०७

शकट-भङ्गः, तृणावर्त-वधः, जृम्भमाणस्य भगवतो मुखे यशोदया\ऽकाशादि-दर्शनं च ।

॥ १०.७.१ ॥

श्री-राजोवाच—

येन येनावतारेण भगवान् हरिर् ईश्वरः ।
करोति कर्ण-रम्याणि**1 मनो-ज्ञानि च नः प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अत्तुं दैत्य-कुलान् ईशः पूतनायाः शिशु-च्छलात् ।

स्तन्यापोशन्तः प्राणैः प्राणाहुतिम् अकल्पयत् ॥*

उत्क्षिपन् शकटं व्योम्नि तृणावर्तम् अधः क्षिपन् ।

दर्शयन् विश्वम् आस्ये च कृष्णः क्रीडति सप्तमे ॥**

कृष्णार्भक-सुधा-सिन्धु- संप्लवानन्द-निर्भरः ।

भूयस् तद् एव संप्रष्टुं राजान्यद् अभिनन्दति ॥***

येन येन इति । येन येन मत्स्याद्य्-अवतारेणापि यानि यानि कर्माणि करोति, तानि नः कर्ण-सुहावहानि मनः-प्रीति-कराणि च भवन्त्य् एव ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्क्षिपन्न् ऊर्ध्वं क्षिपन् [*] कृष्णार्भक एव सुधा-सिन्धुर् अमृताब्धिस् तत्र संप्लवः स्नानं तेन आनन्द-निर्भरम् आनन्दाधिक्यं यस्य स तथा । तद् एव कृष्णार्भकम् एव । अन्यान्यावतार-चरितम् अभिनन्दति श्लाघते [***] कर्ण-रस्यानि श्रोत्र-सुखावहानि । क्वचित् कर्णरम्याणीति पाठस् तस्याप्य् अयम् एवार्थः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोविन्दे लभते रतिम् [भा।पु।१०.६.४४] इत्य् उक्त्या श्रवण-कीर्तनाद्य्-अशेष-साधनानां प्रेम-फल-रूपायाः श्री-भगवद्-रतेः पूतना-मोचन-तच्-चरिताद् एव सिद्धेर् अन्यत्र कथयितव्यम् इत्य् आशङ्क्य तादृश-चरितान्तरं प्रष्टुम् आदौ तदीयाशेष-चरितान्य् अभिनन्दति—येन इति । भगवान् इत्य्-आदि-पद-त्रयेण तत्-कर्मणाम् अपि क्रमेण सर्वैश्वर्य-युक्तत्वम्, तथाशेष-दोष-दुःक-हरत्वं मनोहरत्वं च, तथावश्य-सेव्यत्वम् अन्यथा दत्त-कर्तृत्वम् अपि सूचितम् । एतद् एवाभिव्यञ्जयति—कर्ण- इत्य्-आदि-पद-द्वयेन । नः इति बहुत्वम्—तादृश-भगवच्-चरित-श्रवणेनात्मनो बहु-मानात् । यद् वा, सर्वेषां श्रोतॄणाम् अपेक्षया, सा च निजौद्धत्य-परिहारार्थम्, तच्-चरित-माहात्म्यार्थं वा । प्रभो ! हे सर्व-शक्ति-युक्त ! इति सर्वम् अस्माकम् इन्द्रिय-वृत्तं त्वया ज्ञायत एवेति भावः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : येन इति युग्मकम् । तत्र च गोविन्दे लभते रतिम् [भा।पु। १०.६.४४] इत्य्-उक्त्या श्रवण-कीर्तनाद्य्-अशेष-साधनानां परम-फल-रूपायाः श्री-भगवद्-रतेः सिद्धिं बाल-चरितारम्भाद् एव श्रुत्वा स्वस्यापि तद्-उद्दीपनम् अनुभूय जात-परमानन्दः सन् परमौत्सुक्येन कदाचित् कथान्तरापात-शङ्कया तादृश तच्-चरितान्तरम् एव प्रष्टुम् आदौ तदीयाशेषावतार-चरितान्य् अभिनन्दति—येन इति । भगवान् इत्य्-आदि-पद-त्रयेण तत्- कर्मणाम् अपि क्रमेण सर्वैश्वर्य-युक्तत्वं । तथा अशेष-दोष-दुःख-हरत्वम् अन्तर्-बहिर्-इन्द्रिय-हरत्वं च तथावश्य-सेव्यत्वम्, अन्यथा दण्ड-कर्तृत्वम् अप्य् अभिप्रेतम् । कर्ण-रम्यत्वेन शब्दस्यैव तादृश-माधुरी-मयत्वं ध्वनितं मनोज्ञत्वेन अर्थस्य चेति प्रभो ! हे सर्व-शक्ति-युक्त ! इति सर्वम् अस्माकम् इन्द्रिय-वृत्ति-वृत्तं त्वया ज्ञायत एवेति भावः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : बाल्य-लीलारम्भत एव रति-फलं श्रुत्वा स्वस्यापि तद्-उद्दीपनम् अनुभूय जात-परमानन्दस् तद् एव भूयः पृच्छति—येन इति त्रिभिः ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

स्नातः सुप्तोत्थितः कृष्णः सप्तमे\ऽन उदक्षिपत् ।

तृणावर्तम् अहन्न् आस्ये विश्वं मातरम् ऐक्षयत् ॥

रदच्छदबलं व्यक्तं पूतना-स्तन-चूषणे ।

शकटे\ऽङ्घ्रिबलं पाण्योस्तृणावर्त-वधे बलम् ॥

विश्व-रूप-द्वये तावद् ऐश्वर्यं निजमातरि ।

एवम् आदिममैश्वर्य-युग्मे बाल्ये प्रदर्शितम् ॥

अहो भगवद् अवतारान्त-लीला-मात्रस्याप्य् अस्मन्-मनोहरत्वे \ऽपि श्री-कृष्ण-बाल्य-लीला माम् अतिलोभयति । अतस् ताम् एव ब्रूहीत्य् आशयेनाह—येन येन मत्स्याद्य्-अवतारेणापि यानि कर्माणि करोति, तान्य् अपि नः कर्णाभ्यां रम्याण्य् आस्वाद्यानि मनोज्ञानि मनोऽप्य् आनन्दयितुं जानन्त्य् एव, किन्तु तेष्व् अपि मध्ये ॥१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।



॥ १०.७.२ ॥**

यच्-छृण्वतोऽपैत्य् अरतिर् वितृष्णा

सत्त्वं च शुद्ध्यत्य् अचिरेण पुंसः ।

भक्तिर् हरौ तत्-पुरुषे च सख्यं

तद् एव हारं वद मन्यसे चेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि तच् छृण्वतः पुंसः पुरुष-मात्रस्य अरतिर् मनो-ग्लानिः, तन्-मूल-भूता विविधा तृष्णा चापगच्छति, तथा सत्त्व-शुद्धि-हरि-भक्ति-हरि-दास-सख्यानि च भवन्ति । तद् एव हारं हरेश् चरितं, मनो-हरं वा वद मन्यसे चेत् अनुग्रहं यदि करोषीति ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथापि कर्ण-मनो रम्यते\ऽपि । यच् चरितं शृण्वतस् तद् एवेति हर-चरित-भ्रान्ति-वारणाय, पक्षान्तरं मनोहरम् । स्वेति । मनो-ग्लानिश् चित्त-वैकल्यम् । यद् वा, रतिर् वासुदेव-प्रीतिर् भवति । सत्त्वम् अन्तः-करणम् । श्लेषेण हारं हारम् इव हृदये धार्यम् । यद्य् अपि भगवच्-चरित-मात्रस्य अरत्य्-आदि-निवृत्त्या प्रेमान्त-वस्तु-प्रापणे सामर्थ्यम् अस्ति, तथापि श्री-कृष्ण-बाल्यादि-चरितम् अचिरेणैव तत् तत् प्रापयतीति मन्यसे यदि तव एतत्-सम्मतं स्याद् इति भावः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शृण्वत इति वर्तमानतया श्रवणे प्रवृत्त-मात्रस्येत्य् अर्थः । अरतिः श्रवणादौ मनो\ऽप्रवृत्तिः, प्रवृत्तौ च सत्यां विविधा तृष्णा, कामो लोभो वा । सत्त्वं चित्तं शुध्यति दुर्वासना-क्षयेण नैर्मल्याद् रस-ग्रहण-समर्थं भवति । अचिरेण इत्य् अस्य सर्वैर् अप्य् अन्वयः । अन्यैश् चिरेणापि तत्-तद्-असिद्धेः । हरौ व्रजस्य मम तव वा मनोहरे भगवति भक्तिः प्रेमा, तस्य पुरुषे जने भक्त इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, एतच् चाल्प-बुद्धिर् अहं मन्ये, किन्तु तत्र सत्यता ममापि दृढता तव महा-बुद्धेर् मननाद् एव स्याद् इत्य् आह—यदि त्वं तथा मन्यसे, तदा वद, परम-विनयोक्तिर् इयम् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पिपृक्षितम् आह—यच् छृण्वत इति । अरतिः श्रवणादौ मनोऽप्रवृत्तिः प्रवृत्तौ च सत्यां विविधा तृष्णा सत्त्वं चित्तं शुद्ध्यति दुर्वासनाक्षयेन नैर्मल्यात् रस-ग्रहण-समर्थं भवति अचिरेणेत्य् अस्य सर्वैर् अप्य् अन्वयः । अन्यश् चिरेणैव तत् तत् सिद्धेः हरौ व्रजस्य मम तव च मनोहरे भगवति भक्तिः प्रेमा तस्य पुरुषे जने भक्ते इत्य् अर्थः । अन्यत् तैः । एतच् चाल्प-बुद्धिर् अहं मन्ये किन्तु तत्र ममापि दृढता तव महा-बुद्धेर् अभ्युपगमाद् एव स्याद् इत्य् आह—यदि त्वं तथा मन्यसे तदा वद परम-विनयोक्तिर् इयं यद् वा यदि पुनर् अधुनापि गुप्तं न करोषीत्य् अर्थः । सविनय-नर्मोक्तिर् इयम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वदेत्यनेन यद्यपि तथापि यत्तदन्यदपीति शृङ्खलया त्रयाणां किञ्चिदध्याहारेणान्वयः । कर्णेति पदद्वयं शब्दार्थयोः पृथङ्माधुर्यानुभवेन हारं हारवत् स्पृहया हृदि धार्यं चेन् मन्यसे पूर्ववत् तृप्तं न करीषीत्य् अर्थः । तत्-तादृशमन्यद् अपि तोकाचरितम् एव वदेद् इत्य् अन्वयः ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् शृण्वन्त पुंसः पुं-मात्रस्यापि अरतिः श्रवणादाव् अप्रवृत्तिर् अपैति नश्यति अनर्थ-निवृत्त्या निष्ठोत्पद्यत इत्य् अर्थः । ततश् च वितृष्णा तत्र तृष्णाभावः अपैति रच्युत्पत्या आकाङ्क्षा जायत इत्य् अर्थः । ततश् च सत्त्वं चित्तं शुद्ध्यति दुर्वासना-निवृत्या भक्ति-रसास्वाद-सामर्थ्यं भवति, यथा पैत्तिक-रोग-निवृत्त्या रसनासिता-माधुर्य-ग्रहण-समर्था स्यात् । आसक्त्य्-उत्पत्त्या रतिर् जायत इत्य् अर्थः । अचिरेण इति सर्वत्र योज्यं । ततश् च भक्ति-प्रेमा स्यात् तत्-पुरुषे वैष्णवे सख्यम् इति । यद्य् अपि भक्त्य्-आरम्भत एव वैष्णवे सख्यं विहितं, तद् अपि प्रेग्णि सत्य् एवं वैष्णव-मात्रे निरुपाधिकं भवेद् इत्य् अत्रैवोक्तं हारं हरेश् चरितं, श्लेषेण हारम् इव हृदये धार्यं । यद्य् अपि भगवच्-चरित-मात्रस्याप्य् अरति-निवृत्त्य्-आदि-प्रेमान्तर्-वस्तु-प्रापणे सामर्थ्यम् अस्त्य् एव, तद् अपि श्री-कृष्ण-बाल्यादि-चरितम् अचिरेणैव तत् तत् प्रापयतीत्य् अत्रैवोक्त मन्यसे चेद् इति, यदि तवैतत् सम्मतं स्याद् इति भावः ॥२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.३ ॥

अथान्यद् अपि कृष्णस्य तोकाचरितम् अद्भुतम् ।
मानुषं लोकम् आसाद्य तज्-जातिम् अनुरुन्धतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्यौत्सुक्येन पुनर् विशिनष्टि, अथेति । अनुरुन्धतोऽनुकुर्वतः ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्यौत्सुक्येनात्युत्कण्ठण्ठया । तोकेन बालेन । आचरितं कृतम् । तज्-जातिं गोप-जातिम् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथान्यद् अपि इत्य्-आदि । मानुषं लोकं भू-तलम् आसाद्य तज्-जातिम् अनु लक्ष्यी-कृत्य रुन्धत आवृण्वतो मानुष-लोके\ऽपि मानुष-भावम् अप्रकाशयतः ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तादृशं तु श्री-कृष्ण-बाल्य-चरितम् एवेत्य् आशयेनाह—अथ इति । अतो हेतोः कृष्णस्य साक्षाद् भगवतो\ऽन्यत् पूतना-वधाद् इतरद् अपि तोकाचरितं बाल्य-लीलाम् अद्भूतम् अलौकिकं बाल्य-लीलायाम् अपि मधुर-परमैश्वर्य-प्रदर्शनेन परम-विस्मयावहम् इत्य् अर्थः । तत्र हेतुः—मानुषं लोकम् आसाद्य मर्त्य-लोके\ऽवतीर्य मनुष्याकारं वा प्रकटीकृत्य, तत्रापि तां परम-रसमयत्वादिना निर्वचनीयां गोप-लक्षणां जातिं प्राप्नुवतो बहु-मन्यमानस्य वा । यद् वा, तज्-जातिं सर्वान् एव गोप-गोपी-गणान् इत्य् अर्थः, प्रेम-विस्तारणेन वशीकुर्वतः परमेश्वरस्यापि तादृश-बाल्य-चरितात् । किं वा, बाल्य-लीला-समानम् ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कीदृशं तत् तव चित्तस्थं हारम् ? तत्राह—अथ इति । अथ अनन्तरम् एव न तूपोद्घातादिनापि व्यवधानेन श्री-कृष्णस्य लीला-माधुरीभिश् चित्ताकर्षकस्य तोकाचरितम् एव वदेति पूर्वेणैवान्वयः । तद् एवं स्व-चमत्कारे हेतुम् आह—अद्भुतं रूप-गुण-विलास-लीला-चातुरीभिः क्वचित् तद्-अनुगत-दुरूहैश्वर्य-मिलनेन च विस्मयावहः । तच् चास्मान् मनुष्यान् एव कृपयितुं प्रकटितम् इत्य् आह—मानुषं लोकम् आसाद्य मर्त्य-लोकेऽवतीर्य तज्-जातिम् अपि स्व-लीलयात्मसात्-कुर्वतः स्वाभेदेन व्यवहरत इत्य् अर्थः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्यौत्सुक्येन तद् एव पुनः स्पष्तयति—अथ इति । तज्-जातिं मानुष-जातिम् अनुरुन्धत इति मानुष-जात्य् अनुरोधेनैव भूर् लोके प्राकट्यं, न तु देवादि-जात्य्-अनुरोधेन देवादि-लोक इति देवादिभ्योऽपि मानुषाणां सौभाग्यं द्योतितम् ॥३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.४ ॥

श्री-शुक उवाच—

कदाचिद् औत्थानिक-कौतुकाप्लवे

जन्मर्क्ष-योगे समवेत-योषिताम् ।

वादित्र-गीत-द्विज-मन्त्र-वाचकैश्

चकार सूनोर् अभिषेचनं सती ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्थानं शिशोर् अङ्ग-परिवर्तनं तत्र करणीये कौतुकाप्लवे उत्सवाभिषेके तथा तस्मिन्न् एव दिने जन्म-र्क्षस्यापि योगेऽतिमहोत्सवे समवेत-योषितां मिलित-पुरन्ध्रीणां मध्ये वादित्रादिभिः शोभितम् अभिषेचनं सती यशोदा चकार ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मन्त्रान् ब्रुवन्तीति मन्त्र-वाचकाः । ब्रुवो वचिः । द्विजेषु मन्त्र-वाचका द्विज-मन्त्र-वाचकाः । पुनर् वादित्रादिभिर् द्वन्द्वः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-बादरायणिर् अपि तद् उक्तम् एवानुमन्यमानः क्रम-प्राप्तां बाल्य-लीलाम् एव कथयति—कदाचिद् इत्य्-आदिना । कदाचित् मास-त्रय-वयः प्राकट्ये त्रैमासिकस्य च पदा शकटो\ऽपवृत्तः [भा।पु। २.७.२७] इति द्वितीय-स्कन्धोक्तेः । औत्थानिकं बहिर् निष्क्रमणम् इति केचित् । सूनोर् इति तद्-एक-पुत्रायास् तस्याः स्नेह-भरेण तन्-महोत्सवे परमासक्तिं बोधयति । सती सर्व-कर्मस्व् एवोत्तमेत्य् अर्थः । अतः कलश-स्थापन-पूर्वकं ब्राह्मण-क्रियमाण-मन्त्रवत् प्रोक्षणादिना अभिषेकम् अकरोद् इति ज्ञेयः । श्री-नन्दस्य मुख्यत्वे\ऽपि तस्या एवात्र निर्देशस् तादृश-कर्मसु पुरन्ध्रीणां प्राधान्यात् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-शुकदेवोऽपि तद् उक्तम् एवानुमोदमानः कर्म-प्राप्तां बाल्य-लीलाम् एव कथयति—कदाचिद् इत्य्-आदिना । कदाचित् मास-त्रय एव वयः प्राकट्य-समये त्रैमासिकस्य च पदा शकटोऽपवृत्तः [भा।पु। २.७.२७] इति द्वितीयोक्तेः । तत्रैव जन्म-र्क्ष-योगे इति नाक्षत्र-मासो\ऽभिप्रेतः । तत्रैव च दैवाद् औत्थानिकं यत् कौतुकं वृत्तं तस्य आप्लवे सर्वतो व्याप्तौ सत्याम् औत्थानिकं बहिर् निष्क्रमणम् इति केचित्, तत् तु चिन्त्यम् । चतुर्थे मासि निष्कामः इति स्मृतेः । तत्र च सावन-मास-ग्रहणात् सूनोर् इति । तद्-एक-पुत्रायास् तस्याः स्नेह-भरेण तन्-मोहत्सवे परमासक्तिं बोधयति सति सर्व-कर्मस्व् एवोत्तमेत्य् अर्थः । स्त्री-प्रसाधन-कर्मत्वाद् अस्या एव कर्तृत्वम् उक्तं, न तु प्राग्वत् छ्री-नन्दस्य ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अभिषेचनं कुशाग्रेणेति ज्ञेयं । चकार कारयामास ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदाचिन् मास-त्रय-वयसि सति, त्रैमासिकस्य च पदा शकटो\ऽपवृत्तः [भा।पु। २.७.२७] इति द्वितीयोक्तेः । मास्य् अस्य चरणाव् उदगित् यत्र मासास् त्रयः परिच्छेदका यस्येति व्याख्येयम् । उत्थानम् उत्थान-शायिनः शिशोस् तिर्यक् शयन-सामर्थ्योद्गमः । तत्र भवे कौतुकाप्लवे तद् द्रष्टुं व्रज-वासिनां कुतूहल-समुद्र-निमज्जने सतीत्य् अर्थः । तस्मिन्न् एव दिने जन्म-र्क्षस्यापि योगे सति समवेत-योषितां मिलित-पुरन्ध्रीणां मध्ये वादित्रादिभिः शोभितम् अभिषेचनं यशोदा चकार ॥४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.५ ॥

नन्दस्य पत्नी कृत-मज्जनादिकं

विप्रैः कृत-स्वस्त्ययनं सुपूजितैः ।

अन्नाद्य-वासः-स्रग्-अभीष्ट-धेनुभिः

सञ्जात-निद्राक्षम् अशीशयच् छनैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्नादिभिः सुपूजितैर् विप्रैः कृत-मङ्गलम् । सञ्जात-निद्रे अक्षिणी यस्य तम् अशीशयच् छायित-व्रती । शकटस्याधस्तात् प्रेङ्खे ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृतस्वास्त्ययनं कृत-माङ्गल्य-वचनम् । शकटस्याधस् तात्-प्रेङ्खे इत्य् अयम् अर्थः । स्वामि-चरणैर् अक्षरैर् न गृहीतः किन्तु कथं स्वयं वै शकटं व्यपर्यगात् इत्य् उक्तेर् इति ज्ञेयम् । शनैर् इति । निद्राभङ्ग-शङ्कया क्रोडे निस्पन्दं धृत्यैव स्वयम् अपि शायित्वाशीशयत् । प्रेङ्खे आन्दोलन-यन्त्रे ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्दस्य पत्नीति तत्र तस्यानुमतिः साहाय्यं च तथा तस्या अपि तद् वद् ऐश्वर्यं सर्वानन्दकत्वं च सूचितम् । कृतं तया गोपीभिश् च मज जनादिकं यस्य तम्, आदि-शब्दाद् गोरोचनातिलक-सौवर्णाभरण-वेषादि । तथा च वाराहे गोपी-तीर्थ-प्रसङ्गे एतल् लीलानन्तरम् एव—गोपी-मण्डल-पाठेन स्नापितो हेम-कुण्डलः इति स्वस्त्य् अयनं रक्षा-बन्धनादि-मङ्गल-कर्म । अन्नाद्य् अयोर् भक्ष्य-भोज्य-भेदेन वा भेदः । आज्यम् इति केचित्, ततश् च घृतम्, सुग्-रत्नादि-माला, अभीष्टम् आत्मनो विप्राणां वा यस्य यत् प्रियं द्रव्यम्, धेनु-विशेषणं वा । सञ्जात-निद्रे अक्षिणी यस्येति निद्रां प्रति श्री-भगवता स्वनेत्रयोर् वास-प्रदानात् । तच् च भविष्योत्तरं शयन-प्रसङ्गे व्यक्तम् एव । यद् वा, शकट-भञ्जनाय तद् अधः शयनार्थं निद्रयेवाक्षि-मुद्रणात् । शनैर् इति सुकुमारतया निद्रा-भङ्ग-शङ्कया वा ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्दस्य पत्नीति तद्वद् औदार्यं तत्र तस्यानुमतिः साहचर्यं च सूचितं कृतं तया गोपीभिश् च मज्जनादिकं यस्य तम् आदि-शब्दाद् गोरोचना-तिलक-वेशादि-पूर्वोक्ताभ्षेकोत्यत्रान्तर्भाव्यते स्वस्त्ययनं स्वस्ति-वाचनादि मङ्गल-कर्म अन्नाद्यम् अन्नं तद् उपकरणं च आज्यम् इति केचित् स्रक् रत्नादि-माला अभीष्टम् आत्मनो विप्राणां वा यस्य यत् प्रियं द्रव्यं धेनु-विशेषणं वा शनर् इति सुकुमारतया निद्रा-भङ्ग-शङ्कया च ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्नाद्यम् अन्नं तद्-उपकरणं च ॥५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्नादिभिर् अन्नादि-दानेन सुष्ठु-पूजितैर् विप्रैः कृत-मङ्गलं सञ्जात-निद्रे अक्षणी यस्य तं बालं शनैर् इति निद्रा-भङ्ग-शङ्कया क्रोडे निष्पन्दं धत्वैव स्वयम् अपि शयित्वा अशीशयत् बृहत्-प्राङ्गणैकदेश-स्थस्य शकटस्याधः स्थिते पल्यङ्के निश्चलं निश्चलं निःशब्दं च शाययामास । ततश् च निद्रा-पूर्ति ज्ञात्वैव स्वयम् उत्तस्थाविति शनैः पदेनैव द्योतितं ज्ञेयम् ॥५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.६ ॥

औत्थानिकौत्सुक्य-मना मनस्विनी

समागतान् पूजयती व्रजौकसः ।

नैवाशृणोद् वै रुदितं सुतस्य सा

रुदंस् तनार्थी चरणाव् उदक्षिपत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्क्षिपद् ऊर्ध्वं चालितवान् ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : औत्थानिके औत्सुक्यं मनो यस्याः सा तथा ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मनस्विनी परम-मोदार-चित्तेत्यभ्यागत-पूजायां श्रद्धा दक्षता चोक्ता । यद् वा, सर्वानुसन्धान-निपुणापि । किं वा, श्री-कृष्ण-संलग्न-चित्तापि नैवाशृणोत् । कुतः ? औत्थानिके पुत्रार्थोत्सव-विशेषे औत्सुक्यं वैयग्र्यम् उत्कण्ठा वा यस्य तथा-भूतं मनो यस्थाः साः, अतः समागतान् सर्वान् एव व्रज-वासिनो जनान् गन्ध-पुष्पादिभिः पूजयन्त्यतो निज-दास-बालकान् एव पुत्र-पार्श्व रक्षितवतीति ज्ञेयम् । एव-कारेण कथञ्चित् किञ्चिद् अपि तच् छ्रवणं नाभूद् इति बोधितम् । वै प्रसिद्धम्, सत्यं वेति सश-पथं तद् एव दृढी-कृतम् अन्यथाशेष-कृत्य-परित्यागेनाप्य् अवश्यम् आगता स्यात् । स च रोदनेनापि मातरम् अप्राप्य स्तनार्थी सन् रुदन्न् एव चरणाव् ऊउध्वं प्रसारयामासेति बाल्य-लीला-सौष्टवम् उक्तम् । केचित् तु शकटासुर-भञ्जन इति ब्रह्माण्ड-पुराणोक्तानुसारेण शकटाविष्टस्य दैत्यस्य वधार्थम् इत्य् आचक्षते—[कृष्णस्य] रोदनं च मातुः प्रेम-वश्यतया, बुभुक्षयावा मातुः स्तन्य-पानार्थम्—स्तनार्थीत्य् उक्तेः, निजैश्वर्याच् छादनार्थं तथा सर्वेषां तत्रात्यानां स्नेहभर-वृद्धये चेति । इत्थं श्री-भगवत्श् चरितम् एकम् अपि बहु प्रयोजन-करम्, तच् च जगतः क्षेमायैवेत्य् उक्तम् एव ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अश्रवणे हेतुः, मनस्विनी परमोदार-चित्तेत्य् अभ्यागत-पूजायां श्रद्धा दक्षता सावधानता चोक्ता तथा औत्थानिके परमोल्लासमय-पुत्रोत्सव-विशेषे औत्सुक्यं कर्म-साङ्गतार्थम् उत्कण्ठा वैयग्र्यं यस्य तथा-भूतं मनो यस्याः तथा-भूता च सते समागतान् सर्वान् एव व्रज-वासिनो जनान् गन्ध-माल्याभरणादिभिः पूजयन्तीति अतो ये च वक्ष्यमाणा बालास् तत्रासंस् ते तथा पुत्र-पार्श्वे रक्षिता एव प्रायशो भवेयुर् इति ज्ञेयम् । एवकारेण किञ्चिद् अपि तच्-छ्रवणं प्रत्याख्यातं वै निश्चये तेन च सत्यम् एतद् इति स-शपथं तद् एव दृढीकृतम् अन्यथा शेष-कृत्य-परित्यागेनाप्य् अवश्यम् आगता स्याद् इति भावः । स च रोदनेनापि मातरम् अप्राप्य स्तनार्थी रुदन्न् एव चरणाव् ऊर्ध्वं मुहुर् उत्क्षिप्तवान् इति बाल्य-लीला-सौष्ठम् उक्तम् शकटासुर-भञ्जनः इति ब्रह्माण्ड-पुराणोक्तानुसारेण शकटाविष्टस्य दैत्यस्य वधार्थम् इति लभ्यते तच् चानुषङ्गिकम् एव भवतु श्री-भगवच् चरितस्य स्वभावत एव सर्व-समाधान-शक्तिम् अयत्वात् रोदनं च मातुः स्तन्य-पानार्थं स्तनार्थीत्य् उक्तेः । अस्य तन् मनः-स्थित-भावस्य मुनीन्द्रेणानुस्मरणाद्य् अथार्थम् एव चेदं तच् च तद् वात्सल्यवश्यतामय-बाल्य-लीलावशेन ज्ञेयम् भक्तभाव-वश्यत्वात् लोकवल् लीला-कैवल्याच् च इति सिद्धान्तः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : रसनार्थीति बाल्य-लीला-वेशो दर्शितः ॥६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : औत्थानिके उत्सवे औत्सुक्य-युक्तं मनो यस्याः सा मनस्विनी वस्त्रालङ्कार-माल्य-गन्ध-चन्दन-तैल-सिन्दूरादिकं ददाना व्रजौकसो महोत्सवागत-नारीः नैवेति व्रज-स्त्री-जन-सम्मान-नव-चनप्रति-वचनाद्य्-आवेशवशादित्य् अर्थः । स्तनार्थी इति निद्रान्त एव क्षुधोद्गमाद् इति भावः । मदीय-रोदन-शब्देन नावदधासि तिष्ठ त्वद्-गृह-शकट-स्फोटन-शब्देनैव त्वाम् अवधापयानीति मात्रे कुप्यन्न् इव शकट-भङ्गार्थम् एव चरणौ उच्चिक्षेपेत्य् उत्प्रेक्षा गम्या ॥६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.७ ॥

अधः-शयानस्य शिशोर् अनोऽल्पक-

प्रवाल-मृद्व्-अङ्घ्रि-हतं व्यवर्तत ।

विध्वस्त-नाना-रस-कुप्य-भाजनं

व्यत्यस्त-चक्राक्ष-विभिन्न-कूबरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-अधः-शयानस्य शिशोर् अल्पकश् चासौ प्रवालवन् मृदुश् च योऽङ्घ्रिस् तेन हत-मनः शकटं तद्-आकारोऽसुरः व्यवर्तत विपरीतम् अपतत् । कथम् ? विष्वस्तानि नाना-रसवन्ति कुप्य-भाजनानि स्वर्ण-रजतातिरिक्त-कांस्यादि-मयानि भाजनानि यथा भवन्ति तथा । चक्रे च अक्षश् च चक्राक्षः व्यत्यस्ताश् चक्राक्षा यस्मिन् विभिन्नः कूबरो युगन्धरो यस्य तच् च तच् च यथा भवति तथा व्यवर्ततेति ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् अधः शकटाधोदेशे । कुप्यम् । तथाभ्यां यद् अन्यत् तत्-कुप्यम् इत्य् अमरः । ताभ्यां हेम-रूप्याभ्याम् । यद् वा-द्वीपान्तरीयमृद्रचितानि पात्राणि कुप्यानि । अक्षश् चक्रप्रोतो लोहादि-रचितो दण्डः । अनः शयानस्य इति पाठं तु विजयध्वजो व्याचख्यौ । क्वचित् तु शिशोर् अनोल्पके इति पाठः । बहुषु पुस्तकेषु शिशोर् अथाल्पके इति पठस् तत्रान इति शेषः । शकटं व्यपर्यगाद् इति वक्ष्यमाणत्वाद् वा ज्ञेयम् । शकटासुर-भञ्जनः इति ब्रह्माण्डोक्तेः शकट-स्थासुराविष्टत्वेन भू-प्रविष्ट-चक्रत्व-मलक्ष्य तं पादाग्रेणाहन् अन्तर्धाने नाविष्टमन्तर्धानेनैवाहन् बाल्य-लीलायाम् अपि निजैश्वर्य-दर्शनाच् छ्री-कृष्ण-महिमाद्भुततम एव तद् उक्तं विष्णु-धर्मेऽर्जुनेन

तालोच्छ्रिताग्र-गुरु-भार-सार- > मायाम् अविस्तारवद् अद्य जातः । > पादाग्र-विक्षेप-विभिन्न-भाण्डः > चिक्षेपः को\ऽन्यः शकटं यथा त्वम् ॥ इति ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधः शकटासुर-खण्ढनेच्छया गृहाद् वहिर् महा-शकटस्याधस् ताद् बाल-पर्यङ्किकायां शयानस्याल्पकेन बाल्याविष्काराद् अत्य् अल्प-प्रमाणेन, अत एव प्रवालतो\ऽपि मृदु-नाडि-घ्रणैकेन हतं प्रहतम् । यद् वा, हन्तेर् गत्य् अर्थाद् गतं प्राप्तं स्पृष्टम् इत्य् अर्थः । विध्वस् तेत्यासि तैर् व्याख्यातम् एव । यद् वा, कथम्-भूतम् ? सद् इत्य् एव विशेषणाम्, तस्य च महा-शकटस्यासुरा-विष्टस्यापि विध्वस्तेत्य् आदि सूचितम् । महावेगेन विपरीत-पतनं श्री-भगवतो विचित्र-लीला-विष्कारं बोधयति । एवं बाल्य-लीलायम् एव तद् अव्यभिचारेण निजैश्वर्य-विशेषाविर्भावाच् छ्रीकृष्णस्य सर्वतो विशिष्टो महिमा दर्शितः, यतः स्वयं श्री-विष्णु-रूपेण श्री-नृसिंहाद्य् अवतारेण चासुरघादिकं युद्घाटोप-विक्रम-विशेषेणैव, श्री-रघुनाथाद्य् अवतारेण च बाल्ये केवलं लौकिक-लीलैव । अत्र चविचित्रम्, मघुर-लौकिक-बाल्य-लीला-सद्मनि तमेवैश्वर्य-विशेष-प्रकटनम् इति समग्र-भगवत्ता माधुरी सिद्धा, अत एवोक्तं श्री-ब्रह्मणा द्वितीय-स्कन्धे—

तोकेन जीव-हरणं यद् उलुकिकायास् > त्रैमासिकस्य च पदा शकटो\ऽपवृतः । > यद् रिण्गतान्तर-गतेन दिविस्पृशेण, > उन्मुलनन्त्वितरथार्जुनयोर् न भावव्यम् ॥[भा।पु।२.७.२७]

इत्य् अस्यार्थः—तोकेन बालेन सता, उलुकिकायाः पूतनाया अन्तर्गतेनार्जुनयोर् एव मध्य-प्राप्तेन कृष्णेनेतरथा श्री-कृष्णस्य भगवत्ता-विशेष-प्रकटनं विना नभाव्यं न सम्भाव्यम् । भावि-कथनाद् भविष्यन् निर्देशो नसम्भवेद् इत्य् अर्थः । अत एव तत्रैवादौ

भूमेः सुरेतर-वरूथ-विमर्दितायाः > क्लेश-व्ययाय कलया सित-कृष्ण-केशः । > जातः करिष्यति जनानुपलक्ष्य-मार्गः > कर्माणि चात्म-महिमोपनिबन्धनानि ॥ [भा।पु।२.७.२६]

इत्य् अस्यार्थः—सुरेतरा असुराङ्गोद्-भूता राजानस् तेषां सैन्यैर् विमर्हिताया भारेण पीडितायाः, कलाया श्री-बलदेवेन सह सिता वेणीत्रया-बद्धाः कृष्णाः केशा येन सः । अनेन सौन्दर्यं सदा दुष्ट-वधोद्य् अतत्वञ् चोपलक्षितम् । यद् वा, कलयोंशेन यः सित-कृस्ण-केशो नारायणो\ऽपि यस्यांशः स इत्य् अर्थः । जनैर् जीवैर् उपलक्षयितुम् अप्य् अशक्यो मार्गो\ऽपि यस्य सो\ऽपि जातः सन् आत्म-महिमा साधारण-निज-माहात्म्य-भगवत्ता-लक्षणं तद् उप-निबन्धनानि तद् अभिव्यञ्जनार्थानि कर्माणीति ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधः गृहाद् बहिर् महा-शकटस्याधस्ताद्-बाल-पर्यङ्किकायां शयानस्य अल्पकेन अत्यल्प-प्रमाणेन प्रवालतोऽपि मृदुना च अङ्घ्रिणैकेन हतं हनन-मुद्रया स्पृष्ट-मात्रम् इत्य् अर्थः । यद् वा हन्तेर् गत्य् अर्थवात् गतं प्राप्तम् इत्य् अर्थः । तच् च असुराविष्टत्वाच् छकटत्वस्योच्चस्यापि भूमि-प्रविशच् चक्रत्वान् निकट-प्राप्तत्वेन भगवद् विग्रहस्य विभुतास्वभावेन वा सम्भाव्यम् असुरस्त्वन्तर्धानेन तदाविष्ट इत्य् अन्तर्धानेनैव विलयं प्रापित इति ज्ञेयम् एवं बाल्य-लीलायाम् एव तद् व्य्भिचारेण निजश्वर्य-विशेषाविर्भावाच् छ्री-कृष्णस्य सर्वतो विशिष्टो महिमा दर्शितः यतः स्वयं श्री-विष्णु-रूपेण नृसिंहाद्य् अवतारेण चासुर-घातादिकं विग्रहाद्य् आटोप-विक्रम-विषेणैव श्री-रघुनाथाद्य् अवतारेण च बाल्ये केवलं लौकिक-लीलैव अत्र तु विचित्र-मधुर-लौकिक-बाल्य-लीलानुगतम् एवैश्वर्यम् इति परमाद्भुत-भगवत्ता माधुरी सिद्धा श्री-विष्णु-धर्मे\ऽपि तद् उक्तं श्री-मद् अर्जुनेन—

तालोच्छ्रिताग्रं गुरुभार-सारमायाम् अविस्तार-वदद्य जातः । > पदाग्र-विक्षेप-विभिन्न-भाण्डं विक्षेप कोऽन्यः शकटं त्वम् ॥

इति अत्र ताल-शब्देन षष्टि-हस्त-प्रमाण-परिणत-ताल-वृक्ष एवोच्यते बृहत्तस्यैव विवक्षित्वात् तथा श्री-ब्रह्मणा द्वितीय-स्कन्धे—

तोकेन जीव-हरणं यद् उलुकिकायास् > त्रैमासिकस्य च पदा शकटो\ऽपवृतः । > यद् रिण्गतान्तर-गतेन दिविस्पृशेण, > उन्मुलनन्त्वितरथार्जुनयोर् न भावव्यम् ॥[भा।पु।२.७.२७] इति ।

अस्यार्थः तोकेन बालेन सता उलूकिकायाः पूतनायाम् अन्तर-गतेन अर्जुनयोर् एव मध्य-प्राप्तेन कृष्णेन इतरथा श्री-कृष्णस्य भगवत्ता-विशेष-प्रकटनं विना न सम्भाव्यं न सम्भवेद् इत्य् अर्थः । अतः शकटस्याति-बृहत्तमत्वात् मातापि तद् अधः पुत्रं शायितवतीति ज्ञेयम् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अध इति शकटासुर-भञ्जन इति । ब्रह्माण्डा-पुराणात् असुरावेशेनैव भूमौ प्रविशच् चकत्वादुच्चस्यापि शकटस्याल्पकेन चरणेन स्पर्शो ज्ञेयः ॥७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अल्पकश् चासौ प्रवालवन् मृदुश् च यो अङ्घ्रिस् तेन हतम् इति तेन वामनावतारस्य कटाह-भेदार्थम् इव शकट-भङ्गार्थं तच् चरण-युगं न वर्धितं नापि नृसिंहावतारस्य कठोर-हिरण्यकशिपु-विदारणार्थम् इव जात्यैवातिकठिनम् इति भावः । बाल्यादि-लीला-माधुर्याविरोध्य्-अतिसुदुर्घटम् ऐश्वर्यम् एतत् कृष्णस्य पूर्णत्व-प्रतिपादकं व्यवर्तत विपर्यस्ती-भूयापतत् बिध्वस् तानि नाना-रसवन्ति कुप्यभाजनानि स्वर्ण-रजतातिरिक्त-कांस्यादिमयानि पात्राणि यत्र यद् यथा स्यात् तथा व्यत्यस् तानि विपर्यस् तानि चक्रेअक्षाश् च चक्राक्षाः व्यत्यस्थाश् चक्राक्षा यस्मिन् विदीर्णः कूबरो युगन्धरश् च यत्र यद् यथा-स्यात् तथा शकटासुर-भञ्जन इति ब्रह्माण्ड-पुराणात् असुरावेशेनैव भूमौ प्रविशच् चक्रत्वाद् उच्चस्यापि शकटस्य निकटे प्रान्तत्वेल्पकेन चरणेन स्पर्शो ज्ञेय इति वैष्णव-तोषिणी ॥७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.८ ॥

दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रिय

औत्थानिके कर्मणि याः समागताः ।

नन्दादयश् चाद्भुत-दर्शनाकुलाः

कथं स्वयं वै शकटं विपर्यगात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अद्भुत-दर्शनेनाकुला बभूवुः । तद् एवाह । कथम् इति । विपर्यगाद् विपरीतम् अपतद् इति ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अद्भुत-दर्शनाकुला आश्चर्य-दर्शने त्रस्ताः । तद् एवाद्भुतम् एव । इतोऽग्रेर्ध-श्लोकोऽधिकोस्ति बहुषु पुस्तकेष्व् अनुपलम्भाद् इति ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दृष्ट्वा तथा-भूतं शकटम्, दृष्ट्वेति स्व-दृष्टि-गोचरे शायितत्वाद् अत एव शकटस्याधः, न तु गृहान्तरि इति तत्त्वम् । याः समागतास् ताः सर्वा एवेत्य् अर्थः । यद् वा, याश् चान्याः समागता अद्भुतस्याकस्मान् महा-शकट-निवर्तनस्य दर्शनेनाकुला उत्पात-शङ्क्या व्याकुल-चित्ताः । अन्यत् तैर् व्याख्यातम् । यद् वा, परमाश्चर्यस्य श्री-कृष्णस्य तद् बाल्य-चरितस्य वा सदा दर्शनेन प्रेम-विवशाः, अतः कारण-निर्धाराशक्त्या शकटं स्वयं वृषाद्य् आघातं विना कथं विपर्यगाद् इत्य् ऊचुर् इति परेणान्वयः । वै विस्मये ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : याः श्री-यशोदा-प्रमुखाः याश् च व्रज-स्त्रियः औत्थानिके पर्वणि समागताः ये च नन्दादयस् ते सर्वे दृष्ट्वा शकट-विपर्ययं वीक्ष्य तस्याद्भुतस्य उत्पाततया शाङ्कितस्य दर्शनेन व्याकुल-चित्ताः सन्तः कथं शकटं विपर्यगाद् इत्यूचुर् इति शेषः । पर्वणीत्य् अत्र कर्मणीति क्वचित् पाठः वै विस्मये ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यशोदा-प्रमुखाः याश् च व्रजस्त्रियः पर्वणि कर्मणीति च पाठः विपर्यगात् विपर्यस् तं सदपतद् इत्यूचुर् इति शेषः ॥८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शकटं कथं विपर्यगाद् इत्य् ऊचुर् इति शेषः ॥८॥


॥ १०.७.९ ॥

ऊचुर् अव्यवसित-मतीन् गोपान् गोपीश् च बालकाः ।
रुदतानेन पादेन क्षिप्तम् एतन् न संशयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अव्यवसित-मतीन् अनिश्चित-मतीन् संशयारूढान् इत्य् अर्थः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अव्यवसितमतीन् अनिश्चित-बुद्धीन् । अनेन शकटाधःस्थप्रेखस्थेन ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : [न्।व्]{।मर्क्}


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्भुत-दर्शनाकुलत्वाद् एवाच्यवसिता किं वृषैर् वात्यया दैत्येन गृह-दोषेण वेत्यादि-विवर्तन-कारणोन्नयने निश्चयम् अगत्ता मतिर् येषां तान् । एतत् शकटम् । अनेनेत्य् एतेन च प्रत्यक्षत्वं तात्कालिकत्वं च सूचयन्ति, अत एवाहुः—शशयो\ऽत्र नास्तीति ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अद्भुत-दर्शनाकुलत्वाद् एव अव्यवसिता किं दैत्येन ग्रहादिना वेत्यादि विवर्तनकरणोन्नयने निश्चयम् अगता मतिर् येषां तान् बालकांस् तन् माधुरीकृष्ट-चित्तत्वेन तद् एक-दृष्टयः एतच् छकटम् अनेनेति एतद् इति च प्रत्यक्षत्वं तत् कालिनत्वं च सूचयति अत एवाहुः संशयो\ऽप्य् अत्र नस्त्य् किमुता-प्रतीतिर् इत्य् अर्थः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अव्यवसिता किन्दैत्यादेः किं वा, ग्रहादेः कर्मेदम् इत्य् अनिश्चिता मतिर् येषां तान् ॥९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.१० ॥

न ते श्रद्दधिरे गोपा बाल-भाषितम् इत्य् उत ।
अप्रमेयं बलं तस्य बालकस्य न ते विदुः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न श्रद्दधिरे विश्वासं न जग्मुः । उत अपि । बालस्येतन् न सम्भवन्ति एते च बालाः किं जानन्तीति ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतच् छकट-पातनम् । अप्रमेयं प्रमातुम् अशक्यम् इदम् इति ज्ञातुम् अशक्यम् । तस्य कृष्णस्य । ते गोपाः ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते गोपा नन्दादयस् तस्य बालकस्याप्य् अप्रमेयं बलं न विदुः किम् ? काक्का, विदन्त्य् एवेत्य् अर्थः, भक्तौ सर्व-ज्ञान-सम्भवात्, तथापि न श्रद्धधिरे, बालोकौ विश्वासं न चक्रुः । कुतः ? ते श्री-भगवत्-प्रेम-विवशा इत्य् अर्थः ननु, तादृश-प्रेम-वैवश्येन स्वतो\ऽनुसन्धानं नाम मास्तु, अन्येषाम् उक्त्या तु सम्भवेद् इत्य् आशङ्क्य हेत्वन्तरम् आह-उतापि, बाल-भाषितम् इत्य् अतो\ऽपीति गोपा अपि न श्रद्धद्धिरे, किम् उत गोप्य इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ते परम-भगवत् प्रियत्वेन सर्व-ज्ञान-योग्या अपीत्य् अर्थः । अप्रमेयं भगवत्तया विशेषतस् तु बाल-लीलाविष्कारेण तर्कागोचरं बलं विदुः ततो न श्रद्दधिरे च तत्र पुनस् ते इति हेत्वन्तरं पुत्र-भावम् अयतत् प्रेमानन्दमत्ता इत्य् अर्थः । तादृश-तत् प्रेम्णः सर्वाच् छादकत्वाद् इति भावः—

श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् । > कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥ > बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः । > त्वरितः कुण्डिनं प्रागात् गजाश्वरथपत्तिभिः ॥

इति श्री-बलदेवस्यापि तथात्व-श्रवणात् नेमं विरिञ्च इत्य्-आदौ तस्य स्तुतेश् च

ननु, तादृश-प्रेम-वैवश्येन स्वतोऽनुसन्धानं नाम मास्तु अन्येषाम् उक्त्या सम्भवेदेत्य् आशङ्क्य हेत्वन्तरम् आह—उत अपि बाल-भाषितम् इत्य् अतोपीति गोपा अपि न श्रद्दधिरे किमुत गोप्य इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ते वात्सल्य-पूर्ण-चित्ताः ॥१०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न श्रद्दधिरे न विश्वसन्ति स्म ॥१०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.११ ॥

रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता ।
कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : रक्षोघ्नैः सूक्तैः कृत्वा ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ग्रह-शङ्किताय केनचिद् ग्रहेण रक्ष-आदिनेदं पातितम् इति शङ्काकुलाः । रक्षो-घ्नैः कृणुष्व् अपाज इत्य्-आदि-मन्त्रैः रक्षोहणम् बल-गहनम् इत्य्-आदिभिश् च ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव विशेषतः श्रीयशोदायाः स्नेह-भरेण चष्टितम् आह—रुदन्तम् इति, स्नेह-विवृद्धय ईश्वर-ज्ञानानुदयार्थम् एव तदानीम् अपि रोदन-परम्, अतो ग्रहेभ्यः शनैचरादि-दृष्टितो बाल-ग्रहादिभ्यो वा । किं वा, आग्रहो रोदन-परत्वम्, तेन शङ्किता भीता सती, अतो विप्रैः कर्तृभिः सूक्तै रक्षोर्घ्नैर् मन्त्र-विशेषैः कृत्वा । किं वा, सुशोभनम् उक्तम् आशीर्वाद—क्षेम-प्प्रतिपादनादि-लक्षणं येषां तैः कृतं स्वस्त्ययनं यस्य्स तथा-भूतं सन्तं पश्चाद् आश्वस्ता-स्तनम् अपाययत् ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव विशेषतः श्री-यशोदायाः स्नेहभरेण चेष्टितम् आह—रुदन्तम् इति । ग्रहेभ्यो बाल-ग्रादिभ्यः विप्रैः कर्तृभिः सूक्तैः रक्षोघ्नादिभिः करणैः रक्षोहणो बलगहनः इत्य्-आदिभिः पश्चाद् आश्वस्ता स्तनम् अपाययत् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूक्तै रक्षोघ्न-मन्त्रैः कृतं स्वस्त्ययनं यस्य तम् ॥११॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.१२ ॥

पूर्ववत् स्थापितं गोपैर् बलिभिः स-परिच्छदम् ।
विप्रा हुत्वार्चयाञ्चक्रुर् दध्य्-अक्षत-कुशाम्बुभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवत्-प्रभावानभिज्ञ-विप्रचेष्टितं विडम्बयन्न् आह पूर्ववद् इत्य्-आदिना । बलिभिः शक्तैः । यद् वा अष्ट-दिक्षु बलिभिः सहितं स-परिकरं यथा पूर्वं स्थापितं विप्राः दध्य्-आदिभिर् अर्चयामासुः । हुत्वा ग्रआदि-होमं विधाय ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बहवस् तु निर्बला अपि महत्-कार्यं कुर्वति बर्वट-तृण-हस्ति-बन्धन-न्यायेन पुनर् बहुभिर् इति बहुत्वस्य चमत्कृत्यनाधायकत्वाद् अर्थान्तरम् आह-यद्वेति ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-नन्दानुवर्तिनां विप्राणाम् अपि तादृश-एव भाव इति दर्शं-यन्न् आह—पूर्ववद् इति । बलिभिर् बलवद् भिर् इत्य्-आदिना शकटस्य परमं गुरुत्वं बृहत् त्वं च बोधितम्, अतस् तद् अधो निःशङ्कं माता पूत्रं शायितवती, अत एवाकस्माद्-विवर्तनेन सर्वे व्याकुला बभूवुर् इत्य् उचितम् एव । हुत्वा आदावनिष्ष्त—निवृत्त्य् अर्थम् आज्येन व्याहृतिभिः सामान्यतो ग्रह-होमं विधाय पश्चाद्भि-मिश्रतैर् अक्षतैः कुश-सहित-प्रोक्षण-जलैश् च शकटम् अर्चयामासुः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-नन्दानुवर्तिनां विप्राणाम् अपि तादृश एव भावः इति दर्शयन्न् आह—पूर्ववद् इति । बलिभिर् बलवद्भिर् इत्य्-आदिना शकटस्य परम-गुरुत्वं बृहत्वं च दर्शितं तद् उक्तं तलोच्छिताग्रम् इत्य्-आदि अतस् तद् अधोनिस्सङ्कोचं माता पुत्रं शायितवती हुत्वा आदावनिष्ट-निवृत्य् अर्थम् आज्येन व्याहृतिभिः सामान्यतो ग्रहम्-होमं विधाय पश्चाद् दधिमिश्रैर् अक्षतैः कुश-सहित-प्रोक्षण-जलैश् च शकटम् अर्चयामासुः गोप-जातीनां तद् आश्रय-प्रधानत्वात् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बलिभिर् बलवद्भिर् गोपैः पूर्ववद् एव शकटं स्थापितम् इति तस्य बृहत्व व्यञ्जितम् अर्चयाञ्चक्रुर् इति गोप-जातीनां तद् आश्रय-प्रधानत्वात् सञ्चित-धनास्पदत्वेन लक्ष्म्या अधिष्ठानत्वाच् च ॥१२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : बलिभिः शक्तैर् गोपैः पूर्ववत् तच् छकटं स्थाप्तिअम् इति तस्य महत्त्वं दर्शितं विप्रा हुत्वा ग्रहादि-होमं विधाय दध्य्-आदिभिस् तद् अर्चयामासुः ॥१२॥


॥ १०.७.१३ ॥

येऽसूयानृत-दम्भेर्ष्या-हिंसा-मान-विवर्जिताः ।
न तेषां सत्य-शीलानाम् आशिषो विफलाः कृताः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : असूया गुणेषु दोषाविष्करणम् । ईर्ष्या अक्षातिः । तेषाम् आशिषः कृतास् तैः प्रयुक्ताः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनृतम् असत्य-भाषणम् । दम्भो लोक-वञ्चनार्थं मिथ्यानुष्टानम् । हिंसा प्राण-वियोगानुकूल-व्यापारः । मानम् अभिमतिः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुनान्येभो विशेषतः श्री-वल्लवेन्द्रस्य श्री-यशोदावच् चेष्टितम् आह—य इति चतुर्भिः । असूया अदुष्टेषु दोषारोपणम्, अनृतम् असत्य-भाषणम्—एतौ वाक्-प्राधान्याद् वाचिकौ दोषौ, दम्भः पर—वचञ्चनार्थ चेष्टा—प्रायो\ऽयं कायिक एव, ईर्ष्या अक्षान्तिः, कस्यचिन् मते परोत्कर्षासहनम्—अयं मानसः, हिंसा पर-पीडा, मान अहङ्कारः—एतौ सर्व-सम्भवौ । समुच्चितौ, यद्य् अपि काम-क्रोधादयो\ऽन्ये\ऽपि सम्भवन्ति, तथाप्य् असूयाद् विवर्जनेन तेषाम् अपि स्वत एव वर्जन-सिद्धेः किं वा, हिंसायाम् अन्तर् भावात् पृथङ्नोक्ताः । तत्रासूयादि-चतुष्क-विवर्जनेन प्रायो धर्म-परत्वम्, हिंसा-मान-विवर्जनेन च मोक्ष-परत्वम् । सत्यस्य भगवत इव । यद् वा, सत्यं तद् मजनम् एव शीलं स्वभावो येषां तेषां परम-वैष्णवत्वं चोक्तम्, अत एव सर्वतः श्रिष्ट्येनास्यान्ते पृथग् उक्तिः । सामर्ग्यजुंषि तत् तद् वेद-मन्त्राः । पवित्रोषधयः सर्वोधयो महोषधयश् च, ताश् च प्रतिष्ठा-प्रसङ्गे श्री-हय-शीर्ष-पञ्च-रात्राद्य् उक्ता ज्ञेया, यथा—

मुरा मांसी वचा कुष्ठं शैलेयं रजनी-द्वयम् । > शटी चम्पक-मुस्तं च सर्वोषधि-गणः स्मृतः ॥ > सह-देवी वचा व्याघ्री वला चातिवला तथा । > शङ्ख-पुष्पी तथा सिंही सूर्यावर्ता तथाष्टमी । > महौषध्य् अष्टकं ह्येतन् महा-स्नाने नियोजयेत् ॥इति ।

द्विजोत्तमैर् एव स्वस्त्ययनं च वाचयित्वा पुण्याह-वाचनादिकं कृत्वा । नन्दाश्चासौ गोपश् च, महा-राज इति महा-गौरवात्, एवम् अग्रे\ऽपि । किं चानेन तस्य तत्र तत्र परमाभिज्ञाता समर्थता च, समाहित इति सर्वत्राच्चिद्रता श्रद्धा च बोधिता । अग्निं हुत्वा—वैश्यात् तमत्वात् स्वयम् एव विप्र-सन्निधाने होमं कृत्वा महु-गुणं रसामोदादि-विशिष्ट-मन्त्रं प्रादाद् अभोजयद् इत्य् अर्थः ॥१३.१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुनान्येभ्यो विशेषतः श्री-वल्लवेन्द्रस्य श्री-यशोदावचेष्टितम् आह—य इति चतुर्भिः । तत्र य इति त्रिकम्, तत्रैवेकेन तेषां ब्राह्मणानां सर्वोत्तमत्वम् आह, य इति । असूयादि-चतुष्क-विवर्जनेन प्रायो धर्म-परत्वं हिंसा-मान-विवर्जनेन च मोक्ष-परत्वं सत्यं च सम-दर्शनम् इति—

नारायण-पराः सर्वे न कुतश्चन विभ्यति । > स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ इति च ॥

एक-वाक्यतया सत्यशीलत्वेन परम-वैष्णवत्वं चोक्तम् अत एव सर्व-श्रैष्ठ्येनास्यान्ते पृथग् उक्तिः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-नन्दस् तु ब्रह्मणाशीभिर् एव मे बालकः कुशलीति जानाति स्मेत्य् आह—य इति । मानो गर्वः तेषां तैः कृताः आशिषो न विफलाः इति विश्वस्येति शेषः ॥१३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.१४ ॥

इति बालकम् आदाय साम-र्ग्-यजुर्-उपाकृतैः ।
जलैः पवित्रौषधिभिर् अभिषिच्य द्विजोत्तमैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् एवम् अभिप्रेत्य साम-र्ग्-यजुर्भिर् उपाकृतैर् अभिमन्त्रितैः । पवित्रा ओषधयो येषु जलेषु तैः कृत्वा द्विजोत्तमैः कर्तृभिर् अभिषिच्याभिषेकं कारयित्वा ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपाकृतैः संस्कृतैः । ओषधयः विष्णुक्रान्तादिबीजानि । प्रादाद् इति द्वयोः संबन्धः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इतीति त्रिकालान्तर् युग्मकं साम-र्ग्-यजूंसि तत्-तद्-वेद-मन्त्राः पवित्रौषधयः सर्वौषधयो महौषधयश् च ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपाकृतैः संस्कृतैः पवित्रा ओषधयः सर्वौषधि महौषध्यादयो यत्र तैर् जलैः करणैर् द्विजोत्तमैः कर्तृभिर् अभिषिच्य अभिषेकं कारयित्वा हुत्वा हावहित्वा महा-गुणम् अतिस्वादामोद-युक्तम् ॥१४.१५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.१५ ॥

वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः ।
हुत्वा चाग्निं द्विजातिभ्यः प्रादाद् अन्नं महा-गुणम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हुत्वा हावयित्वा ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महा-गुणम् अनेकरसवत् ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महा-गुणं रसामोदादि-विशिष्टम् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.७.१६ ॥

गावः सर्व-गुणोपेता वासः-स्रग्-रुक्म-मालिनीः ।
आत्मजाभ्युदयार्थाय प्रादात् ते चान्वयुञ्जत ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : गावो गाश् च प्रादात् । अन्वयुञ्जत आशिषो युयुजुः ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्व-गुणोपेताः अल्पाशनातिमिष्टाधिक-दुग्ध-दान-क्षमीपागताताडन-दोहनानभिज्ञ-दोह-प्रदानादि-रूप-बहु-विध-गुण-युक्ताः गाः । अभ्युदयः समृद्धिः कल्याणम् इति यावत् ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दक्षिणात्वेन सर्वालङ्कार-युक्ता उत्तमा गावो दत्ता इत्य् आह—गाव इति । सर्वैर् गुणैर् बहुल-दुग्ध-नव-वयस्त्वादि-लक्षणैर् युक्ताः । आत्मजस्याभ्युदयो देह-बलादि-वृद्धिर् एव । धर्मादिस् तस्मै, द्वन्द्वैक्यम् । यद् वा, अभ्युदयो वैभवम्, स एव निज-सर्व-पुरुषार्थः, स्नेह-भरात् तद्-अर्थम् अनु अन्न-भोजनाद्य्-अनन्तरम् ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गाव इति सार्धकम् । अभ्युदयः सर्वोपद्रव-शान्ति-पूर्वकं वैभवं स एव निज-पुरुषार्थः स्नेह-भरात् तं साधयितुं ते च विप्राः अनु अन्न-भोजनाद्य् अनन्तरं अयुञ्जत प्रयुक्तवन्तः आशिष इत्य् उत्तर-स्वारस्यात् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ते च विप्रा आशिषोऽन्वयुञ्जतेत्य् अन्वयः ॥१६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गावः गाः गुणाः बहु-पयस्वी-आदयः ते विप्रा अनु अनन्तरम् अयुञ्जत स्वीचक्रूः ॥१६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गावो गाः सर्वैर् गुणैर् बहु-पयस्त्वादिभिर् उपेताःते विप्राः आशिषो अन्वयुञ्जत ददुः ॥१६॥


॥ १०.७.१७ ॥

विप्रा मन्त्र-विदो युक्तास् तैर् याः प्रोक्तास् तथाशिषः ।
ता निष्फला भविष्यन्ति न कदाचिद् अपि स्फुटम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तास् तथैव बभूवुर् इत्य् अर्थः ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मन्त्र-विदोऽधीत-वेदाः । युक्ताः संयताः । ता आशिषः यथा प्रोक्ताः, तथा इत्य् अर्थः । अथ शकट-पातने श्रुतिः—

पृथू रथो दक्षिणाया अयोज्य् एनं देवासो अमृतासो अस्थुः । > कृष्णाद् उदस्थाद् अर्या विहायाश् चिकित्सन्ती मानुषाय क्षयाय ॥ [ऋ।वे। > १.१२३.४०] इति ।

अस्या अर्थः—पृथुर् महान् । रथः शकटं । दक्षिणाया दिशः सम्बन्धी मृत्यु-कर इत्य् अर्थः । अयोजि योजितः । शत्रभिर् इत्य् अर्थाल् लभ्यते तम् एनं रथं देवासो देवाः । अमृतासोऽमृताः । आसमन्तात् अस्थुः परिवार्य स्थितवन्तः । एतस्मिन्न् अन्तरे स रथः कृष्णात् कृष्णं प्राप्य तत्-प्रेरणेन उदस्थात् उत्थितः । विहायाः आकाशाश्रिताः विशेषेण हयते गच्छतीति वा यन्त्रोत्सृष्ट-गोलकवद् आकाश-मार्गेणोत्थाय पतितः सन् नष्ट इत्य् अर्थः । ततश् च अर्या ईश्वरी स्वामिनी माता तत्रत्य-प्रजा वा चिकित्सन्ती संशयवती मानुषाय मानुसास्य क्षयाय नाशाय । एतेन पतता रथेनालं बालकः कथं न नाशित इत्य् अत्र कारण-विशेषम् अपश्यन्ती माता सन्दिहानैवातिष्ठन् न त्व् ईश्वर-कृत्यम् एतद् इत्य् अवेदीद् इत्य् अर्थः ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

विप्रा मन्त्र-विदो2 युक्तास् तैर् याः प्रोक्तास् तथाशिषः ।

ता निष्फला भविष्यन्ति न कदाचिद् अपि स्फुटम् ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ताश् च सद्यः-फला इत्य् आह—विप्रा इति वेदार्थाभिज्ञाः । अतो युक्ता भगवद्-भक्ता इत्य् अर्थः । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः [गीता ६.४७] इति श्री-भगवद्-गीताद्य्-अनुसारतः ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कीदृशास् ते ? वेद-विदः वेदार्थाभिज्ञाः । "मन्त्र-विदः\ऽ इति पाठो बहुत्र तथापि तद्-उपलक्षणत्वेन स एवार्थः । अतो युक्ता भगवद्-भक्ता इत्य् अर्थः । भगवान् ब्रह्म-कार्त्स्न्येन [भा।पु। २.२.३४] इत्य्-आदेः । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः [गीता ६.४७] इति श्री-भगवद्-गीतातः । अतस् तैर् या आशिषः प्रोक्ताः, तास् तथैव बभूवुः । तद्-इच्छानुसारेण यथावसरं ताः श्री-भगवति व्यक्ताः बभूवुर् इत्य् अर्थः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ताश् चाशिषस् तैः प्रोक्तास् तत् तथैव बभूवुर् इति शेषः । ब्रह्मण्य-देवत्वेन तत्-तत्-प्रकाशानाम् अङ्गीकाराद् इति भावः ॥१७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये विप्रा युक्ताः योगिनस् तैर् या आशिषः प्रोक्ताः, तथा बभूवुर् इति शेषः ॥१७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : युक्ताः योगिनः न कदाचिद् अपि कृष्णे तत्-फलानां सार्वदिकत्वाद् इति भावः ॥१७॥


॥ १०.७.१८ ॥

एकदारोहम् आरूढं लालयन्ती सुतं सती ।
गरिमाणं शिशोर् वोढुं न सेहे गिरि-कूटवत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

उत्क्षिप्य मृदु-पादेन शकटां व्योम्नि लीलया ।

तृणावर्तं पदापीड्य भुव्य् अपातयद् अर्भकः ॥*॥

आरोहम् उत्सङ्गम् ॥१८ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्भको नन्द-बालः । गिरिकूटवद् अद्रि-शृङ्गवत् । कूटोऽस्त्री निश्चले राशौ लोह-मुद्गर-दम्भयोः । मायाद्रि-शृङ्गयोस् तुच्छे सीरावयव-यन्त्रयोः । अनृते च इति मेदिनी । गरिमाणं गुरुत्वम् ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :

व्रजे विराजमानोऽहं काञ्चिद् अर्हामि नावृतिम् ।

इति चिक्षेप भगवान् उपरि-ष्ठाद् अनः स्थितम् ॥*॥

एकदैका-शब्द-वयः प्राकट्ये एक-हायनम् आसीनं [भा।पु। १०.२६.६] इत्य् अग्रे षड्विंशाध्यायोक्तेः । यद्यपि सदाशेष-भगवत्ता-प्रकटन-परस्य श्री-कृष्णस्य तद्-वर्ष-मध्येऽन्यत्रापि विचित्राणि पराण्य् अद्भुतान्य् आचरितानि सम्भवन्ति, तथा कंस-प्रहित-श्रीधराख्य-छद्म-विप्राभिभव-चातुरी-मयादीन्य् अपि श्री-माथुर-लोक-प्रसिद्धानि सन्ति, तथापि सर्वत्राप्रसिद्धत्वात् । किं वा, श्रोतुः श्री-परीक्षितः सप्ताहावधि-जीवितत्वेन स्वल्प-काले तत्-तद्-अशेष-कथनासिद्धेर् मुख्यान्य् एव श्री-शुकदेवोऽकथयद् इत्य् ऊह्यम् । किं चैका-शब्दे शिशोः प्रायो लोके पाद-चङ्क्रमणं दृश्यते । तत्र च बलिष्ठस्य तन्-मध्येऽपि घटते, तथापि रिङ्गण-लीलायाः प्रागस्त्याः कथनम् अद्भुत-लीला-प्रसङ्गात् । किं वा, तत्-तल्-लीलानाम् उत्तरोत्तरं माधुर्यातिशयापेक्षया । यश् च क्वचित् तद्-व्यभिचारः, स केवलम् आनन्तर्यापेक्षया । एवं प्रायोऽत्र लीला-क्रमो नापेक्ष्यः । तच् चाग्रे तत्र तत्र व्यक्तं भावि ।

लालयन्ती मुख-चुम्बनं स्तन-पायनं तथा कदाचिल् लीलया कराभ्यं उत्तोलनं चेत्य् आदि-लालनं कुर्वती सती परमाभिज्ञेत्य् अर्थः । इति लालने सौष्टवम् अभिप्रेतं वोढुं । गिरेर् अन्न-कूटस्य किं वा सुमेरोः कूटं स्वर्णदि-मय-शृङ्गम् । यद् वा, गिरीणां कूटः समूहस् तद्वद् गरिमाणं न सेहे न शशाक । यद्यपि विश्वम्भरं तं स्नेह-भरेण सदा वहन्त्यास् तस्यास् तादृशोऽपि भावः कियान् ? यद् वा, स्वभावेनागण्य-ब्रह्माण्ड-भारस्यापि निज-निज-भक्त-जने लघु-रूपत्वम् एव तस्य, तथापि नभसि तृणावर्त-वधाय श्री-भगवता लालनासक्त-मातृकोडाद् अवतरितुम् अपूर्वोऽधिकं स प्रकाशित इति । किं वा, तस्या वहन-शक्तिः क्षणम् अपहृतेति ज्ञेयम् ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

व्रजे विराजमानोऽहं काञ्चिद् अर्हामि नावृतिम् ।

इति चिक्षेप भगवान् उपरि-स्थम् अनः स्फुटम् ॥*॥

एकदा एका-शब्द-वयः प्राकट्ये एक-हायनम् आसीनं [भा।पु। १०.२६.६] इत्य् अग्रे षड्विंशाध्यायोक्तेः । लालयन्ती मुख-चुम्बनं स्तन-पानं च तथा कदाचिल् लीलया कराभ्यं उत्तोलनं चेत्य् आदि-लालनं कुर्वन्ती सती परमाभिज्ञेत्य् अर्थः । इति लालने सौष्टवम् अभिप्रेतं वोढुं स्व-बलेन पर्यापयितुम् अत्रास्या एकाकिनीत्ववद् वर्णनम् । एकदा गृह-दासीषु इत्य्-आदि वक्ष्यमाण-प्रकारान्तरेण मन्तव्यम् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तृणावर्त-नामा महावात्या-रूपी कश्चिद् दैत्यः समागमिष्यति, मातुः क्रोडस्थं मां मात्रा सह यद् यद् धुनोति, तदा माता न जीविष्यतीति मातृ-वत्सलः सर्वज्ञ-शिरोमणिस् तथा-गरिमाणं स्वीचकार, यथा माता वोढुम् आशक्ता सती भूऔ स्थापयतीति पूर्वोक्तं तोकाचरितम् अद्भुतम् इत्य् अद्भुतत्वं प्रदर्शयन्न् आह—भूमौ निधायेत्य् आदि ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राजत्य् अखिल-सम्पत्तौ मय्य् अपि सञ्चितैः किम् एभिर् वस्तुभिर् इति स्व-मनोऽभिनदीश्वरः एकदा एदाब्द-वयसि वृत्ते सति, एक-हायन आसीनो ह्रियमाणो विहायसा [भा।पु। १०.२६.६] इत्य् अग्रेतनोक्तेः आरोहम् उत्सङ्गम् आरूढं तं लालयन्ती भुजाभ्याम् उत्तोलनान्दोलनादिभिर् उल्लसन्ती गिरि-कूटवत् गिरि-शृङ्गस्येव शिशोर् गरिमाणं वोढुं न सेहे आगमिष्यन्तं तृणावर्तं समातृकम् एवामुं हरिष्यन्तम् आलक्ष्य मातुर् यशोदायाः क्लेशो मा भूद् इत्य् ऐश्वर्यैव शक्त्या तद्-उत्ताराय भारं कल्पयामासेति ज्ञेयम् । किञ्चिद् अप्य् उपरि तोलयाम्ब मां व्योम्नि स्वलितुम् अनायत्तोऽस्म्य् अहम् इत्थम् अमुष्य किल सत्यकामतैवानयत् तृणा-विवर्तनासुरम् ॥१८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : चरितान्तरम् आहैकदेति । एकाब्द-वयसि एक-हायन आसीन इत्य्-आदि वक्ष्यमाणात् आरोहम् अङ्कम् आरूढं सुतं कृष्णं लालयन्ती भुजाभ्याम् उत्तोलनान्दोलनादिभिर् उल्लासयन्तीत्य् अर्थः । शिशोस् तस्य गिरि-कूटवत् शैल-शृङ्गस्येव गरिमाणं वोढुं न सेहे मातृ-भुजान्दोलाभ्युदित-वियत् क्रीडेच्छेत्य् ऊर्ध्व-स्थित्या स्व-क्रीडा-स्थानानि दिदृक्षौ च तस्मिन् सति गरिमोदयात् तद्-अङ्काद् अवततार स्वोन्नयने तु लघिमोदयश् चेति बोध्यम् ॥१८॥


॥ १०.७.१९ ॥

भूमौ निधाय तं गोपी विस्मिता भार-पीडिता ।
महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तृणावर्तात् स्वमृत्यु-परिहाराय कृष्णेनैवात्मन उत्सराद् उत्ताराय कृतं भारम् अजानत्य् उत्पात-शङ्कया महा-पुरुषम् आदध्यौ । श्री-कृष्णोदर-वर्तिनां जगतां भारेण पीडिता विस्मिता सती । यद् वा, जगतां मध्ये कर्मसु आस बभूव । न तु जगद्-उदरं तं वेदेत्य् अर्थः ॥१९-२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महा-पुरुषं भगवन्तम् । योगमायया मोहिता तद्-अन्त्स्थ-विश्वम् अजानन्ती । कर्मसु गृह-कृत्येष्व् आस । जगतां भारेणेत्य् उक्तेः सर्व-लोक-भारस्य यशोदा-कर्तृक-धारणासम्भवं मत्वार्थान्तरम् आह—जगतां संसारिणाम् मध्ये कर्मसु संसार-प्रदेषु यज्ञादिष्व् एवास न तु ज्ञान-मार्ग इति भावः । इत्य् अर्थ इति । जगद्-उदर-भगवद्-वेदने तु स्वप्नेऽपि जगत्-कर्मणि प्रीतिर् नोदयत इत् तात्पर्यम् ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भूमौ निधायेत्य् आदि । महा-पुरुषम् आदध्यौ गरिमाणं शिशोर् वोढुं नाशकद् इत्य्-आदि—पूर्वोक्त-भार-पीडया तं भूमौ निधाय जगतां मध्ये महा-पुरुष एवायम् इत्य् आदध्यौ । तद् अनु कर्मसु गृह-कृत्येषु आस बभूव । यद् वा, महा-पुरुषम् आदध्यौ महा-पुरुष एवायम् इति चिन्तितवती, जगता सह कर्मसु मा आस, जगद्-विस्मृतिः कर्म-विस्मृतिश् च तस्या बभूव । केवलं तन्-महिम-स्मरणेनैव जाताह्लादा सती किम् अपि न सस्मार । अत एव तदा गृहे तनयम् अपि विस्मृतम् ॥१९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव भारेण पीडिता सती भूमौ निधाय । विस्मिता उत्पात-शङ्कया विगत-सहजन्मिता । यद् वा, अकस्माद् भार-भरेण विस्मयं प्राप्ता सती । जगतां महा-पुरुषं परमात्मानं स्व-पुत्र-क्षेमार्थम् । किं वा, भार-विशेषेण मनस्य् आगतं विश्वम्भरं श्री-नारायणम् आदध्यौ सम्यक् सस्मार । यतो गोपी सहज-स्नेहार्द्र-चित्तेत्य् अर्थः । ततश् च क्षणात् स्वस्था कर्मस्यास, पुत्रार्थं गृह-कृत्य-व्यापृताभूद् इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भूमौ निधायेति तैर् व्याख्यातम् । विस्मिता उत्पात-शङ्कया विगत-सहजन्मिता । यद् वा, अकस्माद् भार-भरेण विस्मयं प्राप्ता सती । जगतां महा-पुरुषं परमात्मानं स्व-पुत्र-क्षेमार्थम् । किं वा, भार-विशेषेण मनस्य् आगतं विश्वम्भरं श्री-नारायणम् आदध्यौ सम्यक् सस्मार । यतो गोपी सहज-स्नेहार्द्र-चित्तेत्य् अर्थः । ततश् च क्षणात् स्वस्था कर्मस्यास, पुत्रार्थं गृह-कृत्य-व्यापृताभूद् इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जगतां महा-पुरुषम् ईश्वरम् इत्य् अर्थः । कर्मसु स्वस्त्ययनादि-रूप-तद्-वात्सल्य-मयेषु, यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयस् तत्-कृते इत्य् अनेन कैमुत्यं पूतनादिना कार्यादि-सिद्धेः कंसेन स्व-मृत्युर् एव प्रकटयता प्रेरित इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : महा-पुरुषम् आदध्यौ महा-पुरुषोऽयम् इति चिन्तयामास । जगता सह कर्मसु मा आस, जगतिं नास, कर्मस्व् अपि नास, जगद्-विस्मृतिः कर्म-विस्मृतिश् चासीत् । तेन विस्मय-वशाद् अज्ञैव बभूव । अन्यथा तं बहिर् निधाय गृह-कर्म-करणेन तं प्रत्यनादरः स्याद् इति ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूमाव् इति । सम्भ्रमेण विस्मितेति मच्-छिशोर् अयम् आकस्मिको भारः कुतस्त्यो न जाने कस्यचिद् बाल-ग्रहस्यावेश-जनितो वेति शङ्कया जगतां महा-पुरुषं श्री-नारायणम् आदध्य वैकुण्ठ-दिशम् ऊर्ध्वम् आलोक्य भगवंस् त्वयैव दत्तोऽयं सुतस् त्वयैव पालनीय इति ध्यानेनोवाचेत्य् अर्थः । ततश् च व्यग्रा तत्-स्वस्त्ययनाद्य्-अर्थं कर्मसु विप्राह्वानादिषु आस बभूव ॥१९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गोपी राज्ञी यशोदा भार-पीडिता सम्भ्रमेण तं भूमौ निधाय शिशोर् अस्य कुतोऽयं भार इति विस्मिता बाल-ग्रह-निमित्तो भवेद् इति शङ्कमाना तच्-छान्तये जगतां महा-पुरुषं नारायणम् आदध्यौ कर्मसु शान्ति-कर-ब्राह्मणाकारणादिष्व् आस बभूव ॥१९॥


॥ १०.७.२० ॥

दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः ।
चक्रवात-स्वरूपेण जहारासीनम् अर्भकम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चक्रवातश् चक्राकार उद्धृत-बहु-धूलिर् वायुस् तेन स्वरूपेण जहार उत्थाप्य जगाम ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : जहारासीनम् अर्भकम् इति । आसीनं मात्रा यथाविन्यतस् तथैव आसीनस् तम् ॥२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तृणम् इवावर्तयति विपरीतं जगत् पातयति । यद् वा, गति-वेगेन तृणान्य् आवर्तयति परिभ्रमयतीति तृणावर्त इति महा-बलिष्ठत्वम् उक्तम् । कंस-भृत्य इति परम-दुष्टत्वम् । तत्र च प्रचोदितः कंसेन पूर्वम् असुर-मन्त्रणे । सम्प्रति वा पूतना-वधादि-श्रवणेन हिंसार्थं प्रेरितोऽत एव जहार । आसीनं गमनाशङ्का-निवृत्तये मातुः प्रीत्य्-अर्थम् । किं वा, निःशङ्कं तृणावर्तेन हरणार्थम् उपविष्टम् अर्भकं प्रकटित-बाल्यं संवृत्त-गौरवम् इत्य् अर्थः । अन्यथा हरणाशक्तेः ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दैत्य इति युग्मकम् । वात्या-रूप-दैत्यत्वेन दुर्वृत्तत्वं महा-बलिष्ठत्वम् अप्रतिकार्यत्वं चोक्तं कंस-भृत्य इति परम-द्वेष्टृत्वं तत्र च प्रचोदितः पूर्वं बाल-घातित्वेन पूतनैव सामान्यतस् तावत् प्रस्थापिता तस्याश् च छद्ममय-मूर्तेर् अपि मरणाच् छङ्काकुलः सन्न् अमूर्त्य् एव शकटासुरः प्रस्थापितः तस्य च विलायनाद् अन्तर्-भीतः सन् मूर्तामूर्त-धर्मो बलवत्तरो दुर्ग्रह-रूपो महा-वायुर् एव प्रकृष्टतया प्रस्थापित इत्य् अर्थः । स च मूले निष्पीड्य गृहीत इति भावि-कौतुक-सूचनं चात्र आसीनं तत्र मातृ-दृष्टि-पथ एवेति तस्या विस्मयो दुःखातिशयो दर्शितः । अर्भकं प्रकटित-बाल्यं संवृत्त-गौरवम् इत्य् अर्थः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : चक्रवात-स्वरूपेणेत्य् आदि । आसीनम् इति मात्रा यत्र विन्यस्तस् ततोऽन्यत्र कापि गत्वा आसीनम् इत्य् अर्थः ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या ।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रचोदितः कंसेन प्रेषितः ॥२०॥


॥ १०.७.२१ ॥

गोकुलं सर्वम् आवृण्वन् मुष्णंश् चक्षूंषि रेणुभिः ।
ईरयन् सुमहा-घोर-शब्देन प्रदिशो दिशः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईरयन् निनादयन्न् इत्य् अर्थः ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुष्णन् हरन् । प्रदिशो विदिश आग्नेय्यादयः । दिशः प्राच्यादयः । ईरयन् स-शब्दाः कुर्वन्न् इत्य् अर्थः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रेणुभिर् आवृण्वन्, अत एव चक्षूंषि तत्रत्यानां मुष्णन् नितरां मुद्रयन्न् इत्य् अर्थः । यद् वा, गोकुलं तमसाच्छादयन् चक्षूंषि रेणुभिर् मुष्णन् । एतच् च श्री-यशोदा-दृष्टि-वञ्चनाय । प्रदिशो विदिशो दिशश् च सुमहा-घोर-शब्दश् च शिशोः क्रन्दनाशङ्कया तद्-अश्रवणार्थम् अत एव तस्य वात्या-रूपत्वम् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्यथा हरणाशक्तेः रेणुभिर् आवृण्वन् अत एव तत्रत्यानां चक्षूंषि तज्-ज्योतींषि च मुष्णन् प्रदिशः विदिशः दिशश् च ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिशो विदिशश् च ईरयन् प्रतिध्वनयन् ॥२१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रदिशो विदिशः दश-दिशः कम्पयन् प्रतिनादयन् वेत्य् अर्थः । वात्या-रूप-दैत्यत्वेन दुर्वृत्तत्वं महा-बलिष्ठत्वं अपतिकार्यत्वं चोक्तम् । कंस-भृत्य इति परम-द्वेष्टृत्वं तत्र च प्रचोदितः पूर्वं बाल-घातित्वेन पूतनैव सामान्यतस् तावत् प्रस्थापिता तस्याश् च द्वयमयमूर्तेर् अपि मरणाच् छङ्काकुलः सन्तमूर्त्य् एव शकटासुरः प्रस्थापितः तस्य च विलापनावर्त-भीतः सन् मूर्तामूर्ते धर्मो बलवत्तरो दुर्गहात् तपो-महा-वायुर् एव प्रकृष्टतत्या प्रस्थापित इत्य् अर्थः ॥२१॥


॥ १०.७.२२ ॥

मुहूर्तम् अभवद् गोष्ठं रजसा तमसावृतम् ।
सुतं यशोदा नापश्यत् तस्मिन् न्यस्तवती यतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो यत्र न्यस्तवती तस्मिन् स्थाने नापश्यत् ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न्यस्तवती स्थापितवती ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रजसेति जाताव् एकत्वम् । रजोभिस् तत्-कृत-तमसा च । यद् वा, रजसा यत् तमस् तेन श्री-भगवद्-दर्शनं विना रजस्-तमो-गुणाभ्याम् इवावृतम् आसीद् इति श्लेषार्थः । तस्मिन् तत्रैव स्व-पार्श्वे न्यस्य्तवत्य् अपि, यतो यस्मात् तमसो हेतोर् नापश्यद् इति हरणादर्शनं बोधितम् ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रजसा तत्-कृत-तमसा च श्री-भगवद्-दर्शन-विनाशकाभ्यां रजस्-तमो-गुणाभ्याम् आवृतं प्रथमं योगिनां हृदयम् इवासीद् इति श्लेषेणोपमा च तस्मिन् तत्रैव स्व-पार्श्वे न्यस्तवत्य् अपि यतो यस्माद् रज आदेर् हेतोर् नापश्यत् तस्मिन्न् इत्य् अत्र स्वयम् इति क्वचित् पाठः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तावद् एव दैत्यो जहारेति तद्-धरण-काले ऐश्वर्यैव शक्त्या भार-लाघवं कृतम् इति ज्ञेयम् । दिशो विदिशश् च ईरयन् प्रतिध्वनयन् यतो यत्र न्यस्तवती तस्मिन् स्थले ॥२२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यतो यत्र स्थाने ॥२२॥


॥ १०.७.२३ ॥

नापश्यत् कश्चनात्मानं परं चापि विमोहितः ।
तृणावर्त-निसृष्टाभिः शर्कराभिर् उपद्रुतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शर्कराभिः अतिसूक्ष्म-पाषाण-खण्डैः ॥२३ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, महा-दैत्ययोपद्रवेण तत्रत्याः सर्वेऽपि किञ्चिद् अपि नाविदन्न् इत्य् आह—नेति । परम् अन्यम् आत्मानम् अपि नापश्यत् । च-कारान् न किञ्चिद् अशृणोच् च । परं परमेश्वरं श्री-कृष्णम् अपीति वा । विमोहितः किञ्चिद् अनुसन्धातुं अप्य् अशक्त इत्य् अर्थः । तत्र हेतुः—तृणेति । तृणावर्तेन विसृष्टाभिः प्रक्षिप्ताभिः । एतत् सर्वं श्री-कृष्णस्य नभो-जिगमिषयैवेति ज्ञेयम् ॥२३ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परम् अन्यम् आत्मानम् अपि नापश्यत् । च-कारात् किञ्चिन् नाशृणोच् च । विमोहितः किञ्चिद् अनुसन्धातुम् अप्य् अशक्त इत्य् अर्थः ॥२३ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.७.२४ ॥

इति खर-पवन-चक्र-पांशु-वर्षे

सुत-पदवीम् अबलाविलक्ष्य माता ।

अतिकरुणम् अनुस्मरन्त्य् अशोचद्

भुवि पतिता मृत-वत्सका यथा गौः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : खर-पवनश् चक्रात् पांसु-वर्षे सति ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : खर-पवनश् चण्ड-वायुस् तस्य चक्रात् । यद् वा, खर-पवने चक्र-पांसवो मण्डली-कृत-रजांसि तेषाम् वर्षे समूहे । सततम् अनुस्मरन्ती निरन्तरं चिन्तयन्ती ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अत्यन्त-गौरव-प्रकाशनेनात्मनोऽनन्य-शक्य-नयनं श्री-भगवता तल्-लीला-शक्त्यैव वा । छलेन3 बोधितापि पुत्रादर्शन-मात्रेणैवात्याकुला सती किञ्चिद् अनुसन्धातुम् अक्षमा बहु विललापेत्य् आह—इतीति । सुतस्य पदवीं स्थितिम् अवस्थितिं स्थानं वा विलक्ष्य सौरभ्यादि-लक्षणेनानधिगम्यवाबला किञ्चित् कर्तुम् अनुसन्धातुं चाशक्ता भुवि पतिता सत्य् अति करुणतरं काष्ठ-पाषाण-वज्र-सारादीनाम् अपि भेदकं यथा स्यात् तथा सुतम् अशोचत् तद्-अर्थं विलापं चक्रे । यद् वा, प्राग् अशोचत् पश्चात् मोहेन भुवि पतिता यतो माता अहो खेदे । पाठान्तरे—अनुस्मरन्ती सुतम् इति शेषः । सुत-पदवीम् अविलक्ष्यादृष्ट्वाबला माता यशोदातिकरुणं यथा तथानुस्मरन्ती भुवि पतिता यथा मृत-वत्सा गौस् तद्वच् छुशोच ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अत्यन्त-गौरव-प्रकाशनेनात्मनोऽनन्य-शक्य-नयनं श्री-भगवता तल्-लीला-शक्त्यैव वात्सल्येन बोधितापि पुत्रादर्शन-मात्रेणैवात्याकुला सती किञ्चिद् अनुसन्धातुम् अक्षमा बहु विललापेत्य् आह—इतीति । पूर्वोक्त-प्रकार-खर-पवन-चक्र-सम्बन्ध-पांसु-वर्षे सति सुतस्य पदवीं मार्ँ केनापि लक्षणेनानधिगम्यैव अबला किञ्चित् कर्तुम् अनुसन्धातुं चाशक्ता केवलं भुवि पतिता सती अतिकरुणं काष्ठ-पाषाण-वज्र-सारादीनाम् अपि भेदकं यथा स्यात् तथानुस्मरन्ती अशोचत् । तद्-अर्थं विलापं चक्रे । यद् वा, प्राग् अशोचत् पश्चात् मोहेन भुवि पतिता यतो माता हि खेद-निश्चये स्नेह-भरेणानुसन्धानाभावे परमार्तत्वे च दृष्टान्तः मृतेति अदर्शन-मात्रेण महानिष्ट-शङ्कोत्पत्तेः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : खर-पवन-चक्रात् पांसु-वर्षे सति अविलक्ष्य अदृष्ट्वा ॥२४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : खरात् पवन-चक्रात् पांसु-वर्षे धूलि-विक्षेपे सति सति अविलक्ष्य अदृष्ट्वा ॥२४॥


॥ १०.७.२५ ॥

रुदितम् अनुनिशम्य तत्र गोप्यो

भृशम् अनुतप्त-धियोऽश्रु-पूर्ण-मुख्यः ।

रुरुदुर् अनुपलभ्य नन्द-सूनुं

पवन उपारत-पांशु-वर्ष-वेगे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपारतः पांसु-वर्षस्य वेगो यस्मिंस् तथा-भूते पवने सति, तत्र तस्या रुदितम् अनुनिशम्य गोप्यो रुरुदुः ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र नन्द-गृहे । तस्या यशोदायाः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पवने उपारत-पांसु-वर्ष-वेगे सति गोप्यः प्रतिवेशिन्यः । तत्र च श्री-व्रजेश्वरी-गृहे रुदितम् अनुनिशम्य वीप्सया श्रुत्वा । तत्र च श्री-नन्द-सूनुं अनुपलभ्य गत्वाप्य् अदृष्ट्वा भृशम् अनुतप्त-धियः सत्यस् तत एव अश्रु-पूर्ण-मुख्यः सत्यो रुरुदुः । "अनुरक्त-" इति पाठे श्री-नन्द-पत्न्यां श्री-नन्द-सूनौ च अनुरक्ता धीर् यासां ताः । नन्द-सूनुम् इति श्री-नन्दस्य तद्-अनुगत्वात् श्री-व्रज-वासिनां च सर्वेषां रोदनं सूचयति ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पवने उपारत-पांसु-वर्ष-वेगे सति गोप्यः प्रतिवेशिन्यः । तत्र च श्री-व्रजेश्वरी-गृहे रुदितम् अनुनिशम्य वीप्सया श्रुत्वा । तत्र च श्री-नन्द-सूनुं अनुपलभ्य गत्वाप्य् अदृष्ट्वा भृशम् अनुतप्त-धियः सत्यस् तत एव अश्रु-पूर्ण-मुख्यः सत्यो रुरुदुः । "अनुरक्त-" इति पाठे श्री-नन्द-पत्न्यां श्री-नन्द-सूनौ च अनुरक्ता धीर् यासां ताः । नन्द-सूनुम् इति श्री-नन्दस्य तद्-अनुगत्वात् श्री-व्रज-वासिनां च सर्वेषां रोदनं सूचयति ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपरितः पांशु-वर्षस्य वेगो यत्र तथा-भूते पवने सति तत्र यशोदाया रुदितं निशम्य अनु पुरान्तराद् अपि गोप्य आगत्य रुरुदुः ॥२५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.२६ ॥

तृणावर्तः शान्त-रयो वात्या-रूप-धरो हरन् ।
कृष्णं नभो-गतो गन्तुं नाशक्नोद् भूरि-भार-भृत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वात्या चक्र-वातस् तद्-रूप-धरः कृष्णं हरन् शान्त-रयः कथञ्चिन् नभो-गतस् ततः परं गन्तुं नाशक्नोद् इत्य् अर्थः ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो नाभो-गमनात् परम् । उपरिष्टाद् गन्तुं कंस-समीपं वा इत्य् अर्थः इति भावः ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च तेषाम् आर्ति-रोदनेन नभो-गमन-लीलां विहाय दैत्यं हन्तुम् उद्यत इत्य् आह—तृणेति । भूरि अतिदूरे आनयनार्थम् ईषद् गौरवाविष्कारात् स्वभावाद् एव वा महान् यो भारस् तम् । यद् वा, भूरि-भारो यस्य तं बिभर्तीति तथा सः । आत्मनोऽपि सकाशाद् गुरुमत्तया हेतुनाश्मन्तम् अश्मवन्तं नीलमणि-पर्वतम् । न तु नन्द-सूनुं तं मन्यमानोऽतो हरणाशक्त्या च मोक्तुम् इच्छन्न् अपि नाशक्नोत् । यतस् तेनैव गले गृहीताः । अत एवाद्भुतं लोकातीतं कौतुकावहं वार्भकम् । अश्मानम् इति पाठः क्वचित् । तद्-व्याख्या च काचित्की । अत्र च, यथा हि केनचिद् उच्चैर् नीयमानो बालको भयात् तद्-गलं गृह्णाति । तद्-गल-ग्रहणादिना लौकिक-बाल्य-लीला तथा तस्य महा-दैत्यस्याप्य् असह्य-भारेण निज-गल-मोचनाशक्त्या च तथा तेन प्रकारेण मारणादिना चैश्वर्यं प्रकटम् एवेति दिक् ॥२६-२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तेषाम् आर्ति-रोदनेन नभो-गमन-लीलां विहाय दैत्यं हन्तुम् उद्यत इत्य् आह—तृणेति । तृणावर्तो वात्याया रूप-धरः कृष्णं हरन् नभो-गतो भूत्वा तत्र तेनाविष्कृत-भारेण भूरि-भारवान् तत एव च शान्त-रयः सन् गन्तुं नाशक्नोत् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं कृष्णं बालकान्तरम् इव हरन् नभः अत्यूर्ध्वं गतः । ततश् च भूरि-भार-भृद् इति तत्र ऊर्ध्व-प्रदेशे महा-भारं तं प्रतियन् शान्त-रयः । ततश् च वोढुम् असमर्थ एव ततो गन्तुं नाशक्नोत् ॥२६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तृणावर्तः कृष्णं बालकान्तरम् इव हरन् नभो-गतस्, तत्र भूरि-भार-भृद् अतिभारस् तं विजानन् शान्तरयः । ततो वोढुम् असमर्थ एव । ततः परं गन्तुं नाशक्नोत् ॥२६॥


॥ १०.७.२७ ॥

तम् अश्मानं4 मन्यमान आत्मनो गुरुमत्तया ।

गले गृहीत उत्स्रष्टुं नाशक्नोद् अद्भुतार्भकम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुरुमत्तया अतिगौरवेन तं तथा अश्मानम् अश्मवन्तं पर्वत-प्रायं मन्यमानस् तेनैवात्मनो गले गृहीतो धृतस् तं त्यक्तुम् इच्छन्न् अपि नाशक्नोद् इत्य् अर्थः ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अश्म-शब्दो लक्षणया तद्वत् परोऽत्रात आह—अश्मवन्तम् इति । विश्वनाथस् तु अश्मन्तं इति पाठं मत्वा अश्मवन्तं इति व्याचख्यौ तत्र वर्ण-लोपश् छान्दसः । आत्मनः स्वस्य । तं कृष्णम् । इत्य् अर्थ इति । न ह्य् अतिगुरुमद्-गृहीतोऽजगर-ग्रस्त-मण्डूकवद् आत्मानं मोक्तुं प्रभवतीति भावः ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या ।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अश्मन्तम् अश्मवन्तं नीलमणि-पर्वतं न तु नन्द-सूनुं तं मन्यमानः, अतो हरणाशक्त्या च मोक्तुम् इच्छन्न् अपि नाशकत् यतस् तेनैव गले गृहीतः । अत एवाद्भुतं लोकातीतं कौतुकावहं वा अर्भकम् । अश्मन्तम् इति युवोर् अनाकाव् [पा। ७.१.१] इति ज्ञापकाच् छान्दसो व-लोपः, किन्तु पाठोऽयं क्वचिद् एव अश्मानम् इति पाठस् तु बहुत्र, अत्र च मतुप्-लोपः छान्दसः । अश्मार्णम् इति पाठश् च बहुत्र टीका च तत्र तत्र तत्-तत्-प्रकारैव अत्रार्ण-शब्देन वर्ण उच्यते । आगमादौ तथा दृष्टत्वात् वर्ण-शब्देन चरमा भण्यते अश्म-शब्देन कथञ्चित् पर्वत इति । अत्र च यथा हि केनचिद् उच्चैर् नीयमानो बालको भयाद् गलं गृह्णाति तद्वत् बाल-ग्रहणादिना लौकिक-बाल्य-लीला च ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अश्मन्तम् इति व-लोपश् छान्दसः ॥२७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च निष्पन्न-स्वीय-नभो-विहाराभिलाषो निष्पादित-स्वर्ग-पुर-पुरन्ध्री-कर्तृक-स्व-दर्शनाभिलाषश् च बाल-कृष्णस् तं हन्तुं प्रववृते इत्य् आह—तम् इति । आत्मनः सकाशाद् अप्य् अतिगौरवत्वेन तम् अश्मन्तं अश्मवन्तं पर्वतं मन्यमानः उत्स्रष्टुं निःसारयितुं नाशकत् तत्र हेतुः—गले गृहीतस् तेनैव बाल्य-लीलया स्व-पतन-भयाद् इति भावः । अश्मन्तं इति युवोर् अनाकौ [पा। ७.१.१] इतिवद् व-लोपश् छान्दसः । अश्मानम् इति पाठे मतुल्-लोपश् च । अश्मार्णम् इति पाठे आश्व्मार्णवं शिला-समुद्रम् इवेत्य् अर्थः ॥२७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ततश् च सिद्ध-वियद्-विहारेच्छोर् दृष्टः स्व-क्रीडा-स्थानः साधित-देव-वनितानन्दः स यशोदार्भकस् तं दैत्यं नतुम् आरेभे इत्य् आह तम् इति । आत्मनः सकाशाद् अपि गुरुमत्तया अतिगौरववत्त्वेन हेतुना तम् अश्मानम् एक-पाषाण-वपुषं शैलं मन्यमानः त्यक्तुम् इच्छन्न् अपि उत्स्रष्टुं त्यक्तुं नाशक्नोत् यतस् तेन गले गृहीतः बाल्य-लीलावेशेन स्व-पतन-भयाद् इवेति भावः ॥२७॥


॥ १०.७.२८ ॥

गल-ग्रहण-निश्चेष्टो दैत्यो निर्गत-लोचनः ।
अव्यक्त-रावो न्यपतत् सह-बालो व्यसुर् व्रजे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्गत-लोचनो बहिर् आगत-नेत्रमांसर्पिडः । अव्यक्तरावः वचनाकृत्तिवर्जितः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गल-ग्रहणेनैव निश्चेष्टो हस्त-पाद-प्रक्षेपणादाव् अशक्त इत्य् अर्थः । गल-ग्रहणाद् एव निर्गतेव बहिर् निःसृते लोचने यस्य सः । किं च, न व्यक्तो न स्पष्टो न वक्तुं शक्यो राव आर्त-नादो यस्य येन वा सः । सह-बालः श्री-भगवत्-सहितः । यद् वा, स महा-बलिष्ठत्वादिना प्रसिद्धो दैत्यो बालो मूर्खोऽयोग्येऽशक्ये च कर्मणि प्रवृत्तः । अत एव व्यसुर् मृतो व्रज-मध्ये नितरां पृष्ठतः सर्वाङ्ग-पातम् अपतत् । हर्षे । पूर्वं पूतनायाः पादादि-विक्षेपेण महार्त-नादेन च व्रज-वासिनां महा-भयं वृत्तम् आसीत्, तद् अधुना माभूद् इति गल-ग्रहणेन नभस्य् एव मारणम् । अत एव नभसि गमनार्थं तृणावर्तेन स्वस्य हारणम् अपीति तत्त्वम् ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बाल-ग्रहणेनैव निश्चेष्टः हस्त-पाद-प्रक्षेपणादाव् अशक्त इत्य् अर्थः । गल-ग्रहणाद् एव निर्गतेव बहिर् निःसृते लोचने यस्य सः । किं च, न व्यक्तः किम् उक्तम् इति बोद्धुम् अशक्यः रावः आर्त-नादो यस्य सः । सह-बालः श्री-बाल-गोपाल-सहितः व्यसुर् मृतो व्रज-मध्ये नितरां पृष्ठतः सर्वाङ्ग-पातम् अपतत् । पूर्वं पूतनायाः पादादि-विक्षेपेण महार्त-नादेन च व्रज-वासिनां महा-भयं वृत्तम् आसीत् तद् अधुना माभूद् इति गल-ग्रहणेन नभस्य् एव मारणम् । अत एव नभसि गमनार्थं तृणावर्तेन स्वस्य हारणम् अपीति तत्त्वम् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गल-ग्रहणेनैव निश्चेष्टः अव्यक्त एव आर्त-नादो यस्य सः पूतनार्त-नादेन व्रजौकसां त्रासो वृत्तः सोऽधुना माभूद् इति कण्ठं निष्पीड्य नभस्य् एव मारित इति भावः । यतो व्यसुः प्राण-हीनः ॥२८॥


॥ १०.७.२९ ॥

तम् अन्तरिक्षात् पतितं शिलायां

विशीर्ण-सर्वावयवं करालम् ।

पुरं यथा रुद्र-शरेण विद्धं

स्त्रियो रुदत्यो ददृशुः समेताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरं त्रिपुर-संज्ञं मयेन रचितम् ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शिलायं पशु-पाद5—सम्मर्द-पङ्कानुद्भवार्थं गृहान्तिके शिला-वद्ध—भू-भाग एव, न त्वन्यस्य कस्य-चिद् उपरीत्य् अर्थः । अनेन पूतनावद्-वृक्ष-वर्ग-चूर्णनं परिहृतम् अत एव विशेषतः शीर्णा भग्नाः सर्वे\ऽवयवा यस्य । करालं कठिनतराङ्गम् अपि । यद् वा, अत एव करालं रौद्रम्, आकाशान् निश्चेष्टतया पतने दृष्टान्तः—पुरम् इति । अत्रापि विशीर्णेत्यादि योज्यम्6 । समेताः श्री-यशोदा-पार्श्वे मिलिताः । यद् वा, अन्यो\ऽन्यं मिलिताः सत्यो रुदत्यो रुदन्त्यो वा समेताः सर्वा एव युगपद्-ददृशुः, यतः स्त्रियः स्व-भावतः स्नेह-विशेषेण श्री-कृष्ण-सक्त-चित्ता इत्य् अर्थः । अत एव तासां शोकाधिक्येन शीघ्रं तद् अपनोदनार्थं तासाम् एवान्तिके निपातनाद् आदौ ताभिस् तद् दर्शनं सर्व-चित्ताकर्षक-लीलं श्री-कृष्णं च ददृशुः । कथम्भूतम् ? तस्य दैत्यस्योपरिलम्बमानं निल-मणिवद्-गलतो लम्बित्वा स्थितं कराभ्यां गल-ग्रहणात् । किं वा, पततः सतो गल-त्यागेनोरसि शयनात् ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शिलायां पशुपाद-सम्मर्दकर्दमानुद् भवार्थं गृहान्तिके शिलाबद्ध-भू-भाग एव न त्व् अन्यस्य कस्यचिद् उपरीत्य् अर्थः । अनेन पूतनावद् वृक्ष-वर्ग-चूर्णनं परिहृतम् अत एव विशेषतः शीर्णा भग्नाः सर्वे अवयवा यस्य करालं कटिनतराङ्गम् अपि यद् वा अत एव करालं रौद्रम् आकाशान् निश्चेष्टतया पतने दृष्टान्तः । पुरम् इति । अत्रापि विशीर्णेत्य् आदि-योज्यं समेताः श्री-यशोदा-पार्श्वे मिलिताः यद् वा, अन्योन्यं मिलिताः सत्यो रुदन्त्यः रुदत्यो वा समेताः सर्वा एव युगपद् ददृशुः यतः स्त्रियः स्त्रीत्वेन प्रेम-कोमल-स्वभावतः स्नेह-विशेषेण श्री-कृष्णासक्त-चित्ता इत्य् अर्थः । अत एव तासां शोकाधिक्येन शीघ्रतद् अपनोदनार्थं तासाम् एवान्तिके निपातनाद् आदौ ताभिस् तद् दर्शनम् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.३० ॥

प्रादाय मात्रे प्रतिहृत्य विस्मिताः

कृष्णं च तस्योरसि लम्बमानम् ।

तं स्वस्तिमन्तं पुरुषाद-नीतं

विहायसा मृत्यु-मुखात् प्रमुक्तम् ।

गोप्यश् च गोपाः किल नन्द-मुख्या

लब्ध्वा पुनः प्रापुर् अतीव मोदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्योरसि लम्बमानं कृष्णम् आदाय मात्रे प्रतिहृत्य समर्प्य विस्मिताश् च बभूवुर् इति । विहायसा गगन-मार्गेण पुरुषादेन दैत्येन नीतं तथापि मृत्यु-मुखात् प्रमुक्तं पुनर् लब्ध्वा मोदं प्रापुर् इति ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मृत्यु-मुखात् प्रमुक्तम् इत्य् अनेन स्वस्याधोक्षजत्वं प्रकटितम् । अधो न क्षीयते यस्माज् जातु तस्माद् अधोक्षजः इति भारतात् । लब्धाशिषः श्री-कृष्ण-प्राप्त्याभिलषिताः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तम् आदाय समर्प्य विस्मिता बभूवुः । दैत्योरसि लम्बमानत्वेन किं वालभ्य7 लाभादिना तस्याः परम-भाग्यानु-सन्धानेन स्वस्थिम् अन्तं सर्वथा कुशलिनम् । स्वस्तिमत्त्वम् एवाह—विहायसा पुरुषादेन नीतमतोस्मद् अदृश्यागम्य-स्थाने भक्षकेन नीतत्वान् मृत्यु-तुल्यस्य तस्याहारत्वेन मुखं प्राप्तम् अपि तस्मात् प्रकार्षेण क्षतादि-राहित्येन मुक्तम् उर्वरितम् इति । यद् वा, विहायसा पुरुषादेन नितम् इत्य् अत्य् उच्चपातादि-सम्भवात् साक्षान् मृत्यु-मुखम् इव प्राप्तम् अपि तस्मात् प्रमुक्तम् । किञ्च, स्वस्तिमन्तं स्वास्थ्य-युक्तं दुष्टस्पर्शादिनापि किञ्चित् विकारेणाप्य् असम्बन्धाद् अतस् तं प्राप्यैव मोदं प्रापुः स्वस्तिमन्तं प्राप्य चातीव मोद-प्रप्तेर् इत्य् अर्थः । गोप्यः श्री-यशोदाद्यास् तासाम् आदौ निर्देशस् ताभिः प्राक् लब्धत्वात्, स्नेह-विशेषेण मोदाधिक्याच् च । गोपाश् च किल निशिचितं तादृशं लब्ध्वा पुतनादि—भयापेक्षया । किं वा, जन्मापेक्षया पुनर् जातम् एवेत्य् अर्थः ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः श्री-कृष्णं च दृष्टवतीनां चेष्टाम् आह—प्रादायेत्य् अर्धकेन । हस्त-द्वय-गृहीताद् गलाद् उरसि लम्बमानं पूर्वम् आवेगस्य बलवत्वात् पश्चाद् एव विस्मयः दैत्योरसि लम्बमानत्वेनालक्ष्यलाभादिना तस्याः परम-भाग्यानुसन्धानेन च विस्मिताः अनन्तरं यमुनायाम् एव तच् छरीरं वाहयाम् आसुरिति ज्ञयं स्वस्तिमन्तं सर्वथा कुशलिनं स्वस्तिमत्वम् एवाह—विहायसा पुरुषादेन नीतम् अतोऽस्मद् अदृश्यागम्य-स्थाने भक्षकेन नीतत्वात् मृत्यु-तुल्यस्य तस्याहारतेन सुखं प्राप्तम् अपि तस्मात् प्रकर्षेण क्षतादिराहित्येन मुक्तम् उर्वरितम् इति यद् वा विहायसा पुरुषादेन नीतम् इति अत्युच् चापातादिसम्भवात् साक्षान् मृत्यु-मुखम् इव प्राप्तम् अपि तस्मात् प्रमुक्तं गोप्यः श्री-यशोदाद्याः तासाम् आदौ निर्देशः ताभिः प्राक् लब्धत्वात् स्नेह-विशेषेण मोदाधिक्याच् च गोपाश् च किल निश्चितं तादृशं लब्ध्वा पुनर् इति पूतनादि-भयापेक्षया किं वा जन्मापेक्षया पुनर् जातम् इवेत्य् अर्थः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्योरसि लम्बमानं कृष्णं आदाय मात्रे प्रतिहृत्य विस्मिता बभूवुः । उरसीति कृष्णस्य व्यथा-भावः सूचितः । असुरस्य पृष्ठ-प्रदेश एव शिला-पतितत्वात् । विहायसा गगन-मार्गेण पुरुषादेन मनुष्य-भक्षकेन नीतम् । अत एव मृत्योर् मुखाद् इव मुक्तम् ॥३०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.३१ ॥

अहो बतात्यद्भुतम् एष रक्षसा

बालो निवृत्तिं गमितोऽभ्यगात् पुनः ।

हिंस्रः स्व-पापेन विहिंसितः खलः

साधुः समत्वेन भयाद् विमुच्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परस्परं हर्ष-कथाम् आहुः--अहो बत इति । निवृत्तिं गमितो मृत्युं प्रापितः । कोऽत्र विस्मयो युज्यत एवैतद् ? इति तेष्व् एव केचिद् आहुः--हिंस्र इति ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कोऽत्र विस्मयः ? किम् अत्राश्चर्यम् ? युज्यत एव युक्तम् एव । एतत् बालागमनं रक्षो-मरणं च । तेष्व् एव विस्मित-गोपेष्व् एव । केचिद् विज्ञा इत्य् अर्थः । हिंस्रो हिंसा-शीलः । समत्वेन सम-दृष्ट्या, द्वितीयाद् वै भयं भवति [बृ।आ।उ। १.४.२] इति श्रुतेः ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तेषां निरन्तरं स्नेह-विशेष एव व्यवर्धत, न च तद्-विघातकम् ईश्वर-ज्ञानं वृत्तम् इत्य् अन्यो\ऽन्यं तेषां वार्तयैवाह—अहो बत इति परम-विस्मये\ऽत्यन्त-हर्षे वा । अत्यद्भुतं महाश्चर्यम् । तद् एवाहुः—एष इत्य्-आदिना । यद् वा, अहो महा-खेले, अत्यद्भुतं निवृत्तिं गमितो\ऽपि आकाशोपरि नयनादिनेत्य् अर्थः । एष व्रजैक-प्राण-रूपः परम-सुकुमारो\ऽभिनवो बालः किञ्चिद् अपि कर्तुम् आशक्त इत्य् अर्थः । निवृत्तिं गमितो\ऽपि पुनर् अभ्यगात् सुखम् आगतः, यतः खलः क्रूरः । यद् वा, खलो\ऽधमो हिंस्याहिंस्य-विचार-हीनो हिंस्रःसमत्वेन सर्वत्र शुद्ध-भावेन, भयात् कथञ्चित् कदाचिद् आपतितात् संसार-लक्षणाद् अपि वा, प्रकर्षेण सुखम् अपुनर्भवतया मुच्यते । अन्यत् तैर् व्याख्यातम् । यद् वा, पुनर् अपि वृत्तिम् अपुनर्-आवृत्तिम् इव गमितः, अभि अभयं यथा स्यात्, तथागतः स्व-स्थानं प्राप्तः, शत्रोर् अपि तस्य मरणात् । तद् एवाहुः—हिंस्र इति । एवं पुनर् उपद्रवेण दुष्ट-कंसाद् अपि चिन्ता न कार्येत्य् आहुः—साधुर् इति । एतच् च श्री-कृष्णम् आत्मानं वोद्दिश्योक्तम् ॥३१॥


अहो बत अत्यद्भुतम् ! एष बालो रक्षसा निवृत्तिं गमितः पुनर् अभ्यगात् ॥ हिंस्रः खलः स्व-पापेन विहिंसितः, साधुः समत्वेन भयाद् विमुच्यते ।

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तेषां निरन्तरं स्नेह-विशेष एव व्यवर्धत, न च तद्-विघातकम् ईश्वर-ज्ञानं वृत्तम् इत्य् अन्योन्यं तेषां हर्षवार्तयैवाह—अहो बत इति परम-विस्मये अत्यन्त-हर्षे वा । अत्यद्भुतम् एवाहुः--एष इत्य्-आदिना । एष व्रजैक-प्राण-रूपः परम-सुकुमारोऽभिनवः बालः किञ्चिद् अपि कर्तुम् अशक्त इत्य् अर्थः । निवृत्तिं गमितो\ऽपि पुनर् अभ्यगात् अस्मद्-अभिमुखं प्राप्तः अभि अभयं यथा स्यात् तथा वा शत्रोर् अपि तस्य मरणात् नाद्भुतं चैतद् इत्य् आहुः, हिंस्र इति । हिंस्रः विचार-हीनं जिघासुः खलः वञ्चकश् च अतः स्व-पापेन विहिंसितः साधु-हिंसा-मात्रादि-दोष-रहितः समत्वेन आत्मवत् परम-सुख-दुःख-दर्शनजेन पुण्येन प्रमुच्यते प्रमुक्त इत्य् अर्थः । एवं पुनः पुनर् उपद्रवेण दुष्ट-कंसाद् अपि चिन्ता न कार्येति भाव । साधुर् इति श्री-नन्दम् उद्दिश्योक्तं गोप-साधारण-वाक्यत्वात् । यद् वा, हिंस्र इत्य्-आदिकम् अर्थान्तरन्यासे तत्र च हिंस्यत इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : युवोर् अनाकौ (७.१.१) इति ज्ञापकात् प्रमुच्यते प्रमुक्त इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं बालत्वेऽपि महासुर हन्तृत्व-लक्षणेनैश्वर्येण प्रकटोद्भूतेनापि तेषां नन्दादीनां वात्सल्यं न जहास, प्रत्युतावर्धतैवेत्य् आह—अहो बतेति त्रिभिः । अद्भुताद् अपि यद् अद्भुतं तस्माद् अप्य् अद्भुतम् एतत् यद् एष बालो निवृत्तिं अमङ्गल-व्यञ्जकत्वान् मरण नाशादि-शब्देन वक्तुम् अनर्हां दशां प्रापितेऽपि अभ्यगात् पुनर् बन्धूनाम् अभिमुखं प्राप्तः । कोऽत्र विस्मयो युज्यत एवेति तेष्व् एव मध्ये केचिद् आहुः—हिंस्र इति स्वपापेन निरपराध-नर-बालक-हरण-लक्षणेन साधु-बालकः समत्वेन बालत्वाद् एव शत्रु-मित्रादिषु तुल्य-बुद्धित्वेन ॥३१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।



॥ १०.७.३२ ॥**

किं नस् तपश् चीर्णम् अधोक्षजार्चनं

पूर्तेष्ट-दत्तम् उत भूत-सौहृदम् ।

यत् सम्परेतः पुनर् एव बालको

दिष्ट्या स्व-बन्धून् प्रणयन्न् उपस्थितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नोऽस्माभिः चीर्णं कृतम् । पूर्तं वापी-कूपादि-निर्माणम्। इष्टं पञ्च-यज्ञाग्नि-होत्रादि । दत्तं दानम् । यद् यस्मात् तप-आदेः । प्रणयन् हर्षयन् ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :

अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । > आतिथ्यं वैश्वदेवं च इष्टम् इत्य् अभिधीयते ॥ > शरणागत-सन्त्राणं भूतानां चाप्य् अहिंसनम् । > भूत-सौहृदम् इत्य् उक्तं तत्-सर्वत्र सुखावहम् ॥

बहिर् वेदि च यद् दानं तद् दत्तम् अभिधीयते ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुनः प्रहर्षेणात्म-भाग्यम् अभिनन्दन्तस् तथैवाहुः—किम् इति । तपः कृच्छ्रादिकम् । अधोक्षजस्य इन्द्रिय-ज्ञानागोचरस्यापि भगवतो\ऽर्चन-रूपम् । एवम् एतं पूर्वस्यापि विशेषणं । तप-आदेः श्री-भगवद्-अर्पणेन तद्-अर्चने पर्यवसानात् । यद् वा, अधोक्षजस्यार्चनं यस्मात्, तद् भक्ति-साधकम् इत्य् अर्थः । पूर्तादिकं चोक्तम्—

वापी-कूप-तडागादि-देवतायतनानि च । > अन्न-प्रदानम् आरामाः पूर्तम् इत्य् अभिधीयते ॥ > अग्निहोत्रं तपः-सिद्धं वेदानां चानुपालनम् । > आतिथ्यं वैश्वदेवं च हीष्टम् इत्य् अभिधीयते ॥ > शरणागत-संत्राणं भूतानां चाप्य् अहिंसनम् । > बहिर्-वेद्यां च यद् दानं तद् दत्तम् अभिधीयते ॥ इति ।

सम्परेत इव, एवापि पुनर् अपि दिष्ट्या क्षेमेणाकस्माद् वा उपस्थितः समीपम् आगतः ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनः प्रहर्षेणात्म-भाग्यम् अभिनन्दन्तस् तथैवाहुः--किम् इति । अधोक्षस्यार्चनं यस्मात् तद्-अर्पितत्वात् तद्-भक्ति-साधकम् इत्य् अर्थः । स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे [भा।पु। १.२.६] इत्य्-उक्तेः । तादृशं तप-आदि । तत्र तपः कृच्छ्रादि पूर्तादिकं चोक्तम्—

वापी-कूप-तडागानि देवतायतनानि च । > अन्न-प्रदानम् आरामः पूर्तम् इत्य् अभिधीयतेः ॥ > अग्निहोत्रं तपः-सिद्धं वेदानां चानुपालनम् । > आथिथ्यं वैश्व-देवं च इष्टम् इत्य् अभिधीयते ॥ > शरणागत-सन्त्राणं भूतानां चाप्य् अहिंसनम् । > बहिर् वेद्यां च यद् दानं तद् दत्तम् अभिधीयते ॥ इति ।

यद् वा, अधोक्षजस्यार्चन-रूपं तप-आदि । तत्र तप एकादशी-व्रतादि । पूर्तादिकं च तत् सेवाङ्गत्वेन कृतम् इति ज्ञेयम् । एवं सादृश्ये सम्परेत इव पुनर् अपि स्व-बन्धून् प्रणयन् कुर्वन् सृजन् जीवयन्न् इति यावत् उपस्थितः समीपम् आगतः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-नन्दादयस् तु यद्य् अस्य बालस्यामङ्गलम् अभविष्यत् तदा सर्वे वयम् अरिष्या मिअवेत्य् अतोऽस्माकम् एवैतद् बहुतर-सुकृत-फलम् इत्य् आहुः—किम् इति चीर्णं कृतं पूर्तं वाप्य्-आदि-निर्माणं इष्टं पञ्च-यज्ञादि । यत् यस्मात् तप-आदेः । प्रणयन् कुर्वन् जीवयन्न् इत् यावत् । प्रणयवन्तं कुर्वन्न् इति वा ॥३२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.३३ ॥

दृष्ट्वाद्भुतानि बहुशो नन्द-गोपो बृहद्-वने ।
वसुदेव-वचो भूयो मानयाम् आस विस्मितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वसुदेव-वचः सन्त्युत्पाताश् च गोकुले इत्य् एवं-रूपं मानयामास । अहो वसुदेवः कश्चिद् योगिराज एवातीतानागतवित्त्वात् तृणावर्त-वधम् आह श्रुतिः—साकं यक्ष्म प्रपत चाषेण किकिदीविना साकं व तस्य घ्राज्या साकं नश्य निहाकया इति । अर्थस्तु—खेचरत्वेन यज्ञं पूज्यम् इवात्मानं मनुते मिमीते तोलयति वा यक्ष्म हे यक्ष्म राक्षस तद् वत्पीडकेति वा । चाषेण तद्-वर्णेन हरिणा तव हन्त्रा साकं प्रपत भूमाव् इति शेषः किकिनाज्ञः सन् सन् दीव्यतीति किकिदीविः । औणादिकः कि-प्रत्ययः उपधादीर्घश् च कि-धातोर् बाहुलकात् कि-प्रत्यये लिडभावे च चुत्वाभावे किकिर्विद्वान् तेन वा । तस्य वायोर्घ्राज्या गत्या यया धूलिवात्यारूपया एनम् उपरि नीतवान् असि तया साकं नश्य नाशं प्राप्नुहि । निहाकया गत्या च साकं वा साहित्यं पतन एव न तु नाशेऽतस् तेन सह पतितः सन् स्वयम् एक एव नाशं प्राप्नुहीत्य् अर्थः । एवं देवैर् उक्तस् तृणावर्तः पपात ममार चेत्य् अर्थः ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सामान्यतः सर्वेषां श्री-भगवति सेनेहभरो दर्शितः विशेषतश् च श्री-वल्लवेन्द्रस्योत्पात—निर्धारेण पुनस् तच् छङ्कयासौ व्यवर्धततराम् इत्य् आशयेनाह—दृष्त्वेति । बहुश इत्य् अनेनान्यान्य् अपि श्री-भगवतस् तादृशानि चरितानि सूचितानि । तद् अशेषाकथने सिद्धान्तो लिखित एव । वसुदेवस्य वचः सन्त्य् उत्पाताश् च गोकुले [भा।पु।१०.५.३१] इति विस्मितः सन् तस्य ज्ञानातिशयेन । एवं व्रजानन्दनात् पृथी-पालनाच् च नन्द-गोप इति शेषार्थः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सामान्यतः सर्वेषां श्री-भगवति स्नेहभरो दर्शितः विशेषतः श्री-वल्लवेन्द्रस्योत्पात-निर्धारेण पुनस् तच् छङ्कयासौ व्यवर्धतत्तराम् इत्य् आशयेनाह—दृष्ट्वेति । बहुश इत्य् अनेनान्यान्य् अपि श्री-भगवतस् तादृशानि चरितानि सूचितानि तानि च श्री-माथुर-लोअक-प्रसिद्धानि श्रीधराख्य-चद्म-विप्राभिभव-चातुरीमयादीनि श्री-मुनीन्द्रेण राज्ञोऽल्पायष्ट्रत्वेनानुक्तान्य् अपि ज्ञेयानि बृहद् वनं एव नान्यत्रति विशेष-शङ्का-निदानम् । एवं व्रजानन्दात् पृथिवी-पालनाच् च नन्द-गोप इति श्लेषः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.७.३४ ॥

एकदार्भकम् आदाय स्वाङ्कम् आरोप्य भामिनी ।
प्रस्नुतं पाययाम् आस स्तनं स्नेह-परिप्लुता ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

तृणावर्तागमे दृष्ट-गौरवाशङ्किनीं प्रसूम् ।

बोधयन् दर्शयामास जृम्भमाणि मुखे जगत् ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रसूं मातरं यशोदां बोधयन्न् ईश्वरत्वं ज्ञापयन् ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :

जगद्-भ्रामक-विभ्रंशान् भक्त्या भान्ति साधवः ।

अतो रजस्-तमो-नेतृ-तृणावर्तम् अहन् प्रभुः ॥

प्रसङ्गात् पुनर् अप्य् अद्भुतं चरितम् आह—एकदेत्य् आदिना । एकदा कस्मिंश्चित् काले कालानियमः । श्री-भगवतः काल-पारतन्त्र्याभावात् । किं वा, बालोऽपि तारुण्यस्य तारुण्येऽपि बाल्यस्य प्रदर्शनेन वयो-निर्धाराशक्तेर् इति । आदाय भूमौ क्रीडन्तं तत आ बलाद् गृहीत्वा । किं वा पल्यङ्किकायां शयानं तं ततो गृहीत्वा । भाविनी परमोत्तमा नारी श्री-यशोदा । अतः पुत्र-स्नेह-रसे परिप्लुतात्यन्तं निमग्ना । अत एव प्रस्नुतं प्रकर्षेण वस्त्राद्य्-आदी-करणेन सदा क्षरत्-स्तन्यम् ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रजस् तमः-स्वभावं मद्-भ्रामकं गुरुमानिनं निघ्नन् निजान् बिभर्मीति तृणावर्तद्रुहान् अपि अथ पूर्व-पूर्व-भयात् पुनर् अनिष्ट-शङ्कया शुष्यन्तीम् इव तां सान्त्वयितुं लीला-शक्तिर् एव तस्मिन् कञ्चित् प्रभावं दर्शयति—एकदेत्य् आदिना । आदाय [पक्ष्यक्किकायां]{।मर्क्} शयानं तं ततो गृहीत्वा भूमौ क्रीडन्तं ततो वा बलात् गृहीत्वा भाविनी स्वभावतः सद् भाव-युक्तः विशेषतस् तादृश-पुत्र-स्नेह-रसेन परिप्लुतात्यन्तं निमग्ना अत एव प्रस्नुतं प्रकर्षेण वस्त्राद्याद्रीकरणेन सदा क्षरत् स्तन्यम् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.७.३५ ॥

पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् ।
मुखं लालयती राजन् जृम्भतो ददृशे इदम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पीत-प्रायस्य पीतः प्रायः स्तनो येन तस्य ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पीत-प्रायः पीत इव स्तनो येन कृष्णेन तस्य । प्रायः सादृश्य-बाहुल्य-प्राणान्तानशनेषु च इति शाश्वतः । स्तनवद् अस्य लोपस् त्व् आर्षः । जृम्भतो मुखं प्रसारयतः इदं दृश्यं विश्वम् ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जननीति सुतस्येति च स्नेह-भरं बोधयति । तत्र च रुचिर-स्मित इति परम-सौन्दर्यम् । अतो लालयन्ती जृम्भमाणस्य तल्-लालन-जनितानन्द-भरालस्येन जृम्भां कुर्वतः सतः । मुखे मुख-विवरान्तः, द्वितीयान्त-पाठे मुखं लालयन्ती तद्-द्वारा जठरे ददर्शेति ज्ञेयम् । कृत्स्नस्य चान्तर् जठरे जनन्या [भा।पु। १०.१४.१६] इति श्री-ब्रह्म-स्तुतेः । सप्तम्य्-अन्त-पाठ एव तेषां सम्मतः । अत्राग्रेऽपि मुख एव विश्व-दर्शनस्य व्याख्यानात् । राजन्न् इति परमाश्चर्येण सम्बोधनम् । यद् वा, यथा त्वत्-पितामहेनार्जुनेन भारत-युद्धे दृष्टं, तद्वद् इति न मन्तव्यम्, किन्तु ततोऽपि विशिष्टम् इति सूचयति ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पीतप्रायस्येति पीता गावो विभक्ता भ्रातर इतिवत् कर्तरि क्तः भावक्तान्तात् पीतं पानं प्रायमीषद् असिद्धं यस्येति वा टीका-मते स्तन—शब्द-लोपोऽत्रार्ष एव जननीति सुतस्येति च स्नेहभरं बोधयति तत्र च रुचिर-स्मित इति परम-सौन्दर्यम् अतो लालयन्ती जृम्भमाणस्य तल् लालन-जनितानन्दभरालस्येन जृम्भां कुर्वतस्सतः मुखे मुख-विवरान्तः द्वितीयान्त-पाठे मुखं लालयन्ती तद् द्वारा जठरे ददर्शेति ज्ञेयं कृत्स्नस्य चान्तर् जठरे जनन्या इति ब्रह्म-स्तुतेः सप्तम्यन्तः पाठ एव तेषां सम्मतः अप्रेऽपि मुखे दर्शनस्य व्याख्यानादिदम् अस्माभिर् यद् दृश्यते तद् एव विश्वं न त्व् अन्यत् तस्य विग्रहस्याचिन्त्य-शक्त्या विभुत्वाद् इति भावः । अत एव तत्र विश्वस्य सम्पर्को नस्त्य् तद् उक्तं श्री-भगवद् उपनिषत्सौ ।

मया ततम् इदेअ सर्वं जगद् अव्यक्त-मूर्तिना । > मत्स्थानि सर्वं भूतानि न चाहं तेष्व् अवस्थितः ॥

न च मत् स्थानि भूतानि पश्य मे योगम् ऐश्वम्

इति जगद् उदरत्वन्तु तद् अंशांश-गर्भोदकशायिन एव तच् च प्रलय-काले सूक्ष्मतयैवेति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पीतेति । पीता गावो विभक्ता भ्रातर इत्य्-आदि-प्रयोग-दर्शनात् कर्तरि क्तः, आगत-प्राय इतिवत् । इदं यद् अस्माभिर् दर्श्यते तद् एव नान्यद् इत्य् अचिन्त्य-शक्त्या तस्य विग्रहस्य विभुत्वं प्रलये तद्-अंशांशस्य गर्भोदशायिन इत्य् अर्थः ॥३५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पीत-प्रायस्य इति । पीता गावो विभक्ता भ्रातर इतिवत् कर्तरि क्तः । स्तनं पीतवत् प्रायस्येत्य् अर्थः । मुखे मुख-विवरान्तः द्वितीयान्त-पाठे मुखं लालयन्ती तद्-द्वारा जठरे ददर्शेति ज्ञेयम् । कृत्स्नस्य चान्तर् जठरे जनन्या [भा।पु। १०.१४.१६] इति ब्रह्म-स्तुतेः । इदम् अस्मद् दृश्यं विश्वम् एव तदीय-विग्रहस्य मातृकोडगस् तस्याप्य् अचिन्त्य-शक्त्या विभुत्वेन सर्व-जगद्-अधिष्ठानत्वात् । जृम्भत इति जृम्भणोचित-क्षणेऽपि स-विशेष-सर्व-विश्व-दर्शनम् अचिन्त्य-शक्त्यैव निष्पादितम् ॥३५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पीत-प्रायस्येति । पीतं पानं तद् यस्यास्ति स पीतः । मुखं लालयतीति चिबुकं गृहीत्वेति शेषः । जृम्भतस् तस्य मुख-द्वारा जठरे इदं विश्वं ददृशे । कृत्स्नस्य चान्तर् जठरे जनन्या [भा।पु। १०.१४.१६] इति वक्ष्यमाणात् । जृम्भणोचित-काल एव कृत्स्न-विश्व-दर्शनम् तद्-अचिन्त्य-शक्त्यि-सिद्धं बोध्यम् । इयं मत्-प्रसूः सर्वज्ञैव किन्तु मद्-ऐश्वर्य-स्वरूपं सदैव जानाति, न तु दृष्टावती तद्-अदर्शनाद् एव मयि भयं शङ्कती तद् एनाम् ऐश्वर्यं प्रदर्श्य निःशङ्कयामीति तद् अदर्शयद् इति भावः ॥३५॥


॥ १०.७.३६ ॥

खं रोदसी ज्योतिर्-अनीकम् आशाः

सूर्येन्दु-वह्नि-श्वसनाम्बुधींश् च ।

द्वीपान् नगांस् तद्-दुहितॄर् वनानि

भूतानि यानि स्थिर-जङ्गमानि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नगान् गिरींस् तेषां दुहितॄर् नदीः ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रोदसी द्याव्-आभूमी । ज्योतिषां ताराणां अनीकं गणम् । श्वसनो वायुः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इदन्तापरामृष्टम् एवाह—खम् इति । अन्तरिक्षं रोदसी दिवं भूमिं च । एवं भुवः-स्वर्-भूर् इति लोक-त्रयम् । तेन च तत्रत्याः ज्ञेयाः । तत्रैव विशेष-विवक्षयानुक्तान् अपि सङ्गृह-जाति-भूतानीति ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इदन्ता-परामृष्टम् एवाह—खम् इति । अन्तरिक्षं रोदसी दिवं भूमिं च । एवं भुवः-स्वर्-भूर् इति लोक-त्रयम् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नगान् द्वीपाख्याकरान् जम्ब्वादि-वृक्षान् पर्वतांश् च तद्-दुहितॄर् नदीः ॥३६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नगान् द्वीपातिधाकरान् जम्ब्व्-आदि-वृक्षान् पर्वतांश् च तद्-दुहितॄर् नदीः ॥३६॥


॥ १०.७.३७ ॥

सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः ।
सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा यशोदा । सहसेत्य् आकस्मिके । मृग एकस् तच्-छावस् तद्-बालस् तत्-तुल्य-नेत्रा संमील्येति । विष्णोर् ध्यानार्थं भगवन् नारायण रक्ष रक्ष मत्-सुतम् अस्माद् उत्पाताद् इति वित्रस्त-दृष्टित्वान् मृग-शावाक्षीति भावः ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीक्ष्य साक्षाद् दृष्ट्वा, सहसाकस्माद् युगपच् चेत्य् अर्थः । विश्वम् अशेषं जगद् एवेत्य् अनुक्तम् अपि तत्-कारणादिकं सङ्गृहीतम् । तच् चाग्रे पुनर् विश्व-दर्शने—वैकारिकाणि [भा।पु। १०.८.३८] इत्य्-आदिना व्यञ्जयितव्यम् । सञ्जात-वेपथुः परमाद्भुतत्वेनोत्पात-शङ्कया वा नेत्रे निमील्य तद्-दर्शनाय निजाक्षिणी मुद्रयित्वा, अनेन बहिर्-नेत्राभ्याम् एवैकदैव तद्-दर्शनं बोधितम् । एवम् अर्जुनस् तस्या विशेषश् च—दिव्यं ददामि ते चक्षुः [गीता ११.८] इति तं प्रति श्री-भगवद् उक्तेर् अन्यथा विविध-व्यवधानादिना विश्वस्य तस्मिन् युगपद्-दर्शनासम्भवात् । अस्याश् च श्री-भगवत्-स्नेह-भर-प्रभावेण दृग्भ्याम् एव साक्षाद्-दर्शनात् जठरान्तस् तद्-दर्शनं च श्री-भगवओ जगद्-उदरत्वात् । तच् च सृष्ट्य्-आरम्भे तत एव नाभि-द्वारा लोक-पद्माविर्भावादिना व्यक्तम् एव । एतच् च तद्-अंशेन नारायणेनाभेदाद् उक्तम् । किं वा, जठरान्तस् तद्-दर्शनेनान्तर्-दृष्टिर् अभिप्रेता, तया तस्य सत्त्व-दर्शनम् उपपद्यत एव, किन्तु बहिः सौन्दर्यादि-दर्शनेन जायमानानन्द-विशेषात् तत्-तच्-छमेवेति दिक् । मृग-शावाक्षीति सौन्दर्य-विशेषेण कमल-लोचनस्य श्री-भगवतो मातृत्व-योग्यतोक्तेः । अतस् तत्-तद्-दर्शनादिकं सम्भाव्यम् एवेति भावः । सुविस्मितासीत् किम् इदं कुतो वा पश्यामीति परम-विस्मयं प्राप्ता । अतस् तस्मिंस् तस्याः स्नेह-विघातकम् ईश्वर-ज्ञानं नाभूत् । परमेश्वरे तत्-सम्भावनया विस्मयानुत्पत्तेः । किन्तु स्व-पुत्र-विवृद्ध एवेति ज्ञेयम् । यद् वा, अहो मम मनो-विभ्रम-महिमायम् । येन स्व-बालकेऽप्य् अस्मिन्न् एवं दृश्यत इति । सुशोभनं विशिष्टं चान्यतो विलक्षणं स्मितं यस्यास् तथा-भूता बभूव । निज-मनोभ्रम-विशेषं मत्वा स्वयम् एवात्मानं हसितवतीत्य् अर्थः । हे राजन् ! सर्वत्र प्रकाशमानेति तत् तत्त्वं तव्यवावधार्यते, न त्व् अन्येनेति भावः । अत्र च स्व-सिद्धान्तोऽयं—साक्षाच् छ्री-भगवद्-दर्शनानन्द-विघातक-विश्व-दर्शनस्य परिहाराय नेत्र-निमीलनं, साक्षाद् विराजमानेऽपि भगवत्य् अहो बत तद्-इतर-दर्शनं स्याद् इति तन्-माया-बलानुसन्धानेन भय-कम्पः सुविस्मितत्वं चेति ।

श्री-कृष्ण-कृपयानेक-सिद्धान्तेषु स्फुरत्स्व् अपि ।

निज-रुच्य्-अनुसारेण सिद्धान्तोऽत्र विलिख्यते ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीक्ष्य साक्षाद् दृष्ट्वा, सहसा अकस्माद् युगपच् च इत्य् अमरः । विश्वम् अशेषं जगद् एवेत्य् अनुक्तम् अपि तत्-कारणादिकं सङ्गृहीतम् । तच् चाग्रे पुनर् विश्व-दर्शने—वैकारिकाणि [भा।पु। १०.८.३८] इत्य्-आदिना व्यञ्जयितव्यम् । सञ्जात-वेपथुः परमाद्भुतत्वेन उत्पात-शङ्कया वा । नेत्रे संमील्य तद्-दर्शनाय निजाक्षिणी मुद्रयित्वा, अनेन निजाभ्यां बहिर्-नेत्राभ्याम् एवैकदैव तद्-दर्शनं बोधितम्, न च दिव्य-दृष्ट्य्-आदि-प्राप्तिः, प्रत्युत ततः श्री-कृष्ण-प्रेमानन्द-लक्ष्म्या एव दासीयमाना काचिद् इयम् अपि शक्तिस् तस्यां वर्तत इति लक्ष्यते । नेत्र-निमीलनाद् अनादृतेव सेति तर्क्यते । तद् उक्तं श्री-नारद-पञ्चरात्रे—

हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः । > भुक्त्यश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥ [भ।र।सि। > १.१.३४] इति ।

तथपि तदानीम् उद्भूतः वात् तादृश-लीलोदयावसरे स्व-दास्यम् एव सफलयन्ती विस्मय-द्वारा ताम् आत्मेश्वरीम् उल्लासयितुम् एवम् अनुवर्तते इति च गम्यते मृग-शावाक्षीति मुनेः श्री-कृष्ण-वात्सल्यमय-शोभा-विशेष-विरोचमान-तन्-मातृ-लोचन-सौन्दर्य-स्फुरणोल्लास-मयं वचनम् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सहसा अकस्मात् युगपच् च । सञ्जात-वेपथुर् उत्पात-शङ्कया । संमील्येति श्री-विष्णु-ध्यानार्थं भगवन् नारायण रक्ष रक्ष ! मत्-सुतम् अस्माद् उत्पाताद् इति वित्रस्त-दृष्टित्वात् मृग-शावाक्षी

पूतनादि-वधैश्वर्यं न प्रेम समचूकुचत् । > प्रत्युतावर्धयत् तस्मिन्न् अरिष्ट-प्रतिशङ्कया । > नन्द-भाग्यादि-हेतूनां तत्राभूद् यदि कल्पनम् । > ततो निर्हेतुर् एवेयम् ऐश्वरी शक्तिर् आगता ॥ > विभुत्व-दर्शिका कृष्ण-देहस्य स्फुटाम् एव हि । > तथापि विस्मितिवासीन् मत्-पुत्रस्येदम् अद्य किम् ॥ > नत्वैश्य-ज्ञान-सम्भ्रान्त्या वात्सल्ये शिथिलाभवत् । > न चात्र सम्भवेत् किञ्चित् पूर्ववद् धेतु-कल्पनम् ॥ > तच् चापि वस्तुतो गाढ-प्रेमोर्मि-मयम् एव हि । > इति निष्कम्पता प्रेम्णः ख्यापिता स्यान् मुहुर् मुहुः ॥

एवं च—

प्रेम-देव्या परीक्षार्थम् आगच्छन्त्यस् तरान्तरा । > शक्तिर् एषाहरेः किन्तु तया दासीकृता भवेत् ॥ इति ॥३७॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

दशमे सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सहसा अकस्माद् युगपच् च सञ्जात-वेपथुर् इत्य् आश्चर्य-दर्शनात् निमील्य नेत्रे इति तद्-दर्शनाय सुविम्सितेति कथम् एतावत्य् उदरे विश्वम् इदं भातीति विस्मयेन चित्रितेवाभूद् इत्य् अर्थः ।

पूरनाम् ओष्ठयोः स्पर्शाच् छकटं पदयोः शिशुः । > भुजयोश् च तृणावर्तम् अहन्न् आस्ये क्षिताखिलः ॥ > अहीन-नर-चेष्टाभिर् आभिर् लीलाभिर् अच्युतः ।

निजैश्वर्यस्य पूर्णत्वं माधुर्यं च व्यजिज्ञपत् ॥३७॥


इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां

दशम-स्कन्धे तृणावर्त-मोक्षो नाम

सप्तमोऽध्यायः

॥१०.७॥

(१०.८)


  1. कर्ण-रस्यानि ↩︎

  2. वेद-विदः ↩︎

  3. वात्सल्येन ↩︎

  4. अश्मन्तम् । ↩︎

  5. पाशु-पात ↩︎

  6. योग्यम् ↩︎

  7. किञ्चालभ्य ↩︎