०४

जिघांसोः कंसस्य हस्ताद् उन्मुक्ताया देव्या भगवद्-अवतार-सूचनं, कंसानुतापः, तदीय-दुर्मन्त्रिणां दुर्मन्त्रणं च ।

॥ १०.४.१ ॥

श्री-शुक उवाच—

बहिर्-अन्तः-पुर-द्वारः सर्वाः पूर्ववद् आवृताः ।

ततो बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुर्थे चण्डिका-वाक्यम् आकर्ण्यातिभयाकुलः ।

दुर्मन्त्रिभिर् हितं मेने कंसो बालादि-हिंसनम् ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुर्मत्रिभिर् अहितोपदेष्टृत्वात् कुमन्त्रिभिः । आदि-पदेन गो-विप्रादयो ग्राह्याः [१] । ततो द्वारावृत्यनन्तरम् । बालध्वनिं रोदन-शब्दम् । गृहपाला इति श्लेषेण श्वान इव । यथा इव । यथा श्वानः किञ्चिच् छब्दादि श्रुत्वा भषन्ते तद्वत्तेऽपीति भावः । श्वस्वामिनौ सद्मपालौ इति वरतन्तुः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आवृता लग्ना बभूवुः । स्वयम् एव । ततश् च तद्-अनन्तरम् एव बालस्य ध्वनिं जात-मात्र-स्वभावतो रोदन-शब्दम् । सामान्यतः पुंस्त्वं गृह-पालैः पुत्रतयैव निश्चयाद् वा । बालो जात इति श्री-वसुदेव-कृत-ध्वनिम् । किं वा, बालम् अत्यल्पं सद्यो-जात-शिशोर् इव ध्वनिम् । गृह-पाला रक्षिणः श्लेषेण कुक्कुरा इव सम्यक् सावधानम् उद्यतास्त्रतयोत्थिताः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आवृताः लग्ना बभूवुः । स्वयम् एव ततस् तद्-अनन्तरम् एव बालस्य बाल-ज्ञातेर् ध्वनिं जात-मात्रस्य स्वभावतो रोदन-शब्दम् । अतः सामान्यतो न स्त्रीत्वं गृह-पाला रक्षिणः श्लेषेण कुक्कुरा इव सम्यक् सावधानम् उद्यतास्रतयोत्थिताः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : बालस्य बालक-जातेर् ध्वनिः ॥१॥२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : आवृता लग्ना बभूवुः स्वयम् एव । ततश् च तद्-अनन्तरम् एव बालस्य ध्वनिं जात-मात्र-स्वभावतो रोदन-शब्दम् । सामान्यतः पुंस्त्वं गृह-पालैः पुत्रतयैव निश्चयाद् वा । बालो जात इति श्री-वसुदेव-कृत-ध्वनिम् । किं वा बालम् अत्यल्पं सद्यो-जात-शिशोर् इव ध्वनिम् । गृह-पाला रक्षिणः श्लेषेण कुक्कुरा इव सम्यक् सावधानम् उद्यतास्त्रतयोत्थिताः ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

माया-वाक्येन कंसस्यानुतापो देवकी-क्षमा ।

दुर्मन्त्रिभिर् मन्त्रणा च चतुर्थे कथ्यते कथा ॥*॥

बाल-ध्वनिं जात-मात्र-बाल-रोदन-शब्दं गृह-पालाः श्वान इव ॥१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

देवी-वाक्येनानुतापो भगिनी भामयोः क्षमा ।

दुर्मन्त्रिभिर् मन्त्रणं च कंसस्यासीच् चतुर्थके ॥*॥

बहिर् अन्तःपुरयोर् या द्वारस्थाः सर्वाः पूर्ववद्-आवृताः कपाट-पिहिता बभूवुः । बाल-ध्वनिं जात-मात्र-बाल-रोदन-शब्दं गृह-पालाः श्वान इव ॥१॥


॥ १०.४.२ ॥

ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत् ।

आचख्युर् भोज-राजाय यद् उद्विग्नः प्रतीक्षते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् अष्टमं जन्म ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् अष्टमम् । उद्विग्न-स्रस्तः । प्रतीक्षते कदोत्पत्स्यत इत्य् एवं मृशति ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपव्रज्य समीपे गत्वा ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपव्रज्य तत्र तेषाम् अनधिकारेऽपि समीपे गत्वा भोज-राजाय तं विज्ञापयितुम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : [+++]{।मर्क्}


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपव्रज्य समीपे गत्वा ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अष्टमं गर्भ-जन्म ॥२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद् अष्टमं गर्भ-जन्म यस्माद् उद्विग्नः सन् प्रतीक्षते ॥२॥


॥ १०.४.३ ॥

स तल्पात् तूर्णम् उत्थाय कालोऽयम् इति विह्वलः ।

सूती-गृहम् अगात् तूर्णं प्रस्खलन् मुक्त-मूर्धजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कालो मृत्युः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वा बालकं हन्तुभयं कालः समयः । कालान्तरे किं भविष्यतीति विहल आकुलः । प्रस्खलन् नित्यपशकुनं कालान्तरे तत एव तन् मृत्युसूचकम् इति ॥३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कालो हन्तुं समयोऽयं किं वा साक्षान् मृत्युर् अयम् आगत इति विह्वलः सम्भ्रान्तोऽतिभीतो वा । अत एव प्रस्खलन् इतस् ततो निपतन् ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कालो हन्तुं समयोऽयं किं वा साक्षान् मृत्युर् अयम् आगत इति विह्वलो भय-व्याकुलः । अत एव प्रस्खलन् इतस् ततो निपतन् । उत्तरार्धे शीघ्रं तूर्णम् इति वा पाठः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मम कालो ऽयं जात इति स्नुषाभविष्यत् पुत्रस्य वधूर्भविष्यति तद् एव जानन्तमाहस्त्रियम् इति । दीनदीनवदिति दृष्टान्तः न तु गौणतोक्तिः श्रीयशोदाया निजसखीत्वात् समुद्विजे भवद्धेतोरित्य्-आदिवत् स्नेहलस्वभावत्वाच् च ॥३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : कालो हन्तुं समयोऽयं किं वा साक्षान् मृत्युर् अयम् आगत इति विह्वलः सम्भ्रान्तोऽतिभीतो वा । अत एव प्रस्खलन् इतस् ततो निपतन् ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालो बालकं हन्तुम् अयम् एव समय इति । यद् वा, मन्-मृत्युर् इति भयेन ॥३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कालो मे मृत्युर् अयम् इति भयेन विह्वलः ॥३॥


॥ १०.४.४ ॥

तम् आह भ्रातरं देवी कृपणा करुणं सती ।

स्नुषेयं तव कल्याण स्त्रियं मा हन्तुम् अर्हसि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भ्रातरम् इति तं प्रति तादृशोक्तौ योग्यतोक्ता । करुणं यथा स्यात् तथाह—सती साध्वी भर्तुर् मतानुसरणात् । देवी स्व-पुत्रस्य गोपनाद् अन्तर्-द्योतमाना । अतोऽकृपणापि कंस-वञ्चनार्थं दीना सती । यद् वा, प्रिय-सख्या यशोदायाः कन्यका-भावि-वधेन दुःखितैव सती स्नुषा पुत्र-वधूर् भविष्यतीति लोभं जनयति । ननु, पितृ-ष्वसृ-कन्या-परिणयोऽत्रायुक्त इति चेत् तथापि स्त्रीत्वाद् एव हननानर्हेत्य् आह—स्त्रियम् इति । तच् च तव युक्तम् एवेत्य् आह—कल्याण ! हे धार्मिकेति । यद् वा, हे आयुष्मन् ! इति मृत्यु-भयं निवर्तयति ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भ्रातरम् इति तं प्रति तादृशोक्तौ योग्यतोक्ता । करुणं यथा स्यात् तथाह—सती साध्वी भर्तुर् मतानुसरणात् । देवी स्व-पुत्रस्य गोपनाद् अन्तर्-द्योतमाना । अतोऽकृपणापि कंस-वञ्चनार्थं दीना सती । यद् वा, प्रिय-सख्या यशोदायाः कन्यका-भावि-वधेन दुःखितैव सती स्नुषा पुत्र-वधूर् भविष्यतीति लोभं जनयति । ननु, पितृ-ष्वसृ-कन्या-परिणयोऽत्रायुक्त इति चेत् तथापि स्त्रीत्वाद् एव हननानर्हेत्य् आह—स्त्रियम् इति । तच् च तव युक्तम् एवेत्य् आह—कल्याण ! हे धार्मिकेति । यद् वा, हे आयुष्मन् ! इति मृत्यु-भयं निवर्तयति ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भ्रातरम् इति तं प्रति तादृशोक्तौ योग्यता तस्य तु दुरात्मतोक्ता करुणं यथा स्यात् सतीति तस्या वैक्लव्येन तस्य सानुगस्याचिराद् एव नाशः समुचित एवेति भावः । देवी स्व-पुत्रस्य गोपनं दिष्ट्यैव मया कृतम् इत्य् अन्तर्-द्योतमाना प्रिय-सख्या यशोदायाः कन्यका-वध-शङ्कया कृपणा दुःखिता च सती तव स्नुषा पुत्र-वधूर् भविष्यतीति प्रथमं तावल् लोभं जनयति—तद् अवज्ञाय अष्टम-गर्भताम् आशङ्क्य च ताम् आच्छेत्तुम् उद्यतं प्रत्य् आह—स्त्रियम् इति । असमर्थाम् अवध्यां चेत्य् अर्थः । तच् च तव युक्तम् एवेत्य् आह—कल्याण ! हे धार्मिकेति । यद् वा, हे आयुष्मन् ! इति मृत्यु-भयं निवर्तयति अष्टमे गर्भेऽस्मिन्न् अबलाया एवोत्पत्तेः इति मृत्यु-भयं निवर्तयति ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : भ्रातरम् इति तं प्रति तादृशोक्तौ योग्यतोक्ता । करुणं यथा स्यात् तथाह—सती साध्वी भर्तुर् मतानुसरणात् । देवी स्व-पुत्रस्य गोपनाद् अन्तर्-द्योतमाना । अतोऽकृपणापि कंस-वञ्चनार्थं दीना सती । यद् वा, प्रिय-सख्या यशोदायाः कन्यका-भावि-वधेन दुःखितैव सती स्नुषा पुत्र-वधूर् भविष्यतीति लोभं जनयति । ननु, पितृ-ष्वसृ-कन्या-परिणयोऽत्रायुक्त इति चेत् तथापि स्त्रीत्वाद् एव हननानर्हेत्य् आह—स्त्रियम् इति । तच् च तव युक्तम् एवेत्य् आह—कल्याण ! हे धार्मिकेति । यद् वा, हे आयुष्मन् ! इति मृत्यु-भयं निवर्तयति ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवी स्व-पुत्रस्य गोपितत्वाद् अन्तर्-द्योतमाना सख्याः कन्येयम् अपि जीवत्व् इति कृपणा सती तत्-प्रतारणे कोविदा स्नुषा तव भाविनः पुत्रस्येयं वधूर् भविष्यतीति बुद्ध्या तद् अपि बलाद् आच्छिद्य जिघृक्षन्तं तम् आह स्त्रियं पश्येयम् अबला । हे कल्याण ! इति स्त्री-वधोत्थ-पापेन तवाकल्याणं मा भवत्व् इति भावः ॥४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : देवी स्वात्मजस्य गोपितत्वाद् स्व-सख्याः कन्यापि नानेन मरिष्यतीति ज्ञान-सत्त्वाच् चान्तर्-द्योतमाना बहिः कृपणा धृत-दैन्या करुणं दयोत्पादनं यथा स्यात् तथाह सती तत्-वञ्चने कोविदा—हे कल्याण ! तवेयं कन्या स्नुषा भावितत्वात् पुत्र-वधूर् भविष्यति स्त्रियं स्त्री-वध-पापं मा भूद् इत्य् अर्थः ॥४॥


॥ १०.४.५ ॥

बहवो हिंसिता भ्रातः शिशवः पावकोपमाः ।

त्वया दैव-निसृष्टेन पुत्रिकैका प्रदीयताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बहव इति निर्दयत्वम् उक्त्वा शङ्कमानाह—दैवेति । ममैवेतद्-दुर्दिष्टं तव को दोष इति भावः । प्रतीयताम् इति । त्वम् अपि मां शून्य-क्रोडां मा कुर्वित्य् अर्थः ॥५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): भ्रातर् इति स्नेहं जनयति । पावकोपमास् तेजसा जाज्वल्यमाना इत्य् अर्थः । दैवं तेषाम् एव तादृग् अदृष्टं तेनैव प्रेरितेनेति तत्र तव दोषो नास्तीति भावः । तत्त्ववत् तु परम-निर्दयत्वम् उक्तम् । तादृश-बहुल-बालक-हननात् । एकेति पश्चाद् अन्य-पुत्र-जन्माभावात् । अत एव वक्ष्यति—चरमाम् इति ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भ्रातर् इति स्नेहं जनयति । पावकवत् तेजस्विनः बहव इति निर्दयत्वम् उक्त्वा शङ्कमानाह—दैवेति । एकेति गूढोपालम्भं दैत्यं कार्पण्यात् ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बहव इति निर्दयत्वम् उक्त्वा शङ्कमानाह—दैवेति । ममैवैतद् दुरदृष्टं तव को दोष इति भावः । प्रदीयताम् इत्य् अनेन त्वयापि मां शून्य-क्रीडां मा कुर्व् इति दैन्यम् ॥५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : बहव इति निर्दयताम् अभिधाय शङ्किताह—दैवेनेति मद्-दृष्टं तत्र हेतुः । तव न किञ्चिद् दूषणम् इति भावः ॥५॥


॥ १०.४.६ ॥

नन्व् अहं ते ह्य् अवरजा दीना हत-सुता प्रभो ।

दातुम् अर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग हे भ्रातः ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चरमाम् । इतोग्रे मम सन्तत्याशा नेति भावः ॥६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कार्पण्यात् स्नेहम् उत्पादयन्ती पुनर् अपि तथैव प्रार्थयते—नन्व् इति । निश्चये हि । यतो दीना बन्धनागार-वासादिना । प्रभो ! हे अदेय-दानेऽपि समर्थ ! मन्दायाः पुत्र-भाग्य-हीनाया मे । चतुर्थ्य्-अर्थे षष्ठी । इमाम् इति पाठे सद्यो-जातां किञ्चिद् अपि कर्तुम् अक्षमाम् । नन्व् अष्टमत्वाद् इयम् अवश्यं हन्तव्या, अन्या जनिष्यमाणा दातव्या ? तत्राह—चरमाम् इति । वार्धक्येन त्वद्-भयेनाप्य् अन्यापत्योत्पत्ति-सम्भावना-निवृत्तेः । प्रजाम् अपत्यम् । श्लेषेण राज्ञस् तव प्रजावत् परिपाल्याम् इत्य् अर्थः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्नेहम् उत्पादयन्ती पुनर् अपि तथैव प्रार्थयते—नन्व् इति । निश्चये हि । यतः दीना बन्धनागार-वासादिना प्रभो हे अदेय-दानेऽपि समर्थ ! मन्दायै पुत्र-भाग्य-हीनायै मे मह्यम् । इमाम् इति पाठे इमाम् अपीत्य् अर्थः । सद्यो-जातां किञ्चिद् अपि कर्तुम् अक्षमां न तु अष्टम-गर्भत्वाद् इयं कन्यावश्य-हन्तव्या यतः चरमां वार्धक्येन त्वद्-भयेनाप्य् अन्यापत्योत्पत्ति-सम्भावना-निवृत्तेः ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अङ्ग, हे भ्रातः ॥६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अवरजा कनिष्ठा भगिनी मन्दाया भाग्य-हीनाया । अङ्ग, हे भ्रातः ! इमां चरमां प्रजां दातुम् अर्हसीति अनयापि शून्य-क्रोडां मा कुरु ॥६॥


॥ १०.४.७ ॥

श्री-शुक उवाच—

उपगुह्यात्मजाम् एवं रुदत्या दीन-दीनवत् ।

याचितस् तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दीन-दीनवत् दीनाद् अपि दीनवन् न तु तथा । पुत्रस्यान्यत्र नीतत्वात् सा च योगमायेति ज्ञातत्वात् । याचितोऽप्य् आचिच्छिदे हस्ताद् आकृष्य जग्राह ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बलाद्-ग्रहणे हेतुः—खल इति ॥७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मजाम् इति । स्व-पुत्र-परिवृत्त्या नीतत्वात् । किं वा सरत्येन श्री-यशोदयाम् अभेदात् । दीनेति तैर् व्याख्यातम् । यद् वा, दीनाद् अपि दीनः परम-दुःखितो जना यथा, तथैव रुदत्या निज-पुत्राणां मारणाद् अपि श्री-यशोदा-कन्या-मारणे दुःख-विशेषात् ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मजाम् इति । श्री-यशोदया सहास्याः साख्येनाभिन्न-मन्यत्व-विवक्षया अत एव दीन-दीनवद् इति दीन-दीनो यो जनस् तद्वत् कर्मधारयवद् उत्तर-पदेष्व् इत्य् अधिकार-स्थेन प्रकारे गुण-वचनस्य [पा। ८.१.१२] इति सूत्रेण द्विरुक्त्या हि दीन-दीनः सिद्ध्यति भीत-भीत इव शीत-मयूखः इतिवत् मायादित्व-ज्ञानेऽपि स्नेहल-स्वभावेन क्रूरे नीचेऽधमे खलः इति विश्वः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मजाम् इति भिन्नात्मयैवोक्तम् ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् अनेन प्रकारेणात्मजां स्व-कन्याम् एवेत्य् अर्थः । दीन-दीनवत् दीनाद् अपि दीनजन इव न तु तथा तस्याः स्वापत्यत्वाभावात् तां देवकीम् आचिच्छिदे आकृष्य जग्राह ॥७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आत्मजां कंस-वञ्चनाय प्रकाशितात्मजा-भावां तां देवीम् उपगुह्य एवं पूर्वोक्त-वचनायाः दीन-दीनवद् अतिदीनजनवद् रुदन्त्या देवक्या हस्ताद् आचिच्छिदे आकृष्य जग्राह । दीन-दीनवद् इति वस्तुतो न तथा भगवताश्वासितत्वात् कन्येयं देवीति ज्ञानाच् च याचितः चरमाम् इमां प्रजां देहीत्य् अर्थितोऽपि तां देवकीं निर्भर्त्स्य त्वं कपटिनी मयि मिथ्या-स्नेहं करोषि । अष्टमाद् अस्माद् गर्भान् मन्-मृत्युम् इच्छसीति तिरस्कृत्येत्य् अर्थः ॥७॥

अभेदात् । दीनेति तैर् व्याख्यातम् । यद् वा, दीनाद् अपि दीनः परम-दुःखितो जना यथा, तथैव रुदत्या निज-पुत्राणां मारणाद् अपि श्री-यशोदा-कन्या-मारणे दुःख-विशेषात् ॥७॥


॥ १०.४.८ ॥

तां गृहीत्वा चरणयोर् जात-मात्रां स्वसुः सुताम् ।

अपोथयच् छिला-पृष्ठे स्वार्थोन्मूलित-सौहृदः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपोथयद् बलेन चिक्षेप ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्थी दोषं न पश्यति इति न्यायम् आश्रित्य् आह—स्वार्थेति ॥८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : खलत्वम् एव दर्शयति—ताम् इति । जात-मात्रां गर्भ-जलादि-क्लिन्नाम् इत्य् अर्थः । तथा च श्री-हरि-वंशे—सा गर्भ-शयने क्लिष्टा गर्भाम्बु-क्लिन्न-मूर्धजा [ह।वं। २.४.३४] इति । स्वसुः सुताम् इत्य् अवध्यत्वं बोधयति । स्वार्थे स्व-देह-मात्र-रक्षार्थम् उन्मूलितं सौहृदं येन सः ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : खलत्वम् एव दर्शयति—ताम् इति । जात-मात्रां गर्भ-जलादि-क्लिन्नाम् इत्य् अर्थः । तथा च श्री-हरि-वंशे—सा गर्भ-शयने क्लिष्टा गर्भाम्बु-क्लिन्न-मूर्धजा [ह।वं। २.४.३४] इति ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपोथयत् बलेन चिक्षेप ॥८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अपोथयत् उच्चैश् चिक्षेप यथा चूर्णितावयवा स्यात् ॥८॥


॥ १०.४.९-१० ॥

सा तद्-धस्तात् समुत्पत्य सद्यो देव्य् अम्बरं गता ।

अदृश्यतानुजा विष्णोः सायुधाष्ट-महाभुजा ॥

दिव्य-स्रग्-अम्बरालेप-रत्नाभरण-भूषिता ।

धनुः-शूलेषु-चर्मासि-शङ्ख-चक्र-गदा-धरा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सद्य एव देवी भूत्वा ॥९-१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अदृश्यत कंसादिभिः सर्वैर् वक्ष्यमाण-निजोक्तौ कंसस्य विश्वासार्थम् । अत एव तादृश-रूपादि-प्रकाशनं च ज्ञेयम् । विष्णोः श्री-देवकी-गर्भादौ प्रवेशन-शीलस्य भगवतोऽनुजा । श्री-यशोदा-गर्भ-जातत्वा अयं सर्वत्रैव हेतुर् द्रष्टव्यः । आलेपोऽनुलेपः ॥९-१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सा तद्-धस्ताद् इति । सद्यः समुत्पत्य अधः क्षिप्यमाणापि बलाद् ऊर्ध्वम् उत्प्लुत्य अत्र विशेषो भविष्योत्तरे—कंसासुरस्योत्तमाङ्गे पादं दत्त्वा गता दिवम् इति । देवी दिव्य-रूपा सती अदृश्यत कंसादिभिः सर्वैः तच् च निजोक्तौ कंसस्य विश्वासार्थं महा-भुजत्वेन महा-कायत्वं च विभीषिकार्थं श्री-विष्णोः श्री-देवकी-यशोदयोर् मनसि युगपत् प्रविष्टस्येति तस्यास् तद्-अनुजात्वं साधितम् । अनुजेति तदापि श्री-यशोदादि-दम्पती-द्वयस्यैकात्मतां बोधयति एवम् आत्मजाम् अप्य् उक्तम् ॥९-१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विष्णोर् अनुजेति च ॥९-११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समुत्पत्य अधः क्षिप्यमाणापि बलाद् उत्प्लुत्य कंसासुरस्योत्तमाङ्गे पादं दत्त्वा गता दिवम् इति भविष्योत्तरम् । अनुजा विष्णोर् इत्य् अनेन कृष्णस्य यशोदा-गर्भजत्वं सूचयति । सायुधाष्टेत्य् आदि कंसस्य भीषणार्थं स्व-वाचि विश्वासोत्पत्त्य्-अर्थं च ॥९-११॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : समुत्पत्येति । अधः क्षिप्यमाणाप्य् अतिबलाद् उत्प्लुत्य कंस-शिरसि पाद-प्रहारं कृत्वेत्य् अर्थः । कंसासुरस्योत्तमाङ्गे पादं दत्त्वा गता दिवम् इति भविष्योत्तर-वचनात् । विष्णोर् अनुजेति कृष्णस्य यशोदा-गर्भजत्वं द्योत्यते । सायुधाष्टेत्य् आदिकं कंसस्य भयोत्पादनार्थं स्व-वाचि तत्-प्रत्ययार्थं च ॥९-११॥


॥ १०.४.११ ॥

सिद्ध-चारण-गन्धर्वैर् अप्सरः-किन्नरोरगैः ।

उपाहृतोरु-बलिभिः स्तूयमानेदम् अब्रवीत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपाहृता उपनीता उरवो बलयः पूजा यैस्ते तथा ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपहृतास् तस्यै आनीय समर्पिता उरवो महान्तो वलयो मधु-दुग्धाद्य्-उपहारा यैस् तैः ।११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सिद्धेत्य्-आद्य् उपलक्षणम् ॥११॥


॥ १०.४.१२ ॥

देव्य् उवाच—

किं मया हतया मन्द जातः खलु तवान्त-कृत् ।

यत्र क्व वा पूर्व-शत्रुर् मा हिंसीः कृपणान् वृथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृपणान् इति अन्यान् शिशून् हनिष्यतीति ज्ञात्वा वारयति । पाठान्तरे मा मां कृपणां वृथाऽहिंसीर् हिंसितवान् असीति ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पाठान्तरे कृपणाम् इति पाठे । यद्य् अहं हता स्यां तदापि मया हतया किं तव मरणस्यावश्यम्भावित्वादित्य् आह—जात इति । यत्र क्व वेति वक्तुम् अनहर्देशे तद् देश-कथनेन देवकी-वसुदेव-वधेऽस्य प्रवृत्तिर् अधुना मा भूद् इति भावः ॥१२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मन्द ! हे अल्प-बुद्धे ! अन्तकृद् इति नाशं करिष्यति यः स यत्र क्वचिद् देशे जातोऽतो मयाद्य न त्वं हन्यस इति भावः । स तावत् कः ? इत्य् अपेक्षायाम् आह—पूर्व-शत्रुः पूर्व-जन्मनि यस् त्वां हतवान् इत्य् अर्थः । कृपणां देवकीं मा हिंसीर् बन्धनादिनास्या हिंसां मा कुरु । बन्धनान् मोचय धनादिकं च तदीय;म् प्रत्यर्पयेत्य् अर्थः । श्री-देवक्या गर्भ-सम्बन्धेनैव श्री-वसुदेवस्य बन्धनात् तस्या मोचनेन तस्यापि स्वतस् तत् सिद्धेः पृथङ् नोक्तम् । कृपणान् इति पाठे देवकीं वसुदेवं तत्-सम्बन्धिनश् चेत्य् अर्थः । वृथेति तद्-वधे प्रयोजनाभावात् ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मन्द ! हे अल्प-बुद्धे ! मया हतया इति यद्य् अहं हताप्य् अभविष्यम् इत्य् अर्थः । यस् तवान्तं करिष्यति स यत्र क्वचिन् निश्चित्य वक्तुम् अनर्हे देशे जात इत्य् अतो मयाद्य त्वं न हन्यस इत्य् अर्थः । स तावत् कः ? इत्य् अपेक्षायाम् आह—पूर्व-शत्रुः पूर्व-जन्मनि यस् त्वां हतवान् इत्य् अर्थः । कृपणां देवकीं बन्धनादिना मा हिंसीः पति-सहिताम् एनां बन्धनान् मोचय धनादिकं च प्रत्यर्पयेत्य् अर्थः । कृपणान् इति पाठे तद्-धर्मेणान्यान् बालकान् तौ तत्-सम्बन्धिनश् चेत्य् अर्थः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्द ! हे अल्प-बुद्धे ! अन्तकृद् इति नाशं करिष्यति यः स यत्र क्वचिद् देशे जातोऽतो मयाद्य न त्वं हन्यस इति भावः । स तावत् कः ? इत्य् अपेक्षायाम् आह—पूर्व-शत्रुः पूर्व-जन्मनि यस् त्वां हतवान् इत्य् अर्थः । कृपणां देवकीं मा हिंसीर् बन्धनादिनास्या हिंसां मा कुरु । बन्धनान् मोचय धनादिकं च तदीय;म् प्रत्यर्पयेत्य् अर्थः । श्री-देवक्या गर्भ-सम्बन्धेनैव श्री-वसुदेवस्य बन्धनात् तस्या मोचनेन तस्यापि स्वतस् तत् सिद्धेः पृथङ् नोक्तम् । कृपणान् इति पाठे देवकीं वसुदेवं तत्-सम्बन्धिनश् चेत्य् अर्थः । वृथेति तद्-वधे प्रयोजनाभावात् ॥१२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हतया यद्य् अहं हताप्य् अभविष्यम् इत्य् अर्थः ॥१२॥

मन्द ! हे अल्प-बुद्धे ! अन्तकृद् इति नाशं करिष्यति यः स यत्र क्वचिद् देशे जातोऽतो मयाद्य न त्वं हन्यस इति भावः । स तावत् कः ? इत्य् अपेक्षायाम् आह—पूर्व-शत्रुः पूर्व-जन्मनि यस् त्वां हतवान् इत्य् अर्थः । कृपणां देवकीं मा हिंसीर् बन्धनादिनास्या हिंसां मा कुरु । बन्धनान् मोचय धनादिकं च तदीय;म् प्रत्यर्पयेत्य् अर्थः । श्री-देवक्या गर्भ-सम्बन्धेनैव श्री-वसुदेवस्य बन्धनात् तस्या मोचनेन तस्यापि स्वतस् तत् सिद्धेः पृथङ् नोक्तम् । कृपणान् इति पाठे देवकीं वसुदेवं तत्-सम्बन्धिनश् चेत्य् अर्थः । वृथेति तद्-वधे प्रयोजनाभावात् ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मया हतया किम् इति यद्य् अहंहताप्य् अभविष्यम् इत्य् अर्थः । यत्र क्वचित् वक्तुम् अनर्हे देश इत्य् अर्थः । कृपणां देवकीं । कृपणान् इति पाठे अन्यान् शिशून् ॥१२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : किं मया हतयेति यद्य् अहंहताप्य् स्यां तथापि ते मृत्युर् न निवर्तेतेति भावः । यत्र क्व वा वक्तुम् अनर्हे तवाप्य् अगम्ये देशे इत्य् अर्थः । कृपणान् दीनान् बालान् ॥१२॥


॥ १०.४.१३ ॥

इति प्रभाष्य तं देवी माया भगवती भुवि ।

बहु-नाम-निकेतेषु बहु-नामा बभूव ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बहु-नाम-निकेटेषु वाराणस्य्-आदि-स्थानेषु ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति एवं इति हेतु-प्रकरण-प्रकाशादि-समाप्तिषु इति यादवोक्तेर् इति अत्र प्रकारे ॥१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रभाष्यादिश्य । भगवती पूर्वोद्दिष्ट-श्री-भगवत्-प्रसादेन सर्वैश्वर्य-युक्ता सती । बहु-नामेति कस्मिंश्चित् स्थाने किम् अपि नामेत्य् एवं श्री-मथुरायाम् अन्यत्रापि काशी-कामरूपादि-बहुल-स्थानेषु दुर्गा-कामाख्येनेत्य् आदिभिर् बहुल-संज्ञाभिः पूज्याभूद् इत्य् अर्थः । ह हर्षे ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रभाष्य आदिश्य भगवती पूर्वोद्दिष्ट-भगवत्-प्रसादेनाधिकैश्वर्य-युक्ता सती बहु-नामेति नाना-नामसु निकेतेषु नाना-नामत्वेन पूज्याभूद् इत्य् अर्थः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रभाष्यादिश्य । भगवती पूर्वोद्दिष्ट-श्री-भगवत्-प्रसादेन सर्वैश्वर्य-युक्ता सती । बहु-नामेति कस्मिंश्चित् स्थाने किम् अपि नामेत्य् एवं श्री-मथुरायाम् अन्यत्रापि काशी-कामरूपादि-बहुल-स्थानेषु दुर्गा-कामाख्येनेत्य् आदिभिर् बहुल-संज्ञाभिः पूज्याभूद् इत्य् अर्थः । ह हर्षे ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बहु-नाम-निकेटेषु वाराणस्य्-आदि-स्थानेषु ॥१३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : बहु-नाम-निकेटेषु वाराणस्य्-आदि-स्थानेषु ॥१३॥


जगदानन्दः : योगमायाया नामानि आर्या-स्तवम् इति हरिवंश-विष्णुपर्वणि तृतीये विष्णुनैवोक्तानि । कंसं प्रति घोर-वाक्योच्चरणानन्तरं देव्या किम् अनुष्ठितम् ? तत् हरि-वंशे (२.४.४५-४८), यथा—

एवम् उक्त्वा वचो घोरं सा यथेष्टेन वर्त्मना ।

खं सा देवालयं देवी स-गणा विचचार ह ॥

सा कन्या ववृधे तत्र वृष्णि-सङ्घ-सुपूजिता ।

पुत्रवत् पाल्यमाना सा वसुदेवाज्ञया तदा ॥

विद्धि चैनाम् अथोत्पन्नाम् अंशाद् देवीं प्रजापतेः ।

एकानंशां योग-कन्यां रक्षार्थं केशवस्य तु ॥

तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः ।

देववद् दिव्य-वपुषा कृष्णः संरक्षितो यया ॥


॥ १०.४.१४ ॥

तयाभिहितम् आकर्ण्य कंसः परम-विस्मितः ।

देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परम-विस्मितः कथं दैवी वाग् अनृता जातेति ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्वैवी वाग् आकाश-वाणी-रूपा ॥१४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विस्मितः कन्या-वैभव-रूपादिभिः, विमुच्य कारागारान् निःसार्य, वि-शब्देन रक्षि-सङ्कोचाच् च । निगडान् मोचनम् अग्रे वक्ष्यति । देवक्याः प्राग् विमोचनम्—भगिनीत्वात् तस्यास् तस्या दुःख-विशेषाद् वा । किं वा, वसुदेव-प्रत्य् अर्थम् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विमुच्य कारागारान् निःसार्य विशब्देन रक्षि-सङ्कोच्याच् च निगडान् मोचनम् अग्रे वक्ष्यति देवक्याः प्राग् विमोचनं स्त्रीणाम् एव तद् उक्तेः विशेषतो भगिनीत्वात् तस्या दुःख-विशेषाच् च अन्यत् तैः यद् वा तया अभिहितम् आकर्ण्य तां तं च विमुच्य नम्रः सन्न् अव्रवीत् कीदृशो भूत्वा कन्याया आकस्मिक-वैभवादि तादृश-वाक्यैश् चात्यन्त-विस्मितोभूत्वेति ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परम-विस्मितः कथं मानुष्या देवक्या गर्भे दुर्गा देवी जाता कथं वा दैवी वाग् अनृताभूद् इति ॥१४.१६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४.१५ ॥

अहो भगिन्य् अहो भाम मया वां बत पाप्मना ।

पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भाम हे भगनी-भर्तः । पुरुषादो राक्षसो यथा स्वापत्यम् एव हिनस्ति तद्वत् ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भामस्तु भगिनी-भर्ता इत्य् अमरः ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो—द्वयम् आर्ति-सम्बोधने, बत खेदे, पाम्पाना पापं पापानुबन्धि स्यात् इति न्यायतः पूर्व-पापेन हेतुना पाप-स्वरूपेण मयेति वा ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो द्वयम् आर्ति-सम्बोधने बत खेदे पुरुषादा हि पुरा स्वापत्यादा आसन् तत्रैकां राक्षसीं स्वापत्यम् अदन्तीं दृष्ट्वा देव्या कृपयोक्तम् इतः प्रभृति-राक्षस-बालाः जन्मत एव प्रवृद्धा भवन्त्विति ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी): न व्याख्यातम्।


॥ १०.४.१६ ॥

स त्व् अहं त्यक्त-कारुण्यस् त्यक्त-ज्ञाति-सुहृत् खलः ।

कान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्महा ब्राह्मण-हन्ता । मृतः श्वसन् जीवन् मृतः ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्यक्त-कारुण्यो बालानां भागिनेयानां निर्दोषाणां बहूनां वृथा मारणाद् इति धर्मो नापेक्षित इत्य् आह—त्यक्ता ज्ञतयो देवकादयः सुहृदश् च बन्धवो भवद्-आदयो येन सः, अत एव खलो दुष्टः । नु वितर्के । मृतः सन् कान् लोकान् गमिष्यामि, तन् न जाने । यद् वा, न कान् अपीत्य् अर्थः । नरक-भोगस्यापि नियत-कालतया मत्-पापस्य चानन्त्येन शुद्ध्य्-अर्थ-पाप-भोग-योग्यस्य नरकस्याप्य् अभावाद् इत्थं परम-शोकोक्तिः । ब्रह्महेत्य् अप्रायश्चित्तत्वं प्राण-त्याग-पर्यन्त-प्रायश्चित्तत्वं वा सूचयति । हे स्वसर् ! इति दैन्यात् । "स्वसन्" इति पाठे इह लोके\ऽपि जीवन्-मृत इत्य् अर्थः ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्यक्त-कारुण्यो बालानां भागिनेयानां निर्दोषाणां बहूनां वृथा मारणात् इति धर्मो नापेक्षित एव लाकश् च नापेक्षित इत्य् आह--त्यक्ता ज्ञातयो देवकादयः सुहृदश् च बन्धवो भवद्-आदयो येन सः । अत एव खलः । नु वितर्के । कांल् लोकान् वै इति पाठे । वै निश्चये । मृतः सन् कान् लोकान् गामिष्यामि व्यतिरेके । दृष्टान्तोऽयं ब्रह्महा यथा काश्चिल् लोकान् न गच्छति तद्वच् च । कांल्-लोकान् गमिष्यामि न कान् अपि तस्य प्रसिद्धर्महा-रौरवादिभिः प्रायश्चित्त-पर्याप्तिर् न तु ममेति मम त्व् अन्यास् तेभ्योऽपि दुर्गतय इत्य् अर्थः । हे स्वसर् ! इति दैन्यात् । "श्वसन्" इति पाठे इह लोकेऽपि जीवन्-मृत इत्य् अर्थः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी): न व्याख्यातम्।


॥ १०.४.१७ ॥

दैवम् अप्य् अनृतं वक्ति न मर्त्या एव केवलम् ।

यद्-विश्रम्भाद् अहं पापः स्वसुर् निहतवाञ् छिशून् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दैवं देव-वचः । यद् वा, देवानां हेतुः कारणं पर-ब्रह्म तन्-मूला देवताः सर्वाः इत्य् उक्तेः । नभोर् लिङ्गम् अलिङ्गम् ईश्वरम् इत्य् उक्तेश् च । विस्मित आह—शुद्ध-सत्त्व-स्वभावा देवा अपि तमो-धर्मम् अनृतं वदन्तीत्य् आश्चर्यम् । यद्-विस्रम्भात् यद्-विश्वासात् ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न केवलम् अत्र ममैव दोषः, किन्तु देवानाम् अपीत्य् आशयेनाह—दैवम् इति देवता, न केवलं मर्त्या एवानृतं वदन्तीति मर्त्येष्व् अनृतं प्रतिष्ठितम् इत्य्-आदि-वचनतस् तेषु तत् सम्भवात्, पापः पाप-कृत् क्रूरो वा सन् ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलम् अत्र ममैव दोषः किन्तु मूलं देवानाम् एवेत्य् आह—दैवम् इति देवता सत्यम् एव देवा अनृतं मनुष्याः इति श्रुति-विरोधो\ऽपि जात इत्य् अर्थः । एवेति लोकोक्त्या नाधिकं पाप इति कथम् अन्यथा तद् विस्रम्भः ? स्याद् इति भावः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे भाव ! हे भगिनीपते ! पुरुषादो राक्षसो यथा स्वापत्यं हिनस्ति तद्वत् ॥१७॥


॥ १०.४.१८ ॥

मा शोचतं महा-भागाव् आत्मजान् स्व-कृतं भुजः ।

जान्तवो न सदैकत्र दैवाधीनास् तदासते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे महा-भागौ ! स्व-कृतं भुजः स्वारब्ध-कर्म-भोक्तॄन् स्वात्मजान् मा शोचतम् । किं च, जन्तवः प्राणिनः सदा नासते, किन्त्व् अल्प-कालम् एव । तदाप्य् एकत्र नासते किन्तु वियुज्यन्ते । यतो दैवाधीनाः ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृते\ऽप्य् अपराधे महात्मानोऽपराधिनं नोपालभन्त इत्य् अभिप्रायेणाह-हे महा-भागाव् इति । स्वकर्मभुजाम् अपि नैकत्र स्थितिर् इत्य् आह—किञ्चेति । दैवाधीना दिष्टायत्ताः । दुर्गा-देव्येवाययोर् आत्मजाभूतिम् अन्यैः सुतैः स्वकृतभुग्भिर् इति विमर्शेनापि मा शोचतम् इति भावः ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-भागौ हे परम-विवेकिनौ जन्तवः सर्व एव जीवाः, न तु केचिद् इत्य् अर्थः । एकत्र एकस्मिन् स्थाने नासते, तत्रापि सह सम्भूय नासते, किन्तु पृथक् स्व-स्व-कर्मार्जित-लोकादौ तिष्ठन्तीत्य् अर्थः । यद् वा, स-कृतं भुज इति लोकान्तरे स्व-कर्म-भोगार्थं गमनान् मरणे वियुज्यन्ते एवेत्य् उक्तम्, जीवने\ऽपि वियुज्यन्त इति ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महा-भागौ, हे परम-विवेकिनौ ! जन्तवः सर्व एव जीवाः न तु केचिद् इत्य् अर्थः । एकत्र एकस्मिन् स्थाने नासते तत्रापि सह सम्भूय परस्परम् आसज्य नासते किन्तु पृथक्-पृथक् स्व-स्व-कर्मार्जित-लोकादौ तिष्ठन्तीत्य् अर्थः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जन्तवः सदा नासते तत्राप्येकस्मिन् स्थाने नासते सह संभूयापि नासत इत्य् अर्थः ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भुज इति क्विबन्तं स्व-कृतम् इति षष्ठ्य-भाव आर्षः महा-भागाव् इति दुर्गा-देव्य् एव आवयोर् आत्मजा-भूत् किम् अन्यैः सतैः स्व-कृतभूग्भिर् इति विमर्शन माशोचतं किं च विमर्शान्तरम् अप्य् आह, जन्तव इत्य्-आदि ॥१८॥


॥ १०.४.१९ ॥

भुवि भौमानि भूतानि यथा यान्त्य् अपयान्ति च ।

नायम् आत्मा तथैतेषु विपर्येति यथैव भूः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सदा नासत इत्य् अनेन यद् उक्तं जन्म-मरणादि तद् अपि देहानाम् एव नात्मन इत्य् आह—भुवीति । भूतानि देहा एव यान्त्य् अपयान्ति च भवन्ति न भवन्ति चेत्य् अर्थः । यथा भुवि भौमानि घटादीनि तद्वत् । एतेषु भूतेषु जन्मादिभिर् विक्रियमाणेष्व् अयम् अपरोक्षतया प्रत्यभिज्ञायमानो न विपर्येति विपर्ययं न प्राप्नोति । एक-रूप एव वर्तत इत्य् अर्थः । भौमेषु विक्रियमाणेषु यथा भूस् तथेति । एवं विचार्यमाणे सति न शोकाद्यवकाशः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दृष्टान्तादिनाह—भुवीति । इत्य् अर्थ इति । न हि भूत-शब्देनाकाशादयोऽत्र ग्राह्यास् तेषाम् आप्रलय-स्थितेर् इति भावः । भौमेषु भूविकारेषु । घट-शरावादिषु विक्रियमाणेषूत्पन्न-विनष्टेषु यथाभूर् न विक्रियते यथेति ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र दृष्टान्तो यथा भुवि भूतानि जातानि भौमानि रजांसि तृणादीनि वा वात-वशाद् आयान्त्य् अपयान्ति च, न चैकत्र सदा सहासते, तद् वद् इत्य् अर्थः । ते च देहा एव, नत्वात्मा, ब्रह्मांशत्वेन नित्यत्वाद् इत्य् आह—नायम् इति, एतेषु देहेषु स्थितो\ऽप्य् आत्मा तथा देहवन् न विपर्येति, निज-स्वभावाद् वैपरीत्यं न याति, किन्तु तिष्ठतीत्य् अर्थः । अतो नश्वराणाम् अवश्यं वियोगापत्त्यानश्वरस्य च सदा सत्ता-सिद्ध्या शोकेनालम् इति भावः । अपयान्ति नश्यन्ति भुवि यानि तानि सर्वाण्य् एवेत्य् अर्थः । यद् वा, भुवि वर्तमानानीति भौमानां जन्म-नाशयोः सर्व-प्रत्यक्षतोक्ता एवं दार्ष्टान्तिके\ऽपि ज्ञेयम्, न विपर्येति जन्मादि-विक्रियां नाप्नोति ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपायान्ति नश्यन्ति भुवीति तत्र यानि सर्वाण्य् एवेत्य् अर्थः । यद् वा, भुवि वर्तमानानीति भौमानां जन्म-नाशयोः सर्व-प्रत्यक्षतोक्ता एवं दार्ष्टान्तिके\ऽपि ज्ञेयं न विपर्येति जन्मादि-विक्रियां नाप्नोति अत्र श्री-वैष्णव-मते भुव आश्रयत्वांश एव दृष्टान्तत्वं न कारणत्वांशेपीति ज्ञेयम् ईश्वरेऽपि मात्सर्येण कंसादीनां त्वद्वैतवादाश्रयत्वाद् अंश इति वा तत्रैव जीवात्मनो व्यापकत्वांशे वा तदा च आयान्तीत्य् आदिकं यथा धात्वर्थम् एव विपर्येति भ्रमतीत्य् अर्थः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भूवीति दृश्यमानानीत्य् अर्थः । जीवात्मन आश्रय एव भुवो दृष्टान्तम् ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानात्म-विवेकेनापि मा शोचतम् इत्य् आह—भूवि भूमौ आश्रितानि भौमानि घटादीनि आयान्ति जायन्ते अपयान्ति नश्यन्ति च यथा तथैव भूतानि देहा एव जायन्ते नश्यन्ति च तथैव तेषु भूतेषु देहुषु विपरियत्सु जन्माद्य् अनेक-विकारं प्राप्नुवत्स्वपि अयम् अपरोक्षतया ज्ञायमान आत्मा न विपर्येति जन्मादि-विकार-रूपं विपर्ययं नाप्नोति एक-रूपम् एव वर्तत इत्य् अर्थः यथैव भूर् न विपर्येति भौमेषु घटादिष्व् अनेक-विपर्ययं प्राप्नुवत् स्वपीत्य् अर्थः ॥१९॥


॥ १०.४.२० ॥

यथानेवं-विदो भेदो यत आत्म-विपर्ययः ।

देह-योग-वियोगौ च संसृतिर् न निवर्तते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अज्ञानतस् तु न निवर्तत इत्य् आह—यथेति । यथा यथावत् अनेवं-विद एवम् अजानत आत्म-विपर्ययो देहात्म-बुद्धिर् भवति यतो विपर्ययाद् भेदो भवति । देहाहङ्कारेण ह्य् आत्मनि परिच्छिन्ने सतीदं कारास्पदं भिन्नं भवति यतो भेदात् पुत्रादि-देहैर् योगो वियोगश् च ततः संसृतिः सुख-दुःखे इति यावद् अज्ञानं न निवर्तते इत्य् अर्थः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यावद् अज्ञानं यावत् काल-पर्यन्तम् अज्ञानं तिष्ठति तावत् संसृतिर् न निवर्तत इत्य् अर्थस्येत्य् उक्ते-देहैर् एव पुत्रादिभिर् योगः । सुख-कारणं वियोगे दुःख-कारणम् इयम् एव संसृतिर् इति भावः ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं देहानाम् एव जन्मादि-विकारः, न त्वात्मन इत्य् एतद् विदां सामान्यापेक्षया बहु-वचन-पाठ एव सर्व-सम्मतः । नन्व् ईदृश-ज्ञानवताम् अपि शोको नाम दृश्यते ? सत्यम्, ज्ञान-निष्ठा-राहित्याद् इत्य् आह—यथेति यथावत् सम्यक् निष्ठया, एवम् उक्त-प्रकारं तत्त्वम् अजानताम् एव भेदो\ऽयम् अहं मत् पुत्रो\ऽयम् इत्य्-आदि-लक्षणो भवति, यतो भेदाद्-विपर्ययो\ऽहं भोक्ताहं कर्ता, सुखी दुःखी चेत्य् आदि-लक्षणम् आत्म-तत्त्व-वैपरीत्यं भवति, ततश् च पुत्रादि –देहैर् योगो वियोगश् चेत्य् अर्थः । मम पुत्रो\ऽयं जातो\ऽयं च मृत इत्य्-आदि-बुद्धिर् भवतीत्य् अर्थः । अमूर्तस्यात्मनो योग-वियोगासम्भवाद् देश-शब्द-प्रयोगः ततश् च शोक-दुःख-लक्षणा संसृतिर् नैव निवर्तते ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मन एवं देहाद् वैलक्षण्यम् अजानतां देह-योग-वियोगो\ऽपि इति पाठो बहुत्र स च सर्वो\ऽपि द्वन्द्वो विभासायैकवद् भवतीति न्यायेन ऊकालोज्झस्वदीर्घप्लुतः [१.२.२७] इतिवत् अद्वैत-मते पूर्वोक्त-प्रकारेणात्म-ज्ञानान्यथात्वं ततो भेद-कल्पनं ततोभिन्नेऽध्यासः ततो देह-योग-वियोगौ ततः संसृतिश् च न निवर्तत इति च स्यात् अनेकविदाम् इति बहु-वचन-पाठ एव सर्व-सम्मतः अत्र टीकायाम् इति एतत् पूर्वोक्तं सर्वं यावद् अज्ञानं तावन् न निवर्तत इति व्याख्येयम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न तु कारणत्वे ऽपि यथा येन हेतुना एवमात्मतत्त्वमजानता भेदस्तस्मादन्यत्र तदुपाधौ दृष्टिर्भवति यतो हेतोस्तत्रैवात्मभावना भवतीत्यादि यत इति यतश्चेत्य् अर्थः ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनेवंविद एवम् आत्म-तत्त्वम् अजानतः शरीरम् आत्मत्वेन जानत इत्य् अर्थः । यथा यथावद् एव प्रथमं भेदो भवति पृथक् शरीराण्य् एव पृथक् पृथग् आत्मान इति भेद-ज्ञानं भवतीत्य् अर्थः । यतो भेदाद् एव आत्मनो विपर्ययः जन्मादि-विकार-रूप-विपर्य-प्राप्तिः देह-जन्म-मरणाभ्याम् एवात्मा जातो मृत इति ज्ञानं भवतीत्य् अर्थः । ततश् च देहैर् एव पुत्रादिभिर् योगः सुख-कारणं वियोगो दुःख-कारणं चेयम् एव संसृतिः ॥२०॥


॥ १०.४.२१ ॥

तस्माद् भद्रे स्व-तनयान् मया व्यापादितान् अपि ।

मानुशोच यतः सर्वः स्व-कृतं विन्दतेऽवशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् उक्त-प्रकारेण नैते तव तनया अहं तु तावन् न घटितवांस् तथाऽप्य् अज्ञान-दृष्ट्या स्व-तनयान् मया व्यापादितान् अपि मानुषोचेति सान्त्वयति, तस्माद् इति । अज्ञानाश्रयम् एव कर्म-वादम् आह—यत इति ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-प्रकारेण देहादिव्यतिरिक्तात्म-ज्ञानेन । एते ये मृता यद्य् अपि ते तनया न तथाप्य् अज्ञान-दृष्ट्या देहादि-स्व् आत्म-बुद्ध्या व्यापादितान् मारितान् । सान्त्वयति साम्ना बोधयति । यत इति हेतौ सर्वः प्राणि-मात्रम् । यद् वा सर्वः शर्वः शिवः स्थाणुः इति सर्व-पदस्य शिवपर्यायत्वेपीन्द्रादि-देवपरत्वम् एवोपलक्षणत्वेन ज्ञेयम् । श्री-शिवस्य परमेश्वरतया कर्मान् अधीनत्वात् तत्परत्वेन नेयम् । अवशः कर्मवशः हरिववशो वा स्वकृतं भुङ्केऽन्येषां तु का कथेति भावः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भद्रे ! हे सुबुद्धि-मतीति शोकाधिक्येन तान् विशेषतः सम्बोधयति । विन्दते भुङ्के । अवशो\ऽनिच्छन्न् इत्य् अर्थः, कर्माधीनत्वात् । ननु वसुदेवस्येदृग् ज्ञानम् अस्त्य् एव, तच् च त्वया पूर्वं ज्ञायत एव । स्त्रियाश् च मम तादृशं कथं सम्भवेद् इति चेत् तथापि सर्वेषाम् एव साक्षात् कर्माधीनतानुभवात् तन् न्यायेनापि शोकं त्यजेत्य् आह—तस्माद् इति । यद् वा, नन्वावयोर् एतज्-ज्ञानम् अस्त्य् एवेत्य् अनुतापो न कार्य एव, किन्तु बालानां तेषां जात-मात्राणाम् एव मरणात् किञ्चित् सत् कर्माद्य् अनुत्पत्त्या का गतिः स्याद् इति तान् प्रति शोचामि ? तत्राह—तस्माद् इति । तेषाम् इह स्व-कर्मवशेन बाल्ये मरण-पुत्रायाम् अपि त्वयि स्व-कर्मानु-रूपं फल भावि, तत्र तव शोकेन किं स्याद् इति भावः । मयापि निज-पूर्व-दुष्कृत-जनितस्यास्य पापस्य फलम् अचिराद् भोक्तव्यम् एवेति निश्चिन्ता भवेति भावि-दैव-सूचनम् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भद्रे, हे सद्-बुद्धिमतीति ताम् अधिक-शोकां विशेषतः सम्बोधयति, यतश् च विन्दते भुङ्क्ते अवशः अनिच्छन्नपीत्य् अर्थः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तनयान् देहानाम् अनात्मत्वात् तनय-बुद्ध्या तान् बहिर् दृष्ट्या मया हतान् अपि मानुशोचेत्य् अर्थः । मया पञ्च-भूतात्मका देहा एव हता इत्य् अतो मय्य् अपि दोष-दृष्टिर् न कार्येति भावः । ममैवमात्मतत्त्व-ज्ञानं नास्तीति चेत् तद् अपि मानुशोशोचेत्य् आह—यत इत्य्-आदि, अज्ञानाश्रये कर्मवादे\ऽप्य् एवं विचारेण नशोकावकाश इति भावः ॥२१॥


॥ १०.४.२२ ॥

यावद् धतोऽस्मि हन्तास्मीत्य् आत्मानं मन्यतेऽस्व-दृक् ।

तावत् तद्-अभिमान्य् अज्ञो बाध्य-बाधकताम् इयात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं तर्हि ब्राह्मणादि-हन्तुस् तद् वध्यस्य चअ प्रायश्चित्त-श्रवणम्, अज्ञान-मूलम् एवेत्य् आह—यावद् इति । अस्वदृक् देहाभिमानी । तावत् तद् अभिमानी तस्य देहस्य हननम् आत्मन्य् अभिमन्यमान इत्य् अर्थः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदि देहादाव् आत्म-बुद्धिर् विपर्यय-ज्ञानम् अस्ति तर्हि ब्राह्मणादि-देह-हन्तुर् द्वादशब्दादि-प्रायश्चित्त-श्रवणम् अनर्थकं स्याद् इत्य् आशङ्कते कथम् इति । तद् बधस्य ब्राह्मणादि-वधस्य । इत्य् अर्थ इति । अज्ञत्वात् सविपर्यय-ज्ञानवशेन बाध्य-बाधकतां नाश्यनाशकतां यातीति भावः ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एवं जानन्न् अपि त्वं किम् इति मरणाद् विभेषि ? किं वा तान् हतवान् असि स्वानुभवाभावाद् इत्य् आह—यावद् इति । स्वदृक् शास्त्र-दृष्ट्यात्मतत्त्वज्ञो हत-प्रायो\ऽस्मि,अत एव तान् हनिष्यामि इत्य् एवम् अभिमानं कुरुते, यतो\ऽज्ञो जान-निष्ठा-रहितस् तत्त्व-ज्ञान-हीनो वा, अयं सर्वत्रैव हेतुः, अन्यत् सर्वं तैर् व्याख्यातम् ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अज्ञः तत्त्वज्ञान-हीनः अयं सर्वत्रैव हेतुः अन्यत् तैः । यद् वा ननु, एवं जानन्न् अपि त्वं किम् इति मरणाद् विभेषि ? किं वा तान् हतवान् असि ? स्वानुभवाभावाद् इत्य् आह—यावद् इति । स्वदृक् शास्त्र-दृष्ट्या आत्मतत्त्वज्ञोऽपि हत-प्रायोऽस्मि अत एव तान् हनिष्यामीत्य् एवम् अभिमानं कुरुते यतो अज्ञः स्वानुभव-रहितः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कथं तर्हि तव मोहः ? तत्राह—यावद् इति । तर्हि नास्माकं कथं भवेत् ? ॥२२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मम तु त्वत् पुत्र-हन्तृत्वम् एव तावन् नास्ति ज्ञानित्वादित्य् आह—यावद् इति । अस्वदृक् न स्वमात्मानं पश्यति किन्तु देहम् एव पश्यत्यतो**\ऽज्ञः** तेन मम देहाभिमानाभावात् हत्वापि स इमान् लोकान् न हन्ति न निबध्यते इति वचनान् न त्वत् पुत्र-हन्तृत्वं नापि बन्ध इति भावः ॥२२॥


॥ १०.४.२३ ॥

क्षमध्वं मम दौरात्म्यं साधवो दीन-वत्सलाः ।

इत्य् उक्त्वाश्रु-मुखः पादौ श्यालः स्वस्रोर् अथाग्रहीत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्यालः कंसाः । स्वस्रोर् इति स्वसृ-शब्देन द्वि-वचनानुपपत्त्या मिथुन-गण-द्वारा मिथुनि-लक्षणया स्वसृ-तत्-पत्योर् अभिधानं लिङ्ग-समवाय-न्यायेन “प्राण-भृत उपदाधाति” इति-वत् देवकी-वसुदेवयोः प्रत्य् एकं पादम् अग्रहीद् इत्य् अर्थः । श्याल-शब्देन वा कथञ्चिद् वसुदेवाबिधानम् ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मयि पुत्र-हन्तृत्वम् आर्प्याधिना रोदिषि चेत् तर्हि सत्यम् अहं दुष्ट एव बुद्धि-पूर्वकं, पापम् अकरवम् एव तत्रापि निष्कृतिर् युष्मत् कृपयैवेत्य् आह—क्षमध्वम् इति । स्वसृ-शब्देन स्वसृतत्-पत्योर् भगिनीभामयोर् अभिधानं कथनं द्विवचनानुपपत्त्या एकत्र द्विवचन-प्रयोगायोग्यतया मिथुन-गुणं द्वऋआ द्वित्व-सङ्ख्यां द्वारीकृत्य मिथुने द्वये लक्षणया वृत्त्या लिङ्गसमवायेन लिङ्ग-समवायात् इति जैनिमि-सूत्रेण प्राणभृत उपदधातीतिवद् इति दृष्टान्तः । लिङ्गं वाच्योर्थस् तस्य समवायः समुदाये प्रवेशस् तेन । यथा छत्रिणो यान्तीति एकस्मिन्न् अपि समुदाये छत्रिणि सति सर्वेषु यथा छत्रि-पदं प्रयुज्यते तद् वद् एकस्याम् एव स्वसृ-पद-वाच्यायाम् अत्र सत्याम् अपि द्वयोस् तत्-प्रयोग इति । एवक-स्वसृश-शब्देन स्वसृपतिर् लक्ष्यते इत्य् एकः स्वसृ-शब्दो लक्षकोऽन्यो वाचकस् तयोर् एकशेषात् वसुदेव-देवक्योः प्रत्येकं पादावग्रहीद् इत्य् अर्थः । प्राणभृत इत्य् अस्य विवरणम् आह—प्रान्तर-सम्मत्या ।

सृष्टिवत् प्राणभृत् तत्र सादृश्यं लिङ्गभूमत ।

अत्रैकमन्त्रगो लिङ्ग-समवायो विशिष्यत ॥

इति [१] प्राण-भृते उपदधातीत्य् अत्रापि सृष्टि-न्यायेन सृष्टि-प्रतिपादक-सूत्रेण मन्त्र-विधिर् इति पूर्वः पक्षः । लिङ्ग-प्रकरण-प्राप्त-मन्त्रानुवादेनेष्टकोपधानविधिः एतस्यैव प्राणान् दधातीत्य् अस्य वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच् छब्देन मन्त्रानुवादः । पूर्वत्र सृष्टि-न्याये द्वितीयादि-मन्त्रेषु सृष्टि-लिङ्गानां बाहुल्यम् अस्ति इह तु प्रथमं मन्त्रम् एव प्राणभृल् लिङ्गमाम्नायते अयं पुरोभुवस् तस्य प्राणो भौवायन इत्य् एकस्यैव मन्त्रस्य प्राणभृत्त्वे\ऽपि छत्रिणो यान्तीतिवत् तत्-सहचरिताः सर्वे मन्त्रा प्राण-भृच्-छब्देनोच्यन्ते तद्वद् अत्रापीति ध्येयम् । तद् एवाह-देवकीत्यादि । इत्य् अर्थ इति । न द्वयोर् एकैकं पादं गृहीत्वा द्वौ पादावग्राहीद् इति वाच्यम् । कथञ्चित् कयापि रीत्या श्यालस्वस्त्रोरित्य् एकं पदं कृत्वा । लोके हि भाम-समीपे पृष्टः श्ल्यालोऽयं ते क इति श्यालोऽयं ममेत्य् उत्तरं ददातीति लोकरीत्या वसुदेव एव ल्यालप-पदेन गृह्य इत्य् अर्थाश्रयणेन्यायाश्रयणश्रमो नास्तीत्य् अर्थः ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् अस्माकम् अपि ज्ञान-निष्ठा नास्तीति चेत् तथापि मद् अपराधः क्षन्तव्य इत्य् आह—क्षमध्वम् इति । बहुत्वं देवक्याद्य् अपेक्षया, यतः साधवो बन्धुषु दृष्टेष्व् अपि वत्सला भवन्ति । दीनेति पाठे क्षमार्थम् आत्म-दैन्यं सूचयति । अथानन्तरं सद्यो वदन्न् एवाग्रहीद् इत्य् अर्थः । अन्यत् तैः ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, अस्माकम् अपि स्वानुभवो नास्तीति चेत् तथापि मद् अपराधः क्षन्तव्य इत्य् आह—क्षमध्वम् इति । बहुत्वं देवकाद्य् अपेक्षया यतो यूयं साधवो बन्धु-वत्सलाश् च दीनेति पाठे क्षमार्थमात्मदैन्यं सूचयति साधवो दीन-वत्सला भवन्तीत्य् अर्थः । अथ अनन्तरं सद्यः वदन्न् एवाग्रहीत् इत्य् अर्थः । अन्यत् तैः तत्र मिथुन-गणनो माता-पितृ-प्रभृतिकः प्राणाभृच् छब्देन तन्मन्त्र-संस्कृतेष्टकोच्यते बहुत्वानुपपत्या च तद् गणपातिन्योऽपि गृह्यन्त इति वा शरि [८.३.३६] इत्य् अस्य सकारपक्षम् आश्रित्याजहल् लक्षणया व्याख्यातम् अनचि च [८.४.४७] इत्य् अस्य द्वित्व-पक्षम् आश्रित्य जहल् लक्षणया व्याचष्टे—स्यालेति । एवम् अध्यात्म-ज्ञानादिकम् अपि श्री-भगवद् विमुखानां प्रत्युत क्ररतापोषायैव भवतीति प्रकरण-तात्पर्यम् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्राह, क्षमध्वम् इति । बन्धुवत्सलाः तेषामपराधग्राहका इत्य् अर्थः । दीनेति पाठः सुगमः


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि मयि पुत्र-हन्तृत्वम् आरोप्याधिकं चेद् रोदिषि तर्हि सत्यम् अहं दुष्ट एव बुद्धि-पुर्वकं पापम् अकरम् एव तत्र निष्कृतिर् युष्मत्-कृपैवेत्य् आह—क्षमध्वम् इति । श्यालः कंस स्वस्रोर् इति द्वि-वचनानुपपत्या स्वसृ-शब्देन स्वसृ-पतिर् लक्ष्यते इत्य् एकः स्वसृ-शब्दो लक्षकः अन्योन्य-वाचकः तयोर् एक-शेषात् स्वस्रोर् वसुदेव-देवक्योः पादौ प्रत्येकं पादम् अग्रहीद् इत्य् अर्थः ॥२३॥


॥ १०.४.२४ ॥

मोचयामास निगडाद् विश्रब्धः कन्यका-गिरा ।

देवकीं वसुदेवं च दर्शयन्न् आत्म-सौहृदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-सौहृदं प्रिय-वादादिना दर्शयन् ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निगडाद् बन्धन-शृङ्खलातः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निगडा-लौह-शृङ्खलात् । तद् आतं कर्तयाम् आसेत्य् अर्थः । आत्मनः सौहृदं हृदया-कौटिल्यं दर्शयन् निगडान् मोक्षणेन वाक्य-संवादि-व्यवहारात् । यद् वा, बन्धुत्वम् अभिव्यञ्जयन् इति गृहीतं तदीयं द्रव्यम् अन्यच् च परितोषार्थं किञ्चिद् ददावित्य् अर्थः ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निगडात् लोह-शृङ्खलात् तदा तं कर्तयामासेत्य् अर्थः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : निगडात् लौहशृङ्खलतः तं कर्त्तयित्वापीत्य् अर्थः । पूर्वं बन्धनागारान् मोचनं ज्ञेयम् ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निगडात् लोह-शृङ्खलात् ॥२४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४.२५ ॥

भ्रातुः समनुतप्तस्य क्षान्त-रोषा च देवकी ।

व्यसृजद् वसुदेवश् च प्रहस्य तम् उवाच ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समनुतप्तस्याहो मया वृथैव भागिनेया हताः केवलं पापमेवोपार्जितम् इत्य् एवं पश्चातापं कृतवतः कंसस्य सतः क्षाण्तो रोषो यस्यां सा तं व्यसृज-द्विसर्जयामास क्षान्ता रोसां च देवकी इति पाठस्तु विजयध्वज-संमतस्स च सुगम एव ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भ्रातुस् तत्र च सम्यग् अनुतप्तस्यातएव क्षान्त्वा तं प्रति क्षमां कृत्वा, किवा अपराधं कृत्वा । किं वा, अपराधं क्षान्त्वा रोषम्, च-काराच्छोकं च तत्याज । च तु –वसुदेवस् तु, स्फुटम् उवाच । प्रहस्येति तस्यापि तादृशोक्तेः । किं वा, तद् वचन-सिद्धये निज-चित्त-प्रसाद-बोधनार्थम् ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भ्रातुः तत्र च सम्यग् अनुतप्तस्य क्षान्त्वा दौरात्म्यं सोडा रोषं चकाराच्छोकं च तत्याज वसुदेवस् तु ह स्फुटम् उवाच प्रहस्येति । तस्यापि तादृशोक्तेः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : क्षान्त्वा क्षमाम् अवलम्ब्य ॥२५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भ्रातुर् अपराधं क्षन्त्वा रोषं शोकं च ॥२५॥


॥ १०.४.२६ ॥

एवम् एतन् महा-भाग यथा वदसि देहिनाम् ।

अज्ञान-प्रभवाहं-धीः स्व-परेति भिदा यतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे महाराजेति शास्त्र-ज्ञानं त्वयि घटेतैवेति भावः । पक्षेन राजत इत्य् अराजा महाश्चासावराजश् चेति । हे अत्यन्त-शोभमान मृत्युसान्निध्याद् इति भावः । महाभागेति पाठे परम-दुर्भगेत्य् अर्थः । एतत् त्वद् उक्तम् । भुवि भौमानि भूतानि इत्य्-आदि-रूपम् । एवम् इत्थम् एव न्यान्यथेत्य् अर्थः । यतः ययाहन्धिया ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे महाराज इति शास्त्रार्थ-ज्ञानं त्वयि घटेतैवेति भावः । महा-भागेति पाठेऽपि तथैवार्थः । इदम् अपि पूर्ववद् एव—देहिनाम् अहंधीरहं भोक्ता कर्त्रेत्य् आदिमतिर् अज्ञान-प्रभवा, स्वः पर इतीति वक्तव्ये स्व-परेतीत्यार्षम्, यतोऽहंधियः ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् एतद् इति मयेदं पूर्वम् एवोक्तं भवतैव न मन्यत इति भावः । हे महाराजेति शास्त्र-ज्ञानं त्वयि घटेतैवेति व्यञ्जितं महा-भागेति पाठे तथैवार्थः । पक्षे न राजत इत्य् अराजः हे मह्-आराज ! हे अत्यन्ताशोभमान ! अमङ्गल-सान्निध्याद् इति भावः । तथा मभान् अभागः अभाग्यं यस्य हे परम-दुर्भग ! इति देहिनाम् अहन्धीः तत्राहं भोक्ता कर्तेत्य् आदिमतिर् अज्ञान-प्रभवा यतः अहन्धियः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो\ऽहन्धिय एव हेतोर् अयं स्वः अयं पर इति भिदा सह सुपा [२.१.४] इति समासः ॥२६॥


॥ १०.४.२७ ॥

शोक-हर्ष-भय-द्वेष-लोभ-मोह-मदान्विताः ।

मिथो घ्नन्तं न पश्यन्ति भावैर् भावं पृथग्-दृशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-पर-भेद-दर्शने किं भवति तद् आह—शोक-हर्षेति । भावैर् एव निमित्त-भूतैर् मिथो भावान् घ्नन्तं भावम् ईश्वरम् । पृथग् दृशस्ते न पश्यन्ति किन्त्व् अहम् एव हन्ता हतश् चेति मन्यन्त इत्य् अर्थः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् आह—यद्वति तद्-ब्रूते भावैर् एव नृपरोगव्याग्रादि-रूपैर् भावान् मनुष्य-गवादिकान् । भावः सत्तात्म-जन्मसु इति कोशाद् भाव ईश्वरः । इत्य् अर्थ इति । ईशकृतं स्वस्मिन्न् आरोपयन्तीति भावः । हन्तुं साक्षाद् अवतीर्णम् अपि तं त्वद् विधा न पश्यन्तीति श्लेषार्थः ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भावैर् भूतैः, पृथग् दृशो भेद-दृष्टयः, शोकादीनाम् ईश्वरादर्शने यथोत्तरं शैष्ठ्यम्, तत्रानुताप-लक्षणाच्छोकाद् विषय-भोग-लक्षणस्य सुखस्य श्रैष्ठ्यम्, दुःखेन कदाचिद् ईश्वर-ज्ञान-सम्भावाद् धर्षाद् अपि मरण-भयस्य शैष्ठ्यम्, भयेन चित्त-व्याकुलताधिक्यात् । अन्यत् स्पष्टम् । मिथो घ्नन्तम् इति यादवैर् जरासन्धाबलानि पाण्डवादिभिश् च दुर्योधनादीन् हन्तुं साक्षाद् अवतीर्णम् अपि भगवन्तं तद्-विमुखा न पश्यन्तीति श्लेषार्थः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भावैर् भूतैः पृथग् दृशः बहिर् दृष्टयः अन्यत् तैः तत्र वस्तुत ईश्वर एव हन्ता न देहो नात्मा व हतश् च देह एव नात्मेत्य् अर्थः । मिथो निमित्तभूतैर् इति योज्यं मिथोघ्नन्तम् इति त्वद्-विधान् हन्तुं साक्षाद् अवतीर्णम् अपि तं त्वद्-विधा न पश्यन्तीति श्लेषार्थश् च ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भावैर् भूतैर् मिथो निमित्त-भूतैः पृथग्-दृशो बहिर् दृष्टयः ॥२७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मिथः परस्परं भावैर् नृप-व्याघ्र-रोगादिभिर् भावं मनुष्य-गवादिकं घ्नन्तम् ईश्वरम् इति शेषः । पृथग्-दृशो बहिः-दृष्टयः ॥२७॥


॥ १०.४.२८ ॥

श्री-शुक उवाच—

कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः ।

देवकी-वसुदेवाभ्याम् अनुज्ञातोऽविशद् गृहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विशुद्धं यथा भवति ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुज्ञातो विसृष्टः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तद् वाक्यानुमोदनेन1 स्वचिद्धान्त-निरूपणेन च विश्रव्धं कंसस्य विश्वास-जनकं यथा स्यात्, तथा । "विशुद्धम्" इति पाठे अकपटं यथा स्यात्-तथा प्रतिभाषितोऽनुज्ञातश् च सन् । कंसस्य तादृश-ज्ञानं च पूर्वोक्त-श्री-वसुदेवोपदेशेन, तत्र च मररण-भयाद् अविरत-श्री-भगवत्-समरण-स्वभावाद् एवोत्पन्नम् इति ज्ञेयम् । एवं दैव्यानां अपि कर्मवश्यत्वात्मतत्त्वयोर् ज्ञानं स्याद् एव, न तु कदाचिद् अपि भक्तिर् इति तस्य ज्ञानस्य तुच्छत्वम् अपि सूचितम् ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तद् वाक्यानुमोदनेन स्व-सिद्धान्त-निरूपणेन च विस्रब्धं कंसस्य विश्वास-जनकं यथा स्यात् । "विशुद्धम्" इति पाठे अकपटं यथा स्यात् तथा प्रतिभाषितः अनुज्ञातश् च सन् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशुद्धम् अकपटं यथा स्यात् विस्रब्धम् इति पाठे सविश्वासम् ॥२८.२९॥


॥ १०.४.२९ ॥

तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः ।

तेभ्य आचष्ट तत् सर्वं यद् उक्तं योग-निद्रया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाति-कोविदा दृष्ट-मात्र-मतयो न दीर्घ-दर्शनाः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेभ्यो मन्त्रिभ्यः । यद् उक्तम् । किं मया-हतया [भ।पु १०.३] इति आदि ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-तज्-ज्ञानम् अपि2 दुष्टानां तेषां हृदि सुस्थिरं न स्याद् इति दर्शयन् कंसस्य स्वोक्त-ज्ञान-विरुद्ध-व्यवहारम् आह—तस्याम् इत्य्-आदिना यावत् समाप्ति । मन्त्रिणः प्रलम्ब-केशि-चाणुरादीन् ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तज् ज्ञानम् अपि भगवद् विमुखानां तेषां हृदि सुस्थिरं न स्याद् इति दर्शयन् कंसस्य स्वोक्त-ज्ञान-विरुद्ध-व्यवहारम् आह, तस्याम् इत्य्-आदिना, यावत् समाप्ति । मन्त्रिणः प्रलम्ब-केशि-चाणूरादीन् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.४.३० ॥

आकर्ण्य भर्तुर् गदितं तम् ऊचुर् देव-शत्रवः ।

देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नातिकोविदा दृष्ट-मात्र-मतयो, न दीर्घ-दर्शनाः ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दृष्ट-मात्रमतयो धर्माधर्म-विचार-हीनाः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वभावत एव देवानां शत्रवः पुनः कृत-क्रोधाः सन्तः ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वभावत एव देवानां शत्रवः पुनः कृतामर्षाः सन्तः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नातिकोविदाः न कोविदा इत्य् अर्थः । अतीत्यनधिकारार्थम् ॥३०॥


॥ १०.४.३१ ॥

एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रजादिषु ।

अनिर्दशान् निर्दशांश् च हनिष्यामोऽद्य वै शिशून् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न निर्गतानि दश दिनानि येषां तानन्यांश् च ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राजेन्द्रेति । इन्द्र-तुल्यस्य सर्वे राजानोऽर्चका एव न को\ऽप्य् उद्यतो भविष्यति । भोजेन्द्र इति पाठे । यादवाः सर्वे त्वत्तो भीता एव तेष्व् अपि न को\ऽपि वारयितुं समर्थ इति भावः । आदि-पदेन खेट-खर्वतादयो ज्ञेयाः ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे राजेन्द्रेति त्वया निर्जिताः सर्वे राजानोऽप्य् अस्माकं साहाय्यं करिष्यन्तीति भावः । भोजेन्द्रेति पाठेऽपि तथैवार्थः, श्लेषेण भवान् विषय-भोगं कुर्वन् निश्चिन्तस् तिष्ठत्व् इति, वै एव अद्यैव ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे राजेन्द्रेति सम्बोधनम् इन्द्र-स्पर्धया भोजेन्द्रेति पाठोऽपि तथैव वै एव अद्यैव ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनिर्दशन् दशदिनेभ्यो न निर्गतान् तिर्गतां च ॥३१.३२॥


॥ १०.४.३२ ॥

किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः ।

नित्यम् उद्विग्न-मनसो ज्या-घोषैर् धनुषस् तव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ज्याघोषैर् गुण-शब्दैः ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तर्हि देवैर् युद्धार्थम् उद्योगः कार्यः ? तत्राहुः—मिम् इति, ज्या-घोषैः पूर्वं युद्धे कृतैर् अधुना वा लीलायान्य् अर्थं क्रियमाणैर् अपि नित्यम् उद्विग्न-मनसः पलायनपरा विमुखतया धावन्त इत्य् अर्थः ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तर्हि देवा युद्धार्थम् उद्यमं करिष्यन्ति तत्राहुः—किम् इति । ज्या-घोषैः पूर्वं युद्धे कृतैः सदा लीलायाम् अपि वा ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.४.३३ ॥

अस्यतस् ते शर-व्रातैर् हन्यमानाः समन्ततः ।

जिजीविषव उत्सृज्य पलायन-परा ययुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्यतो विध्यतः सतः । उत्सृज्य रणं त्यक्त्वा ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्यत इत्य्-आदिना सूचितः कदाचित् कंस-कृत-देव-गणजयो ज्ञेयस् तद् उक्तं विष्णु-पुराणे—

किं न दृष्टोऽमर-पतिर् मया संयुगम् एत्य सः ।

पृष्टेनैव वहन् बाणान् अपगच्छन् न वक्षसा ॥

मद्-राष्ट्रे वारिता वृष्टिर् यदा शक्रेण किं तदा ।

मद्-बाण-भिन्नैर् जलदैर् नापि मुक्ता यथेप्सिताः ॥ [वि।पु। ५.४.६-७]

इति कंस-वाक्यम् ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्यत इत्य्-आदिना सूचितः कदाचित् कंसस्य देव गणजयोऽपि ज्ञेयः । तथा च श्री-विष्णु-पुराणे—

किं न दृष्टोऽमर-पतिर् मया संयुगम् एत्य सः ।

पृष्टेनैव वहन् बाणान् अपगच्छन् न वक्षसा ॥

मद्-राष्ट्रे वारिता वृष्टिर् यदा शक्रेण किं तदा ।

मद्-बाण-भिन्नैर् जलदैर् नापि मुक्ता यथेप्सिताः ॥ [वि।पु। ५.४.६-७] इति ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्यत इत्य्-आदिना सूचितः कदाचित् कंसस्य देव-गणजयो ज्ञेयः तथा च श्री-विष्णु-पुराणे तद् उक्तौ—

किं न दृष्टोऽमर-पतिर् मया संयुगम् एत्य सः ।

पृष्टेनैव वहन् बाणान् अपगच्छन् न वक्षसा ॥

मद्-राष्ट्रे वारिता वृष्टिर् यदा शक्रेण किं तदा ।

मद्-बाण-भिन्नैर् जलदैर् नापि मुक्ता यथेप्सिताः ॥ [वि।पु। ५.४.६-७] इति ।

पलायन-परा विमुखतया धावन्तः इत्य् अर्थः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्यतः विध्यतः सतः उत्सृज्य रणं त्यक्त्वा ॥३३.३४॥


॥ १०.४.३४ ॥

केचित् प्राञ्जलयो दीना न्यस्त-शस्त्रा दिवौकसः ।

मुक्त-कच्छ-शिखाः केचिद् भीताः स्म इति वादिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुक्ते कच्छ-शिखे यैस् ते तस्था कच्छं धौत-वस्त्रस्य बन्धन-प्रदेशः । शिखा प्रसिद्धा ॥३४॥

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकृष्टो मूर्ध्नि निवद्धोऽञ्जलिर् यैस् ते, यतो दीना दुःखिताः क्षीण-चित्ता वा, भीता इति पाठेऽप्य् अर्थः स एव ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रवद्धो मूर्द्ध्नि धृतोऽञ्जलिर् यैस् तादृशा बहूवुर् इति शेषः । यतो दीनाः दुःखिता क्षीणचित्ताः वा भीता इति क्वचित् पाठः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.४.३५ ॥

न त्वं विस्मृत-शस्त्रास्त्रान् विरथान् भय-संवृतान् ।

हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यासक्तान् विमुखांश् चेति न हंसि न हिनत्सि ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विमुख न अन्यत्र मुखान् ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो ! तव धर्म-प्रतिपालनाद् एव देवा जीवन्तीत्य् आहुः—न त्वम् इति । विस्मृतानि केवलं धृतान्य् एव, न तु भयाकुलतया प्रयोक्तुं शक्तानि शस्त्राणि खड्गादीन्य् अस्त्रानि च शरादीनि यैस् तान् । विशेषणानाम् एषां यथोत्तरं वध्यत्वे न्यूनत्वं कैमुतिक-न्यायेन व्याख्यायम् ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो तव धर्म-परिपालनेनैव देवा देवा जीवन्तीत्य् आहुः—न त्वम् इति । धृतान्य् अपि भयाकुलतया विस्मृतानि खड्गादीनि शरादीनि च यैस् तान् ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तव धार्मिकत्वम् एव तेषां वृद्धौ हेतुर् इत्य् आहुः—न त्वम् इति, तेनातःपरं धार्मिकत्वं त्यज्यतां धर्मस्य नायं काल इति भावः ॥३५॥


॥ १०.४.३६ ॥

किं क्षेम-शूरैर् विबुधैर् असंयुग-विकत्थनैः ।

रहो-जुषा किं हरिणा शम्भुना वा वनौकसा ।

किम् इन्द्रेणाल्प-वीर्येण ब्रह्मणा वा तपस्यता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षेमे निर्भये देशे शूरैः । संयुगाद् अन्यत्र विकत्थनं प्रौढि-वादो येषां तैः । ननु हरेर् बिभेमि शम्भोश् चेति चेत् तत्राहुः, रहो-जुषेति । सर्वस्याप्य् अन्तः-प्रविष्टेन क्वचिद् अपि बहिर् अदृष्टेनेत्य् अर्थः । पुरुष-प्रवृत्ति-रहितम् इलावृत-वनम् ओको यस्य तेन शम्भुना वा ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रौढि-वादो वृथा-वाग् वादः । देवेषु विष्णु-शिवेन्द्र-ब्रह्माण एव सबलास् तेभ्यो भयम् आशङ्कते—नन्व् इति । इत्य् अर्थ इति । न हि संमुखम् अनागतस्य दर्शनागोचरस्य भयं दृष्ट-चरम् इति भावः । यद् वा, यदि बलं स्यात् तर्हि किम् इति प्रकटीभू युद्ध्यते किम् इति लोकानाम् अन्तःकरणे प्रविश्य निह्नूयत इति भावः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तथापि जीवद्भिस् तैर् अभिमानिभिर् अवश्यं विक्रमो दर्शयितव्यः, तत्राहुः—किम् इति । असंयुगं स्त्री-पार्श्वदि । अन्यत् तैर् व्याख्यातम् । यद् वा, रहोजुषा रहसि निर्जने प्रीतेन । यद् वा, त्वद् भयेन निह्नुत्य निर्जने तिष्ठता, वनौकसा तच् छङ्कया वने एव सदा तिष्ठतेति ताभ्यां एव संग्राम-संघट्टे नागन्तव्यम् एवेति भावः ।

ननु, तथापि देवेन्द्रोऽवश्यमागन्ता ? तत्राहुः—ब्रह्मणेति तपःपरत्वेन युद्धे सायाय्यं नैव कर्ता । किं वा, विक्रमाभावात् तेन सहायेनापि सता किम् इत्य् अर्थः ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तथापि जीवन्तस् तेऽभिमानिनोऽवश्यं विक्रमं दर्शयिष्यन्ति तथाहुः—किम् इति सार्धकम् । असंयुगं स्त्रीपार्श्वादि अन्यत् तैः तत्र सर्वस्येत्य् आदिवास्तवार्थः दैत्यानाम् अभिप्र्तस् तु क्षीरोदादौ त्वद् भयेन निह्नूत्य तिष्ठतीत्य् एव इति ताभ्यां तव रण-सङ्घट्टेनागन्तव्यम् एवेति भावः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : रहो-जुषा निलीय-स्थितेनेति तेषां विवक्षितं टीकायान्तु वास्तवार्थ एव ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वयं तु तेभ्यः कदापि न बिभीम इत्य् आहुः क्षेमे निर्भये देशे शूरैः संयुगाद् अन्यत्रैव विकत्थनं प्रौढिवादो येषां तैः न च हरेः शम्भोर् वा भेतव्यं तयोर् अपि त्वत् तुल्य-बलत्वाभावाद् इत्य् आहुः रहोजुषा इति । यदि बलं स्यात् तदा किम् इति प्रकटी-भूय न युद्ध्यते किम् इति लोकानाम् अन्तःकरणेषु प्रविश्य निह्नुयते इति भावः । वनौकसा पुरुष-प्रवेश-रहित-मिलावृतवनमोको यस्य तेन ॥३६॥


॥ १०.४.३७ ॥

तथापि देवाः सापत्न्यान् नोपेक्ष्या इति मन्महे ।

ततस् तन्-मूल-खनने नियुङ्क्ष्वास्मान् अनुव्रतान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् अप्य् उद्यमैर् देवा न किञ्चिद् अपि कर्तुं समर्थास् तथापि नीतिर् अनुसर्तव्येत्य् आहुः, तथापीति ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नीती राजनीतिः । अनुसर्तव्यानुगन्तव्या ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेषां मूलस्य खनने उत्पाटनेऽनुव्रतान् त्वद् एक-भक्तान् ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तथापि देवेन्द्रोऽवश्यम् आगन्ता तत्राह किम् इति ।

ननु, ब्रह्मा तत् सहायो भविता तत्राहुः—ब्रह्मणेति तपःपरत्वेन विक्रमाभावात् तपो व्ययभिया शापाप्रवृत्तेश् च तेन सहायेनापि सता किम् इत्य् अर्थः । मन्महे मन्यामहे

ननु, देवा भीताः पलायिष्यन्त एव तत्राहुः तत इति । तेषां देवानां मूलस्य बालक-रूपेणावतीर्य स्थितस्य गुप्तस्य विष्णोः खनने हिंसनेऽस्मान् नियुंक्ष्व ॥३७॥

ननु, ब्रह्मा तत् सहायो भविता तत्राहुः—ब्रह्मणेति तपःपरत्वेन विक्रमाभावात् तपो व्ययभिया शापाप्रवृत्तेश् च तेन सहायेनापि सता किम् इत्य् अर्थः । मन्महे मन्यामहे

ननु, देवा भीताः पलायिष्यन्त एव तत्राहुः तत इति । तेषां देवानां मूलस्य बालक-रूपेणावतीर्य स्थितस्य गुप्तस्य विष्णोः खनने हिंसनेऽस्मान् नियुंक्ष्व ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि क्षुद्रा अपि शत्रवो नोपेक्षणीया इति नीति-शस्त्र-रीतिर् अनुसरणीयैवेत्य् आहुः—तथापीति ॥३७॥


॥ १०.४.३८ ॥

यथामयोऽङ्गे समुपेक्षितो नृभिर्

न शक्यते रूढ-पदश् चिकित्सितुम् ।

यथेन्द्रिय-ग्राम उपेक्षितस् तथा

रिपुर् महान् बद्ध-बलो न चाल्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रूढ-पदो बद्ध-मूलः ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आमयो ज्वरादिः । चिकित्सितुम् अपनेतुम् ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, ते यदोद्यमं करिष्यन्ति, तदैव हन्तव्यास् तावद् अधुनोपेक्ष्यन्ताम् ? तथाहुः—यथेति । नृभिर् इति तेष्व् एव प्रायो रोगोत्पत्तेस् तेषाम् एव तच् चिकित्साशक्तेश् च, कदाचिन् महौषधादि-प्रभावेण तच् चिकित्सासम्भवम् आशङ्क्य दृष्टान्तरम् आहुः—यथेति । वद्ध-बदत्वाद् एव महान् विवृद्धः सन् न चाल्यते निर्जेतुं न शक्यत इत्य् अर्थः ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, गुप्तशेदसमर्थ एव स मम इति किङ्करिष्यति तत्राहुः—यथेति । कदाचिन् महौषधादि-प्रभावेण तच् चिकित्सा-सम्भवम् आशङ्क्य दृष्टान्तान्तरम् आहुः—यथेन्द्रियेति । बद्धबलत्वाद् एव महान् विवृद्धः सन् न चाल्यते स्थानाद् वभ्रंशयितुम् अपि न शक्यते किमुत हन्तुम् इत्य् अर्थः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथेति । बद्धबलत्वेन महान् विवृद्धः सन् ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रूढ-पदो बद्ध-मूलः ॥३८॥


॥ १०.४.३९ ॥

मूलं हि विष्णुर् देवानां यत्र धर्मः सनातनः ।

तस्य च ब्रह्म-गो-विप्रास् तपो यज्ञाः स-दक्षिणाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देवानां मुलं विष्णुः स च यत्र धर्मस् तत्रास्ते । धर्मस्य मूलं वेदादय इति ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र सनातनो वेदविहितो धर्मस् तत्र देवानां मूलं विष्णुर् आस्ते इति शेषं कृत्वान्वयः । तस्य धर्मस्य ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मूलखनने इत्य् उक्तम्, मूलम् एवाहुः—मूलम् इति । हि निश्चितम्, सनातनः स्थिर इत्य् अर्थः, इति फलाभि-सन्धिर् आहित्यम् । किं वा, अविच्छिन्नत्वम् अच्छिद्रत्वादिकञ्चाभिप्रेतम्, तपः स्व-धर्माचरणं नित्य-नैमित्तिक-लक्षणम्, यञ्ज-शब्धेन काम्य-कर्माण्य् उपलक्ष्यन्ते, यद् अक्षिणा इत्य् अन्यथा यज्ञानां साङ्गत्वाभावेन धर्म-मूलत्वासिद्धिः ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ मूलस्य तस्य गुप्तस्यापि हननोपायं सार्धेश् चतुर्भिर् वदन्तौ मूलत्वम् एव तद् रहस्य-विदामृषीणां वचनानुवादेनापि सपरिकरं निर्दिशन्तस् तद् धननम् एव दृढीकुर्वन्ति मूलम् इति हि वेदे प्रसिद्धं सनातनः अनादि-सिद्धो वेद-प्रसिद्धः न तूपधर्मादिर् इत्य् अर्थः । धर्मः अपूर्वः तपः स्व-धर्माचरणं नित्य-नैमित्तिक-लक्षणं यज्ञ-शब्देन काम्य-कर्माण्य् उपलक्ष्यन्ते सद् अक्षिणा इति तथैव साङ्गतया धर्म-मूलतासिद्धेः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : धर्मो ऽपूर्वः तपः स्वधर्मः यज्ञाः काम्यधर्माः ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्मः सनातन् इति धर्म एव तं जीवयंस् तस्य मूलम् इत्य् अर्थः । तस्य धर्मस्य मूलं वेदादयः ॥३९॥


॥ १०.४.४० ॥

तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्म-वादिनः ।

तपस्विनो यज्ञ-शीलान् गाश् च हन्मो हविर्-दुघाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वात्मना सर्व-प्रकारेण । हविर्दुघा यज्ञोपयोगि-घृतादिदात्र्यः ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्वात्मनाशेष-प्रकारेण विविधोपायैर् इत्य् अर्थः । ब्राह्मण-हनने हेतवः—ब्रह्मेत्य् आदि, तद् वधेन स्वतएव वेदादिनाश-सिद्धेर् इति भावः । हे राजन्न् इति त्वत्-प्रभावाद् एवेति भावः । गो-हनने हेतुः—हविर्दुघा घृतादि-यज्ञीय-द्रव्य-प्रदा इति ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तथापि तस्य विष्णोर् अहोजुट्त्वे\ऽपि तत् परिकर-हननेनैव हननं स्याद् इत्य् आहुः—तस्माद् इति । सर्वात्मना सर्वेणैव प्रयत्नेन हन्मः तेषां हननम् एवास्माकं तद् धर्मोपमर्दकः परमो धर्मं इति तान् हन्याम् एवेत्य् अर्थः । हे राजन्न् इति तव प्रभावेनैव सुतराम् एवेति भावः । ब्राह्मण-हनने हेतवः ब्रह्मेत्यादि तन् नाशे स्वतो वेदादि-नाश-सिद्धेः गो-हनने हेतुः—हविर् दुघाः घृतादि-यज्ञीय-द्रव्य-प्रदाः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वात्मना सर्वेणैव प्रयत्नेन


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषाम् अपि मध्ये ब्राह्मणववेनैव सर्वे नङ्क्ष्यन्तीत्य् आहुः—तस्माद् इति । किं च यज्ञानां कारणं हविस् तस्य गाव इति ताश् च वध्या इत्याहुर् गाश् चेति ॥४०॥


॥ १०.४.४१ ॥

विप्रा गावश् च वेदाश् च तपः सत्यं दमः शमः ।

श्रद्धा दया तितिक्षा च क्रतवश् च हरेस् तनूः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तपः स्वधर्मः । तनूस् तनवः शरीराणि अङ्गानि वा ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तपः स्व-धर्माचरणम्, सत्यं च यथार्थ-भाषणम् इति साधारण-धर्मा इति विवेचनीयम् । पूर्वोतोऽत्राधिक्येन शमादीना-मुक्तिस् तद्वतामृषीणां जिघांसया, तनूर् अधिष्ठानम्, एकत्वम् आर्षम्, सर्वेषाम् अपि प्रत्येकं पृथक् हरि-तनुत्वाभिप्रायेण वा ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं ते विष्णोः परिकरा अपि तु तनु-निर्विशेषाः अपीति पूर्ववद् अनुवदन्ति—विप्रा इति । तपः स्व-धर्माचरणं सत्यं यथार्थ-भाषणम् इति साधारण-धर्माः दमादयः प्रायो निवृत्ति-धर्माः क्रतवश् च प्रायः प्रवृत्ति-धर्मा इति विवेचनीयं पूर्वतोऽत्राधिक्येन दैत्यादीनाम् उक्तिस् तद्वताम् अप्य् ऋषीणां जिघांसया तनूर् इत्य् एकत्वं समाहार-प्राधान्येन तनुर् इति हृस्वान्त-पाठो न बहुत्र ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्राह्मण-वध एव तस्य शरीरपातो भावीत्य् आहुः—विप्रा इति ॥४१॥


॥ १०.४.४२ ॥

स हि सर्व-सुराध्यक्षो ह्य् असुर-द्विड् गुहा-शयः ।

तन्-मूला देवताः सर्वाः सेश्वराः स-चतुर्-मुखाः ।

अयं वै तद्-वधोपायो यद् ऋषीणां विहिंसनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च विप्रादयो हरेर् एव तनवो यस्मात् तस्माद् अयम् एवोपाय इत्य् आहुः, अयम् इति ॥४२-४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स हि हरिः । तन्मूला विष्णु-मूलाः । सेश्वराः सशिवाः ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव—स, हि अपि, असुरद्विड् अपि, स एव । एवम् अग्रेऽपि । गुहाशय इति सद निभृतादृश्य-स्थान-वासित्वाद् असौ न दृश्यते, अन्यथा तु जूवेतैवेति भावः ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तद् धनेन सति देवतान्तर-हिंसा तु पिष्ट-पेषणम् एवेत्य् आहुः—स हीति—स हि एव तथा असुरद्विड् अपि स एव द्वितीयो हि शब्दः प्रसिद्धौ, तर्हि कथम् असौ साक्षाद् एव न हिंस्येत तत्राहुः गुहाशयः सदैवादृश्य-वासत्वात् सम्पति पृथिव्यां जातत्वेऽपि गुप्तत्वाद् असौ न दृश्यते अन्यथा जीयतैवेति भावः । तस्मात् पूर्व-युक्तिम् एव संक्षिप्योपसंहरन्ति—अयम् इत्य् अर्धकेन । गुप्तत्वाद् धात्य-बालेष्व् अपि प्रायो नैव प्राप्यः गावस् त्व् अत्र दुग्धादिना राज्य-जीविका अपि भवन्ति तेषां धर्म-मूलत्वम् अप्य् एषाम् एव हिंसायाय गच्छेद् इत्य् अभिप्रेत्य् आहुः—ऋषीणाम् इति । ब्रह्मवादि-प्रभृतीनाम् एव तद् वधोपायं इत्य् अस्य तु अयं भावः पूर्वं खलु धर्मस्य तज् जीविकात्वेनैव तद् आश्रयत्वम् उक्तं तस्य च वेदादयो मूलानि अतस् तत् तनु-तुल्या एव ते तत्र च विप्रास् तेषाम् अप्य् आश्रयाः ततस् तस्य दुर्गपतेर् इव गुहाशयस्य तल् लक्ष-मूल-जीविका-स्थान-हिंसयैव हिंसा स्याद् इति ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऋषीणां विहिंसनम् इति सर्व-मूलस्य विष्णोर् अपि मूलत्वाद् इति भावः ॥४२.४४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४.४३ ॥

श्री-शुक उवाच—

एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः ।

ब्रह्म-हिंसां हितं मेने काल-पाशावृतोऽसुरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्गेषु नष्टेष्व् अङ्गी स्वत एव नश्यतीत्य् आह-किञ्चेति । अयं कस् तत्राह—यद् इति । कार्यायतिमनालोच्य कर्तारो दुर्मन्त्रिणस्ते चेह केश्यादयः । दुर्मन्त्रि-सङ्ग्रहात् स्वयम् अपि दुर्मतिः । हितं हितकरम् । कुतो मेने ? यतः काल-पाशावृतः

गत-श्रीर् गणकान् द्वेष्ति गतायुश् च चिकित्सकान् ।

गत-श्रीश् च गतायुश् च ब्राह्मणान् द्वेष्टि भारत ॥ इत्य् उक्तेः ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै एव, अयम् एव । ऋषीणाम् इव विप्र-वर्याणां हिंसनेन यज्ञाप्रवृत्या गवाम् अनादरेण स्वत एव गवां हिंसनम्, तथा यज्ञाभावेन देवानां स्वत एव तप-आदीनां चेत्य् एवं सर्वासां तत् तनूनां हिंसनात् तद् वधः सिद्ध एवेति भावः ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वतो दुर्मतिः, पुनश् च दुर्मन्त्रिभिः सह सम्मन्त्र्य हितम् इति हितम् इति वा पाठः ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४.४४ ॥

सन्दिश्य साधु-लोकस्य कदने कदन-प्रियान् ।

काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कदने कदन-निमित्तम् कदनं मर्द-पापयोः इति मेदिनी । मर्दनार्थम् इति यावत् । कदन-प्रियान् पाप-प्रियान् । सन्दिश्याज्ञाप्य ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वतो दुर्मतिः पुनश् च दुर्मन्त्रिभिः सह संमन्त्र्य कदने निनित्ते काम-रूपधरान् स्वेच्छया विविध-रूपधारिणः ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कदने निमित्ते ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४.४५ ॥

ते वै रजः-प्रकृतयस् तमसा मूढ-चेतसः ।

सतां विद्वेषम् आचेरुर् आराद् आगत-मृत्यवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आरात् समीपम् आगतो मृत्युर् येषां ते ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मूढ-चेतसः कर्तव्याकर्तव्यानुसन्धान-हीनाः ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तमसा श्री-विष्णु-वैष्णव-द्रोहोद्भूत-तमोगुणेन क्रोधेन वा । वै प्रसिद्धौ ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रजः-स्वभावत्वात् कुपथ-गामि-बुद्धयः उद्रिक्तेन तमसा च साधु-दर्शितम् अपि सत्-पथम् अपश्यन्तः विद्वेष-फलन् आह—आराद् इत्य्-आदिना ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : [भीतं राजानम् आश्वासयति—आराद् इत्य्-आदिना ॥४५.४६॥]{।मर्क्}


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४.४६ ॥

आयुः श्रियं यशो धर्मं लोकान् आशिष एव च ।

हन्ति श्रेयांसि सर्वाणि पुंसो महद्-अतिक्रमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सतां विद्वेषो न मृत्यु-मात्र-हेतुः किन्तु बह्व्-अनर्थ-कारीत्य् आह—आयुः श्रियम् इति ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते तु मृत्युतो\ऽप्य् अधिकान् अर्थ-करे कर्मणि प्रवृत्ता इत्य् आह—महताम् इति । महद्-अतिक्रमः पूज्यापराधः । किम् उत्पथस्थः कुशलाय कल्पते [भा।पु। ७.८.५०] इत्य्-आद्य्-उक्तेः । श्रियं सम्पदम् । धर्मं पूर्व-कृतं पूण्यं । लोकान् स्वर्गादीन् । आशिषो धन-पुत्राद्य्-अभिलाषान् । किं बहुना ? सर्वाणीति ऐहिक-पारत्रिक-श्रेयस्कराणि ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लोकान् धर्म-साध्य-स्वर्गादीन्, आशिषो निज-वाञ्चितानि, आयुर् आदीनां यथोत्तरं श्रैष्ठ्यम्, किं पृथङ्-निर्देशेन ? सर्वाण्य् अपि श्रेयांसि साध-साधनानि पुंसः साधिताशेष-पुरुषार्थस्यापि जनस्य महतां श्री-वैष्णवानाम् अतिक्रमोऽभिभवस् तेषु कश्चिद् अपराधोऽपीति वा ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : लोकान् धर्म-साध्य-स्वर्गादीन् आशिषः निज-वाञ्छितानि आयुर् आदीनां यथोत्तरं श्रैष्ठयं । किं पृथङ्-निर्देशेन ? सर्वाण्य् अपि श्रेयांसि साध्य-साधनानि पुंसः साधिताशेष-पुरुषार्थस्यापि जनस्य महतां तादृशां श्री-विष्णोर् अप्य् उपजीव्य-शीलत्वेन प्रसिद्धानाम् अतिक्रमो वाचनिकाद्य्-अनादरोऽपि ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अतिक्रमो वचसाऽपि ॥४६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


(१०.५)


  1. मद् वाक्यानुमोदनेन ↩︎

  2. तजु ज्ञानम् अपि ↩︎