पूतना-वधः ।
॥ १०.६.१-२ ॥
श्री-शुक उवाच—
नन्दः पथि वचः शौरेर् न मृषेति विचिन्तयन् ।
हरिं जगाम शरणम् उत्पातागम-शङ्कितः ॥**
कंसेन प्रहिता घोरा पूतना बाल-घातिनी ।
शिशूंश् चचार निघ्नन्ती पुर-ग्राम-व्रजादिषु ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षष्ठे सख्युर् गिरा नन्दो व्रजं गच्छन् मृतां पथि ।
दृष्ट्वा तु राक्षसीं तस्या मृत्युं श्रुत्वाथ विस्मितः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सख्युर् वसुदेवस्य । तस्या राक्षस्याः [१] शौरेर् वसुदेवस्य । हरिं शरणं जगाम । "हे हरे मम गृहे कश्चिद् उत्पातो न भवेत् । यदि भवेत्, तर्हि त्वम् एवास्माकं रक्षकः" इति प्रार्थयामासेत्य् अर्थः । तव तुल्यः कोऽत्र विवेक्य् अस्ति । अतो मोहो नोचित इति भावः ॥१॥
प्रहिता प्रेषिता निघ्नन्ती मारयन्ती । तद् उक्तं वैष्णवे—
यस्मै यस्मै स्तनं रात्रौ पूतना सम्प्रयच्छति । > तस्य तस्य क्सणेनाङ्गं बालकस्योपहन्यते ॥ [वि।पु। ५.५.८] इति > ।
आदिना सार्थादि-ग्रहः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : शिशूंश् चचारनिघ्नन्तीत्य्-आदि । शिशून् निघ्नन्तीति ताच्छील्यार्थे शतृ, शिशु-हनन-शीलेति भावः । पुर-ग्रामाकरादिषु चचार, तादृश-शिशूनाम् अन्वेषणेनेत्य् अर्थः । अन्यथा भगवत्-कृते निरपराधानां शिशूनां निरर्थकं हननं भगवतः करुणा-व्यञ्जकं न स्यात् । यद् वा, शिशून् निघ्नन्तीति निहनिष्यती पुर-ग्रामादिषु चचार ॥२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पथि विचिन्तयन् हरिं सर्व-भय-हरं शरणं जगाम । "भगवन् ! रक्ष रक्ष!" इत्य् आर्त्या जगाद, हृदा प्रार्थयामासेति वा । नित्यं श्री-कृष्ण-प्रियत्वेन सदा तन्मयत्वेन । सदा तन्मयस्यापि तस्य विशेषतस् तदानीं तद्-अर्थं भागवत-वर्यत्वात् तच्-छरण-गमनम् उत्पात-निवृत्तये वैष्णवा भगवन्तम् एव शरणं गच्छेयुर् न चान्यत् किम् अपि कुर्युर् इति साधु-वर्ग-शिक्षणार्थम् इव, वस्तुतस् तु स्नेहभरस्य स्वभावत एवेति । यद् वा, न मृषेत्यतो हेतोर् अहरिं मनोहरं स्वसुतं पथि विशेषतश् चिन्तयन्—न जाने तत्र किं वृत्तम् अस्तीत्य् आदि-चिन्तां तद् अर्थं कुर्वन् शरणं निज-गृहं जगाम गच्छन्न् अभूत् ॥१॥
प्रहिता प्राग् एव नियुक्ता, यतो घोरा बाल-घातिनी च, अत एव नितरां घ्नन्ती घ्नन्ती दुर्विष-स्तन-दानेन सद्यो मारयन्ती । तथा च श्री-विष्णु-पुराणे—
यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति । > तस्य तस्य क्षणेनाङ्गं बालकस्येह1 हन्यते ॥ [वि।पु। ५.५.८] > इति ।
आकारो रत्नाद्य्-उत्पत्ति-स्थानम् । आदि-शब्दात् सार्थादयः । पुरादीनां यथोत्तरं गृहादि-सत्तापेक्षया न्यूनत्वम्, पाठान्तरेऽपि तथैवार्थः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पथि विचिन्तयन् हरिं सर्व-भय-हरं निजेष्ट-देवत्वेन सर्व-शरणम् अपि विशेषतः स्व-पुत्र-मङ्गलार्थं मनसा शरणं जगाम । यद् वा, न मृषेत्य् अतो हेतोर् हरिं मनोहरं स्व-सुतं पथि विशेषतश् चिन्तयन्, "न जाने तत्र किं वृत्तम् अस्ति ?" इति तत्र चिन्तां कुर्वन् शरणं निज-गृहं जगाम गच्छन्न् अभूत् ॥१॥
अथ व्रज-वृत्तम् आह—तत्र च यद्य् अपि पूर्वं तन्-मन्त्रिभिर् ऋषीणाम् एव हिंसा निश्चिता तथाप्य् अतिभीतेन कंसेन तु परम्परयैवोपायोऽयम् इति प्रथमं ताम् अनङ्गीकृत्य साक्षाद् बाल-हिंसैवानुमतेत्य् अभिप्रेत्य् आह—कंसेनेति । प्रहिता प्राग् एव नियुक्ता यतो घोरा बाल-घातिनी च अत एव नितरां घ्नन्ती घ्नती दुर्विष-स्तन-दानेन सद्यो मारयन्ती । तथा च श्री-विष्णु-पुराणे—
यस्मै यस्मै स्तनं रात्रौ पूतना सम्प्रयच्छति । > तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ [वि।पु। ५.५.८] इति > ।
आकरो रत्नाद्य् उत्पत्ति-स्थानं ग्रामं व्रजेति वा पाठः आदि-शब्दात् सार्थादयश् च ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
षष्ठे सौरूप्य-कारूप्ये जीवन्-मृत-तनोर् इह ।
निर्वर्ण्योक्तः पूतनायाः दाहो नन्दस्य चागमः ॥१-२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.३ ॥
न यत्र श्रवणादीनि रक्षो-घ्नानि स्व-कर्मसु ।
कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण-विषये शङ्कमानं राजानं प्रत्य् अविषये प्रवृत्ता सैव मरिष्यतीति सूचयन्न् आह—न यत्रेति । यत्र श्री-कृष्णस्य श्रवणादीनि न सन्ति, तत्रैव तासां शक्तिः, साक्षात् तस्मिन्न् एव सति का शङ्केति भावः ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-प्रेषणे राज-शङ्काम् अपानुदति अविषये मारणाद्य्-अगोचरे । सैव पूतनैव । बाहुभ्यां समुद्रं तरन्न् इवेति दृष्टान्तोऽत्र ध्येयः । यत्र यस्मिन् स्थाने । तत्रैव श्री-कृष्ण-श्रवणादि-वर्जित-स्थान एव । तासां यातुधानीनाम् । तस्मिन्न् एव श्री-कृष्ण एव । इति भावः इति । दृष्टादृष्ट-कर्मण्य् अपि वर्तमाना जना यत्र श्रवणादीनि कुर्वन्ति तत्रैव प्रभवन्ति, किम् उत यत्र प्राधान्येन कुर्वन्ति तत्र न प्रभवन्तीति, किम् उततरां यत्र कैवल्येन कुर्वन्ति, किमुततमां साक्षाद् एव यत्र स प्रादुर्भूयास्त इति तात्पर्यम् । यातुधानी-पदम् अत्रोपलक्षणम्
न तत्र दानवाः सन्ति न पिशाचा न राक्षसाः । > रक्ष-किन्नर-वेताल-भूत-प्रेत-विनायकाः ॥ > यत्र देवो गृहे विष्णुः कीर्त्यते हि सदा सताम् । इति रामायणात् ।
यत्र स्व-कर्मसु यज्ञादिषु । सात्वतां भर्तुर् हरेः । श्रवणादीनि नरा न कुर्वन्ति, तत्र हि यातुधान्यः सन्तीत्य् अन्वयः । किम्-भूतानि ? रक्षोघ्नानि रक्ष-आदि-निवर्तकानि । यद् वा, सु इत्य् अव्ययं शोभने\ऽर्थे पृथग् एव पदम् । यत्र रक्षोघ्नानि सात्वतां भर्तुः श्रवणादीनि न तत्रैव यातुधान्यः स्व्-अकर्म मारणादि-रूपं सु शोभनं कुर्वन्तीत्य् अन्वयः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तेषां विशेषम् आह—न यत्र श्रवणादीनि । यत्र पुर-ग्रामादिषु श्रवणादीनि न सन्ति, तत्र विचचार इत्य् अर्थः । यत्र च स्वयम् एवावतीर्णः, तत्र चरणे मरणम् एवाभूद् इति भावः ॥३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शिशून् निघ्नन्ती पुरादिषु चचारेत्य् उक्तम् । ननु, तर्हि श्री-नन्द-व्रज-बालानां हन्त ! का वार्तेत्य् अपेक्षायाम् आह—नेति । आदि-शब्दात् कीर्तन-स्मरणादीनि स्वकर्मस्व् अपि साद्-गुण्यार्थं तेषु तेषाम् अवश्यापेक्ष्यत्वात् । सात्वतां भक्तानां भर्तुः पत्युर् इति श्रवणादि-पराणां रक्षा तस्यावश्यं कृत्येति । यद् व, सात्वतानां यादवानां निजाशेषैश्वर्य-प्रकटनार्थं यदु-कुलेऽवतीर्णस्य तस्य श्रवणादि-स्थाने दुष्ट-प्रवेशो न सम्भवतीति भावः । त्व्-अर्थे च-कारोऽनुक्त-समुच्चये वा, अन्ये च दुष्टाः । हि—एव, तत्रैव । अन्यत् तैर् व्याख्यातम् ।
यद् वा, तर्हि किं तदानीन्तनाः सर्वे शिशवस् तया बत हताः ? तत्राह—नेति । भगवच्-छ्रवणादि-स्थान-वर्तिनो बालकाः सर्वे कुशलिन इत्य् अर्थः । तद्-अर्थं तदानीं श्री-भगवद्-अवतारेण सर्वत्र तच्-छ्रवणादि-भक्ति-प्रवृत्त्या तत्-कालीन-बालक-कुल-हननाशक्तेः । ततश् च निघ्नन्तीति निहन्तुम् इत्य् अर्थः ।
अथवा, यत्र भगवतः श्रवणादीनि वर्तन्ते, तत्रापि राक्षस्यो न सन्ति, श्री-नन्द-गोकुले च साक्षाद् वर्तमाने तस्मिन् यत् तस्यास् तत्रागमनम्, तत् केनापि भाग्योदयेन श्री-भगवन्-माहात्म्य-विशेष-कृतेनैवेति भावः । अत एवाग्रे वक्ष्यते, यदृच्छया [१०.६.७] इति ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शिशून् निघ्नन्ती पुरादिषु चचार इत्य् उक्तम् । ननु तर्हि श्री-नन्द-व्रज-बालानां हन्त का वार्ता ? इत्य् अपेक्षयाम् आह—नेति । स्व-कर्मसु यज्ञादिषु तत्-साद्गुण्यार्थान्य् अपि यत्र श्रवणादीनि न कुर्वन्ति, किम् पुनः स्व-प्रधानानीत्य् अर्थः ? सात्वतानां भक्तानां भर्तुर् इति तेषाम् अपि श्रवणादिभिस् ता नश्यन्ति, किम् पुनस् तस्येत्य् अर्थः । त्व्-अर्थे च-कारोऽनुक्त-समुच्चये वा अन्ये च दृष्टा हि एव तत्रैव प्रभवन्तीति शेषः ।
यद् वा, किं तदानीन्तनाः सर्वे शिशवस् तया बत हताः ? तत्राह—नेति । पूर्ववद् अर्थः अन्ये च भगवद्-विमुखाः कंस-पक्षीया ये, तेषां बालाः श्री-भगवता तद्-द्वारैव घातिता इति भावः । इति कंसस्य मौढ्यं दर्शितम् ।
तद् एवं तेन साक्षाद् अधिष्ठितेऽपि तादृश-दुष्टागमनं निखिल-लोकानन्दक-श्री-भगवल्-लीला-विशेष-सम्पत्त्य्-अर्थं तथा तादृश-हेतुकोत्पातश् च तज्-जन्यादीनां तद्-विषयक-प्रेम-विशेष-वर्धनार्थं तदीय-स्वरसानुसारि-लीला-शक्त्यैव सम्पाद्यत इति भावः । लीला-नाम्नी शक्तिश् च श्री-भू-लीलेति मुख्य-शक्ति-त्रये श्री-वैकुण्ठे पाद्मोत्तर-खण्डादि-प्रसिद्धा सैव पाद्म-कार्तिक-माहात्म्यादौ तुलसीत्वेन वृन्दात्वेन च वर्ण्यत इति श्री-कृष्ण-लीलायां वृन्दा-रूपैव सा ज्ञेया यद्-अधिष्ठानं वृन्दावनम् इति ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-कृष्ण-विषये शङ्कमानं राजानम् प्रति विषये2 प्रवृत्ता सैव मरिष्यतीति सूचयन्न् आह—नेति । यत्र पुरादिषु सात्वतां भर्तुः श्रवणादीनि दृष्टादृष्ट-फलेषु स्व-कर्मस्व् अपि वर्तमाना जना न कुर्वन्ति, तत्रैव यातुधान्यः प्रभवन्तीति शेषः । किम् उत यत्र प्राधान्येन कुर्वन्ति तत्र न प्रभवन्तीति । किमुततरां यत्र कैवल्येन कुर्वन्ति । किमुततमां साक्षाद् एव यत्र स प्रादुर्भूयास्त इति भावः ॥१.३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.४ ॥
सा खे-चर्य् एकदोत्पत्य पूतना नन्द-गोकुलम् ।
योषित्वा माययात्मानं प्राविशत् काम-चारिणी ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : योषित्वा वेषतो वरां नारीम् इवात्मानं विधाय । ननु निर्लज्जा निर्विशङ्का च सती कथं पर-सद्मनि प्रविष्टा ? अत आह—काम-चारिणीति । न हि काम-चारिणीष्व् इदं चित्रम् इत्य् अर्थः ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा या प्रेषिता खेचरी बकी । अहो बकीयं किल कालकूटम् [भा।पु। ३.२.२३] इत्य् अत्र श्रवणात् नारीणां हि पर-गृह-प्रवेशे लज्जाशङ्के भवतः । तस्यास्ते कथं नेति शङ्कते—नन्व् इति । कामेन इच्छया चरितुं शीलम् अस्या इति काम-चारिणी, स्वेच्छानुरूप-वपूः-करण-समर्था । योषित्वा योषयित्वा णिज्-लोपस् त्व् आर्षः । निज-सौन्दर्येण सर्व-जनान् मोहयित्वा गृहान्तः-पुरादिषु सहसा प्रवेष्टुम् इति भावः । यद्यपि जगन्-मोहिनी मायापि तत्-सिद्ध-भक्तान् मोहयितुं न क्षमा, तथापि कृष्ण-लीला-शोभा-सिद्ध्य्-अर्थम् ऐन्द्रजालिक-मयेन तान् अपि पूतनादि-माया भगवद्-इच्छया मोहयतीति भावः । इत्य् अर्थ इति—स्वच्छन्देष्व् इदम् एवोचितम् इति भावः । गोपित्वा इति पाठे विधायेत्य् अर्थः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकदा षष्ठ-दिन इति लोक-प्रसिद्धेस् तत्रापि रात्रौ [वि।पु। ५.५.७] इति श्री-पराशर-वैशम्पायनौ । उत्पत्य आकाश-मार्गेणागत्य । उपेत्येति पाठः क्वचित् । यतः खेचरी सा घोरात्वाद् एव योषित्वा ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकदा रात्रौ [वि।पु। ५.५.७] इति पराशर-वैशम्पायनौ । उत्पत्याकाश-मार्गेणागत्य उपेत्येति पाठः क्वचित् । यतः खेचरी सा घोरात्वाद् एव योषित्वेति अत्र योषितं करोतीति णिचि टि-लोपे क्त्वा-प्रत्यये योषायित्वेति वक्तव्ये णिचो लोप आर्षः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि पूतना-वध-लीलाया आवश्यकत्वाल् लीला-शक्ति-प्रेरण-वशाद् एव मृत्युना निमन्त्र्यमाणैव मर्तुं गोकुलं जगामेत्य् आह—सेति । एकदा रात्रौ आकाशम् उत्पत्य गोकुलं प्रविश्य माययात्मानं योषित्वा योषितं कृत्वा, णिज्-लोप आर्षः । सौन्दर्येण सर्व-जनान् मोहयित्वा गृहान्तः-पुरादिषु सहसा प्रवेष्टुम् इति भावः । यद्यपि जगन्-मोहिनी भगवन्-मायापि तान् सिद्ध-भक्तान् मोहयितुं नोत्सहते, तद् अपि कृष्ण-लीला-शोभा-सिद्ध्य्-अर्थम् ऐन्द्रजालिक-मायेव तान् अपि पूतनादि-माया मोहयति भगवद्-इच्छा-वशाद् इति ज्ञेयम् ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.५ ॥
तां केश-बन्ध-व्यतिषक्त-मल्लिकां
बृहन्-नितम्ब-स्तन-कृच्छ्र-मध्यमाम् ।
सुवाससं कम्पित-कर्ण-भूषण-
त्विषोल्लसत्-कुन्तल-मण्डिताननाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तांवनितांपतिं द्रष्टुम् आगतामति-रूपवतींश्रियम् इवगोप्योऽमंसतेत्य् उत्तर-श्लोकेनान्वयः । श्री-साम्यार्थानि विशेषणानि । केश-बन्ध-व्यतिषक्त-मल्लिकां धम्मिल्ल-संसक्त-मल्लिका-कुसुमाम् । बृहता नितम्बेन स्तनाभ्यां चोभयत आक्रान्तम् इव कृच्छ्रं कृशं मध्यमम् उदरं यस्यास् ताम् । सु-वाससं शोभने रमणीये वाससी यस्यास् ताम् । कम्पितयोःकर्ण-भूषणयोस्त्विषोल्लसद्भिःकुन्तलैर्मण्डितम् आननं यस्यास् ताम् ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां स्वेच्छा-रूपं कृत्वा गताम् । श्री-साम्यार्थानि श्री-तुल्यता-बोधकानि । उभयतः पार्श्व-द्वयतः । आक्रान्तं भेद-शङ्कयेव निरुद्धम् ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : व्यति-शब्देन मल्लिकानां बहुधा बन्धन-सौष्ठवं वोध्यते । कर्ण-भूषणयोः कम्पितत्वं लीलागत्य् आदिना । अतएव सर्वतः प्रसरन्त्या तयोस्त्विषा उच्चैर् लसद्भिः शोभमानैः कुन्तलैर् अलकैर् मण्डिताननाम्, वनितां जनितात्यर्थ-रागां स्त्रियम्, अम्भोज-युक्त-करेण हेतुना रूपिणीम् अत्यन्त-सौन्दर्यवतीम्, तेन विशिष्टां वा श्रियम्, अनेन पूतना-कारेऽपि सौन्दर्य-विशेषार्थं लीला-कमलम् ऊह्यम् । यद् वा, अम्भोजेति पूतनाया एव विशेषणम् । अतो गोप्यः श्रियम् अमंसतताम् ॥५.६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ताम् इति युग्मकम् । व्यतीति मल्लिकानां मिथो-योजनया बहुधा सौष्ठवं बोध्यते कर्ण-भूषणयोः कम्पितत्वं लीला-गत्य्-आदिना । अत एव सर्वतः प्रसरन्त्या तयोस् त्विषा उल्लसद्भिर् अलकैर्मण्डिताननां मनो-हरन्तीं मनो-हरवद् आचरन्तीं वनितां जनितात्यर्थानुरागां स्त्रियम् अम्भोज-युक्त-करेण लक्षणेन रूपिणीं श्रियम् एवागताम् अमंसत । श्रीर् अत्र जगत् सम्पत्तिः किं कर्तुम् इव ? पतिं द्रष्टुम् अन्वेष्टुम् इव कञ्चित् पुण्य-लक्षणं जनं निजाश्रयत्वेन वरीतुम् इव तादृश-लक्षणां तु सर्वोपरि श्री-व्रजेन्द्र-तनय एव दृश्यत इत्य् आशयास् ततो न निवारितवत्य इति भावः । अत्र पति-शब्दस्य धववाचित्वं तेषाम् अपि न मतम्, अग्रे च जननी-भावस्यैव दर्शयिष्यमाणत्वात् । अन्यत् तैः ।
तत्र आक्रान्तम् इव आक्रान्तत्वादिव् एत्य् अर्थः । कृच्छ्रं कृशम् इति कार्य-कारणयोर् अभेदोपचारेण तदाक्रमाद्य् अद्दुखं जातं तस्माद् इव कृशम् इत्य् अर्थः । तथा अतिमनोहरणाद् धेतोर् यद्धृतमनस् त्वं तेनेति कर्तृ-धर्म-कर्म-धर्मयोर् भेदाद् अपौनर् उक्त्यम् ॥५-६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.६.६ ॥
वल्गु-स्मितापाङ्ग-विसर्ग-वीक्षितैर्
मनो हरन्तीं वनितां व्रजौकसाम् ।
अमंसताम्भोज-करेण रूपिणीं
गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वल्गु-स्मितापाङ्ग-विसर्ग-वीक्षितैः वल्गु रम्यं स्मितं येषु ते तथा-भूता अपाङ्ग-विसर्गा येषु तैर् वीक्षितैर् व्रजौकसां मनो हरन्तीम् । अतो गोपा हृत-मनस्त्वेन तां न निवारितवन्त इत्य् उक्तं भवति । गोप्यश् च श्रियम् इव मत्वा तूष्णीम् आसन् । अतः केनाप्य् अनिवारिता सती प्रविवेशेति भावः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रियं मूर्तिमतीं रत्नादि-धन-सम्पत्तिम् इवाम्भोज-करेणोपलक्षितां पतिं श्री-व्रजेन्द्रस्येष्ट-देवं नारायणं द्रष्तुम् इवागताममंसत । वनिताम् अत्यनुरागवतीम् । वनिता जनितात्य् अर्थानुरागायां च योषिति इत्य् अमरः । "अहो रूपम् अहो अनुरागः" इति व्रजौकसां मनो हरन्तीम् । इति भाव इति—सुरूप-वस्त्रालङ्कार-युत-निवारणं गृहे विशतो भाग्यवच्-छङ्कया न केनचिद् अपि क्रियते, किं तु विरूपालङ्कार-वस्त्र-हीनस्यैव तत्-क्रियते इति तात्पर्यम् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, कुतस् तत्र श्रीर् घटेत ? तत्राह—पतिं निज-भर्तारं द्रष्टुम् इवागताम् इति । इवेत्य् उत्प्रेक्षायाम्, तत्त्वतस् तद्-अर्थ-तद्-आगमनाभावात् । यद् वा, श्रियम् इव पतिं तासां पालकं श्री-व्रजेश्वर-पुत्रत्वात् । यद् व, पतिं श्री-नारायणं द्रष्टुं निज-लोकाद् आगतां श्रियम् इव तां वनितां गोप्योऽमंसत । तादृशाद्भुत-सौन्दर्य-वेष-सौष्ठवाद् अतिशयेन तत्-तयाभासस्य सम्भवात् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तां श्रियं रूपिणीं मूर्तिमतीं रत्नादि-धन-सम्पत्तिम् इव अम्भोज-करेण उपलक्षितां पतिं श्री-व्रज-राजेष्ट-देवं श्री-नारायणं द्रष्टुम् इव आगताम् अमंसत इत्य् उत्तरेणान्वयः । बृहता नितम्बेन स्तनाभ्यां च उभयत आक्रान्तम् इव कृच्छ्रं कृशं मध्यमम् उदं यस्यास् तां वनिताम् अत्यनुरागवतीं, वनिता जनितात्यर्थानुरागायां च योषिति इत्य् अमरः । "अहो रूपम् ! अहो अनुरागः!" इति व्रजौकसां मनो हरन्तीम् । अत एवैते सहसा\ऽन्तःपुरं प्रविशन्तीम् अपि न निवारयामासुर् इति भावः ॥५-६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.७ ॥
बाल-ग्रहस् तत्र विचिन्वती शिशून्
यदृच्छया नन्द-गृहे \ऽसद्-अन्तकम् ।
बालं प्रतिच्छन्न-निजोरु-तेजसं
ददर्श तल्पे \ऽग्निम् इवाहितं भसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बाल-ग्रहः पूतना असद्-अन्तकं बालं ददर्श । असताम् अन्तकं दृष्ट्वा कथं न बिभेति ? तत्राह । प्रतिच्छन्न-निजोरु-तेजसम्, बाल-नाट्येन प्रतिच्छन्नं तिरोहितं निजम् उरु तेजो येन तम् । कम् इव ? भसि भस्मन्य् आहितम् अग्निमिव इति ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूतना रेवती-ज्येष्ठा-कोटरा-भीषणस्या-शुष्कानन्दादि-भेदैः षोडश बाल-ग्रहा बाल-तन्त्रे प्रोक्ताः । बाल-ग्रहः—पुंस्त्वम् आविष्ट-लिङ्गत्वात् ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विचिन्वतीशिशून् वध-योग्यान् शिशून् विचिन्वती विचारयन्तीति । अतः स्वच्छन्द-हननं नाभूद् एव, यदृच्छया नन्द-गृहे गत्वा सती, असद्-अन्तकं बालं बालकाकारत्वेन प्रतीयमानं प्रतिच्छन्न-निजोरु-तेजसं तल्पे आहितं निहितम् । कम् इव ? अग्निम् इव दहन्तं ददर्श । तल्पे कथम्-भूते ? भसि भवस्तीति भस् तस्मिन्, भस भर्त्सन-दीप्त्योः क्विपि सिद्धम् ॥७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र गोकुले शिशून् विचिन्वन्ती मृगयमाना तल्पे बाल-पर्यङ्के आहितं शयितम् असद्-अन्तकम् अपि बालं बाल्य-लीलां कुर्वन्तं ददर्श । यद् व, असद्-अन्तकम् इति श्री-रौहिणेयो व्यावर्तितः, तस्य कदाचिद् असद्-उपेक्षणात् । एवं तदानीं तस्य स्थितिः श्री-रोहिणी-गृहान्तर् ज्ञेया । बालम् इति सहज-तदीय-बाल्य-लीलापेक्षयैव । किम् वा, भक्ति-विशेषेण श्री-वादरायणेः कौतुकोक्तेः । एवम् अग्रेऽप्य् ऊह्यम् । कथम्भूतम् ? प्रतिच्छन्नं विनष्टं निजं पूतनाया उर्व् अपि तेजो यस्मात् तम् इति परम-तेजस्वितोक्ता । तत्र दृष्टान्तः—भसि अङ्गारे निहितम् अग्निम् इव । तत्र ह्य् अग्नेस् तीक्ष्ण-तेजः-स्फुर्तेः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सेति प्रकरण-वशाल् लभ्यते बाल-ग्रह इति तद्-विशेषणम् एव अजहल्-लिङ्गत्वान् न स्त्रीत्वं, तत्र गोकुले शिशून् विचिन्वती मृगयमाणा । ततश् च यदृच्छया स्वैरितया, भगवत एव तादृश-लीला-शक्ति-प्रेरणेनानुसन्धानं विनापीत्य् अर्थः । सहसा श्री-नन्द-गृह एवागत्य विचिन्वती तम् एव तल्पे ददर्श । यदृच्छा स्वैरिता इत्य् अमरः । असद्-अन्तकम् अपि बालं बाल्य-माधुरीम् आविष्कुर्वन्तम्, अत एव तल्पे आहितं सन्तं प्रतिच्छन्न-निजोरु-तेजसं तद्-आभिमुख्येन छन्न-निज-महा-प्रभावं ददर्श । तत्र दृष्टान्तः—अग्निम् इति । यथा कश्चिद् भस्मन्य् आहितम् अग्निं तादृशं पश्यति, तद्वद् इत्य् अर्थः । व्रजौकसां मनो हरन्तीम् इत्य्-आदिकम् अपि लीला-शक्ति-कौतुकम् एव ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बाल-ग्रहः पूतना असद्-अन्तकं स्व-हन्तारम् अपि स्व-बुध्यत्वेन प्रतीयमानं बालं ददर्श, यतः प्रतिच्छन्नेति भसि भस्मन्य् आहितम् अन्तर् अर्पितं भस्माच्छादितम् अग्निम् इवेत्य् अर्थः ॥७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.८ ॥
विबुध्य तां बालक-मारिका-ग्रहं
चराचरात्मा स निमीलितेक्षणः ।
अनन्तम् आरोपयद् अङ्कम् अन्तकं
यथोरगं सुप्तम् अबुद्धि-रज्जु-धीः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चराचरात्मत्वाद् एव तां विबुध्य निमीलितेक्षण आस । स्वयम् अनन्तं दुष्टानाम् अन्तकं बालं मत्वा सा अङ्कम् आरोपयत् । यथोरगं सुप्तम् अबुद्धिश् चासौ रज्जु-धीश् च सोऽज्ञानतो रज्जु-बुद्ध्या गृह्णाति तद्वत् ॥८
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निमीलितेक्षणः सम्मीलित-लोचनः । अत्रायं भावः—येन नेत्र-योगो भवेत् पुनस् तस्यानिष्टं नोत्पादनीयम् । प्रीतिर् नयन-योगतः इत्य् उक्तेर् मित्र-द्रोहता मयि मा भवेद् इत्य् आलोच्य नेत्र-निमीलनं कृतवान् ।
यद् वा, विष-प्रभावो यथा शिवे न जातस् तथा मय्य् अपि मा भूद् इति नेत्रमीलनेन शिवं दधौ विष-जर्जरताप्तय इति ।
यद् वा, बालघ्न्या दुष्टाया दर्शनमन्याय्यम् इति ।
यद् वा, स्वस्यात्यन्त-बालत्व-भीरुत्व-ज्ञापनाय ।
यद् वा, मद्-दृष्टी-स्वाभाव एवैतद् विधभयजनिका भीतेयं मा निवर्तताम् इति ।
विश्वनाथः । ततश् चानन्तं तम् अङ्कम् आरोपयत् अन्तकं स्वस्येति संहार-शक्तेः सेवावसरो\ऽत्र यस्य देशतः कालतश् चान्तो नास्ति तम् अनन्तम् अप्य् अङ्कम् आरोपयद् अत्र विरोधेनाद्भुत-रसो व्यञ्जितः । अन्तकम् अनन्तम् इति शब्द-विरोधः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, कथं तर्हि भयेन न भग्ना, कुतो वा दुष्टाया असद्-अन्तक-दर्शनम् ? तत्राह—यदृच्छया श्री-भगवन्-महिम्ना केनापि भाग्योदयेनेति । अयं हेतुर् अग्रेऽपि द्रष्टव्यः । तथा तस्य गोप-मनोहर-तादृश-वेषे श्री-गोपीभिर् लक्ष्मी-मनने च, अन्यथा गोप-गोपीभिस् तन्-निवारणापत्तेः । बालकानां मारिका मारी तस्या ग्रहम्, आविष्ट-लिङ्गत्वात् पुंस्त्वम्, निमीलितेक्षणो मुद्रित-नेत्राब्ज आस बभूव, तच् च तस्यामत्यन्त-बालत्व-भीरुत्व-बोधनार्थम् । किं वा, साक्षाद्-दृष्टौ तया ग्रहणाशक्तेः । किं वा, तद्धितार्थावश्य-कृत्येऽपि वधे सर्व-सद्-गुण-निधेः साक्षाल्-लज्जाद्य्-उत्पत्तेः, श्री-रौहिणेयस्य मातृ-वेषत्वात्, मरणे तद्-वैकल्य-दर्शनाशक्तेर् वा ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बालक-मारिका-सञ्ज्ञं ग्रहं चराचरस्यात्मा परमात्मा बाल्य-लीलया सर्व-भाव-ग्रहणात् मुद्रित-नेत्राब्जो बभूव । तच् च तस्यां निजात्यन्त-बालत्व-भीरुत्व-बोधनाय तादृश-दुष्ट-दर्शनाभावाय स्व-दृष्टि-स्वाभाविक-तद्-विध-धर्षणाभावाय तद्धितार्थावश्यक-कृत्येऽपि वधे सर्व-सद्-गुण-निधेः स्वस्य साक्षाल्-लज्जाच्छादनाय मरणे तद्-वैकल्य-दर्शनाभावाय च स्वयम् अनन्तं तादृशानाम् अन्तकं अबुद्धि-विपरीत-ज्ञान-पूर्वकं यथा स्यात् तथाऽरोपयत् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चराचरात्मा इति दुष्टागमनकाले सर्वज्ञता-शक्तेः सेवावसरो दर्शितः तां विबुद्ध्य बाल-स्वभावेनैव निमीलितेक्षण आसदिदीपे निजात्यन्त-बालत्व-भीरुत्व-ज्ञापनाय च तादृशामङ्गल-दर्शनाभावाय च स्व-दृष्टि-स्वाभाविक-तद् विध-धर्षणाभावाय च मातृभाव-दर्शिकायास् तस्याः स्व-कर्तृक-वधे लज्जानुत्पत्त्यैव तन् मरण-वैकल्य-दर्शनाभावाय च मुद्रित-नेत्रत्वं । ततश् चानन्तं तम् अङ्कम् आरोपयत् अन्तकं स्वस्येति संहारिका-शक्तेः सेवावसरः यस्य देशतः कालश् च अन्तो नास्ति तम् अनन्तम् अपि अङ्कम् आरोपयद् इत्य् अर्थ-विरोधेनाद्भुत-रसो व्यञ्जितः । अन्तकम् अनन्तम् इति शब्द-विरोधः यथा सुप्तम् उरगं अबुद्ध्या अल्प-बुद्ध्या हेतुना रज्जु-धीर् जनो गृह्नाति, तद्वद् इत्य् अर्थः ॥८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.९ ॥
तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टितां
वीक्ष्यान्तरा कोष-परिच्छदासिवत् ।
वर-स्त्रियं तत्-प्रभया च धर्षिते
निरीक्षमाणे जननी ह्य् अतिष्ठताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यशोदा-रोहिण्यौ तां कथं न न्यवारयेतां ? तत्राह—ताम् इति । वामं वल्गु जनन्या इव चेष्टितं यस्यास् तां वर-स्त्रियं च सहसैवान्तरा गृह-मध्ये वीक्ष्य । अन्तस् तैक्ष्ण्ये बहिर् मार्दवे च दृष्टान्तः—कोश-परिच्छदासिवत् । मृदु-चित्र-चर्म-मयः कोशः परिच्छद आवरणं यस्यासेः खड्गस्य, तद्वत् । तत्-प्रभयाच धर्षितेऽभिभूते । "अहम् अस्य जननी इयं वा ?" इति मोहिते च सत्यौ जननी जनन्यौ निरीक्षमाणे एव केवलम् अतिष्ठतां, न तु निवारितवत्यौ ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्ण-मातरौ कुत्र गते ? तद् एत्य् अभिप्रेत्य् आह—नन्व् इति । तां पूतनाम् । वामः क्रूरे मनोहरे इति यादवः । जननीति द्वि-वचनम्, कृदिकारादक्तिनः इति ङीब्-अभाव-पक्षेऽयं प्रयोगः । यद् वा, आर्षत्वाद् एकत्वम् ।
कोशोऽस्त्री कुड्मले पात्रे दिव्य-खड्ग-पिधानके । > जाति-कोपेऽर्थङ्घाते पेश्यां शब्दादि-सङ्ग्रहे ॥ इति मेदिनी ।
परिच्छद आवरणे संविधाने विवस्त्रके इति धरणिः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथापि, तां वर-स्त्रियम् अपि । वामं वक्रं चेष्टितं यस्यास् तथा-भूतां तथा तीक्ष्ण-चित्ताम् । तत्र च, अन्तरा सहसा गृह-मध्ये पुत्रान्तिके वीक्ष्यापिजनन्यौ निरीक्षमाणे एवातिष्ठताम्, न तु न्यवारयेताम् । तत्र हेतुः—तस्याः प्रभया शोभया मातृवत् श्नेह-प्रकटन-प्रतिभया वा अवधर्षिते विस्मयेन मोहिते सत्यौ ।
यद् वा, तस्य प्राण-सहित-पुतना-स्तन-पानेच्छोर् भगवतस् तेजसाभिभूते, अन्यथा ताभ्यां निवारणे कृते तया स्वाङ्के तद्-ग्रहणा शक्तेः । अथवा, तीक्ष्ण-चित्ताम् अपि तां वामं मातृवल् लालनादि-वल्गु-चेष्टितं यस्यास् तथा-भूताम्, वीक्ष्य इत्य् अन्तर्-दुष्टता निरस्ता, दुष्ट-जनस्य हि सहसान्य-गृहान्तः-प्रवेशाशक्तेः । तत्रापि वर-स्त्रियम् इत्य् अविश्वसनीयता च । विशेषतश् च तत् प्रभयावधर्षिते निरीक्षमाणे केवलम् अतिष्ठताम्, न तु किञ्चित् कृतवन्तौ । निज-कार्याक्षमत्वे दृष्टान्तः—कोषेति ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ कार्त्स्न्ये काकाक्षि-न्यायेनोभयत्राप्य् अन्वयः । अतीति चित्-सुख-पाठः । वाम-चेष्टितत्वेन दुःख-प्रदता निरस्ता । तत्र अन्तरावीक्ष्य इत्य् अन्तर्-दुष्टतानुमितिश् च खण्डिता, अन्तर्-दुष्ट-जनस्य सहसा पर-गृहान्तः-प्रवेशे सहसा-सामर्थ्यात् । तत्रापि वर-स्त्रियम् इत्य् अविश्वसनीयता च निराकृता । विशेषतश् च तत्-प्रभया मातृवत् स्नेह-प्राकट्य-प्रतिभया धर्षिते जननी इति प्रथमा-द्विवचनस्य पूर्व-सवर्णश् छान्दसः, सुपां सुलुक् पूर्व-सवर्णा [७.१.३९] इत्य्-आदिना ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, यशोदा-रोहिण्यौ कथं तां न न्यवारयेतां ? तत्राह—ताम् इति । वामं वल्गु जनन्या इव चेष्टितं यस्यास् ताम् अन्तरा गृह-मध्य एव वीक्ष्य अन्तस् तैक्ष्ण्ये बहिर् मार्दवे च दृष्टान्तः—मृदु-चर्ममय-कोषः परिच्छद आवरणं यस्य तथा-भूतम् असिर् इवेति यस्याः प्रभया अवधर्षिते अभिभूते मत्-पुत्रस्याभ्युदयाय किम् इयम् अम्बिका ? किम् इयम् इन्द्राणी मूर्तिमती त्रैलोक्य-सम्पत्तिर् वा वात्सल्येन स्तन्यं पाययतीति मोहिते सत्यौ जननी जनन्यौ निरीक्षमाणे एव केवलम् अतिष्ठतां न तु निवारितवत्यौ ॥९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.१० ॥
तस्मिन् स्तनं दुर्जर-वीर्यम् उल्बणं
घोराङ्कम् आदाय शिशोर् ददाव् अथ ।
गाढं कराभ्यां भगवान् प्रपीड्य तत्
प्राणैः समं रोष-समन्वितो \ऽपिबत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मिन् स्थाने दुर्जरं वीर्यं विषं यस्मिंस् तं स्तनं श्री-कृष्णम् अङ्कम् आदाय तस्मै शिशवे ददौ । अथ अनन्तरम् एव प्रपीड्य केवलं विषम-पथ्यम् इति मत्वेव तस्याः प्राणैः सहापिबत् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शिशोर् इति चतुर्थ्य्-अर्थे षष्टी । तत आह—शिशवे । अहि-फेनं रामठेन युक्तं त्व् अविषवद् भवेत् इत्य्-आदि-वाक्यैः केवलं विषम् अपथ्यम् इति रोस-समन्वित इति रोसाः मदीय-व्रज-बालकान् अपीयं जिघांसतीति रोसामयी दुष्ट-संहारिका भगवच्-छक्तिः तस्या अपवित्रान् प्राणान् अपिबत्, न तु स कुठार-समन्वितो वृक्षम् अच्छिनद् इतिवत् ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्मिन् स्थानेऽवसरे वा । घोरात्वं दर्शयति—दुर्जरेति, अत एवोल्बणम् अतितीक्ष्णं स्पर्श-मात्रेणापि मारकम् इत्य् अर्थः । अङ्कं प्रति प्रकर्षेणातिशयेण पीडयित्वा स्तनं भगवान् कारुण्यादि-सद्-गुण-युक्तोऽपि प्राग्-बहुल-बालक-वधेन परम-क्रुद्धः सन् । यद् वा, रोष-समन्वित इव प्राणैः सह पानात्, वस्तुतस् तु परम-कृपामेवाकरोद् इत्य् आह—भगवान् इति । एतच् चाग्रे व्यक्तं भावि ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मिन्न् एव स्थाने इति धार्ष्ट्यम् उक्तं उल्बणं स्पर्शेनापि मारकम् इत्य् अर्थः । अत एव वीर्यं तद् विष-रूपम् एवेति तथा तैर् व्याख्यातम् । आदाय आकृष्य अतो द्विकर्मकत्वम् अपि तत् तंस्तनं व्रज-बालकानाम् अपि वधार्थम् आगतत्वेन रोस-समन्वितः सन् प्राणैः समम् अपिबत् यतो दम्भिन्यां तस्यां दम्भेनैव प्राणापहारो योग्य इति भावः ।
रोष-समन्वितत्वं च तत् स्तन्य-प्राण-पानार्थम् एवोक्तं, ततश् च रोष-रूपं तत्-तेज एव तान् दुष्ट-भाव-मयान् अपवित्रान् अपिबत् अशोषयद् इत्य् अर्थः । कुठार-समन्वितो वृक्षम् अच्छिनद् इतिवत् स्वयं तु तद्-अनुकरण-मात्रं कृतवान् इत्य् अर्थः । फलं तु तद्-अनुकरण-मात्राद् अपि स्याद् इति सर्वत्रैवेत्थं व्याख्येयम् ।
रोषश् चायम् आपातत एव परिणामतस् तु परम-कृपाम् एवाकरोद् इत्य् आह—भगवान् इति । कारुण्यादि-स्वरुणाव्यभिचार्य् एव सन्न् इत्य् अर्थः । एतच् चाग्रे व्यङ्ग्याम् । किं च, इदं बाल्य-लीलावेशेऽपि तादृश-शक्तौ हेतुः तद्-आवेशेऽपि सर्वासां शक्तीनां स्व-समय-प्रतीक्षकत्वाल् लीलानुरूपा प्रवृत्तिः स्याद् एवेति भावः । अन्यत् तैः ।
तत्र अपथ्यम् इति मत्वेवेत्य्-अन्ते विषमय-जन्तोः प्राणा हि तद्-विष-घात्या न भवन्ति, ततस् तद् आत्मतापदनाय तत्-प्राणान् एव स्व-प्राणेषु निभयामीति च गत्वैवेति भावः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मिन्न् एव स्थाने दुर्जरं विष-रूपं वीर्यं यस्य तत् घोरा पूतना शिशोः शिशवे गाढंप्रपीड्येति तया त्याजयितुम् अशक्यः सन्न् इति भावः । रोष-समन्वित इति मदीयं व्रज-बालकान् अपीयं जिघांसतीति रोषमयी दुष्ट-संहारिका शक्तिर् एवापवित्रान् प्राणान् स्तनं च अपिबद् अशोषयत् । न तु स इति कुठार-समन्वितो वृक्षम् अच्छिनद् इतिवत् ॥१०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.११ ॥
सा मुञ्च मुञ्चालम् इति प्रभाषिणी
निष्पीड्यमानाखिल-जीव-मर्मणि ।
विवृत्य नेत्रे चरणौ भुजौ मुहुः
प्रस्विन्न-गात्रा क्षिपती रुरोद ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चरणौ भुजौ च मुहुर् मुहुः क्षिपन्ती । प्रस्विन्नानि स्वेद-युक्तानि गात्राणि यस्याः सा ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
अखिल-जीव-मर्मणि सर्वस्मिन् जीव-स्थाने > यस्मिन् कृत्ते मर्दिते च जीवो नश्यति देहतः । > तद् अङ्गं मर्म विज्ञेयं सूक्ष्मं दुर्ज्ञेयम् एव तत् ॥ इति वाक्यात् ।
कण्ठ-वृषणादीनि मर्माणि । नेत्रे विवृत्य प्रसार्य । मुञ्च मुञ्चेतिवद् अलम् इत्य् अपि वारणे\ऽत्र वीप्साया अभावस् तु वक्तुम् अशक्यत्वाद् एव ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अलम् अत्यर्थम्, प्रभाषिणी उच्चैर् भासमाना, अखिले जीवस्य मर्मणि निवास-स्थाने रुरोदोच्चैर् आर्तनादं चकार, ह हर्षे ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुञ्च मुञ्चेतिवद् अलम् इत्य् अपि निवारणे । अत्र तु वीप्साया अभावः पुनर् वक्तुम् अशक्तत्वात् । अखिले जीव-मर्मणि जीवनाश्रये रुरोद, उच्चैः स-रोदनम् आर्त-नादं चकार । ह हर्षे ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निष्पीड्यमाना अर्थाद् बालकेन चरणौ भुजौ च मुहुर् मुहुर् निक्षिपती ॥११॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.१२ ॥
तस्याः स्वनेनातिगभीर-रंहसा
साद्रिर् मही द्यौश् च चचाल स-ग्रहा ।
रसा दिशश् च प्रतिनेदिरे जनाः
पेतुः क्षितौ वज्र-निपात-शङ्कया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रसाः रसा-तलानि च ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वज्र-निपातो विद्युत्पातः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रसाश् च चेलुः । किं वा, विवरमयत्वात् प्रतिनेदुर् एव, जना इति लोकाः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रसाश् चेलुः प्रतिनेदुश् च दिशस् तु प्रतिनेदुर् एवेत्य् अर्थः । वज्रेति लोके तद् ऊर्ध्व-शब्दस्याप्रसिद्धेः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १०.६.१२ रसा रसातलानि च ॥१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.१३ ॥
निशा-चरीत्थं व्यथित-स्तना व्यसुर्
व्यादाय केशांश् चरणौ भुजाव् अपि ।
प्रसार्य गोष्ठे निज-रूपम् आस्थिता
वज्राहतो वृत्र इवापतन् नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यादाय मुखं विवृत्य । निज-रूपम् आस्थिता मरण-समये कपटम् अयुक्तम् इतीव ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निज-रूपम् उलूकिका-रूपम् । गोष्ठे लक्षणया तत्-समीपदेशे गोदोहार्थावरोधन-स्थले न तु जनवासे च न तु द्रुमाणाम् एव चूर्णितत्वेनोक्तत्वात् । चरणयोः पक्षात्मक-भुजयोश् च विक्षेपणोत्पातात् सा खेचर्येकदोपेत्य इति पूर्वोक्तेः एतादृश-शकथोद्बोधनेन त्वं नॄन्-पासीति सम्बुद्ध्यभिप्रायः । निज-रूपाश्रयणं तु मृत्युपीडितायास् तस्या मायाया नष्टत्वात् तद् रूपस्य च योषित्वा माययात्मानम् इत्य् उक्तेर् मायिकत्वत् कारणाभावे कार्यं स्वयम् एव नश्यतीति भावः । व्यसुः सत्यपतत् ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : व्यथित-स्तनेति व्यसुत्वे स्तन-व्यथाया एव मुख्य-हेतुत्वात् । यद् वा, व्यथितः सव्यथो व्यथितस्येव वा स्वनो नादो यस्याः सा, वृत्र इवेति शरीरस्य वृहत्तरत्वात्, अन्ते सद्गति-प्राप्तेश् च । हे नृपेति प्रहर्षात्, यथा भवादृक् दुष्टेभ्यो नॄन् पाति तथा श्री-कृषोऽपि पूतना-देहाद्-व्रजवासिनो रक्षिता इति भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निज-रूपम् उलूकी-स्वरूपं गोष्ठे लक्षणया गोष्ठ-समीप-देशे गोदोहार्थावरोध-स्थाने न तु जन-वासे द्रुमाणाम् एव चूर्णितत्वेन कथ्यमानत्वात् चरणयोः पक्षात्मक-भूजयोश् च विक्षेपेणोत्पतनात् सा खेचर्येकदोत्पत्येति पूर्व-दशितत्वाच् च नृप ! एतादृश-कथोद्बोधनेन नृन् पासीति भावः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निज-रूपम् आस्थिता मृत्यु-पीडितया तया निज-मायया रक्षितुम् अशक्यत्वात् ॥१३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.१४ ॥
पतमानो \ऽपि तद्-देहस् त्रि-गव्यूत्य्-अन्तर-द्रुमान् ।
चूर्णयाम् आस राजेन्द्र महद् आसीत् तद् अद्भुतम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पतन्न् अपि तस्या देहः पट-कोश-मध्य-वर्तिनो द्रुमांश् चूर्णी-चकार ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पतमानः पीडा-वैयाग्र्य-वशाद् अन्तः पुरात् तस्माद् उप्त्प्लुत्य ग्रामम् अप्य् उल्लङ्घ्य तद्-बहिः-प्रदेशे पतन्न् इत्य् अर्थः । अपि-कारेण न केवलं जीवन्त्य् एव सा जीवान् जङ्घान् अपि तु मृतापीति भावः । षट्-क्रोश-मध्य-वर्तिनो द्रुमान् तावतां द्रुमाणां चूर्णनं द्रुम-मात्र-चूर्णनं ग्रामोल्लङ्घनं चेत्य् अत्यद्भुतं द्रुमाश् च ते कंसारामस्थास् तद्-भोग्य-फला इति वैष्णव-तोषणी ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पतमाणो\ऽपि तद् देह-स्त्रिग्व्यूत्य् अन्तर-द्रुमानित्य् अनेन श्री-कृष्णम् आदाय गृहाद् बहिर्भूतायास् तस्या देह इति मन्तव्यम् । अन्यथा गृहादि-भङ्ग-प्रसङ्गो\ऽपि स्यात् । अथवा, स्तनं पीत्वा अष्ठिर् इव तत् तनुस् तेनैव दूरे निक्षिप्ता ॥१४॥
**सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाह—**पतमान इति । पूर्वं जीवने प्राणोनो मारयामास, अधुना मरणेऽपि बहून् जीवान् जघानेत्य् अपि-शब्दार्थः । यद् वा, पतन्नपीति परमार्ततया । किं वा, , तद् देहोऽपीति बृहत् तरतया सर्व-मारकता सम्भाविता, तथापि षट्-क्रोशी-मध्यवर्तिनो द्रुमान् एव चूर्णयामास, न त्व् अन्यानत एव परम-विस्मयेन सम्बोधयति—राजेन्द्रेति, राजेन्द्रत्वात् तवैवात्र विश्वासः, न त्व् अन्यस्य स्याद् इति भावः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रान्यद् आश्चर्यम् आह—एवेति । न केवलं जीवन्न् एव जीवान् जघान म्रियमाणोऽप्य् अतितराम् इत्य् अपि शब्दार्थः तद् एव षट्क्रोशी-द्रुम-चूर्णित्वं तत्रापि तन् मात्र-चूर्णित्वं च यत् तद् अद्भुतं महद् एवासीत् स एव च तस्याः श्री-भगवल् लीला-शक्तेर् एव महिमा इत्य् अवगमयितुं स्तौति—राजेन्द्रेति ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : [+++]{।मर्क्} त्यन्तर-द्रुमान् पातयामासेति कथं सङ्गच्छताम् ? वस्तुतस् तु गृह-मध्ये गत्वा स्तनं ददौ । तत्रैव ममार च । तत्रैव चेत् शरीर-वृद्ध्या सह मरणम् । तदा गृहादि-भङ्ग-प्रसङ्गः । तद्-अन्यथा-भावे गृहाद् बहिर्भूय कियद् दूरं गत्वा स्तनं ददौ । न तद् अपि सङ्गच्छते । तेन स्तनं पिबतैव तेन ताम् आदाय विनिर्गच्छता पुराद् विदूरे निक्षिप्ता । तद्-आसङ्गेन परितो द्वादश-दण्ड-परिमित-भूभागे ये द्रुमाः स्थितास् ते ते चूर्णा बभूवुर् इति सन्दर्भः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पत्मनानः पीडा-वैयाग्र्य-वशाद् अन्तः पुरात् तस्माद् उप्त्प्लुत्य ग्रामम् अप्य् उल्लङ्घ्य तद्-बहिः-प्रदेशे पतन्न् इत्य् अर्थः । अपि-कारेण न केवलं जीवन्त्य् एव सा जीवान् जङ्घान् अपि तु मृतापीति भावः । षट्-क्रोश-मध्य-वर्तिनो द्रुमान् तावतां द्रुमाणां चूर्णनं द्रुम-मात्र-चूर्णनं ग्रामोल्लङ्घनं चेत्य् अत्यद्भुतं द्रुमाश् च ते कंसारामस्थास् तद्-भोग्य-फला इति वैष्णव-तोषणी॥१४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.१५-१७ ॥
ईषा-मात्रोग्र-दंष्ट्रास्यं गिरि-कन्दर-नासिकम् ।
गण्ड-शैल-स्तनं रौद्रं प्रकीर्णारुण-मूर्धजम् ॥**
अन्ध-कूप-गभीराक्षं पुलिनारोह-भीषणम् ।
बद्ध-सेतु-भुजोर्व्-अङ्घ्रि शून्य-तोय-ह्रदोदरम् ॥**
सन्तत्रसुः स्म तद् वीक्ष्य गोपा गोप्यः कलेवरम् ।
पूर्वं तु तन्-निःस्वनित- भिन्न-हृत्-कर्ण-मस्तकाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ईषा-मात्रोग्र-दंष्ट्रास्यम्, ईषा लाङ्गल-दण्डस् तत् प्रमाणोग्रा दंष्ट्रा यस्मिंस् तत् तथा-भूतम् आस्यं यस्मिंस् तत् तस्याः कलेवरं वीक्ष्य गोपा गोप्यश् च सन्त-त्रसुः । सन्त्रास-हेतुत्वेन पुनर् अष्टभिः पदैर् विशिनष्टि । गिरि-कन्दर-वन्-नासिके यस्मिंस् तत् । गिरेश् च्युतौ स्थूलोपलौ ताव् इव स्तनौ यस्मिंस् तत् । रौद्रं घोरम् । प्रकीर्णा अरुणा मूर्ध-जा यस्मिंस् तत् ॥
अन्ध-कूपाव् इव गभीरे अक्षिणी यस्मिंस् तत् । पुलिन-वद् आरोहौ जघने ताभ्यां भीषणम् । बद्धाः सेतव इव भूजौ ऊरू अङ्घ्री च यस्मिंस् तत् । शून्य-तोय-ह्रद इवोदरं यस्मिंस् तत् ॥
पूर्वम् एव तस्याः शब्देन भीताः पुनर्-दर्शनेनातित-त्रसुर् इत्य् आह—पूर्वं त्व् इति । तस्याः निःस्वनितं शब्दस् तेन निर्भिन्नानि हृत्-कर्ण-मस्तकानि येषां ते ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईषा लाङ्गल-दण्डो रथावयवो\ऽपि । गण्डशैलास्तु च्युताः स्थूलोपला गिरेः इत्य् अमरः ॥१५॥
गभीरे निम्ने निम्नं गभीरं गम्भीरम् इत्य् अमरः । शून्यं तोयं यत्र स चासौ हृदश् च ॥१६॥
तत्-कलेवरं वीक्ष्येति सम्बन्धः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
**सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रौद्रत्वम् एव दर्शयति—**ईषेत्य् अद्यष्ट-विचेषणैः । तत्र च भीषणम् इति पुनर् उत्तिर् जघनयोर् अतिभयङ्करत्वाभिप्रायेण, पूर्वं तस्य निष्ठुरतरं-नादेनाधुना च तादृग् देह-दर्शनेन दैत्य-ज्ञानतः श्री-कृष्णार्थं स्नेहभरेण सम्यक् त्रस्ता बभूवुर् इत्य् अर्थः । स्म प्रसिद्धौ—एतद् व्यक्तम् एवेत्य् अर्थः ॥१५.१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इषेति त्रिकम् । रौद्रत्वम् एव दर्शयति—ईषेत्य् आद्य् अष्ट-विशेषणैः । तथा च भीषणम् इति पुनर् उक्तिर् जघनयोर् अति-भयङ्करत्वाभिप्रायेण तस्या निष्ठुरतरनादेन अधुना च तद् बाल-हरणम् अजानन्तो गोपा गोप्यश् च तादृग् देह-दर्शनेन सम्यक् त्रस्ता बभूवुर् इत्य् अर्थः । स्म प्रसिद्धौ एतद् व्यक्तम् एवेत्य् अर्थः ॥१५.१६॥
अथ बाल-हरणवृत्तं जानन्त्यः श्री-यशोदा-निकटस्था गोप्यस् तु मोह-व्याप्ते श्री-यशोदा-रोहिण्यौ परित्यज्य विद्रुतास् तन् मृतक देहात् तं बालं गृहीत्वा गृहमानीतवत्य इत्य् आह—बालं चेति । तत्र बालम् इति तथापि तल् लीला-मात्राविष्कारेण तासां तद् बुद्ध्या च स्नेह-वृद्धिः सूचिता बालत्वाद् एवाकुतोभयं वस्तुतस् तु न कुतोऽपि भयम् अन्येषाम् अपि यस्मात् तम् अत एव तस्या उरसि क्रीडन्तं सहसावलोक-पूर्वक-श्री-हस्त-पाद-नर्तनादिना क्रीडां कुर्वन्तम् अत एव जातः सम्भ्रमो विस्मयो हर्षावेगो वा यासां तथा-भूताः सत्यः साक्षात् पतित-पूतनामहोच् च देहारोहणेऽप्य् अतिर्यवतयाभिमुखं गत्वा जगृहुः यतो गोप्यः श्री-कृष्णे सहज-स्नेहाकुलत्वेन प्रसिद्धाः तेनैव सर्व-शक्तिमत्यश् चेत्य् अर्थः । तथैव न्यासादित्त्व-ज्ञानम् अपि वक्ष्यते एता हि प्रायः श्री-व्रजेश्वरी-सवयस्का ज्ञेयाः मातृवत् स्नेहेन रक्षाद्याचरणात् ॥१७.१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नेxत् चोम्मेन्त् अत् वेर्से २५।
विश्वनाथः- तस्या कलेवरं वीक्ष्य गोपा गोप्यश् च तत्रसुः । ईशा लाङ्गल दण्डस् तत्-प्रमाणा उग्र-दंष्ट्रा यस्मिंस् तद् आस्य यस्य । पुलिनवद् आरोहो-जघनं तेन भीषणम् । बद्धाः सेतव इव भुजाव् ऊरू अङ्घ्री च यस्मिन् तत् शून्य-तोय-ह्रद इव उदरं यस्मिन् तत् । पूर्वं तु तस्याः शब्देन भिन्नानि विदीर्णानि ह्रदादीनि येषां ते ताश् च ॥१५-१७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : [+++]{।मर्क्}
॥ १०.६.१८ ॥
बालं च तस्या उरसि क्रीडन्तम् अकुतोभयम् ।
गोप्यस् तूर्णं समभ्येत्य जगृहुर् जात-सम्भ्रमाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तूर्णं शीघ्रम् । जातस्-अम्भ्रामाः जात-संवेगाः सम्भ्रमः साध्वसेऽपि स्यात्-संवेगादरयोर् अपि इति मेदिनी । क्रीडतं हस्त-पाद-नर्तनादिना क्रीडां कुर्वतम् । गोप्यः श्री-यशोदा सवयस्का यशोदा-रोहिण्यौ मोह-व्याप्ते परित्यज्य मातृवत् स्नेहाकुला मृत-पूतना-देहात् कृष्णम् उत्तार्य गृहमानिन्युः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बालम् इति तस्मिन् बाल-वुद्ध्या तासां स्नेहभरः सूचितः । न कुतोऽपि भयम् अन्येषाम् अपि यस्मात् तम्, अतएव तस्या उरसि क्रीडन्तं सहासावलोक-पूर्वक-श्री-हस्त-पाद-नर्तनादिना क्रीडां कुर्वन्तम् । यद् वा, न जातं कुतोऽपि तन्-महा-नादादेर् भयं यस्य तथा-भूतं च, अत एव जातः सम्भ्रमो विस्मयो हर्षावेगो वा यासां तथा-भूताः सत्यः सम्यक् पतित-पूतना-महोच्च-देहारोहणेऽप्य् अतिर्यकृतयाभिमुखं गत्वा जगृहुर् यतो गोप्यः सहज-स्नेहाकुलाः सर्व-शक्ति-मत्यश् चेत्य् अर्थः । एता हि प्रायः श्री-व्रजेश्वरी-सख्यो ज्ञेयाः, मातृवत् स्नेहेन रक्षाद्य् आचरणात् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उरसि प्र्वतवद् उतुङ्गे क्रीडन्तं प्रवेष्तुं सूतिकागारम् अनीशानां वनौकसां दिदृक्षापूर्वत इव निष्क्रान्तं स्वपुराद्-बहिः ॥१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.१९ ॥
यशोदा-रोहिणीभ्यां ताः समं बालस्य सर्वतः ।
रक्षां विदधिरे सम्यग् गो-पुच्छ-भ्रमणादिभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समं सार्धम् । सर्वशः सर्व-प्रकारेण । रक्षाविधाने यशोदा रोहिण्योर् अप्राधान्यं तु शोकाविष्तत्वात् तयोस् तत्राशक्तेर् इति ज्ञेयम् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बालस्येति स्नेहभरेण तादृश-रक्षा-योग्यत्वं वोधयति, एवम् अग्रेऽपि । यशोदा-रोहिणीभ्यां समम् इति तयोः प्राक्-पुत्रानिष्ट-शङ्कयातिव्याकुलत्वेन किञ्चित् कर्तुम् अशक्तेस् तत्राप्राधान्यात्, साहित्यं च तयोः सम्यक्-शोकोपशमनार्थं ज्ञेयम् । सर्वश इति द्रव्य-भेदेन बाह्यान्तरादि-भेदेन च सम्यग् उत्तम-प्रकारं यथा स्यात् । आदि-शब्देन सर्षप-निर्मञ्छन-शूर्पकोण-स्पर्शनादीनि ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बालस्येति, स्नेह-भरेण तादृश-रका-योग्यत्वं बोधयति । एवम् अग्रेऽपि यशोदा-रोहिणीभ्यां समम् इति तयोः प्राक् पुत्रारिष्ट-शङ्कयाति-व्याकुलत्वेन किञ्चित् कर्तुम् अशक्तेर् अत्राप्राधान्यात् साहित्यं च तयोः सम्यक् शोकोपशमनार्थं ज्ञेयं सर्वश इति बह्वर्थात्कारकात् माङ्गलिकार्थोऽयं शस्-प्रत्ययः बाह्याभ्यन्तरादि-भेदेन सर्वतैवेत्य् अर्थः । सम्यग् उत्तम-प्रकारं यथा स्यात् आदि-शब्देन सर्षप-निर्मञ्छन-सूर्य-कोण-स्पर्शनादीनि ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रक्षा-विधाने यशोदा-रोहिण्योर् अप्राधान्यं तयोः शोकोत्थ-वैयग्र्यातिशयेन सर्वशः सर्वेष्व् अङ्गेषु आदि-शब्देन सर्षप-निर्मञ्छन-सूर्पकोणस्पर्शादीनि ॥१९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.२० ॥
गो-मूत्रेण स्नापयित्वा पुनर् गो-रजसार्भकम् ।
रक्षां चक्रुश् च शकृता द्वादशाङ्गेषु नामभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वादशाङ्गेषु ललाटादिषु केशवादि-द्वादश-नामभिः ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना सर्षप-निर्मछन-सूर्पस्पर्शादि-ग्रहः । प्रकारम् एवाह—गोमूत्रेणेत्य् आदि । गोशकृता गोमयेन । शकृते इति पाठे गोऋ इति शेषः । द्वादशाङेषु द्वादश-तिलक-स्थानेषु । नामभिस् तत् तत्-तिलक-विहितेः । तथा हि,
ललाटे केशवः पातु नाभौ नारायणोऽवतु । > माधवः पातु हृदये गोविन्दः कण्ठतस् त्व् अधः । > दक्सा-कुक्षौ तथा विष्णुस् तद्-भुजे मधुसूदनः । > त्रिविक्रमस् तु तत्-कण्ठे वाम-कुक्षौ तु वामनः । > श्रीधरो वाम-बाहौ च हृषीकेशस् तु तद्-गले ।
कट्यां पद्मनाभस् तु ककुद् दामोदरो\ऽवतु ॥ इति ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक्त्वम् एवाह—गोमूत्रेणेति ललाटादि-द्वादशाङ्गेषु केशवादि-द्वादशनामभिः शकृता गोमयेन रक्षां चक्रुः । तानि च विविच्योक्तानि पाद्मोत्तर-खण्डे तिलक-निर्माण-विधौ—
ललाटे केशवं धायेन् नारायण-मथोदरे । > वक्षः-स्थाले माधवन्तु गोविन्दं कठ-कूपके ॥ > विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् । > त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥ > श्री-धरं वाम-बाहौ तु रूषीकेशन्तु कन्धरे3 । > पृष्ठे च पद्मनाभं च कट्यां दामोदरं न्यसेत् ॥ इति ।
एतच् च क्रमेण मार्गादि-द्वादश-मासाधिपाः । यद्य् अपि बहवोऽन्य रक्षा-विधयः4 सन्ति, तथापि सहज-परम-वैष्णवतया श्री-भगवन् नाम-रक्षा-विधिर् एव ताभ्यो रोचत इति तथैव रक्षांचक्रुः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् त्वम् एव दर्शयति—गो-मूत्रेणेति । ललाटादि-द्वादशाङ्केषु केशवादि-द्वादश-नामभिः शकृता गोमयेन रक्षां चक्रुः तानि च विविच्योक्तानि पाद्मोत्तरखण्डे तिलक-निर्माण-विधौ—
ललाटे केशवं ध्यायेन् नारायणम् अथोदरे । > वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥ > विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् । > त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥ > श्रीधरं वाम-बाहौ तु हृषीकेशं तु कन्धरे । > पृष्ठे तु पद्म-नाभं च कट्यां दामोदरं न्यसेत् ॥इति ।
एवं सहज-परम-वैष्णवतया श्री-भगवन् नामभिर् एव रक्षाविधिः कृत इति ज्ञेयम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शकृता गोमयेन द्वादशाङ्गेषु ललाटादिषु नामभिः केशवाद्यैः ॥२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.२१ ॥
गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक् ।
न्यस्यात्मन्य् अथ बालस्य बीज-न्यासम् अकुर्वत ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनाचान्ता एव प्रथममति-सम्भ्रमेणैव रक्षां कृत्वा किञ्चिल् लब्धश् चासाः पुनस् तात्पर्येण बीज-न्यासम् अकुर्वतेत्य् आह—गोप्य इति । संस्पृष्ट-सलिला आचान्ताः आत्मनि प्रथमम् अङ्गेषु करयोश् च पृथक् । अजाद्य्-एकादश-बीजानां मध्ये कर-शुद्धौ त्रीणि, करयोः सन्धिषु चत्वारि चत्वारि, तथा अङ्घ्र्य्-आदाव् एकैकस्मिन्न् अङ्गे अजाद्य्-एकैकं बोजं न्यस्य बालस्याप्य् अङ्गेषु तथैवाकुर्वत् ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्भ्रमेण—इति विश्वनाथः । हृत् जीवाधार-पद्मम् । त्रीणि अजो मणिमान्यज्ञश् च मे करौ शोधयन्त्विति वाच्यम् । अच्युतहयास्यकेशवेशा मे दक्षिण-कर-सन्धीन् शोधयन्तु । इन-विष्णुरुक्रमेश्वरा मे वाम-कर-सन्धीन् शोधयन्त्व् इति ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ रक्षान्तरं गोप्य इति श्री-यशोदा-रोहिण्यौ व्यावर्तयति, तयोः पुत्र-स्नेहाकुलतया न्यासादिना रक्षा-विधि-विशेषाशक्तेः । अत एव वक्ष्यते—गोपीभिर् इति । मातेति च । ताभ्यः पृथक्त्वेन न्यस्याजाद् ईश्वरान्तैकादश-बीजानि तेषाम् एव न्यासं चक्रुः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ रक्षानन्तरं गोप्य इति श्री-यशोदा-रोहिण्यौ व्यावर्तयति पूर्ववत् अत एव वक्ष्यतेऽपि गोपीभिर् इति, मातेति च, ताभ्यः पृथक्त्वेन ताभ्यास् तत्र वक्ष्यमाणरीत्या अजादीश्वरान्तैकादश-बीजानि सानुस्वारतत् तद् आद्य् अक्षर-रूपाणि नमः-शब्दान्तानि ज्ञेयानि ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमम् अनाचान्ता एवातिसम्भ्रमेणैव रक्षां कृत्वा पश्चाल् लब्धाश्वासा यथा-विधानम् एव रक्षां चक्रुर् इत्य् आह—गोप्य इति । संस्पृष्ट-सलिला आचान्ता आत्मनि आत्मनः अङ्गेषु करयोश् च न्यस्य अङ्ग-न्यास-कर-न्यासौ कृत्वेत्य् अर्थः । अथ अनन्तरं बालस्य अङ्गेष्व् अङ्घ्र्य्-आदिषु बीजस्याजादि-नामाद्य् एकैकाक्षरस्य सानुस्वारस्य नमः-शब्दान्तस्य न्यासं तेन अं नमोऽजस् तवाङ्घ्री अव्यात् मं नमो मणिमांस् तव जानुनी अव्याद् इत्य् एवं प्रयोगः ॥२१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.२२ ॥
अव्याद् अजो \ऽङ्घ्रि मणिमांस् तव जान्व् अथोरू
यज्ञो ञ्च्युतः कटि-तटं जठरं हयास्यः ।
हृत् केशवस् त्वद्-उर ईश इनस् तु कण्ठं
विष्णुर् भुजं मुखम् उरुक्रम ईश्वरः कम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्घ्रि अङ्घ्री । जानु जानुनी । भुजं भुजौ । कं शिरः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अज इति—
न जातोऽहं न जायेयं न जनिष्ये कदाचन । > क्षेत्रज्ञः सर्व-भूतानां तस्माद् अहम् अजः स्मृतः ॥ इति महाभारते > ।
मणिमान् कौस्तुभ-धरः मणि-धरः क्वचिद् आगणयन् गाः इत्य् अग्रे वक्ष्यमाणत्वाद् वा । गो-गणार्थं तुलस्य्-आदि-मणिधर इति कल्पान्तरीयानुपूर्व्या भाविनाम् असूचनम् । यज्ञे वै विष्णुर् इति श्रुते यज्ञावतार आकूतिसूनुः । इज्यते मखेषु तत् देवतारूपेणेति व्युत्पत्तेः । सर्व-देव-रूपो वा । अच्युतः यास्कोक्त-षड्भाव-विकार-हीनः । शाश्वतं शिवम् अच्युतम् इति श्रुतेः । जठरम् उदरम् । हयास्यो हयग्रीवः । केश-संज्ञिताः सूर्यादि-सङ्क्रान्ता अंशवस् तद्वत्तया केशवः ।
अंशवो ये प्रकाशन्ते ममैते केश-सञ्ज्ञिताः । > सर्वज्ञाः केशवं तस्मान् मामाहुर् द्विजसत्तमाः ॥ इति भारते ।
ब्रह्म-विष्णु-रुद्राख्याः शक्तयः केश-सञ्ज्ञितास् तद्वत्तया वा केशवः ।
को ब्रह्मेति समाख्यात ईशोऽहं सर्व-देहिनाम् । > आवां तवांशसम्भूतस् ततः केशव-नामवान् ॥ इति हरिवंशे ।
कश् चेशश् च केशौ तौ वेति जनयति वी गति-व्याप्ति-प्रजने इत्य् आद्य् अर्थक-धातोः प्रयोगः । त्वद् उरस् तव वक्षः । ईष्टे इतीशः सर्वाधिपः एष सर्वेश्वरः । इनः सूर्य-रूपः स्यादिनः स्वामि-सूर्ययोः इति वैजयन्ती । ध्येयः सदा सवितृ-मण्डल-मध्यवर्ती नारायणः । इति भविष्ये । वेवेष्टि व्याप्नोतीति विष्णुः विप्लृ-व्याप्तौ नुक् प्रत्ययः । वेति दीव्यतीति वीगत्यादौ कान्त्य् अर्थाद् वेतेः ष्णु-प्रत्ययो धातोर् हृस्वश् च । विशेषेण क्रामतीति वि-पूर्वात् क्रमेः ष्णु-प्रत्ययो धातु-लोपश् च पृषोदरादित्वाद् इति । तद् उक्तं महाभारते—
व्याप्ते मे रोदसी पार्थ कान्तिश्चाप्य् अधिका स्थिता । > क्रमणाच् चाप्य् अहं पार्थ विष्णोर् इत्य् अभिसञ्ज्ञितः ॥ इति ।
उरु अधिकम् एकैकपादेनैकैकं भुवनं क्रामति प्रमातीत्य् उरुक्रमो वामनः । इदं विष्णु-विचक्रमे त्रेधा निदधे पदम् इति श्रुतेः । ईश्वरः सर्व-शक्तिमान् एषोऽनन्त-शक्तिः इति श्रुतेः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव विविच्याह—अव्याद् इति । अजादीनां प्रायो नाम-मात्रत्वे तात्पर्यम् । मणिमान् कौस्तुभी । यद्यपि साम्येन सर्वेषाम् एव नाम्नां सर्वत्रोपयोगस् तच् च श्री-भगवन्-नाम-कौमुदी-कारादिभिर् विवृतम् एव । तथापि तत्-तद्-वचनानां मन्त्रात्मकतया तथा तथैव तत्-तच्-छक्तेर् द्रुताविर्भावाभिप्रायेण । किं वा, श्री-विष्णुधर्माद्य्-उक्तानुसारेण प्रयोजन-विशेषापेक्षया तस्य तस्य नाम्नस् तत्र तत्रैव विनियोगः । हृद्-उरसोर् अध-ऊर्ध्व-भाग-भेदेन भेदः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च पद्यैर् एतैर् अक्षां चक्रुर् इत्य् आह—अव्याद् इति । अङ्घ्रिजान्वित्य् अनयोः सुपां सुलुक् [७.१.३९] छान्दस-सूत्रेण सुब्लुक् भुजम् इत्य् अत्र सुपांसुपः इति औट्स्-स्थाने अमादेशः अजाद्याः केशवादिवत् तत् तन् नाम-प्रधाना मूर्ति-भेदाः मणिमानित्य् अपि तन् नामा भगवत् प्रादुर् भाव-विशेषः हृत् जीवाधारपद्मम उरो वक्षः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च पद्यैर् एतै रक्षां चक्रुर् इत्य् आह—अव्याद् इति अङ्घ्री अङ्घ्री मणिमान् तन्-नामा भगवत्-प्रादुर्भाव-विशेषः । जानू जानुनी जङ्घेऽच्युत इति सन्धिर् आर्षः । यज्ञोऽच्युत इति च पाठः । हृत् जीवाधार-पद्मं उरो वक्षः ॥२२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.२३ ॥
चक्र्य् अग्रतः सह-गदो हरिर् अस्तु पश्चात्
त्वत्-पार्श्वयोर् धनुर्-असी मधु-हाजनश् च ।
कोणेषु शङ्ख उरुगाय उपर्य् उपेन्द्रस्
तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा दिक्षु रक्षाम् अकुर्वन्न् इत्य् आह—चक्र्य् अग्रत इति । चक्र-सहितो हरिस् तवाग्रतोऽस्तु । सह-गदो गदासहितो हरिस् तव पश्चाद् अस्तु । त्वत्-पार्श्वयोर् धनुर्-धरो मधु-हासि-धरोऽजनश् चैताव् आस्ताम् । शङ्ख-घर उरुगायश् चतुष्-कोणेषु । क्षिताव् अधस् तात् ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथाङ्गेषु रक्षां गोप्योऽकुर्वस् तथा दिक्ष्वप्य् अकुर्वन्न् इत्य् अर्थः । धनुरसिशब्दौ तद्वति लाक्षणिकौ शङ्ख्योस्यास्तीति शङ्खः मत्वर्थीयोच् । विजयध्वजस्तु—मदुहादयश् चत्वारश् चतुःकोणेष्व् इति जगाद उपरिदेशे—
ममोपरि यथेद्रत्वं स्थापितो गोभिरीश्वरः ।
उपेन्द्र इति कृष्ण त्वां गास्यन्ति भुवि देवताः ॥ इति हरिवंशे ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरुषः पुरुषोत्तमः ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तार्क्ष-सहित उपेन्द्रः पुरुषः पुरुषोत्तमः ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथा दिक्षु रक्षाम् अकुर्वन्न् इत्य् आह—चक्र्य् अग्रत इति । चक्र-सहितो हरिस् तवाग्रतोऽस्तु सह-गदो गदा-सहितो हरिस् तव पश्चाद् अस्तु तत् पार्श्वयोर् धनुर्धरो मधुहा असि-धरोऽजनश् चास्तु कोणेषु शङ्ख-धर ऊरुगायस् तु उपर्य् उपेन्द्रोऽस्तु तार्क्ष्यः क्षिताव् अधस्ताद् अस्तु हलधरः पुरुषः समन्ताद् अस्तु ॥२३॥
॥ १०.६.२४ ॥
इन्द्रियाणि हृषीकेशः प्राणान् नारायणो \ऽवतु ।
श्वेतद्वीप-पतिश् चित्तं मनो योगेश्वरो \ऽवतु ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं बही रक्षां कृत्वान्तरङ्गाम् अकुर्वन्न् इत्य् आह—इन्द्रियाणीति ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तरङ्गा शरीरान्तर्देशेष्व् इत्य् अर्थः । इन्द्रियाणि श्रोत्रादीनि
सूर्याचन्द्रमसौ शश्वदंशुभिः केश-सञ्ज्ञितैः । > बोधयन् स्वापयंश् चैव जगद् उत्तिष्ठते पृथक् ॥ > बोधनात् स्वापनाच् चैव जगतो हर्षणं भवेत् । > अग्निषोम् अकृतैर् एवं कर्मभिः पाण्डु-नन्दन ॥ > हृषीकेशो हयीशानो वरदो लोक-भावतः ॥ इति भारते ।
नरः परमात्म ततो नारायणः ।
यच् च किञ्चज् जगत् सर्वं दृश्यते श्रूयते\ऽपि वा । > अन्तर्बहिश् च तत्-सर्वं व्याप्य नारायणः स्थितः ॥ इति मन्त्रात् ।
श्वेत-दीप-पतिर् अनिरुद्धः । योगेश्वरः कपिलः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अवत्व् इति पुनर् उक्ती रक्षणेऽत्यन्त-वैयग्र्यात् । एवम् अग्रे पातु इत्य् आद्य् अपि । परो भगवान् श्री-वासुदेवः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इन्द्रियाणीति सार्धकम् । अवत्विति पुनर् उक्तिः रक्षणेत्रत्य् अन्तवैयर्थ्यात् एवम् अग्रे पात्वित्याद्यवि परो भगवान् यः स्वयं भगवान् इत्य् अर्थः । सरस्वती-संवादश्चायं तेषां तद् अंशत्वेन ममतास्पदत्वात् स्वस्य स्वयं भगवत्त्वेनवाहन्तास्पदत्वाच् च अंशेनांशस्य रक्षा भवतु स्वयं च स्वस्येति प्रार्थयाम् अह इत्य् अर्थः । अतस् तत् तद् अङ्गावतारास् तद् आवरण-रूपश् च ते इति ज्ञेयम् ॥२४.२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.२५-२९ ॥
पृश्निगर्भस् तु ते बुद्धिम् आत्मानं भगवान् परः ।
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥**
व्रजन्तम् अव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः ।
भुञ्जानं यज्ञभुक् पातु सर्व-ग्रह-भयङ्करः ॥**
डाकिन्यो यातुधान्यश् च कुष्माण्डा ये \ऽर्भक-ग्रहाः ।
भूत-प्रेत-पिशाचाश् च यक्ष-रक्षो-विनायकाः ॥**
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।
उन्मादा ये ह्य् अपस्मारा देह-प्राणेन्द्रिय-द्रुहः ॥**
स्वप्न-दृष्टा महोत्पाता वृद्धा बाल-ग्रहाश् च ये ।
सर्वे नश्यन्तु ते विष्णोर् नाम-ग्रहण-भीरवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानम् अहङ्कारम् ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मानम् अहङ्कारम्—इति विश्वनाथ-सन्दर्भौ ।
नष्टां वै धरणीं पूर्वम् अविदं यद्गुहागताम् । > गोविन्द इति तेनाहं देवैर् वाग्भिर् अभिष्टुतः ॥
इति मोक्ष-धर्मे ।
अहं क्लेन्द्रो देवानां त्वं गवाम् इन्द्रतां गतः । > गोविन्द इति लोकास् त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥
इति । यद् वा,
गौरेषा भवतो वाणी तां च वेद यतो भवान् । > गोविन्दस्तु ततो देव मुनिभिः कथ्यते सदा ॥
इति हरिवंशे ।
मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान् । > तस्मान् माधवनामासि धवः स्वामीति कीर्तितः ॥ इत्य् अपि तत्रैव > ॥२५॥
विगता कुण्ठा नाशो यस्य तद् विकुण्ठं ज्ञानं स्थानं वा तद् विद्यते स्वरूपत्वेनाश्रयत्वेन वास्येति वैकुण्ठ । ज्योत्स्नादित्वादण् यद् वा, जगद् आरम्भे विशिलष्टानि भूतानि संश्लेषयंस् तेषां गतिं प्रत्यबन्धाद् इति वैकुण्ठः ।
मया संश्लेषिता भूमिरद्भिर् व्योम च वायुना । > वायुश् च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥
इति शान्ति-पर्वणि । यज्ञं भुनक्ति ब्रह्म-रूपेण पालयतीति यज्ञभुक् एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वाश्चर्त्विजोभिर् अक्षति इति श्रुतेः । सर्वे गृह्नन्ति स्वञत्तं कुर्वन्त्यनवधानम् इति ग्राहा ब्रह्म-राक्षासादयः सर्वे च ते ग्राहास् तेषां भयङ्करः नरसिंहः ॥२६॥
डाकिनी काल-खण्डं मन्त्रबलेन निष्काष्य भक्षति या सा भवतीति । कौ पृथिव्याम् ऊष्मा यस्मात् तद् अण्डं तेषां ते कूष्माण्डास्ते चोपद्रव-विशेषाः विनायका नायक-हीना विघ्न-विशेषाः विनायकस्तु हेरंवे तार्क्ष्ये विघ्ने जिने गुरौ इति कोशात् । डाकिन्यादयो मातृकाद्यन्ता येर्भक-ग्राहाः अर्भक-रूपेण ये प्राणिनो गृह्नन्ति तेऽर्भक-ग्रहाः पिशाच-भेदा इति केचिद् आहुः अर्भकः कथितो बाले मूर्खेऽपि च इति मेदिनी । ये उन्मादा देहस्मृति-विघातका अपस्माराः ये च देहादि-नाशकाः महोत्पाता धूम-केतूदयादयस् तद्वद् भय-सूचका ये स्वप्न-दृष्टा गर्दभयानकर्दमपातादयः वृद्धा ये बाल-ग्रहाः वृद्धा विद्यन्ते ग्राह्यत्वेन येषां ते मत्वर्थीयोऽच् । कासश्वासादयो रोग-विशेषास्ते सर्वे नाम-ग्रहणेनैव भीरवो भीताः सन्तो नश्यन्त्विति द्वयोः संबन्धः ॥२७.२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : क्रीडन्तं पातु गोविन्दः इत्य् अनेन गोविन्दादीनि नित्य-सिद्धान्य् एव, न तु गोविन्दाभिषेकत एव, गोविन्द आसङ्गव [भा।पु।६.८.२०] इत्य् उक्तेश् च ॥२५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्व-ग्रहाणां भयङ्कर इत्य् अस्य सर्वान्ते निर्देशात् सर्वैर् अप्य् अन्वयः । क्रीडादिषु निज-निज-समये कदाचिद् अशुभानाम् अपि ग्रहाणां तत्-तन्-नाम-विशेषेण दोष-निवर्तनार्थम् । आदि-शब्दाच् च बकी-ज्वाला-मुख्याद्या देव्या गणाः । बाल-ग्रहा इति पुनर्-उक्तिस् तदानीं तस्य बाल्यापेक्षया । केचिद् आहुः—अर्भक-रूपेण ये प्राणिनो गृह्णन्ति तेऽर्भक-ग्रहाः पिशाच-भेदाः इति ॥२५-२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्रीडन्तम् इति च सार्धकम् । गोविन्द इत्य्-आदिकं तु तत् तत् क्रीडानुरूपेण तत्र गोविन्दो गो-मध्ये क्रीडापरः कश्चिद् देव इति तासां भानं माधवः लक्ष्मी-संवाह्यामान-चरणः शेषशायी वैकुण्ठो विकुण्ठासुतो जय-विजय-सनकादि-समाधानार्थं कृपया स्वयं पाद-व्रज्ययैव बहिर् निर्गतो यः स इत्य् अर्थः । श्रियः पतिः परम-व्योम-सिहासनस्थो महा-नारायणः यज्ञभुक् स्पष्ट एवेति सर्व-ग्रह-भयङ्कर इत्य् अस्य सवरप्य् अन्वयः । क्रीडादिषु ग्रहदोषेभ्योऽपि रक्षार्थम् ॥२६॥
डाकिन्य इति त्रिकम् । आदि-शब्दाच् चरकी-ज्वालामुखाद्या देव्यागणः बाल-ग्रहा इति पुनर् उक्तिर् बालके तेभ्यो भयाधिक्यात् केचिद् आहुः अर्भक-रूपेण ये प्राणिनो ग्रह्वति तेऽर्भक-ग्रहाः पिशाच-भेदा इति ॥२७.२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तथाविध-महोपद्रवे श्री-व्रजेश्वरी-प्रभृतिभिः पुरु-पुरन्ध्रीभिस् तन्-नामभिर् एवैतद्-रक्षा व्यधायीति वैचित्र्य्-अर्थं प्रदर्शयति—क्रीडन्तं पातु गोविन्द इत्य्-आदि । गोविन्दादीनि नामानि नित्य-सिद्धान्य् एव—गोविन्द आसङ्गवम् आत्त-वेणुः इत्य् आद्य्-उक्तेः । तेन गोविन्दाभिषेक एव तन्-नामोत्पत्तिर् इति न मन्तव्यम् ॥२५॥ (नो ओथेर् चोम्मेन्त्स् उन्तिल् वेर्से ३५)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.३० ॥
श्री-शुक उवाच—
इति प्रणय-बद्धाभिर् गोपीभिः कृत-रक्षणम् ।
पाययित्वा स्तनं माता सन्न्यवेशयद् आत्मजम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्न्यवेशयच् छादयाम् आस ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्तन-शब्दोऽत्र स्तन्ये लाक्षणिकः प्रणअरशनया बद्धाभिः । स्तन-पानेनैवार्भक-स्वास्थ्य-ज्ञानात् तद् अपाययद् इत्य् अर्थः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवं कृतं रक्षणं रक्षा यस्य तम् । तत्र हेतुः—प्रणयेन स्नेहेन बद्धाभिर् वशीकृताभिर् इति श्री-यशोदा-गृहे बद्धवत् तासां सदावस्थितिस् तथा श्री-भगवद्-अर्थं परम-व्यग्रतया विविध-व्यापार-परता च ज्ञेया । स्तनं पाययित्वेति मातृ-स्नेह-स्वभावतस् तथा लोके स्तन-पानेन बालस्य स्वास्थ्य-ज्ञानाच् च ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति एवं कृतं रक्षणं रक्षा यस्य तं तत्र हेतुः प्रणयेन स्नेहेन बद्धाभिः वशीकृताभिः इति श्री-यशोदा-गृहे बद्धवत् तासां धात्री तया सदावस्थितिः तथा च श्री-भगवद् अर्थः परम-व्यग्रतया विविध-व्यापारपरता च ज्ञेया स्तनं पाययित्वेति मातुः स्नेह-स्वभावतः तथा लोके स्तन-पानेन बालस्य स्वास्थ्य-ज्ञानाय ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रणय-रसनया यशोदा गृहे एव बद्धाभिः पाययित्वा इति स्तन-पानम् एव बालानां स्वास्थ्य-लक्षणम् इति भावः । संन्यवेशयत् शाययामास ॥३०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.३१ ॥
तावन् नन्दादयो गोपा मथुराया व्रजं गताः ।
विलोक्य पूतना-देहं बभूवुर् अतिविस्मिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यावन् माता संन्यवेशयत् तावन् नन्दादय इति संबन्धः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तावद् इति गमने शैघ्र्यम् उक्तम् । मथुरा-पुर्याः सकाशाद् व्रजं व्रजान्तिकं प्राप्ता विलोक्य वर्त्मन्य् एव दूर-प्रदेश-व्यापित्वाद् अतिविस्मिता इत्य् अकस्मात् मृतकस्य पतनाद् बृहत्तरत्वाच् च विस्मितास् तत्र च श्री-वसुदेवोक्त-संवादेनात्यन्तं विस्मिता इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तावद् इति गमने शैघ्र्य-मुक्तं मथुरा-पुर्याः सकाशात् व्रजं व्रज-दर्शन-योग्य-देशं प्राप्ताः विलोक्य दूरतो विविध-कल्पनया नभो-व्यापि-पर्वताकारत्वेन दूरत एव दर्शनासम्भवात् तत्र च श्री-वसुदेवोक्त-सम्बादेनात्यन्त-विस्मिता इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिविस्मिताः किं शक्रेण भ्रमाद् अच्छिन्न-पक्षः कोऽपि पर्वतो नभो-व्यापिनोऽप्य् अत्रत्यान् महीरुहांश् चूर्णयित्वा पपात किं वा वयम् एव साहजिक्या भ्रान्त्या कयापि योगिन्या वा देशान्तरं प्रापिताः स्मः किं वा कस्याप्य् ऐन्द्रजालिकस्येदं कर्मेति सन्दिहाना इत्य् अर्थः ॥३१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.३२ ॥
नूनं बतर्षिः सञ्जातो योगेशो वा समास सः ।
स एव दृष्टो ह्य् उत्पातो यद् आहानकदुन्दुभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्मयम् एवाह—नूनम् इति । बत विस्मये । सांप्रतं स ऋषिस् तपः-प्रभाववान् योगेशो ज्ञानी वा सम्यग् आस । यतः स एव दृष्ट इति ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विस्मयम् अभिनयति—इह यम् इति तच् छब्द-श्रुतेर् ज्ञेयम् । विस्मयम् आह—किं शक्रेण भ्रमाद्च्छिन्न-पक्षः को\ऽपि पर्वतो नभोव्यापिनो\ऽप्य् अत्रत्यान् द्रुमांश् चुर्णयित्वा पपात । किं वा-वयम् एव साहजिकया भ्रान्त्या कयापि योगिन्यां वा देशान्तरं प्रापिताः स्मः । किं वा—कस्याप्यैद्रजालिकस्येदं कर्मेति सन्दिहाना इत्य् अर्थः । व्रजं व्रज-दर्शन-योग्यं देशं प्राप्ता अन्यान्यम् ऊचुः वसुदेवः प्राग् एतादृशो नासीद् अधुना ऋषिरास ऋषि-वाक्यस्यैव प्रामाण्यात् सर्वज्ञत्वाद् अनुमीयते योगेशो वा आस दीप्यते स्म आस दीप्तौ ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतिविस्मितानां तेषाम् अन्योन्योक्तिम् आह—नूनम् इति वितर्के । स आनकदुन्दुभिः प्राग् एतादृशो नासीद् अधुना च ऋषिः सम्यक् जातो वृत्तः । ऋषि-वाक्यस्यैव प्रामाण्यात् । ननु, ऋषित्व-मात्रेण तादृग्-ज्ञानं न स्याद् इत्य् आशङ्क्य पक्षान्तरम् आह—योगेश इति । सम्यग् आस बभूव । सं-शब्दाभ्यां तत्-तन्-निष्ठा बोध्यते । तत्र हेतुः—स एवेत्य् आनकदुन्दुभिर् इति तस्य जन्मनि देवैर् आनकादि-वादनेनार्थ-वितर्कं प्रमाणयन्ति । किं वा तस्य तादृशोक्तौ योग्यतां बोधयन्ति । अन्यत् तैर् व्याख्यातम् । यद् वा, कोऽपि यः पूर्व-जन्मनि ऋषिर् योगेशो वा समास । स एवानकदुन्दुभिः सन् सञ्जातः । अन्यत् समानम् । एवं सर्वज्ञत्वाद् एव सोऽवदद् इति तैर् गोपैर् मतम् । अत एव सुविस्मिताः, न तु कंस-दुर्मन्त्रण-ज्ञानम् इत्य् अन्यथा कंस-दुर्मन्त्रण-कारण-देवी-वाक्य-ज्ञाने सति – ज्ञातं खलु तवान्तकृत् इति तद्-उक्त्या स्व-पुत्रे भगवत्त्वादि-शङ्कायाः सम्भवः । सा चैवं निरस्ता । अत एव श्री-वसुदेवेनापि—सन्त्य् उत्पाताश् च गोकुले [भा।पु। १०.५.३१] इति निर्विशेष-मुक्तम् इत्य् एवम् अग्रेऽप्य् ऊह्यम् ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अति-विस्मितानां तेषाम् अन्योन्योक्तिम् आह—नूनम् इति । वितर्के स प्राहानकदुन्दुभिः प्राग् तादृशो नासीत् अधुना च ऋषिः सम्यक् ज्ञातो वृत्तः ऋषि-वाक्यस्यैव प्राणान्यात् ।
ननु, ऋषित्व-चिह्नं किम् अपि न दृष्टम् इत्य् आशङ्क्य पक्षान्तरम् आह—योगेश इति । अन्तः उपासना-निष्ठः संशब्दाभ्यां तत् तन् निष्ठा बोध्यये । तत्र हेतुःस एवेति आनक-दुन्दुभिर् इति तादृश-जन्मत्वेन योग्यताम्बोधयन्ति, अन्यत् तैः । यद् वा कोऽपि यः पूर्व-जन्मनि ऋषिर् योगेशो वा समास अत्र सनेह एव विकल्पः स एवानकदुन्दुभिः सन् सञ्जातः अन्यत् समानम् एवं सर्वज्ञत्वाद् एव सोऽवदद् इति तैर् मतम् अत एव सुविस्मिताः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र श्री-व्रजराजस् तु निश्चिनोति नूनं निश्चितम् एव ऋषिर् अस्मत्-कुले वसुदेवः सर्वज्ञत्वाद् अनुमीयते योगेशोऽष्ताङ्ग-योगाभ्यासी योगज-नेत्रेण भावि-वृत्त-दर्शित्वात् । समास सम्यग् दीप्यते स्म, अस् दीप्तौ ॥३२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.३३ ॥
कलेवरं परशुभिश् छित्त्वा तत् ते व्रजौकसः ।
दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठ-वेष्टितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् षड्योजनगम । अवयव-शस्तत् तत्-पाद-हस्ताद्य् अवयवं पृथक् अत्राधेरकारलोपश्छान्दसः व्रजौकस उपनन्दाद्य् आदिष्टा अत्यन्ता निश्शेषेण देहं पुनर् जीवन-शङ्कया विषधर-जीवानां दाहेनैवोपशान्तेः ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते गोकुल-रक्षायां श्री-नन्द-नियुक्ता गोपाः । किं वा, पूतना-देह-दर्शनादिना सन्त्रस्ताः सर्वेऽपि व्रज-वासिनो निःशेषेणादहन् पुनर्-जीवन-शङ्कया ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं यावच् छ्री-नन्दादयो निकटम् आयान्ति तावत् तैः गोकुल-रक्षायां स्थितैः श्रीमद्-उपनन्दादिभिर् नियुक्तास् तद् उचिता व्रजौकसो व्रजाश्रिताः कनिष्ठ-जातयो नितराम् अदहन् पुनर् जीवन-शङ्कया निर्देहुर् इति पाठः क्वचित् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रजौकसोऽन्त्यजा उपनन्दाद्य्-आदिष्टाः । निःशेषेणादहन् पुनर्-जीव-शङ्कया विषधर-जीवानां दाहेनैवोपशान्तेः ॥३३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.३४ ॥
दह्यमानस्य देहस्य धूमश् चागुरु-सौरभः ।
उत्थितः कृष्ण-निर्भुक्त-सपद्य् आहत-पाप्मनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्मयान्तरम् आह—दह्यमानस्येति । कृष्णेन निर्भुक्तोऽत एव सपद्य् आहतः पाप्मा यस्य ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् अप्य् अद्भुतम् आह-निर्भुक्तः पान-सम्बन्धेन भोग-विषयीकृतः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अगुरुतोऽप्य् उत्कृष्टं सौरभं यस्य सः । कृष्णेन निजाशेषोत्कर्षाभिव्यञ्जकेन भगवता निःशेषेण भुक्तः प्राणैः सह स्तन-पानाद् अत एव सपदि धूम्राघ्राण-समय एव आ सम्यग् हतो नाशितः पाप्मा धूम-सेविनाम् अपि सर्वेषां येन स चासौ स च तस्य, एवं सपद्य् आहत-पाप्मा । तस्येत्य् एव लेखस् तेषां ज्ञेयोऽन्यथा निर्भुक्त इति प्रथमान्ततया असङ्गतिः । एतद् उक्तं भवति—यथा मुमुक्षुभिर् अर्पितं श्री-भगवद्-उपभुक्तं सद्-विषय-महा-विषयम् अपि संसार-महा-रोग-हरं परमामृतं स्यात् तथा तद् उपभुक्तं पूतना-देहम् अपि परम-निर्दोषं महा-पावनं च जातम् इति तद्-धूम-सौरभ्यं युक्तम् एवेति ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अगरुतोऽपि सौरभं यस्य सः धूमश्चेति चकारेण पूतनया देहोऽपि कृष्ण-निर्भुक्तत्वाद् अगरु-सौरभोऽभूत् तद् वक्त्र-सम्बन्धादिसो\ऽप्य् उच्यते तत्र हेतुः कृष्णेन सौगन्ध्य-सौरूप्यादि-निजाशेषोत्कर्ष-व्यञ्जकेन भगवता निःशेषेण मुक्तः प्राणैः सह स्तन-पानात् अत एव सपदि धूम-घ्राण-समय एव आ सम्यक् हतो नाशितः पाप्मा धूम-सेविनाम् अपि सर्वैषां येन स चासौ स च तस्य एवं भगवद् उच्छिष्टस्य महिमा दर्शितः पवित्रं वस्तु भक्त्या समर्पितं किम् उतेति वक्ष्यते च पूतनेत्य् आदिना ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-देहस्य कृष्ण-मुख-स्पर्शोत्थं महिमानम् आह—दह्यमानस्येति क्न निर्भुक्तेन कृष्ण-कृत-स्तन्य-पानेन सपद्य् आहतः पाप्मा यस्य तस्य ॥३४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.३५-३६ ॥
पूतना लोक-बाल-घ्नी राक्षसी रुधिराशना ।
जिघांसयापि हरये स्तनं दत्त्वाप सद्-गतिम् ॥**
किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने ।
यच्छन् प्रियतमं किं नु रक्तास् तन्-मातरो यथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसङ्गात् कैमुत्य-न्यायेन भक्ति-वैभवम् आह—पूतनेति ॥ श्रद्धया आस्तिक्येन भक्त्या प्रेम्णा । रक्ताः स्निग्धाः । तन्-मातर इति वत्साहरण-लीलाभिप्रायेण बहु-वचनम् । गो-गोपिकास् तदा मातरोऽभवन्न् इति ॥३५-३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भक्ति-वैभवं भक्त्य्-उत्कर्षम् ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्तनं दत्त्वाप सद्-गतिम् इत्य्-आदि । सती माता तस्या गतिम् ॥३५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सतीम् उत्तमाम् । यद् वा, सतां मुमुक्षु-भक्तानाम् इव गतिं, मोक्षावाप्त्या जन्म-मरणादि-दुःख-निवृत्त्या भक्त-प्राप्य-साम्यापत्तेः । तच् च स्तनंदत्त्वा इति स्तन-दान-फलम् इत्य् अत्रोक्तम् । राक्षसी, तत्रापि लोक-बालघ्नी, तत्रापि रुधिराशना । हरय इति तत्-तद्-दोष-हरणाभिप्रायेण परमात्मने आत्मनोऽप्य् अधिक-प्रियायेत्य् अर्थः । अत एव श्रद्धया विश्वासेन, भक्त्या च प्रेम्णा, किं नु किम् अप्य् उत्तमं द्रव्यम् ? तत्रापि कृष्णस्यात्मनो वा प्रियतमं यच्छन् सन् कृष्णानुरक्त-तन्-मातर इव सद्-भक्तिं प्राप्स्यन्तीति किं वक्तव्यम् इत्य् अर्थः । यच्छन्न् इति वर्तमानया तद्-देहे एव तत्-समये एवेति बोध्यते । यद् वा, किं पुनर् वक्तव्यम्—श्रद्धयास्तिक्येन, भक्त्यादरेण, प्रियतमं यथा यच्छन् सद्-गतिम् आप्नोतीति, अतश् च किं वक्तव्यम्—रक्ताः स्निग्धास् तन्-मातरः प्राप्स्यन्तीत्य् अर्थः । किं वा, रक्ताः स्वभावतो\ऽनुरक्ता जना यथा मातरस् तथा प्राप्नुवन्ती ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूतनेति युग्मकम् । जात्या राक्सासी, तत्रापि लोक-बालघ्नी, तत्रापि रुधिराशनाहरय इति तत्-तद्-दोष-हरणाभिप्रायेण परमात्मने मृत-प्रायेष्व् अन्तर् बहिर् इन्द्रियेषु ज्ञान-क्रिया-शक्ति-प्रदत्वेन सामान्यस् तावद् धिताय कृष्णाय विशेषतः पूतनादीनाम् अपि तादृश-हित-कारित्व-रूपो यो गुणैक-देशस् तद्-आदि-गुण-गण-प्रकटनेन सर्व-चित्तानां स्वभावत एव स्वस्मिन्न् आकर्षकाय तस्मै तद्-विद्विषा-भावेन यच्छन्सद्-गतिं सतां गतिं श्री-कृष्णम् एव प्राप्नोतीति ॥३५॥
किं पुनः किम् उतेत्य् अर्थः । तत्रापि श्रद्धया विश्वासेन, किम् उत तत्रापि भक्त्या आदरेण, किम् उत प्रियतमम् इत्य् उक्तेः क्रम-प्राप्त्या चायम् अर्थो लभ्यते—तत्रापि प्रीत्या स्वस्य श्री-कृष्णस्य वा प्रियं यच्छन्, किम् उत तत्रापि प्रीत्य्-अतिशयेन प्रियतरं यच्छन्, किम् उतेत्य् एवार्थः तत्राप्य् अतिप्रीत्य्-अतिशयेन प्रियतमं यच्छन् किम् उत इति । किं च, तत्रापि रक्तास् तद्-एक-जीवनास् तत्-सुखैक-सुखाश् च यथा यच्छन्ति तथा यच्छन्, किन्तु किम् उतेत्य् एवार्थः पुनर् उक्तिः कैमुत्येऽपि वैशिष्ट्याय तत्रापि तन्-मातरो यथा यच्छन्ति, तथा किम् उतेति । अत एव मातरः सर्व-दृष्टान्तत्वेन सर्वोपरि पृथग् एव स्थापिताः । भोजन-विषये मातॄणाम् एव सर्वाधिकराणात् प्रेयस्य्-आदयो\ऽपि न दृष्टान्तिता इति ज्ञेयम् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जिघांसयापि स्तन-प्रदानेन सा जननी-गतिम् एव प्रापेति भगवत्-कारुण्यं प्रदर्शयन्न् आह—पूतना लोक-बाल-घ्नीत्य्-आदि । सद्-गतिं सती माता, तस्या गतिम् ।
जिघांसयापि किम् औदासीन्येन, किमुततरां श्रद्धया, किमुततमां श्रद्धया भक्त्येत्य् अर्थः । हरये भगवत्-प्रादुर्भाव-मात्राय, किमुत कृष्णाय परमात्मने सर्व-परम-स्वरूपायावतारिणे विष-स्तनम् अपि, किमुत विषेतर-वस्तु, किमुततरां प्रियं, किमुततमां प्रियतरं, किमुतातितमां प्रियतमम् । पूतना-नाम्नी राक्षस्य् अपि, किमुत मानुष्यः, किमुततरां भक्ताः, किमुततमां रक्ता अनुराग-युक्ताः । तत्रापि किमुततमां तन्-मातरोऽतिवत्सला वत्सा-हरण-लिला-गतास् तास्व् अप्य् अतितमा अनिर्वाच्यत्वाच् छ्री-यशोदा तु दूरत एव प्रणति-पात्रीकृत्यैव स्थापिता, न तु लिखितेति करण-सम्प्रदान-कर्म-कर्तृ-पदेषु कैमुत्य-मण्डलीयम् । प्रियतमं पायसादि यच्छन् ददत् । किन्नु किञ्चित् ।
विजयध्वजस् तु "किञ्चित् प्रियतमम्" इत्य् एव पपाठ ॥३५-३६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.३७-३८ ॥
पद्भ्यां भक्त-हृदि-स्थाभ्यां वन्द्याभ्यां लोक-वन्दितैः ।
अङ्गं**5 यस्याः समाक्रम्य भगवान् अपि तत्-स्तनम् ॥
यातुधान्य् अपि सा स्वर्गम् अवाप जननी-गतिम् ।
कृष्ण-भुक्त-स्तन-क्षीराः किम् उ गावो\ऽनुमातरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोक-वन्दितैर् ब्रह्मादिभिः । यस्याः पूतनायाः । सा पूतना । जननी-गतिं मातृ-योग्यां गतिं । अपिना तस्यास् तद्-योग्यत्वं सूच्यते । नहि पाप-कृतां रक्षसां स्वर्गो लब्धुं योग्य इति भावः । द्वयोर् अन्वयः । कृष्णेन भुक्तं पीतं स्तन-क्षीरं यासां तास् तथा स्तन-पदेन गवादि-पयो-निवृत्तिः ।
[विश्वनाथः] भगवतो निष्कारण-कृपा-दत्तं पूतना-सौभाग्यं पश्यतेत्य् आह—पद्भ्याम् इति द्वाभ्याम् । भक्त-हृदि-स्थाभ्याम् इति पूतना न भक्ता नाप्य् अभक्ता, किं तु वैरिणीति । ब्रह्म-रुद्रादिभिर् अपि वन्द्याभ्याम् इति । पूतनया तु पादौ न वन्दितौ, नाप्य् अवन्दितौ, किं तु मरण-समये स्व-हृदयान् निष्कासयितुम् अशक्नुवत्या स्व-पाणिभ्यां यथा-बलं तादीताव् एवेति भावः । स्वर्गं वैकुण्ठं, ब्रह्मादयो लोक-पालाः स्वर्-वासं मेऽभिकाङ्क्षिणः [११.७.१]इतिवत् पूतनापि सकुला त्वाम् एव देवापित [१०.१४.३५] इति ब्रह्मोक्तेश् च । तद् अपि जनन्याः यशोदायाः प्रकाश-भेदेन गतिर् यत्र तम् इति गोलोकम् एव, न तु जननी-संबन्धिनीं गतिम् इति । रक्तास् तन्-मातरो यथा इति पूर्वत्र, किम् उ गावो नु मातरः इत्य् उत्तरत्र चोक्तेस् तन्-मातॄणाम् अन्यासाम् अपि तत आधिक्य-प्रतिपादनात् । लेभे गतिं धात्र्य्-उचिताम् [३.२.२३] इत्य् उद्धवोक्तेश् च जननी-पदेनात्र धात्र्य् एव ग्राह्येति ॥३७.३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एतद् एव दूरे विवृणोति । यातुधान्य् अपि सा स्वर्गम् अवाप, जननी-गतिं जननी-लोकम् अवाप, कर्म-लभ्यां गतिम् इत्य् अर्थः । एतेन जनक-जनन्यादीनां पृथक् पृथक् लोको\ऽस्तीति मन्तव्यम् ॥३८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र च तादृश्या अपि तस्यास् तादृश-सद्-गति-प्राप्त्याति-विस्मितत्वात् पुनर् अपि तद् एव प्रस्तवन् मातुर् इव श्री-भगवता तस्या अङ्कम् आक्रम्य स्तन-पानान् मातृवद् गति-प्राप्तिम् आह—पद्भ्याम् इति सार्धेन । भक्तानांहृदि-स्थाभ्यां सदा ध्यायमानाभ्याम् इत्य् अर्थः । लोक-वन्दितैः श्री-ब्रह्मादिभिर् वन्द्याभ्याम् उद्देश-मात्रेण वन्दितुं योग्याभ्याम्, तेषां तद्-ध्याने\ऽप्य् अशक्तेः । सम्यगाक्रम्य अङ्के ग्रहणाज् जनन्याः श्री-देवक्या वा, वत्स-वत्सप-रूप-धारणे स्तन-पानेन मातृता-प्राप्तानाम् इव गतिं प्राप्यम् । तथा चोक्तम् उद्धवेन—लेभे गतिं धात्र्य्-उचिताम् [भा।पु। ३.२.२३] इति ।
ननु तर्हि किं वैकुण्ठ-लोकादिकम् ? नेत्य् आह—स्वर्गम् । तथा च वक्ष्यते– य एतत् पूतना-मोक्षम् [१०.६.४४] इति । यद् वा, जनन्या गतिम्, ताम् एवाभिव्यञ्जयति—स्वर्गम् इति श्री-विष्णु-लोक-विशेषम्, तथा चाग्रे श्री-ब्रह्म-स्तुतौ सद्-वेषाद् इव पूतनापि सकुला त्वाम् एव देवापिता [१०.१४.३५] इति । त्वां त्वत्-सम्बन्धि-सुखम् इत्य् अर्थः । एवम् अन्य-दैत्येभ्यस् तस्या गतौ विशेष उक्तः । अतश् च कृष्णेन भुक्तानि स्तन-क्षीराणि यासां ता गावः, नु समुच्चये, मातरश् च स्वर्गम् अवाप्स्यन्तीति किं वक्तव्यम् ? इत्य् अर्थः । पुनस् तथैवोक्तिः सर्व-सन्देह-निरसनार्थम् ।
एवं तादृशानेक-दोषवत्या जिघांसयैव स्तन-मात्रं दत्तवत्यास् तादृश-गत्य् अवाप्तौ मरण-समये तादृश-श्री-मत्-पादाब्ज-स्पर्श-सौभाग्यम् अपि कारणान्तरं ज्ञेयम्, वस्तुतस् तु तस्या मरणं महा-दुःअ-दर्शनादिना पर-दुःख-कातरस्य श्री-भगवतः कारुण्यभरोदयाद् एव सद् गति-प्राप्तिः । तथा चोक्तम् उद्धवेन तत्-तत्त्वज्ञेन6ततो\ऽन्यं कं वा दयालुं शरणं व्रजेम [भा।पु। ३.२.२३] इति । तत्र च जननीवद्-गतिर् मातृवत्-स्तन-दानेन लालनादि-वल्गु-चेष्टितेन चेति तत्त्वं, सिद्धान्तस् तु लिखित एव ।
अथवा, यातुधान्यपि स्वर्गम् अवाप, अतो गावो जननी-गतिम् अवाप्स्यन्तीति किं वक्तव्यम् ? नु वितर्के । यतस् ता मातर एव । यद् वा, अनुमातर उपमातरः । तत् कुतः ? कृष्ण-भुक्त-स्तन-क्षीराः । अन्यत् समानम् ॥३७.३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, यद्य् एवं दुष्टा, तर्हि कथं सद्-गतिम् आप ? उच्यते—तन्-महिम-दृष्ट्या नाश्चर्यं, तद् अपीति वदंस् तस्यास् ताम् एव सद्-गतिं पुनर् आश्चर्य-विशेषात परम-विशेषतो दर्शयति—पद्भ्याम् अपि युग्मकेन । भक्तानाम् एव नान्येषां हृद्य् एव स्थिताभ्याम् ।
ननु, साक्षात्-कर्तुं शक्याभ्यां ये सर्वैर् अपि लोकैर् वन्दिता श्री-ब्रह्म-शिवादयोऽपि महा-भक्ताः, तैर् अप्य् उद्देश-मात्रेण वन्दितुं योग्याभ्यां, न तु साक्षात् सेव्याभ्यां सम्यग् आक्रम्य, न तु यथा कथञ्चित् स्पृष्ट्वा, यस्याः स्तनम् अप्य् अपिबत् तथा-भूता सती सद् गतिम् आपेति किम् आश्चर्यम् इत्य् अर्थः । तत्र च मातृ-वेष-भावानुकरणे कारणात् तत्-करुणैव कारणम् इति भावः । तद् उक्तं—सद् वेषाद् इव पूतना [१०.१४.३५] इति, कं वा दयालु शरणं व्रजेम [३.२.२३] इति च, ब्रह्मा भवो लोक-पालाः स्वर्-वासं मे\ऽभिकाङ्क्षिणः [११.७.१] इतिवत् स्वर्गं परम-सुखानुभव-स्थानम् । य एतत् पूतना-मोक्षम् [१०.६.४४] इति वक्ष्यमाण-रीत्या प्रपञ्चातीतं, पूतनापि सकुलात्वाम् एव देवापिता [१०.१४.३५] इति रीत्या, गोकुलं वन-वैकुण्ठम् इति श्री-कृष्णोपनिषद्-रीत्या, गोकुलाख्यं महत् पदम् [ब्र।सं। ५.२] इति श्री-ब्रह्म-संहिता-रीत्या च श्री-गोकुलस्यैव प्रापञ्चिक-लोकान् अभिव्यक्तत्वं, चिन्तामणि-प्रकर-सद्मसु [ब्र।सं। ५.२९] इत्य्-आदि-ब्रह्म-संहिता-वर्णित-प्रकार-विशेषं, गोलोक एव निवसत्य् अखिलात्म-भूतो गोविन्दम् आदि-पुरुषं तम् अहं भजामि [ब्र।सं। ५.३३] इति तत्र प्रसिद्ध्या श्री-गोलोकाख्यं श्री-कृष्ण-लोकम् एव । अत एव जननी-रातिं तत्रापि जनन्या श्री-यशोदाया इव गतिं निज-लालनाद्य्-अधिकृत-धात्री-वर्ग-प्रवेशम् इत्य् अर्थः । निषेत्स्यते च जननीनाम् अस्य गतिर् इति भावः । तद् उक्तं—त्वाम् एव देवापिता [१०.१४.३५] इति, लेभे गतिं धात्र्य्-उचिताम् [३.२.२३] इति च ।
ननु, दृषान्तत्वेन मातॄणाम् अपि तत्रैव गतिर् अभिप्रेयते ? नेत्य् आह—कृष्णेति । तस्माद् एव गावो मातरश् च जननी-गतिमवापुर् इति किम् उ वक्तव्यं ? गवस् तास् तदीया गावः एव मातरश् च मातर एव नित्यम् इत्य् अर्थः । अप्रस्तुतानां गवां प्रयोगो मातृषु कैमुत्याय अनुमातर इति वा छेदः । यद् वा, किम् उ गावः ? यतस् ता अनुमातरः मातृ-सदृश्य एव । अतः श्री-यशोदा तु सर्वम् ऊर्ध्व-मणिवद् एव दूरे रक्षितेति ज्ञेयम् । अत्र क्षीर-पदाधिक्यात् पूतनायां तद् अनुकरणम् इत्य् एव च सिद्धम् ॥३७-३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अत आह—यातुधान्य् अपि या स्वर्गम् अवापजननी-गतिम्, सा पूतना स्वर्गं स्वः स्वर्गेषु ब्रह्म-लोक-पर्यन्तेषु गीयते इति स्वर्गं भगवल्-लोकस्यावान्तर-प्रदेश-विशेषम् । कीदृशं ? जननी-गतिं जननी-लोकं नित्य-सिद्धम् । एतेन भगवद्-अवतारेषु या या जनन्यो ये ये वा जनकास् तासां तेषां च पृथक् पृथक् लोकोऽस्तीति मन्तव्यम् ॥३८॥
इति श्री-दशमे बृहत्-क्रम-सन्दर्भे षष्ठोऽध्यायः ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवतो निष्कारणक-कृपा-प्रापितं पूतनायां सौभाग्यं तावत् पश्येत्य् आह—पद्भ्याम् इति द्वाभ्यां । भक्त-हृदि-स्थाभ्याम् इति पूतना न भक्ता, नाप्य् अभक्ता, किन्तु तस्य वैरिणीति भावः । लोक-वन्दितैर् ब्रह्म-रुद्राभिर् अपि वन्द्याभ्याम् इति पूतनया तु पादौ न वन्दितौ नाप्य् अवन्दितौ, किन्तु मरण-समये स्व-हृदयात् सकाशात् निष्कासयितुं यतमानयाप्य् अशक्नुवत्या स्व-पाणिभ्यां यावद् बलं ताडितौ एवेति भावः । सम्यग् आक्रम्य न तु यथा कथञ्चित् स्पृष्ट्वा, स्वर्गं “ब्रह्मादयो लोकपालाः स्वर्-वासं मेऽभिकाङ्क्षिणः” इतिवत् पूतनापि सकुला त्वाम् एव देवापिता [भा।पु। १०.१४.३५] इति ब्रह्मोक्तेः । वैकुण्ठम् एव न तु नश्वरं स्वर्गम् । तम् अपि कीदृशं ? जनन्याः श्री-यशोदायाः प्रकाश-भेदेन गतिर् यत्र तम् इति श्री-गोलोकम् एव । तस्येह स्वर्ग-पदेनोक्त्या सुखैश्वर्योत्तरं सालोक्यम् अवाप, न तु प्रेम-सेवोत्तरम् इति बुध्यते, जनन्याः सम्बन्धिनीं गतिम् इति तु न व्याख्येयम् ।
रक्तास् तन्-मातरो यथा इति पूर्वत्र, कृष्ण-भुक्त-स्तन-क्षीराः किम् उ गावो\ऽनुमातरः इत्य् उत्तरत्र च ततः सकाशात् तन्-मातॄणाम् अप्य् अन्यासाम् अप्य् आधिक्य-प्रतिपादनात् । वैरित्वेन कंसादि-साम्येऽपि यस्या वेष-भावानुकरण-कारणाद् एवैतावत् कृपा-पात्री बभूव । पूतना तस्याः श्री-यशोदाया गतिं प्राप्तुं योग्यतां सा कथं धत्तान् ? इत्य् अत एव लेभे गतिं धात्र्य्-उचिताम् [भा।पु। ३.२.२३] इत्य् उद्धवेनोक्तम् । अत एवात्रापि जननी शब्देन धात्र्य् एव व्याख्येयति केचित् तत्रापि धात्र्य्-उचिता इति शब्देन धात्री-सम्बन्धिनी गतिर् न लभ्यते महाराजोचिता सम्पदस्येत्युक्ते महरज तुल्यैव सम्पत् प्रतीयते न तु महरज-सम्बन्धिनीति तस्मात् सुखैश्वर्योत्तरे गोलोके धात्री सारूप्यं पूतना प्रापेति सिद्धान्तः ॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.३९ ॥
पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतान्य् अलम् ।
भगवान् देवकी-पुत्रः कैवल्याद्य्-अखिल-प्रदः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् द्वाभ्याम्—यासां गवां गोपीनाम् । देवकी-यशोदा वसुदेव-भार्या वा द्वयोर् देवकीनाम् अवत्त्वात् । चतुर्वर्गान्तत्वे\ऽपि कैवल्यस्य प्रेम-पारवश्यात् कैवल्यादीत्य् उक्तं महामुनिना । यद् वा, कैवल्यम् आदि प्रधान यत्र ते कैवल्यादयस्ते च तेऽखिलास् तत्-पदः । कैवल्यस्यादिकारणं धर्मस् ततोऽखिला अर्थ-काम-मोक्षास् तत्-पदः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतः कथम् अपि तन् मातृ तृणां किञ्चिद् अपि दुःखं नैव घटते, किन्तु सर्वथा परम-सुखम् एवेति प्रसङ्गाद् आह—पथांसीति द्वाभ्याम् । यासां पयांसि स्तन्यानि, देवकी-पुत्र इति—कः प्रजा-पतिर्-दक्षः श्री-नन्द एव—नन्दः प्रजापतिर् दक्षः इति भविष्योत्तरे\ऽभिधानात्, कस्य पत्नी देवकी, चासौ की च देवकी यशोदा, तस्याः साक्षाद् एव पुत्र इति गो गोपीभ्यस् तद् उत्कर्षः सूचितः । तासां न कल्पते निज-स्वाभावं दर्शयितुं समर्थो न भवतिः, तत्र हेतुः—अज्ञानेन सम्भवो यस्य स इति श्री-भगवद् भक्ति-विशेषेण तासाम् अशेष-ज्ञान-सिद्धेः । पुनर् इति वाक्यालङ्कारे, त्वर्थे वा पूर्वतो विशेषापेक्षया । किञ्च, कैवल्यं मोक्षः प्रेमा वा, तद् आदिकम् अखिलम् अर्थं भक्तेभ्यो ददातीति तथा सः । अलम् अपिवत्, पाने हेतुः—पुत्र-स्नेहेन स्नुतानि स्वयं क्षरितानि, तत्रापि हेतुः—सुतेक्षणं मम सुतो\ऽयम् इति दृष्टिम् अविरतं कुर्वतीनाम् । हे राजन्न् इति नर-श्रेष्ठेन सर्वत्र प्रकाशमानेन वा त्वया तत् तत्त्वं बुध्यत एवेति भावः । यद् वा, राजमानः सर्वत्र स्फुटं वर्तमानो\ऽपि संसारो\ऽथवातः कथञ्चिद् अपि तासां मोक्षो न युज्यते, किन्तु श्री-वैकुण्ठ-लोक एवेत्य् आह—पयांसीति । सं सम्यक्-सारश्चतुः पुरुषार्थ-श्रष्ठो मोक्षो न कल्पते न योग्यो भवति । तत्र हेतुः—ज्ञानाद् अपि सम्भव उदयो यस्य । परम-भक्तिमतीनां तासां ज्ञान-प्राप्त्यस्यार्थस्यायो०ग्यत्वात् । परम-भक्तिम् एव दर्शयति—अविरतम् इति । अतो भगवान् अपि ताभ्यो मोक्षादिकं तुच्छम् अर्थं न ददातीत्य् आह—कैवल्यं मोक्ष आद्यं श्रेष्ठं येषु तान् अखिलान् अन्यूनान् श्री-वैकुण्ठ-लोकस्य तादृश-स्नेहभरस्य वापेक्षयाति-तुच्छा-दृश्यते ? तत्राह—तासाम् इति संसारो न कल्पते, न युज्यते, नास्त्य् एवेत्य् अर्थः, नित्यम् उक्तत्वात् । अन्यत् समानम् ॥३९.४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्याः स्वरां विशेष्टुं तद् विशेषणं जननी-गतिं विशिनष्टि—पयांसीति, युग्मकेन । अयम् अर्थः कैवल्याद्य् अखिलार्थदः कामिनां धर्मादि-मात्रार्थदः न तु स्व-स्वरूप-व्यञ्जकः मुमुक्षूणां तु कैवल्यदो निर्विशेष-ब्रह्माख्य-स्व-स्वरूप-तादात्म्य-मात्र-प्रापकः न तु सविशेष-भगवद् आख्य-स्व-स्वरूपो-पलम्भकः तथा भगवान् भक्तानाम् अपि भगवत् स्वरूप-मात्रेण न तु ममताविशेषमय-प्रेम-विशेष-प्रदेन पुत्रानिरूपेण तत् प्रापक इत्य् अर्थः । तथा श्री-देवकी-पुत्रः श्री-देवक्या अपि जन्मनैव पुत्रः न तु पितरौ
नन्व् अविन्देताम् इत्य्-आदिना श्लाघिष्यमाण-तादृश-भावमय-लालनेनापीत्य् अर्थः । स एष यासां गवां मातॄणां च अलम् अर्थःं पुत्र-स्नेह-स्नुतं अलम् अर्थम् एवापिबत् परस्परं तद् भावस्य गाढत्वेनाधिक्येन च सर्वोत्तमत्वं दर्शितम् एतच् च इत्थं सतां ब्रह्म-सुखानुभूत्या इत्य्-आदिवज् ज्ञेयम् अतस् तासाम् अज्ञान-सम्भवः संसारः संसारित्वं न पुनर् न तु कल्पते घटते ज्ञानाद् उपर्युपरि समारूढत्वात् संसारिकेषु मुक्तानाम् अपि सिद्धानाम् इत्य्-आदि-न्यायेन शुद्ध-भक्तस्याप्य् एकस्य परम-दुर्लभत्वात् तद् विधानाम् असम्भव इति ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.६.४० ॥
तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणम् ।
न पुनः कल्पते राजन् संसारो\ऽज्ञान-सम्भवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अविरतं सततम् । सन्ताताविरतानिशम् इत्य् अमरः । सुतेक्षणं पुत्र-दृष्टिम् । निरन्तरं सुत-दृष्ट्या भगवत् स्मृतेर् अज्ञानस्य नष्टत्वात् तत्-कृत-संसारः कथं भवेद् इति भावः । देवक्याः सकाशाद् अपि तासाम् आधिक्यं ध्वनितं देवकी-पुत्रो\ऽपि तासां स्तनम् अपिबन् न तु तस्या इति न च तासां संसार-ध्वंस-रूपं फलं दातव्यम् इति वाच्यं संसारो हि देह-गेह-पति-पुत्राद्य् आसक्ति-लक्षणस् तत्रासां देह-संबन्धि स्तन्यामृतं कृष्णः पिबति । गेहे कृष्णः खेलति पतिः कृष्णस्य पिता पुत्रः स्वयं कृष्ण एवेति तदाद्य् आसक्तेः संसारत्वं न घटतेति । अज्ञान-संभाव इति ज्ञानिनां ब्रह्मानुभव एव संसारित्वाभावकरः । ब्रह्माल्नुभवतोऽपि ब्रह्मतया भगवद् अनुभवः श्रेष्ठ इति ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव व्यञ्जयति—अविरतं नित्यम् एव श्री-कृष्णे सुतेक्षणं सुत-भावं कुर्वतीनाम् एव सतीनां यत्र श्री-कृष्णस् तत्र नित्यम् एवैतादृशीनाम् एवेत्य् अर्थः । हे राजन् ! भगवत् तत्त्व-ज्ञाने विराजमानेति सिद्धान्ते सावधानं करोति अतः स्वर्गस्य जननी-गतिम् इति विशेषणेनाप्रापञ्चिकत्वम् एव सुतराम् इति चागतम् ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु किम् उ गावोऽनुमातर इति कैमुत्येन मातॄणाम् अपि वैकुण्ठ प्राप्तिर् एव यद्य् अभिप्रेयते तर्हि वैर-भाव-वात्सल्य-भावयोस् तुल्यत्वापत्तिः सा च भगवत्य् अविवेचकत्व-लक्षणं दोषम् एव समर्पयेत् । यदि च यातुधान्य् अपि सा वैकुण्ठम् अवाप किम् उतानुरक्ताः परम-वत्सलाः मातरो गावश् च, किन्तु तास् ततोऽप्य् उत्तमं फलं लभन्ते स्म इत्य् अभिप्रेयते तर्हि तद् एवाभिव्यज्यताम् । किं तद् ? इत्य् अपेक्षायाम् आह—पयांसीति । अन्येभ्यः कैवल्याद्य्-अखिल-फल-प्रदोऽपि यासां पयांसि । अलं अतिशयेन दुर्लभ-बुद्ध्या अपिबत् । स्तन्यामृतं पीतम् अतीव ते मुदा [भा।पु।१०.१४.३१] इति ब्रह्मोक्तेश् च तेन ताभ्यः किम् अयं वाञ्छितं दास्यति प्रत्युत ता एवास्मै वाञ्छितं ददतीति स्व-वाञ्छित-पूरण-योग्यता लक्षणं फलं गो-गोपीभ्यः कृष्णो ददाव् इत्य् अर्थ आयातः, ततश् च वैकुण्ठ-स्थितेर् गोलोक-स्थितेश् च सकाशात् तत्-तद्-रूपैव स्थितिस् तासां सर्वोत्कृष्टेति सिद्धान्तोऽवगतः देवक्याः पुत्रो ऽपि तासां पयांस्य् अपिबत् न तु तस्या इति ततोऽपि तासाम् उत्कर्षो ध्वनितः । न च तासां संसार ध्वंस लक्षणं फलम् एव दातव्यम् अस्तीति वाच्यम् । संसारो हि देह-गेह-पति-पुत्राद्य्-आसक्ति-रूपस् तत्रासां देह-सम्बन्धि-स्तन्यामृतं कृष्णः पिबति । गेहे कृष्णः खेलति पतिः कृष्णस्य पित । पुत्र स्वयं कृष्ण एवेति तदाद्यासक्तेः संसारत्वं न घटत इत्य् आह—तासाम् इति । सुतेक्षणं सुतभावम्, न तु कल्पते न घटते अज्ञान-सम्भव इति ज्ञानिनां ब्रह्मानुभव एव तावत् संसारित्वाभाव प्रतिपादकः ब्रह्मानुभवाद् अपि शान्तभक्तानां ब्रह्मतया भगवद्-अनुभवः श्रेष्ठः, ततो ऽपि दास्य भाववता भगवतः प्रभुत्वेनानुभवः श्रेष्ठ इति संसाराभावे ऽपि कैमुत्यं भक्ति-रसामृत-सिन्धोर् अवगन्तव्यम् ॥४०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.४१ ॥
कट-धूमस्य सौरभ्यम् अवघ्राय व्रजौकसः ।
किम् इदं कुत एवेति वदन्तो व्रजम् आययुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कटधूमस्य शबधूमस्य शवे श्रोणौ किलिञ्जे च गज-गण्डे भृशे कटे इति शाश्वतः । किम् इदम् इति । किमेतावान् अगुरुधूम इन्द्रपुरान् निस्सृत्य भूतलम् अपि भित्त्वा सुतलं प्रवेष्टुम् उत्सहते किं वा बलि-सद्मनो निर्गत्यामरावतीम् अधिरोहति । किं वा कुबेरपुरा-द्वरुणपुराद् वेति बहुधा सन्दिहानाः धन्यो वसुदेव इत्य् एवं वदतोऽहो विना विष्णुं कोद्य बाल-रक्षां कुर्याद् इति च वदन्तं आययुः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कट-धूमस्य शव-धूमस्य, व्रजौकसो व्रज-वासिनः श्री-नन्दादय एव ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कटः श्मशानम् इति क्षीर-स्वामी व्रजौकसः ये तद्वृत्तान्तात् पूर्वम् अन्यत्र गतास् ते तथा ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रासङ्गिकं सिद्धान्तं समाप्य प्रस्तुतम् आह—कट-धूमस्येति । कटः श्मशानम् इति क्षीरस्वामी, कुतः किम् इदम् इति किमेतावान् अगुरु-धूप-धूम इन्द्रपुरान् निस्सृत्य भूतलम् अपि भित्वा सुतलं प्रवेष्टुम् उत्सहते किं वा, बलि-सद्मतो निःसृत्यामरावतीम् अघिरोहति किम् उदीच्यात् कुबेर-पुरात् किं वा प्रतीच्याद् वरुणालयाद् इत्य् एवं बहुधा सन्दिहाना इत्य् अर्थः ॥४१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.४२ ॥
ते तत्र वर्णितं गोपैः पूतनागमनादिकम् ।
श्रुत्वा तन्-निधनं स्वस्ति शिशोश् चासन् सुविस्मिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते नन्दादयः । तत्र व्रजे तन् निधनं पूतना-मरणम् ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपैर् गोकुल-रक्षार्थं नियुक्तैर् अन्यैश् च गोकुल-स्थितैर् अग्रे\ऽभिगतैः । तत्र व्रजे पूतना-गमनादिकम् आदि-शब्दात् [पूतनायाः] स्तन-दान-महार्तनादादि ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ते पूर्वोक्ताः श्रीमन् नन्दादयश् च सम्प्रत्यागताः गोपैः श्री-गोकुल-रक्षा-नियुक्तादिभिः तत्र व्रजे पूतनागमनादिकं विशेषतः श्रुत्वा आदि-शब्दात् स्तन-दान-महार्तनाद् आदि शिशोश् च स्वस्ति श्रुत्वेति तेन सुविस्मयेन वात्सल्य-पोषणं ध्वनितम् ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुविस्मिता इति धन्यो वसुदेवः सत्यम् आह-ईदृश्याम् अपि विपत्तौ शिशोः स्वपि नारायणं विना कः कुर्याद् इत्याद्य् उक्तवन्तः ॥४२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.४३ ॥
नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः ।
मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रोष्य प्रवासं कृत्वा ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तेष्व् अपि नन्दस्य वैशिष्ट्यम् आह—नन्द इति । सम्भ्रमे गते सति परमां मुदं लेभे । तत्र हेतवः—नाम्नैव ताच् छ्री-नन्दः । तत्राप्य् उदार-धीः दयादि-गुण-गणार्णव-मानसः । तत्रापि स्व-पुत्रम् आदाय अङ्के कृत्वा । तत्रापि मूर्ध्न्य् अवघ्राय इति । किन्तु प्रोष्य आगत इति "हन्त मत्-प्रवासाद् एवानर्थो जात इति पश्चात्तापवान् अपीति गम्यते । कुरूद्वह ! इति पूर्ववत् । एतद् आरभ्य च श्री-कृष्णस्याधोक्षजेत्य्-आख्या व्रज-जनैः कृता, यथा च श्री-हरिवंशे वासुदेव-माहात्म्ये—
अधोऽनेन शयानेन शकटान्तर-चारिणा । > राक्षसी निहता रौद्रा शकुनी-वेष-धारिणो ॥ > पूतना नाम घोरा सा महा-काया महा-बला । > विष-दग्धं स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥ > ददृशुर् निहतां तत्र राक्षसीं वन-गोचराः । > पुनर् जातोऽयम् इत्य् आहुर् उक्तस् तस्माद् अधोक्षजः ॥ इति ॥४३॥
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१२८] एवं सामान्येन द्वयोर् अपि तयोर् माहात्म्यम् उक्तम् अधुना तत्र विशेषेणादौ श्री-नन्दस्य पूतना-मोचनाख्यानान्ते श्री-शुक-पादाः श्री-मधु-पुरी-सकाशात् स्वव्रजम् आगतस्य श्री-नन्दस्य चरितम् आहुः—नन्दः [भा।पु। १०.६.४३] इति
स्वस्य पुत्रम् इति वसुदेवस्य तादृश-भावोक्त्यापि तथा महाराक्षसी-पातनेन व्रजौकसां विस्मयोत्पत्तिं सम्भाव्य ऐश्वर्यादि-शङ्कयापि नन्दस्य तस्मिन् पुत्रत्वाभि-मानस्यापगम-कारणे वर्तमाने\ऽपि न कथञ्चिद् अपि सो\ऽपगत इति स्व-शब्द-प्रयोगेण स्नेहातिरेकं दृढयन्ति । अत एव आदाय स्वाङ्के गृहीत्वा समालिङ्ग्येत्य् अर्थः । किं च, मूर्ध्नि पुत्रस्य अवघ्राय तद्-घ्राणम् आदाय एतच् चात्यन्त-स्नेह-लक्षणम् मुदम् आनन्दं परमाम् उत्कृष्टां परमान्त्य-सीमा-गताम् इत्य् अर्थः ।
यद् वा, भिन्ना पृथग्-भूता मा लक्ष्मीर् अपि यस्यां तां सर्व-भक्त-गण-पूज्यतमया महा-लक्ष्म्याप्य् अलभ्याम् इत्य् अर्थः । तत्र हेतुः—उदार-धिईः उदारा दान-शीला धीर् यस्य सः, एकदैव भगवज्-जात-कर्मणि तत्-तन्-महा-दान-करणात् । किं वा, महा-बुद्धिः सर्व-नैरपेक्ष्येण श्री-ब्रह्मणि भगवद्-भक्ति-वरैक-प्रार्थनात् ।
ननु तर्हि जात-योनौ महा-देवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात् परमा [भा।पु। १०.८.४९] इति प्रार्थना-साम्येन श्री-यशोदाया अपि तादृश एवानन्दः स्यात् । किं च, लोके पितुः सकाशात् पुत्रे मातुर् अधिक-स्नेहो दृश्यत इति कथं श्री-नन्द एव तत्र विशिष्यते ? तत्राहुः—प्रोष्य मथुरा-गमनेन प्रवासं कृत्वा निज-गृहम् आगतः सन्न् इति । दूर-गमनेन चिराद् दर्शनाज् जातया परमोत्कण्ठया प्रियतम-जन-दर्शनेन स्वत एवानन्दाधिक्यं स्याद् इति भावः । श्री-यशोदायां तु सदैव तादृशः स्नेह इति ज्ञेयम् । यद्यपि तादृशानां महत्तमानां भगवति स्नेहः परमाम् एव काष्ठां गतो\ऽतो न जातु क्षीयते न वर्धते चेत्य् एवं प्रोष्यागमनादिना परम् अन्यन् न सम्भवेत्, तथापि लोक-व्यवहारापेक्षया तथोक्तम् । यद् वा, इदम् एव परम-प्रेम-सम्पदः प्रतिक्षण-नूतनत्वादि-विचित्र-माधुर्य-विशेषोदयेन मुक्तैर् अप्य् अधिकं माहात्म्यम् । तच् च पूर्वं विस्तारेणोक्तम् एवास्ते । अत एव परमाश्चर्येण सम्बोधनम्—हे कुरूद्वहेति ॥१२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तादृश-महा-विस्मये\ऽपि श्री-नन्दस्यानन्द-भरो\ऽभूद् इत्य् आह—नन्द इति । परमां मुदं लेभे । तत्र हेतवः—स्वस्य पुत्रम् आदाय अङ्के गृहीत्वा, स्व-शब्देन श्री-वसुदेव साकुतोक्त्यापि स्वकीय-पुत्र-ज्ञानान् अपगमात्, तथा कस्मात् पूतना-पात-जनित-महा-विस्मयानुमेयैश्वर्य-ज्ञानानुदयात् स्नेह-विवृद्धेः । किञ्चोदार-धीर् महा-शयस् तादृश-विस्मयेनाप्य् अक्षोभितचित्वात् । किं वा, सहज-श्री-भगवत्-स्नेहार्द्र-हृदयत्वात् । किञ्चन, मूर्द्ध्नि पुत्र या-वघाय तद् आघ्राणम् आदाय, एतच् च स्नेह-विशेष-लक्षणम् । एषां परमम् उदा उपलब्धि-हेतुत्वेन यथोत्तरं श्रैष्ठ्यम् । कुरूद् वहेति कुरू-कुल-सन्तान-बीजस्य परम-भागवतस्य तव दर्शनादिना श्री-युधिष्ठिरादयो यथा परमानन्दं प्रापुर् इति । किं वा, श्री-नन्दस्य महा-भाग्यानुसन्धानेन प्रहर्षात् सम्बोधयति ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेष्व् अपि नन्दस्य वैशिष्ट्यम् आह—नन्द इति । सम्भ्रमे गते सति परमां मुदं लेभे । तत्र हेतवः नाम्नैव तच् छ्री-नन्दः, तत्राप्य् उदारधीः दयादि-गुण-गणार्णव-मानसः । तत्रापि स्व-पुत्रम् आदाय अङ्के कृत्वा प्रोष्वागता तत्रापि मूर्द्ध्न्यवघ्रायेति किन्तु प्रोष्वागत इति हन्त मत् प्रवासाद् एवाननर्थो जात इति पश्चात्तापवान् अपीति गम्यते कुरूद्वहेति पूर्ववत् एतद् आरभ्य च श्री-कृष्णस्याधोक्षजेत्य् आख्या व्रज-जनैः कृता यथा च श्री-हरिवंशे वासुदेव-माहात्म्ये—
अधोऽनेन शयानेन शकटान्तर-चारिणा । > राक्षसी निहता रौद्रा शकुनी-वेषधारिणो ॥ > पूतना नाम घोरा सा महा-काया महा-बला । > विष-दग्धं स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥ > ददृशुर् निहतां तत्र राक्षसीं वन-गोचराः ।
पुनर् जातोऽयम् इत्य् आहुर् उक्तस् तस्माद् अधोक्षजः ॥ इति ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रोष्य आगत इति "हन्त! मत्-प्रवासाद् एवैतावान् अनर्थो जात इति किम् अहं मथुराम् अगच्छम् ?" इति पश्चात्-तापः । उदार-धीर् इति "हन्त! निर्बुद्धयो द्वार-पाला अपि केऽपि तां पुरं प्रवेष्टुं न न्यषिद्धन् ?" इति सर्वेषां धियो निनिन्द ॥४३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.६.४४ ॥
य एतत् पूतना-मोक्षं कृष्णस्यार्भकम् अद्भुतम् ।
शृणुयाच् छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् आर्भकम् अर्भक-चरितम् । किं तत् ? पूतना-मोक्षम् इति ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अद्भुतम् अतीव बालेनाति-विस्तृत-देह-पातनस्य दुर्घटत्वाद् आश्चर्यकरम् ॥इति ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो किं वक्तव्यम्-स्तन-पानादिना श्री-कृष्ण-प्रभावात् पूतना-मोक्षादिकम् ? तद् वार्ता-श्रवणेनापि तस्मिन् प्रेमापि सर्वो विन्दतीत्य् आह—यैति, यो मर्त्यः शृणुयाद् इत्य् अधिकार पेक्षा निरस्ता, मर्त्य इति प्रायस् तस्यैव श्रधया तच् च्रवणादि-सम्पत्तेः, स गोविन्दे श्री-गोकुलेन्द्रे भगवति इति लभते—तादृश-दुष्ट-पूतनाया अपि सद्-गति-दान-तस् तदीय-कारुण्य महिमा-लोचनेन स्वतो भक्ति-सम्पत्तेः । निशम्येति पाठे—स एव श्रद्धा-युक्तो मनुष्य । यद् वा, यः श्रद्धया विशिष्टो भवति, स रतिं लभते स एव मर्त्य अकार-प्रश्लेषेणा-मर्त्यो वा-मरण-लक्षण-संसार-धर्मातीत्त इत्य् अर्थः । पाठस् त्वयं तेषाम् असम्मतो\ऽसङ्गतस्याप्य् अस्याव्याक्यानात् ।
अविद्यायाः क्षयाद् एव लभ्योऽहम् इति तन्मयीम् ।
प्राग् अहन् पूतनां कृष्णो राघवस् ताडकाम् इव ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो पूतनायाः साक्षात् सम्बन्धादिना तादृश्याङ्गतौ किम् आश्चर्यं तद् वार्ता-श्रवणेनापि सर्वोऽपि तस्मिन् रतिम् अपि लभत इत्य् आह—य इति । यो मर्त्यो मरण-धर्मा यः कश्चिद् एतच् च्री-कृष्णस्याद्भुतार्भक-चरितं श्रृणुयात् स गोविन्दे गोकुलेन्द्रे भगवति रतिं लभते इत्य् अर्थानुसन्धाने सति कारुण्य-विशेषालोचनात् फलस्य शैघ्य्र-वैशिष्ट्ये गम्येते कीदृशं पूतनाया अपि मोक्षः संसारात् तुच्छ-फलान्तराच् च निर्गमो येन तत् अत एवाद्भुतम् अर्भकमावापरित्यागेऽपि तादृश-मारण-मोक्षणादिना विस्मय-कौतुकावहं निशम्येति पाठे यस् तस्मिन् निशम्य भवति स श्रद्धया सह रतिं पाठस् त्व् अयं तेषाम् असम्मतः असङ्गतस्याप्य् अस्याव्याख्यानात्—
अविद्याया क्षयाद् एव लभ्योऽहम् इति तन्मयीम् । > प्रागहन् पूतनां कृष्णो राघवस् ताडकाम् इव ॥
किं च—
आरम्भाद् एव लीलाया बकी-धात्री-गति-प्रदः । > कृष्णः स्व-गुण-माधुर्ये तृष्णयामास वैष्णवान् ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : य एतत् आर्भकम् अर्भक-चरितं पूतनाया अपि मोक्षो यत्र तत्, अत एव अद्भुतं शृणुयात्, स रतिं लभते । निशम्य पाठे तुष्येत् तिष्ठेद् इति वाध्याहार्यम् । यद् वा, यः श्रद्धया निशम्य लभते स गोविन्दे गोविन्द-विषयक-रतिमान् भवेद् इत्य् अर्थः ॥४४॥
इति सारार्थ-दर्शिन्यं हर्षिण्यां भक्त-चेतसाम् ।
षष्ठो ऽध्यायो ऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥
इति श्री-विश्वनाथ-चक्रवर्ती-ठक्कुर-कृता
श्री-भागवत-दशम-स्कन्धे षष्ठोऽध्यायस्य
सारार्थ-दर्शिणी टीका समाप्ता।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
(१०.७)