकम् । सर्वतः सर्वस्यां पापमतिर् दुष्ट-बुद्धिर् अपि । हन्तेति सम्भावनार्थस्यापि शब्दस्य यदीत्य् अर्थः । हन्ता देवकी-पुत्रादि-हनन-शीलः कंसो यदि प्राप्ताशङ्कः स्यात्, तर्हि तत्-संस्कार-कर्मास्माकं महान् एवान्याय-रूपः स्याद् इत्य् अर्थः । टीकायां तु हन्ता गन्ता तदा सद्य एवेति व्याख्येयम् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वयं बिभ्यद् इत्य् उत्साहिनं नन्दं च कंसाद् भीषयमाणः सुगुप्तम् एवैतत् कारयेत्य् अभिप्रायेण प्रत्याचक्षाण इवाह—यदूनाम् इति । तव यदुत्वे\ऽपि क्षत्रियत्वाभावान् न यदुत्व-ख्यातिः । अहं तु यदु-पुरोहितत्वेन ख्यातश् चेति मत्-कृत्यम् इदं न गुप्तं स्थास्यतीति भावः ॥७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.८ ॥

कंसः पाप-मतिः सख्यं तव चानकदुन्दुभेः ।

देवक्या अष्टमो गर्भो न स्त्री भवितुम् अर्हति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यदु-कुमार इति कथञ्चिज् जानातु । तत्र वसुदेवस्य सुतस् तत्रापि देवक्यां जात इति कुतो जानीयात् तत्राह—पाप-मतिर् इत्य्-आदि ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कंस इति । कसि हिंसायाम् इति धातुः । हिंसाशीलस् तादृशस्य पाप-मतित्वं सहजम् एव पापिनां मनस्य् अनन्त-शङ्कोदयस्य सम्भवाद् इति भावः । द्वयोर् अन्वयः ॥८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रेदं ज्ञेयम् विविक्ते नाम-करण-दित्सया भयम् उत्पादयति । वस्तुतस् तु गत्य्-अर्थाद् वन-धातोः गमनेन प्राप्स्यति आयास्यतीत्य् अर्थः । अपीत्य् एव-पाठो युक्तः । यद्यपि देवी-वाक्ये जातः खलु तवान्तकृत् यत्र क्वचित् पूर्व-शत्रुः इत्य् उक्त्या प्रत्युतानकदुन्दुभि-सम्बन्धाशङ्कापयात्य् एव, तथा तादृश-बद्धस्य पुत्र-सञ्चारे सख्यम् अप्य् अकिञ्चित्करं स्यात् तथापि पाप-मतित्वात् दुर्मन्त्र-प्रवीणत्वेनेदम् आशङ्किष्यत एवेति भावः । मच्-छत्रुर् एवासाव् अस्य पुत्रतया जातः, किन्त्व् अस्यैव शिक्षया शरिकायमाणो मां छलयन् नन्द-गृहं प्रविष्ट इति ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वतः सर्वस्यां मन्यते मंस्यते नन्व् एतावत् को\ऽनुसन्धास्यते तत्राह कंसः तद् अपि त्वयि तु ब्रह्मवादिनि सो\ऽपि न द्रोहम् आचरिष्यतीति चेद् अत आह—पापमतिः मादृशान् जिघांसत्य् एवेति भावः । किं च तत्राप्य् अवश्यम् अपकरिष्यत्य् एवेत्य् आह—सख्यम् इति । वसुदेवद् रोहिणः कंसस्य वसुदेव-सखे त्वय्य् अपि द्रोह-सम्भवाद् इति भावः । तत्रैवं कुयुक्तिं स्रक्ष्यतीत्य् आह—देवक्या इति । देवकी-दारिका-वचः श्रुत्वा अष्टमो गर्भो न स्त्री-भवितुम् अर्हति इति चिन्तयन् इत्य् अन्वयः । मच् छत्रुर् विष्णुर् एव देवक्या गर्भे जात एव किन्तु वसुदेव-शिक्षया तस्य सख्युर् नन्दस्य गृहे प्रविष्ट इति देवकी-दारिका-वच इति मद् इष्ट-देवी दुर्गैव देवकी-दारिका-रूपा भूत्वा यत्र क्वचिज् जात इति पदेन देवक्याम् अपि जन्म-सम्भाव्य-विष्णु-निषेध-शङ्कयैव मां स्पष्टम् अनुक्त्वा तमन्विष्य शीघ्रं जहीति माम् अभिव्यञ्जयामासेति चिन्तयन् तद् अन्वेषणे प्रवृत्तौ मन् नाम-करण-लिङ्गेन आगता नन्द-गृहे वसुदेवस्तीत्य् आशङ्का यस्य तथा-भूतस् सन्नागत्य यदि हन्ता हनिष्यति तर्हि नो\ऽस्माकं महान् अनय यदीति अपि इति च पाठः ॥८-९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.९ ॥

इति सञ्चिन्तयन् छ्रुत्वा देवक्या दारिका-वचः ।

अपि हन्ता गताशङ्कस् तर्हि तन् नोऽनयो भवेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं मया हतया मन्द इत्य्-आदि देवकी-कन्या-वचः श्रुत्वा, देवक्या अष्टमो गर्भो न स्त्री भवितुम् अर्हति इति नित्यं सञ्चिन्तयन् सामान्येन क्वचिद् अस्तीति ज्ञात्वा युवयोश् च सख्यं सञ्चिन्तयंस् त्वद्-गृहे भवेद् इति सम्भाव्य मत्-संस्कार-लिङ्गेन चागताशङ्क आगता आशङ्का यस्य सः । अपि यदि हन्ता हनिष्यति, तर्हि तत् तदा नो महान् अनयः स्याद् इति ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : अपीति सम्भावनार्थत्वाद्यदीत्यर्थः। हन्तेति शीले तृन् हिंसाशीलः कंसो यदि प्राप्तशङ्को भवतीत्यर्थः।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-श्लोक-व्याख्या द्रष्टव्या।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.१० ॥

श्री-नन्द उवाच—

अलक्षितोऽस्मिन् रहसि मामकैर् अपि गो-व्रजे ।

कुरु द्विजाति-संस्कारं स्वस्ति-वाचन-पूर्वकम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्विजाति-संस्कारम् अङ्काविजातीनाम् अवश्यं कर्तव्यं संस्कार-मात्रं केवलं स्वस्ति-वाचन-पूर्वकं कुर्व् इति ॥१०-११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्मिन् गोव्रजे गोकुले तत्रापि रहसि मामकैर् मदीय-सम्बन्धि-भृत्यादिभिर् अप्य् अलक्षितोऽज्ञातः ॥१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गवां व्रज इति महिष्य्-आदीनाम् आवासो व्यावर्तितो\ऽयोग्यत्वात् । यद् वा, दिने गवां सपालानां वने गमनान् निर्जनत्वं बोधितम् । द्विजाति-संस्कारं वैश्यानुरूप-नाम-करण-मात्र-लक्षणम्, दीक्षा—पूर्वाङ्ग-तिलकादि-धारणादेश-मात्रं च कुरु । पुण्याह-स्वस्ति-ऋद्धयस् त्रिस् त्रिर् उक्ताः स्वस्ति-वाचनं स्यात् । स्वस्ति-वाचन-मन्त्राणां पठनं वा स्वस्ति-वाचनम्-यथा—

पुनन्तु मां देवजनाः पुनन्तु मनसा धियः ।

पुनन्तु विश्वा भूतानि जात-वेदः पुनीहि माम् ॥ [ऋग् वेद। ९.६७.२७] इत्य्-आदि-मन्त्राः ।

तच् च सर्व-कर्मस्वावश्यकम् ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गो-व्रज इति स्थान-संस्कारानपेक्षा च दर्शिता । रहसीति दिने गवां सपालानां वने गमनात् । द्विजाति-संस्कारं यथा स्व-क्षत्र-वैश्यानुरूप-नाम-करण-लक्षणम्, पुण्याह-स्वस्ति-ऋद्धयस् त्रिस्-त्रिर्-उक्त्या स्वस्ति-वाचनं स्यात् । स्वस्ति-वाचन-मन्त्राणां पठनं च स्वस्ति-वाचनम् । यथा—

पुनन्तु मां देवजनाः पुनन्तु मनसा धियः ।

पुनन्तु विश्वा भूतानि जात-वेदः पुनीहि माम् ॥ [ऋग् वेद। ९.६७.२७] इत्य्-आदि-मन्त्राः ।

तच् च सर्व-कर्मस्व् आवश्यकम्, न बहिर् लोक-वेद्यं च । अतः केवलं तत्-पूर्वकम् ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भाग्य-वशाद् एव मद्-गृहम् आयातम् । ईदृशम् आचार्यं कदा पुनर् अहं लप्स्ये ? तस्माद् वादित्राद्य्-उत्सवाङ्गं दिनान्तरे स-विस्तरं करिष्ये, साम्प्रतम् अद्य केवलं शास्त्रीयम् आवश्यकं कृत्यम् एवैतद्-द्वारा कारयामीति मनसि विभाव्याह—अलक्षित इति । मामकैर् भ्रात्र्-आदिभिर् अपि गो-व्रजे इति स्थान-संस्कारोऽपि नापेक्ष्यः । रहसि इति दिने स-पालानां गवां वने गमनात् द्विजाति-संस्कारं बालयोर् अनयोः क्षत्र-वैश्यानुरूप-नाम-करण-लक्षणं पुण्याह-स्वस्ति-ऋद्धयस् त्रिस् त्रिर् उक्त्या स्वस्ति-वाचनं भवेत्, तस्य सर्व-कर्मस्व् आवश्यकत्वात् तत्-पूर्वकम् ॥१०-११॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.११ ॥

श्री-शुक उवाच—

एवं सम्प्रार्थितो विप्रः स्व-चिकीर्षितम् एव तत् ।

चकार नाम-करणं गूढो रहसि बालयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्-नाम-करणं स्व-चिकीर्षितम् एव निजाभिलषितम् एव ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-व्रज-जनैर् अप्य् अलक्षिततया रहसि तादृश-संस्कार-करणं स्वस्य कर्तुम् इष्टम् एव । एवम् उक्त-प्रकारेण सम्यक् प्रार्थितः सन् तद् इति दीक्षा—पूर्वाङ्ग वा, तस्य निगूढत्वात् सङ्केतेनोक्तिः । आदौ तत् करणं मुख्यत्वान् मङ्गलत्वाच् च । रहसि गुढः सन्नित्य् अस्यायं भावः—श्री-नन्दस्यानन्दार्थम् अवश्यं तत् पुत्रस्य माहात्म्यं कथ्यम् एव, तथापि नन्दस्य स्नेहभरेण तस्मिन्न् ईश्वर-ज्ञानं न भवितैव । अन्येषाञ्चाधुना तद्वत् स्नेह-परिपाकाभावान् माहात्म्य-विशेष-चृअवणेनेश्वर-जानोत्पत्त्या स्नेह-विशेष-भगः स्याद् इत्य् अलक्षितं रहस्य् एव तद् उचितम् इति । यद् वा, गूढः कंस-भिया प्रच्छन्नः तत्रापि स्नेह-ह्रास-शङ्कया श्री-व्रजेशं प्रति तदीय-परमैश्वर्यं साक्षाद् अनभिव्यजय लोकोत्तर-चमत्कार-कर्मको\ऽप्य् अयं श्री-बादरायण-तुल्यो महा-पुरुष इति व्यपदेशेनाब्रवीद् इति । ननु, श्री-भगवद् ऐश्वर्याभिज्ञेन तेन कुतस् तत् कृतम् ? तत्राह—बालयोर् इति, लोकहितार्थं स्व-भक्त-प्रमोदार्थं च प्रकटित-बाल्य-लीलस्य तस्य तद् अनुरूप-लीला तदीयैर् अवश्यम् अनुसर्तव्यैवेति भावः ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् व्रज-जनैर् अप्य् अलक्षिततया रहसि तादृश-संस्कार-मात्र-करणं स्वस्य कर्तुम् इष्टम् एव । ननु, श्री-भगवद्-ऐश्वर्याभिज्ञेन तेन कुतस् तत्-कृतौ सङ्कोचओ न कृतः ? तत्राह—बालयोर् इति । लोक-हितार्थं स्व-भक्त-प्रमोदनार्थं च प्रकटित-बाल्य-लीलयोस् तयोस् तद्-अनुरूपा लीला तदीयैश्वर्य-ज्ञानिनाम् अपि मोहिनीति भावः । तत्र रहः-स्थाने बालक-द्वयानयन-तद्-दर्शनं च गर्गानन्द-शुभाशीर्वादादि-वर्णनम् ऊह्यम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.१२ ॥

श्री-गर्ग उवाच—

अयं हि रोहिणी-पुत्रो रमयन् सुहृदो गुणैः ।

आख्यास्यते राम इति बलाधिक्याद् बलं विदुः ।

यदूनाम् अपृथग्-भावात् सङ्कर्षणम् उशन्त्य् अपि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदूनाम् अपृथग्-भावात् कुतश्चिद् हेतोर् विप्रतिपदय्मानानं यदूनाम् अपृथग्-भावाद् भावो भावनं तस्मात् । अन्योन्य-शिक्षया सर्वैक-मत्य्-अकारणाद् इत्य् अर्थः । सम्यक् कर्षत्य् एकीकरोतीति सङ्कर्षणम् अप्य् उशन्ति इच्छन्ति वक्ष्यन्तीत्य् अर्थः । गर्भ-सङ्कर्षणं तु न प्रकाशयति स्म ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुणैर् निज-सौशील्य-वात्सल्यादिभिः । रमयन्न् आनन्दयन् । वस्तुतस् तु—

रमन्ते योगिनोऽनन्ते नित्यानन्दे चिद्-आत्मनि ।

इति राम-पदेनासौ परं ब्रह्माभिधीयते ॥ इति ।

यद् वा, राति गृह्णाति जगत्-कुक्षौ ददाति वा भक्ताभीष्टम् इति राः, रा दान-ग्रहणयोः । अभ्यते मुक्तैर् राम्यत इत्य् अमः । अम गत्य्-आदौ राश् चासाव् अमश् चेति रामो जगज्-जन्मादि-कर्ता मुक्त-प्राप्यः परमात्मेत्य् अर्थः । अस्यापि—वृष्णिषु प्राप्य जन्मनी रामकृष्णौ इति भगवद्-अवतारत्वात् पर-ब्रह्मतैव । बलम् अधिकम् अस्येति मत्व्-अर्थीयोच् ।

भूम-निन्दा-प्रशंसासु नित्य-योगेऽतिशायन्ते ।

सम्बन्धेऽस्ति विवक्षायां भवन्ति मतुब्-आदयः ॥

इति भर्तृहरि-वाक्याद् अत्र भूमार्थेऽच् । यद् वा, बलते संवृणोति सर्वेषां धृतम् इति बलः । यद् वा, रमयति लोकान् स्व-स्व-व्यापारे प्रवर्तयतीति रामः । सर्वेषु बलवत्स्व् अधिक-बलवत्त्वाद् वा बलः । रामेति लोक-रमणाद् बलं बलवद् उच्छ्रयात् इति वक्ष्यमानत्वात् ॥१२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अयम् इत्य् अङ्गुल्या निर्दिशति, करेण वा स स्पृष्ट्वा वदतीति बोधयति । एवम् अग्रे\ऽप्य् अस्येति च, गुणैर् वात्स्यल्यार्जवादिभिः । वै प्रसिद्धाविति निजोक्तौ शास्त्रादि-द्वारा प्रामाण्यं बोधयति । आख्यास्यते सुहृद्भिर् लोकैर् वा । एवं नाम्नो\ऽन्वर्थत्व-निरूपणेन निजौद्धत्यं परिहृतम् । एवम् अग्रे\ऽपि बलस्याधिक्याद् अतिशयात् । किं वा, बलेन सर्व-लोकेभ्य आधिक्यात्, यदूनाम् इति तैर् व्याख्यातम् । यद् वा, तव पुत्र एवायं पुष्ट्वात्, तच् च व्रजेश-सुतयोः इत्य्-आदिना व्यक्तम् एव । अतएवोक्तम्—रोहिण्याः पुत्रः इति, न च वसुदेवस्येति, तथापि तस्माज् जातत्वेन यदुभिः सहापृथक्त्वात् सङ्कर्षति कुल-द्वयम् अप्य् आकर्षयतीति सङ्कर्षणम् अपि वक्ष्यन्तीत्य् अर्थः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अयं वै इति सार्धकम् । अयं हीति क्वचित् । अयम् इत्य् अङ्गुल्या निर्दिश्य करेण स्पृष्ट्वा वा बोधयति । एवम् अग्रे\ऽप्य् अस्येति । अत्र प्रकटार्थः—रोहिणी-पुत्र इत्य् एतद् अप्य् एकं नामेत्य् अर्थः ।

सुहृदः श्री-वसुदेवादीन् भवद्-आदींश् च आख्यास्यन् इति नाम्नोऽस्य मत्-कर्तृत्वं व्याज-मात्रम् एव, किन्तु तादृशतया स्वयम् एव ख्यातिर् भविष्यतीत्य् अर्थः । एवम् उत्तरत्रापि विदुर् इति वर्तमान-सामीप्ये वर्तमानत्वम् एवम् उत्तरत्रापि एनम् इति शेषः । यदूनाम् श्री-वसुदेवादीनां भवद्-आदीनां च अपृथग्-भावात् निर्विशेष-पितृत्वादि-भावात्, तेनोभय-कुलस्यापि स्वस्मिन्न् आकर्षणाद् इत्य् अर्थः । एषाम् अपि यादवत्वेन तद् ऐक्यं द्वारकातो व्रजम् आगतस्य रामस्य वचनेन हरिवंशे व्यक्तम्—

प्रत्य् उवाच ततो रामः सर्वास् तान् अभितः-स्थितान् ।

यादवेष्व् अपि सर्वेषु भवन्तो मम वल्लभाः ॥ [ह।वं। ८३.१५] इति ।

यदूनाम् आचार्य इति तु प्रसिद्धि-मात्रम् अवलम्ब्य प्रोक्तम् । अपि तु शब्दान् नामान्तराण्य् अपि सूचितानि । उतेति पाठे स एवार्थः । अप्रकटार्थे तु शोभनं हृद्य् एषां तान् सात्वतान् आत्मारामादीन् रमयन् रामः विदुर् जानन्तीति तन्-नाम्नां सदातनत्वं व्यञ्जयति । एवम् उत्तरत्रापि । किं च, सङ्कर्षण-नाम्नोऽपि निरुक्त्य्-अन्तरम् अपि-शब्दात् ज्ञेयम् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यदूनां श्री-वसुदेवादीनां भवतां चापृथग्-भावात् तु पितृत्वादि-साधारण-बुद्धेर् इत्य् अर्थः । तद् उक्तं श्री-हरिवंशे गोप-वर्गं प्रति तेन स्वयम् एव यादवेष्व् अपि सर्वेषु भवन्तो मम बान्धवाः [ह।वं। ८३.१५] इति निर्धारणं हि सजातीयेष्व् एव षष्ठी सप्तम्यौ विधत्ते गोषु कृष्णाः सम्यक् क्षीरा इतिवत् । तद् एवं सति सङ्कर्षति अभेद-बुद्ध्यैकीकरोति सङ्कर्षण इति विवक्षितम्। अनेन गोपानाम् एव यदुवंशोद्भवत्वमप्यवगतं तच् च श्री-कृष्णसन्दर्भादौ प्रतिपादितम् एव ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदूनां वसुदेवादीनां भवद् आदीनां च अपृथग् भावात् निर्विशेष-पितृत्वादिभावात् स्वस्मिन्न् उभय-कुलस्याकर्षणात् तच् च हरि-वंशे—

प्रत्य् उवाच ततो रामः सर्वास् तान् अभितः-स्थितान् ।

यादवेष्व् अपि सर्वेषु भवन्तो मम वल्लभाः ॥ [ह।वं। ८३.१५] इति ॥

तद्-वचनेनैव व्यक्तं गर्भ-सङ्कर्षणं तु न प्रकाशयति ॥१२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.१३ ॥

आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगं तनूः ।

शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य तव पुत्रस्य । अतः कृष्ण इत्य् एकं नाम भविष्यति ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विप्रतिपद्यमानानां सञ्जात-विरोधानाम् अपृथग्-भावात् भेदापकरणात् । इत्य् अर्थ इति ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आसन् वर्णास् त्रयो ह्य् अस्येति । अस्य श्री-कृष्णस्यावतारिणस् तनूर् अवतार-रूपाणि गृह्णतस् त्रयो वर्णा आसन् । अर्थात् तास्व् एव तनुषु एव । वर्णाः के ? इत्य् आह—शुक्लो रक्तस् तथा पीतः । अपीत इति वा छेदः । अपीतः श्यामाः । द्वापरे भगवान् श्यामः पीतवासा निजायुधः [भा।पु। ११.५.२७] इत्य् आद्य्-अनन्तरं, कलाव् अपि तथा शृणु, कृष्ण-वर्णं [भा।पु। ११.५.३१-३२] इत्य्-आदि सङ्गतेः । अत एव स्वामिभिर् उक्तं—त्विषा कृष्णं, कलौ कृष्ण-वर्णस्य प्राधान्यं सूचितम् । न तु पूर्व-पूर्व-युगावतारवत् वर्णेन शुक्लादिवत् स्वाभाविकीयम् अस्य त्विट् । एतेनेदानीन्तनस्य वर्णो न विचारणीयः, यतोऽयं कृष्णतां गतः । स्वयं भगवतां गतः । नायं पूर्व-पूर्वावतारवत् युगावतारः, युगावतारे वर्ण-कल्पना, अयं स्वाभाविक एव श्याम एव ॥१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं जन्म-क्रमापेक्षया । किं वा वक्स्यमाण-श्री-भगवन् माहात्म्यस्य विस्तारापेक्षया सूची-कटाह-न्यायेनादौ श्री-बलरामस्य नाम कृत्वाधुना कृषि-भूर् वाचकः शब्द इत्य्-आदि श्री-कृष्ण-नाम-निरुक्तिं सङ्गोपयन् सुश्याम-वर्णत्वेन परम-सौन्दर्यापेक्षया कृष्णेति नाम प्रकाशयन्न् आह—आसन्न् इति ।

अनुयुगं सत्यादि-युग-त्रये तनूः श्री-मूर्तीर् गृह्णतः प्रकटयतो\ऽस्य क्रमेण शुक्लादि-वर्णास् त्रय आसन् । हि निश्चये प्रसिद्धौ वा । पूर्ववद् इदानीं कलेर् आरम्भे कृष्णतां गतः कृष्ण-वर्णेन प्रकटोऽभूद् इत्य् अर्थः । सच्-चिद्-आनन्द-घनत्वेन तत्त्व-दृष्ट्या प्रायो रूप-रूपवतोर् अभेदात् कृष्ण-वर्णस्य नित्यत्वे\ऽपि सङ्गोपनार्थं तथोक्तम् । अन्यथा नित्य-श्याम-सुन्दरत्वेन सुप्रसिद्धः साक्षाद् भगवान् श्री-नारायणो\ऽयम् इति जान-सम्भवः ।

यद् वा, प्रति-युगं वारं वारं तनूर् गृह्नतो\ऽस्य शुक्लादि-वर्णा एव तत्र आसन्, इदानीं त्वत्-पुत्रत्वे तु जगन्-मनोहर-श्याम-वर्णो\ऽभूद् इति श्री-नन्द-सन्तोषार्थम् उक्तम् । एवं नाम-रूपयोर् अभेदात् कृष्णतां गत इति कृष्ण-नाम्ना प्रकटो\ऽभूद् इत्य् एषोऽप्य् अर्थो दृष्टव्यः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं जन्म-क्रमापेक्षयादौ श्री-बलदेवस्य नामानि व्यज्य श्री-कृष्णस्य नामानि प्रकाशयन् आह—आसन्न् इति । तत्र प्रकटार्थोऽयम्—अनुयुगम् युगे युगे वारं वारं तनू गृह्णतोऽस्य शुक्लादि-वर्णास् त्रय आसन् । इदानीं त्वत्-पुत्रत्वे तु जगन्-मोहन-श्याम-वर्णताम् एवायं गत्ः ।

एतद् उक्तं भवति—तनूर् गृह्णत इति स्वातन्त्र्योक्त्या योग-प्रभाव इवोक्तः । तत्र च शुक्लादि-रूप-ग्रहणेन श्री-नारायण-स्वभाव-व्यक्त्या तद्-उपासना-योग एव पर्यवसायितः । पूर्व-पूर्व-तद्-अंश-भूत-शुक्लाद्य्-उपासनया तत्-तत्-साम्यादि-प्राप्त्या शुक्लतादि-प्राप्तिः सम्प्रति तु कृष्णतां प्रसिद्ध-साक्षान्-नारायणोपासनया तत्-साम्य-प्राप्त्या कृष्णता-प्राप्तिर् इति । वक्ष्यते च—नारायण-समो गुणैः [१०.८.१९] इति । इत्थं पूर्व-वृत्तम् उक्तं परम-भागवतः श्री-नन्दश् च तोषितः । एवं परमोत्कर्ष-प्राप्त्यैतत्-स्वरूप-निष्ठत्वात् कृष्णेत्य् एव तावन् मुख्यं नाम ज्ञेयम् । अतो नाम्नापि कृष्णतां गत इत्य् अर्थोऽपि ज्ञेय इत्य् अभिप्रायः ।\

अप्रकटवांस् तवार्थश् चायम्—अनुयुगं युगे युगे तनूर् गृह्णतः प्रकटयतस् त्रयो वर्णा आसन् प्रकटा बभुवुः । तत्र यो यः शुक्लः प्रादुर्भावः, यो यो रक्तः, यो यः पीतश् च उपलक्षकाश् चैते वर्णान्तरवतां स सर्वोऽपीदानीम् अस्याविर्भाव-समये कृष्णताम् एतद्-रूपताम् एतस्मिन्न् अन्तर्-भूतताम् एव गतः, सर्वांशान् एवादाय स्वयम् अवतीर्णत्वात् । अतः स्वयम् कृष्णात्वात् सर्व-निजांशस्य कृष्णी-कॢप्तत्वात् सर्वाकर्षकत्वाच् च मुख्यं तावत् कृष्णेति नाम । अतः—

कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः ।

तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥

इत्य्-आदिका निरुक्तिर् अप्य् अन्तर् भवति सर्व-बृहत्तमानन्द एव सर्वान्तर्-भावात् । अतः स्वाभाविकम् एवेतन् महा-नाम यत्र प्रणवे वेदा इव तान्य् अन्यान्य् अपि नामानि रूपे रूपाणीवान्तर्-भूतानि । युक्तं च विशेष्य-रूपस्य तस्यान्य-नाम-गण-विशेषणकत्वात् । उक्तं च प्रभास-पुराणे—मधुरं मधुरम् एतन् मङ्गलं मङ्गलानाम् इत्य्-आदौ, सकल-निगम-वल्ली-सत्-फलम् इत्य् अन्ते कृष्ण-नामेति, नाम्नां मुख्यतरं नाम कृष्णाख्यं मे परन्तप इति च । यस्यास्य प्रथम अप्य् अक्षरं महा-मन्त्रत्वेन प्रसिद्धम् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आसन्न् इति प्रकटार्थोऽयं प्रतियुगं तनु गृह्णतो भगवतो वर्णास् त्रयः अस्य बालकस्यासन् । तस्य विवरणं शुक्ल इत्य्-आदि । इदानीं त्वत्-पुत्रत्वावसरे तु कृष्णतां साक्षान्-नारायणतां रूप-गुणादिभिर् अतत्-तुल्यताम् एव गत इत्य् अर्थः । उपसंहरिष्यते च, नारायण-समो गुणैः इति एव तत्-तद्-उपासना-प्रभाव-रूपं पूर्व-वृत्तम् उक्तम् । अत एव परमोत्कर्ष-रूप-निष्ठत्वात् कृष्ण इत्य् एवास्य मुख्यं नाम ज्ञेयम् इति भावः ॥१३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ वसुदेवेन प्रहितो गर्गः श्री-कृष्णस्य नाम-करणं यद् अकरोत्, तद् आह—आसन् वर्णास् त्रय इत्य्-आदि सार्धेन । अस्य श्री-कृष्णस्यावतारिणस् तद्-अवतार-रूपाणि अनुयुगं युगे युगे गृह्णतस् त्रयो वर्णा आसन् । के ते ? इत्य् आह—शुक्ल इत्य्-आदि । सत्ये यम् अवतारम् अकरोत्, तस्य शुक्लो वर्ण आसीत्, त्रेतायां रक्त-वर्ण आसीत्, द्वापरे तथा अपीतः, यथा शुक्लो रक्तस् तथा श्यामोऽपि } अपीत-शब्देन श्याम उच्यते । शुक्ल-रक्त-कृष्णानां पारिशेष्यात् । वक्ष्यति च—द्वापरे भगवान् श्यामः [११.५.७] इत्य् एकादशे । इदानीं कलौ कृष्णतां गतः । कृष्णतेति भाव-निर्देशेन भावस्य च सत्ता-रूपतया स्वाभाविक-नित्य-सिद्ध एवायं चिद्-वर्णः, न तु पूर्व-पूर्वावतारवद् औपाधिकः । यद् वा, इदानीम् इति कलि-काल-परत्वम् । तथैकादशे वक्ष्यति—कलाव् अपि तथा शृणु, कृष्ण-वर्णं त्विषाकृष्णम् [११.५.३१-३२] इत्य्-आदि ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तव पुत्रस् त्व् अयं कोऽपि महा-पुरुष एवेति श्री-नन्दं बोधयन्न् आह—आसन्न् इति । प्रति-युगं तनूर् गृह्णतो\ऽस्य शुक्लादयस् त्रयो वर्णा आसन् गृह्णत कति स्वातन्त्र्योक्त्या योग-प्रभावो दर्शितः । इदानीं द्वापरान्ते कृष्णतां गत इति सत्याद्य् अवताराणां चतुर्णां शुक्लादीनाम् उपासना-सिद्धत्वेन तत् तत् सारूप्य-प्राप्त्येति भावो नन्दं बोधयितुम् ईक्षितः वस्तुतस् तु अस्यावतारिणस् तत् तद् वर्णवन्तो\ऽवतारा अंशा एव इदानीम् अयम् अवतारी पूर्णाः कृष्णत्वं प्राप्तः यद् वा यः शुक्लः यो रक्तः यः पीतश् च उपलक्षणम् एतत् यो यो\ऽन्यो मन्वन्तरावतार-लीलावतार-पुरुषावतारादिश् च स सर्वे ऽपि ददानीम् अंशिनो\ऽस्यावतार-समये कृष्णताम् एतद् वपताम् अस्मिन्न् अन्तर्-भूततां गतः सर्वाशाम् आदायैवावतीर्णत्वात्

ननु कृते शुक्लश् चतुर्बाहुः इति त्रेतायां रक्त-वर्णो\ऽसौ इति द्वापरे भगवान् श्याम इति कलौ कृष्ण-वर्णं त्विषा कृष्णम् इत्य् एकादशोक्तेः ।

कथ्यन्ते वर्णनाम् अभ्यां शुक्लः सत्य-युगे हरिः ।

रक्तः श्यामः क्रमात् कृष्णस् त्रेतायां द्वापरे कलौ ॥ इति ॥

भागवतामृतोक्तेश् च पीतो\ऽयं किं युगेयो\ऽवतारः न च आसन्न् इति भूत-काल-निर्देशेन क्रम-प्राप्त्या पीतो\ऽपि द्वापर-युगावतार इति वाच्यम् । युगावतार-प्रकरण-पठितत्वात् न च तत्र-स्थ-श्याम-पदस्य पीतार्थत्वम् अत्र-स्थ-पीत-पदस्य वा श्यामार्थत्वं कल्प्यम् इति तथा पीत इत्य् अकार-प्रश्लेषेणापीतः श्यामः इति वा वाच्यं सर्वथापि व्याख्याने अनुयुगम् इति वीप्सा-प्रयोगात् तनूर् इति-बहू-वचनाच् च वीप्सया चैकैकस्मिन्न् अपि युगे वर्ण-त्रयस्य प्राप्तेर् नाभिमतार्थ-लाभः न चेदानाम् इति पदेन कलि-युगस्यादिमोऽंश एव वाचनीय इति वाच्यं कृष्णावतारस्य द्वापरान्तर् भवत्वेन प्रसिद्धेः—

यस्मिन्न् अहनि यर्ह्य् एव भगवान् उत्ससर्ज गाम् ।

तदैवैदानुवृत्तो\ऽसावधर्म-प्रभवः कलिः ॥ [भा।पु। १.१८.६] इति ॥

प्रथमोक्तेश् च कृष्णावतारानन्तरम् एव कलि-युग-प्रवृत्तेः तस्माद् एवम् अत्र व्याख्येयं यत् तदोर् नित्य-सम्बन्धात् यथा इदानीं द्वापरान्ते कृष्णतां गतः स्वयम् अवतारी तथा तेनैव प्रकारेण इदानीं कलि-युगादि-भागे पीत इति किञ्चित् स्थूल-कालम् अवलम्ब्य इदानीम् इति पदार्थ उभयत्राप्य् अन्वेतीति

ननु तर्हि साक्षात् क्रियमाणोस्य कृष्णो वर्णः किम् इदानीन्तन एव किं वा, पूर्वम् अप्य् आसीद् एव तस्यैव प्राकट्यम् अधुनेति तन् न न केवलं कृष्ण-वर्ण एव पूर्वम् आसीत् अपि त्वन्वे\ऽपि वर्णा आसन्न् एवेत्य् आह आसन्न् इति । त्रयो\ऽपि वर्णा यथा-स्वम्भवं पूर्व-पूर्व-युते तदानीं दृश्यमानास् तत् तत् पूर्वम् अपि आसन्न् एव नित्य-स्थितानाम् एव तेषां तदानीं प्राकट्यं न तु ते तदानीम् एषापूर्वा अभवन्न् इत्य् अर्थः । अस्य कथम्-भूतस्य अनुयुगं तनूर् अवतारान् गृह्नतः अवतारा ह्य् असङ्ख्याताः [भा।पु। १.३.२६] इति सूतोक्तेः क्वहो कथं वा कति वा इति ब्रह्मोक्तेश् च एवं च वैवस्वतमन्वन्तर-गताष्टा-विंश-चतुर् युगीय-द्वापर-कलि-युगयोः स्वयम् अवतारी कृष्णः पीतश् च प्रादुर्भवति तद् युग-द्वयावतारौ श्याम-कृष्णौ तत्रैवान्तर् भूतौ तिष्ठतः तत्र पीतस्य

सुवर्ण-वर्णो हेमाङ्गो वराङ्गश् चन्दनाङ्गदी ।

संन्यास-कृत्समः शान्तो निष्ठा-शान्तिपरायणः ॥ इति ॥

भारताद्य् उक्तत्वे\ऽपि विशिष्य स्पष्टतया\ऽन्यत्र काप्य् अनुक्तिर् इति रहस्यत्वात् छन्नः कलौ यद् भवस् त्रि-युगो\ऽथ सत्वम् इति सप्तम-स्कन्धे श्री-प्रह्लादेनापि छन्नत्वेनैवोक्तत्वात् छन्नत्वं च स्वीय-वर्ण-भावयोर् अन्यदीय-वर्ण-भावाभ्याम् आवृतत्वेन तदानीन्तन-जनैः प्रायो दुर्लक्ष्यत्वम् एवेति स्वस्य दुर्लक्ष्यत्वं चिकीर्षा च तस्य रहस्य-वस्तु-जात-व्यञ्जकता-हेतुकम् एवेति गौडीय-भक्ति-सुधीभिर् अवश्यावगम्यं तत एव तत् प्रमापक-वचनस्य—

नाना तन्त्र-विधानेन कलाव् अपि तया शृणु ।

कृष्ण-वर्णं त्विषा कृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् ।

यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः ॥

इत्य् अस्य युगावतार-प्रकरण-मध्य-पठितस्य तथैव छन्न एवार्थो\ऽवसीयते\ऽर्थान्तरेण स यथा नाना-कलौ सर्व-कलि-युगे अपि कालात् वैवस्वताष्टाविंश-चतुर् युगीय-कलाव् अपि तन्त्र-विधानेन तन्त्राख्य-न्याय-विधिना श्वेतो धावतीत्य् आदिवत् एक-प्रयत्नोच्चारेण एकदैवार्थ-द्वय-बोधकेन शब्देनेत्य् अर्थः । शृण्व् इति । शृण्वन्तम् अपि राजानं प्रति पुनः प्रेरणं रहस्यत्वेन तन्त्रेणोच्यमानम् अर्थं विशिष्टावधापयितुं नाना-तन्त्र-विधानेनेति कलौ तन्त्रस्य प्राधान्यं दर्शितम् इति अर्थान्तरं तन्त्रस्याप्य् आच्छादनार्थं ज्ञेयं कृष्णेति सर्व-कलि-युग-पक्षे कृष्ण-वर्णं कृष्ण-वर्ण-देहं रूक्षत्वं व्यावर्तयति त्विषा कान्त्या अकृष्णम् इन्द्र-नील-मणि-वद् उज्वलम् इत्य् अर्थः । एक-कलि-युग-पक्षे कृष्ण-वर्णं किन्तु त्विषा कान्त्या अकृष्णं शुक्ल-रक्त-श्यामानाम् उक्तत्वात् परिशेष्येण पीतम् अन्तः कृष्णं बहिर् गौरम् इत्य् अर्थः । यद् वा कृष्णावतार-लीलादि-वर्णनात् कृष्ण-वर्णं साङ्गोपाङ्गेत्य्-आदिकम् उभय-पक्षे\ऽपि स्पष्ट-प्रच्छन्नत्वाभ्यां तुल्य एवार्थः ॥१३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ नन्द-सूनोर् नामान्य् आह—आसन्न् इति । अस्य

सत्-पुण्डरीक-नयनं मेघाभं वैद्युता वरम् ।

द्विभुजं मौन-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥

इत्य्-आदि-श्रुतेर् अनादितोऽभ्र-श्याम-वर्णस्य त्वद्-आत्मजस्य शुक्लादयस् त्रयो वर्ण-रूपाण्य् आसन् । कीदृशस्य ? अनुयुगं तत्-तद्-युगे तनूर् मूर्तीर् गृह्णतः प्रकतयः, आविर्भाव-तिरोभावाव् अस्त्योक्ते ग्रह-म्चने इति स्मरणात् । तत्र सत्ये युगे शुक्लोऽस्य वर्णः, त्रेतायां रक्तः, कलौ तु पीतः । इदानीम् अस्मिन् द्वापरावसाने तु स शुक्लादि-वर्णः कृष्णताम् एतद्-रूपताम् अत्रान्तर्-भूतताङ्गतः परावरेशो महद्-अंश-युक्त इत्य्-आद्य्-उक्तेः । तथा च परिपूर्णः कृष्ण-नामा चायं—कृष्णो वर्णश् च मे यस्मात् तस्मात् कृष्णोऽहम् अर्जुन इति नारायणीयाच् च ।

पीतो वर्णोऽस्यासीद् इति प्राचीन-पीतावतारापेक्षया सोऽपि न कलि-सामान्ये तत्र हरिवंशादिषु कृष्ण-वर्णस्योक्तेः । किन्त्व् एतद् द्वापरान्तर-कलाव् इति बोध्यम् ॥१३॥


॥ १०.८.१४ ॥

प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः ।

वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राग् अयम् इति सामान्योक्त्या ऋषिर् अयं जन्मान्तर-गतं नाम कथयतीति नन्दो मन्यते स्म । अत एनं वासुदेव इति संप्रचक्षत इति ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मथुरायां कारा-गृहे इति गोपित्वोक्तं क्वचिद् इति ऋषिर् अयं गर्गः । जन्मान्तर-गतम् अन्यावतारी अयम् । अत एव वसुदेव-जातत्वाद् एव । वासुदेव इति । क्रमाद् अमुं नारद इत्य् अबोधि सः इतिवन् निपातेनोक्तत्वात् प्रथमा । अभिज्ञा वैयाकरणाः । वस्तुतस् तु—वसति सर्व-भूतेष्व् अन्तर्यामितया स्व-विभूतिभिर् विश्वं वासयत्य् आच्छादयति वा वासुः दीव्यति क्रीडते विजिगीषते व्यवहरते द्योतते स्तूयते काम्यते गच्छति देवः वासुश् चासौ देवश् चेति वासुदेवः ।

छादयामि बृहद् विश्वं भूत्या सूर्य इवांशुभिः ।

सर्व-भूताधिवासश् च वासुदेवस् ततः स्मृतः ॥

वसनात् सर्व-भूतेषु वसुत्वाद् देवयोनितः ।

वासुदेवस् ततो ज्ञेयो योगिभिस् तत्त्व-दर्शिभिः ॥ इत्य् उद्योग-पर्वणि ।

सर्वत्रासौ समस्तं च वसत्य् अत्रेति वै यतः ।

ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ इति विष्णु-पुराणे ।

वसन्ति देवा अत्रेति वासुः करण-ग्रामस्तं देवयति द्योतयतीति वा वासुदेवः ।

वासुः स्यात् करण-ग्रामस् तेषु देव-निवासतः ।

तत्-प्रकाश-करो देवो वासुदेव इति स्मृतः ॥ इति पुराणान्तरात् ।

यो\ऽन्तः प्रविश्य मम वाचम् इमां प्रसुप्तां

सञ्जीवयत्य् अखिल-शक्ति-धरः स्व-धाम्ना ।

अन्यांश् च हस्त-चरण-श्रवण-त्वग्-आदीन्

प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥ [भा।पु। ४.९.६] इति ध्रुवोक्तेश् च ॥१४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तवात्मज इत्य् उक्त-न्यायाद् अद्भुत-परमेश्वरत्व-वसुदेव-पुत्रत्व-शङ्का-निरासार्थम् । एवम् अग्रे\ऽपि । तद्-दार्ढ्यार्थं वासुदेव इति पूर्ववत् सङ्गोपितम् । अभिज्ञा इत्य् अनेन शं-शब्देन च वसुदेवाज् जातत्वेनेव वासुदेव इति तत्त्वतो मुख्य-निरुक्तिर् अभिप्रेता ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्राग् इति प्रकटार्थे तवात्मजोऽयं क्वचिद् अन्यत्र वसुदेवाद् अपि जातः । तत् कथं ? तत्राह—प्राक् अस्य तस्य च पूर्व-जन्मनीत्य् अर्थः । एवं श्री-वसुदेवस्य पूर्व-जन्मन्य् अपि तन्-नामासीद् इति श्री-नन्देनावगतम् अप्रकटार्थे इहैव जन्मनि पूर्वं कंस-कारागृहे वसुदेवाज् जातो\ऽपि तवात्मज एवेति पूर्व-सिद्धान्तानुसारेण अन्यत्रा तवात्मज इत्य् अस्याधिक्यं स्यात् ।

अर्थ-द्वये\ऽपि श्रीमन् ! हे परम-भाग्य-सम्पद्-युक्त ! इति तादृश-पुत्र-प्राप्तेः । पाठान्तरे श्रीमान् परम-शोभा-सौभाग्याभ्यां युक्तोऽयं तवात्मजः । अभिज्ञा इत्य् अनेन निरुक्त्य्-अन्तरात् तन्निरुक्तेर् एवान्तरङ्गत्वं बोध्यते ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वास्तवार्थस् तु--प्राग् इति । तवात्मजोऽयं क्वचित् कार्ये निमित्त एव वसुदेवस्य जात इति एवात्मजत्वम् एवास्य स्वाभाविक इति भावः । वक्ष्यते च सुतस्य ते [१०.८.१५] इति ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राक् पूर्वं वसुदेवस्य वसुदेवात् तवात्मजो\ऽयं क्वचिद् एकान्त-स्थले जात इति । प्राक् पूर्व-जन्मनि वसुदेवस्यापि पूर्व-जन्मनि वासुदेव इत्य् एव नामासीद् इति नन्दो बुध्यते स्म । अभिज्ञा इति न केवलम् अहम् एक एवेति प्रामाण्यं दर्शितम् ॥१४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अयं तवात्मजो वसुदेवस्य जातः । कथम् ? इत्य् आह—प्राक् पूर्व-जन्मनि इति तस्य कदापि वासुदेव इत्य् एव नामासीद् इत्य् अर्थः । एतद् [विवस्वान्]{।मर्क्} प्राक् क्वचिद् एकान्ते स्थाने कंस-कारायाम् अयं तवात्मजो वसुदेवस्य देवक्यां जातः । स च तेनानीतोऽस्मिन् प्रविष्ट इति तु रहस्यत्वान् न प्रकाशितम् । अतो वासुदेव इत्य् अभिज्ञाः सम्प्रचक्षते, न त्व् अहम् इति भावः ॥१४॥


॥ १०.८.१५ ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

गुण-कर्मानुरूपाणि तान्य् अहं वेद नो जनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणानुरूपाणि ईश्वरः सर्व-ज्ञ इत्य्-आदीनि, कर्मानुरूपाणि गो-पतिर् गोवर्धनोद्धरण इत्य्-आदीनि । तानि सर्वाण्य् अहम् अपि नो वेद, जना अपि नो विदुर् इति ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रथमाद् आदि-पदात् भक्त-वत्सल-दीनदयालुर् इत्य्-आदयो ग्राह्याः । द्वितीयात् मुरारि-मधुसूदन-इत्य्-आदयश् च ॥१५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रूपाणीति दृष्टान्तत्वेनोक्तम्, यथा शुक्लादि-रूपाणि तथा नामान्य् अपि जन्मान्तर-सम्बन्धीनि बहूनि सन्तीत्य् अर्थः । तत्र गुणानुरूपाणि रूपाणि सत्त्वादि-गुणाधिष्ठातृत्वेन शुक्लादीनि । किं वा, चित्ताद्य् अधिष्ठातृ-चतुर् व्यूहादि-मूर्तयः । किं वा, भक्त-वात्सल्यादि-गुणानुरूपाणि चतुर्भुजादीनि कर्मानु-रूपाणि श्री-मत्स्यादीनी प्रलयार्णवादौ परिभ्रमणादि-चेष्ट्या, अथ गुणानुरूपाणि नामानि भक्त-वत्सलः इत्य् आदीनि कर्मानु-रूपाणि जगत् स्रष्टा, पालकः इत्य् आदीनि, तान्य् अहम् एव वेद, न तु जना विदुरतो\ऽनन्तत्वात् तानि वक्तं न शक्यन्त इत्य् अर्थः, वस्तुतस् तु लोकेष्व् असम्भाव्यत्वात् तान्य् अधुना न प्रकाश्यन्त इति भावः । सन्तीत्य् अनेन सच् चिद् आनन्द-घन-रूपाणाम् इव नाम्नाम् अपि नित्यता सूचिता । सा च गुण-कर्मानुरूपाणीति साधिता । गुणानां नित्य-भगवत् अमवेतत्वेन नित्यता सिद्धा, तथा कर्मणां च श्री-गोवर्धन-धर-कालिय-मर्दनादि-श्री-मूर्तिषु भक्त-जन-चित्तान्तः परिस्फुरत् तादृश-रूपेषु च सदानुभूयमानत्वेन तत् सिद्ध्या तद् अनुसारिणां नाम्नाम् अपि स्वत एव तत् सिद्धेः । अत एव—अनाख्येयाभिधानं त्वाम् अनाख्येय-प्रयोजनं [वि।पु। ५.१८.५२] इत्य्-आदि श्री-विष्णु-पुराणे । तच् च सर्वं श्री-भागवतामृतोत्तर-खण्डे विवृतम् एव । एवं गुण-कर्मणाम् आनन्त्याद् रूपाणीव नामान्य् अनन्तानि लौकिकवत् प्रतीयमानान्य् अपि सच् चिद् आनन्दत्वेनालौकिकानि तद् उपासक-हृदयैकवेद्य-तत्त्वानि नाहम् अपि वेद, जना अपि न विदुर् इति तत्त्वार्थः ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रूपाणीति दृष्टान्त्वेनोक्तं यथा शुक्लादि-रूपाणि तथा नामान्य् अपि जन्मान्तर-सम्बन्धीनि बहूनि सन्तीत्य् अर्थः । तान्य् अहं वेद जनास् तु न विदुर् इत्य् अर्थः । लोके\ऽप्य् असंभाव्यत्वात् तानि बहूनि तु न प्रकाश्यन्त इति भावः । अप्रकटार्थे तु गुणानुरूपाणि रूपाणि श्री-नर-नारायण-नृसिंहादीनि कर्मानुरापाणि श्री-मत्स्यादीनि अथ गुणानुरूपाणि नामानि भक्त-वत्सल इत्य् आदीनि कर्मानुरूपाणि जगत् स्रष्टा जगत् पालक इत्य् आदीनी सन्तीत्य् अनेन सच्छिदानन्द-घन-रूपाणाम् इव नाम्नाम् अपि नित्यता सूचिता सा च गुण-कर्मानुरूपाणीति साधिता गुणानां नित्य-भगवत् समवेतत्वान् नित्यतासिद्ध्या तथा कर्मणां च श्री-गोवर्धन-धर-कालिय-मर्दनाद्य् उपासनानाम् अनादि-सिद्ध-वेद-प्रसिद्धेर् अत एव तत्-तद्-उपासक-परम्परायां च विच्छिन्नतापत्तेः श्री-भगवतो भक्तेच्छामयत्वाच् च तन् नित्यतासिद्धा तद् अनुरूप-नाम्नाम् अपि तथात्व-सिद्धिः तच् च सर्वं श्री-भागवतामृते निवृत्तम् अस्ति एवं गुण-कर्मनाम् आनन्त्याद् रूपाणीव नामान्य् अनन्तानि लौकिकवत् प्रतीयमानान्य् अपि सच्चिदानन्दत्वेनालौकिकानि तद् उपासक-हृदयैक-वेद्य-तत्त्वानि नाहम् अपि वेद जना अपि न विदुर् इत्य् अर्थः । अत उक्तं श्री-विष्णु-पुराणे—अनाख्येयाभिधानत्वाम् अनाख्येय-प्रयोजनम् [वि।पु। ५.१८.५२] इत्य्-आदि । द्वितीय-स्कन्धे—

तद् अश्मसारं हृदयं बतेदं

यद् गृह्यमाणैर् हरिनाम-धेयैः ।

न विक्रियेताथ यदा विकारो

नेत्रे जलं गात्र-रुहेषु हर्षः ॥ इति ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : बहूनीति । प्रकटार्थे कति वाच्यानीति भावः । वास्तवार्थे तु गूणानुरूपाणि श्री-नृसिंह-रूपादीनि कर्मानुरूपाणि श्री-कूर्मादीनि ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बहूनि इति न केवलं कृष्ण इति नाम वसुदेव इति नाम मयैव कृतम् इति भावः । रूपाणीति न केवलं मयोक्तानि शुक्लादीन्य् एवेत्य् अर्थः । गुण-कर्मानुरूपाणि इति भक्त-वत्सल-सर्वज्ञ-गोवर्धन-धरादीनि कृष्ण-शब्दः सत्तार्थोणश् चामन्दात्मकस् ततः कृष्णः भक्ताद्य् आकर्षणाद् अपि तद् वर्णत्वाच् च मन्त्रमय-वपुष इति गोविन्दो गोविचारणाद् अपीति केशवाचार्यादि-व्याख्यानाद् इत्य् अर्थः । तान्य् अहं दैवज्ञो\ऽपि न वेद जना नो विदुर् इति किं पुनर् इत्य् अर्थः । नन्दस् तु मत्-पुत्रस्य महा-पुरुषत्वान् नाना-जन्म-गतम् इदं सर्वज्ञत्वाद् अयं वक्तीति बुध्यते ॥१५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : किं बहुना ? ते सुतस्य बहून्य् अनन्तानि गुणानुरूपाणि सर्वज्ञ इत्य्-आदीनि कर्मानुरूपाणि सर्व-कारण इत्य्-आदीनि नामानि रूपाणि च सन्ति, तान्य् अहम् अपि नो वेद जना अपि नो विदुर् अनन्तत्वात् ॥१५॥


॥ १०.८.१६-१७

एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः ।

अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥

पुरानेन व्रज-पते साधवो दस्यु-पीडिताः ।

अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जातक-फलम् आह—एष इति आधास्यद् आधास्यति ॥१६॥ अनेन रक्ष्यमाणाः समेधिताश् च दस्यून् विजिग्युर् इति ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एष कृष्णः । गोप-गोकुले नन्दयतीति तथा । यदि यूयम् अमुम् अचक्ष्यत तर्हि एष वश्श्रेय आधास्यत् लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति । आदधाते लृङ् । सर्व-दुर्गाणि निखिलक्-दुःखानि । अञ्जः सम्यक् ॥१६॥

पुरा पृथ्व्-अवतारे । अराजके राष्ट्रे समेधिता वर्धिताः । दस्यून् नास्तिकान् । वेनेन सर्वे स्वराज्य-काले वेद-निन्दनान् नास्तिकाः कृतास् ते च दस्यवश् चौरा भवन्त्य् एव धर्म-चौर्यतः । तेषां चोरत्वम् अभियुक्तैर् उक्तम् ।

वेदे काञ्चन-पत्तने परिलसद्-वेदान्त-दुर्गो महान्

मीमांसा परिखा विभाति परितः शाब्दं लसद्-गोपुरम् ।

योगो यामिनि-जागरूक-निचयः साङ्ख्यं विवेकात्मको

धर्मं चोरयितुं विशन्ति सुगत-नैयायिकाः कुक्कुराः ॥ इति ।

पुरा जन्मान्तरे । प्रकटार्थे साधवो देवा दस्यवो दैत्याः । अराजके इन्द्रस्य पद-च्युतौ इति सन्दर्भः चक्रवर्ति-तोषिणी-काराः ॥१७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपान् गोकुल-शब्देन तत्रत्यांश् च सर्वान् एव नन्दयति हर्षयतीति तथा स इति तद् अवतार-स्वभाव उक्तः । यद् वा, हे गोप ! हे राजन्न् इत्य् आदरात् । किं वा, हे पृत्वीपते ! त्वयैव पृत्वी रक्षितेति भावः । अतो वो युष्माकं व्रज-जनानां सर्वेषाम् एव श्रेय ऐहिकाम् उष्मिक-मङ्गलम् आधास्यति स्वत एवार्पयिष्यतिक् यद् वा, सामान्येन वो युष्माकं वैष्णवानाम् । किं वा, वो युष्मदीय एव सर्वेषाम् अपि श्रेय आधास्यत्य् एव । विशेषतश् च गोकुलं सर्वम् इदं हर्षयिष्यतीत्य् अर्थः । अतो\ऽनेन कृष्णेन हेतुना सर्वाणि दुर्गाणि कंसाद्य् उपद्रवानञ्जोनायासेन स्वयम् एव तरिष्यथ ॥१६.१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपान् गोकुल-शब्देन तत्रत्यांश् च सर्वान् एव नन्दयति हर्षयतीति तथा सः इति तस्य स्वभाव उक्तः शीलार्थे प्रत्ययात् कर्मणापि वो युष्माकं व्रजजनानां सर्वेषाम् एव श्रेयः ऐहिकाम् उष्मिक-मङ्गलम् आधास्यति तथा अनेन कृष्णेन हेतुना सर्वाणि दुर्गाणि कंसाद्य् अपद्रवान् अब्जः अनायासेन तरिष्यथ ॥१६.१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आधास्यत् आधास्यति । गोपानां गवां च कुलं नन्दयतीति सः । तेषां कुलस्य नन्दनः ब्रह्म-मोहने पुत्र इति वा । हे गोपेति वा । अञ्जः सुखेन सर्व-दुर्गाणि इति यदा यदोपद्रव आयास्यति, तदा त्वद्-इष्ट-देवेन श्री-नारायणेनाविष्टोऽयं त्वत्-पुत्रः । एवं त्वयायम् आश्रयितव्य इतीति भावः ।

पुरा जन्मान्तरे साधवो देवाः दस्यवो दैत्या अराजके इन्द्रस्य पद-च्युतौ ॥१६-१७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जातक-फलम् आह—एष इति । एष तव सुतः वो भुक्ति-मुक्ति-लक्षणं श्रेय आधास्यत् आधास्यति । अनेन हेतु-भूतेन यूयं सर्व-दुर्गाणि अञ्जस् तरिष्यथ ॥१६-१७॥


॥ १०.८.१८ ॥

य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः ।

नारयोऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतस्मिन् तव पुत्रे विष्णु-पक्षान् विष्णु-सहायान् । पक्षः पार्श्व-गरुत्-साध्य-सहाय-बल-भित्तिषु इति यादवः । परम-पुण्यवति । यद् वा, हे महा-भागे इति यशोदा-सम्बोधनं, सस्त्रीको धर्मम् आचरेत् इति न्यायात् । अरयो बाह्याः प्रतिपक्ष-जना आन्तराः कामाद्याश् चेति तोषिण्याम् ॥१८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-भागे तु परम-पुण्यवतीत्य् असम्भावना निरस्ता, वस्तुतस् तु भागो भगम् एव निजाशेष-भगवत्ता प्रकटन-पर इत्य् अर्थः । यद् वा, हे महा-भागे इत्यते श्री-यशोदा-सम्बोधनम्—सपन्तीको धर्मम् आचरेत् इति न्यायात्, तथा भर्तु भार्यया सहाभेदात्, तथा स्नेहभरेण पुत्रस्य गुण-शुश्रूषया तत्रेवोपविष्टायास् तस्याः प्रहर्षार्थं सर्वत्रान्य् अत्र च श्री-नन्द-प्राधान्यात् सम्बोधनम् उक्तम् एव । मानवा इति जात्य् आद्य् अपेक्षा निरस्ता, वस्तुतस् तु सङ्गोपनार्थम् एव विशेषतश् च मर्त्य-लोके\ऽवतीर्णत्वेन मनुष्याणाम् एव प्रीति-सम्भवात् । अरयो बाहोः कंसादयः प्रीति-कर्तृ-परिपक्षा वान्तराश् च कामादयः । विष्णु-पक्षान् देवान् दैत्या इव । यद् वा, वैष्णवान् आसुरा असुर-प्रकृतय इव नाभिभवितुं शक्नुवत्यतः कदाचित् कथञ्चिद् अपि कंसादिभ्यो युष्माभिर् नमेतव्यम् इति भावः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महा-भागे तु परम-पुण्यवति ! यद् वा,हे महा-भागे इत्य् अन्ते यशोदा-सम्बोधनम्, स-स्त्रीको धर्मम् आचरेत् इति न्यायात् । महा-भागा इति क्वचित् पाठः । मानवा जीव-मात्राणि इति नृ-गतिं विविच्येत्य् आदिवत् । अरयो बाह्याः प्रतिपक्ष-जनाः । आन्तराश् च कामादयः । विष्णु-पक्षान् देवान् दैत्या इव अप्रकटार्थे भागो भग एव निजाशेष-भगवताप्रकटन-परे विष्णु-पक्ष-शब्दो देवता-पर्यायो ज्ञेयः । समुदारस्यैक-देशोऽपि दृष्टान्तो भवतीति न चास्मिन्न् इव-शब्दोऽनुपपन्नः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.१९ ॥

तस्मान् नन्दात्मजोऽयं ते नारायण-समो गुणैः ।

श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्माद् एतस्मिन् प्रीतिमतोऽरयो नाभिभवन्ति, तस्माद् एनं गोपायस्व प्रीत्या रक्ष । अयं तवाग्रे स्थितस् तवात्मजो गुणादिभिर् नारायणेन समः । वस्तुतस् तु नारायणः समो येन, स नारायण-समः । साम्यत्वोक्त्या नारायणतोऽस्याधिक्यं सूचितम् । यथा चन्द्र-समं मुखम् इत्य् उक्तेर् नहि मुखस्य चन्द्रता, किन्तु चन्द्रस्याधिक्यं मुखस्य न्यूनत्वं लक्ष्यते । तद्-भिन्नत्वे सति तद्-गत-भूयो धर्मवत्त्वम् इत्य् अस्यैव तुल्यत्व-लक्षणम् । आह्लादादि-जनकत्वेन चन्द्र-साम्यता, न तु प्रकाशकत्वादिनापि । एवं नारायणस्यापि पालकत्वादिना नन्द-नन्दन-साम्यं न तु सर्वथा तद्-अंशत्वात् । नारायणाङ्गं नर-भू-जलायनात् इति वक्ष्यमाणत्वात् । इह सर्वज्ञ-सर्वथा सत्यवादि-श्री-गर्गेणात्मज इत्य् उक्तम् । तेन पूर्वोक्तं नन्द-गृहे सर्वेश्वरावतार इति न विस्मर्तव्यम् इत्य् आह—श्री-शुकदेव इति । आत्मनेपदम् आर्षम् ।

यद् वा, गोपानाम् [अये शुभावह-विधय्]{।मर्क्} श्वेनैव समाहितोऽयम् । यद् वा, गोपानाम् आये योगे स्वे क्षेमे च समाहितः । नारायण-साम्येन तन्-नामान्यस्य नामानि तथा ततो विशिष्टेनान्यपि भविष्यन्तीति ।अतः श्रीनन्देनैव गोकुले विख्यापितानि मुकुन्दादि-नामानि च श्री-गोपादयो वदन्तीति ज्ञेयम् । नन्देति श्लेषेण यस्मान् नारायण-समस् तस्मात् त्वम् अधुनानन्द आनन्दं कुर्व् इत्य् अर्थः ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्मान् नन्दात्मजो\ऽयं ते नारायण-समो गुणैः—मा श्रीस् तया सह वर्तते इति समः, गुणैर् नारायणः समः सविभूतिर् यस्मात्, यस्य श्रिया नारायणो\ऽपि श्रीमान् भवति, स एवायं परात्परः श्री-कृष्ण इत्य् अर्थः । यद् वा नारायणाद् अपि समः सश्रीकः ॥१९॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। १.५.१२-१३] नारायण एव समो यस्य सः, सो\ऽपि कैः श्री-गुणादिभिर् एव, न तु मधुर-मधुर-वेश-विहार-विशेष-विस्तारणादिना । यद् वा, गुणादीनाम् उत्तरेण सम्बन्धः। [“गोपाय-सुसमाहितः” इति पाठे] गोपानां तादृशं आयः प्रेम-सम्पदां वृद्धिर् लाभो वा । यद् वा, अयः शुभावहो विधिः, तस्मिन् सुसमाहितः परमोद्युक्तः । स्वेति [“गोपायस्व समाहितः” इति] पाठे आय-स्व-शब्दाभ्यां योग-क्षेमे अभिधीयेते । अतस् तद्-अर्थम् अत्र रूप-गुण-लीला-विशेष-प्रकटनात् वैकुण्ठे च तद्-अविधानात् अयम् एव साक्षाद् भगवान् श्री-नारायणाद् अप्य् अधिक इति भावः ॥१९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गुणादिभिर् नारायणेन समः । नारायणोऽत्र महा-वैकुण्ठेशोऽत एव श्री-यशोदादि-द्वारा तद्-वार्ता-श्रवणादिना व्रजे श्री-गोप्यादिभिर् एकविंशाद्ध्यायादौ श्री-कृष्णस्य मुकुन्दादि-नाम-प्रयोगः । यद् वा, गुणादिभिर् नारायण एव समो यस्येति नारायणाद् अपि माहात्म्यम् अधिकं बोधितम् । उपमानाद् उपमेयस्य किंचित् सादृश्य-मात्रेण न्यूनतापत्तेः । तत्र गुणाः करुणादयः । श्रीर् धनादि-सम्पत् शोभा वा । कीर्तिर् यशः ख्यातिर् वा । अनुभावो ज्ञानं प्रभावो वा । यद् वा, गुणा ऐश्वर्यस्य समग्रस्य इत्य्-आद्य्-उक्ता भग-शब्द-वाच्याः षट् । तेषाम् एव विवरणम्—श्रियेत्य् आदि । तत्र वैराग्यस्यात्रानुपयोगाद् धर्म-ज्ञानयोश् चानुभाव एवान्तर्भावात् त्रय एवोक्ताः । यद् वा, गुणादीनां परेणान्वयः । सर्वथा सर्वात्मना च रक्षेत्य् अर्थः ।

वैष्णवाः [श्री-वल्लभाचार्याः सुबोधिन्यां टीकायां] किञ्चिद् आहुः—अक्षरं पुरुषोऽन्तर्यामी चेति त्रिविधो नारायणः । तस्य (१) जीव-वर्ग-परिग्राहकाः, (२) स्व-तुल्यतापादकाः, (३) भक्ति-जनकाश् चेति क्रमेण त्रिविधा गुणास् तैस् तत्-समः । तथा (१) वैकुण्ठे लक्ष्मी-सहितः (२) सूर्य-मण्डले सूर्य-देव-सहितः, (३) भूमौ यज्ञाधिष्ठाता चेति ब्रह्माण्ड-मध्ये त्रयो नारायणाः क्रमेण नित्यं तेषु वर्तमानैः श्र्य्-आदिभिस् तैश् च सम इति ।

अतः सुसमाहितस् तद् एक-निष्ठ-चित्तः परमावहितो वा सन् एनं गोपय । बाल्येऽस्मिन्न् अस्य रक्षायां प्रयत्नं कुर्व् इत्य् अर्थः । गोपयस्वेति पाठेऽपि स एवार्थः । यद् वा, एनं गोप गुप्तं कुरु, न तु सर्वत्र प्रकटय, दैवात् प्राप्तं महा-निधिम् इवेत्य् अर्थः । इदं च निज-भक्ति-विशेषेण तस्य स्नेह-विवृद्धये । किं वा, दुष्ट-कंसादि-भयाद् उक्तम् । अय-सुसमाहितः—अयेन शुभावहेन विधिना सावधानः । अथवा, गोपानाम् अयो लाभस् तस्मिन् सुसमाहितोऽयम् इति । पाठान्तरे अय-स्व-शब्दाभ्यां योग-क्षेमे अभिहिते । यद् वा, अयो वैकुण्ठादि-गतिः । स्वं प्रेम-लक्षणं धनम् । तयोः समाहितोऽतः श्री-नारायणस्य नामान्य् एवास्य नामानि । तथा ततो विशिष्टान्य् अन्यान्य् अपि भविष्यन्तीति भावः । हे नन्देति, श्लेषेण नन्देति क्रिया-पदं वा । अतोऽधुना नन्दं कुर्व् इति भावः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गुणादिभिर् नारायणेन परम-वैकुण्ठनाथेन समः । []{।मर्क्}नारायणोऽत्र महा-वैकुण्ठेशोऽत एव श्री-यशोदादि-द्वारा तद्-वार्ता-श्रवणादिना व्रजे श्री-गोप्यादिभिर् एकविंशाध्यायादौ श्री-कृष्णस्य मुकुन्दादि-नाम-प्रयोगः

यद् वा, गुणादिभिर् नारायण एव समो यस्येति नारायणाद् अपि माहात्म्यम् अधिकं बोधितम् । उपमानाद् उपमेयस्य किंचित् सादृश्य-मात्रेण न्यूनतापत्तेः । तत्र गुणाः करुणादयः । श्रीर् धनादि-सम्पत् शोभा वा । कीर्तिर् यशः ख्यातिर् वा । अनुभावो ज्ञानं प्रभावो वा । यद् वा, गुणा ऐश्वर्यस्य समग्रस्य इत्य्-आद्य्-उक्ता भग-शब्द-वाच्याः षट् । तेषाम् एव विवरणम्—श्रियेत्य् आदि । तत्र वैराग्यस्यात्रानुपयोगाद् धर्म-ज्ञानयोश् चानुभाव एवान्तर्भावात् त्रय एवोक्ताः । यद् वा, गुणादीनां परेणान्वयः । सर्वथा सर्वात्मना च रक्षेत्य् अर्थः ।

वैष्णवाः [श्री-वल्लभाचार्याः सुबोधिन्यां टीकायां] किञ्चिद् आहुः—अक्षरं पुरुषोऽन्तर्यामी चेति त्रिविधो नारायणः । तस्य (१) जीव-वर्ग-परिग्राहकाः, (२) स्व-तुल्यतापादकाः, (३) भक्ति-जनकाश् चेति क्रमेण त्रिविधा गुणास् तैस् तत्-समः । तथा (१) वैकुण्ठे लक्ष्मी-सहितः (२) सूर्य-मण्डले सूर्य-देव-सहितः, (३) भूमौ यज्ञाधिष्ठाता चेति ब्रह्माण्ड-मध्ये त्रयो नारायणाः क्रमेण नित्यं तेषु वर्तमानैः श्र्य्-आदिभिस् तैश् च सम इति ।

अतः सुसमाहितस् तद् एक-निष्ठ-चित्तः परमावहितो वा सन् एनं गोपय । बाल्येऽस्मिन्न् अस्य रक्षायां प्रयत्नं कुर्व् इत्य् अर्थः । गोपयस्वेति पाठेऽपि स एवार्थः । यद् वा, एनं गोप गुप्तं कुरु, न तु सर्वत्र प्रकटय, दैवात् प्राप्तं महा-निधिम् इवेत्य् अर्थः । इदं च निज-भक्ति-विशेषेण तस्य स्नेह-विवृद्धये । किं वा, दुष्ट-कंसादि-भयाद् उक्तम् । अय-सुसमाहितः—अयेन शुभावहेन विधिना सावधानः । अथवा, गोपानाम् अयो लाभस् तस्मिन् सुसमाहितोऽयम् इति । पाठान्तरे अय-स्व-शब्दाभ्यां योग-क्षेमे अभिहिते । यद् वा, अयो वैकुण्ठादि-गतिः । स्वं प्रेम-लक्षणं धनम् । तयोः समाहितोऽतः श्री-नारायणस्य नामान्य् एवास्य नामानि । तथा ततो विशिष्टान्य् अन्यान्य् अपि भविष्यन्तीति भावः । हे नन्देति, श्लेषेण नन्देति क्रिया-पदं वा । अतोऽधुनानन्दं कुर्व् इति भावः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नारायण-परम-व्योमाधिप एव समो यस्य तादृशोऽपि श्र्य्-आदिभिर् द्वारैः गोपानाम् अये शुभावहे विधौ सुसमाहितं पाठान्तरे स्वेन स्वयम् एव समाहित इति वास्तवोऽर्थः। प्रकटार्थे तु यद्यपि नारायणस्य समस् तथापि तवात्मजतां प्राप्त इति तवैव गोपनीय इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ताम् एव स्वयं-भगवत्तां प्रतिपादयति—तस्माद् इत्य्-आदि । हे नन्द ! तस्माद् अयं ते आत्मजो गुणैर् नारायण-सम इति लोक-भियोक्तम् । तत् तु सरस्वती स्वयम् अन्यथा व्याख्याति । नारायणोऽपि समः स-श्रीको यस्मात् । समानामा श्री-यस्य स तथा । अथवा, गुणैर् नारायणम् अपि समयति विक्लवयति नारायण-समः । मनोहरादिवत् । नात्र कर्मण्य् अन्, समष्टम् अवैक्लव्ये चुर्-आदिः । अथवा, समयति समः । नारायणस्यापि समो नारायण-समः महीधरादिवत् । यद् वा, नारायणोऽपि समो यस्मात् नारायण-समः । मानं मा । तत्-सहितः प्रमेय इति स त्व् अप्रमेयः—नारायणोऽङ्गम् इति वक्ष्यमाण-विरोध-भङ्गादि-व्याख्या ॥१९ ॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नारायण-सम इति त्वद्-इष्ट-देवेन सन्तुष्टेन श्री-नारायणेन स्व-समः पुत्रस् तुभ्यं दत्त इति भावः । अतो मुकुन्द-मधुसूदन-नारायणादि-नामभिर् अयम् अप्य् अभिधीयताम् । किन्तु श्रेयांसि बहु-विघ्नानि इति विभाव्य सुसावधानः सन् गोपाय प्रतिक्षणं पालय । रक्षितः पुत्रोऽयं ते नारायण इव सर्वोपद्रवेभ्यो रक्षिष्यतीति भावः । गोपयस्वेति पाठे आत्मने पदम् आर्षम् ।

वस्तुतस् तु नारायणः समो यस्य तत्रापि गुणादिभिर् एव न तु दैत्य-मोक्षदत्व-भक्त-महाभाव-प्रदत्व-लक्ष्मी-दुर्लभ-श्री-रास-विहारित्वादिभिर् माह-गुणादिभिर् इति सर्वोत्कर्ष आत्यन्तिकः श्री-नारायणाद् अपास्य व्यञ्जितः । गोपानम् अये लाभे । अये शुभावह-विधौ वा सुसमाहितः ॥१९॥


॥ १०.८.२० ॥

श्री-शुक उवाच—

इत्य् आत्मानं समादिश्य गर्गे च स्व-गृहं गते ।

नन्दः प्रमुदितो मेने आत्मानं पूर्णम् आशिषाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इति चात्मामण् प्रति समादिश्य । आत्मानं कृष्णं वा । गर्गे गेते सति आशिषाम् आशीर्भिः ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मानं नन्दम् । यद् वा, आत्म-शब्दस्य बह्व्-अर्थ-भ्रम-वारणाय कृष्णं वेति । आत्मा पुंसि स्वभावेऽपि प्रयुक्त-मनसोर् अपि । धृताव् अपि मनीषायां शरीर-ब्रह्मणोर् अपि ॥ इति मेदिनी ॥२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मानं परमात्मत्वेन जगतां गुरुम् अपि श्री-कृष्णं प्रति, च-काराद् बलदेवं च सम्यग् आदिश्य तिलकादि-धारण-विधिम् आज्ञाप्येत्य् अर्थः । स्व-गृहं गत इत्य् अन्यथा तस्य साक्षात् तादृश-मानायोग्यत्वम् । ननु तथापि सर्व-भागवत-वर्ग-वन्द्यस्य तस्य मानो नोचितः ? सत्यम्, परम-हर्षाकुलत्वाद् इत्य् आह—प्रकर्षेण मुदित इति ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्व-गृहं गत इति तद्-अग्रे सम्भ्रमादिना तद्-विशेषास्फूर्तेः । अत एव प्रकर्षेण मुदित इति । एतद्-अनन्तरं निज-पुरोहितादीन् आनीय प्रकटम् एव स्वयं नाम-करण-महोत्सवः कृत इति ज्ञेयम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गत इति तद्-अग्रे सम्भ्रमादिना तद्-विशेषास्फूर्तेः ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानं स्वं प्रति प्राणानाहृत्य मौग्ध्येन दुष्टयोः पूतनानसोः शिष्ट-वर्ग-प्रकृष्टस्य गर्गस्यापि मनो\ऽहरत् ॥२०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.२१ ॥

कालेन व्रजताल्पेन1 गोकुले राम-केशवौ ।

जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

बाल-क्रीडा-चमत्कारैः कृष्णो रामेण संयुतः ।

परमानन्दम् आधत्त व्रजे नन्द-यशोदयोः ॥*॥

पूर्णत्वम् एव दर्शयन्न् आह—कालेन इति ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चमत्कारैश् चमत्कृति-जनकैः कर्मभिः [*] पूर्णत्वम् अवतारित्वम् । रिङ्गमाणौ गच्छन्तौ ॥२१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कालेन व्रजता इति, शकट-भञ्जनान् नाम-करणाच् च, किञ्चित् काले गते सतीत्य् अर्थः । गोकुले व्रज-मध्ये इति बहिर् वनादिकं व्यवच्छिन्नम्, यदा तत्रैव तन्-महा-मधुर-लीलया तत्रत्यानां महा-भाग्यं बोधयति । एवम् अग्रे\ऽपि बोद्धव्यम् । रामस् तल्-लीलया गोकुल-रमाणात् । को ब्रह्मा ईशश् च तौ वयते ऐश्वर्येण व्याप्नोतीति केशवः परमेश्वरः । तौ इति रिङ्गण-लीलया जगन्-मनो-हरताभिप्रेता, केशवस्य पश्चान् निर्देशो\ऽनुजत्वेन ।

हे तात ! इति कथ्य-बाल्य-लीला-विशेष-स्मरणेन प्रेम-वैवश्यात् स-लालनं सम्बोधनम् । यद् वा, तातस्य श्री-नन्दस्य गोकुल इति सुख-विहार-स्वाच्छन्द्यं बोधितम् । एवं द्वयोर् अप्य् एकदैव रिङ्गण-लीलया सम-वयस्कतैव दर्शिता, किञ्चिन् न्युनादिकत्वे\ऽपि श्री-कृष्णस्य महा-बलिष्ठतयाग्रजेनापि सह युगपद् रिङ्गणं घटेतैवेति दिक् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तस्य [श्रवण-कृतं]{।मर्क्} पूर्वत्वम् उक्त्वा दर्शन-कृतम् अपि वक्तुम् आरभते—कालेन इत्य्-आदि । कालेन व्रजता इति शकट-भञ्जनान् नाम-करणाच् च किञ्चित् काले गते सतीत्य् अर्थः । तृणावर्त-वधस् त्व् एतद् उत्तर-कालीन एव एक-हायन [१०.२६.८] इत्य् उक्तत्वात् । एक-शब्दे हि शिशोः पाद-व्रज्या दृश्यते । बलिष्ठस्य तु तन्-मध्ये\ऽपि व्यक्ति-क्रम-कथनं तु दुष्ट-वधाद् भुत-लीलात्व-साधारण्येन क्वचिद् आवेशेन च गोकुले व्रज-मध्ये इति तत्रैव तन्-महा-मधुर-लीलया तत्रत्यानां महा-भाग्यं बोधयति । एवम् अग्रेऽपि बोध्यम् रामस् तल्-लीलया गोकुल-रमणात् । को ब्रह्मा ईशश् च ताव् अपि वयते लीला-माधुर्येण वशीकरोतीति । किं वा, प्रथम-रूढ-प्रशस्त-केश-विलास-युत इति । यद् वा,

अंशवो ये प्रकाशन्ते मम ते केश-संञ्जिताः ।

सर्वज्ञाः केशवं तस्मात् माम् आहुर् मुनि-सत्तमाः ॥

इति भारत-रीत्या ततोऽपि देदीप्यमानतया विवक्षित इति केशवः । तौ इति रिङ्गण-लीलया जगन्-मनोहरता अभिप्रेता । केशवस्य पश्चान्-निर्देशः अनुजत्वेन । हे तात ! इति कथ्य-बाल्य-लीला-विशेष-स्मरणेन प्रेम-वैवश्यात् स-लालनं सम्बोधनं । यद् वा, तातस्य श्री-नन्दस्य गोकुल इति सुख-विहार-स्वाच्छन्द्यं बोधितम् ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कालेन इति । प्राचीन-लीलेयं नाम-करणस्य शततम-पर्यन्ताहे निर्णयात् । तृणावर्त-वधस्य वार्षिकत्वात् अस्य वर्षाभ्यन्तरे च सम्भवात् ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालेन व्रजता इति—

ऐश्वर्य-मिश्रां कृष्णस्य प्रोच्य बालस्य माधुरीम् ।

केवलाम् एव तां प्राह नित्य-भाव्याम् उपासकैः ॥ इति ॥२१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवम् ऐश्वर्य-गर्भां बाल्य-लीलाम् अभिधाय मुकुरवद् विशुद्धां ताम् आह--कालेन इत्य्-आदिभिः ॥२१॥


॥ १०.८.२२ ॥

ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ

घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु ।

तन्-नाद-हृष्ट-मनसाव् अनुसृत्य लोकं

मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुकृष्य पुनः पुनर् आकृष्य । सरीसृपन्ताव् अतिशयेन चलन्तौ । कथम् ? घोषाः कटि-पाद-भूषण-किङ्किण्यः, तेषां प्रघोषेण निनादेन रुचिरं यथा तथा तेषां घोषाणां नादेन हृष्टं मनो ययोस् तौ । लोकम् इतस् ततो गच्छन्तं जनम् अनुसृत्य त्रि-चतुराणि पदान्य् अनुगम्य मुग्धवत् प्रभीतवन् मात्रोर् अन्ति समीपे उपेयतुर् उपजग्मतुः ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ कृष्ण-बलदेवौ । मुग्धवद् अज्ञवत् । मुग्धः सुन्दर-मूढयोः इति विश्वः । आभीर-पल्ली-किङ्किण्योर् घोषो गोपाल-शब्दयोः इति शाश्वतः ॥२२ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुकृष्येति सरीसृपन्तौ कुटिलं गच्छन्ताव् इति च रिङ्गण-लीलायाम् अपि बलिष्ठत्वं द्योतयति । अङ्घ्रि-युग्मम् इत्य् अत्राब्जादि-रूपकाप्रयोगस् तद्-बाल्य-लीला-माधुर्येणैव मनस्-तृप्तया तदीय-तारुण्यादि-गुण-विशेषानपेक्षणात् । व्रजस्य कर्दमेष्व् इति प्रायो गो-मूत्र-गो-रसादि-निपातेन प्राङ्गणस्य पङ्कमयत्वात् । बहुत्वं बाल्यात् साकल्याद् वा । लोकं कञ्चिद् गृह-जनं मत्वैव अनुसृत्य, पश्चाद् अन्यं ज्ञात्वा, मात्रोर् अन्तिकम् उपेयतुःप्र-शब्दाद् भीतत्वाधिक्येन बाल्य-लीला-सौष्ठवं बोधितम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, घोषो व्रजः, तेन तत्रत्यास् तेषां प्रकृष्टैर् घोषैः । अहो रिङ्गणस्य महाश्चर्यम् इत्य्-आद्य्-उच्च-शब्दै रुचिरं यथा स्यात् । तस्य घोषस्य तेन वा प्रकृष्टेन नादेन । समम् अन्यत् ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुकृष्येति सरीसृपन्तौ कुटिलं गच्छन्ताव् इति च रिङ्गण-लीलायाम् अपि बलिष्ठत्वं द्योतयति । अङ्घ्रि-युग्मम् इत्य्-आदिषु कमलादि-रूपकाप्रयोगः, स्वस्य तद्-अतिक्रम-स्फूर्तेः । क्वचिच् च तत्-प्रयोगस् त्व् अन्यस्य तद्-द्वारापि स्फूर्तय इति ज्ञेयम् । व्रजस्य कर्दमेष्व् इति प्रायो गो-मूत्र-गो-रसादि-निपातेन प्राङ्गणस्य पङ्कमयत्वात् । बहुत्वं च स्थान-बाहुल्यात् । लोकं कञ्चिद् आगतं मुग्धवत् गृह-जनं मत्वैव अनुसृत्य पश्चाद् अन्यं ज्ञात्वा प्रभीतवत् मात्रोर् अन्तिकम् उपेयतुः । प्र-शब्दाद् भीतत्वाधिक्येन बाल्य-लीला-सौष्ठवं बोधितम् । वति-प्रत्ययाद् यथान्यो मुग्धादि-बालः, तथैव लीलावेशेनेत्य् अर्थः । अन्यत् तैः ।

यद् वा, घोषो व्रजः, तेन तत्रत्यास् तेषां प्रकृष्टैर् घोषैः । अहो रिङ्गणस्य महाश्चर्यत्वम् इत्य्-आद्य्-उच्च-शब्दै रुचिरं यथा स्यात् तस्य घोषस्य तेन वा प्रकृष्टेन नादेन । समम् अन्यत् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अङ्घ्रि-युग्मम् अनुकृष्य इति जानुभ्यां सञ्चलनेन आङ्घ्र्योर् आकर्षणात् सरीसृपन्तौ कुटिलं गच्छन्तौ । व्रज-कर्दमेषु गो-रस-गोवत्स-मूत्रादि-कर्दमित-व्रजाङ्गणेषु घोषाणां गोप-गोपीनां प्रघोषः हो हो हो इति मुख-कर-तालिकोद्घोषः, तेन रुचिरं यथा स्यात् तथा यतस् तन्-नादेत्य् आदि । घोषाः किङ्किण्य इति स्वामि-चरणाः । लोकं व्रज-पुरन्ध्री-जनं कञ्चिद् आगतं मुग्धवत् मातरं मत्वैवानुसृत्य पश्चाद् अन्यं ज्ञात्वा मात्रोर् अन्तिकम् उपेयतुः वति-प्रत्ययाद् यथान्यो मुग्धादि-बालस् तथैव लीलावेशेनेत्य् अर्थः ॥२२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तौ व्रज-कर्दमेषु गो-रस-गो-मूत्रादि-कर्दमित-चत्वरेषु सरीसृपन्तौ कुटिलं गच्छन्ताव् इति सबलत्वं सूच्यते । अङ्घ्रि-युग्मम् अनुकृष्य इति जानुभ्यां सञ्चलनेनाङ्घ्र्योर् आकर्षणात् । कथं ? घोषाः पादादि-विभूषणानि, तेषां प्रघोषेण झणत्कार-ध्वनिना रुचिरं योगीन्द्राणां मनोहरं यथा स्यात्, तथा तन्-नादेन हृष्टं मनो ययोस् तौ । लोकं कञ्चिद् आगतं गृह-जनं मत्वा तम् अनुसृत्य, पश्चाद् अन्यं ज्ञात्वा मुग्धेन प्रभीतेन च तुल्यौ मात्रोर् अन्ति समीपम् उपयेयतुः भय-सम्भ्रान्त-प्रेक्षणाक्षम् [भा।पु। १०.८.३३] इति वक्ष्यते । इदं मौग्ध्यादिकं हरेर् न कृत्रिमं तथात्वे लीला-रसापरिपोषात्, मन्त्रेषु मां वा उपहूय यत् त्वम् [भा।पु। ३.४.१७] इत्य्-आदौ तन् मौग्ध्येनोद्धवस्य, गोप्य् आददे त्वयि कृतागसि [भा।पु। १.८.३१] इत्य्-आदौ तद् अभयेन कुन्त्याश् च तत्त्वविदो मोहानुपपत्तेः । किन्तु विज्ञान-मूर्तेर् न रुचिकराद्य्-अङ्गत्ववद् वैलक्षण्येन विभातः स्वरूपानतिरेकी तद् धर्म एव तत्-परिपोषी मन्तव्यः ॥२२॥


॥ १०.८.२३ ॥

तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ

पङ्काङ्ग-राग-रुचिराव् उपगुह्य दोर्भ्याम् ।

दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य

मुग्ध-स्मिताल्प-दशनं ययतुः प्रमोदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा च तन्-मातरौ निज-सुतौ उपगुह्य दोर्भ्यां प्रमोदं ययतुः । कथम्-भूते ? घृणया कृपया स्नुवन्त्यौ पयः-पूर्ण-पयोधरे सत्यौ । पङ्केनाङ्ग-रागेण रुचिरौ । कथम्-भूतं मुखं निरीक्ष्य ? मुग्धं मन्दं स्मितं यस्मिन् अल्पा दशनाश् च यस्मिन्, तच् च तच् च ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ??


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पङ्को व्रज-कर्दम एव अङ्ग-रागः, तेन रुचिरौ व्रज-कर्दमेषु रिङ्गणैर् [अन्यां]{।मर्क्} रागस्य आच्छन्नत्वान् निजौ स्वीयौ सुतौ इति तयोर् द्वौ प्रत्य् एव स्नेह-भर उक्तः । अत एव प्रकर्षेण पिबतोः, अत एव प्रकृष्टं ब्रह्मानन्दाद् अप्य् उत्कृष्टं मोदं प्राप्तवत्यौ । स्म हर्षे । निरीक्ष्य आसक्त्या सम्यग् अवलोक्य । मुखम् इति द्वित्वेऽप्य् एकत्वं जात्य्-अपेक्षया बहुष्व् अप्य् एकत्ववत् । अत एव—वाणी गुणानुकथने इत्य्-आदौ न श्रवणौ हस्तौ शिवश् च [भा।पु। १०.१०.३८] इति । तथा, चित्तं सुखेन इत्य्-आदौ करौ पदौ च [भा।पु। १०.२९.३४] इति, तथा विरचिताभयम् इत्य्-आदौ शिरसि धेहि नः [भा।पु। १०.३१.५] इत्य्-आदि च । अन्यत् तैर् व्याख्यातम् । यद् वा, घृणया स्नेहेन मुग्धं सुन्दर-मल्ल-दशनं पञ्च-षड्-अन्तम् ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पङ्को व्रज-कर्दम एव अङ्ग-रागः, तेन रुचिरौ रुचिरत्वं च, “सुन्दरं किं न सुन्दरम् ?” इति न्यायेन, सरसिजम् अनुविद्धं शैवलेनापि रम्यम् इत्य्-आदिना विशेषतस् तु बाल्य-लीलायां तद्-आदेर् एव शोभनत्वम् इति निजौ स्वीयौ सुतौ इति तयोर् द्वौ प्रत्य् एव स्नेह-भर उक्तः । निज-निजेत्य् उक्तत्वात् अत एव प्रकर्षेण स्वेच्छया कदाचित् मातृ-विपर्ययेणापि पिबतोः स्तनं दत्त्वा तत्-तद्-अन्तरा मुखं निरीक्ष्य सम्यग् अवलोक्य च । अत एव प्रकृष्टं नेमं विरिञ्चः [भा।पु। १०.९.२०], नायं सुखाप [भा।पु। १०.९.२१] इत्य्-आदि वक्ष्यमाणानुसारेण तत्-तद्-आनन्दतोऽप्य् अधिकतमं मोदं प्राप्तवत्यौ स्म हर्ष-विस्मये वा । मुखम् इत्य् एकत्वं स्व-स्व-बाल्य-मुखापेक्षया । अन्यत् तैः । यद् वा, मुग्धं सुन्दरं स्मितं यत्र प्रमाणतः सङ्ख्यातश् चाल्पा दशना यत्र, तच् च तच् च ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रसङ्गेन आवेशेन च व्यतिक्रमः सम्भाव्यः प्रपिबतोः स्तनं दत्त्वा तत्-तद्-अन्तरा मुखं निरीक्ष्य च ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदा च तयोर् मातरौ निज-सुतौ दोर्भ्याम् उपगुह्य प्रमोदं ययतुः । निज-निजेत्य् अनुक्तत्वात् तौ द्वाव् अपि प्रति तयोर् द्वयोः सुत-बुद्धिः ते द्वे प्रत्य् एव तयोर् अपि मातृ-बुद्धिर् बुध्यते घृणया वात्सल्यत्थ-कृपया स्नुवन्त्यौ दुग्ध-स्रावि-स्तने सत्यौ, “सुन्दरं किं न सुन्दरम् ?” इति न्यायेन पङ्क एवाङ्ग-राग-तुल्यस् तेनापि रुचिरौ मुखम् इत्य् एकत्वं स्व-स्व-लाल्य-मुखापेक्षया मुग्धं मनोहरं स्मितं यत्र प्रमाणतः सङ्ख्यातश् च अल्पा दशना तत्र तच् च तच् च ॥२३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तदा तयोर् मातरौ तौ निज-सुतौ दोर्भ्याम् उपगूह्य प्रमोदं ययतुः । कीदृशौ ? घृणया वात्सल्यो या कृपया स्नुवन्त्यौ दुग्ध-स्रावि-स्तने सत्यौ, तौ च कीदृशौ ? पङ्क-रागाभ्यां रुचिरौ "सुन्दरे किम् असुन्दरम् ?" इति न्यायात् मुखम् इत्य् एक-वचनं स्व-स्व-लाल्य-मुखापेक्षं मुग्धं रम्यं स्मितं यत्र प्रमाणेन सङ्ख्यया च अल्पा दशना यत्र, तच् च तच् च तत् ॥२३॥


॥ १०.८.२४ ॥

यर्ह्य् अङ्गना-दर्शनीय-कुमार-लीलाव्

अन्तर्-व्रजे तद् अबलाः प्रगृहीत-पुच्छैः ।

वत्सैर् इतस् तत उभाव् अनुकृष्यमाणौ

प्रेक्षन्त्य उज्झित-गृहा जहृषुर् हसन्त्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यर्ह्य् अङ्गनानां दर्शनीया कुमार-लीला ययोस् तथा-भूतौ जातौ, तदा अन्तर्-व्रजे व्रजस्य मध्ये तद् अबला व्रजाङ्गनास् तौ प्रेक्षन्त्यः प्रेक्षमाणा विस्मृत-गृह-कृत्या हसन्त्यो जहृषुर् हृष्टा बभूवुः । कथं-भूतौ ? ताभ्यां प्रगृहीतानि पुच्छानि येषां, तैर् वत्सैर् इतस् ततोऽनुकृष्यमाणौ ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लक्षणया गृह-शब्देन गृह-कृत्यं बोध्यं। तच् च मार्जन-पेषण-गो-दोहनादि-रूपम् ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्यन्त-बाल्ये प्रायो मात्रोर् एव पार्श्व-वर्तित्वात् तयोर् आनन्द-भरो\ऽकारि, पश्चात् किञ्चिद् वयो\ऽतिरेकेण बल-बुद्धि-प्राकट्यादितस् ततो\ऽखिल-व्रज-मध्ये वत्साकर्षण-लीलया सर्वासाम् अपि व्रज-स्त्रीणाम् अत्यानन्दो जनित इत्य् आह—यर्हि इति । वत्सैर् इति बहुत्वम् एक-वत्स-परित्यागेन मुहुर् वत्सान्तर-ग्रहणाद् एकदैव बहुल-वत्स-पुच्छ-ग्रहणाद् वा । प्र-शब्देन कदाचिद् अपि पुच्छ-त्यागो निरस्तः । अत एव स्थाने स्थाने अनुकृष्यमाणौ । अत एव प्रकऋषेण ईक्ष्यमाणाः । अत एव त्यक्तं गृहं तत्रत्य-कृत्यम् । किं वा, प्रेक्षणार्थं तत्र तत्र सर्व-व्रजे परिभ्रमणेन गृहम् एव याभिस् ता हसन्त्यो\ऽद्भुतत्वात् । किं वा, अहो ! बलिष्ठतराव् इति तौ परिहसन्त्यो वत्सैर् आकृष्यमाणत्वात् ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्यन्त-बाल्ये प्रायो मात्रोर् एव पार्श्व-वर्तित्वात् तयोर् आनन्द-भरो\ऽकारि, पश्चात् किञ्चिद् वयो\ऽतिरेकेण बल-बुद्धि-प्राकट्यादितस् ततो\ऽखिल-व्रज-मध्ये वत्साकर्षण-लीलया सर्वासाम् अपि व्रज-स्त्रीणाम् अत्यानन्दो जनित इत्य् आह—यर्हि इति । वत्सैर् इति बहुत्वम् एक-वत्स-परित्यागेन मुहुर् वत्सान्तर-ग्रहणाद् एकदैव बहुल-वत्स-पुच्छ-ग्रहणाद् वा, प्र-शब्देन कदाचिद् अपि पुच्छ-त्यागो निरस्तः अत एव स्थाने स्थाने अनुकृष्यमाणौ । अत एव प्रकऋषेण ईक्ष्यमाणाः । अत एव त्यक्तं गृहं तत्रत्य-कृत्यम् । किं वा, प्रेक्षणार्थं तत्र तत्र सर्व-व्रजे परिभ्रमणेन गृहम् एव याभिस् ता हसन्त्यो\ऽद्भुतत्वात् । किं वा, अहो ! बलिष्ठतराव् इति तौ परिहसन्त्यो वत्सैर् आकृष्यमाणत्वात् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : []{।मर्क्}


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि किञ्चिद्-बलाधिक्य-प्रकटने सति अङ्गनानाम् आ सम्यक्-प्रकारेण दर्शनीया अतिचित्ताकर्षिणी कुमार-सम्बन्धिनी लीला ययोस् तथा-भूतावभूतां तत् तदा अबलास्तौ प्रेक्षण्त्यः प्रेक्षमाणा जहृषुः । कीदृशौ ? ताभ्यां गृहीत-पुच्छैर् वत्सैर् इतस् ततश्आकृष्यमाणाव् इति शयानानां वत्सानां पुच्छान् जानु-चङ्क्रमाणेन प्राप्य, "किम् इदम् ?" इति साश्चर्यं मौग्ध्येन यदा कर-तलेन मुष्टीकृत्य गृहीतः, तदा वत्सैर् उत्थाय कलाय्यते । ततश् च मौग्ध्येन मुष्टि-त्यजन्तौ प्रत्युत भयेन दृढतरीकुर्वन्तौ भूतले घृण्यमाणौ रुदन्तौ विलोक्य "ह्यस्तनाद् वत्साद् अपि दुर्बलौ युवाम्" इति हसन्त्यौ यत्नेन पुच्छं त्याजयामासुर् इति ज्ञेयम् ॥२४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.२५ ॥

शृङ्ग्य्-अग्नि-दंष्ट्र्य्-असि-जल-द्विज-कण्टकेभ्यः

क्रीडा-पराव् अतिचलौ स्व-सुतौ निषेद्धुम् ।

गृह्याणि कर्तुम् अपि यत्र न तज्-जनन्यौ

शेकात आपतुर् अलं मनसोऽनवस्थाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिचलाव् अतिचपलौ तौ शृङ्ग्य्-आदिभ्यो निषेद्धुं गृहोचितानि कर्माणि च कर्तुं यत्र यदा तज्-जनन्यौ न शेकाते, तदा अलं मनसोऽनवस्थाम् आपतुर् इति गृह-सौख्यस्य पराकाष्ठा दर्शिता ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शृङ्गिणो गवादयः । दंष्ट्रिणः श्वादयः । असिः खड्गः । द्विजाः पक्षिणः शुकादयः । अनवस्थां बोधैक-निष्ठवद् एकाकारतया समाधिवल् लयम् । पराकाष्ठेषु अतः परं गृहिणां न सुखम् । यद् बाल-लीला-दर्शनेन मनस्य् आह्लाद इति ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् चाधिक-वयो-बल-प्रकटनेन क्रीडालोलतया मात्रोर् अपि मनश्-चञ्चलं चक्रतुर् इत्य् आह—शृङ्गि- इति । यतः क्रीडा-परौ, अतः शृङ्ग्य्-आदीन् धर्तुम् अभिसरन्तौ, तेभ्यो निषेद्धुं निवारयितुम् । यद् वा, शृङ्गादिभिः क्रीडा-परौ, अतस् तेभ्यो निषेद्धुं न शेकतुः । कुतः ? अतिचलौ परम-चपलौ । तत्र शृङ्गिणो वृषादयः, दंष्ट्रिणो मार्जार-कुक्कुरादयो वानरादयो वा, असयः खड्गाः, पाठान्तरे "अहयः" सर्पाः । खड्गानां संवरणादि-सम्भवाद् इदम् एव युक्तम् । द्विजा मयूरादयः । स्व-शब्देन निषेधेऽन्यस्याशक्यतायोग्यता च, तथा शृङ्ग्य्-आदिभ्यो निषेधस्यावश्यकता । स च स्नेहाकुलतया स्व-पार्श्वे स्थापनेन, न च वाङ्-मात्रेणेति च बोध्यते । अत एव मनसोऽनवस्थाम् अस्थिरताम् अलम् अत्यर्थम् आपतुः

इत्थं बाल्य-चाञ्चल्य-मनोहर-पुत्रवत्त्वेन तथावश्यक-धन-रक्षण-कुटुम्ब-भरण-विविधोपभोग-साधनाद् गृह-व्यापारावेक्षणेन च व्याकुल-चित्ततया गृह-सौख्यस्य पराकाष्ठा दर्शिता । यतोऽपुत्र-दरिद्र-गृहिणाम् एव पुत्र-वित्ताद्य्-अर्थ-चेष्टा-राहित्येन यतीनाम् इव मनः स्थिरं स्यात् । वस्तुतस् तु श्री-भगवत्-पराणां व्रज-जनानां तेषां तद्-अर्थक-कर्मणां चित्तास्थैर्यम् अपि समाधि-निष्ठातोऽप्य् उत्कर्षं भजतीत्य् अग्रे श्री-ब्रह्म-स्तुत्य्-आदौ, तावद् रागादयः स्तेनाः [भा।पु। १०.१४.३६] इत्य्-आदि-वचनतो व्यक्तम् एव । तत्र च तयोर् अन्योन्यम् आसक्त्या शोभा-भरः श्री-वैशम्पायनेनोक्तः—

ताव् अन्योन्य-गतौ बालौ बाल्याद् एवैकतां गतौ ।

एक-मूर्ति-धरौ कान्तौ बाल-चन्द्रार्क-वर्चसौ ॥२॥

एक-निर्माण-निर्मुक्ताव् एक-शय्यासनाशनौ ।

एक-वेश-धराव् एकं पुष्यमाणौ शिशु-व्रतम् ॥३॥

एक-कार्यान्तर-गताव् एक-देहौ द्विधा-कृतौ ।

एक-चर्यौ महा-वीर्याव् एकस्य शिशुतां गतौ ॥४॥

एक-प्रमाणौ लोकानां देव-वृत्तान्त-मानुषौ ।

कृत्स्नस्य जगतो गोपौ संवृत्तौ गोप-दारकौ ॥५॥

अन्योन्य-व्यतिपक्ताभिः क्रीडाभिर् अभिशोभितौ ।

अन्योन्य-किरण-ग्रस्तौ चन्द्र-सूर्याव् इवाम्बरे ॥६॥

विसर्पन्तौ तु सर्वत्र सर्प-भोग-भुजाव् उभौ ।

रेजतुः पांसु-दिग्धाङ्गौ दृप्तौ कलभकाव् इव ॥७॥

क्वचिद् भस्म-प्रदीप्ताङ्गौ करीष-प्राक्षिप्तौ क्वचित् ।

तौ तत्र पर्यधाव् एतां कुमाराव् इव पावकी ॥८॥

क्वचिज् जानुभिर् उद्घृष्टैः सर्पमाणौ विरेजतुः ।

क्रीडन्तौ वत्स-शालासु शकृद्-दिग्धाङ्ग-मूर्धजौ ॥९॥

शुशुभाते श्रिया जुष्टाव् आनन्द-जननौ पितुः ।

जनं च विप्रकुर्वाणौ विहसन्तौ क्वचित् क्वचित् ॥१०॥

तौ तत्र कौतूहलिनौ मूर्धज-व्याकुलेक्षणौ ।

रेजतुश् चन्द्र-वदनौ दारकौ सुकुमारकौ ॥ [ह।वं। २.७.२-११] इति ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् चाधिक-वयो-बल-प्रकटनेन क्रीडालोलतया मात्रोर् अपि मनः-प्रेम-विह्वलं चक्रतुर् इत्य् आह—शृङ्गि इति । यतः क्रीडा-परौ, यतः शृङ्ग्य्-आदीन् धर्तुम् अभिसरन्तौ तेभ्यो निषेद्धुं निवारयितुम् । यद् वा, शृङ्ग्य्-आदिभिः क्रीडा-परौ, अतस् तेभ्यो निषेद्धुं न शेकतुः । ईद्-ऊद्-एद् द्वि-वचनं प्रगृह्यम् [पा। १.१.११] इत्य् अनेन प्रगृह्यत्वात् पचेते अमू इतिवत् सन्ध्य्-अभावेऽपि सन्धिर् आर्षः । कुतः ? अतिचलौ परम-चपलौ। तत्र शृङ्गिणो वृषादयः, दंष्ट्रिणः कुक्कुरादयो वानरादयो वा, असयः खड्गाः, पाठान्तरे "अहयः" सर्पाः । खड्गानां संवरणादि-सम्भवाद् इदम् एव युक्तम् । द्विजा मयूरादयः । स्व-शब्देन सदा-निषेधेऽन्यस्याशक्यता ताडनादाव् अयोग्यता च । तथा शृङ्ग्य्-आदिभ्यो निषेधस्यावश्यकता सा च स्नेहाकुलतया स्व-पार्श्वे स्थापनेन च वाङ्-मात्रेणेति च बोध्यते । तज्-जन्मना तु तदीयतया जात-सक्तेर् गृहस्य च कृत्यम् आवश्यकम् अपि तत एव कर्तुं शक्यते । अत एव मनसः अनवस्थाम् अस्थिरताम् अलम् अत्यर्थम् आपतुः । एतच् च श्री-भगवत्-पराणां व्रज-जनानां तेषां तद्-अर्थ-कर्मणा चित्तास्थैर्यम् अपि चापलाख्य-सञ्चारि-भावतया स्थायिनं वात्सल्याख्यं भक्त-वृन्द-दुर्लभं भावं पुष्णन् तत्-समाधि-निष्ठातोऽप्य् उत्कर्षं भजति । एवम् एव व्याख्यातं गृह-सौख्यस्य परा काष्ठा दर्शितेति तद्-अग्रे श्री-ब्रह्म-स्तुत्य्-आदौ, तावद् रागादयः स्तेनाः [भा।पु। १०.१४.३६] इत्य्-आदौ, यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयस् त्वत्-कृते इत्य्-आदि कैमुत्य-प्रतिपादक-वचनतो, नाविन्दन् भव-वेदनाम् इत्य् आद्य् अन्यार्थावेश-निषेध-वचनतो, नेमं विरिञ्चः इत्य्-आदि तद्-भाव-प्रशंसा-वचनतोऽपि व्यक्तम् एव । अतः श्री-राम-कृष्णयोर् अन्योन्यम् आसक्त्या शोभा-भरः श्री-वैशम्पायनेनोक्तः—

ताव् अन्योन्य-गतौ बालौ बाल्याद् एवैकतां गतौ ।

एक-मूर्ति-धरौ कान्तौ बाल-चन्द्रार्क-वर्चसौ ॥२॥

एक-निर्माण-निर्मुक्ताव् एक-शय्यासनाशनौ ।

एक-वेश-धराव् एकं पुष्यमाणौ शिशु-व्रतम् ॥३॥

एक-कार्यान्तर-गताव् एक-देहौ द्विधा-कृतौ ।

एक-चर्यौ महा-वीर्याव् एकस्य शिशुतां गतौ ॥४॥

एक-प्रमाणौ लोकानां देव-वृत्तान्त-मानुषौ ।

कृत्स्नस्य जगतो गोपौ संवृत्तौ गोप-दारकौ ॥५॥

अन्योन्य-व्यतिपक्ताभिः क्रीडाभिर् अभिशोभितौ ।

अन्योन्य-किरण-ग्रस्तौ चन्द्र-सूर्याव् इवाम्बरे ॥६॥

विसर्पन्तौ तु सर्वत्र सर्प-भोग-भुजाव् उभौ ।

रेजतुः पांसु-दिग्धाङ्गौ दृप्तौ कलभकाव् इव ॥७॥

क्वचिद् भस्म-प्रदीप्ताङ्गौ करीष-प्राक्षिप्तौ क्वचित् ।

तौ तत्र पर्यधाव् एतां कुमाराव् इव पावकी ॥८॥

क्वचिज् जानुभिर् उद्घृष्टैः सर्पमाणौ विरेजतुः ।

क्रीडन्तौ वत्स-शालासु शकृद्-दिग्धाङ्ग-मूर्धजौ ॥९॥

शुशुभाते श्रिया जुष्टाव् आनन्द-जननौ पितुः ।

जनं च विप्रकुर्वाणौ विहसन्तौ क्वचित् क्वचित् ॥१०॥

तौ तत्र कौतूहलिनौ मूर्धज-व्याकुलेक्षणौ ।

रेजतुश् चन्द्र-वदनौ दारकौ सुकुमारकौ ॥ [ह।वं। २.७.२-११] इति ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अनवस्थां वात्सल्य-पोषक-चापलाख्य-सञ्चारि-भावं, तदीय-गृह-कर्मणोऽपि तत्-प्रेम-मयत्वेन स्थापितत्वात् ॥२५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : शृङ्गिणो गवादयः, दंष्ट्रिणः सारमेय-प्रभृतयः । गृह्याणि गृह-कर्माणि । अनवस्थां व्याकुलताम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिचलौ तौ शृङ्ग्य्-आदीन् धर्तुं चलन्तौ तैः सह क्रीडितुम् इच्छन्तौ वा तौ तेभ्यो निषेद्धुं गृहोचितानि कर्माणि च कर्तुं यत्र यदा तज्-जनन्यौ न शेकतुः, तदा मनसोऽनवस्थां चापल्यं वात्सल्य-स्थायि-पोषक-सञ्चारि-भावम् आपतुः । तत्र शृङ्गिणो वृषादयः, दंष्ट्रिणः कुक्कुरादयः, द्विजाः पक्षिणः ॥२५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अतिचलौ तौ शृङ्ग्य्-आदीन् धर्तुं चलन्तौ तेभ्यो निषेद्धुं निवारयितुं गृह्यानिकर्तुं यदा तज्-जनन्यौ न शेकतुः, तदा मनसोऽनवस्थां चापल्यम् आपतुः "कथम् अनयोः सम्भालनं स्यात्" इति । तत्र शृङ्गिणो गवादयः, दंष्ट्रिणो मर्कटादयः, द्विजाः काकादयः ॥२५॥


॥ १०.८.२६ ॥

कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले2

अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा3

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :घृष्टानि यानि जानूनि अष्ठीवन्ति तानि तथा तैः बहुत्वं तूभयापेक्षम् । विचक्रमतुः विचेलतुः । अञ्जसा शीघ्रम् ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना जानु-रिङ्गण-लीलां संवृत्य रिङ्गण-विशेष-लीलां भेजतुर् इत्य् आह—कालेन इत्य् अल्पेन इति स्वल्प-वयस्य् अपि बलातिरेक-प्रकटनात् । न घृष्टानि भूमि-घर्षणम् अप्राप्तानि यानि जानूनि, तैर् इति पूर्वम् अनुक्तत्वाद् अत्रैव रिङ्गण-विशेष-लीलोक्ता ।

ननु, तर्हि रिङ्गण-लीलायाम् एव वत्स-पुच्छ-ग्रहणादिकं दुर्घटं नातिशोभावहं च ? तत्राह—पद्भिः पादैश् च । बहुत्वं द्वयोः पादाब्ज-चतुष्कत्वात् । गोकुले ओजसा बलेन । अत एव विशेषेण चक्रमतुर् बभ्रमतुर् इति । वत्स-पुच्छ-ग्रहण-लीला पद-विक्रमण-लीलायाम् एव ज्ञेयेति भावः । अञ्जसा इति बोधितैव । "गो-व्रजे" इति पाठे गवाम् एव प्राधान्यात् तासाम् एवावासे । हे राजसु ऋषे ! सर्वज्ञेति, यद्-अर्थं सा लीला तत् तत्त्वं त्वया ज्ञायत एव इति भावः ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् उत्कण्ठया युगपद् इव वर्णयितुम् इच्छुः शीघ्रम् एव रिङ्गण-पाद-व्रज्ययोर् आदिमम् आदिमं भागं वर्णयित्वा, पुनस् तत्-तल्-लीला-माधुरी-विशेष-स्मरणोल्लासाद् अन्तिमम् अन्तिमं भागं अपि वर्णयितुं प्रत्यावर्तते—कालेन इत्य्-आदिना । अल्पेन इति स्वल्प-वयस्य् अपि बुद्धि-बलातिरेक-प्रकटनाद् घृष्टानि भूमि-घर्षणम् अप्राप्तानि जानूनि येषु, तैः पद्भिः पादैर् ओजसा गोकुले विचक्रमतुर् बभ्रमतुः । "अञ्जसा" इति पाठे अनायासेन बलिष्ठत्वात् । "गो-व्रजे" इति पाठे गो-शब्दस्योक्तिर् धनुर्ज्येतिवत् सा च तस्य मनोहरत्वं पवित्रत्वं च बोधयितुम् । हे राजसु ऋषे ! सर्वज्ञेति । तल्-लीला-माधुरीं मद्-विधवत् त्वयाप्य् अनुभूयत इति भावः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न घृष्टानि अघृष्टानि तानि च जानूनि येषां ते, तथा तैः विचक्रमतुः पाद-विक्षेपं चक्रतुह् ॥२६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अघृष्टानि भूमि-घर्षणम् अप्राप्तानि जानूनि येषु तैः पद्भिर् जानु-सङ्घर्षणं विनैवेत्य् अर्थः । ओजसा "अञ्जसा" इति च पाठः ॥२६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न घृष्टानि जानूनि येषु तैर् जानु-घर्षणं विनेत्य् अर्थः ॥२६॥


॥ १०.८.२७ ॥

ततस् तु4 भगवान् कृष्णो वयस्यैर् व्रज-बालकैः ।

सह-रामो व्रज-स्त्रीणां चिक्रीडे जनयन् मुदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः पद्भिश् चलनानन्तरम् ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयन् वयो-बल—विशेष-प्रकटनेन मधुर-क्रीडया तस्यावतार-मुख्य-प्रयोजनम् आह—ततश् च इत्य् आदिना । अत एवात्र तस्यैव प्राधान्याद् आदौ पृथङ्-निर्देशः, श्री-रामस्य च गौणत्वात् सह-राम इति साहित्य-मात्रम् उक्तम् । त्व्-अर्थे -कारो भिन्नोपक्रमे । भगवान् निज-भगवत्ता-सार-प्रकटन-परः सन्न् इत्य् अर्थः । वयस्यैः प्रायः सम-वयस्कतया सखित्वं प्राप्तैर् यतो व्रजस्य बालकैः सहेति क्रीडादि-शोभा-विशेष उक्तः । चिक्रीडे चिक्रीड वत्स-मोचनादि-क्रीडा चक्रे । व्रज-स्त्रीणाम् अविशेषेण सर्वासाम् एव व्रज-वर्तिनीनां पुरन्ध्रीणां वृद्धादीनां च ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं साधारण्येन तयोर् लीलां वर्णयित्वा पुनः श्री-कृष्ण-सम्बन्धेन रामस्यापि तादृशत्वं व्यञ्जयितुं तस्य विशेषतः सर्व-व्रज-मनो-मोहन-लीला-वर्णनेन प्राधान्यं वक्तुम् आह—ततस् त्व् इति । तु भिन्नोपक्रमे । कृष्णो भगवान् इति स्वयं भगवत्त्वेन स्वतः प्राधान्यं सह-राम इति लीलातोऽपि बोधयति ।

अथ च भगवान् निज-भगवत्ता-सार-माधुरी-विशेष-प्रकटन-परः कृष्णः सर्व-जनाकर्षक-माधुर्यः सह-रामस् तस्याप्य् आकर्षकः । राम इति तस्य परम-रमण-साहाय्याद् अत्रैव तन्-निरुक्ति-मर्यादा-पर्याप्तिर् इति भावः । तत् तादृशः सन्न् इत्य् अर्थः । वयस्यैः सखिभिः सहेति मिथः प्रणय-विशेषेण तादृश-लीला-सौष्ठवं दर्शितम् । तत्र योग-वृत्त्या सम-वयस्त्वं रूढार्थ-शक्त्या समान-गुण-जाति-शील-व्यवसाय-वेषत्वं च ध्वनितम्, तथैव सखित्वोपपत्तेः । तत्र हेतुः—व्रजस्य तद्-आत्मीयत्वेन प्रसिद्धस्य तस्य व्रज-विशेषस्य बालकैः चिक्रीडे चिक्रीड ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सह-राम इति गव्य-मोषणादि-लीलायां कृष्णस्यैव प्राधान्यात् ॥२७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ततो मातृ-प्रमोद-विधानानन्तरं बालकान् गोपीश् च प्राचोदयद् इत्य् अर्थः ॥२७॥


॥ १०.८.२८ ॥

कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् ।

शृण्वन्त्याः किल तन्-मातुर् इति होचुः समागताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कौमारे यच् चापलं चपलत्वम् । तन्-मातुर् यशोदायाः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तास् तु क्रीडोल्लासित-चित्तास् तन्-मातुः प्रीति-भरं जनयितुं स्वयं च सुख-विशेषम् अनुभवितुम् अन्यो\ऽन्यं संमन्त्र्य तस्यां चुक्रुशुर् इत्य् आह—कृष्णस्य इति । गोप्यः पुरन्ध्र्या वृद्धाश् च रुचिरं मनोहरम् इति केवलं प्रेम-कौतुक-विशेषेणैवेति बोधितम् । शृण्वन्त्या इति तस्यास् तत्रावहितत्वं सूचितम् । यद् वा, तस्य तच्-चापलं शृण्वन्त्या अपि समागताः स्व-स्व-गृहात् समवेत्य आगताः सत्यः । स्फुटम् उचुश् चुक्रुशुर् इत्य् अर्थः । किल प्रसिद्धौ ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तास् तत्-क्रीडोल्लासित-चित्ताभङ्ग्या तन्-मातुः स्वेषाम् अपि प्रेम-विनोद-विशेषाय मिथः सम्मन्त्र्य तस्यां चुक्रुशुर् इत्य् एवेत्य् आह—कृष्णस्य इति । गोप्यः पुरन्ध्र्यो वृद्धाश् च रुचिरं मनोहरम् इति प्रेम-कौतुकम् एव व्यक्तम् । शृण्वत्या इति तस्यास् तत्रावहितत्वं सूचितम् । यद् वा, नित्यं शृण्वत्या अपि समागताः समवेत्यागताः । स्फुटम् । ऊचुश् चुक्रुशुः । किल इत्य् [अर्थे]{।मर्क्} वस्तुतो न चुक्रुशुर् इत्य् अर्थः । तादृशं च चापल्यं तासां मुख्योक्त्या एवातिमनोहरं स्याद् इति मुनीन्द्रेणापि तद्-द्वारैव वर्णितम् इवेति ज्ञेयम् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : रुचिरं च तददनिम् उदारं च तत् कुमार-भावोचितं चपलत्वं यासु, तास् तथा तन्-मातुः शृण्वन्त्याः ताम् इति वक्ष्यमाण-प्रकारेण ऊचुः


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रुचिरं सुखदं हन्तैतादृशं सुखम् अस्मत्-प्रिय-सख्या श्री-यशोदया न प्राप्तं । तद् अस्मच्-चक्षुषम् एतत् तस्याः श्रवणम् अप्य् अस्त्य् इति तत्र गत्वा शृण्वन्त्याः शृण्वन्त्यै स्व-पुत्र-चरित-श्रवणार्थं गृह-कार्य-शतम् अपि त्यजन्त्यै तन्-मात्रे उपालम्भन-दान-मिषेण परमानन्दम् एव दातुम् इति भावः ॥२८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गोप्यो दधि-चौर्यादि-रूपं तस्य कौमार-चापल्यं वीक्ष्य आनन्दिताः शृण्वन्त्यास् तच्-छ्रवणाय गृह-कृत्यान्य् अपि त्यजन्त्यौ तन्-मात्रे श्री-यशोदायै उपालम्भ-मिषेण तद्-आनन्दं दातुं प्रोचुः ॥२८॥


॥ १०.८.२९ ॥

वत्सान् मुञ्चन् क्वचिद् असमये क्रोश-सञ्जात-हासः

स्तेयं स्वाद्व् अत्त्य् अथ दधि-पयः कल्पितैः स्तेय-योगैः ।

मर्कान् भोक्ष्यन् विभजति स चेन् नात्ति भाण्डं भिनत्ति

द्रव्यालाभे स गृह-कुपितो यात्य् उपक्रोश्य तोकान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

कृष्ण-चापल-चौर्याणि सहैवाखिल-सद्मतः ।

प्रजल्पन्त्यः समागत्य गोप्यो गोप्यै मुदं ददुः ॥*॥

असमयेऽदोह-काले । क्रोशे सञ्जात-हासः सञ्जातो हासो यस्य सः । स्तेयं चौर्यार्जितं, न तु दत्तं । तत्रापि स्वादु नेतरत् दधिपयश् चात्ति । किं च, भोक्ष्यन् मर्कान् मर्कटान् प्रति विभज्य ददाति, तेषां मध्ये तृप्तत्वेन कोऽपि नात्ति चेत्, तर्हि भाण्डं भिनत्ति । क्वचिद् द्रव्यस्यालाभे सति स गृहाय “धक्ष्यामि” इति कुपितो याति । यद् वा, स गृहा गृहिणः, तेभ्यः कुपितः, तेषां तोकान् बालान् पर्यङ्कादिषु सुप्तान् उपक्रोश्य रोदयित्वा यातीति ॥२९॥

कृष्ण-चापल-चौर्याणि सहैवाखिल-सद्मतः ।

प्रजल्पन्त्यः समागत्य गोप्यो गोप्यै मुदं ददुः ॥*॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अखिल-सद्मतः सकल-गृहेषु । सप्तम्य् अर्थे तसिः । सद्मागार-गृहावस्ये इति कोशात् । गोप्यो विधुन्तुदा राग-रङ्गा विधिमता सुरागिणी काम-कन्दा सुनन्दा नन्दिनी नाद-नन्दिनी नेत्र-सौभाग्य-सुभगा मोदमाला मनस्विनी मनोभवा विरागी हरदूरा रतिप्रदा धानी दानेश्वरी धामा भामा भाव-प्रमोदिनी मुक्ता मनोहरा माध्वी मालती मलयाश्रया मन्दालसा मनोभीष्टा मनोज्ञा मानसी बला चित्रा वेत्रवती भीमा भवभेदविदा चला चञ्चला चपला कान्ता कला काम-प्रबोधिनी इत्य् आद्या बहवः । गोप्यै यशोदायै । कृष्णस्य चापल-युक्तानि चौर्याणि चोर-कर्माणि

स्वयं भक्षतु वयं तं न वारयामः । परन्तु निरर्थकम् अपि क्षिपतीत्य् आहुः—किं च इति । भोक्ष्यन् भोजयिष्यन् । मर्कान् बाल-मार्जर-वानरान्—मर्को मनसि वायौ च तोके मार्जार-कीशयोः इति यादवः । कृष्णः । गृहाय सद्मने । इति कुपितो याति इति किं ? हे गृह ! त्वां धक्ष्यामि भस्मसात्-करिष्यामीति । जडोपरि कोपम् अनुचितं मन्वानोऽर्थान्तरम् आह—यद् वा इति । गृहेण सह वर्तन्त इति स-गृहाः । तोकान् बालान्, तोकः पुत्रे सुतायां च इति मेदिनी ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चौर्यादि-परम-चाञ्चल्य-लीलायाः स्वयं साक्षात् कथनेनात्मनो धार्ष्ट्यम् आशङ्क्य तत्-परिहारार्थम् । किं वा, तासां मुखोक्तौ वातिमनोहरं स्याद् इति तथैवाह—वत्सान् इति सार्ध-द्वयेन । क्वचित् कस्मिंश्चित् स्थाने । एवं यथापेक्षम् इदं सर्वत्रैव योज्यम् । यद् वा, कस्मिंश्चिद् असमये कृत्यान्तरे व्यग्रतया यदा ते बन्धुं न शक्यन्ते, तदेत्य् अर्थः । वत्स-मोचनं च वत्स-रोधनाद्य्-अर्थम् । व्यग्रायां गृहिण्यां सुखेन गृहान्तर् दध्य्-आद्य्-अदनार्थं क्रोशे सम्यग्-जात-हासोऽक्रोशनार्थं लोकेषु क्रीडा-कौतुक-बोधनाय वेति परम-धूर्ततोक्ता । अथ वत्स-मोचनानतरम् अत्ति बालकैः सहेति ज्ञेयम् । कल्पितैः पूर्वम् अवृत्तैर् अधुना तेनैव स्वयं रचितैः स्तेय-योगैश् चौर्योपायैर् इत्य् अर्थः । न च केवलं सखि-गणान्वितः स्वयम् अत्ति, किन्तु भोक्ष्यन् सन् मर्कटान् सर्वान् प्रति विभज्य ददाति । तोकान् नव-बालकान् । अन्यत् तैर् व्याख्यातम् । यद् वा, स श्री-कृष्णः कदाचिच् चेत् स्वयं नात्ति, तर्हि भाण्डं भिनत्ति, तद्-दोषम् आरोप्येति शेषः ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् यथाहुः—वत्सान् इति सार्ध-द्वयेन । तत्र पूर्वार्धम् एकं वाक्यम् अवतारिका-विनोदाय तु पृथग् इव व्याख्यायते । तत्र प्रथमोपद्रवम् आहुः—वत्सान् मुञ्चन् बहुत्वं स्वेषां वैयाग्र्य-विशेष-बोधकम् ।

ननु प्रत्युत वत्स-पलायमानत्वं खल्व् इदं को नु दोषः ? तत्राहुः—असमये दोहन-काले।

ननु, "बालकेनाज्ञानतः खल्व् इदं कृतम्, कथम् अनुशोचथ ? प्रतिगृहं विद्यमाना बहवो लोका रुन्धीरन् ?" तत्राहुः—क्वचित् कृत्यान्तर-व्यग्रतया यदा ते रोद्धुं न शक्नुवन्ति तदैवेत्य् अर्थः । एवं चेत् तर्हि कथं न भीषयध्वे ? तत्राहुः—क्रोशे सम्यग् जात-हासः । अक्रोशनार्थम् इति परम-मोहनतोक्ता । बत किम्-अर्थं वत्सान् मुञ्चन् ? तत्र हसन्त्यः सानुकरणम् आहुः—दधि-पयोऽत्ति इति । तद्-अर्थम् एव गृह-जनान् इतस् ततो धावयितुं वत्सान् मुञ्चतीत्य् अर्थः ।

“अहो कठिनाः ! तर्हि कथं स्वयम् एव पूर्वं न दत्थ ?” इत्य् अत्र स-स्मित-भृउ-विलासेन शनैर् इवाहुः—स्तेयम् एवात्ति, न तु दत्तम् । अस्मद्-दत्तम् अपि तादृशं न भुङ्क्ते इति भावः ।

"अपि का वो हानिर् यतः ततः पतित-भाण्डस्य गोरस-मात्रस्यात्यल्प-प्रमाण-पाने ?" तत्राहुः—गृह-स्वाम्य्-आद्य्-अर्थं पर्यन्त-स्थापितं स्वाद्व् एवात्ति, तत्रापि अथ कार्त्स्न्येनैवात्ति ।

"अहो परम-चतुराणां वो गोरसम् असाव् अशिक्षित-चातुर्यश् चोरयेद् इति न सम्भावयामः ।" तत्राहुः—कल्पितैः पूर्वम् अदृष्टाश्रुतैर् अधुना स्व-बुद्ध्यैव रचितैः स्तेयोपायैः

"अये युष्मत्-पितृ-पितामहादीनां पुण्य-फलम् एवेदं यद् अयं परम-कृपणानाम् अदत्तम् अपि भूङ्क्ते, तर्हि कथम् इव पश्चाद् अपि नानुमोदध्वे ?" तत्राहुः—मर्कान् इति । वरं सखि-गणान्वितः स्वयम् अत्तु, अहो भोक्ष्यन् स्व-भोजनात् पूर्वम् एव मर्कटान् सर्वान् प्रति विभज्य ददाति । किं च, तेषां वनात् फलादि-तृप्तत्वेन यद्य् एको\ऽपि नात्ति तर्हि स्वयम् अपि नात्ति, भाण्डंभिनत्ति इत्य् अर्थः । एतत् तु पूर्वं तासां द्वारागत-वानर-वृन्दाय नवनीतं दातुं निजोपदेशस्याकरण-कोपेनेति लक्ष्यते । यद् वा, परम-दुलालः कदाचित् त्वया यत् तेन बहु-भोजितस् त्व् एतत् स्वयं नात्ति, तर्हि भाण्डं भिनत्ति तद्-दोषम् आरोप्येति शेषः ।

ननु, "कथम् एव ज्ञानेऽपि भाण्डानि न गोपायथ ? तस्माद् यूयम् एव तथा क्रीडयन्त्यो मम बालकं चपली-कृतवत्यः ।" इत्य् अत्राहुः—द्रव्य- इति । इति परोक्ष-निर्देशो दर्शनेऽप्य् अदर्शनं सूचयन्ति, सम्प्रति सौम्य-प्रकृति-दर्शनाद् अन्यत्वं वा । सर्वं गृह-स्थित-जनं प्रत्य् अपि कुपितः सन् तोकान् तोकानि बालापत्यान्य् अपि रोदयित्वा याति द्रवति । तानि च राधा-चन्द्रावल्य्-आदीनि तल्-लघु-भ्रातादीनि च ज्ञेयानि । स-गृह-शब्देनैव वा गृह-स्थित-जना उच्यन्ते ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वत्सान् इत्य्-आदि । वनात् फलादिभिस् तृप्तत्वेन तेषु कोऽपि नात्ति चेत्, तर्हि स्वयम् अपि नात्ति । भाण्डं च भिनत्ति इत्य् अर्थः ॥२९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सखि यशोदे ! शृणु स्व-पुत्रस्य चौर्य-चातुर्यम् इत्य् आहुः—वत्सान् इति । एतत्-पुरेऽद्य शून्य-गृहेषु दधि चोरयामीति मनसि कृत्वा गत्वा गत्वा गृहान् जन-शून्यांश् चिकीर्षुः क्वचिद् दिवसे असमये अदोह-काले वत्सान् मुञ्चन् भवति । ततश् च इतस् ततो धावतो वत्सान् परावर्तयितुं तद्-अनुपदं गृहान् निःसृत्य जनेषु धावत्सु शून्य-गृहान् प्रविश्य दधि चोरयित्वा पलायत इति भावः । अन्यस्मिन्न् अहनि "अरे दधि-चोरः कृष्ण आगतः ! ताड्यतां ! नह्यताम् !" इत्य्-आदि क्रोशे आक्रोश-कृते सति सञ्जात-हासो भवति ।

अथ तद्-अनन्तरम् एव महा-मादक-हास्य-मधु-पान-वैवश्येन जडी-भूतास्व् अस्मासु पश्यन्तीष्व् अपि निषेद्धुम् अपारयन्तीषु दधि पयोऽत्ति तत्रैवोषित्वा भुङ्क्ते, नापि पलायत अस्माकं मोहिनीकृतत्वाद् इति भावः ।

नन्व् एवं चेद् दधि-लम्पटम् इमं प्रथमम् एवोदर-पूरं कथं न भोजयध्वे ? तत्र त्वयाभीक्ष्णं भोजितस्यास्य न बुभुक्षादिकं, किन्तु स्तेयं स्तेन-कर्मैव स्वादु, अतश् चोरितम् एव दध्य्-आदिकम् अस्मै रोचते, न तु दत्तम् इति भावः ।

तद् एवं परोक्षम् अपरोक्षं चेति द्विविधं चौर्यं वत्स-मोचन-हासाभ्यां ज्ञापितम् एव कल्पितैः स्व-बुद्ध्यैव रचितैः स्तेय-योगैश् चौर्योपायैर् अपरैर् अपि [लोष्ट्र-क्षेष्टा]{।मर्क्}दिभिर् अपरस्मिन् परस्मिन्न् अपि दिने भोक्ष्यन् स्व-भोजनात् पूर्वम् एव मर्कान् मर्कटान् प्रति विभजति "अयम् अयं भवतां प्रत्येकं भागः" इति विभज्य ददाति । बहुत्र भोजितत्वेनातितृप्तत्वात् तेषां मध्ये स एकोऽपि मर्कटो नात्ति चेत्, तदा "युष्मान् विना किं मे भोजनेन ? अहम् अपि न भुञ्जे" इति दुःखेन भाण्डं दधि-पूर्णं भिनत्ति

कदाचित् शून्य-गृहे प्रविश्य दध्य्-आदि-द्रव्यालाभे सति स-गृहाय गृह-सहित-जनायैव कुपितः । "तिष्ठ रे तिष्ठ रे ! श्वः प्रातर् ज्वलद्-अङ्गारम् एकं गृहीत्वैव चौर्यार्थम् एष्यामि यत्र दधि न प्राप्स्यामि तद्-गृहं स-बालक-वृद्धम् एव धक्ष्यामि" इत्य् उक्त्वा तोकान् बालापत्यानि उपक्रुश्य नखाद्य्-आघातेन रोदयित्वा याति ॥२९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद् आहुः—वत्सान् इति त्रिभिः । "गृहान् जन-शून्यान् विधाय दधि चोरयामि" इति निश्चित्य क्वचित् कदाचिद् असमयेऽदोह-काले वत्सान् मुञ्चन् भवति । ततो जन-शून्येषु गृहेषु प्रविश्य दधि चोरयतीत्य् अर्थः । कदाचित् दधि-चोरो हरिर् इत्य् आक्रोशेऽस्माभिः कृते सति सञ्जात-हासो भवति "पश्यत भो गृह-स्वामिनं माम् एता दुर्धियश् चौरं वदन्ति" इति ब्रुवन् हसतीत्य् अर्थः । हास-मोहितास्व् अस्मासु तत्रैवास्मिन् गृहे रत्न-पीठे निषद्य गृह-स्वामीव दधि-पयश्अत्ति

ननु युष्माभिर् एव कथं न दीयते ? तत्राह—स्तेयं स्तेन-कर्मैवास्य स्वादु चोरितम् एवास्मै रोचते, न तु दत्तम् इति भावः । कल्पितैः स्तेय-योगैस् तद् आनीय स्वयं भोक्ष्यमाणो मर्कान् कपीन् प्रति "तवायं भागस् तवायामि" इति विभजति । यदि तृप्तत्वात् क्वचिन् मर्कटो नात्ति, तदा "त्वया विना किं मे भोजनेन ?" इति विमनाः सन् दधि-पूर्णं भाण्डं भिनत्ति । कदाचिद् दध्य्-आदि-द्रव्यालाभे सति कृष्णः "गृहाय धक्ष्यामि त्वाम्" इति कुपितस् तत्र पर्यङ्के सुप्तान् तोकान् शिशून् उपक्रोश्य आचोटनेन रोदयित्वा याति इति ॥२९॥



॥ १०.८.३० ॥**

हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश्

छिद्रं ह्य् अन्तर्-निहित-वयुनः शिक्य-भाण्डेषु तद्वित् ।

ध्वान्तागारे धृत-मणि-गणं स्वाङ्गम् अर्थ-प्रदीपं

काले गोप्यो यर्हि गृह-कृत्येषु सुव्यग्र-चित्ताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कल्पितैः स्तेय-योगैर् [२९] इत्य् उक्तं तत् प्रपञ्चयति—हस्ताग्राह्ये इति । तुङ्ग-शिक्य-स्थ-भाण्डेष्व् अन्तर्-निहिते दध्य्-आदौ वयुनं ज्ञानं यस्य स छिद्रं रचयति, तद्-विच्छिद्र-रचनादि-वित्ध्वान्त-युक्ते गृहे स्वाङ्गम् एव अर्थं प्रदीपं रचयति विशेषतो धृत-मणि-गणम्यर्हि यस्मिन् काले ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तुङ्ग-शिक्य-स्थ-भाण्डेषु उच्च-रज्जु-निर्मित-लम्बमान-यन्त्रग-पात्रेषु । अन्तर्-निहिते मध्य-स्थापिते । वयुनं गमने ज्ञाने लभे ब्रह्मणि शाश्वते इति धरणिः । गृह-कृत्येषु पेषण-मार्जनादिषु ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ध्वान्तागारे धृत-मणि-गणम् इत्य्-आदि अधृत-मणि-गणम् अपि स्वाङ्गम्, अर्थानां दधि-दुग्धादि-भाण्डानां प्रदीपम् । दीपयतीति दीपो विशेष्य-लिङ्गः, न त्व् अजहल्-लिङ्गम् । अथ रचयतीत्य् अस्यैव कर्म, अन्धकारवत्याम् अपि गृहे स्वाङ्गम् एवास्य अर्थ-प्रदीपो भवति । अपि-शब्दोऽध्याहार्यः ॥३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विधिं चौर्यस्य आदानस्य वा उपायम् आद्य-शब्दात् । पीठे पीठ-निषण्ण-बालक-गले इति श्री-बिल्वमङ्गलाद्य्-उक्त्य्-अनुसारेण बाल-स्कन्धारोहणादि । हि निश्चितम् । पीठाद्य्-अप्राप्त्येषु च तुङ्ग-शिक्य-वर्ति-भाण्डेषु । अन्यत् तैर् व्याख्यातम् ।

यद् वा, यद्वित् शिक्य-भाण्डस्थ-दध्य्-आदि-विशेष-वृत्तं सर्वं जानातीत्य् अर्थः । यद् वा, किम् अर्थं रचयति ? तत्राहुः—तत् शिक्यादि-स्थितं दध्य्-आदि-द्रव्यं विन्दतीति तथा सः । तत्रत्यद[ध्याद्]{।मर्क्} उपभोक्तुम् इत्य् अर्थः ।

ननु, "भोः ! मिथ्या प्रलापवत्यः ! परम-सरल-शुद्ध-बुद्धेर् महा-बालकस्यास्य किञ्चिद् ईदृशं जानं न लक्ष्यते ? तत्राहुः—अन्तर् एव निहितं संवृत्य धृतम्, न च बहिर् विस्तृतं वयुनं ज्ञानं सर्व-बुद्धिर् येन सः । अहो यशोदे ! तर्हि चोरयतु नाम, यदि तत्र तन्-मूल्यं दातुं न शक्नुयाद् इति परिहासेनाहुः—धृत-मणि-गणम् इति । ननु, गृह-स्वामिनीनां साक्षाद् एवं कथं सम्भवेत् ? तत्राहुः—काल इति । इत्थं महा-चोरतोक्ता ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो किम् इदम् अपूर्वं कथयथ ? के ते स्तेय-योगास् तान् अपि शृणुमः । तत्राहुः—हस्त- इति । विधिं हस्त-ग्राह्यतोपायम् । आद्य-शब्देन पीठे पीठ-निषण्ण-बालक-गले [कृ।क। २.९८]5 इति श्री-बिल्वमङ्गलाद्य्-उक्तानुसारेण बाल-स्कन्धारोहरणादि । हि निश्चितम् । अथ ततो\ऽपि दूरे रक्षत । तत्राहुः—शिक्य-वर्ति-भाण्डेषु दीर्घ-स-शल्य-लगुडादीनां छिद्रं रचयति

ननु, करोतु पीठाद्य्-उपायान् दूरतश् छिद्रस्य तु निजाभीष्ट-धारा-योग्यता दुर्घटा स्फुटेद् अपि भाण्डं ? तत्राहुः—तद्वित्

ननु, बहुषु भाण्डेषु सत्सु निजाभीष्टं कथं प्राप्नुयात् ? तत्राहुः—अन्तर् इति भाण्ड-लक्षण-विशेषेणैवेति भावः ।

अथ कथम् अन्तस् तम् अपि गृह-कोष्ठिकायां न रक्षत ? तत्राहुः—ध्वान्त- इति । स्व-शब्देन मणि-गण-सापेक्षत्वम् अपि खण्डितं ततो मणि-गण-धरणम् अप्य् उत्कण्ठ्यैव कुत्रचिन् मद्-अङ्ग-किरणाभेद्यम् अपि यदि गाढं तमो भवेद् इति अनेनेदम् अप्य् उक्तं भवति । यदि धृत-मणि-गणत्वं न स्यात्, तदा कुत्रचित् कथञ्चित् तमो लेश-शेषेण किञ्चिद् अप्य् उर्वरितं स्यात् इति चोरस्यास्य मणि-परिधापनेन तवापि तत्र साहाय्यं जनो मन्यते । गृह-स्वामिभिर् दुर्लभो\ऽयं मणि-गणो\ऽप्य् आच्छिद्येत्, तत् तस्माद् अद्य-प्रभृति नायम् अलङ्करणीय इति ।

तच् च भावयन्ति—"अपूर्वं चेदं धृतानर्घ्य-मणि-गणो\ऽपि गो-रस-चोर इति" इति परिहसति चेति "अयि यदीदं सत्यं स्यात्, तदा निह्नुत्य गृहीत्वैवात्रानीयतां" । तत्राहुः—काल इति । यस्मिन् न सम्भवति, तस्मिन् समय-विशेष इत्य् अर्थः ।

ननु, को\ऽसौ ? तत्राह—यर्हि इति । एवम् एवेदं न पौनरुक्त्यं तेष्व् इति यति-भङ्गेन पृथक् पाठो\ऽयम् । अथवा तत्-तद्-भाण्डेषु तत्-तद्-विशेषं कथं जानाति ? तत्राह—**तद्वित्-**लक्षणेनैवेति पूर्ववत् ।

ननु भो मिथ्या-प्रलापिन्यः ! किम् इदं कथयथ ? ममायं बालकोऽयम् अपि मुग्ध एव ? तत्रहुः—अन्तर् एव निहितं संवृत्य धृतं वयुनं ज्ञानं सर्व-बुद्धिर् येन सः । अन्यत् समानं । तद् एवं निगूढ-पर-द्रव्यस्य समयस्य च ज्ञानं दुर्गारोहण-छिद्र-करण-लक्षण-क्रिया-द्वैध-प्रावीण्यं सञ्जात-हास इति मोहन-विद्यात्वं चोक्तं । तैश् च सम्पूर्णैर् गुणैर् महा-चोरतोक्ता ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथान्यद् बाल्य-लीला-चापल्यम् आह—ध्वान्तागारे धृत- इत्य्-आदि । अधृत-मणि-गणम् अपि स्वाङ्गम् अर्थ-प्रदीपम् । अर्थात्। द्रव्याणि प्रदीपयति इति तथा । अथवा हस्ताग्राह्ये रचयति विधिम् इत्य् अतो रचयतीति क्रिययैवान्वेतव्यम् । ध्वान्तागारे स्वाङ्गम् अर्थ-प्रदीपं रचयतीत्य् अर्थः । अधृत-मणि-गणम् अपीत्य् अत्र अपि-शब्दोऽन्वेतव्यः ।

अन्यथा मणि-गणस्यैवौज्ज्वल्यम् । न तद्-अङ्गस्य प्रकृते तद्-अङ्गस्येव ज्योतिष उत्कर्षः । अथवा धृत-मणि-गणम् अपि स्वाङ्गम् एवार्थ-प्रदीपं रचयति । मणि-गणस्य तथा न प्रकाशः, यथा तद्-अङ्गस्येति भावः । न तु हेतुमद्-विशेषणम् । यत्र मणि-गणोऽपि न प्रकाशकः, तत्र तद्-अङ्गम् एवेत्य् अर्थः ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कस्मिंश्चिद् अन्यस्मिन् गृहे प्रविष्टः सन् हस्तेन गृहीतुम् अशक्ये दधि-भाण्डे विधिम् उपायं रचयति । उपर्य् उपरि निहित-द्वि-त्रि-पीठारोहणेन वा उलूखलारोहणेन वा बाल-स्कन्धारोहणेन वेत्य् अर्थः । अतितुङ्ग-शिक्य-वर्ति-भाण्डेषु अन्तर्-निहिते दध्य्-आदौ वयुनं ज्ञानं यस्य, स भाण्ड-चिक्कण्य-दर्शनेनेति भावः । अवरोपयितुम् अशक्तः स-शल्यक-लगुडेन छिद्रं रचयति तद्वित् छिद्रं कर्तुं छिद्रेण धारां पातयितुं धारया च व्यादत्तं स्वस्य बालानां च मुखं पूरयितुं वेत्तीति स न चान्धकारेऽपि चौर्यासामर्थ्यम् इत्य् आहुः—ध्वान्त-युक्ते अगारे स्वाङ्गं स्वीय-श्यामाङ्गम् अप्य् अर्थ-प्रदीपं रचयति तत्रापि धृत-मणि-गणम् इति किम् अप्य् अविदितं न तिष्ठतीति भावः । कथं सावधाना न तिष्ठत ? इति चेत् तत्राहुः—काले इति । यद्यप्य् अस्य स्मित-कल-भाषण-मधुर-चलन-गात्र-लावण्यादि-मय्य् एव प्रत्यक्ष-चौर्य-निष्पादिनी मोहनी-विद्यैवास्ति, तदापि बाल्य-मौग्ध्य-वशात् परोक्ष-चौर्य-प्रिय एवासौ बुध्यत इत्य् अत एव का कुत्र किं कुरुत इति बाल-सहचर-प्रेषणादिना प्रतिक्षणम् अनुसन्धत्त इति भावः ॥३०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कल्पितान् स्तेय-योगान् स्फुटयन्ति—हस्त- इति । हस्ताग्राह्ये उच्च-निहिते दध्य्-आदिके विधिं तद् ग्राह्यत्वोपायं रचयति पावकेनोलूखलेन विपर्ययस् तेन बाल-स्कन्धेन वारूढेत्य् अर्थः । अत्युच्च-शिक्य-स्थेषु भाण्डेषु स-शल्याग्र-लगुडेन छिद्रं रचयति । अन्तर्-निहितं वयुनं ज्ञानं यस्य सोऽपि चतुर इत्य् अर्थः । छिद्रं कर्तुं धारां पातयितुं तया स्वास्यं स्व-मित्राणां च व्यादत्तम् आस्यं पूरयितुं च वेत्तीति सः । वयं प्रच्छन्ना दूरात् तत्-कौतुकं पश्याम इति सूच्यते । न चान्धकारिणि गृहे अस्यासामर्थ्यम् इत्य् आह—ध्वान्त-युक्तेऽगारे गृहे स्वाङ्गम् एव अर्थ-प्रदीपं रचयति । तत्रापि धृत-मणि-गणम् इति अङ्ग-प्रभया तिमिर-विनाशात् तत्रापि समर्थोऽयम् इति भावः । यद्यपि सौन्दर्य-मधुर-भाषण-मोहिता न कापि प्रत्यक्षं चौर्यम् अस्य वर्जयेत्, तथापि परोक्ष-चौर्य-प्रियोऽयं विदित इत्य् आह—यर्हि इति गोपीनां गृह-कार्याभिनिवेशं सहचरैर् विज्ञाय तद्-अगृहेषु दध्य्-आदि चोरयतीति ॥३०॥


॥ १०.८.३१ ॥

एवं धार्ष्ट्यान्य् उशति कुरुते मेहनादीनि वास्तौ

स्तेयोपायैर् विरचित-कृतिः सुप्रतीको यथास्ते ।

इत्थं स्त्रीभिः स-भय-नयन-श्री-मुखालोकिनीभिर्

व्याख्यातार्था प्रहसित-मुखी न ह्य् उपालब्धुम् ऐच्छत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : "**रे रे चोर !" इत्य् आक्षिप्तः सन्न् उशति जल्पति "त्वम् एव चोरोऽहं गृह-स्वामी" इत्य्-आदीनि धार्ष्ट्यानि प्रागल्भ्यानि । अथवा, उशति हे कमनीये यशोदे ! यद् वा, उशति वास्तौ स्वर्चिते गृहे मेहनादीनि पुरीषोत्सर्गादीनि कुरुते । एवं स्तेयोपायैर् विरचिता कृतिः कर्म येन सः । त्वत्-समीपे सुप्रतीकः साधुर् इवास्तेस-भये नयने यस्मिंस् तच् च । तच् छ्री-युक्तं मुखं च तद्-आलोकिनीभिर् व्याख्यातार्था प्रख्यापित-जन्म-फला तत्-तत्-कर्म-फला वा उपालब्धुम् आक्षेप्तुं नैच्छत् ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उशति उश व्यक्तां वाचि तुद्-आदिको धातूनाम् अनन्तत्वात् । उश-धातोर् अप्रसिद्धत्वाद् अर्थान्तरम् आह—अथवा इति । क्रोधावेशे श्लाघ्य-सम्बोधनासम्भवं मत्वा पुनर् अर्थान्तरम्—यद् वा इति । पुरीषोत्सर्गादीनीत्य् अयम् अर्थस् तु स्वामिभिर् अभिप्रायान्तरेण कृतः—प्रतीयते स चेत्थं प्रतिभाति पुरीषस्य गोः पुरीषस्योत्सर्गम् इतस् ततः क्षेपणं काष्ठादिना बालान्तरेण वा शुष्क-श्व-विडाल-मयूर-कपोतादि-पुरीषस्य वान्यत आनीयोत्सर्गं वा करोति । आदि-पदाच् छुष्कास्थि-चर्मादि-ग्रह इति । न तु स्वयं स्वोदरान् मलम् उत्सृजति तथात्वे

जगज्-जन-मल-ध्वंसि-श्रवण-स्मृति-कीर्तनाः ।

मल-मूत्रादि-रहिताः पुण्य-श्लोकाः प्रकीर्तिताः ॥ इत्य्-आदि-पुराण-विरोधः ।

त्वक्-श्मश्रु-केश-रोम-नख-केश-पिनद्धम्

अन्तर्-मांसास्थि-रक्त-कृमि-विट्-कफ-वात-पित्तम् ।

जीवच्-छवं भजति कान्तम् अतिविमूढा

या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ [भा।पु। १०.६०.४५] इति रुक्मिणी-वाक्य-विरोधश् च स्याद् इति ।

यद् वा, बाल-लीला-विनोदार्थं मृषैव प्रपञ्चितानीति ज्ञेयम् ।

तोषिण्या तु मे मम उशति कमनीये वास्तौ स्फुटं नादीनि नाद-युक्तानि धार्ष्त्यानि । लेपादिनोशति सुन्दरे मेहनं पूर्ण-कुम्भादिभ्यो जलादि-सेचनम् । आदिना धूल्य्-आदि-क्षेपः यद् वा, ईहनं चेष्टां मा कुरुते किं तु नेत्र-हस्तादिभिः कुरुत एव । यद् वा, कुरुते कुत्सिते रुते शब्दे त्वं ताडयामीत्य्-आदि-रूपे उशति कथिते सति मेहनादिनि शिश्न-प्रदर्शनादिनि कुरुते मम शिश्नं ताडयत्य् एवम्-आदिना वदतीत्य् अर्थः । शिश्नं महेन-शेफसी इत्य् अमरः । एवं स्तेयोपायैः पूर्व-श्लोकोक्तैः पीठकोलूखलाद्यैः । सुष्ठु प्रतीकावयव-सन्धो वा कर्म यस्य स तथा ।

प्रतीकः प्रतिकूलेऽथावयवावयविनोर् अपि ।

विलोमे कर्मणि ज्ञाने क्लीबम् अन्यत्र पुंसि च ॥ इति वर-तन्तुः ।

साधुः यथा-शब्द इत्य् अर्थे । साधुर् इव नायं साधुः । श्रिया युक्तं मुखं श्री-मुखम्आक्षेप्तुं वाचापि ताडयितुम् । किं च, धार्ष्ट्यानि इति बहुत्वाद् अन्यान्य् अपि पृष्ठत आगत्य नेत्र-निमीलनं गोपीभिर् गृहीतस्य यशोदा-पार्श्वे तत्-तत्-पुत्र-पत्य्-आदि-रूप-धारणं हारादि-त्रोटनं गोपी-मुखे गण्डूषादि-प्रक्षेपणम् इत्य्-आदिनि बहूनि ज्ञेयानि ॥३१॥


**


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं धार्ष्ट्यान्य् उशति इत्य्-आदि । कुरुते कारयते इत्य् अन्तर्-भूतण्य् अर्थः । अथवा, एवं धार्ष्ट्यानि कमनीयम् एव वास्तौ कुरुते । स्फुटम् । कीदृशानि ? नादीनि नाद-युक्तानि—"एवं करिष्यामि, तिष्ठ तिष्ठ" इत्य्-आद्य् उच्चैः शब्द-पुरःसराणि, उपक्रुश्य तोकान् [२९] इत्य्-आदि यत् पूर्वम् उपक्रोशः कृतः, स एवानूदित इत्य् अर्थः । अथवा, न आदीनि अनादीनीत्य् अर्थः, पुनः पुनः संपाद्यमानानि, न केवलम् अद्यैव । यद् वा, उशति आलेपनादिना कमनीये वस्तौ मेहनादीनि कुरुते, मेहनं पूर्ण-कुम्भान् भित्त्वा पयोभिः सेचनम्, मिह सेचने इति मुख्य एवार्थः । आदि-शब्दात् धूलि-पत्रादिभिर् आविलीकरणं तानीत्य् अर्थः । यद् वा, एवम् ईदृक् धार्ष्ट्यं येषु तानि ईहनादीनि चेष्टादीनि—चेष्टा आङ्गिकी क्रिया, आदि-शब्दाद् वाचिकी च, "मा कुरुत मा कुरुत एव" इत्य् अर्थः । अन्यथा अखण्ड-घन-सच्-चिदानन्द-विग्रहे तत्-तत्-स्फुरणम् अनुचितम्—अनौचित्याद् ऋते नान्यद् रस-भङ्गस्य कारणम् [ध्वान्यालोके ३.१४] इति न्यायात् ॥३१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धृष्टताम् आह—धार्ष्ट्यानि इत्य्-आदिना । एवम् इत्य् अस्य पर-पादेनान्वयः । मेहनं मूत्रणं तद्-आदीनिकुरुते । आदि-शब्देन मलोत्सर्ग-निष्ठीवनादीनि । हे उशति ! परम-साध्व्यास् तवेदृशः पुत्रो नैव योग्य इति भावः । वृद्धानां नर्म-परिपाटीयम् । ननु—

जगज्-जन-मल-ध्वंसि-श्रवण-स्मृति-कीर्तनाः ।

मल-मूत्रादि-रहिताः पुण्य-श्लोका इति स्मृताः ॥ इति पुराण-वचनात् ।

पुण्य-श्लोकानाम् अपि तावन् मल-मूत्रादिकं नास्ति, तत् कथं पुण्य-श्लोक-शिखामणेस् तद् घटताम् ? तथा हि त्रि-चत्वारिंशे—अथ कृष्णश् च रामश् च कृत-शौचौ परन्तप [भा।पु।१०.४३.१] इत्य् अत्र कृतं शौचं शुद्धत्वं निरपराधत्वं याभ्याम् इत्य् एव तैर् व्याख्यातम्, षष्टितमे च—

त्वक्-श्म-श्रु-रोम नख केश-पिनद्धम् अन्तर्

मांसास्थि-रक्त-कृमि-विट-कफ-वात-पित्तम् ।

जीवच्-छवं भजति कान्तम् अतिविमूढाः [भा।पु।१०.६०.४५] इति ।

श्री-रुक्मिणी-देव्यापि तद्-अभाव उक्त इति ? सत्यम्—मेहनादीनि कुरुते वानरादिना कारयतीत्य् अर्थः । यद् वा, स्वभावतस् तद्-अभावे\ऽपि बाल्य-लीला-चापल-दर्शनेन स्व-भक्त-जनानन्दनाय तदानीम् एव तत् कृत्वा दर्शयतीति मेहनादीनाम् अप्य् अबीभत्सत्वम् एव—रूप-नामादीनाम् इव तस्य लीलानाम् अपि सच्-चिद्-आनन्द-रूपत्वेनालौकिकत्वाद् ऊह्यम् ।

स-भय-नयन-श्री-मुखालोकिनीभिर् इति तद्-आक्रोशन-मुख्य-प्रयोजनम् उक्तम् । इत्थम् उक्त-प्रकारेण व्याख्यातो विशेषेण वर्णितो\ऽर्थः, तद्-अवतार-प्रयोजनं निज-जन्म-फलं वा। किं वा, श्री-कृष्ण-धूर्ततादि-चेष्टा यस्यां सा, अत एव प्रहर्षोदयेन पुत्र-चाञ्चल्यादि-कौतुकेन वा । किं वा, तासां कौतुक-परताम् एवाभिप्रेत्य प्रहसित-मुखी सुस्मेरानना सती ह्य् एव उपालब्धुं तम् आक्षेप्तुं नैवैच्छद् इच्छाम् अपि नैवाकरोद् इत्य् अर्थः । अत्रेदं तत्त्वम्—मातृ-स्नेह-भरेण सुख-विशेषार्थं श्री-भगवतस् तस्याः सकाशाद् उपालम्भनेप्सा चिरं नितराम् आसीत्, तथापि पुत्र-वात्सल्येन सा तस्य अन् सिद्धेति ॥३१॥

एवं धार्ष्ट्यान्य् उशति कुरुते मेहनादीनि वास्तौ

स्तेयोपायैर् विरचित-कृतिः सुप्रतीको यथास्ते ।

इत्थं स्त्रीभिः स-भय-नयन-श्री-मुखालोकिनीभिर्

व्याख्यातार्था प्रहसित-मुखी न ह्य् उपालब्धुम् ऐच्छत् ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तस्य भयातिशयं दृष्ट्वा संक्षेपेणैवोपसंहरण्त्यः किम् अप्य् अन्यद् अपि हास्याय व्यञ्जयन्ति—एवम् इत्य् अर्धेन । एवं स्तेयोपायैर् विवर-चितकृतिः कृताकृत्यस्सन् पुनर् धार्ष्ट्यानि आसां सम्बन्ध-विशेषेण हसन्तीनां वृद्धानाम् उत्तरीयाकर्षणादीनि स्व-गृहिणी-सदृशानि देशादीनि च कुरुते । किं बहुना, आसां वास्तौ मूत्रादीनिकुरुते । एता मार्जयितुं नित्यं न शक्नुवन्ति स्वयम् आगम्य पश्यत चेति भावः । अहो पश्यत सोऽयम् एव नान्यः इति परस्परम् आहुः—सुप्रतीक इति । तद् एवं प्रेम-विनोदं वर्णयित्वा श्री-यशोदायाः स्नेह-पूरं दर्शयति—इत्थम् इति । तासां स नर्म-प्रेम-विशेषमयं क्रोशन-फलम् आह—सभय- इत्य्-आदि । इत्थं व्याख्यातो\ऽर्थः तद्-अर्थनीयं परम-प्रागल्ब्यं यस्यां सा । अत एव प्रहर्षोदयेन पुत्र-चाञ्चल्यादि-कौतुकेन तासां कौतुक-परताया वितर्केण च प्रहसित-मुखी प्रहसितं हास-प्रारम्भ-सहितं मुखं स्वल्प-हसित-युक्तम् इत्य् अर्थः । तादृशं मुखं यस्याः सा हि एव उपालब्धुम् इच्छाम् अपि नाकरोत् किन्तु "वत्स ईदृशीष्व् ईदृशं व्यवहारं कथं करोति ?" इति स-लालनम् उवाचेत्य् अर्थः । इदम् एव निश्चित्य ताभिर् अप्य् आगत्य क्रोशनं कृतं यथा मातृ-शैथिल्यम् अनुभूयाधिकम् अस्मद्-गृहे चापल्यं विधास्यत्य् अयम् इति अन्यथा तु तस्य सङ्कोचनं नाकरिष्यतैवेति भावः । अत्र—

जगज्-जन-मल-ध्वंसि-श्रवण-स्मृति-कीर्तनाः ।

मल-मूत्रादि-रहिताः पुण्य-श्लोका इति स्मृताः ॥ इति ।

पुराणन्तर-वचनेन कैमुत्यापातात् त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् इत्य्-आदि-श्री-रुक्मिणी-देवी-सिद्धान्तानुसाराश् च यद्य् अपि तत्र सम्भवति, तथापि बाल्य-लीला-विनोदार्थं मृषैव प्रापञ्चितानि मेहनादीनीति ज्ञेयं । रोचमानतार्थ-प्रधानो\ऽत्र वश-धातुस् ततः कमनीये इति व्याख्यातम् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उशति कमनीय इति वशेर् अत्र रोचमानतार्थ-प्राधान्यात् । नह्य् उपालब्धुम् ऐच्छद् इति तद् एतद् एवाभिप्रेत्य ताभिर् अपि क्रोशनं कृतम् इति भावह् ॥३१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं चौर्यम् एव कुरुते इत्य् आहुः—एवम् इति । हे उशति हे कमनीये ! स्व-पुत्र-गुण-श्रवणेनानन्दिते हे यशस्विनि ! वास्तौ देव-पूजार्थम् आमृष्ट-लिप्त-भूमौ मेहनादीनि मूत्र-पुरीषोत्सर्गादीनि धार्ष्ट्यान्तुपद्रवान् पुरन्ध्री-जन-वेण्य् उत्तरीयाकर्णण-विवाह-चिकीर्षया पाद-प्रहारादीनि किं च तवानेन तनयेन महती सम्पत्तिर् भाविनीत्य् आह—स्तेय-रूपैर् उपायैर् वित्तार्जनैर् विशेषण रचिता कृतिर् व्यापारो येन सः बाल्ये दधि चौरयति यौवने परवित्त-कलत्रादीन्य् अपि चोरयिष्यतीति भावः । त्वत् समीपे तु सुप्रतीकः साधुर् इवास्ते तासां प्रेम-विशेषमय-फूत्कार-फलम् आह, स-भय-नयनं "माता मां ताडयिष्यति" इति शङ्का-व्याकुलं श्री-युक्तं स-चकित-विह्वल-दृष्टित्व-लक्षण-शोभा-विशिष्टं मुखम् आलोकितुं शीलं यासां ताभिर् व्याख्यातो\ऽर्थः श्री-कृष्ण-धार्ष्ट्य-दर्शन-श्रवण-श्रावणादि-विविध-भाव-शोभित-तन् मुखावलोकनोत्थम् आनन्दो यस्यै सा अत एव प्रहसित-मुखी तासां स्वस्य चानन्देन प्रफुल्लित-मुखी उपालब्धुम् आक्षेप्तुं नैच्छद् इच्छाम् अपि नाकरोत् मत्-सुत-धार्ष्ट्येनेमा आनन्देन निमज्जन्तु तत् तत् सूचयन्त्यो माम् अपि निमज्जयन्त्व् इत्य् आकाङ्क्ष्येति भावः ॥३१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.३२ ॥

6एकदा क्रीडमानास् ते रामाद्या गोप-दारकाः ।

कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कदाचिद् अपराधान्तरे उपालभत, तदा तु महद् आश्चर्यम् अभूद् इति कथयन्न् आह ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपराधान्तरे मृद्-अशन-रूपे । गोपा उपालभन्त यशोदायै कृष्ण-कर्म निवेदयाञ्चक्रुः । गोप-दारका गोप-बालाः ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्त-कर्तृकोपालम्भनानन्देप्सया बाल्य-लीलानुक्रमेणैव मृद्-भक्षण-लीलाम् आह—एकदा इत्य्-आदिना । ते श्री-कृष्णस्य सहचरा हित-परा वा । गोपयन्ति श्री-व्रजेश्वर्य्-आज्ञया सर्वतः श्री-कृष्णं रक्षन्तीति गोपाश्बालकाश् च । यद् वा, गोपानां बालका इति सहज-स्निग्धत्वम् उक्तम् । मृदं भक्षितवान् इति मृद्-भक्षणानुकरण-पाटवेन श्री-बलदेवादीनां तथैव प्रतीतेः । किं वा, रहसि साक्षाद् भक्सणस्य संलक्षणाद् अन्यथोपलम्भनासिद्धिः ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् एतत्-पूर्वां काम् अपि पूर्ववद् अद्भुत-लीलाम् अनुस्मृत्याह—एकदा इत्य्-आदि । ते तथा-विधा रामाद्या इति तेषु ज्येष्ठ-वर्गं बोधयति । अत एव श्लेषेण गोपायन्ति श्री-व्रजेश्वर्य्-आज्ञया सर्वतः श्री-कृष्णं रक्षन्तीति गोपाश्ते दारकाश् च दारु-पुत्तलिकावत् तद्-आज्ञा-कारिणः । यद् वा, दारानन्द-पत्नी तस्याह् काः श्री-कृष्ण-मृद्-भक्षण-निवेदनेन तत्-सुख-रूपास् तस्याः सुख-प्रदा इत्य् अर्थः । कृष्ण इति भुवः सकाशान् मुदाकर्षकत्वान् मृदम् इति कोमल-मृत्तिकाम् । अत एव भक्षितवान् निवारितोऽपीत्य् अर्थः । एवं मात्रे मृद्-भक्षण-सहन-लीलायै न्यवेदयन् अतिशय-निवारणाय विनयेन मृद्-भक्षणम् अपलपन्त इत्य् अर्थः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पुनर् एतत् पूर्वां काम् अपि पूर्ववद् अद्भुत-लीला-स्मृत्याह—एकदा इत्य्-आदि । एवं निगूढेति व्याख्यायां यद्य् एवम् ॥३२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरन्ध्रीणां सूचनं वात्सल्य-रसास्वाद-फलकं समाप्य सहचराणाम् अपि सूचनं विस्मय-रसास्वादोदर्कम् आह—एकदा इति दघ्नः स्तेये अनुपालम्भं प्रोच्य प्राह मृदोऽशने उपालम्भं जनेन्येति द्वये प्रेमैति हेतुताम् ॥३२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं दधि-चौर्यादि चरितेन सूचितेनापि मातुर् उपालम्भालाभाद् अपरितुष्टस्य हरेस् तद्-उपलम्भकं चरितम् आह—एकदा इति ॥३२॥


॥ १०.८.३३ ॥

सा गृहीत्वा करे कृष्णम्7 उपालभ्य हितैषिणी ।

यशोदा भय-सम्भ्रान्त-प्रेक्षणाक्षम् अभाषत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपालभ्य निर्भर्त्स्य । भयेन सम्भ्रान्त-प्रेक्षणे चपल-निरीक्षणे अक्षिणी यस्य तम् ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हितैषिणी मृद्-अशनेन कश्चिद् रोगो मा भूद् इति हेतोस् ततो निवारयन्तीत्य् अर्थः ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : करे गृहीत्वा अतिभय-भङ्गार्थम् । हितैषिणी इति स्नेह-भरेण हितार्थम् उपालम्भन-योग्यतोक्ता । मातुः परम-दुःख-भय-प्रदेनात्मापराधेन ताडनम् अप्य् आशङ्क्य तत्-परिहाराय भय-सम्भ्रान्त-प्रेक्षणाक्षम् अतः केवलम् अभाषत एव, न तु ताडितवतीत्य् अर्थः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पलायनम् आशङ्क्य करे गृहीत्वा हितैषिणी इति तत्र उपालम्भन-ताडनादिकम् अपि हितम् इति तज्-जातीयस्य प्रेम्णः परमाश्चर्यत्वं व्यञ्जितं—पुत्रम् इति । तस्या एव तद्-योग्यत्वं मातुः परम-दुःख-भय-प्रदेनात्मापराधेन तादनम् अप्य् आशङ्क्य भय-सम्भ्रान्त-प्रक्षेणाक्षम् अतः केवलम् अभाषत एव, न तु ताडितवतीत्य् अर्थः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : करे गृहीत्वा इति पलायनाशङ्कया उपालभ्य निर्भर्त्स्य हितैषणी इत्य् उपालम्भ-ताल्दनादाव् अपि प्रेम्णः पोष एव न तु तत्र दोषः । पुत्रम् इति मातुर् इयं रीतिर् एव नत्वनीतिः भय-सम्भ्रान्त इति परमेश्वरस्यापि तादृशत्वं प्रेम-वश्यत्व-द्योतनया भूषणम् एव न तु दूषणम् इति भावः ॥३३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.३४ ॥

कस्मान् मृदम् अदान्तात्मन् भवान् भक्षितवान् रहः ।

वदन्ति तावका ह्य् एते कुमारास् तेऽग्रजोऽप्य् अयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अदान्तात्मन् चपल-गात्र । रह एकान्ते ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अग्रजो बलदेवः ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपालम्भनम् एव किञ्चिद् उद्दिशति—कस्माद् इति । अदान्तात्मन् ! असंयत-चित्त ! रह इति श्री-रामादीनां साक्षान् मृद्-भक्षणाशक्तेः । हि हेतौ निश्चये व । तावका इति मिथ्यात्वम् अपवादादिकं च निरस्तम् । एते साक्षाद् वर्तमाना इति परोक्षत्व-अन्यथात्वादिकं च । ननु मातर् नर्मणैते वदन्तीति चेत् तत्राह—तवाग्रजो\ऽपि वदति इत्य् अयम् इति त्वत्-साक्षाद् एवास्योक्तौ न को\ऽपि संशय इत्य् अर्थः ॥३४॥

ऐष्णव-तोषणी : उपालम्भनम् एव किञ्चिद् उद्दिशति—कस्माद् इति । अदान्तात्मन् ! हे असंयतेन्द्रिय ! रह इति श्री-रामादीनां साक्षात् मृद्-भक्षण-शक्तेः । हि हेतौ निश्चये वा । तावका इति मिथ्यापवादादिकं निरस्तम् । एते साक्षाद् वर्तमाना इति नात्रपलपितुम् अपि शक्ष्यसीति भावः ।

ननु, मातर् नर्मणैवैते वदतीति चेत्, तत्राह—तवाग्रजो\ऽपि वदतीति । अत्र च अयम् इति त्वत् साक्षाद् एवास्योक्तौ न को\ऽपि संशय इत्य् अर्थः । अग्रज इति श्री-वसुदेव-नन्दयोर् भ्रातृत्वेन श्री-रोहिणी-यशोदयाः परम-सख्येन श्री-नन्देन पुत्रत्वं वाचयित्वा लाल्यमानत्वेन च तथा व्यवहारात् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे अदान्तत्मन् ! चञ्चल-गात्र हे अनवस्थित-चित्त ! मृदम् इति मद्-गृहे किं सितादिकं न प्राप्नोषीति भावः ! रह इति मत्-साक्षात् तद् अशक्तेः वदति तावका इति नायं मिथ्यापवाद इति भावः । मत्-ताडनाकाङ्क्षिण एते मद्-वैरिण एवेति चेत् तवाग्रजो बलदेवो\ऽपीति अयम् इति त्वत्-साक्षाद् एवेति नात्र सन्देह इति भावः ॥३४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.३५ ॥

नाहं भक्षितवान् अम्ब सर्वे मिथ्याभिशंसिनः ।

यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाहं भक्षितवान् इति । न हि बाह्यं किञ्चिन् मया भक्ष्यते, मत्-कुक्षाव् आदाव् एव सर्व अस्तीति भावः । समक्षं प्रत्यक्षम् ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति भाव इति । भक्षणं तु बाह्यस्थ-वस्तुनो मुखे प्रवेशन-रूपम् । तत् तु मया न कृतम् इति तात्पर्यम् । किं च, हे अम्ब ! अहं न भक्षितवान् । मुखेन भक्षितं प्राण-रक्षार्थं मुख-प्राणयोर् एव भक्षकत्वं मम तु, स चान्यः प्राण-देहयोः इत्य् उक्तेः । आत्म-रूपत्वात् ताभ्यां भिन्नत्वान् न भक्षकत्वम् । आत्म-रूपत्वं तु, अहम् आत्मा गुडाकेश [गीता १०.२०] इति गीतासूक्तेः । प्रथितम् एव—यद्य् एते सत्य-गिरः, तर्हि येन मुखेन भक्षितं तत् समक्षं प्रत्यक्षं पश्य इति सम्बन्धः । आत्मनस् तु एष आत्मा विहत-पाप्मा विजरो विशोको विमृत्युर् विजिघत्सो विपिपासः [छा।उ। ८.१.५] इत्य्-आदि श्रुतेर् न भक्षकत्वम् । यद् वा, यदि यतः । नह्यति बन्धात्यावरण-शक्त्या अचिद्-अंशम् इति नाहं माया तस्या इदं कार्यं नाहं माया-कार्यम् इदं जगत् इत्य् उक्ते सर्वं विश्वं नाहम् ।

यद् वा, नह्यते बध्यतेऽज्ञानेन यत्रेति नहः प्रपञ्चः स एव नाहस् तं प्रलये भक्षितवान् अस्मि, तर्हि ततः सर्वेऽमिथ्याभिशंसिनः सत्य-वचनाः । मे मुखं, हे अम्ब सम्यग् अक्षं ज्ञानं यत्र, तत् समक्षं मद्-दत्त-दिव्य-दृष्टि-पूर्वकं पश्य । अक्षति व्याप्नोति सर्वत्रेत्य् अक्षं ज्ञानं वस्तु-मात्रस्य ज्ञान-व्याप्यत्वाद् इति । किं-भूतस्य ? सच् च त्यच् च सत्यं पञ्च-भूतात्मकं जगत्, सच् च त्यच् चाभवत् [तै।उ। २.६] इति श्रुतेः । तद् गिरति भक्षतीति सत्य-गीस् तस्य तथा । अत्ता चराचर-ग्रहणात् इति न्यायात् ।

यद् वा, क्रुद्ध आह—यदि मिथ्याभिशंसिनः सर्वे तव कोऽर्थस् त्वदीया अहं च न तव न त्वदीयस् तर्हि हे अनम्ब वैरिणि सत्य-गिरः सत्य-वक्तुर् मम मुखं समक्षं सम्यग्-दृष्टि-युक्तं न त्व् अपराधिन इव परावर्तितं पश्य इति । किम्-भूतं मुखम् ? भक्षितुं शीलम् अस्येति भक्षीत्य् अर्थः ।

यद् वा, अहं ना पुरुष भक्षितवान् एते सर्वेऽमिथ्याभिशंसिन एव । हे सति ! यद्य् एतेऽगिरो-भक्षकास् तर्हि ममैव मुखं पश्येति । सर्वं वाक्यं सावधारणम् इति न्यायात् । इत्थम् अन्वयेन सर्वथा श्री-कृष्णस्य सत्य-वक्तृत्वम् एव, अन्यथा न मयोदित-पूर्वं वा अनृतं तद् इमे विदुः [भा।पु। १०.२२.११] इति वक्ष्यमाण-विरोधः स्याद् इत्य् अर्थः ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नाहं भक्षितवान् इत्य् अनुकरणेन तस्य तत्त्वतो मिथ्यात्वात् । किं वा, भयेन महा-सङ्कटे मिथ्योक्तेर् अप्य् अदोषात् । किं वा, अत्र मिथ्योक्तेर् एव तद्-भक्त-विशेषेषु सुख-हेतुत्वात् । हे अम्ब इति ताडन-शङ्कया स्नेहं विवर्धयति । सर्व इत्य् अनेन गोपीर् अपि सङ्गृह्णाति, यथा ताः पूर्वं मिथोचुस् तथेमे चेत्य् अर्थः । यद् वा, एतद्-अनुमानेन ता अपि मिथ्या-वादिन्य एवानुमन्तव्याः । मे मुखं पश्य इत्य् अनुकरण-पक्षे तत्त्वतोऽपि मिथ्यात्वाद् एव । पक्षान्तरे, प्रयत्नेन समग्र-भक्षणस् तच्-चिह्नापगम-मननात् । किं वा, तद्-द्वारा किञ्चिद् अद्भुत-प्रदर्शनयान्य-चित्ततापादनार्थम् ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नाहं भक्षितवान् इति श्री-कृष्ण-वाक्यं बाल्य-केलौ मिथ्योक्तेर् अप्य् अदोषत्वात्, प्रत्युत वर्णन-श्रवणाभ्यां श्री-शुकादि-साधु-गण-सुख-हेतुत्वेन गुणत्वात् । हे अम्ब ! इति ताडन-शङ्कया स्नेहं विवर्धयति । सर्व इत्य् अनेन मद्-अग्रजोऽप्य् अयम् अन्य-बालवद् एव मन्यतां न चात्र विशेष इति भावः । मे मुखं पश्य इति समग्र-भक्षणस् तच्-चिह्नापगम-मननात् ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ शिशुभिः सह रामेण कथितं मृद्-भक्षण-कुपितया मात्रा भर्त्सितस् त्रासात् स्वयम् एव मिथ्या वदन् परान् मिथ्या वद्नतीति दूषयन्न् आह—नाहं भक्षितवान् इत्य्-आदि । तर्हि कथम् एते वदन्ति ? तत्राह—सर्वे मिथ्याभिशंसिनः इति भगवद्-वचनम् अलीकतया उपपद्यत इति न मन्तव्यम्, भक्षितस्य दर्शयितुम् अशक्यत्वात् । भक्षितम् एव न भवति, मय्य् एव सर्वं वर्तते इति नाहं भक्षितवान् । यदि भक्षिता मृण्मयेत्य् अमी सत्य-गिरस् तदा मन्-मुखं समक्षं साक्षात् पश्य इति सर्वम् एव जठरे दर्शयतीति भक्षणाभावात् सत्य-वादिना स्वयम् एव भवितव्यम् ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण उवाच—नाहम् इति । बाल्य-स्वभावेन ताडन-भयान् मिथ्योक्तिर् वात्सल्य-रस-पोषिका । अत एव वात्सल्यादीनां रसानां प्रेम-परिणामत्वात् प्रेमवतां च भक्तत्वात् भगवतश् च भक्त-वत्सलत्वात् भक्त-वात्सल्यस्य च पृथिव्य्-उक्त-सत्य-शौच-दयादि-नित्य-चिन्मय-सर्व-गुण-गण-चक्रवर्तित्वात् भक्त-वात्सल्य-गुणाङ्ग-भूता चेत्य् एवं भूतत्वे मिथ्यादयो भगवति न दोषायन्ते, प्रत्युत महा-गुण-चूडामणयो भवन्तीति विवेचनीयम् ॥३५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.३६ ॥

यद्य् एवं तर्हि व्यादेहीत्य् उक्तः स भगवान् हरिः ।

व्यादत्ताव्याहतैश्वर्यः क्रीडा-मनुज-बालकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् एवं तर्हि व्यादेहि मुखं प्रसारयेति । व्यादत्त प्रसारितवान् ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्य् एवं सत्य-वक्तासि । अव्याहतैश्वर्योऽविनाशि-सामर्थ्यवान् ईश्वर इति यावत् ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : क्रीडा-मनुज-बालकः इति क्रीडाम् अनुजव-युक्ता अलका यस्य ॥३६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स निजाशेष-भगवत्ताभिव्यञ्जको\ऽतो\ऽनिर्वचनीय-माहात्म्यामृत-महार्णवो यो भगवान् परमेश्वरो\ऽत एव हरिः सर्व-चित्ताकर्षकः । यद् वा, भगवान् सर्वैश्वर्य-परिपूर्णो यो हरिः इत्य् अवतारित्वम् उक्तम् । तत्रापि वैशिष्ट्यम् आह—स इति । तच् च—नारायण-समः [भा।पु।१०.८.१९] इति बहुव्रीहिणा प्राग्-उद्दिष्टम् एव, अत एवात्याहतं बाल्य-लीलायाम् अप्य् अप्रतिहतम् ऐश्वर्यं यस्य स इति वक्ष्यमाणेच्छा-मात्रेण सहसा मुख-द्वारा जठरान्तः कार्य-कारणात्मक-विश्व-प्रदर्शणे शक्तिः समर्थिता । यद्य् अपि क्रीडार्थं मनुज-बालक इत्य् उक्ते\ऽपि क्रीडाया नित्यत्वान् मनुज-बालकस्यापि तत् सिद्धम् एव, तथापि क्रीडा-युक्तो मनुज-बालकः । यद् वा, क्रीडाम् अनु तां लक्ष्यी-कृत्य जायत इति क्रीडा-मनुजश् चासौ बालकश् च । यद् वा, क्रीडाम् अनु क्रीडायां जव इतस् ततो धावनादि-वेगः, तद्-युक्ताः सदालोला अलका यस्येत्य् अत्थन्त-बाल्य-क्रीडा-परतोक्ता ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स श्री-कृष्णाख्यः भगवान् नित्याशेष-भगवत्ता-युक्तत्वेन मनः-सङ्कोच-हेतुर् अपि हरिः सर्व-मनोहरः माधुर्यातिशयस्यैव प्राधान्य-प्रकाशनेन धन्य-शील इत्य् अर्थः । अत एव न विशेषेण न च सर्वतो हन् त्यक्तम् ऐश्वर्यम् अपि येन सः, किन्त्व् अनादृतम् अपि तत् यस्य निकटे स्थित्वा निजोचित-लीला-विशेषावसरं सदा प्रतीक्षते कदाचिल् लभते च तादृश इत्य् अर्थः । क्रीडा-मनुज-बालकश् च स्वयं क्रीडया लीलया मनुज-बालकः, तत्-सदृश इत्य् अर्थः । यद् वा, क्रीडा-मनुजाः तदीय-तादृश-नित्य-लीला-सम्बन्धि-मनुष्याः, न त्व् अदृष्ट-वशा माया-सम्बन्धि-मनुष्याः श्री-नन्दादयः, तेषां बालकः । आगमानुसारेण नित्य-तल्-लीलः उभयथा स्वेच्छामय-स्वरूपाविर्भावोचित-लीला-रसाविष्ट इत्य् अर्थः । अत एव व्यादेहि इत्य् उक्त-मात्रो व्यादत्त व्यादात् मातृ-कोप-रवि-रश्मि-लेश-वशात् मुख-नीलाम्बुजं विकसितं दधारेत्य् अर्थः । भय-सम्भ्रान्त-प्रेक्षणाक्षम् इति चोक्तं । तद् एवम् असौ सदैव तादृश-लीला-रस-भोगी तादृश-तद्-ऐश्वर्य-शक्तिर् एव तु स्वयं वा तम् एवालिङ्ग्य वा तद्-अभीष्ट-लीला-रस-सम्पादनाय दुःसमाधानं समादधाति यथाधुना मातरि कोपाच्छादक-भावान्तरापादनेन तथा सर्वम् एवास्यान्तर् विद्यते । ततो न किम् अपि भक्षयतीति तद्-वचः सत् सत्यापनेन च तल्-लक्षण-निज-प्रभु-साहाय्याय विस्मयादि-द्वारा मातुस् तत्-प्रेम-पोषाय च विश्वं दर्शितवती । यथा च तृणावर्त-वधादौ तस्मिन् भारादिकम् आविर्भावितवती । तद् एवम् अचिन्तित-सर्वार्थ-सिद्धेर् ऐश्वर्यम् अपि महद् एव सिद्धम् इति ज्ञेयम् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं च, स श्री-कृष्णाख्यः भगवान् नित्याशेष-भगवत्ता-योगेन मनः-सङ्कोच-हेतुता-योग्योऽपि हरिः माधुर्यातिशयेन प्राधान्येन सर्व-मनोहरः, अतो न विशेषेण च । सर्वतो हतं त्यक्तम् ऐश्वर्यम् अपि येन सः । किन्त्व् अनादृतम् अपि तत् यस्य निकटे स्थित्वा निजोचित-लीला-विशेषावसरं सदा प्रतीक्षते कदाचित् तादृश इत्य् अर्थः । क्रीडा-मनुजास् तदीय-तादृश-नित्य-लीला-सम्बन्धि-मनुष्याः श्री-नन्दादयः, तेषां बालकः, नित्य-तल्-लीलः । तत एव व्यादेहि इत्य् उक्त-मात्रो व्यादत्त इति विदारिते आस्ये सतीत्य् अर्थः ॥३६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यादेहि मुखं प्रसारय । ननु, माता ममाद्य्-अपराधं मा पश्यत्व् इतीच्छयैव ताडनाद् भीतेन भवता मिथ्योक्तं मुख-प्रसारणे तु मृत्तिका-भक्षण-लक्षण-व्यक्त्या सा तस्येच्छा कथं सफला स्यात् ? इत्य् अत आह—न व्याहतं प्रेम-माधुर्यवत्त्वेन निजैश्वर्यानुसन्धानाभावे\ऽपि न पराहतं, किन्तु स्व-कृत्यावसरे स्वयम् एव सावधानम् ऐश्वर्यं यस्य सः । सत्य-सङ्कल्पता-शक्त्या प्रेता ऐश्वरी शक्तिः स्वयम् एव प्रकटी-भूय विश्वं दर्शयित्वा श्री-यशोदां विस्मय-रस-निमग्नीकृत्य पुत्र-भर्त्सन-फलकं कोपं विस्मारयामासेति भावः ।

नन्व् अलं भगवतः प्रेम-माधुर्यास्वादेन यतो यशोदा-भर्त्सन-ताडनादिभ्यो\ऽपि तस्य भयं स्याद् अत ईश्वरो\ऽहम् इति स्वयम् एव निजैश्वर्याम् अनुसन्धाय निर्भय एव कथं न तिष्ठतु ? इत्य् अत आह—क्रीडा इति । क्रीडा-प्रधानो मनुज-बालक इति शक-पार्थिवादित्वान् मध्य-पद-लोपः शाक एव प्रधानं यस्य तथा-भूतः पार्थिव इत्य् अत्र पार्थिवो यथा-निजास्वाद्येषु खण्डादि-वस्तुषु मध्ये शाकम् एव प्रधानां मन्यते, तथैवायम् ईश्वरो मनुज-बालक-क्रीडां तादृश-प्रेममयीम् एव प्रधानं, न तु स्वीय-सर्वेश्वरत्वादिकम् इति भावः ॥३६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.३७-३८ ॥

सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः ।

साद्रि-द्वीपाब्धि-भू-गोलं स-वाय्व्-अग्नीन्दु-तारकम् ॥

ज्योतिश्-चक्रं जलं तेजो नभस्वान् वियद् एव च ।

वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास् त्रयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तस्मिन् मुखे विश्वं ददृशे ददर्श । तत् प्रपञ्चयति—जगज् जङ्गमं स्थास्नु स्थावरं खम् अन्तरिक्ष-लोकं साद्रि-द्वीपाब्धि-भूगोलं पर्वत-द्वीप-समुद्र-सहितं भूगोलं भूर्-लोकं वायुः प्रवहः अग्निर् वैद्युतः इन्दुश्तारकाश् च तत्-सहितम् ॥३७॥

ज्योतिश् चक्रं स्वर्-लोकं वैकारिकाणि देवा मन इति वैकारिक-शब्देन गृहीतम् अपि देव-वैलक्षण्यात् पुनर् उक्तम् । इन्द्रियाणि च तैजसानि मात्रास् तामसाः शब्दादयः ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रवहो येन प्रेरितं ज्योतिश् चक्रं भ्रमति । वैद्युतस् तडिद्-रूपो विधनः। प्रसिद्धौ वाय्व्-अग्नी त्व् अग्रे वक्ष्यमाणाव् एवात एतयोर् ग्रहणम् । नभस्वान् वायुः । वियद् आकाशाम् ॥३७-३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तस्मिन् भगवति तज्-जठरान्तर् इत्य् अर्थः । अत एव तैर् अपि नवमाध्यायारम्भे लिखितम्—तनूदराश्रितं विश्वम् इति । चराचरात्मकं विश्वम् एव विवृणोति—खम् इत्य्-आदिना भेदम् इत्य् अन्तेन । वाय्व्-अग्न्योर् उक्तयोर् तेजो-नभस्वतोः पुनर् उक्तिः प्रवाहाख्य-वायोर् वैद्युताग्न्श् च ज्योतिश्चक्रान्तः पृथक्-सत्तया भेदात् । स्व-वियतोर् अपि लोकत्व-शून्यत्वादिना भेदः । यद् वा, जलादिभिस् तत्-तद्-अधिष्ठातृ-महा-भूतानि चत्वारि भू-गोल-शब्देन तत्-तद्-अधिष्ठातृ-देवता-तद्-अधिष्ठानं च गोक-रूपम् उक्तम् । एव अपि वियद् अपि । तस्य व्यापकत्वादिनाद्य् अदृश्य त्वद् एव शब्दः । एवम् अयम् अगेऽप्य् अनुवर्त्यः ॥३७-३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सेति युग्मकम् । तत्र तस्मिन् भगवति तज् जठरान्तर् इत्य् अर्थः । भक्षणापलापोपयोगित्वात् वक्ष्यते च तैः तनूदराश्रितं विश्वम् इति चराचरात्मकं विश्वम् एव विवृणोति—खम् इत्य्-आदिना, भेदम् इत्य् अन्तेन । वैद्युतोग्निर्ज्योतिश् चक्रेऽपि ज्ञेयः खम् अन्तरिक्षं भुवर्-लोकम् इत्य् अर्थः । वियद् एव वियद् अपि ददर्श स्थूलानां तत्-परिच्छेद्यानां तत्-कार्याणां जलादीनां वा का वार्तेत्य् अर्थः । एवम् अग्रेऽप्य् अनुवर्त्यं च-काराद् अहङ्कारादींश् च अत्र निराकारणम् अपि वीक्षणं तद्-अधिष्ठातृ-देवानाम् अभेद-मानेन ज्ञेयम् ॥३७-३८॥

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र मुखान्तर् जठरे कृत्स्नस्य चान्तर् जठरे इति ब्रह्म-स्तवोक्तेः । जगत् जङ्गमं स्थास्नु स्थावरं खं भुवर्लोकं साद्रि इति भूगोलम् इत्य् अस्य विशेषणं स-वाय्व् इति ज्योतिश्-चक्रम् इत्य् अस्य वायु-प्रवाहः अग्निर् वैद्युतः । नभस्वान् नभस्वन्तं वैकारिकाणि देवान् गुणान् सत्त्वादींस् त्रीन् अत्र निराकाराणाम् अपि दर्शनं तद्-अधिष्ठातृ-देवतानां मूर्तिमत्वात् ॥३७-३८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.३९ ॥

एतद् विचित्रं सह-जीव-काल-

स्वभाव-कर्माशय-लिङ्ग-भेदम् ।

सूनोस् तनौ वीक्ष्य विदारितास्ये

व्रजं सहात्मानम् अवाप शङ्काम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् एतद् विचित्रं विश्वं सहैकदैव वीक्ष्य विचित्रताम् आह । जीवश् च गुण-क्षोभकः कालश् च परिणाम-हेतुः स्वभावश् च जन्म-हेतुः कर्म च तत्-संस्कार-भूतः आशयश् च एतैर् लिङ्गानां चराचर-शरीराणां भेदो यस्मिंस् तत् । तत्र व्रजं च सहात्मानं स्व-सहितं क्वचिद् वीक्ष्य सूनोस् तनाव् अल्पे विदारिते आस्ये शङ्काम् अवाप ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या एतत् दृश्यमानम् एतैर् जीवादिभिः सह । तत्र विश्वस्मिन् मुखे वा । यद् वा, जीवादिभेदान्तानां द्वन्द्वं कृत्वा पुनर् मत्वर्थीयोऽच् तत्र लिङ्गं सूक्ष्म-शरीरं भेदस् तत्-तद् व्यावर्तक-धर्मः ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सूनो-स्तनौ जठर-मध्ये वीक्ष्य तत्-तद्-विशेषेण स्व-दृग्भ्याम् एव साकाद् अवलोक्येति श्री-भगवद्-इच्छया । किं वा, प्राग् लिखित-सिद्धान्तान्तानुसारेण तस्या एव चक्षुः-शक्त्येति ज्ञेयम् । कदा विक्ष्य ? विदारितास्ये सति, तस्मिन्न् आस्ये विदारिते सतीत्य् अर्थः । शङ्काम् अवाप, विविधाम् आशङ्काम् अकरोद् इत्य् अर्थः ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कदा वीक्ष्य विदारितास्ये सति तस्मिन् व्रजं सहात्मानं आत्मभ्यां स्वाभ्यां श्री-कृष्ण-यशोदाभ्यां सहितं वक्ष्यते च श्री-ब्रह्मणा यस्य कुक्षाविदं सर्वं सात्मं भाति इति एवं तस्यैव बाल-विग्रहस्याचिन्त्य-शक्त्या युगपद् विभुत्वम् अध्यमत्वे तत एवास्यैव जगतोन्तः-स्थितत्व-बहिःस्थितत्वे दर्शिते शङ्काम् अवाप विविधाशङ्काम् अकरोद् इत्य् अर्थः । यद् वा, पुत्रं प्रति शङ्काम् अकरोत् वीक्ष्येति पूर्ववत् सिद्धान्तः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सदात्मानम् आत्मभ्यां स्वाभ्यां श्री-कृष्ण-यशोदाभ्यां सहितम् इति ॥३९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनश् च प्रपञ्चयति—एतद् विश्वं सह-युगपद् एव वीक्ष्य जीवश् च, गुणक्षोभकः कालश् च, परिणाम-हेतुः स्वभावश् च, जन्म-हेतुः कर्म च, तत् संस्कारः आशयश् च, तैर् लिङ्गानां शरीराणां भेदो यस्मिंस् तत् तनौ कुक्षौ विदारिते प्रसारिते आस्ये आस्य-द्वारा कुक्षावित्य् अर्थः । सहात्मानम् आत्म-पति-पुत्रादि-सहितं व्रजं च यस्य कुक्षाविदं विश्वम् इति ब्रह्मोक्तेर् अस्यैव निश्वस्यान्तःस्थितत्वे बहिः स्थितत्वे अचिन्त्य-योगमायया दर्शिते ततश् च कृष्ण-शरीरस्य जगन् मध्यवर्तित्व-जगद् व्यापकत्वाभ्यां परिच्छिन्नत्वापरिच्छिन्नत्वे वास्तवे एव व्यञ्जिते ऐश्वर्योपासकानां विश्वस्मिन् भगवद् दर्शनं भगवति विश्व-दर्शनं यद् उक्तं तद् एतद् एव माधुर्योपासक-शिरोधार्य-पदाम्बुजया श्री-यशोदयापि दृष्ट्वा च शङ्कां पुत्रं पुत्रं प्रत्यनिष्टाशङ्काम् अवाप ॥३९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.४० ॥

किं स्वप्न एतद् उत देवमाया

किं वा मदीयो बत बुद्धि-मोहः ।

अथो अमुष्यैव ममार्भकस्य

यः कश्चनौत्पत्तिक आत्म-योगः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ताम् एवाह—किं स्वप्नः ? इति । परितो विलोक्याह--नायं स्वप्नः । तर्हि किं देवस्य हरेर् माया ? इति । तथा चेद् अन्ये किं न पश्यन्ति ? तर्हि किं वा मदीय एव कश्चिद् बुद्धि-मोहो धी-विपर्यासो दर्पणे मुखवत् ? एवं तर्ह्य् अयं कृष्णोऽपि कथम् अन्तः प्रतीयते ? नहि दर्पणे दर्पण-प्रतीतिः । अन्तर् बहिश् चैक-रूपेण च कथं जगत् प्रतीयते ? तथा सति बिम्ब-प्रतिबिम्बयोर् इव परस्परं वैपरीत्येन प्रतीतिः स्याद् इत्य् आशङ्क्यान्यथा वितर्कयति—अथो इति । अथवा, मम एवामुष्य अर्भकस्यापि सतो यः कश्चन अचिन्त्य आत्म-योगः स्वीयम् ऐश्वर्यम् । औत्पत्तिकः स्वाभाविकः ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां शङ्काम् अभिनयेनाह—किं स्वप्न इति । तथा चेत् माया यदि तां मद्-अन्य एव, तर्हि दर्पण-स्थानीयोऽयं कृष्णः कथम् अन्तः न स्व-मुखे हि दर्पणे दर्पणं प्रतीयतेऽपि तु तद्-भिन्नं सर्वं । किं च, दर्पणान्तर् मुख-प्रतिबिम्बं दर्पण-द्रष्टुर् अभिमुखं भवेत् । एतत् तु ततो वैपरीत्येन भातीत्य् आह--तथा सति एक-रूपत्वेन प्रतीति-सद्भावे सति । अन्यथा प्रकारान्तरेण । वितर्कयति विमृशति । यद् वा, आत्मनो योगोऽपूर्वार्थ-प्राप्तिः,

योगोऽपूर्वार्थ-सम्प्राप्तौ सङ्गति-ध्यान-युक्तिषु ।

वपुः स्थैर्ये प्रयोगे च विष्कुम्भादिषु भेषजे ॥

विस्रब्ध-घातके द्रव्योपाय-सन्नहनेष्व् अपि ।

कर्मणोऽपि च इति मेदिनी ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी); जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतद् दर्शनम् उत वा देव-माया वा । बत खेदे । उत्पत्तिक इति वारं वारं विविधाश्चर्य-प्रदर्शनात् ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्यैव बाल-विग्रहस्याचिन्त्य-शक्त्या युगपद् विभुत्व-मध्यमत्वे तत एवास्यैव जगतोऽन्तः-स्थितत्व-बहिः-स्थितत्वे दर्शिते औत्पत्तिक आत्म-योगः जन्मैव स्वस्मिन् अपूर्वार्थं सम्प्राप्तिः ॥४०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (प्रीति-सन्दर्भः २४४) : तथान्येषां सम्यग् अनिर्णीत एव प्रभावे तत्-कार्यस्य प्रकारान्तर-कारणता-भावना सम्भवति । श्रीमत्-पित्रोस् तु सम्यङ्-निर्णीतेऽपि सम्भवति यथा श्रीमती माता किं स्वप्नः [भा।पु। १०.८.४०] इत्य्-आदिना श्री-कृष्णस्य विश्वोदरादित्वं स्वभावं मत्वापि पुनस् तद् असम्भवं मन्वाना अथो यथावन् न वितर्क-गोचरम् [भा।पु। १०.८.४१] इत्य्-आदिना । तच् च परमेश्वर-निर्मितम् इत्य् अङ्गीकृतवती । उत्पातवत् तन्-निवृत्त्य्-अर्थं तच्-चरणारविन्दम् एव शरणत्वेनाश्रतवती च । पुनश् च अहं ममासौ [भा।पु। १०.८.४१] इत्य्-आदिना निज-भावम् एव दृढीकृत्य तच्-छरणत्वम् एवावधारितवती । अहं ममासौ पतिर् एष मे सुतः इत्य्-आदिकम् इदन्ता-निर्दिष्टत्वेन प्रत्यक्ष-सिद्धम् एव । तथापि यन्-माययेत्थं [भा।पु। १०.८.४२] एतन्-नाना-प्रकारेण विश्वरूप-दर्शनाकारा कुमतिः । स एवेश्वरो मम गतिर् इत्य् अर्थः ।

यच् च इत्थं विदित-तत्त्वायां [भा।पु। १०.८.४३] इत्य्-आदिकं तद्-अन्ते श्री-शुक-वाक्यं तत्रापि तत्त्वं पुत्रत्वम् । स ईश्वरः [भा।पु। १०.८.४३] श्री-कृष्णस्यैवेश्वर-रूपो य आविर्भाव-विशेषः । यत्रैव प्रणतास्मि तत्-पदम् [भा।पु। १०.८.४१] इति तद्-वाक्यानुसन्धानजम् अपि पर्यवसितं, स एव व्यज्यते । वैष्णवीम् [भा।पु। १०.८.४३] इति विशेषणेन माया-शब्दस्य शक्ति-मात्र-वाचकत्वेन तस्यास् तत्-स्वरूप-शक्तित्वं बोध्यते । दया-मात्र-वाचकत्वेन वा । अत एव त्रय्या चोपनिषद्भिश् च [भा।पु। १०.८.४५] इत्य्-आदिना, नायं सुखापो भगवान् [भा।पु। १०.९.२१] इत्य्-आद्य्-अन्तेन ग्रन्थेन तत्-प्रशंसापि कृता ॥४०-४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तादृश-दर्शनस्य कारणं वितर्कयति—किं स्वप्नः ? एतद् दर्शनं किं स्वप्न-हेतुकम् ? नहि नहि, निद्रालस्य-नयन-कालुष्याद्य्-अभावात् । तत् किं देव-माया ? नहि नहि, मम निकृष्टाया मोहने देवानां प्रयोजनाभावात्, तर्हि किं मदीय एव कश्चिद्-बुद्धेर् मोहः विपर्यासः ? नहि नहि, स्वास्थ्य-समये सम्प्रति मम बुद्धि-मोह-कारणाभावात्, अथो अथवा अमुष्य मम बालकस्य नारायण-समो गुणैः [भा।पु। १०.८.१९] इति गर्ग-वर्णित-महाप्रभावत्वात् कश्चन अचिन्त्य आत्म-योगः आत्मीयम् ऐश्वर्यम् ॥४०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.४१ ॥

अथो यथावन् न वितर्क-गोचरं

चेतो-मनः-कर्म-वचोभिर् अञ्जसा ।

यद्-आश्रयं येन यतः प्रतीयते

सुदुर्विभाव्यं प्रणतास्मि तत्-पदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चरमं पक्षम् आश्रित्यायम् ईश्वर इति निश्चित्य् आह—अथो इति । चेतश् चित्तम् । तद्-आदिभिर् न वितर्क-गोचरम् । जगद् यद्-आश्रयं यद्-अधिष्ठानम् । येन करणाधिष्ठात्रा । यतो बुद्धि-वृत्त्य्-अभिव्यक्तात् । नन्व् इदम् अवितर्क्यं भवतु तत्-पदं कीदृक् ? अत आह--सुदुर्विभाव्यम् इति । इदम् अत्यन्तम् अचिन्त्यम् इत्य् अर्थः ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चरमं पक्षम् आश्रित्यायं स्वाभाविक आत्म-योग इति पक्षम्वितर्क-गोचरं विचार-विषयः । करणाधिष्ठात्रा इन्द्रियाधिपेन । बुद्धि-वृत्ताव् अभिव्यक्तं प्रतिबिम्बितः । तस्माच् चेतनत इत्य् अर्थः । अस्तु जगद् अवितर्क्यम् इत्य् आशङ्कते—नन्व् इति । पद्यते ज्ञायतेऽनेनेति पदं स्वरूपं । तस्य जगद्-अधिष्ठातुः पदं तत्-पदम् । इत्य् अर्थ इति--अचिन्त्यस्य कथनम् अशक्यम् ? इति भावः । यद् वा, अदो वस्तु यादृशं, तत् तादृशं चेतो ब्रह्मात्मनो रुद्रः कर्म इन्द्रो वचो गुरुः इति स्मरणात् । एतैर् ब्रह्मादिभिर् अञ्जसा साक्षाद् वितर्क-गोचरं चिन्तनानुमान-विषयं न विरुद्ध-तर्क-विषयं वा । तर्हि देवैर् अपि यदि न ज्ञायते, तर्हि [शूत्यप्रयम्]{।मर्क्} एव तद् इति चेत्, तत्राह—यद्-आश्रयं यत् पदम् आश्रयो यस्य, तज् जगद् इति शेषः । प्रलये जगद् व्यापाश्रयं भवति स्थितौ येन जीवतीत्य् अर्थः । सृष्टौ यतः प्रतीयत उत्पद्यते, यतो वा इमानि भूतानि जायन्ते येन जटानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति [तै।उ। ३.१] इति श्रुतेः ।

ननु, घटादिवत् किम् इति न ज्ञयते ? इति चेत्, तत्राह—सुदुर्विभाव्यं सुखेन दुःखेन च विभाव्यं विभावनीयम् सुदुः शोभन-दुःखयोः इति यादवः । नैषा मतिस् तर्केणापनेया प्रोक्तान्येन सुज्ञानाय प्रेष्ठ [क।उ। १.२.९] इति श्रुतेः । यद् वा, सगुणोपासकैः सुखेन निर्गुणोपासकैश् च दुःखेन विभाव्यम्, क्लेषोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् [गीता १२.५] इति गीतासूक्तेः । अव्यक्तासक्त-चेतसां निर्गुणोपासकानाम् इत्य् अर्थः । एतेन सगुणोपासकैः सुखेनैव विभाव्यत इति तात्पर्यम् । प्रणतास्मि इत्य् अनेन [नम्यनन्तृ]{।मर्क्}-भावः । सगुणोपासना एवेति सूचितम् ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्तं पक्षम् आश्रित्यायम् ईश्वर एवेति निश्चित्य पुत्र-बुद्धिं विहाय भक्त्या प्रणमन्ती परमादृश्याखिल-कार्य-कारणात्मक-प्रपञ्चस्यैकत्रैकदैव सहसा साक्षाद् दर्शने श्री-भगवच्-छक्तिम् इच्छां च मन्वाना तद् ऐश्वर्यम् आह । यद् वा, बहु-विकल्पैर् निश्चयाभावाद्-व्याकुला नारायणं प्रणमति—अथो इति । अतो मन-आदिभिर् अपि यथावद् याथार्थ्येन वितर्क-गोचरम् अन् भवति । तत्र [कर्माद्]{।मर्क्}इ दृष्टम्, [तपस्य् आदि]{।मर्क्}-कायिक-व्यापारो वा । तद् अपि यद्-आश्रयं येन साधनेन यतो हेतोर् अञ्जसा प्रतीयते, तत्त्वतो\ऽनुभूयते । तस्य पदं पदाब्जम् । कथम्-भूतम् ? सुदुर्विभाव्यम् एकस्यैव युगपत् सगुण-निर्गुणत्वाद् दृश्याद् दृश्यत्वादिना जगतो\ऽपि सकाशात् परम-दुर्वितर्क्यम् इत्य् अर्थः ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ चरम-तर्कम् अपि तत्र क्षुट्-पिपासा-कौमल्यादि-दर्शनेन असम्भाव्य पुनर् बहु-विधैर् वितर्कैर् निश्चयम् अप्राप्नुवती सर्व-दुर्वितर्क्य-सम्पादकं श्री-नारायणम् एव तत्-कारणं निश्चित्य तं च सुदुर्ज्ञेयं मत्वा केवलं प्रणमति—अथो इति । कर्म-शुभम् अदृष्टम् ऐहिकं च कायिक-व्यापाराश् च न वितर्क-गोचरं, वितर्कागोचरम् इत्य् अर्थः । तादृशम् अपि यद्-आश्रयं येन साधनेन यतो हेतोर् अञ्जसा प्रतीयते साक्षाद् अनुभूयते, तस्य पदाब्जम्, अत एव सुदुर्विभाव्यम् अचिन्त्य-कऋय-वृन्दस्य कारणत्वेन परमाचिन्त्य-स्वरूप-शक्तिकम् ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ चरम-तर्कम् अपि तत्र क्षुत्-पिपासा-कोमलतादि-दर्शनेनासम्भाव्य-निश्चयम् अप्राप्नुवती परमाचिन्त्य-शक्तिं श्री-नारायणम् एव तत्-कारणं निश्चिन्त्य तं च सुदुर्ज्ञेयं मत्वा केवलं प्रणमति—अथो इति । तस्य पदं पदाब्जम् । अथ बाह्यम् अनुसन्धाय निजं भावं द्रढयन्त्य् आह—अहम् इति । पाद-त्रयेण पुनस् तत्-सुखान्तः-स्थितम् अनुसन्धायाह ॥४१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुर्थं तर्कम् अपि तत्र स्व-पुत्रे क्षुत्-पिपासा-मौग्ध्य-चाञ्चल्यादि-दर्शनेनासम्भाव्य-स्व-बुद्ध्या कम् अपि निश्चयं कर्तुम् अशक्नुवती तर्कागोचरस्यापि वस्तुनो वस्तुतः कारणं भगवान् एवेति सामान्यतो निश्चिन्वती तत्-पदाब्जं सुत-स्वस्ति-कामा प्रणमति अथो इति । यथावत् याथार्थ्येन नैव वितर्कस्य गोचरं क्लीबत्वम् आर्षं दृश्यमानम् आश्चर्यम् इदं यद् आश्रयं योऽस्याधिष्ठानं यतः यश् चास्योत्पत्ति-हेतुः येन प्रतीयते यश् चास्य प्रतीति-हेतुः तत्-पदम् तस्य भगवतः पदं चरणारविन्दं चेतश् चित्तं तदादिभिः प्रणतास्मि सुदुर्विभाव्यं मादृशीनां ध्यातुम् अशक्यम्, अतः केवलं प्रणमामि । स एवास्य मत्-सुतस्य सर्वानिष्टं प्रशमयत्व् इति भावः ॥४१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.४२ ॥

अहं ममासौ पतिर् एष मे सुतो

व्रजेश्वरस्याखिल-वित्तपा सती ।

गोप्यश् च गोपाः सह-गोधनाश् च मे

यन्-माययेत्थं कुमतिः स मे गतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं प्रपञ्च-प्रतीत्योन्नीतं तत्त्वं पुनर् जीव-संसृति-हेतु-मायाश्रयत्वेनोन्नयन्त्य् आह—अहम् इति । यशोदा-नामा अहम् असौ मम पतिः । अमुष्य व्रजेश्वरस्याखिल-वित्तपा अहं सती जाया । एष कृष्णो मे सुतःगोप्य्-आदयश् च मदीया इतीत्थं कुमतिर् यन्-मायया, एष मे शरणम् इति ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं पूर्वोक्त-रीत्या प्रपञ्च-प्रतीत्या जगत् प्रसिद्ध्या उन्नीतं ज्ञातं तत्त्वं यथार्थ-स्वरूपं जीवानां संसृते हेतु-भूता या माया तस्या आश्रयत्वेन अधिष्ठानत्वेन उन्नयन्ती जानती । अखिल-वित्तपा समग्र-धन-रक्षिणी । इत्थं कुमतिर् भेद-मतिः । यन्-मायया यस्य भगवतः शक्त्या एष भगवान् शरणं रक्षितेति, शरणं गृह-रक्षित्रोः इति विश्वः ।

हन्त हन्त ! स एव सुतस्य दाता स एव रक्षितापि भवेद् एव तत्र मम पुनर् अज्ञायाः किम् अहङ्कार-ममकाराभ्याम् इति तौ जिहासन्ती विष्णुं प्रपद्यमाना प्राह—अहम् अखिल-वित्तपा निखिल-व्रत-रक्षणाभिमानवतीत्य् अर्थः । गोपाश् चेति गोपानां गोपीनां सर्व-गोधनानां चाहम् एव महा-राज्ञीत्य् अभिमानो यथा कुमतिः, तथैव लोकोत्तरस्यास्य व्रज-जन-प्राण-भूतस्य बालस्याहं माता पालयित्री दान-धान्यादिभिर् विप्र-देवाद्य्-आराधनैर् नित्यं विष्णु-पुजनैश् च सर्वानिष्टेभ्यो रक्षाम् अहम् एव सततं कारयन्ती भवामि । ततोऽस्य स्वस्तीत्य्-आद्य्-अभिमानो\ऽपि कुमतिः एतावता गोकुलैश्वर्यस्य श्री-विष्णुनैव दत्तत्वात् । तत्र यथा ममाभिमानानौचित्यं, तथा तेनैव कृपया दत्ते पूतनाद्य्-आविष्टेभ्यः प्रतिक्षणं पात्यमाने च परम-लोकोत्तरे\ऽस्मिन् सुते लौकिक्या गोप-जातेर् निकृष्टाया अत्ययोग्याया मातृत्व-रक्षयित्रीत्वाद्य्-अभिमानो\ऽनौचित्यात् कुमतिर् एवेति विवेक-जिघृक्षैव श्री-यशोदायाः क्षणिकीयं न तु विवेकः । यथा महा-मोहान्धानाम् अपि व्यावहारिक-लोकानां कादाचित् पारमार्थिक-प्रसङ्ग-भवा स्त्री-पुत्राद्य्-आसक्ति-जिहासेति ज्ञेयम् इति विश्वनाथः ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अहं ममासाव् इति । अहं व्रजेश्वरस्याखिल-वित्तपा सती उत्कृष्टा, असौ व्रजेश्वरो मम पतिः, अयं मे सुत इत्य्-आदि यस्य माययेत्थम् इति कुमतिः । नेयं माया । दयैवेयम् । अतो मे सा कुमतिर् मा भूद् इत्य् आक्सेप्यम् । इत्य् अत्र स मे गतिर् यस्य माययेति कथ्यते, स एव मे श्रवणम् । यथा मायेयम् इति कुमतिर् न स्यात्, तथा स प्रसीदत्व् इति भावः ॥४३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तज् ज्ञानं तस्माद् एवेत्य् उक्त्वा मोहो\ऽपि तन् माययैवेति तद्-ऐश्वर्यम् एव द्रढयन्ती मोह-निवृत्तये तम् एव शरणं याति—अहम् इति । कुमतिर् इति तत्त्व-विचारेण सम्बन्धस्यात्यन्तानित्यत्वे\ऽपि तत्-तन्-मिथ्याभिमानात् । यद् वा, विचारेण स्वप्नादि-विकल्प-त्रयं निरस्यन्ती । चतुर्थम् एव पक्षं निश्चित्य तस्याप्य् अपनोदनाय जगदीशं शरणं याति—अहम् इति । आत्मात्मीय-सम्यग्-अवबोधेन वितर्क-त्रयं परिहृतम्, तथापि स्व-बाले इत्थं विश्व-रूपाश्रयतयेश्वरो विश्वेशो\ऽयम् इति कुमतिर् मे यन्-माययाभूत्, स जगदीशो मे गतिः, कुमतिम् एताम् अपनीय पुत्र-बुद्धिम् एव दृढीकुर्याद् इत्य् अर्थः ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ बाह्यम् अनुसन्धाय निज-स्वाभाविकावस्थितिम् एव शरणं गच्छति—यद् इति । इत्थं निज-बालके उच्चावच-दर्शन-हेतुः कुमतिर् यस्य दुर्विभाव्या मायया स एव मम तद्-भक्ति-विमुखायाः शरणम् इति । यद् वा, यद् इत्य्-आदौ तथापीत्य् आक्षेप-लभ्यं तद् एतत् सर्वं लवणाकर-न्यायेन विस्मयादि-द्वारा तस्याः प्रेमैव पुष्णातीति दर्शितम् ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ बाह्यम् अनुसन्धाय निजं भावं द्रढयन्त्य् आह—अहम् इति । पाद-त्रयेण पुनस् तत्-सुखान्तः-स्थितम् अनुसन्धायाह--यद् इति । कुमतिः निज-बालके विश्व-रूप-दर्शन-रूपा ॥४२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ स्व-वचः सत्यं कर्तुं स-चराचरं सर्वम् एव जगज्-जठरे दर्शयन् “अहं भक्षको न भवामि, किन्तु सर्वाधार एव” इति स्व-विग्रहस्य परिच्छिन्नत्वेऽपि व्यापकत्वं बोधयितुं मातरं विस्मापयति—अहं ममासौ पतिर् इत्य्-आदि । अहं व्रजेश्वरस्याखिल-वित्तपा असपत्नीका सती नित्या । असौ व्रजेश्वरो मम पतिः सन् एष मे सुतः । स-विशेष्य-लिङ्गतया सच्-छब्दस्य लिङ्ग-व्यत्ययः । एवं गोपाश् च गोपाश् च सह गोधना इति गोधनानि च इत्थं समे समानाः सर्वेऽलौकिकत्वात् । समः सर्व-नाम । मायया माया-कृता इति यत्, तत् कुमतिः । कीदृशी ? जगति न विद्यते गतिर् यस्याः । नित्य-सिद्धेष्व् एतेषु यन् माया-कृतम् इति बुद्धिः, सा कुबुद्धिर् एव, यत एतत् सर्वं यस्य जठरे दृश्यते, तेन सद् एवेदम् । अथवा इदं सर्वं यन्-मायया यस्यास्यैव श्री-कृष्णस्य मायया स्वाभाविक्या प्रकाशिकया मायया निज-योग-शक्त्या प्राकृत-सर्गवन् न, तर्हि वैकुण्ठवद् ब्रह्माण्ड-बहिर् एवास्तु कथं पृथिव्याम् ? इत्य् आह—इत्थम् अनेन प्रकारेणैव कौ पृथिव्यां मतिर् मननं गतिर् वैकुण्ठं च समे तुल्य इत्य् अर्थः । यद् वा, यन्-मायया यस्य स्वाभाविकयेत्य्-आदि पूर्ववत् स मे गतिःसमे श्रवणं च । कीदृशः ? इत्थं कुमतिः कौ पृथिवी-विषये मतिर् यस्य पृथिवी-भार-हारित्वात् ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त ! स एव सुतस्यास्य दाता, स एव रक्षितापि भवेद् एव । तत्र मम पुनर् अज्ञायाः किम् अहङ्कार-ममकाराभ्याम् इति तौ जिहासती श्री-विष्णुं प्रपद्यमाना प्राह—अहम् इति । अखिल-वित्तपा निखिल-धन-रक्षणाभिमानवतीत्य् अर्थः । गोप्यश् चेति गोपीनां गोपानां सर्व-गोधनानां चाहम् एव स्वामिनी महा-राज्ञीत्य् अभिमानो यथा कुमतिस् तथैव लोकोत्तरस्यास्य सर्व-व्रज-जन-प्राण-भूतस्य बालकस्याहं माता, अहम् एव पालयित्री दान-ध्यानादिभिर् विप्र-देवाद्य्-आराधनैर् नित्यं विष्णु-पूजनैश् सर्वानिष्टेभ्यो रक्षाम् अहम् एव सततं कारयन्ती भवामि । ततोऽस्य स्वस्तीत्य् अभिमानोऽपि कुमतिः एतावतो गोकुलैश्वर्यस्य श्री-विष्णुनैव दत्तत्वात् । तत्र यथा ममाभिमानानौचित्यं, तथैव तेनैव कृपया दत्ते पूतनाद्य्-अरिष्टेभ्यः प्रतिक्षणं पाल्यमाने च परम-लोकोत्तरेऽस्मिन् सुते लौकिक्या गोप-जाते निकृष्टाया अत्ययोग्याया मम मातृत्व-रक्षयित्रीत्वाद्य्-अभिमानोऽप्य् अनौचित्यात् कुमतिर् एवेति विवेक-जिघृक्षैव श्री-यशोदायाः क्षणिकीयं न तु विवेकः, यथा महा-मोहान्धानाम् अपि व्यावहारिक-लोकानां कादाचित्क-पारमार्थिक-प्रसङ्ग-भवा स्त्री-पुत्राद्य्-आसक्ति-जिहासेति ज्ञेयम् ॥४२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.४३ ॥

इत्थं विदित-तत्त्वायां गोपिकायां स ईश्वरः ।

वैष्णवीं व्यतनोन् मायां पुत्र-स्नेह-मयीं विभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैष्णवीं स्वीयाम् ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स कृष्णः विदितं ज्ञातं तत्त्वं यया, तस्याम् ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णस् तु तथैव कृतवान् इत्य् आह—इत्थम् इति । गोपिकायां गोपालिन्याम् इति श्री-बादरायणेः प्रेम-विशेषोक्तिः । किं वा, गां पृथ्वीं पातीति गोपिका राज्ञी तस्याम् इत्य् आदरात् । यद् वा, लालन-पालनादिना विविध-निज-क्रीड-क्रीडा-सुख-रक्षिकायाम् इत्य् अर्थः । यद् वा, तज्-जाति-स्वभावेन स्नेह-विशेष-वितान-पात्रतोक्ता । अत एव स श्री-कृष्णो मायां [विशेष]{।मर्क्} विस्तारयामास । कथम्-भूताम् ? वैष्णवीं स्वाधीनां निजेच्छानुवर्तिनीम् इत्य् अर्थः । विष्णु-शब्देन तस्या अपि सद्यः सर्वान्तः-प्रवेश-सामर्थ्यं सूचितम् । यद् वा, विष्णु-सम्बन्ध-कारिणीम्, न तु तद्-आवरिकां सच्-चिद्-आनन्द-शक्ति-रूपाम् इत्य् अर्थः । न च केवलं सम्बन्ध-मात्र-कारिणीम्, किन्तु भक्त-विशेष-सम्पादिनीम् अपीत्य् आह—पुत्रे पुत्र-बुद्ध्या यस् तस्मिन् स्नेहस् तन्-मयीम् । मयट् प्राचुर्ये स्वरूपे वा ।

ननु तत्त्व-ज्ञाने सति तादृशी भक्तिर् दुर्घटा ? तत्राह—ईश्वरः सर्वं कर्तुं समर्थ इति । न च सा [भक्ति] प्रोक्त-तत्त्व-ज्ञानवद् अस्थिरेत्य् आशयेनाह—विभुर् व्यापक इति । तस्य शक्तेर् अपि तद्वद् व्यापकत्वात् दृश-स्नेहो निरन्तर एवेत्य् अर्थः । अत एवोक्तम्—व्यतनोद् इति । अत एव तद्-विघातकं तत्त्व-ज्ञानोत्पादक-विश्व-रूप-दर्शनादिकं पुनस् तस्याः कदापि नाभूत् । यद् वा, वैष्णवीं निजाम् अपरिच्छिन्न-नित्य-सत्याम् इत्य् अर्थः । मायां दयाम् । पुत्र ! हे श्री-परीक्षिद् इति स्नेह-प्रसङ्गे स्नेहोदयात् । अन्यत् समानम् ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं तन् निष्ठाम् एव दृष्टा सो\ऽपि परम-तुष्टस् तद् वैय्यग्र्य-प्रदर्शनेन व्यग्रश् च संस् तं भावम् एव तस्याविस्तारयामासेत्य् आह—इत्थम् इति। इत्थम् अहं ममासाव् इत्य्-आदिना विदितं निर्धारितं तत्त्वं प्रथम-पाद-त्रयोक्त-[शरी]{।मर्क्}-कृष्ण-लीला-याथार्थ्यं यया, तस्यां गोपिकायां सदा मातृ-भावेन श्री-कृष्ण-पालयित्र्यां तया प्रार्थितम् ईश्वरः मायां तद्-विषयां दयाम् एव व्यतनोत् पूर्वतो\ऽपि विस्तारयामास यथा तद्-विरोधि-प्रायम् ईदृश-दर्शनादिकं पुनर् न जातम् इति । तां विशिनष्टि—पुत्र इति प्राचुर्ये, मयट् प्राचूर्यं चान्यदीय-स्नेहापेक्षया तस्याप्रकृति-सम्बन्धित्वं प्रत्याचष्टे--वैष्णवीं विष्णोः स्वरूप-शक्तिम् ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्त्वम् अहं ममेति पाद-त्रयोक्त-तल्-लीला-याथार्थ्यं तया प्रार्थित ईश्वरःमायां तद्-विषयां दयां पूर्वतोऽपि विस्तारयामास । वैष्णवीं विष्णोः स्वरूप-शक्तिम् । तद् एवम् अहो परम-भाग्यवती श्री-यशोदेत्य् आह ॥४३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ???


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्थम् अनेन प्रकारेण विदित-तत्त्वं ममत्व-जिहासा यथा तस्यां यशोदायां सत्यां तर्हि "का मां लालयिष्यति ? प्रतिक्षणं का पालयिष्यति ?" इत्य् अतः पुत्र-स्नेह-मयीं स्वरूपे मयट् पुत्र-स्नेह-रूपं प्रेम-विशेषं व्यतनोद् इत्य् अर्थः । मोहन-साधर्म्यान् मायां तेन च प्[रेमां]{।मर्क्} प्रेमान्धां चकारेत्य् अर्थह् ॥४३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.४४ ।

सद्यो नष्ट-स्मृतिर् गोपी सारोप्यारोहम् आत्मजम् ।

प्रवृद्ध-स्नेह-कलिल-हृदयासीद् यथा पुरा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवृद्धेन स्नेहेन कलिलं व्याप्तं हृदयं यस्याः सा पुरेवासीत् ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा यशोदा । अरोहं कटि-भागं पुरेव निज-गृह-कर्यासक्ता बभूवेत्य् अर्थः ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नष्टा तिरोहिता स्मृतिस् तज् ज्ञानं तद् अनुसन्धानं वा यस् तास् तथा-भूतासीत् । आत्मजं निजोदराद् उत्पन्नम् इति नष्ट-स्मृति-लक्षणं स्नेह-विवृद्धि-हेतुश् च । यदा पुरेति तस्यास् तस्मिन् स्नेहस्य महापराकाष्ठा सूचिता । यद् वा, यथा पुरेत्य् अस्यारो\ऽप्य् एत्य् एनान्वयः, ततश् च सदा परां काष्ठां प्राप्तस्यापि तत् स्नेहस्य भक्ति-रस-स्वभावेन प्रतिक्षणं नव-नव-स्वादु-रस-विशेषोदयेन प्रवृद्धिर् इति वैष्णव-सिद्धान्तानुसारेण ज्ञेयम् । तच् च श्री-भागवतामृतोत्तर-खण्डे विवृतम् एव । एवं श्री-मुख-प्रसारण-मात्रेणापि विश्व-दर्शनं श्री-भगवद् इच्छैवेति निर्धार्यम्, अन्यथा भोजन-पायनादौ बहुशस् तत्-प्रसारणे श्री-यशोदादि तद् दर्शन-सम्भवात् । तत्र चाधुनात्रेश्वर-ज्ञानादिना लोकेषु सूचितम् इदम् । विश्व-रूप-दर्शनस्य तत् स्वभावकत्वाद् भक्ति-विशेष-रूपैर् ऐकान्तिभिस् तत्रैव वर्ण्यते, तथा तद् दर्शनाज् जायमानम् अपि भक्ति-विशेष-वित्घातकम् ईश्वर-ज्ञानं मद् अनुग्रहेणान्तर्दध्यादेव, विशेषतश् चार्तिभरोत्पत्त्या भक्तिर् विवर्धत एवेति मातृ-द्वारा च तत् तद्-बोधनं साधु-वर्ग-पूज्यया ततैव तद् उपपत्तेः विशेषतश् च विविधाश्चर्यमयता दार्ढ्येन पूर्ववत् सर्व-शङ्का निरासात् तस्याः स्नेहभर सुस्थिरता सम्पादकम् एव तद्-वृतम् । ततश् च स्मृतिर् ईश्वर-ज्ञानं तदैव नष्टम्, विश्व-रूप-दर्शन-स्मृतिश् च पूर्ग्ववद् अनुवर्ततां नाम, न तत्र क्षतिः, अथवा पुरामातृ-लालनज-सुख-विशेषादि-दानीं च तद् आर्ति-प्रदात् स्वापराधज-भयान् निजैश्वर्य-संवरणाशक्तेर् नित्योदरस्थं विश्वं तया दृष्टम् इति ज्ञेयम्, न तूपादेयतया भगवतास्यै दर्शितम् इति च । अन्यत् समानम् । एवम् एव केचिद् वैष्ण्वा मन्यन्ते—क्रिया [क्रीडा] शक्तावेव श्री-भगवतो बाल्य-लीला, न तु जान-शक्ताव् इति ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च सद्यो नष्टा तिरोहिता स्मृतिस् तद् अनुसन्धानं यस्यास् तथा-भूतासीति आरोहम् अङ्कम् आत्मजं निजोदराद् उत्पन्नम् इति तद् भावानुवादः नष्ट-स्मृतित्वम् एव दृढयति यथा पुरेति ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : []{।मर्क्}


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नष्ट-स्मृतिर् इति यथा स्वप्न-दृष्टोऽर्थः कश्चित् कश्चिद् विस्मर्यते तथैव सद्य एव सा विश्व-दर्शनादिकं विसस्मारेत्य् अर्थः । प्रबुद्धेन सङ्कोच-कारणाद् अप्य् ऐश्वर्य-ज्ञानाद् असङ्कुचितेन प्रत्युत प्रबली-भूतेन स्नेहेन कलिलं व्याप्तं हृदयं यस्याः सा ॥४४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.४५ ॥

त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः ।

उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : माया-बलोद्रेकम् आह—त्रय्या इति । त्रय्या कर्म-काण्ड-रूपया इन्द्रादि-रूपेण, उपनिषद्भिर् ब्रह्मेति, साङ्ख्यैः पुरुष इति, योगैः परमात्मेति, सात्वतैर् भगवान् इत्य् उपगीयमानं माहात्म्यं यस्य तम् ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उद्रेकम् आधिक्यम् । यद् वा, साङ्ख्यं तस्य योगश् चिन्तनं, यत्र ते साङ्ख्य-योगा ब्रह्म-सूत्राणि तैः । सात्वतैर् नारदादिभिर् वा पञ्चरात्रादि-वैष्णव-शास्त्रैः । एतैर् अपि माहात्म्यम् एव यस्य गीयते, न तु साक्षाज् ज्ञायते, तं सा यशोदा आत्मजम् अमन्यत, अहोऽस्या भाग्यम् इति भावः ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो परम-महा-भाग्यवती श्री-यशोदेत्य् आह—त्रय्या इति । त्रय्या वेदमयेन मीमांसा-शास्त्रेणेत्य् अर्थः । उपनिषद्भिर् वेदान्त-शास्त्रेण । सात्वतैः पाञ्चरात्रादि-वैष्णव-शास्त्रैः । न्याय-वैशेषिकयोर् अनुक्तिः प्रायस् तर्क-परत्वादिना हरि-माहात्म्यानुपगानात् । -कारैः सामान्येन सर्वस्याम् अप्य् उपगान-परतायाम् उक्तायाम् अपि सात्वतानां विशेषो द्रष्टव्यः । अत एव तत्र च-कार-प्रयोगः, सर्व-श्रेष्ठत्वापेक्षयान्ते निर्देशश् च । हरिं सर्व-मनोहरं निजाशेष-भगवत्ता-माधुरी-प्रकटनात् । त्रय्यादीनां यथोत्तरं श्रैष्ठ्यम् । अन्यत् तैर् व्याख्यातम् । यद् वा, त्रय्यादिभिर् इन्द्रादिभ्योऽपि उप आधिक्येन उपरिष्ठाद् वा, गीयमानं माहात्म्यं यस्य, यतो हरिः ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् अहो परम-महा-भाग्यवती श्री-यशोदेत्य् आह—त्रय्या इति । त्रय्या कर्मोपासना-मय्या तत्-तद्-अन्तर्यामि-पर्यवसानया, उपनिषद्भिर् स्वरूप-गुणाभ्यां सर्व-बृहत्तमे तस्मिन्न् एव पर्यवसिताभिः, साङ्ख्य-योगैः सेश्वरैः तैश् च श्री-भागवतार्थ-पर्यवसानैः पुराणैर् इत्य् अर्थः । सात्वतैः तद्-उपासना-मयैः पञ्चरात्रागमैः । अनयोर् अपि वेदाङ्गत्वात् तत्-साहित्योक्तिः । उप हीने यत् किञ्चित् गीयमान-माहात्म्यं, न तु सम्यक् आनन्त्यात् तं हरिम् आत्मजम् अमन्यत, किन्तु पुत्र-भावेन साक्षात् तथा लालितवतीति काक्वा चमत्कारातिशयो व्यञ्जितः ।

अत्रेदं विचार्यं—न तावद् अस्या विश्व-दर्शनम् उत्कर्ष-हेतुः—

यावन् न जायेत परावरेऽस्मिन्

विश्वेश्वरे द्रष्टरि भक्ति-योगः ।

तावत् स्थवीयः पुरुषस्य रूपं

क्रियावसाने प्रयतः स्मरेत ॥ [भा।पु। २.२.१४]

तं सत्यम् आनन्द-निधिं भजेत

नान्यत्र सज्जेद् यत आत्म-पातः ॥ [भा।पु। २.१.३९]

इति प्रथम-साधनेऽपि द्वितीय-स्कन्धावज्ञातत्वात्, न च विश्व-दर्शनेन श्री-कृष्णे परमेश्वर-ज्ञानम् अभूत् तुर्या-निर्णयेऽप्य् अमुष्य ममार्भकस्येत्य् आद्य् उक्तत्वात् ईश्वरस्य यत्-तच्-छब्दाभ्यां परोक्षतयैव निर्देशात् पञ्चम-निर्णये च पत्य्-आदि-गण-पातित्वेन एसा मे सुत इति यन् माययेति च तथैव दर्शनात्, अन्यथा श्री-देवकीवद् असौ तम् एवास्तौष्यत्, न चेश्वर-ज्ञानम् उत्तमं पुत्रादि-भाव-मय-श्री-कृष्णाद्य्-अनुभवस् त्व् अनुत्तम इति प्रकरणार्थः दर्शित-व्याख्यया तस्यार्थस्याप्रवेशात् । अन्यथा उत्तर-ग्रन्थे पश्नोत्तरे च न सङ्गच्छेते, तस्यास् तादृग् ईश्वर-ज्ञानं परित्यज्य तद्-आवरणं चाननुशोच्य स्तन-पानादिकस्यैव राज्ञास् तोष्यमाणत्वात् । श्री-वसुदेव-देवक्योः सत्य् अपि सर्व-ज्ञाने तद्-उदारार्भकोहितानुभवाभवेन शोचिष्यमाणत्वात् कवीनां परम-ज्ञानवताम् असुखाय श्री-कृष्णत्वेन साधारणेभ्योऽपि गोपिका-सुततया श्री-कृष्णं भजद्भ्यो न्यूनयिष्यमाणत्वाच् च । अन्यत्र च तादृशः भावस्यैव ततस् ततोऽतिशयः श्रूयते । राजन् पतिर् गुरुर् अलम् [५.६.१८]इत्य्-आदौ । इत्थं सतां ब्रह्म-सुखानुभूत्या [१०.१२.११]इत्य्-आदौ च । ततः किं पुनस् तदीयसेति दर्शित एवार्थः साधीयान् ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्रय्या इति । त्रय्या कर्मोपासना-मय्या सर्वान्तर्यामि-पर्यवसानया, उपनिषद्भिः स्वरूप-गुणाभ्यां सर्व-बृहत्तमे ब्रह्मणि तस्मिन्न् एव पर्यवसिताभिः, साङ्ख्य-योगैः सेश्वरैः, ते च श्री-भागवतार्थ-पर्यवसानानि पुराणानि मन्तव्यानि । सात्वतैः तद्-उपासना-मय पञ्चरात्रागमैः उप यत् किञ्चिद् गीयमानं, न तु सम्यक् आनन्त्यात् तं हरिम् आत्मजम् अमन्यत पुत्र-भावेन साक्षात् तथा लालितवतीति काक्वा चमत्कारातिशयो व्यञ्जितः । अथ विश्वरूप-दर्शनम् ईश्वर-भावं चाननुमोद्य पुत्र-भाव-मय-स्तन-पायन-बाल्य-लीलानुभवा[व् ए]{।मर्क्}वानुमोदते ॥४५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवक्या अपि सकाशात् तस्या उत्कर्षम् अभिव्यञ्जयितुम् ऐश्वर्य-दर्शनाद् अपि स्वीय-वात्सल्य-प्रेम्णः सङ्कोच-भावम् अख्यायैश्वर्य-श्रवणाद् अप्य् आह । त्रय्या यज्ञ-पुरुषत्वेन, उपनिषद्भिः ब्रह्मत्वेन, साङ्ख्यैः पुरुषत्वेन, योगैः परमात्मत्वेन, सात्वतैः पाञ्चरात्रैः भगवत्त्वेन, कर्मि-प्रभृतिभिर् उपगीयमान-माहात्म्यं देशकालानियमात् तस्याः समक्षम् असमक्षं वा, उप आधिक्येन गीयमानैश्वर्यं हरिं सा आत्मजम् अमन्यत इत्य् अस्मद्-अभीष्ट-दैवतेनावयोर् व्रत-नियम-सन्तत-पूजनादिभिः सन्तुष्टेन पर्जन्याभिधान-मदीय-श्वशुर-कृत-निरवद्य-बहु-तपः-सन्तोषितेन श्री-नारायणेन कृपया दत्तो लोकोत्तरः पुत्रोऽयं यत् कर्मि-प्रभृतिभिस् त्रय्यादि-प्रतिपाद्यत्वेन स्तूयते, यत्र खलु नारायण-समो गुणैः इति सर्वत्र गर्गेण गीयतया नारायण-साम्य-प्रथया अन्य-दुष्कर-पूतनादि-वधानाम् एतत्-कर्तृकत्व-प्रथया चायम् एव नारायण इति तेषां विश्वास एव हेतुः । वस्तुतस् तु अयं मत्-पुत्र एव । मां मातरं क्षणम् अप्य् अदृष्ट्वा विकलीभवति । अहं चैनं स्व-निमेष-व्यवहितं ज्ञात्वा विह्वलीभवामि । इत्य् अवयोर् जन्य-जनन्योर् अनुभव एवात्र प्रमाणम् इति मनसि सा समाधत्ते ।

किं च, कर्मि-प्रभृतयस् त्रय्यादिभिर् यथा हरिं यज्ञ-पुरुषादिकं मन्यन्ते, तथैवेयं वात्सल्य-प्रेम्णा हरिम् आत्मजं मन्यते । तेभ्यस् तत्-तद्-अनुरूपं फलं ददानस् तेषाम् अनुग्राहको वशयिता सन्न् ईष्टे, अस्यै तु वात्सल्य-प्रेमानुरूपं फलं दातुम् असमर्थो ऋणीभवन्न् अस्या अनुग्राह्यो वश्यो ईशितव्यत्वेन तिष्ठन् स्वानन्द-तुष्टोऽप्य् अस्याः स्तन्यामृतार्थं रोदितीति विशेष उत्तराध्याये स्पष्टी-भविष्यति पद्यम् इदं कृष्ण-लीलायां परिभासा-सूत्र-रूपं ज्ञेयम् । परिभाषा ह्य् एक-देशस्था सकलं शास्त्रम् अभि प्रकाशयति यथा वेश्म-प्रदीप इति । इको गुण-वृद्धी [पा। १.१.२] इति यत्र गुण-वृद्धी श्रूयते तत्र तत्र इक्-परिभाषोपतिष्ठते यथा तथैव कौमार-कैशोर-माथुर-कुरुक्षेत्रादि-गत-लीलासु यत्र यत्र ऐश्वर्य-प्रसङ्गस् तत्रेदम् उपतिष्ठत इति ॥४५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न च हरेर् ऐश्वर्य-दर्शनेन तच्-छ्रवणेन च यशोदायास् तस्मिन् पुत्र-भावः सङ्कोचम् एति, प्रत्युत वृद्धिम् एवेत्य् आह—त्रय्येति । ऋग्-यजुः-सामभिर् यज्ञ-पुरुषत्वेनोपनिषद्भिस् तच्-छिरोभिः पर-ब्रह्मत्वेन च, साङ्ख्यैर् योगैश् च परम-पुरुषत्वेन, सात्वतैः पञ्चरात्रैर् भगवत्त्वेन चोपगीयमान-माहात्म्यं हरिं सा यशोदा आत्मजम् एवामन्यत । तस्मिंस् तस्या पुत्र-भावः स्थैर्यम् अविद्नद् इत्य् अर्थः । नहि पुत्रस्य निखिल-भूमीश्वरत्वे दृष्टे श्रुते च तन्-मातुस् तस्मिन् पुत्र-भावोऽवसति, अपि तु परिवर्धित एव । एवं ब्रह्मान्तरेषु योज्यम् ॥४५॥


॥ १०.८.४६ ॥

श्री-राजोवाच—

नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् ।

यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अति-विस्मयेन पृच्छति—नन्द इति । महोदयं महानुदय उद्भवो यस्य तत् ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्द-भाग्यम् अभिनन्दन् पृच्छति राजा । उदय उद्भवः समुन्नतिर् इति यावत् । उदयस्तु पुमान् पूर्व-पर्वते च समुन्नतौ इति मेदिनी । श्रेयः पुण्यम् स्याद् धर्मम् अस्त्रियां पुण्यश्रेयसी सुकृतं वृषः इत्य् अमरः । महान् भागो भाग्यं यस्यास्सा तथा भागाभाग्यांशतुर्यांशाः इति यादवः । यस्य स्मरणेनान्यस्यापि स्तन-पानं न जायतेस स्वयम् एव यस्याः स्तनं पापावहो तस्या भाग्यम् इति भावः । तोषिण्यां तु—महानुदयः सर्वतः स्नेहोत्कर्षो यस्मात् महा-भागेति ततो\ऽप्य् अस्याः श्रेयोऽधिकम् अभिप्रेत्य् आह—पापाव् इति । पीत-शेषं गदाभृतः इत्य् उक्त्या श्री-देवक्या अपि तथा वत्स-हरण-लीलायां वत्स-गोप-रूपेणान्यासां गो-गोपीनां स्तन-पाने सत्य् अपि देवक्या यथा कथञ्चिद् असमये सकृद् एव गोप्यादिषु रूपान्तरेण च तत्रोभयत्र तादृश-स्नेहाभावाद् अत्रैव स्तन-पानं सम्यग् अभिप्रेतम् ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१२६] अथ गोप-राजस्य श्री-नन्दस्य तत्-पत्न्याश् च श्री-यशोदायाः श्री-भगवत्-पित्रोः सर्वोत्कृष्टतर-माहात्म्यं दर्शयति—नन्द इति पञ्चभिः ।

तत्र विश्व-रूप-प्रदर्शनादिना सञ्जातस्य सर्व-भक्त-जन-साधारणस्येश्वर-ज्ञानस्यावरके भगवत्-परम-प्रसाद-रूप-पुत्र-स्नेह-मये स्वकीय-महा-शक्ति-विशेषे श्री-कृष्णेन मातरि श्री-यशोदायां प्रसारिते तस्याः स्नेह-भर-प्रवृद्धि-व्याप्त-चित्तादि-परम-महा-सौभाग्योदयं श्रुत्वा परम-विस्मितेन राज्ञा श्री-परीक्षिता पृष्टम्—नन्दः [भा।पु। १०.८.४६] इति ।

ब्रह्मन् ! हे साक्षात्-पर-ब्रह्म-मूर्ते श्री-बादरायणे ! एवम् एतादृशं श्रेयः पुण्य-विशेषं किं कतरत् नन्दो\ऽकरोत् जगति तादृश-श्रेयो\ऽसम्भवाद् विस्मयेन प्रश्नः । एवम् इत्य् एवाभिव्यञ्जयति—महानुदय उद्भवो यस्य तद् इति तच् च ।

पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।

गायन्ते\ऽद्यापि कवयो यल् लोक-शमलापहम् ॥ [भा।पु। १०.८.४७]

इत्य् अनेन निरन्तरोक्त-श्लोकेन स्वयम् एवाभिव्यक्तीकरिष्यते । अस्यार्थः—ययोः प्रसन्नो\ऽवतीर्णो\ऽयं स्वयं भगवान्, तौ पितरौ श्री-वसुदेव-देवक्याव् अपि यत् नान्वविन्देतां न प्राप्नुयाताम् । किं तत् ? कृष्णस्य उदारं महत् भुक्ति-मुक्ति-भक्ति-प्रेमादि-सर्व-प्रदम् इति वा अर्भकेहितं बाल-लीलाम्, अर्भकेहितं बाल्य-चरितम् इति वा । यच्कवयो ब्रह्मादयो व्यासादयो वा अद्य कलि-काले\ऽपि गायन्ति

कुतः ? लोकानां सर्वेषाम् एव शमलापहं पापोन्मूलकं, तद् विना कलि-पातक-नाशासिद्धेः । यद् वा, अद्यापीत्य् अनेन सदा निरन्तर-गान-मात्रम् अभिप्रेतम् । ततश् चायम् अर्थः—सर्व-जीवानां शमलं संसार-दुःखम् अपहरतीति तथा । यद् वा, शमः मनः-शान्तिः लापो वचनं, तौ हन्ति परम-प्रेम-भराविर्भावेण वैकल्येन मनो-धैर्यं वाक्-प्रवृत्तिं च सम्यक् हरति यत्, तद् इत्य् अर्थः ।

यद् वा, शमस्य आत्मारामतादि-लक्षणस्य लापं कथां हन्ति, तत्-कथा-मात्रम् अपि नावशेषयति यत्, तद् इत्य् अर्थः । तद् यो या चाविन्दत्, स सा च किं श्रेयो\ऽकरोद् इति । वा-शब्दश् च शब्दार्थे\ऽनुक्त-समुच्चये । ततश् च एवम् इत्य् अस्यान्त्य-पादेनापि सम्बन्धः अनेन कालेन व्रजता तात [भा।पु। १०.८.२१] इत्य्-आदि, हरिं सा\ऽमन्यतात्मजम् [भा।पु। १०.८.४५] इत्य्-अन्त-ग्रन्थोक्त-प्रकारेण बाल्य-लीला-विशेषेण परम-स्नेह-विस्तारण-वात्सल्य-विशेषेण च यस्या यशोदायाः स्तनं पपाव् इत्य् अर्थः । अन्यथा देवक्य्-आदि-साम्यापत्तेः । पीत्वामृतं पयस् तस्याः पीत-शेषं गदाभृतः [भा।पु। १०.८५.५५] इति दशम-स्कन्धस्थ-मृताग्रजानयनाध्यायाद्य्-उक्तेः ।

श्री-भगवतो जन्मानन्तरं श्री-देवक्याः स्तुति-पूर्वक-प्रार्थनया प्राकृत-शिशुत्वे स्नेह-स्नुत-स्तनायास् तस्या अपि स्तन्य-पान-कल्पनात् । तथा वत्साहरणादि-लीलायां कासाञ्चिद् वृद्ध-गोपीनाम् अपि स्तन्य-पानात् । अतस् तद्-व्यवच्छेदार्थम् अवश्यम् अत्राप्य् एवं-शब्दो योज्य एव।

हरिर् इति तादृश-बाल्य-लीला-वात्सल्यादिना\ऽनवरतं तस्या मनो हरन्न् इत्य् अर्थः । अत एवोक्तम्—महा-भागेति । अनेन च श्री-नन्दतो\ऽपि तस्या भाग्य-विशेषः सूचितः लोके\ऽपि पितृतो\ऽपि मातरि स्नेह-विशेषस्य दृष्टेः । स च दशम-स्कन्धे रिङ्गण-लीलादौ दाम-बन्धनादौ च व्यक्तम् कथित एव । अत्राप्य् अग्रे व्यक्तो भावीति दिक् ।

यद् वा, एवम् एतादृक् चतुर्-युग-व्यापि-परम-भक्ति-लक्षण-दुष्करतर-तपो-विशेष-कृज्-जनक-जननी-श्री-वसुदेव-देवक्य्-अलब्ध-गन्धः श्री-ब्रह्मादि-कवि-वर्ग-गीयमान-पूर्वोक्त-रिङ्गणादि-लीला-महामृत-समास्वादन-रूपः । अत एव महान् परम-चरम-काष्ठा-प्राप्त उदयोत्कर्षः फलं वा यस्मात् तत् । एवम् इति पूर्ववत् पृथक् पदम् एवेति वा तथापि महोदयम् इत्य् अस्य तथैवार्थः कल्प्यते इति दिक् ॥१२६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं तस्यां तादृशं श्री-भगवत् स्नेहं तस्मिं च तस्या वात्सल्यं श्रुत्वा तद् भाग्यभरेणाति-विस्मितः सन् तत् प्रसङ्गेन श्री-नन्दस्य तस्याश् च भाग्यं पृच्छति—नन्द इति । किं कतरत्, ब्रह्मन् ! हे सर्व-वेद-मूर्ते ! साक्षात् पर-ब्रह्म-मूर्ते वेति तत् दोषं भवता विज्ञायत इति भावः । एव ईदृशं महानुदयः सर्वतः स्नेहोत्कर्षो यस्मात् तत्, महा-भागेति श्री-नन्दतो\ऽपि तस्याः श्रेयो\ऽधिकम् अभिप्रैति, तद् अभि-व्यञ्जयति । वा—शब्द उक्त-समुच्चये । एवं षष्ठाद्य् अध्याय-त्रयोक्त-प्रकारेण, किंवोक्त-रिङ्गणादि-लीला-प्रकारेण, किंबोक्तेश्वर-ज्ञानाच्छादन-पूर्वक-स्नेह प्रवर्धन-प्रकारेण । पपौ इति श्री-देवक्यास् तथा वत्सपाल-रूपधारणे पीतस् तनाभ्यो\ऽपि वैशिष्ट्यं दर्शितम्, तासु तत् तद् भावात् । तत्र देवक्याः स्तन-पानं—पीत्वामृतं पयस् तस्याः पीत-शेषं गदाभृतः [भा।पु।१०.८५.५५] इत्य् अग्रे पञ्चाशीतितम् आध्यायोक्तेर् ज्ञेयम् । हरिर् इति तादृश-बाल्य-लीलया वात्सल्य-विशेषादिना च मनो हरन्न् इति भावः ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं तस्यां तादृशं श्री-भगवतः स्नेहं तस्याश् च तस्मिन् वात्सल्यं तद् भाग्यभरेणाति-विस्मितः श्री-नन्दस्य तस्याश् च भाग्यं पृच्छति नन्द इति । किङ्कतरत् एवम् ईदृशो महान् उदय सर्वतः स्नेहोत्कर्षो यस्मात् महा-भागेति ततो\ऽपि तस्यः श्रेयः अधिकम् अभिप्रैति, तद् एवाह, पपाव् इति । अतः पीत्वामृतं पयः तस्याः पीत-शेषं गदाभृत इत्य् उक्तरीत्या श्री-देवक्यास् तथावत्स-बालक-रूपेणान्यासां गोपीनां स्तन-पाने स्त्य् अपि पूर्वत्रैश्वर्य-ज्ञान-मिश्रत्वात् यथाकथञ्चित् तत्राप्य् असमये वारैक-जातत्वाश् चोत्तरत्रान्य-रूपत्वाद् उभयत्र परस्परैतादृश-स्नेहाभावाद् अत्रैव स्तन-पान-सम्यग् अभिप्रेतम् ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्द इत्य्-आदि नायं सुखापो इत्य् अन्तोऽध्याय-द्वयात्मको ग्रन्थः ॥४६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऐश्वर्य-दर्शन-श्रवणाभ्याम् अपि तस्याः प्रेम-दार्ढ्यम् आकर्ण्य कर्मि-प्रभृतिभ्यो भक्तेभ्यश् चाभिव्यज्यमानम् उत्कर्षं च जानन्न् अतीव-विस्मयेन पृच्छति—नन्द इति । महान् उदयः फलं यस्य तत् महा-भाग इति नन्दाद् अपि तस्याः श्रेयो\ऽधिकम् अभिप्रैति ॥४६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवम् ऐश्वर्य-दर्शन-श्रवणाभ्याम् अशिथिल-पुत्र-भावां तद्-भाव-वश्य-परेशां यशोदाम् आकर्ण्य विस्मितः परीक्षित् पृच्छति—नन्द इति । महान् उदयः फलं यस्य तत् महा-भागेति तस्यानन्दाद् अप्य् अधिकं श्रेयो\ऽभिप्रैति । ननु कथं विस्मयसे ? तत्राह—पपाव् इति । यस्य नन्दस्यास्तनम् आज्ञा-रूपं शब्दं हरिः पपौ पालितवान्, यस्या यशोदायाः स्तनं पपौ पीतवान् इत्य् अर्थः ॥४६॥


॥ १०.८.४७ ॥

पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।

गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ययोः प्रसन्नोऽवतीर्णस् तौ पितराव् अपि यं नान्व् अविन्देतां न प्राप्नुताम् । कृष्णस्योदारं महद्-अर्भकेहितं बाल-लीलाम् । यच् च कवयो गायन्ति तद् योऽविन्दत् स किं श्रेयोऽकरोद् इति ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ययोर् देवकी-वसुदेवयोः । प्रसन्नो युवां मां पुत्र-भावेन इत्य्-आदि तद् उक्तेः । पितरावपीत्यपिना नन्द-यशोदयोर् अपितृत्वाम् न ज्ञेयं किन्तु ताव् अपि वैकुण्ठेशस्य ययोर् जातत्वात् परं तु तस्य नन्द-नन्दनाविष्टत्वात् तौ नान्वविदेताम् । विदन्तिर् अत्र लाभार्थे विदेर् ज्ञाने च वेत्तीति विदेर् लाभे च विन्दति इति वचनात् । दातृमहतो इत्य् अमरः । स किं श्रेयोकरोद् इति द्वयोर् अन्वयः ॥४७॥ [विश्वनाथ]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महोदयत्वम् एवाभिव्यञ्जयन् विहित-चतुर् युग-व्यापि-महा-भक्ति-लक्षण-दुष्करतर-तपो-विशेषाभ्यां जनक-जननीभ्यां श्री-वसुदेवेवकीभ्याम् अपि महद्भ्याम् आह—पितराव् इति । अनु-पश्चाद् अपि नाविन्देतां न साक्षाद् अन्वभवताम्—मथुरायां गतेन बाल्य-लीला-सम्बरणात् । कृष्णस्य साक्षाद् अवतारिण उदारं महत्, भुक्ति-मुक्ति-भक्त्य् आद्य् अशेषार्थम् प्रदं वा आर्भकेहितं बाल्य-चरितम्, किं वक्तव्यम्, तस्य साक्षाद् अनुभव-माहात्म्यम्, तत् कीर्तनादिकम् अपि महा-फलम् इत्य् आशयेनाह-यच् च कवयः श्री-ब्रह्मादयः श्री-व्यासादयो वाद्य-बलिकाले\ऽपि गायन्ति, कुतः ? लोकानां सर्वेषाम् अपि शमलापहं पापोन् मूलकम् अन्यथा कलि-कालीन-पाप-वर्ग-नाशा-सिद्धिः । यद् वा, स्व-जन्मारभ्याद्य् अपि गायन्तीति निरन्तर-गानम् उक्तम् । तत्-किम् अर्थम् ? सर्व-जीवानां शमलं संसार-दुःखम् अपहन्तीति तथा तत् । यद् वा, अद्यापि चिरकाले\ऽतीते\ऽपि कवय आत्मा-रामा अपि गायन्ति । कुतः ? लोकस्य मुनि-जनस्य शमः शान्तिर् लोपो वाक् तौ हन्ति प्रेम-भराविर्भावनेन मनोधैर्यं वाक्—प्रवृत्तिं च संहरतीति । किं वा, शमस्यात्मारामतादि—लक्षणस्य लापं हति तत् कथा-मात्रम् अपि नावशेषयतीति तथा तद् इति परम—रसमयत्वेन स्वतः पुरुषार्थतोक्ता । तद् यो या चाविन्दत, स सा च किं श्रेयो\ऽकरोद् इति पूर्वेणान्वयः ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च पितराव् इति पितृत्वेन सर्व-लोकख्यातौ लब्धवरौ चापि श्री-कृष्णस्य उदारं राजन् पतिर् इत्य्-आदौ अस्त्वेवम् अङ्ग भजतां भगवान् मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् इत्य् उक्तदिशापरमादेयस्यापि दातृवत् अर्भकेहितं तत् अनुपश्चात् अपि नाविन्देतां मथुरायां गतेन बाल्य-लीला-सम्बरणात् किं वाच्यं साक्षाद् अनुभव-माहात्म्यं तस्य भक्ता गुरवो\ऽपि यद् गानेनापि कृतार्थं मायाः परः परार्धं कालं गमयन्तीत्य् आह यच् च कवयः श्री-ब्रह्मादय पूर्वपरार्धादौ श्री-नारदादि-प्रत्य् उपदेशशम् आरभ्य अद्यापि गायन्ति अहो सर्वेषाम् अपि तद् भाग्य-विशेषे हेतुर् इत्य् आह यद् एव चाद्य कलि-काले\ऽपि लोक-मात्राणां सर्वेषाम् अपि शमलापहम् एकत्रापि गीयमानेन सम्बन्ध-परम्परया कृतार्थीकरणात् मद्-भक्ति-युक्तो भुवनं पुनाति इति, अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः इतिवत् । अत उक्तं श्री-सूतेन कृष्ण-चरितं कलि-कल्मषघ्नम् इति ।

यद् वा, कवय आत्माराम-शिरोमणयो\ऽपि भवद्-विधा महा-भागवता अनादितः श्रुति-पुराण-गीयमानम् अपि अद्यापि गायन्ति परमानन्द-भरेण यथ तथाप्य् उन्मत्ता इव गायन्त एव वर्तन्ते, न च कथयन्ति मात्रं यच् च लोकस्यातिदीनस्यापि मद्-विधस्य यच् छमलं तद् अन्तरायकं कर्म, तस्य हन्तृ यच् छ्रवण-मात्रेण मद्-विधो\ऽपि परम-कृतार्थतां मन्यत इत्य् अर्थः । तद् यो या चाविन्दत्, स सा च किं श्रेयोऽकरोद् इति पूर्वेणान्वयः । एवं महा-विस्मयो व्यञ्जितः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु पीत-शेषं गदा-भृतः इति वचनाद् देवक्या अपि स्तनं पपाव् इत्य् अत आह—पितरौ अस्मत्-कुले पितृत्वेन ख्यातौ, देवकी-वसुदेवौ कृष्णस्य उदारम्-अति-सुख-प्रदम् अतिमहच् च अर्भकेहितं बाल-चरित्रं अन्वविन्देतां चक्षुर्-आदिभिर् आस्वादयितुं नालभताम्, उदार-पदेन राम-मातृत्वाभिमानिनी रोहिणी वत्साहरण-लीला-प्राप्त-मातृभावा गोप्यश् च व्यावृत्ता यद् अर्भकेहितम् ॥४७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : परम-दुर्लभ-लाभाद् विस्मये\ऽहम् इत्य् आह—पितरौ इति । पितृत्वेन ख्यातौ पितरौ देवकी-वसुदेवौ कृष्णस्योदारं परमानन्द-प्रदम् महच् चार्भकेहितं बाल-चरितं नान्वविन्देतां, साक्षान् नालभेताम् । उदार-पदेन राम-मातृत्वाभिमानिनी रोहिणी प्राप्त-मातृभावा गोप्यश् च व्यावर्त्यन्ते यद् अर्भकेहितम् ॥४७॥


॥ १०.८.४८ ॥

श्री-शुक उवाच—

द्रोणो वसूनां प्रवरो धरया भार्यया सह ।

करिष्यमाण आदेशान् ब्रह्मणस् तम् उवाच ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्मण आदेशान् गो-पालनादि-लक्षणान् ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदेशो वर्णविकृतौ नियोगे चातिसर्जने इति धरणिः । करिष्यमाण इति । यदि मां गवां पालनम् अपि भवान् आज्ञापयिष्यति तद् अप्य् अहं सर्वथा करिष्यामीति कथयन् तं ब्रह्माणम् उवाच ह वक्ष्यमाणं वाक्यम् इति शेषः ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं जगति तादृश-श्रेयो\ऽसम्भवाद्-विस्मयेन प्रश्नः । परम-भक्ति-प्रार्थनेनैव गाढ-स्नेहैकलभ्यं कृष्ण-बाल्य-चरितामृतं ताभ्यां लब्धम् इति तत्रोत्तरं वक्तुम् आदौ तयोः पूर्व-वृत्तम् आह—द्रोण इति त्रिभिः । प्रवरः परम-श्रेष्ठः, श्री-नन्दावतारत्वात् । आदेशान् श्री-मथुरा-मण्डले गो पालन लक्षणान् एव, बहुत्वं तन् माहात्म्य-गौरवात् । ह हर्षे स्फुटम् इति वा । एतत् सर्वत्रैव प्रसिद्धम् इत्य् अर्थः ॥४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथास्याग्रिमाध्याये मुख्यः सिद्धान्तो वक्ष्यते । प्रथमं तावत् "किम् अकरोच् छ्रेयः ?" इति साधन-गतं तत्-प्रश्नम् अनुसृत्य तत्र सिद्धान्ताभासं यावद् एतद् अध्यायं वक्तुम् आदौ तयोर् अंशेन यत् पूर्व-वृत्तं, तद् अभेदेनाह—द्रोण इति त्रिभिः । प्रवरः परम-श्रेष्ठः श्री-नन्दांशत्वात् आदेशन् श्री-मथुरा-मण्डले गोपालन-प्रायवास-श्री-वसुदेव-सख्यादि-लक्षणान् ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ नन्दः किम् अकरोद् ब्रह्मन् इत्य्-आदि । कथम् एतादृशं भाग-धेयं द्रोण-धरात्वेन श्रूयमाणयोर् नन्द-यशोदयोर् यतः खलु वसुदेव-देवक्योर् अप्य् अतिशयं सुखम् आसीद् इत्य् आशङ्कमानं राजानम् आह—द्रोणो वसूनां प्रवर इत्य्-आदि त्रिभिः । वसूनां प्रवरः कश्चिद् द्रोण-नामा धरा-नाम्न्या भार्यया सह ब्रह्मण आदेशं करिष्यमाणः कदाचिद् ब्रह्मणा तस्मै य आदेशः कृतः, तं करिष्यमाणः करिष्यामीत्य् अङ्गीकुर्वन् उवाच—अग्रे मया प्रार्थ्यमानं वरं प्रयच्छ, तदा ते आज्ञा-पालनं करिष्यामीति भुवि भू-तले कृतावतारे हरौ विश्वेश्वरे महा-देवे देवानाम् अपि देवे नौ आवयोः परमा भक्तिः स्यात् । कीदृशयोः ? लोके जातयोः । भक्तिः कीदृशी ? यया अज्ञो दुस्तरं संसार-सागरं तरेत् । इति प्रार्थिते सति ब्रह्माह—अस्तु । इति पुनर् उक्तः सन् व्रजे नन्दो जज्ञ इति । एवं ख्यातः, नन्द इत्य् एव ख्यातः । धरा यशोदा साभवत् यशोदायामासः स्थितिर् यस्याः सा तथा । एतेन नित्य-भूतयोर् एव नन्द-यशोदयोर् द्रोण-धरे जीवत्वं त्यक्त्वा प्रविष्टे, न तु द्रोण-धरे एव नन्द-यशोदे, ते तु नित्ये एव । तेन तयोर् भाग-धेयं प्रति कः सन्देहः ? केवल-द्रोण-धरयोस् तु तथा-विध-सौभाग्ये सन्देहावतार इति स्थितम् ॥४८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णावतारस्य तदीय-बाल्य-लीलानां च नित्यत्वाद् एव नन्द-यशोदयोर् नित्य-सिद्धत्वं स्पष्टम् इति नाप्य् एतादृशः प्रेमा साधन-सिद्धो भवितुम् अर्हतीत्य् अपि जानतो\ऽपि राज्ञो\ऽस्य प्रश्नो\ऽयं यथा भक्ताव् व्युत्पन्नस्येत्य् अतस् तत्र ममाप्य् उत्तरं तादृशी भवितुर् अर्हतीति प्रष्टरि राजन्य् उदासीन-मना एवाह—द्रोण इति । आदेशान् गोपालनादि-लक्षणान् तं ब्रह्माणम् ॥४८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नन्द-यशोदयोस् तयोस् तत्-प्रेम्णा च नित्य-सिद्धतां जानन्न् अपि राजा तत्-सौभाग्य-साधनं श्रेयः पृच्छतीति तद्-अंशस्याप्य् अनयोः सत्त्वात् तथैवोत्तरयिष्यामीति भावेन तावद् आह—द्रोण इति । आदेशान् गोपालनादि-रूपान् । तं ब्रह्माणम् ॥४८॥


॥ १०.८.४९ ॥

जातयोर् नौ महादेवे भुवि विश्वेश्वरे हरौ ।

भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नौ आवयोः भुवि जातयोर् महादेवे भक्तिः स्याद् इति । अनेन भूलोक एव भक्ति-स्थानं न ब्रह्मलोकादीति सूचितं शङ्कर व्यावृत्त्य् अर्थं विश्वेश्वर इति पुनर् अपि तत्रैव प्रसक्तं विश्वेश्वरत्वेन हरस्यैव प्रसिद्धेः । तद् व्यावृत्त्य् अर्थं हराव् इति । परमात्युत्कृष्टा यया परम-भक्तयाञ्जो विनैव प्रयासम् । तयोर् भाविनि जन्मनीति लभ्यते । महा-देवः क्रीडा यस्य तस्मिन् भुवि स्थितो यो विश्वेश्वरस् तस्मिन् विश्वेऽपीश्वरा यत्र तस्मिन् परावरेशो महद् अंश-युक्त इत्य् उद्धवोक्तेः पूर्णेवतारिणीत्य् अर्थः । हरावावयोर् मनश्चौरे परमेति फलेन फल-कारणम् अनुमीयते इति न्यायात् स्वहृदय-विचारिता पितृत्वोचित-वात्सल्यम् अपीत्य् अर्थः ॥४९॥ [विश्वनाथ]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। १.६.७७] यया मद्-भक्त्या तच्-छ्रवणादिना अन्यो\ऽपि लोकः सुखेन संसारं तरतीति ॥४९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र यद्य् अपि श्री-मन् नन्दांशत्वाच् छ्रद्ध-भगवन् माधुर्याशस्फूर्ति-योग्यस् तथापि तत् तद् एव मुनि-सङ्गेन तद् ऐश्वर्य-ज्ञानम् आलम्ब्य श्लेषेण स्वाभीष्टम् आह—जातयोर् इति । भुवि जातयोः सनोर् नौ आवयोः हरौ मनोहरता-प्रधाने भगवति अत एव विश्वेषाम् ईश्वरे\ऽपि महादेवे परम-क्रीडापरे भक्तिः प्रेम-लक्षणा स्यात् प्रार्थनायां लिङ् परमेति स्व-मनस्य् आदृतं तद् विशेषं बोधयति । स च पितृत्वोचित-वात्सल्याख्य इति फलेनानुमीयते ये यथा मां प्रद्यन्ते इत्य्-आदि श्रवणात् एवं वचन-मात्रलभ्यापराशेषार्थ-परित्यागमय्या प्रार्थनया पूर्वम् अपि तयोस् तादृश-भक्तेर् अस्तित्वम् अवगम्यते अस्तित्वे\ऽपि प्रार्थना तादृश-प्रेमोत्कण्ठयैव अतृप्ति[म्व्]{।मर्क्}अभावत्वात् प्रेम्णः यथा श्री-ध्रुवस्य कुबेरे साक्षात् पुत्रत्व-प्रार्थना तु केवल-कामनामय्य् अपि स्यात् तादृश-पुत्रेण स्व-महिमा-वृद्धेः अत प्रेम-स्वभावत्वात् तत् प्राधान्येनैव प्रार्थितं नान्यथा यत्र तादृशत्वेन कृष्णस्याप्य् अनुगतिः स्वतो जातेति एवं श्री-वसुदेवादितः साधने\ऽप्य् उत्कर्षो दर्शितं साधनस्य च शुद्ध-भक्तित्वात् अतः शुद्ध-भगवत् प्रेम-वासनत्वेन तत्र सर्वेषाम् अपि हितं प्रार्थितं न कामि-जनवन् मत्सरेणात्मन एव तद् आह, ययास्मद् भक्त्या तच् छ्रवण-कीर्तनादि-नान्योऽपि लोकः सर्वो दुर्गतिं तरेत् इति लोके इति सप्तम्य् अन्त-पाठे लोके यया प्रसिद्धयान्योऽपीति शेषः । एवम् उभयोर् अपि वात्सल्य-शुद्धत्वे मातृ-भाव-स्वाभाव्यात् श्री-यशोदाया आधिक्यम् अपि ज्ञेयम् ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जातयोर् इत्य् अनेन भाविनि जन्मनीति लभ्यते । महान् देवः क्रीडा यस्य तस्मिन् भुवि स्थितो यो विश्वेश्वरस् तस्मिन् विश्वेऽपीश्वरा यत्र तस्मिन् परावरैशो महद् अंश-युक्ते इत्य् उद्धवोक्तेः पूर्णे इत्य् अर्थः । हरौ आवयोर् मनश् चौरे परमा इति फलेन फल-कारण मनुमीयत इति न्यायात् स्वहृदय-विचारिता पितृत्वोचित-वात्सल्यम् अपीत्य् अर्थः । ययास्मद् भक्त्या भविष्यन्त्या तच् छ्रवण-कीर्तणादिना अन्यो\ऽपि सर्वो लोकः दुर्गतिं तरेद् इति शुद्ध-प्रेम-भक्ति-प्रार्थनया तज् जन्मनि तयोस् तद् अनुरूप-साधन-भक्तिर् अप्य् एका शुद्धैवासीद् इत्य् अवगम्यते न तु पृष्नि-सुतपसोर् इव भक्तिस् तपो-योगौ चेति पूर्वं व्याख्यातम् एव तत् प्रसङ्गे तत् फलम् ॥४९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.८.५० ॥

अस्त्व् इत्य् उक्तः स भगवान् व्रजे द्रोणो महा-यशाः ।

जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स एवेह द्रोणो जज्ञे । स च नन्द इति ख्यातः सा च धरा यशोदाभवत् ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम् [विश्वनाथ] ॥५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भुवि जातयोः सतोः नौ आवयोः परमा प्रेम-लक्षणा भक्तिः स्याद् अस्त्व् इत्य् अर्थः । एवं पूर्वम् अपि भक्तिर् अस्त्य् एव अधुना च तयोः परमैकान्तिकी प्रगाढ-वात्सल्यम् अयीति यावस्था अनन्य-साध्यत्वात् पुत्रतयैव श्री-भगवत् प्राप्तिर् इति ज्ञेयम् । कथम्-भूते ? महादेवे परम-क्रीडापर इत्य् अर्थः—क्रीडार्थाद् दीव्यतेर् इत्य् अवतारत्वम् । विशेषां ब्रह्मादीनां सर्वेषाम् ईश्वर इति परेश्वरत्वेनावतारित्वम् इत्य् अवतारो\ऽवतारी चैको यस् तस्मिन् । यद् वा, भुवीत्य् अस्य यथास्थित्यैवान्वयः । भुव्यवतीर्णो\ऽपि यो विश्वेष्वरः साक्षाज् जगदीशस् तस्मिन्न् इत्य् अर्थः, अत एव महान् देवो द्युतिर् यस्य निजाशेषैश्वर्य-प्रकटनाद् अत एव हरौ जगन् मनोहरे भगवति यया भक्त्या लोकः सर्वो\ऽप्य् अञ्जो\ऽनायासेन दुर्गतिं दुस्तर-संसार-सागरं तरेत् । एतद् आनुषङ्गिकं फलम् उक्तम्, तच् चाञ्जः पदेन सूचितम् एव, पाकार्थ-प्रज्ज्वलिताग्नेः स्वतः शितादि-हरणवत् । यद् वा, दुरिति दुर्गमाम् अनैदुरापाम् अपीत्य् अर्थः, गतिं मोक्ष-लक्षणाम्, तरेद् इति मुमुक्षुभिर् बहुधा स्तुतत्वेनापरिहार्यत्वाद्-दुस्तर-समुद्रत्वं ध्वनितम् । एवं मोक्ष-निरसनत्वेन भक्तेर् माहात्म्यम् उक्तम् । यद् वा, ययास्म इत्य् अर्थः—श्री-भगवत इव सम्पूर्णतयावतीर्णत्वात् । इह श्री-माथुरे देशो । महा-यशा इति तादृश-प्रार्थनात् । यद् वा, पूर्वतो\ऽप्य् अत्र वैशिष्ट्यं बोधयति—महा-यशाः सन्निति, तच् चान्वर्थम्, नन्द-संज्ञय सूचितम् एव । यद् वा, नन्दस्य यशोदायाश् च विशेषणम्, अर्थः स एव ॥५०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स एवेत्य् अभेद-विवक्षया इह श्री-मथुरा-प्रदेशे स भगवान् इति पाठे परमादरो दर्शितः पूर्वतोऽपि महा-यशाः सन् ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स एव द्रोणो व्रजे इह नन्द इति ख्यातः सा धरा एवेह यशोदा इति नित्य-सिद्धयोर् यशोदा-नन्दयोः साधन-सिद्धौ धरा-द्रोणौ प्रविष्टावभूताम् इत्य् अर्थः ॥५०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ब्रह्मणैवअम् अस्त्व् इत्य् उक्तेः स एव द्रोणो व्रजे नन्द इति ख्यातो जज्ञे, धरा तत्-पत्नी यशोदाभवत् नित्य-सिद्धयोर् यशोदा-नन्दयोः साधन-सिद्धौ धरा-द्रोणौ प्रविष्टाव् इत्य् अर्थः ॥५०॥


॥ १०.८.५१ ॥

ततो भक्तिर् भगवति पुत्री-भूते जनार्दने ।

दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गोप-गोपीनाम् अपि वस्तु-स्वभावाद् अस्त्य् एव भक्तिस् तयोः पुनर् नितराम् इति ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जनार्दनः गोपीजनान् प्रेम्णा पीडयति नवनीत-चौर्याद्य् उपद्रवैरुद्वेजयतीति वा स्तन्य-रसं याचमाने इति वा गोप-गोपीषु मध्ये दम्पत्योर् यशोदा-नन्दयोर् भक्तिर् नितराम् आसीद् इति गोपाः गोप्यश् चापि द्रोण-धरयोर् अनुवर्तिनस् तादृश-साधनवन्तः पूर्व-जन्म-न्यासन्न् इति ज्ञापितम् ॥५१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१२७] ततश् च तादृश-श्री-कृष्ण-परमोदार-बाल्य-चरितामृत-सागरस्य नन्द-यशोदाभ्यां कृते सम्यक् पाने हेतुं वदन्तः श्री-शुकदेव-पादाः श्री-ब्रह्म-वरेण श्री-कृष्ण-परम-भक्ति-प्राप्त्य्-आदिकम् एतयोः पूर्व-जन्म-वृत्तं कथयित्वा प्रश्नोत्तरम् उपसंहरन्त आहुः—ततो भक्तिः [भा।पु। १०.८.५१] इति ।

तस्मात् परम-भक्त-वर-श्री-ब्रह्म-वचनाद् धेतोः दम्पत्योः श्री-नन्द-यशोदयोर् भगवति परमेश्वरे दुराराध्ये जनार्दने असुरादि-दुष्ट-जनानां संहारके तद्-अर्थम् एव पुत्र-भूते पुत्र-रूपे सतीत्य् अर्थः ।

यद् वा, जनैर् अशेषैर् लोकः स्व-स्वाभिमत-प्राप्तये केवलम् अर्द्यमानो याच्यमानो यस् तस्मिन् पुत्र-भूते पुत्रत्वं प्राप्ते । पाठान्तरे अपुत्रः पुत्रो\ऽभूद् इति पुत्रीभूतः पर-ब्रह्म-परमात्म-परमेश्वरत्वादिना पुत्रत्वायोग्यो\ऽपि परमा भक्तिर् मयि पुत्रत्वेनैव सम्पद्यत इति निश्चित्य परम-भक्त-वात्सल्यादि-निज-महिम्ना पुत्रतया जातो यस् तस्मिन्न् इत्य् अर्थः ।

भक्तिः प्रेम-लक्षणा आसीत् स्थिता नैश्चल्येनाभूद् इत्य् अर्थः । गोपेषु गोपीषु च मध्ये नितराम् इति वस्तु-स्वभावाद् गोप-गोपीणां तस्मिन् भक्तिर् अस्त्य् एव । तयोस् तु नितरां तेषां भक्तेः सकाशात् प्रकृष्टेत्य् अर्थः । एतच् च बाल्यापेक्षया उक्तम् इति ज्ञेयम् । यतः परम-प्रेम-रसाविष्कार-समये कैशोरे पौगण्डे च कदाचिद् बाल्ये चापि गोपीनाम् एव सर्वतो\ऽधिकतरा भक्ति-सम्पत् श्रूयते । तच् चोद्धव-यानादौ श्री-भगवद्-वचनाद् एवाग्रे व्यक्तं भावि ।

हे भारत ! परम-प्रकृष्ट-भरत-वंशोद्भवेति प्रश्नोत्तरम् अधुना स्वयम् एव विचार्य जानीहीति भावः । तथा हि—भगवत्-सदृश-पुत्रार्थं पूर्व-जन्मन्य् आराधनं कृतवतोः श्री-देवकी-वसुदेवयोस् तथैव वरं दत्त्वा वर-दान-यन्त्रितेष्व् अपि जन्मसु स्वयम् एव पुत्रतां प्राप्तः । श्री-नन्द-यशोदाभ्यां च श्री-कृष्णे परमा भक्तिर् वृता श्री-ब्रह्मणापि स एव वरो दत्तः । अतो निज-दत्त-वराद् अपि स्व-भक्त-दत्त-वरम् अधिकं सुसम्पादयता भगवता तयोस् तत्-सम्बन्धिनां च व्रज-निवासेन परम-मनोहर-विचित्र-बाल्य-लीलया तुच्छीकृत-चतुर्-वर्गक-निज-प्रेम-भक्ति-विशेषो विस्तारित इति । श्री-नन्दादीनां च नित्य-प्रियतम-पार्षद-वराणां श्री-ब्रह्म-वरादिना भक्ति-प्राप्तिर् यथा श्री-रुद्र-वरेण श्री-कृष्णस्य शाम्ब-पुत्र-वरादि-प्राप्तिर् इत्य् एवम् आदि-सिद्धान्तस् तु पूर्वम् उक्तो\ऽस्ति । एतद् अपि भारतेति सम्बोधनेन सूचितम् ॥१२७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तस्मात् श्री-ब्रह्म-वचनाद् अपुत्रः पूत्रो भूतः पुत्रीभूतः, तस्मिन्न् इति श्री-देवक्यां वसुदेवाज् जातत्वेन श्री-नन्द-यशोदयोः साक्षात् पुत्रत्वाभावे\ऽपि पुत्रता-प्राप्तेः । यद् वा, पुत्री देवी महा-माया, पूत्र्या सहितो भूतो जातः पुत्री-भूत इति केचित्, जन्म-लक्षण-संसार-नाशके । किं वा, जनैः श्री-ब्रह्मादिभि-भक्तैः सर्व-लोकैर् वादर्शनाद्य् अर्थ-मर्दनं याचन-मात्रं यस्य तस्मिन् परम-दुर्लभ इत्य् अर्थ इति परमेश्वरत्वम् उक्तम्, तथापि परम-मधुर रूप गुण-लालादि प्रकटनम् आह—भगवतीति, इति तया-महा-भाग्यम् उक्तम् । गोप-गोपीषु मध्य इति जात्यादिना साम्ये\ऽपि तयोर् नितरां विशेषत आसीद् इत्य् अर्थः । यद् वा, बात्सल्यवतीषु गोप-गोपीषु तयोर् नितरां साक्षात् पुत्रत्वात् । हे भारतेति भरत-वंश्येषु मध्ये श्री-कृष्ण-भक्ति-विशेषेण यथा भवान् मुख्यस् तया तत्र स-भार्यो नन्दो\ऽपीति । यद् वा, द्रोण-धरयोर् नित्य-प्रिय श्री-नन्द-यशोदाशत्वात् स्वतो भक्तिर् अस्त्य् एव अधुना च निजांशि-विषय-प्रवेषेन साक्षात् श्री-नन्द-यशोदयोः सत्योस् तत् सम्बन्धेन गोप-गोपीनां च, षाठ्यर्थे सप्तमी, श्री-ब्रह्म-वचनान् नितरां भक्तिर् आसीद् इत्य् अर्थः । तस्माच् च [ब्रह्मणः] तेषां भक्तिर् इति भक्ति-विशेष-स्वभाविका-तृप्तितो ब्रह्मणो वर-ग्रहणात् । किं वा, श्री-कृष्णस्य साम्ब-पुत्रादि-वर-ग्रहणेन श्री-शिव-सम्माननादिवद् श्री-नन्दस्य भगवद् अवताराथ समुद्यत श्री-ब्रह्म-सम्मानार्थम् इति ज्ञेयम्, अन्यथा—तद्-भूरि-भाग्यम् इह जन्म किम् अपि [भा।पु।१०.१४.३४] इत्य्-आदि-वक्ष्यमाण-श्री-ब्रह्म-प्रार्थनानुपपत्तिर् इति दिक् । एतच् चाशेषं श्री-भागवतामृतोत्तर-खण्डे विवृतम् एव ॥५१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तादृश-भक्तेर् हेतोः पुत्री-भूते योऽन्यस्य कस्यचित् पुत्रो नासीत् तस्मिन् पुत्रतां प्राप्ते तयोर् एव शुद्धोद् रिक्त-तादृशाभावात् अतः पुत्र-भूत इति क्वचित् पाठः सङ्गत एव कथम्-भूतेऽपि जनैर् ब्रह्मादिभिः भक्तैर् अद्यते याच्यते मात्रं न तु लभ्यते यः तस्मिन्न् अपि यतो भगवति स्वयं भगवति श्री-कृष्ण इत्य् अर्थः । तस्मिन् भक्तिर् नितरां पूर्वतोऽपि वरीयस्य् आसीत् तथा प्रसिद्धा व्रज-जन-मुख्यत्वेन स्वाभाविक-परम-वात्सल्यवतीषु गोप-गोपीष्व् अपि नितराम् आसीद् इत्य् अर्थः । पुत्री-भूतत्वाद् एवेति ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जनार्दनः गोपीजनान् प्रेम्णा पीडयति नवनीत-चौर्याद्य् उपद्रवैर् उद्वेजयतीति वा स्तन्य-रसं याचमाने इति वा गोप-गोपीषु मध्ये दम्पत्योर् यशोदा-नन्दयोर् भक्तिर् नितराम् आसीद् इति गोपाः गोप्यश् चापि द्रोण-धरयोर् अनुवर्तिनस् तादृश-साधनवन्तः पूर्व-जन्म-न्यासन्न् इति ज्ञापितम् ॥५१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जनैर् आर्द्यते याच्यते वाञ्छितान्ययम् इति तस्मिन् गोप-गोपीषु मध्ये दम्पत्योर् नितरां भक्तिर् आसीत् । ते च ताश् च पूर्व-जन्मनि द्रोण-धरानुसारिणः साधकायनबभूवुर् इति बोध्यते ॥५१॥


॥ १०.८.५२ ॥

कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः ।

सह-रामो वसंश् चक्रे तेषां प्रीतिं स्व-लीलया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-लीलया पुत्र-भावानुकारिण्या ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदेशं परमा भक्तिर् अस्त्विति वरं प्रीतिं चक्रे प्रेमाणम् उत्पादयामासः ॥५२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदेशं श्री-नन्दं प्रति परमा भक्तिस् तु इत्य् एतल् लक्षणाम् आज्ञाम् इति तद् वश्य-साध्यताभिप्रेता । यद् वा, अस्त्व् इति सम्यग् वचनम्, राम-सहितो व्रजे तद् उचित-स्थाने वसन् स्व-लीलया-साधारण-बाल्य-चेष्टया तासां श्री-यशोदादीनां प्रातिमानन्दं चक्रे । विभुर् विचित्र-निज-लीलया व्रजं सर्वं व्याप्नुवन्न् इत्य् अर्थः । यद् वा, तत् कर्तुं समर्थ इति राम-साहितत्यं च तल् लीलाया एव माधुर्य-विशीषापेक्षया । यद्य् अपि स्वस्य स्वीयानां च सुख-विशेषार्थ जगाद्धतार्र्थं च तत् तत्, तथापि ब्रह्मण आदेशं सत्यं कर्तुम् इति तद् अपेक्षया ततैव कस्यचिद् वैशिष्ट्यस्याभिप्रायेण । किं वा, श्री-वसुदेव-देवक्योर् उपेक्षा-दोष-परिहारार्थम्, अन्यथा पञ्चाच् छ्री-भगवद् ऐश्वर्य-प्रकटे सतिनियोपेक्षया तयोर् अनुतापः सम्भवेत् । एवं श्री-वसुदेव-देवकीभ्याम् अपि विशिष्टः श्री-नन्द-यशोदयोस् तत् सम्बन्धि-जनेष्व् अपि श्री-भगवतः प्रसादो दर्शितः । स च युक्त एव, यस्तस् ताभ्यां पुत्रार्थम् एव तपः कृतम्, एताभ्यान्तु परम-भक्तिर् एव प्रार्थिता । तत्र च स्व-दत्तवराद् अपि निज-भक्त-प्रदत्त-वरस्याधिक्य-सम्पादनं भक्त-बत्सलस्य तस्य सु-प्रसिद्धम् एवेति दिक् ॥५२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र प्रस्तुत-सिद्धान्ताभास-दृष्ट्या तावद् उपसंहरति—कृष्णः स्वयं भगवत्त्वेन परम-स्वतन्त्रो\ऽपि ब्रह्मणो जगद् गत-सर्व-निज-भक्त-गुरोर् आदेशं वरं सत्यं कर्तुं तेन सामान्यतया दिष्टापि सा तयोः परम-श्री-रामेणापि सह व्रजे वसन् तदानीं प्रकटीकृते तयोस् सम्बन्धिनि व्रज-विशेषे स्वयम् अपि तत् पुत्रतया प्रकटी-भूय निवसन् स्वया निज-स्वाभाविक्यैव लीलया तेषां तयोस् तत् सङ्गिनां च प्रितिं तद् विशेषं चक्रे वक्ष्यमाणतात्विक-सिद्धान्तानुसारेण त्व् अयम् अर्थः ।

ननु, यदि तादृशी भक्तिस् तयोः पूर्वम् अपि विद्यत एव तर्हि ब्रह्मादेश किं कृतं तत्राह कृष्ण इति स्वेषु भक्तेषु या लीला तद् भक्तिवशालीलेत्य् अर्थः तयैव तेषां प्रीतिं कर्तुं व्रजे वसन् कृष्णो ब्रह्मण आदेशं वरं सत्यं चक्रे विप्रा वेद-विदो युक्ताः इत्य्-आदिवत् कृपया तन् महिमानमप्य् अदर्शयत् इत्य् अर्थः । अतस् तद् आदेशेन तयैव हितं कृतम् इति भावः । तद् आदेशं विनाप्य् अन्येषां गोपादीनां तद् भावकथनात् ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आदेशं परमा भक्तिर् अस्त्व् इति वरं प्रीतिं चक्रे प्रेमाणम् उत्पादयामास ॥५२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आदेशं पुत्र-भूते जनार्दने परमा भक्तिः स्याद् इति वरं प्रीतिं चक्रे, प्रेमाणम् जनयामास ॥५२॥


(१०.९)


  1. कालेन व्रजता तात ↩︎

  2. गो-व्रजे ↩︎

  3. ओजसा ↩︎

  4. ततश् च ↩︎

  5. पीठे पीठ-निषण्ण-बालक-गणे तिष्ठन् स गोपालकः

    यन्त्रान्तःस्थित-दुग्ध-भाण्डम् अवकृष्याच्छाद्य घण्टा-रवम् ।

    वक्त्रोपान्त-कृताञ्जलिः कृत-शिरः-कम्पं पिबन्तः पयः

    पायाद् आगत-गोपिका-नयनयोर् गण्डूष-फुत्कार-कृत् ॥ ↩︎

  6. थे फ़ोल्लोwइन्ग् वेर्से प्रेचेदेस् थिस् ओने इन् सोमे एदितिओन्स्-

    गोप्यः कदाचन पृथक् पृथग् ऊह्य कृष्णम्

    एत्यैकदैव गदितुं प्रसृतास् तदागः ।

    दृष्ट्वा तद्-अन्त्य् अथ तम् एव निजान् अदृष्ट्वा

    सर्वाश् च ता निववृतुः स्व-गृहान् स-लज्जाः ॥ ↩︎

  7. पुत्रम् ↩︎