गोकुले भगवतो जातकर्मादि-महोत्सवः, नन्दस्य मथुरा-गमनं, तत्र नन्द-वसुदेव-संवादः ।
॥ १०.५.१ ॥
श्री-शुक उवाच—
नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः ।
आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिर् अलङ्कृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
पञ्चमे जातकं नन्दः सूनोः कृत्वा महोत्सवम् ।
गत्वाथ मथुरां प्राप- वसुदेवागमोत्सवम् ॥
महा-मना उदार-चित्तः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सूनोः पुत्रस्य । महोत्सवं जात-कर्मादौ महा-दानादि-रूपम् [१] । नन्दस् त्व् इति युग्मम् । आत्मनो हृदयाज् जायत इत्य् आत्मजः हृदयाद् अभिजायते इति श्रुतेः । आत्मजत्वं चेह पुत्र-भावेनात्मनि प्रादुर्भूतत्वम् एव नान्यद् ग्राह्यं तत्-खलु आविवेशांश-भागेन मन आनकदुन्दुभेः—ततो जगन् मङ्गलम् अच्युन्ताशं समाहितं शुरसुतेन देवी इत्य्-आदिवच् छ्री-नन्द-यशोदयोर् अपि गम्यते
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे।उ। ६.२३] इति श्रुतेः ।
इत्य् आह—महा-मना इति भक्तिः स्यान् नौ महादेवे इत्य् अग्रे वक्ष्यमाणत्वाद् भक्त्या अत्यन्तताद् आत्म्यापत्या मह छ्री-कृष्ण एव मनो यस्य सः । यद् वा, श्री-कृष्ण-धारण-सामर्थ्येन महन् मनो यस्य । यद् वा, महान् श्री-कृष्नो मनसि यस्येति चन्द्र-शेखर-वत्समासः । उपलक्षणं चैतच् छ्री-यशोदाया अपि । उत्पन्नत्वं नाम तथात्मनोर् महिस् तदृश-तत्-प्राकट्यम् एव तच् चानयोस् तन् निर्विशेषम् एव ।
ननु, नन्दस् त्व् आत्मज उत्पन्ने [भा।पु १०.५.१] इह विनापि तु-शब्दं पाद-पूर्तेस् तद् अर्थं तुकार-कल्पना ध्येति न च तुकारस् तर्हि व्यर्थ एव आत्मनो जात आत्मजस् तस्मिन् जनि-धातु-प्रयोगाद् एवाभीप्सित-सिद्धेर् न तु-शब्दौ नन्द-गृहे उत्पत्तिं साधयतीति वाच्यम् । उपगुह्यात्मजाम् एव इहान्योत्पन्ने\ऽप्य् आत्मज-प्रयोगात् । किं च नादीच्छेदात्-पूर्वम् एव जात-कर्मोपक्रम-श्रवणात् नादी-छेदस् तु गर्भजत्वं विना कथं सम्भवेत् । किं च कृष्णस्य नन्द-पुत्रत्वे नैकद् वाः प्रयोगः । किं तु बहव एव, न तु सर्वेऽमुख्यार्थी भवितुम् अर्हति । तथा हि अदृश्यतानुजा विष्णोः [१०.४.९] इति गोपानां देवर्ष्य्-अवतारत्वम् नैते सुरेशा ऋषयो न चैते [१०.१३.१९] इति श्री-बलदेवोक्तेर् ज्ञेयम् । साक्षाच् छ्रुत्यवतारैर् गोपीभिर् अप्य् अयम् अर्थ उपबृंहितोस्ति नन्द-सूनुर् गतो हृत्वा प्रेम-हासावलोकनैः [१०.३०.५] इति नन्द-सूनुर् अनघे तव [१०.३५.२०], वत्सः इति—
व्रज-स्त्रियः पुत्र न तु स्त्रियो हि नूनं श्रुतीनाम् अथ मूर्तयस् ताः ।
नाहं शिवो वा कमला कदाचित् समाश् च ताभिः कुत एव चान्ये ॥
इत्य्-आदि-पुराणे नारदं प्रति ब्रह्म-वाक्येन गोपीनां श्रुति-रूपत्वं ध्येयम् । आगमे\ऽपि नन्द-गोप-तनयो देवता इति । गर्गेणापि सर्वज्ञ-मुनिना प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भा।पु। १०.८.१४] इत्य् अयम् अर्थ आविष्कृतः । नील-कण्ठेनापि महाभारत-टीकायाम् आदि-पर्वणि नन्दनन्दनोपासन-मुक्तं मोक्ष-कारणम् । किं च, तुकारेण वसुदेव आत्मज उत्पन्न जाताह्लादो\ऽपि कंस-भयात् सङ्कुञ्चितमना जात-कर्मादि कर्तुं न प्राभून्नन्दस्तु कारयामास । तुकाराद् एवैतन् मात्रे वसुदेवाद्-भेदे प्राप्ते नन्द-गृहे\ऽपि श्री-कृष्णस्योत्पत्तिः । श्रीमन्-मुनीन्द्राभिप्रेतावगम्यतेऽन्यथा "नन्दस् त्व् आत्मज आयाते" इत्य् एवं कथं न प्रावोचद् इति । पुत्रेण सहाह्रादोऽपि जात इति सहोक्तिः । पुत्र-व्याजेनाह्राद एव जात इत्य् उत्प्रेक्षा च । शुचिर् ऊर्ध्वपुण्ड्राचमनादिना पवित्रः । जात-कर्म पुत्रोत्पत्ति-काले क्रियमाणं वैदिकं कर्म-विशेषम् । तैर् आहूतैर् विप्रैः कारयामास तेषाम् एव तत्र कर्तृत्व-विधानात् । तत्र च कर्म-फलं प्रयोक्तरीति न्यायात् फलं तस्यैव यथाविधि स्वयम् अकरणे जाताह्राद इत्य् अनेनानन्दजाड्यम् एव हेतुः । यद् वा, महे उत्सवे पुत्रोत्पत्तिकालिक-हर्षे असमन्तात् । मनो यस्य । यद् वा, महति परमेश्वरे वा मनो यस्येति महत आत्त्वम् आर्षम् ॥१.२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्दस्त्व् आत्मज इत्य्-आदि । आत्मना जायते इत्य् आत्मजः स्व-प्रकाशस् तस्मिन्न् उत्पन्ने आविर्भूते ॥१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्दयति हर्षयति जगद् इति श्री-नन्दस्य यथार्थ-संज्ञात्वं दर्शयन् तु-शब्दोक्तं श्रीवसुदेवतो वैशिष्ट्यम् अभिव्यञ्जयति—आत्मज इत्य्-आदिना [१९] कुरूद्-वहेत्य् अन्तेन । तत्र स्नेह-विशेष-बोधनार्थम् आत्मज उत्पन्ने इत्य् अन्यदीय-पुत्रत्वादि-शङ्का निरस्ता । तद् दार्ढ्यार्थम् अग्रे\ऽपि पुनस् तथैवोकिः । यद्य् अपि श्री-वसुदेवो\ऽपि प्राकृत-शिशौ सति श्री-भगवति स्नेहभरातुरस् तद् रक्षार्थं परम-व्यत्ग्रः सन् तत् परिवर्तन मायाम् अप्य् आनीतवान् तथापि तस्येश्वर-ज्ञानादि-सम्बन्धेन विशुद्ध-भक्ति-निष्ठाच् छ्री-नन्दात् न्युनत्वम् एव कल्पत इति । यद् वा, श्री-वसुदेवात्मज-भाव-परित्यागेन श्री-भगवता श्री-नन्दात्मज-तयैवात्मनः सर्वथावबोधाद् आत्मज इत्य् उक्तम् । वैष्ण्वाः केचिद् एवं व्याचक्षते—श्री-वसुदेव-गृहे श्री-भगवान् एक एव जातः, श्री-नन्द-गृहे तु मायया सहेति परम-रहस्यत्वात् तत् प्रसङ्गः पूर्वं नोद् दिष्टः । तत्र तु श्री-वसुदेवेन माया—परिवर्तेन विन्यस्तः पुत्रः श्री-नन्दात्मजेनैवैक्यं प्राप्त इति मुखायैव वृत्या तद् आत्मजत्वं घटत इति अत ब्रह्मणापि वक्ष्यते पशुपाङ्गजाय [भा।पु। १०.१४.१] इति, अत एव रुद्र-यामले—
कृष्णो\ऽन्यो यदु-सम्भूतो यः पूर्णः सो\ऽस्त्य् अतः परः ।
वृन्दावनं परित्यज्य स कटि नैव गच्छति ॥ इति ।
महामनाः प्रकृत्यैवोदार-चित्तः, पुत्रे चोत्पन्ने जाताह्लाद इति जात-कर्म-महोत्सवादि-करणे हेतुः । विशेषतः प्रान्ति पूरयन्ति कामान् इति विप्रस् तान्, तत्रापि वेद-ज्ञान् जात-कर्मादि-वैदिक-विधि-विशेष-विदः श्रोत्रियान्, [सह। वै १९] यावतीर् वै तत् च प्रसिद्धम् एवेत्य् अर्थः । विधिना यथा-विधीत्य् अर्थः । अस्य यथापेक्षं पूर्वैः परैश् च सर्वैर् अन्वयः । चार्थे तथा पितृ-देवार्चनं च नान्दी मुख-श्राद्धेन ॥१.२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्दयति हर्षयति जगद् इत् श्री-नन्दस्य यथार्थ-सञ्ज्ञत्वं दर्शयन् तु-शब्दोक्तं श्री-वसुदेवतो वैशिष्ट्यम् अभिव्यञ्जयति—आत्मज इत्य्-आदिना[१९] कुरुद्वहेत्वन्तेन । तत्र स्नेह-विशेष-बोधनार्थम् आत्मज उत्पन्ने इत्य अन्यदीय-पुत्रत्वादिशङ्का निरस्ता । तद् दार्ढ्यार्थम् अग्रेऽपि पुनस् तथैवोक्तिः । यद्य् अपि श्री-वसुदेवोऽपि प्राकृत-शिशौ सति श्री-भगवति स्नेहभरातुरस् तद् रक्षार्थं परमव्यग्रः सन् तत् परिवर्तन मायाम् अप्य् आनितवान् तथापि तस्येश्वर-ज्ञानादिसम्बन्धेन विशुद्ध-भक्ति-निष्ठाच् छ्री-नन्दान्न्युनत्वम् एव कल्पत इति । यद् वा, , श्री-वसुदेवात्मज-भाव-परित्यागेन श्री-भगवता श्री-नन्दात्मज-तयैवात्मनः सर्वथावबोधाद् आत्मज इत्य् उक्तम् । वैष्णवाः केचिद् एवं व्याचक्षते—श्री-वसुदेव-गृहे श्री-भगवान् एक एव जातः, श्री-नन्द-गृहे तु मायया सहेति परम-रहस्यत्वात् तत् प्रसङ्गः पूर्वं नोदिष्टः । तत्र तु श्री-वसुदेवेन माया-परिवर्तेन विन्यस्तः पुत्रः श्री-नन्दात्मजेनैवैक्यं प्राप्त इति मुखायैव वृत्या तदात्मजत्वं घटत इति एव ब्रह्मणापि वक्ष्यते पशुपाङ्गजाय [भा।पु।१०.१४.१] इति, अत एव रुद्र-यामले—
कृष्णोऽन्या यदुसम्भूतो यः पूर्णं सोऽस्त्यतः परः ।
वृन्दाववनं परित्यज्य स कटिन्नैव गच्छति ॥इति ।
महामनाः प्रकृत्यैवोदारचित्तः, पुत्रे चोत्पन्ने जाताह्लाद इति जाता-कर्म-मोहोत्सवादिकरणे हेतुः । विशेषतः प्रान्ति पूरयन्ति कामान् इति विप्रास् तान्, त्रापि वेद-ज्ञान् जात-कर्मादि-वैदिक-विधि-विशेष-विदः श्रोत्रियान्, यावतीर् वै देवताः सर्वास् ता वेद-विदि ब्राह्मणे सन्ति [स्ह।वै। १९] इति श्रुतेः । शुचिर् वैष्णव-तिलकाचमनादिना विशेषतः पवित्रः सन् तैर् विप्रैः । वै इति पाठे तच् च प्रसिद्धम् एवेत्य् अर्थः । विधिना यथाविधीत्य् अर्थः । अस्य यथापेक्षं पूर्वैः परैश् च सर्वैर् अन्वयः । चार्थे तथा पितृ-देवार्चनं च नान्दीमुख-श्राद्धेन ॥१.२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
कृष्ण-जनोत्सवो दातुं करं श्री-मथुरागमः ।
नन्दस्य वसुदेवेन संलापः पञ्चमे\ऽभवत् ॥
नन्दस् त्व् इति तु-कारेण वसुदेव आत्मजे उत्पन्ने जाताह्लादो\ऽपि कंस-भयात् सङ्कुचित-मना जात-कर्मादिकं कर्तुं न प्राभूत् । नन्दस् तु आत्मजे उत्पन्ने जाताल्हादो महा-मना अतिविस्मृत-मनाः स्वस्ति-वाचन-पूर्वकं जात-कर्म कारयामासेति तु-काराद् एवैतन् मात्रे वसुदेवाद् भेदे प्राप्ते नन्द-गृहे\ऽपि कृष्णस्योत्पत्तिः श्री-वन् मुनीन्द्राभिप्राता\ऽवगम्यते गर्भ-काले त्व् असम्पूर्णे इति पूर्वोक्तेर् वैशम्पायन-सम्मतापि न च तु-कारो\ऽनर्थक एव आत्मनो जात आत्मजस् तस्मिन्न् इति जनि-धातु-प्रयोगाद् एवाभीप्सित-सिद्धेर् इति वाच्यम्, उपगुह्यात्मजाम् एवम् [भा।पु। १०.४.७] इत्य् अत्रानौरसापत्ये\ऽप्य् आत्मज-शब्द-प्रयोगात् । किं च, नाडी-च्छेदात् पूर्वम् एव जात-कर्मोपक्रम-श्रवणात् नाडी-च्छेदश् च गर्भजत्वं विना कथं सम्भवेत् ? किं च, कृष्णस्य नन्द-पुत्रत्वे खलु नैकधा प्रयोगाः, किन्तु बहव एव । न ते सर्वं एवामुख्यार्थार्थी-भवितुम् अर्हन्ति । तथा हि, अदृश्यतानुजाविष्णोः [भा।पु। १०.४.९] इति नौमीड्य ! ते [भा।पु। १०.१४.१] इत्य्-आदौ पशु-पाङ्गजाय इति । देहिनां गोपिका-सुत इति गौतमीये वल्लवी-नन्दनं वन्दे इति । क्रम-दीपिकायाम् अपि--देवता-सकल-लोक-मङ्गलो नन्द-गोप-तनयः समीरितः [क्र।दी। २.८] इति । मन्त्रे\ऽपि नन्द-पुत्र-पदं ङेऽन्तं [क्र।दी। ७.७७] इत्य्-आदेः । केचित् तु कृष्णस्य वसुदेव-पुत्रत्व-विजय-सखत्व-रुक्मिणी-कान्तत्वादिभ्यो\ऽपि प्रेम-मिश्र-सम्बन्ध-मूलकेभ्यः सकाशात् नन्द-पुत्रत्व-सुबल-सखत्व-गोपीकान्तत्वानि प्रेमैक-मूलकानि कृष्णस्य नन्दाद्य्-अतिवश्यत्व-व्यञ्जकान्य् आर्ष-वचन-परः-शतेन महानुभाव-सहस्रानुभवेन च परमोत्कृष्टानीत्य् अतस् तादृश-भाव-तारतम्येनैव तत्-तद्-व्यपदेश-तारतम्यम् । अन्यथा वराह-देवस्य ब्रह्म-पुत्रत्वं, कृष्णस्य चोत्तरा-गर्भ-गतत्वेनोत्तरा-पुत्रत्वम् अपि प्रसिद्ध्येत इति ब्रुवाणा यशोदा-गर्भजत्वाभावम् एव स्वाभीष्ट-साधकं मन्यन्ते ।
न च नन्द-यशोदयोः कृष्णे स्व-पुत्रत्वं बुद्ध्येव तत्रापि सम्बन्धस्योपाधित्वं वाच्यं नहि वस्तु-शक्तिर् बुद्ध्या पराहन्यत इति न्यायात् नहि निर्हेतुकः प्रेमाहेतु-बुद्ध्येव सहैतुको भवति न हीश्वरे जीव-बुद्ध्यैवेश्वरो जीवो भवति किन्तु कृष्णस्य मृद्-भक्षणादाव् अनृत-भाषणस्यापि सत्यत्वम् इव कृष्णस्य प्रिय-परिकराणाम् अपि ज्ञान-भाषणादेर् अनृतस्यापि सत्यत्वम् आत्मारामैर् अप्य् उपादेयत्वम् उपास्यत्वं प्रेम-पदत्वं चेति सिद्धान्तः । जाताह्लाद इति पुत्रेण सहाह्लादो\ऽपि जात इति सहोक्त्य्-अलङ्कारः पुत्र-व्याजेनाह्लाद एव जात इत्य् उत्प्रेक्षा च कारयामास इत्य् आह्लादोत्थ-जाड्येन स्वयङ्करणासामर्थ्यात् ॥१-२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२ ॥
वाचयित्वा स्वस्त्ययनं जात-कर्मात्मजस्य वै ।
कारयामास विधिवत् पितृ-देवार्चनं तथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : जात-कर्माजातस्येत्यादि । वै-शब्दो\ऽत्रापि-शब्दार्थः । आत्मजस्यापि स्व-प्रकाशस्यापि ॥२॥
न केनाप्य् अनेन व्याख्यातम्।
॥ १०.५.३ ॥
धेनूनां नियुते प्रादाद् विप्रेभ्यः समलङ्कृते ।
तिलाद्रीन् सप्त रत्नौघ-शातकौम्भाम्बरावृतान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नियुते द्वे लक्षे । सप्त-तिल-पर्वतांश् च प्रादात् । कथं-भूतान् । रत्नौघैः रत्न-समूहैः । शातकौम्भाम्बरैः सुवर्ण-रसाक्तैर् अम्बरैश् चावृतान्
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तिलाद्रि-प्रमाणं भविष्ये—
उत्तमो दशभिर् द्रोणैर् मध्यमः पञ्चभिर् मतः ।
त्रिभिः कनिष्ठो राजेन्दर् तिल-शैलः प्रकीर्तितः ॥
इति द्रोण-परिमाणम् ।
खारी द्रोणाढक-प्रस्थाः कुडवं च पलं पिचु ।
शणको माषकश् चेति यथा-पूर्वं चतुर्गुणाः ॥ इति ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग्-अलङ्कृते यथोक्त-रौप्य-खुर-सौवर्ण-शृङ्गादि-विभूषिते, तिलाद्रि-परिमाणादिकम् उक्तं भविष्योत्तरे —
उत्तमो दशभिर् द्रोणैर् मध्यमः पञ्चभिर् मतः ।
त्रिभिः कनिष्ठो राजेन्र तिल-शैलः प्रकीर्तितः ।
पूर्व-वच् चापरं सर्वं निष्कम्भ-पर्वतादिकम् ॥
तच् चोक्तं तत्रैवादौ धान्यादि-प्रसङ्गे इत्थं—
निवेश्यामर् अशैलम् अग्र्यमतस् तु निष्कम्भ-गिरीन् क्रमेण ।
तुरीय-भागेन चतुर् दिशं च संस्थापयेत् पुष्प-विलेपनाढ्यान् ॥ इत्य्-आदि ।
ते च विष्कम्भ-गिरयो मन्दरादयश् चत्वारः । तथा च तत्रैव—
मेरुर् महान् व्रीहिमयस् तु मध्ये, सुवर्ण-वृक्ष-त्रय-संयुतः स्यात् । पूर्वेण मुक्ता-फल-वज्रम् उक्तो, याम्ये च गोमेदक-पुष्प-रागैः । पश्चाच् च गारुत्मतनील-रत्नैः, सौम्ये च वैदुर्य-सरोज-रागैः । ब्रह्माथ विष्णु-भगवान् पुरारिर् दिवाकराप्य् अत्र हिरण्मयः स्यात् ।
किं च—
शुक्लाम्बराण्यम्बुधरावली स्यात्, पूर्वेण कृष्णानि च दक्षिणे न ।
वासांसि पश्चाद् अथ कर्बुराणि रक्तानि वैवोत्तरतो घनानि ॥ इत्य्-आदि ।
द्रोण-संख्या चोक्ता वैद्यके—
खारी द्रोणाढक-प्रस्थाः कुड-वञ्च पलं पिचु ।
शनको माषकश् चेति यथा-पूर्वं चतुर् गुणाः ॥ इति ।
एवं षट्-पञ्चाशद्-अधिक-पल-शद्त-द्वयेनैको द्रोणः स्यात् । तद् एवाभिव्यञ्जयति । किं वा, ततो\ऽपि वैशिष्ट्याम् आह—रत्नैवेति । शत-कौम्भं स्वर्ण-समूहः सौवर्णाभरण-जातं वा । यद् वा, तिलाद्रिश् च व्रजे\ऽत्र सुप्रसिद्ध-श्री-गोवर्धनाद्रेर् उच्चतया तुल्यो ज्ञयः, तादृशान् सप्त-बहुल-रत्नादि-युतान् प्रकर्षेण पाद-प्रक्षालनादि-पूर्वकं निज-जनैस् तत् तद्-गृहेषु तत् तत् प्रस्थापनादि-प्रकारेणादात् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यग् अलङ्कृते यथोक्त-रौप्य-खुर-सौवर्ण-शृङ्गादि-विभूषिते, तिलाद्रि-परिमाणादिकम् उक्तं, भविष्योत्तरे उत्तमो दशभिर् द्रोणैर् मध्यमः पञ्चभिर्मतः । त्रिभिः कनिष्ठो राजेन्द्र तिल-शैलः प्रकीर्तितः । पूर्ववच् चापरं सर्वं निष्कम्भपर्वतादिकम् ॥ तच् चोक्तं तत्रैवादौ धान्याद्रि-प्रसङ्गे
इथं निवेश्यामरशैलमग्र्यमतस्तु निष्कम्भगिरीन् क्रमेण ।
तुरीय-भागेन चतुर् दिशं च संस्थापयेत् पुष्प-विलेपनाड्यान् ॥
इत्य्-आदि । ते च विष्कम्भगिरयो मन्दरादयश् चत्वारः । तथा च तत्रैव—
मेरुर् महान् व्रीहिमयस् तु मध्ये, सुवर्ण-वृक्षत्रय-संयुतः स्यात् ।
पूर्वेण मुक्ताफल-वज्र-मुक्तो, याम्ये च गो-मेधक-पुष्प-रागैः ।
पञ्चाच् च गारुत्मत-नील-रत्नैः, सौम्ये च वैदुर्य-सरोज-रागैः ।
ब्रह्माथ विष्णुर् भगवान् पुरारिर् दिवाकरोऽप्य् अत्र हिरण्मयः स्यात् ॥
किं च,
शुल्कम्बराण्य् अम्बुधरावली स्यात्, पूर्वेण कृष्णानि च दक्षिणेन ।
वासांसि पश्चाद् अथ कुर्बुराणि, रक्तानि चैवोत्तरतो धनानि ॥ इत्य्-आदि ।
द्रोण-सङ्ख्या चोक्ता वैद्यके—
खारो द्रोणाढक-प्रस्थाः कुड्वं च फलं पिचु ।
शानको माषकश् चेति यथा-पूर्वं चतुर्गुणाः ॥ इति ।
एवं षट्पञ्चाशद् अधिक-पलशतद्वयेनैको द्रोणः स्यात् । तद् एवाभिव्यञ्जयति । किं वा, ततोऽपि वैशिष्ट्यम् आह—रत्नौवेति । शातकौम्भं स्वर्ण-समूहः सौवर्णाभरण-जातं वा । यद् वा, तिलाद्रिश् च व्रजेऽत्र सुप्रसिद्ध-श्री-गोवर्धनाद्रेर् उच्चतया तुल्यो ज्ञेयः, तादृशान् सप्त-बहुल-रत्नादियुतान् प्रकर्षेण पाद-प्रक्षालनादि-पूर्वकं निज-जनैस् तद् गृहेषु तत् तत् प्रस्थापनादि-प्रकारेणादात् ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नियुते विंशति-लक्षाणि एकं दश-शत-सहस्राण्य् अयुतं प्रयुताख्य-लक्षम् अथ नियुतम् इति क्षीर-स्वामी । तिलाद्रि-परिमाणम् उक्तं भविष्योत्तरे—
उत्तमो दशभिर् द्रोणैर् मध्यमः पञ्चभिर् मतः ।
त्रिभिः कनिष्ठो राजेन्द्र ! तिल-शैलः प्रकीर्तितः ॥
द्रोण-सङ्ग्या च—
खारीद्रोणाढक-प्रस्थाः कुडबञ्च पलम्पिचुः ।
शाणको मासकश् चेति यथा-पूर्वं चतुर्गुणाः इति ॥३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.४ ॥
कालेन स्नान-शौचाभ्यां संस्कारैस् तपसेज्यया ।
शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्य् आत्मात्म-विद्यया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्रव्याणां गो-हिरण्यादीनां मध्ये केषाञ्चिद् दानैर् एव शुद्धिर् यथा तथान्न-दानादि-युक्त-जात-कर्मादि-संस्कारैर् एव गर्भाणां शुद्धिर् इति दर्शयितुं प्रतिनियतानि शोधकानि दृष्टान्तत्वेनोदाहरति, कालेनेति । कालेन भूम्य्-आदि, स्नानेन देहादि, शौचेनामेध्य-लिप्तादि, संस्कारैर् गर्भादि, तपसा इन्द्रियादि, इज्यया ब्राह्मणादि, दानैर् द्रव्यादि, सन्तुष्ट्या मनः, आत्मा आत्म-विद्यया इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ गर्भ-शुद्ध्युपोद्घात-रूपाम् अन्यपदार्थ-शुद्धिम् आह—द्रव्याणाम् इति । प्रतिनियतानि प्रातिस्विकानि । येषां द्रव्याणां याति शोधकानीति यावत् । भूम्यादि—आदि-पदेन जलादयो ज्ञेयाः । यत्र भूमौ मलाद्य् उत्सृष्टं तत्र विनापि लेपादिना शोधकेन बहुकालेन स्वयम् एव शुद्ध्यति सेत्य् अर्थः । तथा जलानाम् अपि कालेन
कालं मेघोदकं ग्राह्यं वज्यं तु त्र्यहम् एव हि ।
अकाले दश-रात्रं तु ततः शुद्धिः ॥ इत्य् उक्तेः ।
देहादि आदि-पदे वस्त्रादि । अमेध्यम् अशुचि-द्रव्यं तेन लिप्तम् आदिना स्पृष्तम् । शौचेन मृज् जालादिना शोधनेन । संस्कारैः पुसवनसीमन्त-जात-कर्मादिभिः । आदिना देहादि । इज्यया देवार्चनयागादिना । ब्राह्मणः सर्वदा शुद्धः पितृ-देवार्चने रतः इत्य् उक्तेः । आदिना क्षत्रियादि । यतो दानं न जायेत तद्-द्रव्यं मलवत् स्मृतम् इति स्मृतेर् द्रव्याणाम् अन्नादिरन्नान्तानां दानेनैव शुद्धिर् नान्यथेति भावः । इन्द्रियाणि वाग् आदिनि । तपसा मौनादि-रूपेण । यद् वा, तसैकादश्युपवासादिना आदिना देह-परिग्रहः । मनः सन्तुष्ट्या । सन्तोषेण मनः शुचि इति वाक्यात् । आत्न्मा जीवः । आत्म-विद्ययाध्यात्म-विचारेण । शुद्ध-स्वरूपावाप्त्या जीव-भाव-रूपाम् अशुचितां जहातीत्य् अर्थः । दीपकोऽत्रालङ्कारः । प्रस्तुताप्रस्तुतानां च तुल्यत्वे सति दीपकम् इति तल्-लक्षणात् । अत्र प्रस्तुत-गर्भ-शुद्धेर् अप्रस्तुतानां भूम्यादीनाम् अपि शुद्धेर् वर्णनाद् इति समन्वयः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु कुतस् तद् आननीम् एव तथा तत् तत् कृतम् इत्य् अत्राह—कालेनेति, तत् तद् दृष्टान्तैर् यथा-कालं जात-कर्म-दानयोर् आवश्यकत्वम् अभिप्रेतम् । अन्तत् तैर् व्याख्यातम् । यद् वा, कालादिभिर् द्रव्याणि शुद्धन्त्य् एव, आत्मा त्वात्म-विद्यया स्वरूप-ज्ञानेनैव । किं वा, भगवद्-भक्त्यैव, न त्वन्यथा । अत एव द्रव्याणीत्य् अनेन गृहीतस्याप्य् आत्मनः पृथङ्-निर्देशस् तस्य च गृहे साक्षात् परमात्मनः स्वयं गमनाच्छुद्धि-महिमा केन वर्ण्यः ? यद् वा, कालादिषु मध्ये केनचित् कदाचित् कस्यापि शुद्धिः, श्री-भगवत्-पुत्रत्वेन च तस्य युगपत् सर्व-शुद्धिर् एव सिद्धति किं वक्तव्यं ताभ्यां तत् तच् छुद्धिर् इति भावः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, कुतस् तदानीम् एव तथा तत् तत् कृतम् इत्य् अत्राह—कालेनेति, तत् तद् दृष्टान्तैर् यथा-कालं जात-कर्म-दानयोर् आवश्यकत्वम् अभिप्रेतम् । अन्यत् तैर् व्याख्यातम् । यद् वा, कालादिभिर् द्रव्याणि शुद्धन्त्य् एव, आत्मा त्व् आत्म-विद्यया स्वरूप-ज्ञानेनैव । किं वा, भगवद्-भक्त्यैव, न त्व् अन्यथा । अत एव द्रव्याणोत्य् अनेन गृहीतस्याप्यात्मनः पृथङ् निर्देशस् तस्य च गृहे साक्षात् परमात्मनः स्वयं गमनाच् छुद्धि-महिमा केन वर्ण्यः ? यद् वा, कालादिषु मध्ये केनचित् कदाचित् कस्यापि शुद्धिः, श्री-भगवत् पुत्रत्वेन च तस्य युगपत् सर्व-शुद्धिर् एव सिद्धति किं वक्तव्यं ताभ्यां तत् तच् छुद्धिर् इति भावः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आवश्यकस्य विविध-दानादि-युक्त-जात-कर्मणो गर्भ-शोधकस्य प्राग् बालकस्य दृष्टान्तान् दीप-कालङ्कार्णाह—कालेनेति । कालादिभिर् द्रव्याणि शुद्ध्यन्ति तत्र कालेन वर्त्मादीनि स्नानेन देहादीनि शौचेनामेध्य-लिप्ताङ्गादीनि संस्कारैर् गर्भादीनि तपसा इन्द्रियादीनि इज्यया ब्राह्मणादीनि दानैर् धनादीनि सन्तुष्ट्या मनः आत्मात्म-विद्यया परमात्मनः स्वरूपानुभवेन जीवः ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.५ ॥
सौमङ्गल्य-गिरो विप्राः सूत-मागध-वन्दिनः ।
गायकाश् च जगुर् नेदुर् भेर्यो दुन्दुभयो मुहुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सौमङ्गल्य-गिरः स्वस्ति-वाचका विप्रादयो बभूवुः । तत्र, “सूताः पौराणिकाः प्रोक्ता मागधा वंश-शंसकाः बन्दिनस् त्व् अमल-प्रज्ञाः प्रस्ताव-सदृशोक्तयः ।”
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वकृत-स्तुति-पाठकाः सूताः । परकृतस्तुति-जीविनो मागधाः । प्रवन्धस्तुति-पाठिनो वन्दिन इति ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भेर्य आनक-भेदाः शुषिर-भेदाश् च । दुन्दुभयश् च आनक-भेदा युग्मतयैव हस्ताभ्यां कोष-द्वयेन वाद्यन्ते, ते नेदुः स्वयम् एव, मुहुर् इत्य् अस्य सर्त्वैर् अन्वयः—हर्षभरेण तेषाम् तत्र त्रातृप्तेः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भेर्य आनक-भेदाः सुषिर-भेदाश् च दुन्दुभयश् च आनक-भेदाश् च युग्मत एव हस्ताभ्यां काष्ठी-द्वयेन वाद्यन्ते ते नेदुः स्वयम् एव मुहुर् इत्य् अस्य सर्वैर् अन्वयः हर्षभरेण तेषां तत्र तत्रातृप्तेः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदा विप्राः सौमङ्गल्य-गिरः सौमङ्गल्यं गीर्षु येषां ते शुभाशीर्वादका बभूवुः सूतादयो जगुः—
सूताः पौराणिका प्रोक्ताः मागधाः वंशशंसकाः ।
वन्दिनस् त्व् अमल-प्रज्ञाः प्रस्ताव-सदृशोक्तयः ॥५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.६ ॥
व्रजः सम्मृष्ट-संसिक्त-द्वाराजिर-गृहान्तरः ।
चित्र-ध्वज-पताका-स्रक्-चैल-पल्लव-तोरणैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : संमृष्टानि संसिक्तानि च द्वाराण्य् अजिराण्य् अङ्गनानि गृहान्तराणि गृह-मध्यानि च यस्मिन् स तथा । चित्र-ध्वजेषु पताकानां स्रजश् च चैल-पल्लव-तोरणानि च तैर् भूषिताः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्मृष्टानि सम्मार्जितानि । तोरणं द्वार-बहिर् भागः तोरणोऽस्त्री बहिर् द्वारम् इत्य् अमरः । पताकानां स्रजः पङ्क्तयः । भूषित इति शेषः ॥६।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सं—शब्दाभ्याम् अन्यदिनतो विशेषेण सम्मार्जनादिकं बोद्यते । चैलानि खण्डित-वस्त्राणि । अन्यत् तैर् व्याख्यातम् । तत्र भूषित इत्य् आध्याहारात् । किं वा, विशेषेण तृटीया । यद् वा, स्रजः पुष्प-मालाश् चित्राणि विविधानि ध्वजादीनि तैः । समम् अन्यत् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सं-शब्दाभ्याम् अन्यदिनतो विशेषो बोध्यते चैलानि खण्डित-वस्त्राणि अन्यत् तैः तत्र पताकानां स्रजो मालाकारेण सन्निवेशाः भूषित इत्य् अध्याहारात् यद् वा स्रजः पुष्प-मालाः चित्राणि विविधानि यानि ध्वजादीनि तैः समम् अन्यत् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आदौ सम्यक् मृष्टानि पश्चात् चन्दन-पुष्पादि-रसैः संसिक्तानि द्वाराण्यजिराण्य् अङ्गणानि गृहमध्यानि च यस्मिन् सः चित्रध्वज-पताकाभ्यां तथा चित्राणां स्रजां चैलानां चैल-खण्डानां पल्लवानां चेति त्रिविधैस् तोरणैर् विभूषितो\ऽभूद् इति शेसः ॥६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.७ ॥
गावो वृषा वत्सतरा हरिद्रा-तैल-रूषिताः ।
विचित्र-धातु-बर्ह-स्रग्-वस्त्र-काञ्चन-मालिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हरिद्रा-तैलै रूषिता लिप्ताः । विचित्र-धातवश् च बर्ह-स्रजश् च वस्त्राणि च काञ्चन-मालाश् चालङ्कारतया विद्यन्ते तेषां ते । तथा-भूता गवादयो बभूवुर् इत्य् अर्थः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्र्हस्रजः शिखिपिच्छ-मालाः । इत्य् अर्थ इति । क्रियाशेषेणान्वयः कार्य इति तात्पर्यम् ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च—कारयोर् एक उक्तस्य समुच्चये, अन्यो\ऽनुक्तस्य, तेन महिष्यादयो\ऽप्य् उपलक्ष्यन्ते ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : च-कारौ पूर्व-कैमुत्य-प्रतिपादिकौ तेन महिष्य्-आदयोऽप्य् उपलक्ष्यन्ते । वृषा वत्सतरा इति पाठः क्वचित् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रूषिता लिप्ताः ॥७.८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.८ ॥
महार्ह-वस्त्राभरण-कञ्चुकोष्णीष-भूषिताः ।
गोपाः समाययू राजन् नानोपायन-पाणयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कञ्चुकं चोलकं शिरो विहाय सर्वाङ्गावरकं वस्त्रम्
कञ्चुको वारबाणे स्यान् निर्मोके करभे\ऽपि च ।
वर्धायक-गृहीताङ्ग-स्थित-वस्त्रे च चोलके ॥
इति मेदिनी । उष्णीषं शिरोवेष्तन-वस्त्रम् उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे इति च ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् आययुर् इति सनाक्त्वम् एव दर्शयति—महार्हेत्यादि-विशेषणाभ्याम्—महार्हैर् बहु-मुल्यैर् उत्सवार्थं गृहान्तः-सुरक्षितैर् वस्त्रादिभिर् भूषिताः सन्तः । हे राजन्न् इति राज-गृहोत्सवे प्रजागमन-प्रकार-वृत्तं भवता ज्ञायत एवेति किं तद् विवरणेति भावः । यद् वा, राजन्ति शोभमानानि नाना-विधोपायनानि पाणिषु येषाम् ते । गोपा इति प्रकृत्यैव सुस्निग्ध-चित्ताः, श्लेषेण गां पृठ्वीं पान्ति भगवद्-भक्ति-विस्तारणेन रक्षन्तीति गोपाः । अतस् तादृश-सद् वेशादिना भगवन् महोत्सवे सम्यग् आगमनं युक्तम् एवेति भावः । एवम् अग्रे\ऽपि ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं सर्वस्यैव गोकुलस्य श्री-नन्द-यशोदे प्रति परमम् अनुरागं दर्शितवान् दर्शयति च—महार्हेति सप्तभिः । सम्यग् आययुर् इति स्व-स्व-गृहे तत् तन् मङ्गल-रचनां प्रवर्त्यैवाययुर् इत्य् अर्थः व्रजः संमृष्टेत्य् उक्तत्वात् सम्यक्त्वम् एव दर्शयति परम-हर्ष-व्यञ्जकाभ्यां महद् इत्य्-आदि-व्-इशेषणाभ्यां महार्हैर् बहु-मूल्यैर् निधिवत् गृहान्तः सुरक्षितैर् अपि वस्त्रादिभिर् भूषिताः सन्तः यान्य् एव परमोल्लासेन दास्यन्ते च नानोपायनैर् महार्ह-रत्नादिभिर् युक्ताः पाणयो येषां ते राजन्न् इति श्लेषेण हे प्रेम्णा-विराजमान यद् वा राजदित्य् उपायन-विशेषणं गोपा इति गवा-सक्त्या तत् स्वभावमापन्नया जात्यैव सुस्निग्ध-चित्ता इति भावः । श्लेषेण तत्र च तादृश-तत् प्रेम्णा गां पृथ्वीम् अपि पान्तीति एवम् अग्रे\ऽपि ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.९ ॥
गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् ।
आत्मानं भूषयां चक्रुर् वस्त्राकल्पाञ्जनादिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आकल्पा अलङ्काराः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आकल्पः कल्पने वेशेऽलङ्कारे शक्तिमन्नरे इति धरणिः । आदिना चन्दनादि-ग्रहः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च—शब्दस् त्वर्थे पूर्वतो वैशिष्ट्याय, तद् एव दर्शयति यशोदाया व्रज-यशः-प्रदाया अनपत्याया व्रजेश्वर्याः सुतस्योद्भवम् उत्पत्तिम् आकर्ण्यैव मुदितास् तस्मिन् नित्य सहज-प्रेम-सद्-भावाद् अत एव वस्त्रादिभिर् आत्मानम् अभूषयन् । आदि-शब्दान् माल्यानुलेपादयः । आत्म-शब्द-प्रयोगस् तासां सच् चिद् आनन-विग्रहत्वेन तत्त्वतो देहस्य देहि-तुल्यत्वेन भेदाभावाभिप्रायेण ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोप्यः श्री-यशोदाया मातृभूतयः च-शब्द उक्त-समुच्चये ततो गोपा आकर्ण्येति पूर्वेणाप्य् अन्वयः आसां पश्चाद् भावोऽन्तःपुरवासात् मुदिता इत्य् अनेन तेभ्योऽपि मोद-विशेषं दर्शयति—यशोदायाः व्रज-यशःप्रदाया अनपत्यायाः श्री-व्रजेश्वर्याः सुतस्य उद्भवम् उत्पत्तिम् आकर्ण्यैव मुदिताः तस्यां तस्मिश् च नित्य-सहज-प्रेम-सद्भावात् अत एव वस्त्रादिभिः आत्मानम् अभूषयन् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोप्यः श्री-यशोदाया यातृ-प्रभृतयः ॥९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.१० ॥
नव-कुङ्कुम-किञ्जल्क-मुख-पङ्कज-भूतयः ।
बलिभिस् त्वरितं जग्मुः पृथु-श्रोण्यश् चलत्-कुचाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नव-कुङ्कुम-किञ्जल्कैर् मुख-पङ्कजेषु भूतिः श्रीर् यषां ताः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नव-कुङ्कुम-किञ्जल्काः नूतन-केशर-पत्राणि । बलिभिः स्वर्ण-रत्नादिभिर् युताः पृथुश्रोण्यो विशाल-कटितटाः अपि हर्षौसुक्याद् वेगेन जग्मुरिति भावः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, नवेति तैर् व्याख्यातम् तत्र नव-कुङ्कुम-किञ्जल्कैर् भूषित-मुख-पङ्कजाः सत्य इत्य् अर्थ इति । यद् वा, नव-कुङ्कुम-किञ्जल्कस्य् एव मुख-पङ्कजानां भूतिः शोभा यासाम् इति गौराङ्गीणाम् अप्त्य् अनुराग-वेशेन मुख-पद्मानां रागोत्पत्त्या शोभातिशय उक्तः । किं च, बलिभिर् बलद्भिः परिजनैः सहायैर् इति त्वरित-गमन-साधनम्, बलिभिर् बलित्रयेण विशिष्टा इति वा । यद् वा, अक्षत-पाट्रद्य् उपहारैः सह तान् गृहीत्वेत्य् अर्थः । पृथु-श्रोण्यो\ऽपि चलत्-कुचाः सत्य इति त्वरित-गमन-लक्षणम् । यद् वा, कुचानाम् अपि पृथुत्वात् त्वरित-गमनासामर्थ्ये\ऽपि त्वतित जग्मुर् इत्य् अर्थः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नव-कुङ्कुमाकिञ्जल्काद् अपि मुख-पङ्कजानां भूतिः शोभा यासाम् इति तदानीम् अनुरागावेशेन मुख-शोभातिशय उक्तः किं च बलिह्भिः महारात्नादिमयैर् अक्षत-पात्राद्य् उपहारैः सह तान् गृहीत्वेत्य् अर्थः मोद-विशेषम् एवाह—त्वरितम् इत्य्-आदिना । पृथुश्रोण्योऽपि त्वरितं जग्मुः तत्र चलत्कुचा इत्य् अतिशयस्य लक्षणं सर्वं चोत्कण्ठातिशयस्येति ज्ञेयम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नव-कुङ्कुम-किञ्जल्काद् अपि सुख-पङ्गजे भूतिः शोभा यासां ता बलिभिः स्वर्ण-मुद्रा-रत्न-हारानर्घ-वस्त्रनारिकेलादि-फलाक्षत-दूर्वा-चन्दन-पुष्पमालाद्यैः स्वर्ण-पात्रथैः स्वर्ण-रस-रञ्जित-वस्त्राच्छादितैर् वाम-पाणि-गृहीतः सहिता इत्य् अर्थः । पृथुश्रोण्यो\ऽपि त्वरितं जग्मुः हर्षौत्सुख्यावेगवशात् ॥१०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.११ ॥
गोप्यः सुमृष्ट-मणि-कुण्डल-निष्क-कण्ठ्यश्
चित्राम्बराः पथि शिखा-च्युत-माल्य-वर्षाः ।
नन्दालयं स-वलया व्रजतीर् विरेजुर्
व्यालोल-कुण्डल-पयोधर-हार-शोभाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वर्णिता अपि गोपीर् भक्ति-भरेणातृप्त्या वर्णयति व्रजतीः प्रथमार्थे द्वितीया ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्ति-विशेषेण पुनस्ता एव वर्णयन्ति-गोप्य इति । शिखा धम्मिल्लाग्राणि अन्यत् तैर् व्याख्यातम् यद् वा, पथि शिखाभ्यश् च्युत-विशेषतो रेजुर् अशोभन्नेति तासां देहादि-शोभा-गत-सम्पत्तौ सत्याम् अपि श्री-नन्दनन्दन-प्रेम-सम्बन्धेनैव विशेषतः शोभेति भावः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भक्ति-विशेषेण पुनस् ता एव वर्णयति—गोप्य इति । शिखाः धम्मिल्लाग्राणि नन्दालयं व्रजन्त्य एव विशेषतो रेजुर् इति तासां देहादि-शोभाशत-सम्पत्तौ सत्याम् अपि श्री-नन्द-नन्दन-प्रेम-सम्बन्धेनैव विशेषतः शोभेति भावः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वणिता अपि ताः पुनर् भक्ति-भरेणातृप्त्या वर्णयति—गोप्य इति । शिखा दम्मिल्लाग्राणि व्रजतीर् व्रजन्त्यः ॥११॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.१२ ॥
ता आशिषः प्रयुञ्जानाश् चिरं पाहीति1 बालके ।
हरिद्रा-चूर्ण-तैलाद्भिः सिञ्चन्त्यो\ऽजनम् उज्जगुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किम् उज्जगुर् ? इत्य् अपेक्षा-निवृत्तयेऽजनं श्री-कृष्णम् इत्य् अर्थान्तरम् । ता गोप्यो बालके इत्य् आशिषः प्रयुञ्जाना इति । किम् ? राज-पुत्रत्वाद् राजा भूत्वा चिरं पाहीति । परस्येष्टार्थ-प्रशंसनम् आशीः इति लक्षणात् ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चिरं पाहीत्य् उक्तिः पाहीत्य् उक्ति-चातुर्येण तस्य दीर्घायुष्ट्वम् आत्म-विषयक-कारुण्यादिकं च प्रार्थयन्ते । अल्पार्थे कः अत्यन्त-बाल्याद् बालक इति, तदानीं तस्मिन् तद् एवोचितम् इति भावः । यद् वा, बालके\ऽपि ततश् च बन्धु-स्वभावाद् एवेति, वस्तुतस् तु बालः कः ब्रह्मापि यस्येति परमेश्वरत्वात् । सदास्मान् रक्ष, कदापि न परित्यजेति । अजनं भगवन्तम् उज्जगुर् उच्चैर् गाथा बन्धेन तन्-नामान्य् अकीर्तयन् भगवद्-गीतान्य् अगायन्न् इति वा । अजनाम् इति लौकिक-जन्माभावे\ऽपि श्री-यशोदायाम् उद्भवेन तासाम् उद्गान-प्रीति-भर-हेतुः सूचितः । "जीव" इति पाठे काश्चित् पूर्व्य-पत्न्य्-आद्या वृद्धाश् च "चिरं जीव" इत्य् आशिषः प्रयुञ्जाना बभूवुः, अन्याश् चोज्जगुर् इति ज्ञेयम् ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चिरं पाहीति तासाम् अत्युल्लासोक्तिः । तया च तस्य सार्वदिकीं सर्व-सम्पत्तिम् आत्मना सङ्गतिम् आत्मनि प्रीतिं चाशासत । अल्पार्थे कः अत्यन्त-बाल्यात् बालक इति । तदानीं तस्मिन् तद् एवोचितम् इति भावः । यद् वा, बालकेऽपि ततश् च प्रेम-स्वभावाद् एवेति । अजनं भगवन्तम् उज्जगुः उच्चैर् मङ्गल-गीत-प्रबन्धेन बालक-मङ्गलार्थं तम् अकीर्तयन् । "जीव" इति पाठस् तु तासाम् अतिकारुण्योक्तिः । उपलक्षणं चैतत् सर्वेषाम् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूतिकान्तर् गृहं प्रविश्य चिरं पाहि इति राज-पुत्रत्वेन राजा भूत्वेति भावः । "जीव" इति पाठे वात्सल्य-काम-रूपोदयः । ततो बहिर् निःसृत्य हरिद्रादिभिः परस्परं जनं सिञ्चन्त्य उच्चैर् जगुः ॥१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ताः सूतिका-गृहं प्रविश्य राज-पुत्रत्वात् युवराजो भूत्वा नश् चिरं पाहीत्य् आशिषः प्रयुञ्जानाः । ततो बहिर् निर्गम्य हरिद्रा-चूर्ण-सुगन्धि-तैल-सम्पृक्ताभिर् अद्भिर् मिथो जनं सिञ्चन्त्य उच्चैर् मग्गलानि जगुः । अजनं हरिम् उज्जगुर् इत्य् अन्ये ॥१२॥
॥ १०.५.१३ ॥
अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे ।
कृष्णे विश्वेश्वरे \ऽनन्ते नन्दस्य व्रजम् आगते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आगते प्राप्ते ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्णे विश्वेश्वरे\ऽनन्त इत्य्-आदि । अनन्ते\ऽपरिच्छिन्ने\ऽपि नन्दस्य व्रजम् उपेयुषि परिच्छिन्नत्वेन तत्रैव स्थिते ॥१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अवाद्य् अन्त वादित्राणि वादकैर् वादयञ्चक्रिरे, विचित्राणि—
ततं वीणादिकं वाद्यम् आनद्धं मुरजादिकम् ।
वंशादिकन्तु शुषिरं कांस्यं तालादिकं घनम् ॥
इति चतुर्विधानि, यद् वाम् एकैकस्य वादन-वैचित्र्या विचित्राणि । किं वा, अवाद्य् अन्त स्वयम् एव वादितानि बभूवुस् तत्र हेतुः—महोत्सव इति, तत्रापि हेतुः—अनन्ते\ऽपरिच्छन्ने विश्वस्येश्वरे नियन्तरि कृष्णे जगच् चित्ताकर्षक-माहात्म्यतया स्वयम् अवतीर्णे भगवतिः । यद् वा, कृष्णे पर-ब्रह्मणि परमेश्वरे सौन्दर्य-माधुर्यादिना परिच्छिन्ने निजाशेष-भगवत्ता-प्रकटनार्थावतीर्णत्वात् । नन्द-व्रजं निजोचित-पदं प्राप्ते सतीति ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अवाद्यन्त वादकैर् इति शेषः । विचित्राणि ततं वीणादिकं वाद्यम् आनद्धं सुरजादिकं वंशादिकं तु सुषिरं कांस्य-तालादिकं धनम् इति चतुर्-विधानि एकैकस्यावन्तर-वैचित्र्यावादन-वैचित्र्या च विचित्राणि किं वा अवाद्यन्त व्रज-वादित्रेषु वाद्यमानेषु जगति यानि वादित्राणि तान्य् अपि स्वयं जनैश् च वादितानि बभूवुर् इत्य् अर्थः ।तत्र हेतुः महोत्सवे यावद् उत्सवे यावद् उत्सवोपरि विराजमाने तन्महसि तत्राऽपि हेतवः कृष्णो जगच् चित्ताकर्षक-माहात्मतया स्वयम् अवतीर्णे भगवति विश्वेश्वरे सर्व-प्रभौ अनन्ते स्वरूपैश्वर्य-माधुर्यैर् अपरिच्छिन्ने नन्दस्य व्रजं परम-प्रेमानन्दामृत-समुद्रतया परमं निजोचित-पदम् ईयुषि तस्मिन्न् उदयतीत्य् अर्थः । आगत इति क्वचित् पाठः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवाद्यन्तेति त्रिलोक्याम् एव यतः कृष्णे विशस्यैवेश्वरे तानि वाद्यान्य् अनन्तान्य् एव यतो\ऽनन्ते इति ॥१३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.१४ ॥
गोपाः परस्परं हृष्टा दधि-क्षीर-घृताम्बुभिः ।
आसिञ्चन्तो विलिम्पन्तो नवनीतैश् च चिक्षिपुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हृष्टा गोपाः परस्परं विचिक्षिपुर् इति सम्बन्धः । यद् वा, क्षीरादिभिर् आसिञ्चन्तो नवनीतैर् विलिम्पन्तो दधि चिक्षिपुः यद् वा, नीतैर् गृहीतैर् दध्यादिभिर् नव-शब्दोपलक्षितान् नव-नदान्स्तत् सम्बन्धिनश् च विचिक्षिपुर् इत्य् अर्थः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हृष्टा गोपाः परस्परं विचिक्षिपुर् इति सम्बन्धः । यद् वा, क्षीरादिभिर् आसिञ्चन्तो नवनीतैर् विलिम्पन्तो दधि चिक्षिपुः यद् वा, नीतैर् गृहीतैर् दध्यादिभिर् नव-शब्दोपलक्षितान् नव-नदान्स्तत् सम्बन्धिनश् च विचिक्षिपुर् इत्य् अर्थः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हृष्टाः सन्तो दध्यादिभिः परस्परम् आ सम्यक् सिञ्चन्तः नवनीतैश् च परस्परं विशेषेण लिम्पन्तः परस्परं चिक्षिपुः बलेन प्रच्छन्नतया वा पिच्छिल-पङ्के स्खलयामासुः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चिक्षिपुः प्रयासार्थं बलेन प्रच्छन्नतया पिच्छल-पङ्के स्खलयामासुः ॥१४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.१५-१६ ॥
नन्दो महा-मनास् तेभ्यो वासो\ऽलङ्कार-गो-धनम् ।
सूत-मागध-वन्दिभ्यो ये\ऽन्ये विद्योपजीविनः ॥
तैस् तैः कामैर् अदीनात्मा यथोचितम् अपूजयत् ।
विष्णोर् आराधनार्थाय स्व-पुत्रस्योदयाय च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेभ्यः प्रादात् ॥१५॥ यथोचितम् अन्यान् अप्य् अपूजयत् ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेभ्यो गोपेभ्यः सूतादिभ्यश् च । विद्यास् तु चतुर्दशधा धर्म-मीमांसादि-रूपाः, ताभिर् उपजीवन्ति इति तथा ॥१५॥ तैस् तैर् यान् अयाचन्तेत्य्
अर्थः । यथोचितं विद्या-गौरवम् अनतिक्रम्य इत्य् अर्थः । आराधनार्याय सन्तोषाय । "अनेन दानादिना विष्णुः प्रसीदतु, तत्-प्रसादेन मत् पुत्रः कुशल्य् अस्तु" इति सङ्कल्पयन्न् इत्य् अर्थः । च-कारान् नव-ग्रह-दिक्-पालादि-प्रसादोऽपि ध्येयः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेभ्यो गोपेभ्यो गोपी-जनेभ्यश् च तथा सूतादिभ्यश् च । ये चान्ये विद्योपजीविनो गायक-वादकादयः, तेभ्यो\ऽपि वास-आदिकं प्रादाद् इति शेषः । तत्र धनं साक्षत् स्वर्ण-[रूपप्य्]{।मर्क्}-आदि । महा-मना इति पुनर्-उक्तिः परमौदार्यस्य सर्वाभीष्ट-विज्ञानस्य चाभिप्रायेण । तैस् तैर् इति यस्य यानि कामितानि, तैः । यद् वा, सुप्रसिद्ध उत्तमोपभोगः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ये विद्योपजीविनो\ऽन्ये च ये दीनाः, तेभ्यो\ऽपि न केवलं तत्-तद्-दान-मात्रम्, अपि तु बहुधा सम्माननं चाकरोद् इत्य् आह—तैर् इति । विप्रादीन् सर्वान् अपूजयच् च, तत्र च यथोचितं जाति-विद्याद्य्-अनुसारेण तत्-तन्-मनोरथ-परिपुरणेनेत्य् अर्थः । यतो\ऽदीनत्वाद् उदार-स्वभावः । यद् वा, तैस् तैर् अनिर्वचनीयैर् आत्मारामाद्य्-अगोचरैर् आत्मना पुत्र-[भायादिना]{।मर्क्} च भगवद्-वशीकरणम् इत्य् अर्थः । भगवद्-वशीकरणार्थकैः कामैर् हेतुभिर् न तु ज्ञान-परवन् निष्कामतयेत्य् अर्थः, तादृश-कामानां निष्कामतायाः शिरोधार्यत्वात्, बहुत्वं बाहुल्यस्य गौरवस्य वापेक्षया । तान् एवाह—विष्णोर् आराधन-रूपो यो\ऽर्थः पुरुषार्थः, तद्-अर्थं च स्व-पुत्रस्योदय उत्कर्षः, तद्-अर्थं परमैकान्तित्वात् । तत्त्वतस् तु विष्णोर् आराधनस्यार्थः फलम्, तद्-रूपाय स्व-पुत्रोदयायेत्य् अर्थः ॥१५.१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्द इति युग्मकम् । तेभ्यो गोपीभ्यो गोपेभ्यश् च तथा सुतादिभ्यश् च । ये च अन्ये विद्योपजीविनः गायक-वादकादयः, तेभ्योऽपि वास-आदिकं प्रादाद् इति शेषः । तत्र धनं स्वर्ण-रूप्यादि यथोचितम् इत्य् उत्तर-पद्य-पदेनात्राप्य् अन्वयः । स्वत एव अदीनात्मा उदार-चित्तः, सम्प्रति तु महामना इति पुनर्-उक्तिः पुर्ववत् श्री-कृष्ण-मनस्त्वेन तत्रौदार्य-विज्ञत्वादि-गुणानां मुहुर् अतिशयिताभिप्रायेण, न केवलं तावता तृप्तवान् ।
किं च--तैस् तैर् इति । तैस् तैः कामैः सह पुनश् च ये ये स्वैरं प्रार्थिताः, तत्-तत्-काम-दान-पूर्वकं सर्वांस् तान् यथोचितं जाति-वयो-विद्यानुरूपम् अपूजयत् स्रक्-चन्दन-ताम्बूल-प्रोत्साहनादिभिः सम्मानितवांश् च । दानादेर् उद्देश्यम् आह--विष्णोर् आराधनस्य योऽर्थः फलं, तत्-सन्तोषः तस्मै परम-वैष्णवत्वात् कामितार्थानन्त्य-कामत्वाच् च, न त्व् अपूर्व-मात्राय तथा स्व-पुत्रस्याभ्युदयाय च, "अनेन कर्मणा श्री-विश्णुः सन्तुष्यतु, तत्-प्रसादेन च मम पुत्रस्याभ्युदयो भवतु" इति सङ्कल्पयन्न् इत्य् अर्थः । अथ च विष्णोर् आराधनस्य यत्-फलं तद्-रूपाय तद्-अभ्युदयाय तद्-गृहे रूप-गुण-लीलैश्वर्य-प्रकाशनायेति पद-श्लेषेण। यद् एव [मनम]{।मर्क्}-प्रप्तं, तं च तस्य रग-प्रप्तत्वात् परम-महद् इति प्रकरणार्थेन च मुनीन्द्रः सिद्धान्तम् अपि विन्यास्यद् इति ज्ञेयम् । अत्र च-शब्दो\ऽप्य्-अर्थे । स च दुर्लभत्वं सूचयति--नन्दः किम् अकरोद् ब्रह्मन् [भा।पु। १०.८.४६] इत्य्-आदेः, नेमं विरिञ्चः [भा।पु। १०.९.२०] इत्य्-आदेः, युवां श्लाघ्यतमा [भा।पु। १०.४६.३०] इत्य्-आदेश् च ॥१५.१६॥
जीव-गोस्वामी (प्रीति-सन्दर्भः २४३): अथ [वात्सल्य-भावे अनुभाव-रूपा] तच्-छ्रेयो-निबन्धना देवादि-पूजा—तैस् तैः इति । "अनेन विष्णुः प्रीणातु, तेन च मत्-पुत्रस्योदयो भवतु" इति सङ्कल्प्य सर्वा यथोचिताम् अपूजयद् इत्य् अर्थः ॥१६॥
———————————————————————————————————————\
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-मना महोदार-मनाः प्रदात् ये\ऽन्ये तेभ्यो\ऽपि । विद्या नृत्य-गीत-वाद्य-शस्त्राद्याः । तैस् तैर् इति यान् यान् अयाचन्तेत्य् अर्थः । यथोचितं विद्या-गौरवादिकम् अनतिक्रम्येत्य् अर्थः । दानादेः फलम् आह—विष्णोर् आराधनस्यार्थः विष्णु-सन्तोषस् तस्मै तस्यापि फलं स्व-पुत्रस्याभ्युदयः, "अनेन दानादि-कर्मणा विष्णुः प्रसीदतु । विष्णोः प्रसादेन मत्-पुत्रः कुशली भवतु" इति सङ्कल्पयन्न् इत्य् अर्थः । च-कारेण नव-ग्रह-दिक्-पालादीनाम् अपि स्व-पुत्रं प्रति प्रसादार्थम् ॥१५.१६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.१७ ॥
रोहिणी च महा-भागा नन्द-गोपाभिनन्दिता ।
व्यचरद् दिव्य-वास-स्रक्-कण्ठाभरण-भूषिता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महा-भागा वसुदेव-पत्नीभ्यस् सर्वाभ्योऽपि श्री-कृष्ण-बाल्य-लीलोत्सव-लाभाद् इति भावः । नन्द-गोपेन नन्द-राजेन गोपो भूपतिः इत्य् अमरः । यद् वा, नन्द-शब्देन नव-नन्दा ग्राह्याः, तेषां राज्ञा,
नव-लक्ष-मिता गावो यद्-गृहे सन्ति सर्वदा ।
स नन्दो नन्द-राजस् तु ज्ञेयोऽसङ्ख्य-गवाधिपः ॥ इति गर्गोक्तेः ।
अभिनन्दिता "त्वद्-आगमनाद् एव मत्-पुत्रोऽयं जातः" इति श्लाघिता व्यचरत्, समागत-स्त्री-जन-सम्माननार्थम् इतस् ततश् चचार । दिव्य-वासादिभिः श्री-यशोदा-नन्दाभ्यां दत्तैर् भूषिता पत्युर् बन्धनादि-दुःखं स्वस्य च तद्-विच्छेदादि-दुःखं कृष्ण-जन्मोत्सवानन्देन विस्मृत्यैवेत्य् अर्थः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-रोहिणी श्री-वसुदेव-विरह-दुःखित्वाद् अधिकं सम्मानितेत्य् आह—रोहिणी इति । महा-भागा इति श्री-भगवद्-आविर्भावानुभवात्, सर्वत्र कृष्णेनाविच्छेदाच् च, श्री-नन्द-व्रजे वसतेश् च । अतो नन्दो यो गोपो गां पृथ्वीं पातीति महा-राजः, तेन । यद् वा, नन्देन गोपैश् च । यद् वा, महा-भागा परम-भाग्यवती श्री-यशोदा। किं वा, महा-भागाः श्री-यशोदाद्याः सर्व-गोप्यः, ताभिर् नन्द-गोपैश् च अभिनन्दिता सम्मानिताभितो हर्षिता वा । अतो विरहिणीत्वाद् अनिच्छुर् अपि तैर् दिव्य-वासादिभिर् भूषिता । एषाम् एवोक्तिर् मुख्यत्वाद् अन्यान्य् अप्य् आभरणानि ज्ञेयानि । दिव्येति श्री-यशोदादिभिर् निज-वस्त्रादिभ्यो\ऽप्य् उत्तम-वस्त्रदि-दानात् । व्यचरत् महोत्सवे तस्मिन् प्रीत्या विविध-व्यापारेणेतस् ततो बभ्रामेत्य् अर्थः । एतद्-अर्थम् एव स्व-गृहान्तः-शायितस्य तदीयाम् अभिनव-बालकस्यात्रानुक्तिः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रोहिणी रोहयति जनयति व्रज-सुखं तच्-छीलेति रोहिणी। अद्यैव स्व-नाम-निरुक्ति-साफल्य-परमोत्कर्षं प्राप्तेति भावः । सा च महा-भागा तादृश-स्वीय-पुत्रोदयेन तस्यापि परमाश्रयस्य निज-प्राणासहचर्याः श्री-यशोदायास् तनयस्याप्य् उद्येन च तत्-तद्-बाल्यादि-लीला-माधुर्य-लाभेन च अन्याभ्यः श्री-वसुदेव-पत्नीभ्यः श्री-देवकीतश् च भाग्य-विशेषवती । "त्वद्-आगमन-मात्रेण मङ्गलेनैवायं मम पुत्रो जातः" इति श्रीमन्-नन्दाभिध-गोकुल-राजेन अभिनन्दिता सती । गोपो भूपेऽपि इत्य् अमरः । श्रीमन्-नन्देन गोपैश् चाभिनन्दिता सतीति वा । यद्-उल्लासेनैव तद्-दत्तानि दिव्यानि मर्त्य-दुर्लभानि यानि वास-आदीनि स्वयम् अपि तद्-उल्लासेनैव सर्वं दुखं विस्मृत्य तैर् मण्डिता सती व्यचरत् महोत्सवे तस्मिन् प्रीत्या विविध-व्यापारेण इतस् ततो बभ्रामेत्य् अर्थः । एतद्-अर्थम् एव स्व-गृहान्तः-शायितस्य तदीयाभिनव-बालकस्यात्रानुक्तिर् इति ज्ञेयम् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महाभागा वसुदेव-पत्नीभ्यः सर्वाभ्यो\ऽपि श्री-कृष्ण-बाल्य-लीलोत्सव-लाभाद् इति भावः । नन्द-गोपेन नन्द-राजेन, गोपो भूपे\ऽपि इत्य् अमरः । अभिनन्दिता "त्वद्-आगमन-मङ्गलेनैव मत्-पुत्रो\ऽयम् अभूत्" इति । व्यचरत् [समागस्त्राजन]{।मर्क्}-सम्माननार्थम् इत्य् अर्थः । दिव्य-वास-आदिभिः श्री-यशोदा-नन्दाभ्यां दत्तैर् भूषिता पत्युर् बन्धनादि-दुःखं स्वस्य च तद्-विच्छेदादि-दुःखं श्री-कृष्ण-जन्मोत्सवानन्देन विस्मृतैवेति भावः ॥१७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.१८ ॥
तत आरभ्य2 नन्दस्य व्रजः सर्व-समृद्धिमान् ।
हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हरेर् निवासेन ये आत्मनि गुणाः सर्व-प्रियत्वादयस् तैः । रमाया आक्रीडं विहार-स्थानम् ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्व् अभिमत-पूरणं तु धनदेनाप्य् अशक्यं कथं नन्देन कृतम् । तत्राह—तत इति । गुणाः सर्व-पालनादयः । रमायाः सर्व-सम्पत्तेः रमा श्री-सर्व-सम्पदोः इति यादवः । यदा सर्व-सम्पत्तिर् एव क्रीडितुम् आरेभे तदा कस्य देवस्तुनस् तत्राभाव इति भावः । यद् वा, नायं श्रियः इत्य् आद्य् उक्तरीत्या वैकुण्ठ-श्रीतोऽपि व्रजदेवीनाम् एव परम-रमात्वोक्तेस् तासाम् अपि परमरमा श्री-राधा रस्या अपि तदानीम् आविर्भावात् तस्याश् च क्रीडास्थानं तदारभ्याभूद् इति । किं च, चिन्तामणि-सद्मादीनाम् अपि निगूढ-नित्य-क्रीडायां श्रवणात् तद् रमा-क्रीडमेवेति तत्त्वम् । तद् उक्तं
चिन्तामणि-प्रकरसद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभीर् अभिपालयन्तम् ।
लक्ष्मी-सहस्र-शतसम्भ्रम-सेव्यमानं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितायाम् ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, सद्य एव धेनु-लक्षण-द्वयस्य सम्यग् अलङ्कार-सम्पादनं सप्त-तिलाद्र्यापि-साधनं व्रजासंस्येय-धेनु-वृषाद्य् अलङ्करणं बहुल-वस्त्रालङ्कारादि दानं च कथं सिद्धम् इत्य् अपेक्षायाम् आह—तत इति । प्राक् स्वत एव सर्व-समृद्धिमान् विशेषतस् ततः श्री-भगवज् जन्मन आरभ्य व्रजः सर्व-घोषो रमाक्रीडं महा-लक्ष्म्या आक्रीडत्वेन वैकुण्ठाप्य् अधिको\ऽभूत् । तत्र हेतुः—हरेर् इति । स्वीयेषु सर्व-गुण-प्रप्यस्य भगवतो नितरां वासेसेनात्म-शब्देन श्री-नन्दो व्रजो वा, गुणाः परमौदार्यादयो भक्ति-लक्षणा वा तैर् अतस् तत्र चिन्ता-मणि-मन्दिर-कल्प-द्रूम-काम-धेन्बादयो\ऽपि सम्भाव्याः, किं पुनस् तत् तद् इति भावः । हे नृपेति महा-राजस्य भावाद् दृशो\ऽपि तत् सुदुर्लभम् इति भावः । आश्चर्येण वासम्बोधनम् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, सद्य एव धेनु-नियुत-द्वयस्य सम्यग् अलङ्कार-सम्पादनं सप्त-तिलाद्ग्यादि-साधनं व्रज-सङ्ख्येय-धेनु-वृषाद्य् अलङ्करणं बहुल-स्रालङ्कारादि-दानं च कथं सिद्धम् ? इत्य् अपेक्षायाम् आह—तत इति । प्राक् स्वत एव मथुरा भगवान् यत्र इत्य्-आदि-न्यायेन योऽसौ गोपेषु तिष्ठति इति तापनीश्रुत्या जयति जननि-वासः इति प्रीयान् न इन्द्रो गवाम् इति भगवान् गोकुलेश्वरः इति श्री-शुकोत्क्या च हरेर् निवास-भूतो य आत्मा तस्य स्वस्यैव ये गुणास् तैः सर्व-समृद्धिमान् व्रजः तत इति तत् तस्य जन्मारभ्य तु रमाक्रीडं बभूव
चिन्ता-मणि-प्रकार-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभीर् अभिपालयन्तम् ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं
गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥
इति ब्रह्म-संहितानुसारेण तत् तन् मन्त्रादौ स्वयं भगवन् इत्य् अप्रेयसी तया सेव्यत्वेन नायं श्रियः इत्य्-आदौ वैकुण्ठ-श्री-विजयेन तासु स्वर्योषिदादि-सर्वान्ययोषित्व-परिहारेण च व्रज-देवीनाम् एव परमरमारूपाणां तासाम् अपि परमरमाया श्री-राधायाश् च तदानीम् एवाविर्भावाद् विहार-स्थानम् अपि बभूवेत्य् अर्थः । यदि च तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् सन् हरे निवासात्म-गुणै-रमाकीडं यथा स्यात् तथाभूद् इति सरलान्वयः क्रियते तद् अपि पूर्वद् एवार्थः प्रसज्जते तद् आरभ्य तस्य व्रजः सर्व-समृद्धिमानासीद् इति मात्रं किं वक्तव्यं यः खलु हरि-निवास-लक्षणस्य स्व-रूपस्य गुणै-रममाणां तासाम् अप्य् आक्रीडतयासीद् इति ततो जगल् लक्ष्मी मात्र-दृष्ट्याप्य् आकस्मिक-सर्व-सम्पत्ति-सम्भवात् तदानीं तत्र किम् इवासम्भवं यत्र चिन्ता-मणि-मन्दिरादयोऽपि निगूढ-लीलायां सन्तीति भावः । तां चाष्टाविशाध्यायादौ प्रतिपादयिष्यामः तद् एवं प्रसङ्गतः श्री-व्रजदेवीनाम् अपि भगवद्वत् प्राकट्य-मात्रं जन्म सूचितं रमाक्रीड-शब्देन च सर्व-समृद्धिमत्त्वे वाच्ये पौनर् उक्त्यं स्यात् रमान्तराक्रीडत्वे वाच्ये प्रसिद्धि-विच्युतिर् भवति हरेर् निवासात्म-गुणै इत्य् एतावता विवक्षित-सिद्धेर् आत्मपद-वैयर्थ्यं जायते तस्माद् अविचार-प्रतीतम् अर्थान्तरं नादृतम् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततः स्व-बालके जाते ॥१८॥
कृष्ण-सन्दर्भ (१३७): हरेर् निवास-भूतो य आत्मा, तस्य ये गुणाः, तैर् एव सर्व-समृद्धिमान्, नित्य-योगे मत्व्-अर्थीयेन नित्यम् एव सर्व-समृद्धि-युक्तः श्री-नन्दस्य व्रजः । ततस् तं श्री-कृष्ण-प्रादुर्भावं आरभ्य तु रमाक्रीडां—
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभिर् अभिपालयन्तम् ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् [ब्र।सं। ५.२९] इत्य् अत्र प्रसिद्ध्या
रमाणां महा-लक्ष्मीणां श्री-व्रजदेवीनाम् अपि साक्षाद् विहारास्पदं बभूव । हरि-निवासात्मनि तत्र श्री-कृष्णो यावन् निगूढतया विहरति स्म, तावत् ता अपि तथैव विहरन्ति स्म । व्यक्ततया तु ता अपि व्यक्ततयेत्य् अर्थः ॥१८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कुबेरेणाप्य् अशक्यं नराणं कामित-पूरणं श्री-नन्द-राजेन कथं हृतम् इत्य् अत आह—तत इति । हरेर् निवास-भूतस्यात्मनो गुणैर् व्रजः सर्व-समृद्धिमान् एव सदा तत आरभ्य तु रमायाः सर्व-सम्पत्तेर् आक्रीडं क्रीडास्पदम् अभूत् । यदि सर्व-सम्पत्तिर् एव नन्द-भवने क्रीडितुम् आरेभे तदा कस्य देय-वस्तुनस् तत्राभाव इति भावः ॥१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.१९ ॥
गोपान् गोकुल-रक्षायां निरूप्य मथुरां गतः ।
नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वार्षिक्यं प्रतिवर्षं देयम् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चिरात् सर्व-मनोहर-पुत्रोत्पत्त्या प्राप्त-महा-निधिर् इव श्रेयांसि बहु-विघ्नानि इति विमृश्य श्री-नन्दराजो यथा पितृ-दिक्-पाल-ग्रहादीन् पूजादिभिः प्रसादयामास तथा देशाध्यक्षं दुष्ट-नृपं कंसम् अपि स्वर्ण-मुद्राद्य् उपहारेण प्रसादयितुं वार्षिक-कर-दानमिषेण । तत्-समीपं गन्तुं न विललम्ब इत्य् आह—गोपान् इति । हे कुरूद्वहेति । यथा कुरुकुल-सन्तानैक-हेतोस्तव रक्षार्थं श्री-युधिष्ठिरादयो व्यग्रास् तथेति सम्बुध् अभिप्रायः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्वम् अपुत्रेण धनादौ ममत्वाभावतः श्री-नन्दस्य कंसाद् भयम् अकिण्चनस्य् एव गत इत्य् आह—गोपान् इति । निरूप्य नियुज्य वार्षिक्यं [प्रति-वर्षारम्भे] वर्षा-काले देयम् । हे कुरूद्वहेति यथा कुरुकुल-सन्तानैक-हेतोस् तव रक्षर्थं श्री-युधिष्ठिरादयो व्यग्रास् तथेति भावः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वम् अपुत्रत्वेन धनादौ ममत्वाभावतः श्री-नन्दस्य कंसाद् भयम् अकिञ्चनस्य् एव नासीत् अधुना तु पुत्र-महा-रत्न-प्राप्त्या सर्वतः शङ्गोत्पत्त्या तद् रक्षार्थं व्यग्रस् सन् दुष्टतर-भय-समाधानार्थं राजधानीं श्री-घ्रं स्वयम् एव गत इत्य् आह—गोपान् इति । निरूप्य नियुज्य वार्षिक्यं श्रावणस्य वर्षान्तरारम्भकत्वात् तदैव देयं हे कुरूद्वहेति यथा कुरु-कुल-सन्तानैक-हेतोस् तव रक्षार्थं श्री-युधिष्ठिरादयो व्यग्रास् तथेति भावः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चिरात् सर्वमनोहर-पुत्रोत्पत्या प्राप्त-महा-निधिर् इव श्रेयांसि बहु-विघ्नानि इति विस्मृत्य श्री-नन्द-राजो यथा देव-पितृ-दिक्-पाल-ग्रहादीन् पूजादिभिः प्रसादयामास तथा देशाध्यक्षं दुष्ट-नृपं कंसम् अपि स्वर्ण-मुद्रा-रत्न-वस्त्राद्य् उपहारेण प्रसादयितुं वार्षिक-कर-दानम् एषेण तत् समीपङ्गन्तुं न विललम्बे इत्य् अःअ गोपान् इति ॥१९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२० ॥
वसुदेव उपश्रुत्य भ्रातरं नन्दम् आगतम् ।
ज्ञात्वा दत्त-करं राज्ञे ययौ तद्-अवमोचनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भ्रातरं सखायम् । तद् अवमोचनं तस्य नन्दस्य वसति-स्थानम् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भ्रातरं वैश्य-कन्यायां शूरव-मात्रेयभ्रातुर् जातत्वादति । भारत-तात्पर्ये श्री-मध्वाचार्यैर् उक्तं ब्रह्म-वाक्यम् ।
तस्मै मया स वरः सन्निसृष्टः स चास नन्दाख्य उपास्य भार्या ।
नाम्ना यशोदा स च शुरतातसुतस्य वैश्याप्रभवोथ गोपः ॥
इति वैश्याप्रभव इति पितामह्यास् तज् जातित्वात् । अत एव यादवानां हितार्थाय धृतो गिरिवरो मया इति भगवद् वाक्यम् यादवेषु च सर्वेषु भवन्तो मम वल्लभाः इति तद्-भातृन् प्रति बलदेव-वाक्यम् । भ्राता सहोदरे मित्रे पितृव्यादिसुतेऽपि च इति धरणिः । अव समन्तान् मुच्यते शकटादिकं यत्र तत्-कृतावासस्थानम् इत्य् अर्थः । त्यागे स्थानेऽवमोचनम् इति च । यद् वा, मार्ग-वासोऽवमोचनम् इति कोशाच् छिविर-[डेराम्] इत्य् अर्थः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपश्रुत्य समीप एव श्रुत्वा श्री-वल्लवेन्द्रागमन-वार्तायाः सर्वत्रैव प्रचाराद्-राज्ञे कंसाय च दत्तकरं च ज्ञात्वा, अन्यथा व्यग्र-चित्ततया सुख-गोष्ठ्य-सम्भवः । यद् वा, उपश्रवणे हेतुः—राज्ञे दत्त-करम् इति बहुल-गो-रसादि-कर-दानेन सुप्रसिद्धि-प्राप्तेस् तस्य नन्दस्यावमोचनं शकटोत्तारस्थानम्, श्री-नन्दस्य श्री-वसुदेवेन सह समागमार्थं तत् सद्मन्य-गमनं कंस-भयात् । किं वा, यावद् अयं याति, तावद् एव पुत्र-स्नेह-व्यग्रतया श्री-वसुदेवस्यैव तत्रागमनात् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपश्रुत्य जन-परम्परया श्रुत्वा श्री-वल्लवेन्द्रस्य सर्वजनादृतत्वात् ततश् चरद्वारा राज्ञे कंसाय दत्तकरं च ज्ञात्वा अन्यथा व्यग्र-चित्ततया सुख-गोष्ठ्य सम्भवात् भ्रातरं वैश्य-कन्यान्यां शूर-वैमात्रेय-भ्रातुर् जातत्वाद् इति श्री-मध्वाचार्याः तथोक्तं ब्रह्म-वाक्ये
तस्मै मया सवरः सन्निसृष्टः स चास नन्दाख्य उतास्य भार्या ।
नाम्ना यशोदा स च शुरतात-सुतस्य वैश्या-प्रभवोथ गोपः ॥
इति वैश्याप्रभव इति पित-मह्यास् तज् जातित्वात् अत एव स्कान्दे—यादवानां हितार्थाय धृतो गिरि-वरो मया इति । श्री-भरावद् वाक्यं यादवेष्व् अपि सर्वेषु भवन्तो मम वल्लभाः इति हरिवंशे तद्-भ्रातृन् प्रति श्री-राम-वाक्यं च तस्य अवमोचनं शकटादिकम् अव समन्तात् यत्र तत्-कृत-वास-स्थानं तस्य पूर्वं गमनं पुत्र-वार्तोत्कण्ठया तद्-रक्षणाय झटिति प्रस्थापयितुम् इच्छया च ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भातारं वैश्य-कन्यायां शुर-वैमात्रे-भ्रातुर् जातत्वाद् इति भारत-तात्पर्ये श्री-मध्वाचार्य-चरणैर् उक्तं ब्रह्म-वाक्यं तस्मै मया स वरः सन् निसृष्टः स चास नन्दाख्य उतास्य भार्या नाम्ना यशोदा स च शुरतातसुतस्य वैश्याप्रभवो\ऽथ गोपः इति वैश्या-प्रभव इति पितामह्यास् तज् जातित्वात् अत एव स्कान्दे यादवानां हितार्थाय धृतो गिरिवरो मया इति भगवद् वाक्यं यादवेषु च सर्वेषु भवन्तो मम वल्लभाः इति तद् भ्रातॄन् प्रति राम-वाक्यं च तद् अवमोचनं तस्य वसति-स्थानम् ॥२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२१ ॥
तं दृष्ट्वा सहसोत्थाय देहः प्राणम् इवागतम् ।
प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेम-विह्वलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रियतमं प्रियतर-पुत्र-रक्षकत्वात् । पुत्र-स्मृतिजप्रेम्णा विवशः पूजितः पाद्यादिना नन्देनार्चितः स्व-स्थानागतत्वात् ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तं श्री-वसेवं सह-साकस्माद् एव श्री-नन्दो दृष्ट्वा सहसेति कंस-भयादिना तस्य तत्र गमनासम्भवात् । यद् वा, सहसा सपद्य् एवोत्थाय, तत्र दृष्टान्तः—देह इति । प्रोतत्वाद् एव प्रेम्णा विह्वलः कम्पादि-विकारैर् आकुलः सन्, यतः प्रियतमम् इति प्राणोभो\ऽप्य् आधिक्यं सूचितम् । यद् वा, ततः प्रेम-विवशश् च क्षणं बहूव, श्री-वैष्णव-प्रवर-सङ्गम-स्वभावात् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् दृष्ट्वेत्य् आदौ नन्द इत्य् अद्ध्याहार्यं ततश् च कंस-भयादिना तस्यागमनासम्भवेऽपि सहसैवागतं तं श्री-नन्दं दृष्ट्वा यद् वा सहसा सपद्येवोत्थाय प्रीतः लब्धः परमानन्दः ततश् च प्रेम्णा विह्वलः कम्पादि-विकारैर् आकुलः सन् यतः प्रियतमं यद् वा ततः प्रेम-विवशश् च क्षणं बभूव । तत्र श्री-नन्दस् तम् आगतम् इत्य् एतावत्य् अंशे देह प्राणम् इवेति दृष्टान्तः न तु दृष्ट्वेत्य् आद्य् अंशे\ऽपि तत्रासम्भवेनाव्याप्तेः ततश् च तं दृष्ट्वेत्य् आदिकं सर्वं योजयित्वा पश्चात् कः किम् इवागतम् इत्य् उदक्यं योजनीयं देहः प्राणम् इवेति वर्णज्येष्ठस्यापि श्री-वसुदेवस्य श्रीमन् नन्देन नामस्कृतत्वाद्वयनमनुजत्वं लक्ष्यते तच् च पुनर्जनिष्यमाणापत्यस्य वचसा व्यक्ती-भविष्यति दिष्ट्या भ्रातः प्रवयसः इत्य्-आदिना ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं वसुदेस्वं सस्वजे नन्दः न तु नमश्चकार वयसा ततो ज्येष्ठत्वात् ॥२१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२२ ॥
पूजितः सुखम् आसीनः पृष्ट्वानामयम् आदृतः ।
प्रसक्त-धीः स्वात्मजयोर् इदम् आह विशाम्पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वर्णज्येष्ठस्यापि वसुदेवस्य श्री-नन्देनाकृत-नमस्कारत्वाद् व्यसानुजत्वं गम्यते । अनामयं कुशलं नन्देनादृतः कृतादरः । तत्-कुशल-प्रश्नमिषेण निजात्मजयोस् तत्-पृच्छतीत्य् आह—स्वात्मजयोर् इति ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : [+++]{।मर्क्}
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् चार्थात् श्री-नन्देन पाद्यादिना पूजितः श्री-वसुदेवः तच् च स्ववासागतत्वात् अनामयं कुशलम् इत्य् अर्थः । सविनय-वचनादिना आदृतश् च सन् इदेअ वक्ष्यमाणम् आह—प्रसक्तधीर् इति । वक्ष्यमाणस्य पुत्रार्थकत्वात् स्व-शब्देन तदानीं तत् सङ्ग-स्वभावेन तस्य भगवद् बुद्धि-मिश्रित्वेऽपि वात्सल्यम् एवासीद् इति भावः । तत्र श्री-शुकेन स्वानुमोदनं च व्यञ्जितं विशाम्पते प्रजा-नाथ ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आह वसुदेवः ॥२२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२३ ॥
दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते ।
प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रगतं वयो यस्य स प्रवया वृद्धस् तस्य प्रवयः-स्थविरौ समौ इत्य् अमरः । इतः पूर्वम् अप्रजस्य निःसन्तानस्य पुत्री जात इत्य् उक्तं मिथ्योक्तिः कन्येत्य् उक्ते नन्दस्याप्रतीतिर् इति हेतोर् मत्-पुत्र-न्यासं स्व-कन्याचौर्यं कथञ्चिन् नन्दो जानाति न वेति शङ्कयापि प्रजा-शब्द-प्रयोगेणाह—प्रजेति ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रजाशाया निवृत्तस्यापीति बहुल-यज्ञादि-प्रयासैर् अप्य् अनुत्पत्तेः, प्रजा पूत्र इदानीं वर्धक्ये यत् समपद्यत सम्पन्ना, एतद् दिष्ट्या भद्रम् अभूत् । समपद्यतेति प्रजायाः परमोत्तमत्वात्, तज् ज्ञानं च तत्-कृत-महोत्सवेन लोक-विख्यातत्वात्, पाठान्तरे सम्यग् जायतेति स्वकृत-परिवर्तनादि-सङोपनार्थम्—अत्रापि संशब्देन परमोत्तमतोक्तैव । श्री-नन्दस्य श्री-भगवद् एव-स्नेहभरार्थम्—लोके हि वयो\ऽधिकस्यानपत्यस्य, अत एव निराशस्याकस्माद् उत्पन्ने पुत्रोत्तमे अत्यन्त-स्नेहोत्पत्तेः ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दिष्ट्येति । अनेन रहस्यं दूत-प्रस्थापनं गम्यते बहुल-यज्ञादि-प्रयासैर् अप्य् अनुत्पत्तेः प्रजा-मात्रस्याशाया निवृत्तस्यापि इदानीं यत् प्रजा समपद्यत परमोत्तम-पुत्रत्वेन सम्पन्नतया जातेत्य् अर्थः । एतद् दिष्ट्या सोऽयं सिद्धान्त-सरस्वती-संवादः स्व-मते तु छलेनैव तथोक्तं सम्यग् प्राप्यतेत्य् एवार्थः प्रजेत्य् एव वा छलोक्तिः सन्तति-मात्रार्थत्वात् अत्रैव विवेचनीयम् अनेन तद् अभिप्रायाज्ञानाद् एव प्रजामात्राशा तस्य दर्शिता तस्य तु तादृश-प्रजनाया एवाशा प्राग् आसीत् फलेन फल-कारणानुमानात् अत एव दुर्लभत्व-गोपनाय विलम्बो\ऽप्य् अभूत् तथा तस्य प्रवस्यस्त्वादिकम् अपि तत् ज्ञापनं तु पुत्रतापन्ने श्री-भगवति स्नेहभरोद्दीपनार्थं लोके हि वयोधिकस्यानपत्यस्य बहु-प्रयत्नेनाप्य् अप्राप्तापत्यस्य अत एव निराशस्याकस्माद् उत्पन्ने पुत्रोत्तमे अत्यन्त-स्नेहो-दृश्यत इति ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रवयसो वृद्धस्य पुत्रो जात इत्य् उक्ते मिथ्योक्तिः कन्येत्य् उक्ते नन्दस्याप्रतीतिर् अतः प्रजेत्य् अवाचक-शब्द-प्रयोगः मत् पुत्र-न्यासं स्व-कन्या-चौर्यं च कथञ्चिन् नन्दो जानाति न वेति शङ्क्यापि तच् छब्द-प्रयोगः ॥२३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२४ ॥
दिष्ट्या संसार-चक्रे\ऽस्मिन् वर्तमानः पुनर्-भवः ।
उपलब्धो भवान् अद्य दुर्लभं प्रिय-दर्शनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनर्-भवः पुनर्-जात इव । तत्र हेतु-गर्भं विशेषणं संसार-चक्रे वर्तमान इति ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बन्धनादि-क्लिष्टस्य्स मम पुनर्भवो वर्तमानोऽयं पुनर्जन्मैवाभूद् इत्य् अर्थः । यतो भवानुपलब्ध इत्य् एतावत्-काल-पर्यन्तम् अहं भवद् अनुपलम्भान् मृत इवेति भावः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : संसाक-चक्रे वर्तमान इति सदा मृत्यु-ग्रस्त-प्रायत्वम् उक्तम्, तश् च अनिष्टा-शङ्कीनि बन्धु-हृदयानि भवन्ति इत्य्-आदि-न्यायात् । अन्यत् तैर् व्याख्यातम् । यद् वा, अस्मिन् सहसा मरणादि-धर्मिण्य् अपुत्रत्वादि-दुखमये संसार-चक्रे वर्तमानो\ऽपि भवान् पुनर् भवः पुतृअदि-रूपेण पुनर् जात इव यद् उपलब्धो मया—एतद् दिष्ट्या महा-भाग्येनेत्य् अर्थः, यतः प्रियस्य दर्शनं दुर्लभम् । यद् वा, संसार-चक्रे वर्तमानो भवान् अद्य पुनर् भवः पुनर् जात इव यद् तद् दिष्ट्या, यतः प्रवयस् त्वेन दुलभम् अपि प्रियस्य पुत्रस्य दरानं भवान् अद्य वार्धक्ये उप निकटे वार्धक्य् आगम-मात्रे लब्ध इति । यद् वा, संसार-चक्रे वर्तमानो\ऽप्य् अहं दिष्ट्या पुनर् जात इव, यतो भवान् मत् प्रियतमो दुर्लभं प्रियस्य पुत्रस्य दर्शनम् उपलब्ध इति ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिष्ट्येति बन्धनादि-क्लिष्टस्य मम पुनर्भवो वर्तमानोयं पुनर् जन्मैवाद्याभूद् इत्य् अर्थः । यतो भवानुपलब्ध इत्य् एतावत् काल-पर्यन्तम् अहं भवद् अनुपलम्भान् मृत इवासम् इति भावः ॥२४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२५ ॥
नैकत्र प्रिय-संवासः सुहृदां चित्र-कर्मणाम् ।
ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्लभत्वम् एवाह—नैकत्रेति । प्रियश् चासौ संवासश् च प्रिय-संवासः । हे प्रियेति वा । स्रोतस ओघेन नीयमानानां प्लवन्तीति प्लवास् तृणकाष्टादयस् तेषां यथैकत्र स्थितिर् नास्ति तद्वत् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : संवास इह सम्-उपसर्गेणैव वासे प्रियत्वावगतेः पुनः प्रिय-शब्दे न समासो न श्रैष्ठ्याधायक इति हेतोर् आह—हे प्रियेति वा । तद्वत्-सुहृदाम् अपीत्य् अर्थः ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : संवासः सदा स्थितिर् न स्यात्, तत्र हेतुः—चित्रेति तत् तद् भोगार्थं तत्र तत्र नयनेन स्वेच्छा-भङ्गात्, व्युह्यमानानाम् इति पाठे वह—प्रपण इति स एवार्थः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवञ् चेद् आवाम् एकत्रैव वसावस् तत्राह—नैकत्रेति । हे प्रिये ! ओघेन स्रोतसो वेगेन व्यूह्यमानानां विविधं नीयमानानां प्लवन्तीति प्लवास् तृण-काष्ठादयस् तेषाम् ॥२५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२६ ॥
कच्चित् पशव्यं निरुजं भूर्य्-अम्बु-तृण-वीरुधम् ।
बृहद् वनं तद् अधुना यत्रास्से त्वं सुहृद्-वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कच्चिद् इति । पशव्यादि-रूपे तस्मिन् वने निर्दोष-गोपयोदध्य्-आदि-प्रभूत-गोपिकास् तन्यादिना पुत्र-क्षेम-विवक्षया पृच्छति, प्रसक्त-धिः स्वात्म-जयोर् इत्य् उक्तवात्
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गूढाभिसन्ध्या पृच्छति । कच्चिद् इति । बृहद् वनं महा-वनम् । पशव्यं पशुभ्यो हितम् । निर्गता रुक् गो-गोपीभ्यो यत्र तत् तथा समासान्तोऽच् प्रत्ययः । यद् वा, भागुरितेन टापि निर्गता रुजेति व्याख्येयम् । भूरयोऽधिका अंबुतृणवीरुधो यत्रेति ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निरुजं नीरुजम्—हृस्वश्छन्दो\ऽनुरोधात् । अधुना यत्रासस इति पशूनां सुखानुसारेण श्री-मथुरा मण्डले कदाचित् कस्मिश्चिद् वने स्थितः । यद् वा, अधुनेत्यस्य पूर्वार्ध सर्वेर् अपि पदैर् अन्वयः । विशेषतस् तदानीं तत् तद् अपेक्षया, सुहृद् भिर् वृत इति तैः सह तस्य तेस्;अम् अन्यो\ऽन्यश् च स्नेहापेक्षया ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पशुभ्यो हितं पशव्यं निरुजं हृस्वत्वं छन्दोनुरोधात् रुजाटावन्तः ॥२६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२७ ॥
भ्रातर् मम सुतः कच्चिन् मात्रा सह भवद्-व्रजे ।
तातं भवन्तं मन्वानो भवद्भ्याम् उपलालितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भवद्भ्याम् उपलालितः सन् कच्चिद् वर्तते ? इति शेषः ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मम सुत इत्य् एकत्वेऽपि ममेति पदं द्वित्वम् एव सूचयतीति मात्रा रोहिण्या ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मात्रा रोहिण्या सहितो निज-पुत्राद् अनुलालितः, विनयोक्तिर् इयम्, अन्यत् तैर् व्याख्यातम् ।
यद् वा, किं भवन्तं तातं मन्यमानो भवतीति स्नेहं जनयति । यद् वा, भवद्-व्रजे किम् आस्ते—किं कंस-भयादिनान्यत्र न गतोऽस्तीत्य् अर्थः । मम सुत इति पुरैव श्री-वसुदेवेन तज्-जन्म-श्रवणात्, तथा च शृइ-हरिवंशे—
प्राग् एव वसुदेवस् तु व्रजे शुश्राव रोहिणीम् ।
प्राजातां पुत्रम् एवाग्रे चन्द्रात् कान्ततराननम् ॥ [ह।वं। २.५.१] इति ।
अस्यार्थः प्राजातां जनितवतीम् अग्रे श्री-नन्द-नन्दन-जन्मनः पूर्वम् इति तयोर् जन्म च प्रायः सम-कालम् एव ज्ञेयम् । तथा च तत्रैव तदानीं श्री-वसुदेवोक्तौ—
वर्धमानाव् उभाव् एतौ समान-वयसौ यथा ।
शोभेतां गो-व्रजे तस्मिन् नन्द-गोप तथा कुरु ॥ [ह।वं। २.५.९] इति ।
अत एव तयोर् युगपद् रिङ्गणादि-लीला वक्ष्यत इति दिक् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मम सुतः सुखं वर्तत इति शेषः । मन्वान इति वर्तमान-सामीप्यान् मंस्यमान इत्य् अर्थः ॥२७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२८ ॥
पुंसस् त्रि-वर्गो विहितः सुहृदो ह्य् अनुभावितः ।
न तेषु क्लिश्यमानेषु त्रि-वर्गो \ऽर्थाय कल्पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुत्रादर्शन-क्लेशान् आह—पुंस इति । सुहृदो बन्धून् प्रत्य् अनुभावितः संपादितो यस् त्रि-वर्गः स हि पुंसो विहितो युक्तः शास्त्रेण वा प्रोक्तो न स्व-मात्र-पर्यवसितः । अतस् तेषु क्लिश्यमानेषु सुखाय न भवतीत्य् अर्थः ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रिवर्गः धर्म-कामार्थ-रूपः युक्त उचितः । औचित्यं कथम् इत्य् आकाङ्क्षायाम् आह—शास्त्रेण । इत्य् अर्थः इति । लोक-गर्हाहेतुत्वाद् इति भावः । तद् उक्तम्
येन जीवेन जीवन्ति विप्रा मित्राणि बान्धवाः ।
सफलं जीवितं तस्य स्वात्मार्थं को न जीवति ॥ इति ।
तोषिण्यां तु मित्र-पुत्रादीनाम् अपि पालनादिना भवतः परम-कृतार्था वृत्तैव अहं त्व् अधुना धनादिमान् अपि पुत्र-कलत्र-मित्रादि-दुःखेनाकृतार्थ एवेत्य् आह वसुदेवः—पुंसः पुंमात्रस्य श्लेषेण तद् एव पौरुषम् इति भावः । हि एव अनुभावित एव निष्पादित एव । क्लिश्यमानेषु क्लेशं प्राप्तवत्सु । अर्थाय सुखाय न कल्पते किं तु दुःखायैवेति भावः । तेषां दुःखे सति धर्मस्याप्य् अनादरणीयत्वात् । वृद्धौ च माता-पितरौ साध्वी भार्या सुतः शिशुः अप्य् अकार्यशतं कृत्वा भर्तव्यौ मनुरव्रतीत् ॥ इति स्मृतेः ॥२८॥ एवं मित्र-पुत्रादीनाम् अपि पालनादिना भरतः परम-कृतार्थता वृत्तैवाहं त्वधुनादिमान् अपि पुत्र-कलत्र-मित्रादि-दुःखेनाकृतार्थं एवेत्य् आह—पुंस इति पुंमात्रस्य, श्लेषेण तद् एव पौरुषम् इति भावः । हि एव, अनुभावित एव, क्लिश्यमानेषु क्लेषं प्राप्तवत्सु सत्सु सुखाय न क्ल्पते, न भवति, किन्तु दुःखायैवेत्य् अर्थः । धर्मस्यापि प्रायो\ऽर्थ-काम-फलस्य सुहृत्-क्लेशेन, दुःखात्मतायाम् एव पर्यवसानात् । अन्यत् तैर् वाख्यातम् । यद् वा, विहितः कुतो\ऽपि सुहृद् प्रत्य् अनुभावित एव सन् अर्थाय पलाय कल्पते समर्थो भवति, न च तेषु क्लिश्यामानेषु सुहृदाम् उपयोगेनैव सम्यक् फल-सिद्धेः । अन्यत् समानम् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं मित्र-पुत्रादीनाम् अपि पालनादिना भरतः परम-कृतार्थता वृत्तैवाहं त्वधुनादिमान् अपि पुत्र-कलत्र-मित्रादि-दुःखेनाकृतार्थं एवेत्य् आह—पुंस इति पुंमात्रस्य, श्लेषेण तद् एव पौरुषम् इति भावः । हि एव, अनुभावित एव, क्लिश्यमानेषु क्लेषं प्राप्तवत्सु सत्सु सुखाय न क्ल्पते, न भवति, किन्तु दुःखायैवेत्य् अर्थः । धर्मस्यापि प्रायो\ऽर्थ-काम-फलस्य सुहृत्-क्लेशेन, दुःखात्मतायाम् एव पर्यवसानात् । अन्यत् तैर् वाख्यातम् । यद् वा, विहितः कुतो\ऽपि सुहृद् प्रत्य् अनुभावित एव सन् अर्थाय पलाय कल्पते समर्थो भवति, न च तेषु क्लिश्यामानेषु सुहृदाम् उपयोगेनैव सम्यक् फल-सिद्धेः । अन्यत् समानम् ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अद्य सत्सु सुखाय न कल्पते, न भवति, किन्तु दुःखायैवेत्य् अर्थः । धर्मस्यापि प्रायोऽर्थकाम् अफलकस्य सुहृत् क्लेशेन, दुखात्मतायाम् एव पर्यवसानात् । अन्यत्तैर् व्याख्यातम् । यद् वा, विहितः कृतोऽपि सुहृद प्रत्य् अनुभावित एव सन् अर्थाय फलाय कल्पते समर्थो भवति, न च तेषु क्लिश्यमानेषु सुहृदाम् उपयोगेनैव सम्यक् फल-सिद्धेः। अन्यत् समानम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मम तु गृहाश्रमो विफल एवेत्य् आह—पुंसः सुहृदः स्त्री-पुत्रादीन् अनुलक्षीकृत्य त्रि-वर्गः शास्त्रेण विहितो भावितः स्वकर्मभिः निष्पादित तेषु सुहृत्स्विति स्त्री-पुत्रयोर् मद् विच्छेदात् मम च पुत्र-लालनादि सुखानवात्या न अर्थाय न प्रयोजनाय ॥२८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.२९ ॥
श्री-नन्द उवाच—
अहो ते देवकी-पुत्राः कंसेन बहवो हताः ॥
एकावशिष्टावरजा कन्या सापि दिवं गता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्दो वसुदेवं सान्त्वयन्न् आह—अहो इति ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्द इति श्रुत्वा । सान्त्वम् आह—त्वत्-पृष्टं मद्-व्रजे क्षेमम् अहं किं ब्रवीमि, यद् अहं त्वद्-दुःखेनैव महा-दुःखीत्य् आह—अहो इति । किं च, मत्-पुत्र-न्यासादिकम् अस्य न विदितम् इति ज्ञात्वा वसुदेवो गताशङ्कोन्तरानन्दितो बभूवेत्य् अपि ज्ञेयञ्चात्र ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं दुःख-शोक-परं श्री-वसुदेवम् आलक्ष्य तेन पृष्टम् अपि निजक्षेम-वृत्तं विनयेन साक्षाद् अनिरूप्या-प्रत्युत्तरेणैव सर्वम् अनुमोद्य तं सान्त्वयति-अहो इति खेदे ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भवता यद् व्रजक्षेमं पृष्टं तद् अस्य् एव वयं तु त्व्द् दुःखेन तद् अपि कथयितुं न शक्नुम इति व्यञ्जयंस् तम् एवानुशोचति—अहो इति खेदे ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वत् प्रष्टं मद्-व्रजक्षेमम् अस्तीति किं ब्रवीमि यद् अहं त्वद्-दुःखेनैव महा-दुःखीत्य् आह—अहो इति । ततश् च मत्-पुत्रन्यासादिकम् अस्य न विदितम् इति ज्ञात्वा वसुदेवो गताशङ्को\ऽन्तरा नन्दितो बभूवेति ज्ञेयम् ॥२९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.३० ॥
नूनं ह्य् अदृष्ट-निष्ठो\ऽयम् अदृष्ट-परमो जनः ।
अदृष्टम् आत्मनस् तत्त्वं यो वेद न स मुह्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अदृष्टे एव निष्ठा समाप्तिर् यस्य सः । यदैव पुत्रादि-सुख-प्रदम् अदृष्टं हीयते तदैव ते पुत्रादयो न भवन्तीत्य् अर्थः । अदृष्ट-परमः तथा अदृष्टम् एव परमं यस्य सः । यद्य् अपि पुत्रादयो वियुक्तास् तथापि तान् अदृष्टम् एव पुनः सङ्गमयतीत्य् अर्थः । एवम् अदृष्टम् आत्मनस् तत्त्वम् अव्यभिचारि-कारणं सुख-दुःखयोर् यो वेद स न मुह्यति । तस्माद् इदानीं त्वया न दुःखं भवनीयम् । मृतानाम् अपि वियुक्तानाम् अपि च कालान्तरे दर्शन-योगयोः सम्भवात् । अस्मद् आदिभिर् अपि कालान्तरे तद्-वियोगे सत्य् अपीति नन्दस्य दैवी वाग् एषा भावि-सूचिक ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । अदृष्टाधीनम् एव दुःखादीत्य् अर्थः । अदृष्टं प्राचीनं कर्म । इत्य् अर्थ इति । संयोगावियोगावप्य् अदृष्टाधीनाव् इति भावः । मृतानाम् अपीति जमदग्नि-सत्यवद् आदौ तथा दृष्टत्वाद् इति भावः । अस्मद् आदिभिर् अपि तद् वियोगे राम-कृष्ण-वियोगे । कालान्तरे आगामिनि समये । न दुःखं विभावनीयम् इति संबन्धः । यद् वा, न मृषेति हेतोर् हरिं मनोहरं स्वसुतं पति विशेषतो न जाने तत्र किं वृत्तम् इति चिन्तयन् शरणं निज-गृहं जगाम । दैवी दैवोच्चारिता । एषास्मद् आदिभिर् अपीत्य् आदि-रूपा । भाविसूचिका भविष्यद्-बोधिका ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नूनं निश्चिते, हि एव, अदृष्ट-निष्ठः एव, न मुह्यति मोहेन शोकं न प्राप्नोतीत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा अदृष्टाद् एव निष्ठा मरणं यस्येति तव त्वत् पुत्राणाञ्चैतादृश-दृष्ट्वत्वात् ते मृता इत्य् अर्थः । ननु तर्ह्य् अजन्मैव वरम् ? तत्राह अदृष्टम् एव परं जन्म-कारणं यस्येति ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सान्त्वयति—नूनं निश्चये हि एव अदृष्ट-निष्ट एव न मुह्यति मोहेन शोकं न प्राप्नोतीत्य् अर्थः । अन्यत् तैः । तत्र न भवन्ति दर्शनं न प्राप्नुवन्तीत्य् अर्थः । मृतानाम् अपीति जमदग्नि-सत्यवद् आदौ दृष्टत्वाद् इति भावः । तस्माद् इत्य्-आदिकं स्वस्यैव मत्य् अनुसारेण न तु श्रीमन् नन्दस्येति न रस-भङ्गः सत्यपीत्य् अस्य दर्शन-योगयोः सम्भवाद् इत्य् अनेनैव सम्बन्धः । यद् वा, अदृष्टाद् एव निष्ठा मरणं यस्येति तव तत्-पुत्राणां च तादृशाद् दृष्टत्वात् ते मृता इत्य् अर्थः ।
ननु, तर्ह्य् अजन्मैव वरं तत्राह—अदृष्टम् एव परमं जन्म-कारणं यस्येति एवं च परस्पर-संवादो मनुष्य-लीलयैवेति ज्ञेयम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो भ्रातः ! अयन्दुष्पारो\ऽपि विपत्सिन्धु-विवेक-पोतेनैव तीर्यताम् इत्य् आह—नूनम् इति । अदृष्ट एव निष्ठा समाप्तिर् यस्य सः यदैव पुत्रादि-सुख-प्रदम् अदृष्ट हीयते तदैव पुत्रादयो न भवन्तीत्य् अर्थः । अदृष्टम् एव परमं मृत-वियुक्त-पुत्रादीनाम् अपि सङ्गम-कारणं यस्य सः एवम् अदृष्टम् आत्मनस् तत्त्वं यो वेदेति त्वत् तुल्यः को\ऽन्यो विवेकीति तव मास्तु मोह इति भावः ॥३०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.३१ ॥
श्री-वसुदेव उवाच—
करो वै वार्षिको दत्तो राज्ञे दृष्ट्वा वयं च वः ।
नेह स्थेयं बहु-तिथं सन्त्य् उत्पाताश् च गोकुले ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तां बुद्ध्वा वसुदेवो दुःखं त्यक्त्वा नन्दम् आह—करो वै इति । वो युष्माभिः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां नन्द-प्रोक्तां वाचम् । इह मथुरायाम् । बहुतिथं चिरकालं पूरण-प्रत्यये डटि तिथुगागमः बहु-पूग-गुण-सन्धस्य तिथुक् इति सूत्रेणेति उत्पाता अनर्थ-सूचका उपद्रवाः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो ! ते देवकी-पुत्रा इत्य्-आदि श्री-नन्दोक्त्या लोकेषु पुत्र-परिवर्तन-ज्ञानादि शङ्का-निवृत्तेः परम-हृष्टः श्री-वसुदेवस् तं प्रति समागम-मूलम् उपदिशति—कर इति । वः इति बहुत्वं गौरवात् तत् सन्धि-सङ्ग्रहाद्वा, वयम् इति च तद्-द्रष्ट्रत्वेनात्मनो बहुमानात् । व इत्य् अस्य पुनर् उक्तिभिर् न्नवाक्यत्वाद् अदोषः । यद् वा, वो युष्माकं देयः सर्वो\ऽपि करः, वो युष्मदीया वयम् इति वा । किं वा, वो युष्माभिर् महाधनिभिर् इत्य् अर्थः । बहुतिथ चिरकालम् इह राज-धान्यां न स्थेयम्, तथा च श्री-विष्णु-पुराणे—
दत्तो हि वार्षिक-सर्वो भवद् भिर् नृपतेः करः ।
यद् अर्थम् आगतास् तस्मान् नात्र स्थेयं महा-धनैः ॥ [वि।पु। ५.५.३] इति ।
तथापि निज-सङ्ग-सुखापेक्षया शीघ्रम् अजिगमिषुम् आलक्ष्य भावयति—सङ्गीति । एतद् अपि सर्वं [२२श।श्लो] स्वात्मज-प्रसक्तधीत्वोक्तौ पर्यवस्यति, उतपाताशङ्कया श्री-नन्दस्य पुत्रार्थं गोकुल-त्याग-निवारणात् तथा विविध-प्रयत्नेन तद् आसक्ति-विवर्धनाच् च यद्य् अपि यथा कथञ्चिद् भगवत् सम्बन्ध-मात्रेणाशेषोत्पातानाम् अभावः कुतः साक्षत् तन् निवासवरे श्री-नन्द-गोकुले तत् सम्भावनापि, तथापि निखिल-लोकानन्दक-श्रीभगवन् माहात्म्य-विहार-विशेष-सम्पत्त्य् अर्थम्, तथा तद् उत्पात-शङ्कटतः श्री-भगवति तत्रत्यानां स्नेहभर-वृद्धये च तद् इच्छयैव ते स्युर् इति ज्ञेयम् । तच् चात्रे तत्र तत्र व्यक्तं भाति ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो ते देवकी-पुत्रा इत्य्-आदि श्री-नन्दोक्त्या लोकेषु पुत्र-परिवर्तन-ज्ञानादि-शङ्क-निवृत्तेः परम-हृष्ट श्री-वसुदेवस् तं प्रति समागम-मूलम् उपदिशति-कर इति । वो युष्माभिः करो दत एव वयं च दृष्टा एव तस्माद् वो युष्माभिर् महाधनित्वेन विख्यातैर् इह लुब्धस्यास्य समीपे बहुतिथं चिरकालं न स्थेयम् अत एव व इति पौनर् उक्त्यं व इति बभुत्वं गौरवात् तत् सङ्गि-सङ्ग्रहाद् वा वयम् इति च तद् दर्शनेनात्मनो बहुमानात् व इति पौनरुक्त्यं भिन्नवाक्यत्वाद् अदोषः । यद् वा वो युस्मदीयाः वयं त्वत् स्नेहेन दिन-कतिपय-तिष्ठासुन्तं प्रत्य् आह—बहु-तिथम् अत्र राजधान्यां न स्थेयं तथा च श्री-विष्णु-पुराणो
दत्तो हि वार्षिकः सर्वो भवद्भिर् नृपतेः करः ।
यद् अर्थम् आरातास् तस्मान् नात्र स्थेयं महा-धनैः ॥
इति करो वैः इति क्वचित् पाथा बहु-तिथम् इति पूरण-प्रत्यये झटिति थुग् आगमात् बहु-पुग-गण-सङ्घस्य तिथुक् [५.२.५२] इत्य् अनेन ततो बहु-तिथं यथा स्यात् तथा न स्थेयम् इति लब्वे बहूनां पूरणीया स्थितिः सा नानुष्ठेयेत्य् अर्थे चिरकालं न स्थेयम् इत्य् एव विवक्षितं तथापि निज-सङ्ग-सुखापेक्षया शीघ्रम् अजिगमिषुम् इवालक्ष्य भासाअयति सन्तीति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञात-तत्त्वो वसुदेवो यद् वक्तुम् आगतस् तद् आह—कर इति । वै निश्चितं वो युष्माभिः बहुतिथं चिरकालम् ॥३१.३२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५.३२ ॥
श्री-शुक उवाच—
इति नन्दादयो गोपाः प्रोक्तास् ते शौरिणा ययुः ।
अनोभिर् अनडुद्-युक्तैस् तम् अनुज्ञाप्य गोकुलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनोभिः शकटैः, अनः स्याद् वासुदेवान्ये जनन्यां शकटेऽपि च इति धरणिः । अनड्-उद्युक्तैर् वृष-युक्तैः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण न्याय-प्रदर्शनादिनोक्ताः । अनड्वाहो महा-वृषभास् तद् युक्तैर् इति शीघ्र-गमनार्थं तमनुज्ञाप्य तद् अनुज्ञाम् आदाय गोकुलं ययुस् तत्र प्रस्थानं चक्रुः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकर्षेण न्याय-दर्शनादिनोक्ताः अनङ्वाहः अनोवहन-समर्थाः महा-वृषभास् तद् उक्तैर् इति शीघ्र-गमनार्थं तमनुज्ञाप्य तद् अनुज्ञाम् आदाय गोकुलं ययुः प्रतस्थिरे ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
नन्दोत्सवो नाम पञ्चमोऽध्यायः ।
॥१०.५॥
(१०.६)