०३

श्री-कृष्ण-प्रादुर्भावः, वसुदेव-देवकी-कृता भगवतः स्तुतिः, भगवद्-आदेशेन कंस-भीतस्य वसुदेवस्य गोकुलं प्रति स्व-पुत्र-नयनं, ततो यशोदा-सुताया आनयनं च ।

॥ १०.३.१ ॥

श्री-शुक उवाच—

अथ सर्व-गुणोपेतः कालः परम-शोभनः ।

यर्ह्य् एवाजन-जन्मर्क्षं शान्तर्क्ष-ग्रह-तारकम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

तृतीये निज्-रूपेण सम्भूतस् तु हरिः स्वयम् ।

पितृभ्यां संस्तुतो नीतः पित्रा भीतेन गोकुलम् ॥*॥

अथेति मङ्गलार्थम् । यर्हि सर्व-गुणोपेतः कालो बभूव तदा देवक्यां विष्णुर् आविरासीद् इत्य् अष्टम-श्लोक-गतेनान्वयः । परम-शोभनत्वम् एवाह—यर्हीत्य् आदिना । अजनान् नारायणाज् जन्म यस्य प्रजापतेस् तस्य ऋक्षं रोहिणी-नक्षत्रम् । कथम्भूतम्—शान्तानि ऋक्षाण्य् अश्विन्य्-आदीनि ग्रहाश् च तारकाश् च यस्मिन् । यर्हीति सर्वत्रानुषज्ज्यते ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निज्-रूपेण स्वाभाविकेन रूपेण । स्वयं हरिः । परिपूर्णतमः । पितृभ्यां माता-पितृभ्यां देवकी-वसुदेवाभ्याम् । पित्रा वसुदेन [१] । शोभन-कालस्तु हरि-भक्ताविर्भावयुतः परम-शोभनत्वं कालस्य हर्याविर्भावत एवेति ज्ञेयम् । ग्रहाः सूर्यादयः । तारकाः सप्तर्षि-मण्डलादि-रूपाः । सर्वत्र दिशः प्रसेदुर् इत्य्-आदिषु सर्वेषु सर्वेषु वाक्येष्व् अनुषज्यते संबन्ध्यते । यद् वा, यर्येवाजनस्य प्राकृत-जन्म-हरितस्य भगवतो जन्मन-क्षत्रमभूत् तदैव सर्व-गुणोपेत-कालोऽभूद् इति जोज्यम् । श्लिष्टत्वेनोक्तिः । जन्मर्क्षं न प्रकाशयेत् इति नीति-शास्त्रोक्तेर् गोपनाथेति ज्ञेयम् ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथ सर्व-गुणोपेत इत्य्-आदि । भगवद्-अवतार-निकटे कालस्य ये ये दोषास् ते गताः । सर्वे गुणा एव प्रत्यासन्ना इत्य् अर्थाः । कालो वर्षा-कालः सर्वेषाम् ऋतूनां गुणोपेत आसीत् । अत एव परम-शोभनः । उक्तं च—विष्णोर् अंशे भुवं याते ऋतवश् चावभुः शुभाः [वि।पु। ५.२.४] इति । अस्यार्थः—अंश्यन्ते विभज्यन्ते विभज्यन्ते कला इति अंशः परिपूर्ण-भागो भुवं याते भूमिष्ठे सति ऋतवः शुभा आसन् । अतः परं श्री-कृष्णोऽवतरिष्यतीति कृत्वा, बिभ्राणां वपुषा विष्णुं तुष्टुवुस् ताम् अहर् निशं [वि।पु। ५.२.६] इति तत्रैव विष्णुत्वेनोक्तत्वाद् अंश इति न सङ्गच्छते विष्णुर् नारायणः कृष्णः इति विष्णु-शब्दो हि कृष्ण-परः ॥१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्व-गुणोपेतत्वाद् एव परम-शोभतः शान्तर्क्षादिकत्वं तदानीं रोहिण्यां सर्वासाम् ऋक्षादीनां दृष्टि-राहित्यादीनां दृष्टि-राहित्य्-आदिना । अन्यत् तैर् व्याख्यातम् । यद् वा, प्रत्यासन्ने भगवज्-जन्मनि सर्व-गुणोपेतः परम-शोभनं च कालो बभूव । गुणाः स्वतः सम्भविनः । शोभनता च कृत्रिमैर् वाद्याद्यत्सवैस् तत्र च दिक्-प्रसादादयश् चिर-प्रवृत्ताः दुन्दुभि-नादादयश् च तत्-कालीना इति यथा-यथं विवेचनीयम् । सर्व-गुणोपेतत्वं दर्शयति—यर्हीत्य्-आदिना । यस्मिन् काले प्रथमम् ऋक्षादीनां शान्त्वम् उक्तम् ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्व-गुणोपेतत्वाद् एव परम-शोभनः यर्हीत्य् आदिकं तैर् योजितं तत्र यर्ह्य् अजने जायमाने तत्-संनिहित-समये तादृग्-जन-जन्मर्क्षादिकम् आसीत् । यर्हि च जनार्दने जायमाने तज्-जन्म-समय एव च तादृग्-दुन्दुभि-नादादिकम् आसीत् । तदा देवक्याम् आविरासीद् इति विशेषो द्रष्टव्यः । यद्यप्य् एवं सार्धैर् अष्टभिर् एकम् एव वाक्यं स्यात् तथापि सुबोधत्वाय तद्-अन्तर्-वाक्यानि पृथक् पृथग् अङ्कयित्वैव व्याख्येयानि सार्धाष्टत्वेऽप्य् अष्टम-श्लोक-गतेनेति तद्-व्याख्या-परार्धस्य तद्-अन्तर्-भाव-विवक्षया शान्तर्क्षादिकत्वं तस्मिंस् तु रोहिणी-दिने सर्वासाम् ऋक्षादीनाम् उग्र-दृष्टित्व-राहित्य्-आदिना तच् चोग्रादीनाम् उइग्रत्वादि-परिहारादेः । अत्र विशेषश् चोक्तः ख-माणिक्य-नाम्नि ज्योतिर्-ग्रन्थे—

उच्चस्थाः शशि-भौम-चान्द्रि-शनयो लग्नं वृषो लाभगो

जीवः सिंह-तुलादिषु क्रम-वशात् पूषोशनोर् आहवः ।

नैशीथः समयोऽष्टमी-बुध-दिनं ब्रह्मर्क्षम् अत्र क्षणे

श्री-कृष्णाभिधम् अम्बुजेक्षणं बभूद् आविः परं ब्रह्म तत् ॥ इति ।

किं चान्यत्र—

वृषकन्या-तुला-मीन-राजेषु स्फुटम् उच्चगाः ।

सोम-सौम्य-शानि-क्षोणी-सुतास् तज्-जन्मनि स्थिताः ॥

यस्माद् विश्वावसौ वर्षे जन्म श्री-नन्द-जन्मनः ।

विश्वम् एव वसु-श्रीमद् बभूवामुष्य तुष्यतः ॥ इति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथेति यर्हि यदा अजनस्य कदाप्य् अन्यदा ज्ञातत्वेनाश्रुतस्य श्री-कृष्णस्य निज-जन्मना स्वीक्रियमाणम् ऋक्ष तद्वद् वापरान्त-काल-विशेष-गत-रोहिण्याम् अभूत् तत्दैव सर्व-काल-गुणोपेतः सर्व-शुभ-समेतश् च कालोऽभूत् तद्-इच्छायां जातायां दुर्घट-घटनीभिः तच्-छक्तिर् एव वा स्वभावेनैव वा स तथा सम्पन्न इत्य् अर्थः । सर्व-गुणत्वादिकम् आह—शान्तेत्य् आदिना । यथायथं च तत् ज्ञेयं तेषां भीषण-स्वभावत्वेन सर्व एव तेभ्यो द्रुहन्तीति असुर-द्रुहां सर्व-प्राणिनां च एव तेभ्यो द्रुहन्ति ॥१.४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भगवद्-आविर्भाव-कालस्य सौभाग्यम् आह—अथ सर्व-गुणोपेत इत्य्-आदि । भगवद्-अवतारस्य निकटे वर्षा-कालस्य ये ये दोषास् ते गताः । सर्वे गुणा एव समासन्ना इति तात्पर्येण सर्व-गुणोपेतत्वम् । अथवा कालो वर्षा-कालः सर्वेषाम् ऋतूनां गुणैर् उपेत आसीद् इत्य् अर्थः । अत एव परम-शोभनः । उक्तं च श्री-विष्णु-पुराणे—विष्णोर् अंशे भुवं याते ऋतवश् चावभुः शुभाः [वि।पु। ५.२.४] इति । अंश्यन्ते विभज्यन्ते विभज्यन्ते कला अस्माद् इति अंशः परिपूर्ण-भागः । भवन्त्य् अस्याम् इति भू-देवकी तां याते प्राप्ते सति, ऋतयः षड् एव, शुभा निर्दोषा अभवन् । अथवा अंशे अनन्ते भुवं याते सति, अतः परं शक्तोऽवतरिष्यतीति कृत्वा षड् एव ऋतवः शुभा आसन् । अंश इति यथा-श्रुत-व्याख्याने—बिभ्राणां वपुषा विष्णुं तुष्टुवुस् ताम् अहर्निशं [वि।पु। ५.२.६] इति तत्रैवोक्तत्वाद् असङ्गतेस् तत्रापि वपुषेति वपुर्-विशिष्टम् ॥१॥२.७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

तृतीये देश-कालादौ प्रसन्ने श्री-हरेर् जनिः ।

पितृभ्यां संस्तुतिः प्राप्तिर् यशोदा-सूतिका-गृहे ॥*॥

यर्ह्य् एवाजनस्य प्राकृत-जन्म-रहितस्य भगवतो जन्म नक्षत्रम् अभूत् । अथ तदैव सर्व-गुणोपेतः कालोऽभूद् इत्य् अन्वयः । श्लेषेण जन्मर्क्ष-नामाप्य् आह—अजनान् नारायणाजन्म यस्य सोऽजन-जन्मा प्रजापतिस् तस्य ऋक्षं रोहिणी-नक्षत्रम् इत्य् अर्थः । श्लिष्टत्वेनोक्तिः—जन्म-र्क्षं न प्रकाशयेत् इति नीति-शास्त्र-रीत्या गोपनार्था कीदृशं शान्तानि ऋक्षाण्य् अश्विन्य्-आदीनि ग्रहाश् च तारकाश् च यस्मिंस् तत् ॥१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

मङ्गले काल-देशादाव् उभयत्र-जनिर् हरेः ।

स्तुतिः पितृभ्यां प्राप्तिश् च नन्द-गेहे तृतीयके ॥

अथेति मङ्गलार्थः । यर्ह्य् एवाजनस्यापूर्व-देह-योग-लक्षण-जन्म-शून्यस्य हरेर् जन्मर्क्षम् अभूत् तदैव सर्व-गुणोपेतः कालोऽभूत् इत्य् अनुषङ्गः । जन्म-र्क्षं न प्रकाशयेत् इति वचनात् श्लेषेण तन्-नाम च निर्दिष्टम् अजनान् नारायणाज् जन्म यस्य तस्याजन-जन्मनो ब्रह्मणो नक्षत्रं रोहिणी नामकं यदैवाभूद् इत्य् अर्थः । तत् कीदृक् ? शान्तानि ऋक्षाणि अश्विन्य्-आदीनि ग्रहाश् च यत्र तत् ॥१॥


॥ १०.३.२ ॥

दिशः प्रसेदुर् गगनं निर्मलोडु-गणोदयम् ।

मही मङ्गल-भूयिष्ठ- पुर-ग्राम-व्रजाकरा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्मलानाम् उडु-गणानाम् उदयो यस्मिंस् तत् तथा । मङ्गल-भूयिष्ठा पुरादयो यस्यां सा ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दिशः प्रसेदुः इत्य्-आदिना वर्षास्व् अपि शरद्-गुण उक्तः । निर्मलोडु-गणोदयम् इत्य् अनेनोर्ध्व-स्थ-प्रसाद उक्तः । मही मङ्गल इत्य्-आदिनाधः-स्थ-प्रसाद उक्तः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना तासां नैर्मल्येनोदय उच्यते, प्रावृषि तद्-अभाव-सम्भवात् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उदयः प्रकाशः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-गुणोपेतत्वम् आह—दिश इति । वर्षास्व् अपि शरदो गुण उक्तः । तदानीं सर्वाणि तत्त्वानि प्रसन्नानि । तत्र महा-भूतस्योर्ध्वस्थस्य प्रसादम् आह—गगनम् इति । अधः-स्थस्य प्रसादम् आह—महीति ॥२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कालस्य सर्व-गुणोपेतताम् आह—दिश इति । वर्षायां शरद्-गुणः स्वच्छत्वम् उक्तम् । पञ्च-भूतानां प्रसादम् आह—गगनम् इत्य् आकाशस्योर्ध्वस्थस्य महीत्य् अधस्थाया भूमेः ॥२॥


**॥ १०.३।**३ ॥

नद्यः प्रसन्न-सलिला ह्रदा जलरुह-श्रियः ।

द्विजालि-कुल-सन्नाद- स्तवका वन-राजयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जलरुहैः श्रीः शोभा येषां ते । दिव्जालि-कुलानां पक्षि-भृङ्ग-समूहानां सन् नादो येषु ते स्तवका यासु ताः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ह्रदा जलरुह इत्य्-आदिना रात्राव् अपि दिन-गुण-युक्तः । द्विजालि-कुल इत्य्-आदिना वर्षास्व् अपि वसन्त-गुण उक्तः ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नद्य्-आदीनां वृष्टि-कालादिना सलिल-प्रसादाद्य्-अभावेऽपि तत्-तद्-उदयस्य । किं वा, तदानीं तत्-तद्-विशेषस्यापेक्षया तत्-तद्-उक्तिः ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रसन्न-सलिलत्व-जलरुह-श्रीत्वयोस् तत्र तत्र पृथक् निर्देशः प्राधान्य-मात्रेण अत उभयासाम् अप्य् उभयं ज्ञेयम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मध्य-स्थानां त्रयाणां प्रसादम् आह—द्वाभ्यां नद्य इति । जल-रुह-श्रिय इति रात्राव् अपि दिवसस्य गुणः । द्विजालि-कुलानां सन्नादः स्तवकाश् च यासु ता इति वर्षास्व् अपि वसन्तस्य गुण उक्तः ॥३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मध्य-गतानां त्रयाणाम् आह—द्वाभ्यां नद्यः प्रसन्नेति वर्षायां शरद्-गुणः । ह्रदा जलरुहेति निशि वा शरद्-गुणः । द्विजालिकुलानां सन्नादा धवनयस्तवकाः पुष्प-गुच्छाश् च यास्व् इति वर्षायां वसन्त-गुणः ॥३॥


**॥ १०.३।**४ ॥

ववौ वायुः सुख-स्पर्शः पुण्य-गन्धवहः शुचिः ।

अग्नयश् च द्विजातीनां शान्तास् तत्र समिन्धत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समिन्धत । आड्-आगमोऽत्र द्रष्टव्यः समैन्धतेति । सम्यद् दीप्ता बभूवुर् इत्य् अर्थः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुख-स्पर्श इत्य् अनेन शैत्यम् । पुण्य-गन्धवहः इति सौरभ्यम् । शुचिर् इति मान्द्यं धूल्य्-आद्य्-असम्पर्केण निर्मलत्वं चोक्तम् । इत्य् अर्थ इति । सम्यग्-दक्षिणावर्तत्वेन दीप्ता बभूवुर् इति भावः । द्वापरेऽपि त्रेता-गुण उक्तः—त्रेतायां यजतो मखैः इत्य्-आद्य्-उक्तेः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुख-स्पर्श इति सुशैत्यम् । पुण्येति सौरभ्यम् । शुचिर् निर्मल इति धूल्य्-आद्य्-असम्बन्धेन मान्द्यम् उक्तम् । शान्ता निर्वाण-प्राया अपि । यद् वा, प्रदक्षिणावर्ताः सन्त इत्य् अर्थः । तत्र तदानीम् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुख-स्पर्श इति शैत्यं पुण्येति सौरभ्यं च, पुण्यं तु चार्व् अपीत्य् अमरः । शुचिर् निर्मल इति धूल्य्-आद्य्-असम्बन्धेन मान्द्यम् उक्तं च शब्दोऽत्र वाय्व्-अग्न्योर् युग्मतापेक्षया पूर्वोक्त-समुच्चये । अत एव तत्र वायौ सतीत्य् अर्थः । शान्ता निर्वाण-प्राया अपि । यद् वा, प्रदक्षिणावर्ताः सन्त इत्य् अर्थः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुख-स्पर्श इति शैत्यं पुण्येति सौरभ्यं, पुण्यं तु चार्व् अपीत्य् अर्थः । शुचिर् निर्मल इति धूल्य्-आद्य्-असम्बन्धेन मान्द्यम् उक्तम् । शान्ता निर्वाण-प्राया अपि समिन्धत अड्-आगमाभाव आर्षः । सम्यग्-दक्षिणावर्तत्वेन उद्दीप्ता बभूवुर् इति द्वापर-युगेऽपि त्रेतायाः गुण उक्तः ॥४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सुख-स्पर्शेग्ति शैत्यं, पुण्येति सौगन्ध्यं, पुण्यो मनोहरः पुण्यं तु चार्व् अपीत्य् अर्थःओक्तेः । शुचिर् इति मान्द्यं धूल्य्-आद्य्-असंसर्ग-कृतेन विमलत्वेन तद्-व्यञ्जनात् । द्विजातीनां त्रैवर्णिकानाम् अग्नयः शान्ता निर्वाणतां गच्छन्तोऽपि सम्यग्-दक्षिणावर्ततयैन्धत दीप्ता बभूवुर् इति द्वापरेऽपि त्रेता-गुणः । अड्-भाव आर्षः ॥४॥


**॥ १०.३।**५ ॥

मनांस्य् आसन् प्रसन्नानि साधूनाम् असुर-द्रुहाम् ।

जायमानेऽजने तस्मिन् नेदुर् दुन्दुभयः समम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असुर-द्रुहां कंसादि-व्यतिरिक्तानां सर्व-प्राणिनां देवानां चेति । स्वर्गे तु विशेषम् आह—जायमान इति । अजने जायमाने ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्लिष्ट-कल्पनां परित्यज्याह-देवानां वेति । अजने वस्तुतो जनि-रहिते तस्मिन् भगवति जायमाने आसन्न-प्रसवे आसन्नोऽतिनिकटः प्रसव आविर्भावो यस्मिन् समय इत्य् अर्थ इत्य् उक्तेर् जाते सतीत्य् अर्थो न विधेयः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : असुर-द्रहम् इति कंसादीनां चित्तोद्वेगो\ऽधिकम् अजनीत्य् अर्थः । सर्व-गुणोपेतत्वे हेतुम् आह—अजने\ऽपि भगवति जायमान इति । परम-शोभनत्वं दर्शयति—नेतुर् इत्य्-आदिना, नेदुः स्वयम् एव शुभ-विशेषोदयात् । तथा च श्री-हरि-वंशे अनाहृता दुन्दुभयो देवानां प्राणदंस् तदा इति ॥ [ह।वं। २.४.१८] ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भीषणाकारादित्वेन सर्वेष्व् अपि उद्वेग-हेतुतया तेभ्यो द्रुह्यन्त्य् एव सर्वे इति असुर-द्रुहां सर्व-प्राणिनां च ततः कंसादीनां तु चित्तोद्वेगो\ऽधिकम् अजनीति भावः । ननु, सर्व-गुणोपेतत्वादिकम् अजन-जन्मर्क्षस्य कियन्तं काल-मारभ्येत्य् अपेक्षायाम् आह अजने भगवति जायमाने इति । वर्तमान-सामीप्ये वर्तमान-वद् वा [पा। ३.३.१३१] तदादिभागम् आरभ्यैव तत् तत् तत्-प्रवृत्तं किन्तु निकटं त्वधिकम् इत्य् अर्थः । अजन-पदं तस्यापि यदा जन्म तदा वा किं किम् आश्चर्यम् इति भावः अजने भगवति जायमान इति यर्हिपदेन सहेदम् अपि सर्वत्र योज्यं नेदुः स्वयम् एव शुभ-विशेषोदयात् तथा च शृइ-हरि-वंशे अनाहता दुन्दुभयो देवानां प्राण-दंस् तदा इति अत्र दिक् प्रसादादयश् चिर-प्रवृत्ताः दुन्दुभिनादादयस् तु तत्-कालीना इति ज्ञेयम् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : असुर-द्रुहां सर्व-प्राणिनां च ॥५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनांसि मनो-बुद्धीन्द्रियादीन्य् अपि तत्त्वानीत्य् अर्थः । असुर-द्रहाम् इत्य् असुर-कर्तृक-द्रोहवत्वेन साधूनाम् अपि मनांसि पूर्वम् अप्रसन्नान्येवासन्न् इति भावः । जायमाने आसन्ने प्रादुर्भावे अजने श्री-कृष्णे ॥५.६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : असुरकर्तृको द्रोहो येभ्यस्तेषां साधूनां मनांसीति पूर्वं तत्कर्तृकेन द्रोहेण तन्मनःस्वप्रसादो\ऽभूदिति भावः । जायमाने आसन्नप्रसवे सति अजने श्री-कृष्णे ॥५-६॥


**॥ १०.३।**६ ॥

जगुः किन्नर-गन्धर्वास् तुष्टुवुः सिद्ध-चारणाः ।

विद्याधर्यश् च ननृतुर् अप्सरोभिः समं मुदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा आसन्नः प्रसवो यस्मिंस् तस्मिन् समये ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समं सार्धम् । तदा भगवदाविर्भाव-वेलायाम् ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विद्याधर्यश् चेति च-शब्दः पूर्ववत्-समान-गूणत्वाप्तेक्षया मुदेति निभृतं श्री-भगवत् प्रादुर्भावे सत्य् अपि तत् तद् आचरणे हेतुः तद् अनुसन्धानाभावे\ऽप्य् आकस्मिक-हर्ष-स्वाभाव्येनैव तद् आचरणात् तद् एति पाठस् तु सर्व-देश्यः किन्तु स्वाम्य-सम्मत इव यर्हीत्यादिनाष्टम-च्लोके तस्याध्युआहृत्य व्याख्यानात् यद् वा तेनैव सम्बन्ध उद्दिष्टः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


**॥ १०.३।**७ ॥

मुमुचुर् मुनयो देवाः सुमनांसि मुदान्विताः ।

मन्दं मन्दं जलधरा जगर्जुर् अनुसागरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुसागरं सागर-नादम् अनुलक्ष्य मन्दं जगर्जेति ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुमनांसि पुष्पाणि अनुसागरम् । अनुकृतं सदृशीकृतं सागरः तद्-गर्जनं यत्र तद् यथा स्यात् तथेति ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मेदेति निभृत श्री-भगवत् प्रादुर् भावे\ऽपि तत् तद् आचरणे हेतु-हर्षेण तद् अननुसन्धानाद् इत्य् अर्थः । अत एवाग्रे\ऽपि तत् पुनर् उक्तिः, अन्विता अन्यो\ऽन्यं मिलिताः सन्तः । अनुसागरं समुद्रे । यद् वा, सागरं गर्जन्तम् अनु, तथा च श्री-विष्णु-पुराणे [५-३-५] सिन्धवो निज-शब्देन वाद्यं चक्रुर् मनोहरम् इति । नुइशीथे जगज् जुर्र् एव केवलम्, न तु व्योमाच्छाद्य ववृषुर् इत्य् अर्थः, तथा सति निर्मिलोडु-गणोदयत्वाद्य् असम्भवात् । अतएव तत्रैव [वि पु ५-३-६] मन्दं जगज् जुर्-जलदाः पुष्प-वृष्ठिम् उचो द्विज इति । परम-शोभनत्वे\ऽपि तद् एक-हेतुता—विवक्षया पूर्वोक्तम् एव हेतुम् आह—जनार्दने दुष्ट-जन-नाशके भक्तानां जन्म-लक्षण-संसार ध्वंसके वा श्री-ब्रह्मादि-भक्त-जन-प्रार्थ्ये वा भगवति जायमाने इति । तमसोद्भूते व्याप्त इति कृष्णआष्टमीत्वादिनां कंसादीनां तत् तद् अज्ञानं गोकुले जायमान-माया-प्रभावादिनेति ज्ञेयम् । देवस्य भगवतो रूपम् इव सर्व-गुहाशयो\ऽन्तर्यामित्वेन जगच् चित्तान्तर्वर्त्यापि पुष्कलः सकल इत्य् अन्तर्यामित्वादिना हृदयादिषु वर्तमानैर् अंशैः सर्वैर् अपि सम्भूयावतीर्ण इत्य् अर्थः । तत्र वैकुण्ठ-लोकाद्य् अधिष्ठातारः श्री-नारायणादयस् ततस् ततो\ऽवतीर्ण एवेति श्री-वाराहाद्य् उक्तेन श्री-गरुड-मथुरा-गमनादिना स्पष्टम् एव । तथा च पाद्मे—

स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः ।

एकी-भूय पुनः शेते निर्दोषो हरिर् आदिकृत् ॥ इति ।

तच् च श्री-भागवतामृते विवृतम् अस्ति । अन्तर्यामिणां च सर्वेषु तदानीं श्री-देवकीनन्दनत्वेनैव स्फुर्तेस् तैर् अपि सम्भूयेति ज्ञेयम् । तथा च प्रथम-स्क्न्धे श्री-भीष्ट्म-वाक्यम् [भा पु १-९-४२]—

तम् इमम् अहम् अजं शरीर-भाजां,

हृदि हृदि धिष्ठितम् आत्मकल्पितानाम् ।

प्रति-दृशम् इवनैकधा-कर्मेकं,

समधिगतो\ऽस्मि विधूत-भेद-मोहः ॥ इति ।

प्राच्याम् इति दृष्टान्तेन सम्बन्धासन्भवे\ऽपि सम्बन्ध-सत्ता, तथा सर्वत्र प्रकाशमानस्यापि श्री-देवक्याम् एवआविर्भावे योग्यता चोक्ता । सर्वत्र योग्य-सत्ताकस्यापि पूर्णेन्दोः प्राच्याम् एवोदयाद् इति दिक् । अत एव श्री-विष्णु-पुराणे\ऽपि

ततो\ऽखिल-जगत् पद्म-बोधायाच्युत-भाउना ।

देवकी-पूर्व-सन्ध्यायाम् आविर्भूतं महात्मना ॥ [वि।पु। ५.३.२] इति ।

आविर्भावश् च कंसवञ्चनाद्य् अर्थम् अष्टमे मासीति श्री-वैशम्पायनमतम् । तथा च श्री-हरि-वंशे—

गर्भ-काले त्व् असम्पूर्णे अष्टमे मासि ते स्त्रियौ ।

देवकी च यशोदा च सुषुवाते समं तदा ॥ [ह।वं। २.४.११] इति ॥७-८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्रापि पूर्ववद् विवक्षया मुदेति अन्विताः अन्योन्यं मिलिताः सन्तः अनुसागरं सागरं गर्जन्तम् अनु तथा च श्री-विष्णु-पुराणे सिन्धवो निज-शब्देन बाद्यं चक्रुर् मनोहरम् इति ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अनुसागरं सागरेण सह ॥७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुकृतः सदृशी-कृतः सागरः सागर-गर्जनं तद् यदा स्यात् तथा ॥७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सुमनांसि पुष्पाणि अनुकृतः साम्यं नीतः सागरो येन तद्यथा स्यात्तथेति गाम्भीर्यं गर्जनस्योक्तम् । एवं समयादिशोभामभिधायोभयत्र हरेराविर्भावमाह—सार्द्धकेन निशीथे\ऽर्द्धरात्रे\ऽकस्मान्मेधमालोद्गमात्—तमसोत्कर्षेण भूते व्याप्ते सति भू प्राप्ताव् इत्यस्य रूपं, देवक्यां व्रजनाथपत्न्यां जनार्दने हरौ जायमाने प्रादुर्भवति सति देवक्यां शौरिपत्न्यां विष्णुः स एव जनार्दन आविरासीत् । यथा यथावत् पूर्वसिद्धेनैव रूपेणेत्य् अर्थः । कीदृश्याम् इत्य् आह—देवस्य यद्रूपं विज्ञानघनं तद्यस्या वर्तत इति तद्-गर्भ-सम्बन्धस् तस्य न दोषावह इति भावः । भावे सप्तम्या युगपद् एवोभयत्र जन्म बोध्यते ।

गर्भकाले त्वसंप्राप्ते अष्टमे मासि ते स्त्रियौ ।

देवकी च यशोदा च संषुवाते समं तद ॥ इति श्री-हरिवंशाच् च ।

तद्-अनन्तरम् एव दुर्गायाश् च यशोदायां जन्म ततश् च शौरिर् भगवत्-प्रचोदित इति वक्ष्यमाण-वाक्यार्थात् तस्याः कृष्णानुजात्वोक्तेश् च । तथा च किञ्चित् पूर्वोत्तर-भावेन यशोदायाः पुत्रकन्यारूपमपत्यद्वयं तच् च क्रमाद् वसुदेव-यशोदाभ्याम् अदृष्टम् इति बोध्यम्; देवकीशब्देनात्र यशोदा चोक्ता

द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च ।

अतः सौख्यम् अभूत् तस्या देवक्याः शौरि-जायया । इत्य्-आदि पुराण-वचनात् ।

स च शब्द उभयान्वयी, मध्ये पाठसामर्थ्येन देहलीप्रदीपन्यायलाभात् । कीदृशः स इत्य् आह—सर्वासु गृहासु तद्वद् अगम्यासु परव्योम-गत-तत्-तद्-धामसु जीव-हृदय-दरीषु च तत्-तद्-रूपेण यः शेत इति स्वयं रूप इत्य् अर्थः । एतम् अर्थं दृष्टान्तेनाह—पुष्कल इन्दुरिवेति एतेन लौकिक-बालवत् प्राकट्यं नेति वस्तु व्यज्यते जात-पत्रं चैवं दैवज्ञैर् अलेखि, उच्चस्थाः शनि-भौम चान्द्रि-शनयो लग्नं वृषो लाभगो, जीवः सिंहतुला वियुक्तमवशात् पूषो शनौ राहवः । नैशीथः समयो\ऽष्टमो बुध दिनं ब्रह्मक्षम् अत्र क्षणा श्री-कृष्णाभिधमम्बुजेक्षणमभूदाविःपरं ब्रह्म तद् इति ।

इदम् अत्र बोध्यम् आविवेषांश-भागेन इत्य्-आदितो यथा वसुदेवे हरेर् आवेशस् तथा नन्दस् त्व् आत्मज उत्पन्ने, नन्दः स्व-पुत्रम् आदाय, पशुपाङ्गजाय इति लिङ्गेभ्यो नन्दे च तस्यावेशः, तं यथा वसुदेवो देवक्यां तथा नन्दो यशोदायां दधार गुरुरिव शिष्यः; दुर्गा तु भगवन्निदेशात् यशोदा गर्भमाविवेश, रोहिणीगर्भमिव संकर्षणः देवक्या जठरे गर्भमि इत्य्-आदि वाक्याभ्यां तथा च देवक्या इव यशोदायाश् च हरिरौरसः यशोदा नन्दपत्नी च इत्य्-आदिना स्फुटीभावात् । नन्दगोपगृहे पुत्रो यशोदागर्भसंभव इत्यसन्देहवचनाच्चादिपुराणे इत्थञ्च नन्दस् त्व् आत्मज इत्यादीनि वाक्यानि मुख्यार्थानि भवेयुः अन्यार्थस्य सुगोप्यत्वात् भगवतन्त्रो मुनिरपि निगूढभावेन तमुपादिशत् यशोदासुतेन सह देवकीसुतस्यैक्यात् तदेकस्य मथुरादावन्तरान्तरा व्रजे कुरुक्षेत्रं चागमात् तत् सुगोप्यतापि भज्यते ॥७-८॥


॥ १०.३.८ ॥

निशीथे तम-उद्भूते जायमाने जनार्दने ।

देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-शयः ।

आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तमसोद्भूते घन-तमसि निशीथे यथा यथावद् ऐश्वरेणैव रूपेण ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निशीथेऽर्ध-रात्रे । जनार्दने जन-भयङ्करे । जायमाने सति तत्र हेतुः—तम इत्य्-आदिः । यद् वा, जनैर् अर्द्यते प्रार्थयते उदयो यस्येति जनार्दनश् चन्द्रः । यद् वा, जनानां सर्वज्ञ-भक्त-मुनि-देवादीनाम् अर्दने भगवन्न् आविर्भवाविर्भव-समयोऽयम् इति याचने जायमाने सति । वस्तुतस्तु—जनान् दुष्ट-जनन् अर्दयति नाशयति स्वांशैर् इति जनार्दनः स्वयं भगवति नन्द-नन्दने श्री-गोलोक-स्वामिनि जायमाने तत्-कालम् एवाविर्भूते सति । स्फुटम् एवात्रावतारद्वयं भगवत उक्तम् इति एवं जायमानेऽजने तस्मिन्न् इत्य् अत्रापि ज्ञेयम् । देवस्य विष्णोर् इव रूपं सच्चिदानन्द-घन वर्तते यस्यास् तस्यामाविर् आसीत् । सर्वासु गुहासु गुहावदसदगम्य-स्थलेषु मथुरा-वैकुण्ठादिषु जीवान्तःकरणेषु वा सर्वजनापरोक्षत्वाच् छेत इति तथा सः । अन्यो बालो यथा गर्भादायन्त्रितः सन्निस् सरति तथा नेत्य् अत्र दृष्टान्तः । किं च—दृष्टान्त-दार्ष्टान्तिकयोर् युगपद् अविर्भावम् आह—तद् दिने [अष्टमी-तिथौ] निशीथे प्राच्यां दिशि इन्दुर् अपृष्टोऽपि मद् वंशं मत्-प्रभूर् जन्मनालञ्चकारेतीत्य् आनन्ददोद्रेकेण पुष्कलः । पूर्णिमेदुर् इव सन्यथा-विरासीत् तथैव देवक्यं विष्णुर् अपि सर्वांश-कला-परिपूर्ण आविरासीद् इत्य् अर्थः । आविर्भावश् च कंस-वञ्चनार्थम् अष्टमे मासि । तद् उक्तं हरिवंशे—

गर्भ-काले त्व् असंपूर्णे ह्य् अष्टमे मासि ते स्त्रियौ ।

देवकी च यशोदा च सुषुवाते समं तदा ॥

इति खमानिक्य-ग्रन्थे श्री-कृष्ण-जन-पत्री चोक्ता—

उच्चस्थाः शशि-भौम-चान्द्रिशनयो लग्नं वृषे लाभगो जीवः

सिंह-तुला-वृष-क्रम-वशात्-पूषोक्रमवशात् पूषोशनोराहवः ।

नैशीथः समयोऽष्टमी बुध-दिनं ब्रह्मर्क्षम् अत्र क्सणे

श्री-कृष्णाभिधम् अम्बुजेक्षणम् अभूद् आविः परं ब्रह्म तत् ॥ इति ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : देवक्याम् इत्य्-आदि । प्राच्यां दिशि इन्दुर् इव यथा यथावत् स्वभाव-सिद्धतेनाविर् आसीत्, यथा अन्तः-स्थितस् तथैव बहिः प्रदुर् आसीत्, अन्तः-प्रादुर्भावानन्तरं बहिः-प्रादुर् अभूद् इत्य् अर्थः । न हि प्रवेश-निर्गमाभां तथात्वम्, व्यापकत्वात्, न हि नृसिंहो निराकाशे स्तम्भे प्रविश्य पुनर् बहिर्भूतः । एतेन न लौकिक गर्भ-रूपत्वम्, दृष्टान्ते\ऽपि पुष्कल-शब्दोपादानात्, पुष्कलः सम्पूर्णः । न हि प्राचाम् इन्दुः क्रमशो वर्धित्वा उदेति, प्राग् एव सम्पूर्ण एवोदेति, पुष्यन्तीति पुषः कला यस्य नित्य-सम्पूर्णस्यासम्भावनायाम् इव-शब्दः, उपमायां यथा-शब्दः ॥८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नेदुर् दुन्दुभय इत्य्-आदिकं कदेत्य् अपेक्षायाम् अर्धेनाह—निशीथे\ऽर्धै-रात्रे कीदृशे तम उद्भूते तमसा उच्चैर् व्याप्ते भू-प्राप्तौ भाद्र-कृष्णाष्टमीत्वात् विशेषाणं चेदं तत्-कण्ति-द्वारा तमोनाशनेनापीन्दूपमायोजनाय तथाप्य-भूतोपमेयं निशिथे घूर्ण-चन्द्रोदया-दर्शनात् तेनोपमा चेयं यथा कथञ्चिद् एव न त्वति-योग्येति ज्ञाप्यते दुन्दुभिनादादौ हेतुः जायेति श्री-ब्रह्मादि-भक्त-जन-प्रार्थ्यमान-प्रकाट्ये तस्मिन् प्रकटी-भवति प्राकट्य-क्षण इत्य् अर्थः । कंसादीनां तत् तद् अज्ञानं गोकुले जायमानाया मायायाः प्रभावेणैवेति ज्ञेयम् अथवा अथेति यर्हि यदा अजनस्य कदाप्य् अन्यदा जातत्वेनाश्रुतस्य शृइ-कृष्णस्य जन्मर्क्ष निज-जन्मना स्वीक्रियमाणं तद्-द्वापरान्त-समय-विशेष-गत-रोहिण्याख्यम् अभूत् तर्ह्य् एव तद् आरम्भ एव सर्वस्य ऋत्वादेः कालस्य स्वस्य च ये गुणाः सुखदा धर्मस् तैर् उपेतः सर्वशुभ-समेतश् च कालो\ऽभूत् तद् इच्छायां जातायां दुर्घट-घणीभिस् तच् छक्तिभिर् एव वा स्व-स्वभावेनैव वा तथा सम्पन्न इत्य् अर्थः । अजन-जन्मर्क्षम् इति शब्द-श्लेषमय-सङ्केत-निर्देशो रहस्यत्वं सूचयति—तच् च तद्-व्रतोत्सवम् अहिमार्थम् इति ज्ञेयम् । सर्व-गुणोपेतत्वं द्र्शयति शान्तर्क्षेत्यादिना महीत्य् अर्धवर्जितेन मनांसीत्य् अर्धान्तेन तत्र सर्वगुणोपेतत्वं शान्तेति परम-शोभनत्वं जञमान इत्य्-आदिना मुमुचिर् इत्य् अर्धान्तेन महीत्य् अर्धेन च अत्र दिक्-प्रसादादि-वायु-पर्यन्त-वर्णनं शरद् वसन्तादि-सम्बन्धिनां गुणानां दर्शकं जल-रुहश्रिय इति रात्रौ च दिवस-सम्बन्धिना अग्नय इत्य्-आदि-पद्यं तेषां सतादि-सम्बन्धिनाम् उपलक्षणं चैतद् अन्यदीयानां मन्द-मन्दम् इत्य् अर्धं दिगन्ते वर्षा-गुणानां च दर्शकं दिश इत्य् आद्य् उक्तत्वात् मध्ये हि ते न सम्भवन्ति अतो मन्द जगर्-जुर्जलदाः पुष्प-वृष्टिम् उचो द्विजाः इति वैष्णव-वाक्यं जन्मर्क्षारंभसम्बन्ध्य् एव ज्ञेयम् इति अन्यत् समानम् । देवस्य भगवतो रूपम् इव रूपं सच् चिद् आनन्द-विग्रहः तद् व्यत्याम् इति तद् उदराविर्भावेति न कश्चिद् दोष इति भावः । विष्णु-रूपिण्याम् इति पाठो\ऽपि क्वचित् सर्व-गुहाशयः दुर्गमत्वात् दुर्वितर्क्यत्वाच् च गुहेव गुहा श्री-भगवत् स्थानं स्र्वासु सर्व-जीवाद्य् अन्तर-लक्षणासु श्री-वैकुण्ठादि-लाक्षणासु च गुहासु शेते अक्षुभिततया विरहतीति पुष्कलः सर्वांश-पूर्ण इति अन्तर्यामित्वादिना हृदयादिषु वतमानैर् अंशैः सर्वैर् एव सम्भूयावतीर्णः अन्तर्यामिणाम् अपि तदानीं श्री-देवकी-नन्दनत्वेनैव महत्सु स्पूर्तेः यथा च श्री-भीष्म-वाक्यम्—

तम् इमम् अहम् अजं शरीर-भाजां

हृदि हृदि धिष्टितम् आत्म-कल्पितानाम् ।

प्रति-दृशम् इव नैकधार्कम् एकं

समधिगतोऽस्मि विधूत-भेद-मोहः ॥

इति तथा च श्री-वैकुण्ठ-लोकाद्य् अधिष्ठातारो\ऽपि ततस् ततः सम्भूयावतीर्णा इति श्री-हरि-वंशाद्य् उक्तेन मुकुटम् आहृत्य गोमन्थे श्री-गरुडागमनादिना स्पष्टत्वात् इति एतच् च शृइ-भागवतामृते विवृतम् अस्ति न चात्र दोषः स्व-स्वऋउपेणैव परम-विभौ तत्रैव निज-सर्व-वृत्तिं प्रकाश्य तत् तेजो-निगूढतया तेषां स्थितत्वात् तथा च शृइ-मध्वाचार्य-धृतं पाद्म-वचनं स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तम एकी-भूय पुनः शेते निर्दोषो हरिरादि-कृत् इति । प्राच्याम् इति-दृष्टान्तेन सर्वत्र प्रकाशमानस्यापि श्री-देवक्याम् आविर्भाव-योग्यतोक्ता अत एव शृइ-विष्णु-पुराणे\ऽपि ततोखिल-जगत् पद्म-बोधायाच्युत-भानुना । देवकी-पूर्व-सन्ध्यायाम् आविर्भूतं महात्मना इति आविर्भावश् च कंसवञ्चनाद्य् अर्थम् अष्टमे मासाति श्री-हरि-वंशे गर्भ-काले त्वसम्पूर्णे अष्टमे मासि ते स्र्रियौ । देवकी च यशोदा च सुषुवाते समन्तदा इति ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जायमाने जनार्दन इति तज्-जन्मार्थं जनानां याचने सतीत्य् अर्थः । देवो वसुदेवस् तद्-रूपिण्यां शुद्ध-सत्त्व-वृत्ति-रूपायाम् इत्य् अर्थः । पाठान्तरे विष्णु-रूपिण्यां तद्वद् व्यापकाप्राकृत-विग्रहाम् इति च धारणा-योग्यतोक्ता सर्वासु गुहासु तद्वत् दुर्ज्ञेय-स्थलेषु वैकुण्ठादिषु शेते, निगूढं क्रीडति यः स सर्वांशः परिपूर्ण इत्य् अर्थः । दृष्टान्ते च तथाह—पुष्कल इति ॥८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ [भा पु १०-२-१८] काष्ठा यथानन्दकरं मनस्तः इति पूर्वोक्तेर् न देवकी चिरं मनस्य् एव दधार, अवतार-समयम् आसाद्य भगवान् तन् मनसो बहिर् बुभूषुर् अतिशयं भवितुम् इच्छुः प्राकट्यमासेदिवान् इत्य् आह—देवक्याम् इद्यादि । देव-रूपिण्याम् इति देवी भक्तिर् भगवती तद् रूपिणीति पुंवद्-भावः—भक्तावेव भगवत् प्रकाशानियमात् । विष्णुर् व्यापको\ऽपि सर्वेषु गुहाशयत्वेन वर्तमानो\ऽपि तस्याम् यथा यथावत् यथार्थ्येन श्री-कृष्णाख्य-स्वरूपेणाविर् आसीत् । क इव कस्याम ? इन्दुः प्राच्यां दिशैव, पूर्णत्वेनान्य् अत्र स्थितो\ऽपि चन्द्रः प्राच्यां दिश्य् एवोदयति नान्यस्याम् इत्य् एव यथार्थ्यम् ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, दिशः प्रसेदुर् इति गमनं निर्मलोडुगणोदयम् इति पूर्वोक्तेर् जल-धराः खलु कदा जगर्जुर् इत्य् अपेक्षायाम् आह—निशीथ इति । तमसा उत्कर्षेण भूते व्याप्ते इति निशिथ एव मध्ये-गगनं मेघ-खण्डोद्गमात् भू-प्राप्ताव् इत्य् अस्य रूपं जनानां सर्वज्ञ-भक्त-मुनि-देवादीनाम् अर्दने भगवान् आविर्भावाविर्भाव-सवयो\ऽयम् इति याचने जायमाने सति देव-रूपिण्यां विष्णु-रूपिण्याम् इति च पाठः । देवस्य विष्णोर् इव रूपं सच् चिद् आनन्द-घनं वर्तते यस्यास् तस्याम् आविर् आसीत् प्रकटी-बभूव सर्वासु गुहासु गुहावद् अगम्य-स्थलेषु मथुरा-वैकुण्थादिषु जीवान्तः-करणेषु च सर्व-जन-परोक्षत्वाच्छेते इति सः अन्यो बालको यथा गर्भाद्यन्त्रितः सन्निस्सरति तथा नेत्य् अत्र दृष्टान्तः यथेति किं च दृष्टान्त-दार्ष्टान्तिकयोर् युगपद् एव आविर्भावम् आह—तद् दिने निशीथे प्राच्यां दिशि अष्टभ्याम् इन्दुर् अपुष्टो\ऽपि मद् वंशं मत् प्राभुर् जन्मनालञ्चकारेत्याननोद्रेकेण पुष्कलः सन् यथा आविर् आसीत् तथैव देवक्यां विष्णुर् अपि सर्वांश-कला-परिपूर्ण आविर् आसीद् इत्य् अन्यः आविर् भावश् च कंस-वञ्चनाद्यर्थम् अष्टमे मासि यद् उक्तं हरि-वंशे—

गर्भ-काले त्व् असम्पूर्णे अष्टमे मासि ते स्त्रियौ ।

देवकी च यशोदा च सुषुवाते समं तदा ॥ इति ॥

खमाणिक्य-नाम्नि ज्योतिर् ग्रन्थे जन्म-पत्री चोक्ता—

उच्चस्थाः शशि-भौम-चान्द्रिशनयो लग्नं वृषो लाभगो जीवः सिंह-तुलाविषु क्रमवशात् पूषोशनो राहवः नाइशीथस्ममयो\ऽष्टमीबुध-दिनं ब्रह्मर्क्षम् अत्र क्षणे श्री-कृष्णाभिधम् अम्बुजेक्षणम् अभूदाविः परम्ब्रह्म तत् इति ॥८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


**॥ १०.३।**९-१० ॥

तम् अद्भुतं बालकम् अम्बुजेक्षणं

चतुर्-भुजं शङ्ख-गदाद्य्-उदायुधम् ।

श्रीवत्स-लक्ष्मं गल-शोभि-कौस्तुभं

पीताम्बरं सान्द्र-पयोद-सौभगम् ॥

महार्ह-वैदूर्य-किरीट-कुण्डल-

त्विषा परिष्वक्त-सहस्र-कुन्तलम् ।

उद्दाम-काञ्च्य्-अङ्गद-कङ्कणादिभिर्

विरोचमानं वसुदेव ऐक्षत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् अद्भुतं बालकं वसुदेव ऐक्षत इति द्वितीय-श्लोकेनान्वयः । अद्भुतत्वे हेतु-गर्भाणि विशेषणान्य्—अम्बुजेक्षणम् इत्य्-आदीनि । श्रीवत्स-लक्ष्मं श्रीवत्स-लक्ष्माणम् । गलेन शोभत इति गल-शोभी स कौस्तुभो यस्मिन् । परिष्वक्त-सहस्र-कुन्तलं किरीट-कुण्डलादीनां त्विषा स्फुरद्-अपरिमित-केशम् इत्य् अर्थः ॥९-१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उदिति झटिति कंसादि-हिंसन-क्षपणाय । उद्यतान्यायुधानि यस्य तं तथा । आयुध-क्रमश् च गौतमीये—

दक्षस्योर्ध्वे स्मरेच् चक्रं गदां च तद्-अधः करे ।

वामस्योर्ध्वे शर्ङ्ग-धनुः शङ्खं च तद्-अधः स्मरेत् ॥ इति,

शङ्ख-चक्र-गदा-पद्मश्रिया जुष्टम् इति वक्ष्यमाणानुसारेण शऋङ्ग-स्थाने पद्मं ज्ञेयं तत्र शर्ङ्गपदोपादानम् उपासना-विशेषार्थम् एवेवेति ध्येयम् । श्रीवस्तं लक्ष्म चिह्नं यस्य स तथा तम् । अत्र समासान्तो डः । चिह्नं लक्ष्मं च लक्षणम् इत्य् अमरः ।

दक्षिणावर्तरोमालिः श्रीवत्सं दक्ष-भागगम् ।

वक्षसि भृगुपादाङ्कं कैश्चिच् छीवत्सम् उच्यते ॥

वत्सं नाम उरः प्रोक्तं श्री रमा प्रोच्यते मुने ।

श्रिया युक्तं तु यदुरस् तच्-छरवित्-समुदाहृतम् ॥

इत्य्-आदि-पुराणीय-वृन्दावन-माहात्म्ये ।

ननु, सर्वादि-कारण-हिरण्य-गर्भस्य जनके श्री-भगवति कथं बालक इति प्रयुक्तम् इति चेन् नहि स्तनन्धयवाच्ययं प्रयुक्तोऽपि तु स्वयं भगवद् अर्थक एव तथा हि—बाला को ब्रह्मास्येति बालकः । यो ब्रह्माणं विदधाति पूर्वम् इति श्रुतेः । बालानां गोपानां कं सुखं येनेति वा । बालानाम् अज्ञानाम् अपि कं सुखं यन् नामोच्चारणादिनेति अज्ञानाद् अपि यन् नाम स्मृतं सर्वार्थ-साधकम् इति स्मृतेः । बालेषु रोमसु कानि ब्रह्माण्डानि यस्येति वा । ईदृग् विधाविगणिताण्ड-पराण्ड-चर्यावाताध्व-रोम-विवरस्य च ते महित्वम् इति वक्ष्यति ब्रह्मा । बालयति चालयति वातादीन् इति वा । यद् भयाद् वाति वातोऽयं सूर्यस् तपति यद् भयात् इति । भीषास्माद्वातः पवते इति आदिश्रुतेश् च । यद् वा, बलानां सेनानां समूहो बालं रावणादि-सैन्यं तदालयति वारयति नाशयति यावत् बालो लक्ष्मणस् तेन कं सुखं रामावतारे यस्येति वा बालोऽज्ञे लक्ष्मणे शिशौ इति दालकः । बालान् कृन्तति छिनत्ति रुक्मिण इति वा चैलेन बद्धा तमसाधुकारिणं सश्मश्रुकेशं प्रवपन् विरूपयन् इत्य् उक्तेः । के प्रलय-जले बाले वट-पत्र-पुट-शायीति वा । राजदन्तादित्वात् परनिपातः । बालानां मेध्यानां कं शिरो मुख्यम् इति यावत् । पवित्राणां पवित्रं यः इति स्मृतेः । अलङ्कारान्तरे मेध्ये बालो रोमणि इति विश्वः । वा वक्रा अलकाः केशा यस्येति वा वो वक्रे हिंसके वरे इति धरणिः । वायां नर्मदायां लिनाति श्लिष्यतीति बालः शिवः नर्मदायां सदाशिवः इति पुराणात् । वा स्यान् नर्मदा नदी इति सौभरिः । तेन कायते स्तूयते इति बालकः । सर्वत्र ड-प्रत्ययः । बालान् कारयति स्व-भक्त-विरोधि-स्त्रीणां केशान् विक्षेपयतीति वा केशान् विकीयं पदयोः पतिताश्रु-मुख्यः इत्य् उक्तेः । बान् बालान् लाकयत्यास्वादयति स्वभोजनम् इति वा बालकः । लक—आस्वादनोपार्जनयोः । किम् नन्त-महिम्नोऽल्पार्थैर् इत्य् अलम् । सान्द्रपयोदः अन्दति प्लुतधृतं बन्ध्नातीत्यन्द्रं जलं तेन सह वर्तत इति सान्द्रः स चासौ पयोदश् चेति तथा । सजल-मेघस्तद्वत् सौभगं सुन्दरम् सान्द्रं वने घने मृदौ इति मेदिनी । कठिन्ये संहतौ च घनः ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तम् अद्भुतम् इत्य्-आदि । प्रमाण-गत—स्तोकत्वेन बालकवत् प्रतीयमानम्, न तु बालकम् इत्य् अद्भूत-शब्दार्थः । यद् वा बलते इति बालः, बालं बलमानं कं सुखं यस्य सान्द्रानन्दम् । पयोदस्य सौभगं यस्मात् तद् उपमायोग्यत्वात्, न तु पयोद-वर्णम्, वर्णस्तु प्राकृतः, तस्य तु सच् चिद् आनन्द-रूपं पयोद-सौभगं धाम ॥९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बालकं मृदु-स्वल्पाकारतया बालकत्वेनैव प्रतीयमानम् । शङ्कादीनि उत् उद्यतान्युत्कृष्टाणि वायुधानि यस्य तम्, सान्द्रपयोदाद् अपि सौभगं वर्ण-सौन्दर्यं यस्य तम् । महार्हं बहु-मूल्यं यद् वैदूर्यं बाल-वायजात्थ्यं रत्मं तस्य किरीटं कुण्डले च तेषां । वा, महार्हं वैदूर्यं येषू तेषां कीरीटादीनाम् उपरि किरीटस्याधश् च कुण्डलयोस् त्वियोद् दामभिस् तेजसात्युद्भटैः काञ्च्यादिभिः कृत्वा विशेषतो रोचमानम् । यद् वा, वैर् विशिषिष्टं स्वत एव विरोचमानं मत एव घनतम् अस्य् अपि तादृशम् औक्षत ॥९-१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् इति युग्मकम् बालकं मृदु-स्वल्पाकारतया बालकत्वेनैव प्रतीयमानं शङ्खादीनि उदिति झटिइति कंसादिर् हिंसन-ज्ञापनाय उद्यतानि उत्कृष्टानि वा आयुधानि यस्य तम् आयुध-क्रमश् चोक्तो गौतमीये बृहद् गौतमीये चैतद् ध्यानक-मन्त्र-विशेष-प्रसङ्गे—

दक्षस्योर्ध्वे स्मरेच् चक्रं गदां च तद् अधः करे ।

वामास्योद्र्ध्वे आऋङ्गर्धनुः शङ्खं च तद् अधः स्मरेत् ॥ इति ।

किन्तु शङ्ख-चक्र-गदा-पद्म-श्रिया जुष्टं चतुर्भुजम् इति वक्ष्यमाणानुसारेणात्र शार्ङ्ग-स्थाने पद्मं ज्ञेयं तत्र तु शाऋङोपदेश उपासना-विशेषार्थम् एव भगवतितु सर्वदा सर्व-समावेशान्न् आसम्भावितम् इति सान्द्रपयोदाद् अपि सौभगं वर्ण-सौन्दर्यं यस्य तं महाहं तत्रत्यरत्नेष्व् अपि परमोत्कृष्टं यद् वैदूर्यं बाल-वायजाख्यं नील-पीत-रक्तच् छविरन्तं तद् विद्यते महिष्टया यस्मिन् तादृशस्य किरीटस्य त्विषोदर्ध्वं कुण्डलयोस् त्विषा त्व् अधः किर्मीरित-बहुल-कुन्तलम् इत्य् अर्थः । यद् वा त्विषेति टाबन्तं हलन्ताद् वेति विधानात् दिशादिवत् ततश् च महा-वैदुर्यम् इव किरीट-कुण्डलत्विषा परिष्वक्तं सहस्र-कुन्तलं यस्य तं तद् वन् नानाच्छवितया शोभमान-कुन्तल-वृन्दम् इत्य् अर्थः । किरीटं त्रिकोणं पत्रावलि-रूपं मुकुटं तु समस्त-कचावरकम् इति भेदः । उद्दामभिः तेजसात्य् उद्भटैः काञ्च्यादिभिः कृत्वा विशेषतो रोचनानम् यद् व तैर् उपलाक्षितं स्वयम् एव विरोचमानं किन्तु स्वरूप-लावण्यादि-लब्ध-धामभिर् एव तैः स्वयम् असौ प्रतिभूषितो भवतीति भावः । अत एव घनतमस्य् अपि तादृशम् ऐक्षत वक्ष्यते च स्वरोचिषेति अत्र गौतमीये यद् गरुडोपरि निविष्टत्वम् अष्ट-महिषी-समावृतत्वं ब्रह्म शिवादिभिः स्तुयमानत्वं चोक्तं तन्नोक्तं पितृभ्याम् अदृष्टत्वाद् इति ज्ञेयम् ॥९-१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् अद्भुतम् इति परिच्छेदानाम् अपि तत्-स्वरूप-भूतत्वे लिङ्गम् इदं तत्-सहितानाम् एवाविर्भावात् परिष्वक्तेति किर्मीरितान् एककेशम् इत्य् अर्थः ॥९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : आविर्भावम् आह—तम् अद्भूतम् इत्य्-आदि द्वाभ्याम् । प्रमाण-गत-स्थूलत्वेन बालवत् प्रतीयमानम्, न तु वास्तवं बालकम्, अत एवाद्भूतम् । अथवा, बलत इति बालः, बालं निविडं कं सुखम् आनन्दं सान्द्रानन्दम् इति यावत् । पयोदस्यापि सौभगं यस्मात्—तद् वर्णोपमान-भाग्यात्, न तु पयोदस्येव वर्णो यस्य, सौभग-शब्दोपानाद्-वर्णस्यालौकिकत्वम् । अथवा, वसुदेवस् तं बालकं श्री-कृष्णं शङ्ख-गदाद्य् उदायुधं चतुर्भुजं ददर्श इत्य् अद्भुतम् । अथवा बालकं च चतुर्भुजं च ददर्शेत्य् अर्थः । श्री-कृष्ण-स्वरूपं नित्य-कैशोरम् एव, द्विभुजम् एव तथाप्य् असौ पूर्व-पूर्वाराधन-संस्काराच् च चतुर्भुजं पुत्रो मे\ऽधुना बभूवायम् इति बालकम् एव ददर्शेत्य् अद्भुतत्वं वसुदेव एवादौ ददर्श । देवकी तु तत् तेजसा धर्षित-नेत्रा हर्षेण विवशा च किम् अयं द्विभुजश् चतुर्भुजो वा इति न ज्ञातवतीत्य् आयातम् ॥९-१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् अद्भुतं बालकं वसुदेव ऐक्षत इति द्वितीयेनान्वयः । अद्भुतत्व-हेतु-गर्भाणि विशेषणानि—अम्बुजेक्षणम् इत्य्-आदीनि वैदूर्यं नील-पीत-रक्त-च्छवि-रत्नं तद् उक्तं किरीटं त्रिकोण-पत्रावलि-रूपम् ॥९.१०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तम् इति युग्मकम् । तमद्भुतं बालकं वसुदेव इक्षतेत्युत्तरेण सम्बन्धः । अद्भुतत्वबोधकानि विशेषणान्यम्बुजेक्षणमित्यादीनीति परिकरो\ऽलङ्कारः न हि लोके गर्भान्निर्गतस्येदृशत्वं श्रुतं गलेन कण्ठेन शोभते तादृशः कौस्तुभो यत्र तं महार्हमनर्घं यद्वैदूर्यं नीलपीतरक्तच्छविकं रत्नं तद्विशिष्टं किरीटं च कुन्तले च तेषां त्विषा परिष्वक्ताः स्फुरन्तः सहस्रमपरिमिताः कुन्तला यस्य तम् ॥१०-११॥


**॥ १०.३।**११ ॥

स विस्मयोत्फुल्ल-विलोचनो हरिं

सुतं विलोक्यानकदुन्दुभिस् तदा ।

कृष्णावतारोत्सव-सम्भ्रमोऽस्पृशन्

मुदा द्विजेभ्योऽयुतम् आप्लुतो गवाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्मयेनोत्फुल्ले विकसिते लोचने यस्य सः । गवाम् अयुतम् अस्पृशन् मनसा दत्तवान्, कंस-निगृहीतस्य दानासम्भवात् । स्पृष्टौ हेतुः—कृष्णावतारेति । मुदा आप्लुतो व्याप्तः, स्नात इति वा ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महार्हमनघं यद् वैदूर्यं नील-पीत-रक्तच्छवि-रन्तं तद्युते किरीट-कुण्डले तत्त्विषा तद् भास्वत एवोद्भूतानि सा । इत्य् अर्थ इति तात्पर्यम् । कुन्तलश् चषके बाले जवे पुम्भूम्नि निवृति इति मेदिनी । उद्दामानि स्वतन्त्राणि यानि काञ्च्यङ्गद-कङ्कणादीनि तैः । उद्दामो बन्ध-रहिते स्वतन्त्रे च प्रवेतसि इति मेदिनी । काञ्ची मेखला काञ्ची स्यान् मेखला-दाम्नि प्रभेदे नगरस्य च इति मेदिनी । अङ्गदं केयूरम् अङ्गदः कपि-भेदेन केयूरे तु नपुंसकम् इति च । कङ्कणं कर-भूषणम्, कङ्कणं कर-भूषायां सूत्र-मण्डनयोर् अपि इति च । आदिनाङ्गुलीयकादयो ज्ञेयाः ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स च परम-भाग्यवान् । हरिं कंसादीनां सर्वज्ञान-हरं रूपादिना मनोहरं वा भगवन्तं सुतं पुत्रतां प्राप्त विलोक्य साक्षाद्-दृष्ट्वा विस्मयेनाश्चर्येण विकसित-विलोचनः सन् तदा तत्-क्षण एवास्मृशद् अस्पर्शयद् दान-संकल्पम् अकरोत् । ननु कंसेन पीडितस्य हृत-सर्वस्वस्य बद्धस्य संकल्पो\ऽपि कथं घटेत ? तत्राह—कृष्णेति । ननु तथापि कतिचिद् एवाल्पतराः संकपन्ताम् ? यद् वा ननु स्नानान्तरम् एव संकल्पो युज्यते ? तत्राह—मुदाप्लुतो व्याप्त इति । आप्लुतः स्नातस् ततो मुदेति गोस्पर्शने कृष्णेति च विस्मये हेतुः ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सः परम-भाग्यवान् हरिं कंसादीनां सर्वज्ञान-हरं भगवन्तं सुतं पुत्रतां प्राप्तं विलोक्य साक्षाद्-दृष्ट्वा विस्मयेन विकसित-लोचनः सन् तदा तत्-क्षाणम् एव अस्पृशत् अस्पर्शयत् दानाय सङ्कल्पम् अकरोत् । ननु, कंसेन पीडितस्य हृत्-सर्वस्वस्य बद्धस्य सङ्कल्पो\ऽपि कथं घटेत ? कथं वा म्नानं विनैव दानं ? तत्राह—कृष्णेति, कृष्ण-प्रादुर्भाव-स्वभावेन य उत्सव उल्लासस् तेन सम्भ्रमो मनस् त्वरा यस्य सः ततो विचारम् अपि न कृतवान् इति भावः । ततश् च मुदा व्याप्तो बभूव क्षणं मुग्ध इवासीद् इत्य् अर्थः । यद् वा मुदा हर्ष-पूर्वकं स्नातः सन् कृष्णेत्यादि-लक्षणो भूत्वास्पृशद् इति ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सुतं हरिं विलोक्येति अवतार-सामान्य-ज्ञानं तत्र कृष्णेति मुनीन्द्र-वाक्यं तत्-स्वभावं बत एवात्यन्तोल्लासज-चेतस्त्वराबोधनाय ततो विशेष-ज्ञानाय ततो विशेष-ज्ञानम् आह ॥११॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : []{।मर्क्}


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स विस्मयेति । "अहो महा-मुक्त-मुनीन्द्राणाम् अपि दुर्लभ-दर्शनः परमेश्वरो मम पुनर् अविद्या-बद्ध-जीवस्याविद्या-बद्ध-जीवेन कंसेनापि बहिर् अपि बद्धस्य गृहे\ऽवतीर्य दृश्यो बभूव" इत्य् एको विस्मयः । "सर्व-व्यापकं परं ब्रह्मापि मानुष-गर्भाद् अजनिष्ट" इति द्वीतीयः । "विविधास्त्र-कटक-कुण्डल-किरीटाद्य्-अलङ्कार-विशिष्ट एव बालको गर्भान् निष्क्रान्तः" इति तृतीयः । "साक्षान् महा-भयस्यापि भीषण आदि-पुरुषो भगवान् अपि कंस-भय-भीतं मां स्व-पितृत्वेनाङ्गीचक्रे" इति चतुर्थः । इत्य् एवम् अनन्ता कृष्णावतार- इत्य् अहो सामान्य-बालकस्यापि जन्मनि पिता दान-ध्यानाद्य्-उत्सवं करोति एव पुत्रत्वेनावतीर्णः सम्प्रत्य् अहं कम् उत्सवं करोमीति प्राप्त-सम्भ्रमः मुदा आप्लुतः आनन्द-समुद्रेण निमज्जितः सन्नस्पृशत् मनसा ददौ विश्राणनं वितरं स्पर्शनं प्रतिपादनम् इत्य् अभिधानात् स्मृशि दानार्थको\ऽपि ज्ञेयः ॥११॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


**॥ १०.३।**१२ ॥

अथैनम् अस्तौद् अवधार्य पूरुषं

परं नताङ्गः कृत-धीः कृताञ्जलिः ।

स्व-रोचिषा भारत सूतिका-गृहं

विरोचयन्तं गत-भीः प्रभाव-वित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत-धीः शुद्ध-बुद्धिः ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गतभीर् निर्भयः । तत्र हेतुः—प्रभावविद् इति । ईशोयमनन्तोऽयं सर्वान्तकर इत्य् आद्यैश्वर्य-ज्ञानवान् ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथानन्तरं सद्य एवेत्य् अर्थः । परं पुरुषं परमेश्वरम् । किं वा, परं परिपूर्णतयावतीर्णं पुरुषं श्री-भगवन्तम् अवधार्यं निश्चयेन ज्ञात्वा । नतानि कृत-प्रणामान्य् अङ्गानि भुजादीनि यस्य सः, साष्टाङ्ग प्रणम्येत्य् अर्य्हः । यद् वा, अवनत-शिराः सन् कृतधीः शृई-भगवति न्यस्त-चित्तो विनीतो वा । अवधार्येत्य् अर्थ हेतुः—स्वकीयेनासाधारणेन मनोनयनाह्लादकेन मिलितार्केन्दु-कोटि-तुल्येनापि रोचिषा तमो-व्याप्तं सूतिआ-गृहम् एव, न तु तद् वाह्यं विशेषेण रोचयन्तं प्रकाशयन्तम्—एकस्यैव युगपन् निज-तेजसः क्वचिद् विस्तारणे क्वचिच् च संवरणे परमेश्वर-शक्तिं विनान्यथानुपपत्तेः । अतो गतभीर् अपगत—कंस-भयः, यतः प्रभावं तद् ऐश्वर्यं वेत्तीति तथा सः । यद् वा, तादृशैश्वर्य-दर्शनेनापि गतभीः साध्व-साध्वसाकुष्ठित-चित्तः, यतो भक्त-वात्सल्यादि तन् माहात्म्यवित् । भारत ! हे भरत-वंश्येति श्री-वसुदेव—भाग्य-भरेण प्रीत्या सम्बोधयति, श्लेषेण भाः श्री-कृष्ण-भक्त्या कान्ति रताः यस्मिन्न् इति ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानन्तरं सद्य एवेत्य् अर्थः । पुरुषं परमेश्वरं तत्रापि परं परिपूर्णतयावतीर्णम् अवधार्य निश्चयेन ज्ञत्वा अत्र हेतुः कृतधीः तत्र न्यस्त-चित्त इति ततश् च नतानि कृत-प्रणामानि अङ्गानि भुजादीनि यस्य सः साष्टाङ्गं प्रणम्येत्य् अर्थः । यद् वा अवनत-शिराः सन् अवधारणे हेत्वन्तरम् अप्य् आह-स्वीयेन असाधारणेन मनो-नयनाह्लादकेन मिलितार्केन्दु-कोटि-कुल्येनापि रोचिषा तमो-व्याप्तं सूतिका-गृहम् एव न तु तद् वाह्यं विशेषेण रोचयन्तं प्रकाशयन्तम् एवम् एकस्यैव युगपन् निज-तेजसः क्वचिद् विस्तारणेन क्वचिच् च संवरणेन पारमैश्वर्य-शक्तिर् दोतिता कीदृशः सन्न् असौत्, तत्राह गतभीः अपगत-कंस-भयः सन् । ननु, स्तव-शब्दं कंस-प्राहरिकाः श्रोष्यन्तीति भय-हेतुस् त्वस्येति तत्राह, प्रभावं तदैश्वर्यं वेत्तीति तथा सः किं करिष्यन्त्येति वराकाः सो\ऽपि वेति भावयित्वेति भावः । भारत ! हे भरत-वंश्येति शृइ-वसुदेव-भाग्यतरेण प्रीत्या सम्बोधयति श्लेषेण भाः शृइ-कृष्णस्य तादृशी कान्तिः हेतु-गर्भत एव तस्यां रतेति ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : परं पुरुषं श्री-कृष्णाख्यं स्वयं भगवन्तम् एव निश्चित्य तत्र हेतुः कृतधीर्न्यस्तचित्तः तथैवाह ॥१२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृत-धीस् तस्मिन्न् एव यौगपद्येन कृतैश्वर्य-वात्सल्य-बुद्धिः गत-भीः प्रभाव-विद् इति "हन्त हन्त ! अस्मिन्न् अप्य् अङ्गे कंसः सहसागत्यास्रं प्रयोक्ष्यते" इति पुत्र-बुद्ध्या यद् भयम् उद्बभूव, तद्-ऐश्वर्य-बुद्ध्या प्रभाव-ज्ञानेन गतम् इत्य् अर्थः ॥१२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विविधास्त्र-भूषणादि-विशिष्टतयैव जातस्य दर्शनेन यो विस्मयस् तेनोत्फुल्ले लोचने यस्य सः । कृष्णस्य पुत्रस्यावतारे जन्मनि कम् उत्सवम् अहं करोमीति जात-संभ्रमःमुदा हर्षेण आप्लुतः स्नातः सन् गवाम् अयुतम् अस्पृशत् मनसा ददौ कंस-कारागार-स्थितस्य साक्षाद् दानासंभवात् । स्पृशि दनार्थः, विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् इत्य् अमरोक्तेः ॥१२॥


**॥ १०.३।**१३ ॥

श्री-वसुदेव उवाच

विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः ।

केवलानुभवानन्द- स्वरूपः सर्व-बुद्धि-दृक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वसुदेवः प्रथमं पुत्र-बुद्ध्या पश्यंस् तां परित्यज्याह—विदितोऽसीति । कथं विदितोऽसि ? भवान् प्रकृतेः परः पुरुष इति । ननु किम् आश्चर्यं, पुरुषस्य प्रकृतेर् अन्यत्वाद् एव ? इत्य् अत आह—साक्षाद् इति प्रत्यक्षत इत्य् अर्थः । नन्व् अक्षि-सन्निकृष्टं प्रत्यक्षत उपलभ्यते किं चित्रम् ? इत्य् अत आह—केवलेति । केवलश् चासाव् अनुभवश् चानन्दश् च ताव् इव स्वरूपं यस्य सः । किं च, सर्व-बुद्धि-दृक् । न ह्य् एवं-भूतो दृश्यो भवतीत्य् अर्थः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां पुत्र-बुद्धिम् अक्षि-सन्निकृष्टं नेत्र-गोचरम् । यद् वा, विदितो\ऽस्य् अद्य मयोपलब्धो\ऽसीत्य् आह—यः प्रकृतेः परस् तद्-द्रष्टा पुरुषः, स भवान् । यथा यः केवलानुभवानन्द-स्वरूपः पर-ब्रह्माख्यो निर्विशेष आत्मा, सोऽपि भवान् । यश् च सर्व-बुद्धि-दृक् सर्वान्तर्यामी परमात्मा, सोऽपि भवान् । इति तत्-तद्-रूपकत्वात् स्वयं भगवत्त्वेन ज्ञातोऽसि, तत्रापि साक्षड् विदितोऽसि चक्षुषा दृष्टासीत्य् अहो मे भाग्य-महिमेति भावः इति तोषण्याम् । इत्य् अर्थ इति—न हि द्रष्टा दृश्यतां यातीति भावः । केवलो द्वितीयोऽनुभवो ज्ञानं आनन्द-सुखं कथम् एतादृशः ? तत्राह—किं चेति ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विदितो\ऽसीत्य्-आदि । केवलानुभवानन्द इव स्वम् आत्मा यस्य तत् केवलानुभवानन्दस्वं ब्रह्म तद् एव रूपं रूप-विशेषो यस्या यद् वा, केवलेनानुभवेन स्फुर्त्या तर्काद्य्-अगोचरतया आनन्दो येषां तेषु भक्तेषु स्वं रूपं प्राकट्यं यस्य साक्षाद् अपरोक्षः ॥१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परमस्यापि साक्ष्यात् प्राप्त्याति-प्रहृष्यन्न् आह—विदितो\ऽसीति, मयाद्य तं साक्षाद् उपलब्धो\ऽसीत्य् अर्थः । यद्य् अपि भवान् प्रकृतेः परः पुरुषः परमेश्वरः केवलानुभवानन्द-स्वरूपः पर-ब्रह्म सर्व-बुद्धि-दृक् च परमात्मेत्य् अर्थः । अहो मम भाग्य-महिमेति भावः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परम-मत्-प्रेममय-श्री-गोकुल-सम्बन्धेन तस्यापि महात्म्यम् उदेष्यतीति सङ्कर्षण-प्रयोजनान्तरम् आह—गर्भेति । वै एव गर्भतः सङ्कर्षणाद् एव न तु शेषत्वादिना प्रलयादौ जगद् आकर्षणादित्य् अर्थः । गर्भ-सङ्कर्षणाद् एव गोकुल-प्राप्त्या सर्व-लोकानां रमणात् तथैव बलस्य उच्छ्रयात् आधिक्यात् तदीय-परम-प्रेमोर्जितम् अनस्तयेति भावः । बलं बलवद् उच्छ्रयाद् इति पाठे बलवत्सु आधिक्याद् इत्य् अर्थः । रामेति सहसुषेति सुष्मात्रेण समासः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विदितोऽसि भवान् विज्ञातोऽसि । कथं ? यः प्रकृतेः परः पुरुषस् तद्-द्रष्टा स भवान्, यः केवलानुभवानन्दः पर-ब्रह्माख्य आत्मा स भवान्, सर्व-बुद्धि-दृक् सर्वान्तर्यामी सोऽपि भवान्, इति स्वयं भगवत्त्वेन इत्य् अर्थः । तत्रापि साक्षाद् एव विदितो दृष्टोऽसीत्य् अहो मम भाग्यम् इति भावः । कियत् एतद् वा यतः पुत्रतयापि प्राप्तोऽसीति तम् अवतार-कारणेन सह वक्तुं तादृश-प्राप्ति-दुर्लभता-ख्यापनाय प्रकृति-परादित्वं योजयन् तस्य घटनाय सर्गादि-परिपाटिं चानुवदन् सर्ग-प्रवेशौ तावद् आह ॥१३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे भगवन् ! त्वं माम् एवं निज-रूपं यद् दर्शयसि, तस्यायम् अभिप्रायः मत्-पिता मद्-अर्थं कंसाद् बिभेति तन् माम् ईश्वरं प्रतीत्य निर्भयो भवत्व् इति तत् सत्यं त्वयीश्वरत्वेन मम प्रतीतिः जातैवेत्य् आह—विदितो\ऽसि । कीदृशत्वेन ? इति चेद् अत आह—यः प्रकृतेः परः पुरुषस् तद्-ईक्षण-कर्ता, स भवान् एव । यः केवलानुभवानन्द-स्वरूपः पर-ब्रह्माख्य आत्मा स भवान् यः सर्व-बुद्धि-दृक् सर्वान्तर्यामी, सो\ऽपि भवान् साक्षाद् एव स्वयं भगवत्त्वेनैवेति सर्वम् अहं जानाम्य् एवेत्य् अर्थः ॥१३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथेति पुरुषम् अवधार्य परेशो\ऽयम् अस्मद्-आदि-पुत्र इति विज्ञाय गत-भीर् निवृत्त-पूर्व-पुत्र-कदन-वीक्षण-जात-भयः यतः प्रभाव-वित् तत्-पराक्रम-ज्ञः कृतधीस् तस्मिन्न् एव कृता निवेशिता पारमैश्वर्य-प्रधाना पुत्र-बुद्धिर् येन सः ॥१३॥


**॥ १०.३।**१४ ॥

स एव स्व-प्रकृत्येदं सृष्ट्वाग्रे त्रि-गुणात्मकम् ।

तद् अनु त्वं ह्य् अप्रविष्टः प्रविष्ट इव भाव्यसे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु देवकी-जठरे प्रविष्टस्य किम् इयम् अति-स्तुतिः क्रियते ? अत आह—स एवेति । स एव उक्त-स्वरूप एव त्वं न देवकी-जठरे प्रविष्ट इत्य् अर्थः । ननु विश्वं सृष्ट्वा तद् अनु प्रविष्टस्य किम् एतद् बहु ? अत आह—स्व-प्रकृत्येति । स्व-मायया सृष्ट्वा वा तद् अनु त्वम् अप्रविष्ट एवेति । ननु तर्हि कथं श्रुत्योच्यते, तत् सृष्ट्वा तद् एवानुप्राविशत् [तै।उ। २.६.२] इत्य् अत आह—प्रविष्ट इव इति । भाव्यसे निरूप्यसे । प्रत्यक्षतो वा सद्-रूपेण वा प्रविष्ट इव लक्ष्यसे ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : केवल-द्रष्टृ-रूपस्य कथं जन्मादि ? इति शङ्कते—नन्व् इति । जठरम् उदरम् । उक्त-स्वरुपः केवलानुभवानन्द-स्वरूपःइत्य् अर्थ इति—न ह्य् एतादृशस्य जठरे प्रवेशः सम्भवतीति भावः । पुनर् आशङ्कते—नन्व् इति । तद् अनु सृष्टिम् अनु । किम् एतद् बहु किम् अधिकं कथ्यते प्रविष्ट इति । अतो हेतोः । पुनर् आह—स्व-प्रकृत्या स्व-मायया अघटन-घटना-पटीयस्या स्व-शक्त्या । पुनर् आशङ्कते—नन्व् इति । श्रुत्या वक्ष्यमाणया प्रत्यक्षतो योगिभिर् एवान्यैः कथं लक्ष्यः ? इत्य् आशङ्का-निवृत्तये सद्-रूपेण आकाशः सन् वायुः सन्न् इत्य्-आदि-रूपेण सर्वैर् लक्ष्यते इति भावः ॥१४॥[अत्र विश्वनाथः]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :

{wइद्थ्=“६.५इन्” हेइघ्त्=“२.०६७३६११११११११११इन्”}


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रापि पुत्रतया प्राप्तोसीत्य् आत्य् आशयेनाह—स इति । एव अपि, अपि स उक्त-स्वरूपो\ऽपि त्वं स्वय तव प्रकृत्या भक्त-वात्सल्यादि-स्वभावेनेदं मद्-गृहं श्री-देवक्य् उदरं वा प्रैव्ष्ट इव भाव्यसे क्रियस इवेति तत्त्वतो मनोधारणेनोदर-प्रवेशाभावात् । किं वा, लोकोक्तिरीत्यानधिकार्थम्, हि अपि, पूर्वं त्रिगुणात्मकं जगत् सृष्ट्वा तद् अन्व् प्रविष्टो\ऽपि ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र दैन्येन तस्मिन् निज-पुत्रत्वापलपनाय, सा देवकि सर्व-जगन्-निवास-भूता इति दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान् इत्य्-आदि लब्धम् अपि तत्-प्रवेशं वारयति—स एवेति चतुर्भिः तस्मात् सर्व-व्यापकस्य तस्य भगवतो वचस् तत् यथादिष्टं, तथैव, न तु किञ्चिद्-व्यभिचारेणेत्य् अर्थः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स एवाह, तत्र प्रवेशो ऽपि ततः परत्वमाह, एवं भवानित्यन्त्याभ्यां यथेति द्वाभ्याम् ॥१४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ईक्षित्वा यद् उवाच, तद् आह—विदितो\ऽसीत्यादि । त्वं विदितोसीति किं प्रकारेणेत्याकाङ्क्षायाम् आह—प्रकृतेः परः पुरुषः । तत् किम् अहं पञ्च-विंशः ? नेत्य् आह—केवलानुभवानन्द-स्वरूपः । तर्हि किम् अहं नौरूपः ? नेत्य् आह—साक्षान् मूर्तम्, आनन्द-ज्ञान-घन इति यावत्, अथवा केवलेनानुभवेन आनन्दो येषां तेषु भक्तेषु स्वरूपं श्री-कृष्णाख्यं रूपं यस्य ॥१४-१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, भोः तात ! त्वद्-गृहे प्रविष्टं मां परिच्छिन्नम् एव जातम् एव जानासि अतः किम् अपि मे तत्त्वं न जानासीत्य् आशङ्क्य स्वज्ञानम् आविष्कुर्वन्न् आह । स एव उक्त-स्वरूप एव त्वं स्व-प्रकृत्या स्वीय-प्रधान-शक्त्या इदं जगत् सृष्ट्वा तद् अनु अप्रविष्ट इव प्रविष्ट इव च भाव्यसे निरूप्यसे । जागतो\ऽन्तर्-उपलभ्यमानत्वात् अप्रविष्ट इव, न त्व् अप्रविष्टः, बहिश् चोपलभ्यमानत्वात् प्रविष्ट इव, न तु प्रविष्ट इत्य् अर्थः । एवम् एव सर्वत्र वर्तमानस् त्वं मद्-गृहे प्रविष्ट इव न तु प्रविष्टः । सर्वदैव वर्तमानस् त्वं जात इव, न तु जातस् तेन च सर्व-व्यापक-मूर्तस् तव कंसः किम् अपि कर्तुं न शक्तुयाद् इति जानाम्येवेति भावः ॥१४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गत-भीर् अस्मीति निवेदयन् स्तौति हे भगवन्! मया त्वं विदितो\ऽसि कीदृशत्वेनेति चेत्तत्राह, त्वं साक्षादनन्यापेक्षिवपुः यः प्रकृतेः परः पुरुषस्तद्वीक्षकस्तन्नियन्ता स भवान् यः सर्वबुद्धिदृक् निखिलान्तर्यामी गर्भोदशयः क्षीरोदशयश् च स भवान् तत्तदंशोपेतः भगवानित्य् अर्थः । ननु किं धातुरहं तत्राह केवलो विशुद्धो यो\ऽनुभवस्तदभिन्नो य आनन्दस्तत् स्वरूप इति देहदेहिभेदशून्यो विज्ञानसुखस्वरूप इत्य् अर्थः ॥१४॥


॥ १०.३.१५-१६ ॥

यथेमेऽविकृता भावास् तथा ते विकृतैः सह ।

नाना-वीर्याः पृथग्-भूता विराजं जनयन्ति हि ॥

सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव ।

प्राग् एव विद्यमानत्वान् न तेषाम् इह सम्भवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र दृष्टान्तः—यथेति । इमेऽविकृता भावा महद्-आदयो यथा तथेति । दृष्टान्तं विवृणोति—ते विकृतैर् इति । ते विकृतैः षोडश-विकारैः सह सन्निपत्य विराजं ब्रह्माण्डं जनयन्ति । सन्निपतने हेतुः—यतः पृथग्-भूताः सन्तो नाना-वीर्या विशिष्ट-कार्य-समर्था न भवन्ति, अतः—सन्निपत्येति । एवं समुत्पाद्यानुगताः प्रविष्टा इव दृश्यन्ते, न पुनः प्रविष्टाः । कुतः ? उत्पत्तेः प्राग् एव कारणतया विद्यमानत्वान् न तेषाम् इह सृष्टे कार्ये पश्चात् सम्भवः प्रवेश इति ।**।**१५-१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राप्रविष्टस्यापि प्रवेशे महदादयः सप्त महद् अङ्कार-पञ्चतन्मात्रा-रूपाः । विवृणोति स्फुटयति । सन्निपत्य मिलित्वा । विशिष्ट-कार्य-समर्था ब्रह्माण्डोत्पादन-समर्थाः ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अप्रविष्टत्वम् एव । किं वा, अप्रविष्टस्यापि प्रविष्टत्वं दृष्टान्तेन साधयति—यथेति द्वाभ्याम् । यद् अपि तेषां महद् आदीनां प्रथमत एव कारणत्वेनावरणतया बहिर् विद्यमानत्वाद् इह विराजि प्रवेशो नास्ति, तथा प्रविष्टा इव दृश्यन्त एवेत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, तथा तेन तन् माया-शक्त्य् उद्भवत्वादि-प्रकारेण ते त्वदीया इत्य् अर्थः इति तेषां शक्तिः सम्भाविता । यद् वा, तथेत्य् अस्य परेणान्वय, तेनानिर्वचनीयेन प्रकारेणेत्य् अर्थः । अथवा, बहु-जन्मसु त्वन् माहात्य्मं जानतो\ऽपि ममाधुनैव कृतार्हाभूद् इति वक्तुम् आदौ तज् ज्ञान-प्रकारम् एवाह—विदित इति । भवान् पूज्यस् त्वं जन्मानि बहूनि व्याप्य साक्षात् स्वयम् एव मया ज्ञातो\ऽसि । कथम् ? तद् आह—पुरुष इत्य्-आदि पादोन-द्वयेन । प्रकृति-परत्वादि-रूपेण श्री-देवक्य् उदर-प्रविष्टत्वेन चेत् इत्य् अर्थः । अन्यत् समानम् ॥१५-१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : योगमायैव योग-निद्रा निद्रावत् सकललोक-वोध-हरणात् तया प्रकर्षेण नीत इति । देवक्या दुःखादिकं गोकुलादिवासिनां च तज्-ज्ञाणादिकं किम् अपि नाभूद् इति बोधितम् अत्र च श्री-हरिवंशाद्य् उक्तानुसारेणैव ज्ञेयं प्रग् एव श्री-वसुदेवाहित-गर्भायायाः श्री-रोहिण्याः पश्चाद्-गोकुलं गतायाः सप्तमे मासि तं गर्भम् अपसार्य श्री-देवकी-जठरात् सप्त-मासिकं गर्भम् अलक्षितम् आकृष्य रोहिण्य् उदरं नीत इति । तथा च हरि-वंशे योग-निद्रां प्रति श्री-भगवद् उक्तौ—

सत्पमो देवकी-गर्भो यो\ऽम्शः सौम्यो ममाग्रजः ।

स संक्रामयितव्यस् ते सप्तमे मासि रोहिणीम् ॥ इति ॥

तन् नयन-प्रकार-विशेषश् च तत्रैव—

सार्ध-रात्रे स्थितं गर्भ पातयन्ती रजस्वला ।

निद्रया सहसाविष्टा पपात धरणी-तले ।

सा स्वप्नम् इव दृष्ट्वा स्व-गर्भे गर्भसाहितम् ।

अपश्यन्ती च तं गर्भं मुहूर्तं व्यथिताभवत् ! ।

ताम् आह निद्रा-सम्बिग्नां नैशे तमसि रोहिणीम् ॥

कर्षणेनास्य गर्भस्य स्व-गर्भे चाहितस्य वै ॥

सङ्कर्षणो नाम शुभे तव पुत्रो भविष्यति ॥ इत्य्-आदि ॥

अहो आश्चर्ये खेदे वा देवक्या गर्भो विस्रंसितः विस्रस्तः कंस-भयाद् इति शेषः । तथा च शृइ-विष्णु-पुराणे सप्तमो भोज-राजस्य भयाद्रोधोपरोधतः । देवक्याः पतितो गर्भं इति लोको वदिष्यति इति यद् वा कंसेनैव केनचिद् उपायेन पातित इत्य् अर्थः । व्यक्ततया तद् अनुक्तिस् तेषां तद् भयात् विचुक्रुशुः उच्चैर् आर्त-स्वरेण जजल्पुः विलेपुर् इति वा ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथेमे पृथिव्यादयस्तथा ते महदादयो ऽपि कथं हि यस्मात् कृतैरिति पूर्वत्र तु सजलादिभिः परत्र षोडशविकारैः पूर्वत्र विराजं तत्प्रायं घटं परत्र ब्रह्माण्डम् ॥१५-१६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र दृष्टान्तः—यथा इमे अविकृता भावा महद्-आदयो ब्रह्माण्डे प्रविष्टा अपि न प्रविष्टाः । तत्र पुनर् जातवत् प्रतीता अपि न जातास् तथैव त्वम् इत्य् अर्थः । दृष्टान्तं विवृणोति—ते अविकृताः विकृतैः षोडश-विकारैः सह नाना-वीर्याः परस्पर-विसदृश-स्वरूपा अपि पृथग्-भूताः परस्परम् अमिलिता अपि सन्निपत्य चैतन्य-प्रेरणवशात् मिलिती-भूय विराजं जनयन्ति ततश् च विराजं समुत्पाद्य अनुगता इव तत्र प्रविष्टा इव दृष्यन्ते, न तु प्रविष्टाः, तद्-बहिर् अपि तेषां वर्तमानत्वाद् इत्य् अर्थः । तथा विराजि समुद्भूताः, तत्र हेतुम् आह—प्राग् एवेति इह विराजि सम्भव उत्पत्तिः समुद्भूता इव दृष्यन्ते, न तु ॥१५.१६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु त्वद्गृहे प्रविष्टं परिच्छिन्नं मां किमेवं स्तौषि तत्राह, स उक्तलक्षण एव त्वं स्वमाययेदं त्रिगुणात्मकं जगत् सृष्ट्वा तदनु सर्गानन्तरमप्रविष्ट इव प्रविष्ट इव च भाव्यसे निर्णीयसे जगतो\ऽनुरूपलम्भादप्रविष्ट इव बहिरप्युपलम्भात् प्रविष्ट इव ॥१५॥


**॥ १०.३।**१७ ॥

एवं भवान् बुद्ध्य्-अनुमेय-लक्षणैर्

ग्राह्यैर् गुणैः सन्न् अपि तद्-गुणाग्रहः ।

अनावृतत्वाद् बहिर् अन्तरं न ते

सर्वस्य सर्वात्मन आत्म-वस्तुनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दार्ष्टान्तिकेऽतिदिशति, एवं भवान् इति । ननु यद्य् अहम् अप्रच्युत-स्वरूप एव कारणतया कार्येषु वर्ते तर्हि तेष्व् इन्द्रियैर् गृह्यमाणेषु मम ग्रहणं किं नास्ति तत्राह—बुद्ध्य्-अनुमेय-लक्षणैर् इति । बुद्ध्या रूपादि-ज्ञानेनानुमेयं लक्षणं स्वरूपं येषां तैर् गुणैर् इन्द्रियैर् ग्राह्यैर् गुणैः सह सन्न् अपि वर्तमानोऽपि तद् गुणाग्रहस् तैर् गुणैः सह न गृह्यते । अयं भावः, न हि ग्राह्यैः सह भाव-मात्रं ग्रहणे कारणं किन्त्व् इन्द्रियाणां शक्तिः । सा च कार्यैक-समधिगम्या यथा-कार्यम् एव कल्प्यते । अतो यथा चक्षुषा रूप-ग्रहणे रसादि-ग्रहणं नास्ति तथैव विषय-ग्रहणे त्वद्-ग्रहणम् अपीति । अविषयत्वेन च ग्रहणानर्हत्वम् उक्तम् एव सर्व-बुद्धि-दृग् इत्य् अत्र । एवं तावत् प्राग् एव विद्यमानत्वात् प्रवेशो नास्तीत्य् उक्तम् । किं च परिच्छिन्नस्य नीडे पक्ष्यादेर् इव प्रवेशो भवेत् तव त्व् अनवृतत्वाद् अपरिच्छिन्नत्वेन बहिर् अन्तर् भेदो नास्ति, कुतः प्रवेश इत्य् आह—अनावृतत्वाद् इति । अनावृतत्वे हेतून् आह—सर्वस्येति । न हि सर्व-रूपस्यान्यदावरकम् अस्ति सर्वात्मनः, न ह्य् एकेनावृतोऽन्यस्यात्मा भवेत् । आत्म-वस्तुन इत्य् आत्मनो वस्तुनश् चेति हेतु-द्वयम् । अत सातत्यगमन इत्य् अस्माद् अतति व्याप्नोतीत्य् आत्मा, न हि व्यापकस्यावरणं घटते । तथा वस्तुनः परमार्थ-वस्तुन आवरणं न घटत इत्य् अर्थः । तस्मात् तवान्तर्यामितया प्रवेशो न मुख्योऽस्ति कुतस् तरां गर्भे प्रवेशः । अतः केवलानुभवानन्द-स्वरूप एव त्वं विदितोऽसीत्य् आश्चर्यं मम भाग्यम् इत्य् अर्थः ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतो हेतोः । एव म्समुत्पाद्य मिलित्वोत्पाद्य ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रकरेणेदृशैर् वा स्वाविकैर् भक्त-वात्स्यल्यादि-गुणैः सह नित्यं वर्तमानो\ऽपि तेषु गुणेष्वाग्रहः पुनः पुनर् आसक्तिर् यस्य तथा-ब्ःऊतो भवान् भवति । कथम्-भूतैः ? बुद्ध्यानुमेयम् एव, न तु प्राप्यं स्वरूपं येषां तैर् अपरिच्छिन्नत्वाइदिना परम-दुर्वितर्तैर् इत्य् अर्थः । अतो गृआहैः स्वर्वो-पादेयैः परम-सेव्यैर् इत्य् अर्थः, यद्य् अपि ते तव बहिर् उपेक्ष्यमन्तरञ्जापेक्ष्यं नास्ति । कुतः ? अनावृतत्वात् परम-स्वतन्तत्रत्वाद् इत्य् अर्थः, तथापि तद्-गुणा-ग्रह इति सतत-भक्त-वात्स्यल्याद्य् अशेष-गुण-निधित्वम् उक्तम् ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विश्वस्य आत्मा प्रभुर् अपि भक्तानाम् एवाभयङ्करः तदानीं तच् चित्तेभाव-विशेषेण पर्यस्फुरद् इत्य् अर्थः । तत्र च सर्वैश्वर्य-परिपूर्णतयेत्य् अभिप्रायेण श्री-भगवान् इति एतद् आद्य-पद्यार्धं सर्व-सम्मतं स्यात् अत एव श्री-चित्सुखेनैवं व्याख्यातं मन आविवेश पौरुषं धामेति सम्बन्ध इति श्री-स्वामि-पादानां तु सम्मतं लक्ष्यते तथा च तद्-व्याख्यानात् ॥१६॥

पौरुषं धाम श्री-भगवत् तेजः मनसि श्री-भगवद् आवेशेन तत् तेजो\ऽभिव्यक्तेः । यद् वा, धाम-प्रदुर्भावं प्रभावं वा । तथा च विश्वः—धाम देहे गृहे रश्मौ स्थाने जन्म-प्रभावयोः इति । दुरासदः निकटे गन्तुम् अशक्यः, चक्षुर्-आद्य्-अग्राह्यो वा, अत एव अतिदुर्धर्षः अभि-भवितुम् अशक्यः सम्यग् बभूव ह स्फुटम् ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं भवान् तथा तद्गुणेषु गृह्यमाणेषु अग्रहो ग्रहणाभावो यस्य तादृशश् च भवानिति तु स्थितौ ततः परत्वमुक्तं प्रवेशम् एव निराकुर्वन् प्रपञ्चस्य स्वतः सत्तां परिहरति ॥१७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : []{।मर्क्}


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चेमे तत्-तद्-गुणैर् लिप्ता इव भवांस् तु कारणत्वेन प्रविष्टोऽप्य् अलिप्त एवेत्य् आह—एवं भवान् स्व-प्रकृत्या सृष्टे जगति प्रविष्टोऽपि बुद्ध्या अनुमेयम् एव लक्षणं येषां तैः स्व-प्रकाशत्वाखण्ड-ज्ञानानन्दादिभिर् ग्राह्यैः स्वोपादेयैर् गुणैः सह सन्न् अपि सदा विराजमानोऽपि तद्-गुणाग्रहः तस्याः प्रकृतेर् गुणान् लेपकान् दुःखात्मकान् आनन्दैकमयस् त्वं न गृह्णासि । कुतः ? अनावृतत्वात् यो हि प्रकृति-गुणैर् आवृता भवति, स एव तान् गृह्णाति, लिप्तश् च भवति, यथा जीव इति भावः । अतस् तव बहिर् अन्तरे व्याप्यते प्रकृतेर् गुणा न सन्ति, यथा जीवस्य बहिः शब्द-स्पर्शादयः, अन्तश् च शोक-मोहादय इति भावः । सर्वात्मनः सर्वत्रान्तर्यामितया प्रविष्टस्यापि । किं च, केवलं न तवैव, अपि तु आत्म-वस्तुनः तव स्वीय-पदार्थस्य सर्वस्य कृत्स्नस्यापि लीला-विलास-धाम भक्तादेर् बहिर् अन्तरं च व्याप्येत लेपकाः प्रकृति-गुणा न सन्तीत्य् अर्थः ॥१७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अत्र दृष्टान्तो यथेति युग्मम् । इमे\ऽविकृता भावा महद्-आदयो यथा तथैव त्वम् इति दृष्टान्तं विवृणोति, अविकृतास्ते विकृतैः षोडशभिः सह सन्निपत्य मिलित्वा विराजं ब्रह्माण्डं जनयन्ति सन्निपतने हेतुः—यतः पृथग्-भूताः सन्तो नाना-वीर्याः विराड् उत्पादन-क्षमा न भवन्ति अतः सन्निपत्येति ततश् च विराजं समुत्पाद्यानुगताः प्रविष्टा इव दृश्यन्ते न तु प्रविष्टाः, कुतः? उत्पत्तेः प्राग् एव कारणतया विद्यमानत्वात् अतस् तेषाम् इह सृष्ट-कार्ये पश्चात् सम्भवः प्रवेशो नेत्य् अर्थः ॥१६-१७॥


**॥ १०.३।**१८ ॥

य आत्मनो दृश्य-गुणेषु सन्न् इति

व्यवस्यते स्व-व्यतिरेकतोऽबुधः ।

विनानुवादं न च तन् मनीषितं

सम्यग् यतस् त्यक्तम् उपाददत् पुमान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एतद् धेतु-चतुष्टयं प्रपञ्चस्यावस्तुत्वे घटेत, तत् तु न सम्भवति, सत्यत्वेन प्रतीतेर् इत्य् आशङ्क्याह—य इति । आत्मनो दृश्येषु गुणेषु देहादिषु स्व-व्यतिरेकत आत्म-व्यतिरेकेण पृथक् सन्न् अयं देहादिर् इति व्यवस्यते निश्चिनोति यः पुमान् सोऽबुधोऽविद्वान्, व्यतिरेक-दर्शनात् । किं च, मनीषितं विचारितं तद् देहादि सर्वं यतो विनानुवादं वाचारम्भण-मात्रं विना न सम्यग् भवति । अतोऽवस्तुत्वेन त्यक्तं बाधितम् एव वस्तु-बुद्ध्या उपाददत् स्वी-कुर्वन्न् अबुध इत्य् अर्थः ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मीमांसक-मतेन प्रपञ्च-सत्यत्वम् अङ्गीकृत्य पुनर् आशङ्कते नन्व् इति । एतत् पूर्वोक्तं हेतु-चतुष्टयं सर्व-स्वरूपत्वात् सर्वात्मत्वाद् आत्मत्वाद् वस्तुत्वादित्य् एवं रूपाणां हेतूनां चतुष्कम् । अवस्तुत्वेऽपरमार्थत्वे घटेत सङ्गच्छेत । तत् तु अवस्तुत्वं तु । व्यतिरेक-दर्शनात् भेद-दर्शनात् । भेद-दर्शनं त्व् अविचारचार्वित्य् आह—किञ्चेति । सवं जगत् । इत्य् अर्थ इति । असति सद्-बुद्धिकर्ता मूर्ख इति भावः ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव भजनाया न त्वन्य इत्य् आह—य इति । आत्मनः स्वस्य दृश्याः साक्षाद् भवनीया मनोहरा वा गुणा येषां तेष्व् अपि मध्ये स्व-व्यतिरेकतरत्वां विनायं देवः सन् उत्तम इति यो निश्चिनोति, सो\ऽबुधः, यतस् तन् मनीषितं सम्यग् उत्तमं न स्यात् । कुतः ? अनुवादम् अन्यन्य-संवदि विना । यद् वा, नु अहो ! त्व् अनिर्धारार्थम् अन्यो\ऽन्यं वादं विना तत् सत् सङ्गाभावेन तत्त्वानिश्चयाद् एवेत्य् अर्थः । अतः पूर्वैस्त्यक्तं भजनीयान्तरम् उपाददं स्वईकुर्वन् पुमान् बुध एव । किं वा, तन् मनीषितम् अनुवादं विनैवेति-त्यक्तम् उपेक्षितम् उपादद पुमान् सम्यक् समीचीनो न भवति ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वात्मकम् अपि आत्म-भूतम् आत्मनि प्रादुर्भूतं पुत्र-रूपतया दधारेत्य् अर्थः । तेन जीववज् जन्माभावाद् ध्यक्तिर् एव श्री-भगवतो जन्मोच्यते । तथा च श्री-मध्वाचार्य-धृतं तन्त्र-भागवत-वचनम् ।

अहेयम् अनुपादेयं मद्रूपं नित्यम् अव्ययम् ।

स एवोपेक्ष्य रूपस्य व्यक्तिम् एव जनार्दनः ॥

अगृह्नाद् व्यसृजच् चेति कृष्ण-रामादिकां तनुम् ।

पठ्यते भगवान् ईशो मूढ-बुद्धि-व्यपेक्षया ॥

तमसाद्य् उपगूढस्य यत्तमः पानम् ईशितुः ।

एतत् पुरुष-रूपस्य ग्रहणं समुदीर्यते ॥

कृष्ण-मारादि-रूपाणां लोके व्यक्ति-व्यपेक्षया । इति ।

महा-वराह-वचनं च—

सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः ।

हेतोपादेय-रहिता नैव प्रकृतिजाः क्वचित् ॥

परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ॥ इति ।

भगवन्तम् इति शेषः । आनन्दयन्तीत्य् आनन्दाः करा यस्य चन्द्रस्य तम् अमृत-रश्मित्वात् अन्यत्तैः यद् वा न च्युतः एको\ऽप्य् अंशो यस्य तं सर्वांश-परि-पूर्णं भगवन्तम् इत्य् अर्थः । यत एवात्म-भूतं सर्व-मूल-स्वरूपं समाहितं साक्षाद् अर्पितवत्-प्रकाशितं हर्ष-शोक-विर्धनं इति पूर्वं शोको\ऽप्य् उक्तः अधुना च परमानन्द एव जात इत्य् आह, सर्वेषाम् आत्मनां जीवानां कं सुखं यस्मात् तं यद् वा न च योगिनाम् एव तद् धारणे यत्न इत्य् आह, आत्मना भूतं समाहितः सन् यः स्वयम् एवाविर्भूतस् तम् इत्य् अर्थः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : य इति । यदि स्वस्य जीवात्मनो द्रष्टुर् व्यतिरेकेणापि न जगद् उपलभ्यते, तदा किं पुनः सर्व-प्रकाशकस्य परमात्मन इत्य् अर्थः । अनुवादं वेदानुमतिं विनेति तत्र सापि नास्तीत्य् अर्थः । यस्य भासा सर्वम् इदं विभातीत्य् आदि श्रुतेः । यतः स पुमान् वेदैस् त्यक्तम् उपाददत् उपादेयत्वेन स्वीकृतवान् इत्य् अर्थः । दद-धातौ तिङातिङौ भवन्तीति च्छान्दसं परस्मैपदं सृष्ट्य्-आदि-कर्तृत्वेऽपि ततः परत्वम् आह ॥१८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, लेपका अपि प्रकृति-गुणाः केचित् सुखदा भद्रा एव ? इत्य् अत आह— आत्मनः स्वस्य दृश्य-गुणेषु भोग्य-स्रक्-चन्दन-वनितादिषु सन्न् इति उत्तमोऽयं पदार्थ इति व्यवस्यते निश्चिनोति स अबुधः कृतः स्व-व्यतिरेकतः स्वस्मिंस् तेषां सदा संयोगाभावात् । ततश् च शोक-मोहादि-दुःख-प्रदत्वात्, संसार-प्रवाह-प्रापकत्वाच् चेति भावः ।

नन्व् असौ मीमांसको भोग्य-स्रग्-आदिः सन्न् इति वदन् मनीषिणम् एवात्मानं मन्यते ? तत्राह—विनेति । नु निश्चितम् एव वादं विना तन्-मनीषितं न सम्यक् मनीषितम् । तत्र प्रवाद एव, न तु स मनीषीत्य् अर्थः । यतस् त्यक्तम् एव त्वदीय-जनैर् घणास्पदत्वेन यत् तद् एव उप आधिक्येन आददत् स्वीकृतवान् । ह्रस्वत्वम् आर्षम् ॥१८।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : दार्ष्टान्तिके योजयति एवं भवानिति । ननु सर्वगतश्चेदहं तर्हि रूपादीन् गृह्वन्तश्चक्षुरादयो मां कुतो न गृह्वन्ति, तत्राह—बुद्ध्या रूपादिज्ञानेनानुमेयानि लक्षणानि स्वरूपाणि येषां तैर्गुणैरिन्द्रियैः कर्तृभिः ग्राह्यैरूपादिभिः सह सन्नपि स्थितो\ऽपि भवान् तद्गुणाग्रहस्तैर्गुणे रूपादिभिः सह न गृह्यते यथाकाशः सर्वत्र स्थितो\ऽप्ययोगात्वाञ्च्चक्षुरादिभिर्न गृह्यते तद्वत्, तर्हि जगति प्रविष्टस्य मे ततो बहिः सत्त्वं न स्यात्तत्राह—ते बहिरन्तरं नास्ति, कुतः? अनावृतत्वाद्विभुत्वात् बहिरन्तभूतञ्च वस्तुत्वशक्त्या त्वमेवेत्य् आह सर्वस्येति । तर्हि किञ्चिज्जडवपुरहं तत्राह—सर्वात्मन इति सर्वम् अतति व्याप्नोतीति तस्य तदन्तःस्थस्येत्य् अर्थः । तर्हि किमाकाशवत्ताटस्थ्यं तत्राहात्मवस्तुनश्चेतनस्य धीपूर्वकं निखिलं व्याप्नुवत इत्य् अर्थः वक्ष्यति चैवमुपरि न चान्तर्न बहिर्यस्य इत्य्-आदिना तथा च विभोस्तयाचिन्त्यशक्त्या मद्गृहे व्यक्तित्वेन प्रवेश इति महन्मे भाग्यम् ॥१८॥


**॥ १०.३।**१९ ॥

त्वत्तोऽस्य जन्म-स्थिति-संयमान् विभो

वदन्त्य् अनीहाद् अगुणाद् अविक्रियात् ।

त्वयीश्वरे ब्रह्मणि नो विरुध्यते

त्वद्-आश्रयत्वाद् उपचर्यते गुणैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं परमेश्वर-दृश्यस्य तद्-व्यतिरेकेणासत्त्वम् उक्तम्, परमेश्वरोपादानत्वाद् अपि तद् व्यतिरेकेणासत्त्वम् इत्य् आह—त्वत्तोऽस्येति । न चैवं सत्य् अपि विकारित्वम् इत्य् आह—अनीहाद् इति । अगुणत्वाद् अनीहत्वं ततोऽविकारित्वम् इत्य् अर्थः । नन्व् अनीहत्वे कथं कर्तृत्वं, कर्तृत्वे वा कुतोऽविकारित्वं तत्राह—त्वयीश्वर इति । ब्रह्मत्वाद् अविकारित्वम् ईश्वरत्वात् कर्तृत्वम् इति । नन्व् एतद् अपि विरुद्धम् एव नेत्य् आह—त्वद्-आश्रयत्वाद् इति । गुणैः कुर्वद्भिस् त्वयि सृष्ट्य्-आदि-कर्तृत्वम् उपचर्यते गुणाश्रयत्वात् यथा भृत्य-कृत्यं राजनीतिः ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दृश्यस्य द्रष्टारं विहाय निष्पत्तेर् अनुपलम्भाद् उपादेयस्योपादाव्यतिरिक्तत्वाच् चासत्त्वम् अस्तीत्य् आह—एवम् इत्य्-आदिना । एवं सत्य् अपि जन्माद्य् उपादानत्वे सत्य् अपि । विकारित्वं सविकारत्वम् । अत्र हेतुः—अनीहत्वाद् इति । अचेष्ट्वादित्य् अर्थः । ततोऽनीहत्वात् । इत्य् अर्थ इत्थं हेतु-हेतुमद्भाव इति भावः । पुनस् तत्रैवाशङ्कते—नन्व् इति । सम्भवम् आह—त्वयीति । निरुपाधित्वाद् अकर्तृत्वे\ऽपि नियन्तृत्वेन कर्तृत्वं तवास्त्य् एव तर्हि ईश्वरत्वे\ऽपि एतत्-कर्तृत्वं विरुद्धम् एव लोके ईशो राजादिर् न हि कार्यकर्ता दृश्यते किं-तु भृत्यादिरेवात ईशः कर्तेति विरुद्धं तत्राह नेति । त्वयि त्वद् विषये । उपचर्यत आरोप्यते । तदाश्रयत्वाद्-गुणाश्रयत्वात् । यद्य् अपि गुणाश्रयत्वं प्रकृतेर् एव तथापि तस्या अपि त्वच्-छक्ति-रूपत्वेन त्वद् आश्रयत्वात् तदाधारा अपि पारम्पर्येण त्वद् आश्रया एव त इत्य् अर्थः । भृत्यकृतं योद्धृकृतं जयपराजयादि-कर्म ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : त्वत्तो\ऽस्येति । केचिद् वदन्ति त्वत्त एवास्य जगतो जन्म-स्थिति संयमाः, वस्तुतस् तु त्वद् अंशभूतेभ्य एव ब्रह्मादिभ्यः, अतस् ते वदन्त्य् एव, न तु तत्त्वतो जानन्ति । तथापि तेषां त्वद् अंशत्वात् त्वय्य् अपचारः, अतस् त्वयीश्वरे ब्रह्मणि नो विरुध्यते, ईश्वरो ब्रह्म-परं ब्रह्मेति त्वयि ईश्वरे ब्रह्मणि श्री-कृष्णे विरोधाभावस्य हेतुम् आह—त्वद् आश्रयत्वात् तेषां ब्रह्ंआदीनाम् आश्रयस् त्वम् एवेति । अतस् त्वत्तो निरीय्हाद् अपि जगतो\ऽस्य सृष्ट्यादय इति न विरोधः । गुणैः सत्त्वादिभिः सृष्ट्यादि-हेतुभिः ॥१९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु कथम् अहम् एव भजनीयः ? तत्राह—त्वत्त इति । अनीहान् निष्कामाद् अनन्यापेक्षाद् अपीत्य् अर्थः, अगुणान् माया-गुण-सम्बन्ध-रहिताद् अपि, अविक्रियात् क्रोधादि-विकार-रहिताद् अपि, वदन्ति वेदास् तद् विदो वा । विभो हे प्रभो ! सर्व-शक्ति-युक्तेत्य् अर्थः । एवं पूर्वोक्त-प्रकृति-परत्वादिकस्यापि तस्य [परमेश्वरस्य] मायिक-सृष्ट्यादि [आदि-शब्दात् स्थिति-संयमौ] कर्तृत्वं समर्थित्वम् । तत्रानीहत्वादित्रयं यथा-सम्भवं वा प्रकृति-परत्वादि-त्रयाद् उह्यम्, तथानीहत्वादव् अपि सति स्रष्ट्रत्वादि-त्रयं च । ननेवं विरुद्धं स्यात् तथाह—त्वयीति । यथैकस्येवेश्वरत्वं ब्रह्मत्वं च न विरुध्यते—एश्वर्यस्यापि समग्रस्यामायिकत्वेन ब्रह्मात्मकत्वात्, तथेदम् अपीत्य् अर्थः । ननु सत्यं वस्त्व-विरुद्धम् आस्ताम्, सृष्ट्यादिकन्तु मायिकत्वाद्-विरुद्धं स्याद् एव ? तत्राह—त्वद् इति । माया-गुणैः क्रियमाणं सृष्ट्यादिकं त्वय्य् उपचर्यते, माया-गुणाश्रयत्वात्, तत्त्वतः सम्बन्धाभावेन तत् सम्बन्ध-सत्तया वा, न विरुध्यत इत्य् अर्थः । यद् वा एवम् अविरोधाद् एव गुणैर् भगवत्ताच्यैर् उपचर्यते परिचर्यते नित्यं सेव्यते भवान् तद् आश्रयत्वात्, तादृश-गुणानां भवान् एवैक आश्रयः, नान्यः को\ऽपीत्यतो हेतोर् इत्य् अर्थः । एवम् आश्चर्य-स्वरूपत्वाद् भवान् एव भजनीय इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गच्छतीति जगद् इति निरुक्या सर्व-मात्र-वाचकेनापि तच् छबेनात्रानिस्य एव सर्व उच्यते सर्व-शब्दस्य पृथक्-पाठात् ततः सर्व-शब्देन तद् अतीतं सर्वम् इति ततश् च नित्यस्य अनित्यस्य च सर्वस्य निवास आश्रयः, यस्य भाषा इत्य्-आदि श्रुतेर् यद् आश्रयत्वेनैव तत् तत् सर्वं भासते स श्री-कृष्ण इत्य् अर्थः । तस्य च निवास-भूता आश्रयत्वं प्राप्तापीत्य् अर्थः । इति सर्वाल्हादक-शोभा योग्यतोक्ता तादृश्य् अपि नितरां सर्वाह्लादकतया न रेजे किन्तु स्वान्तरङ्गैः श्री-वसुदेवादिभिर् विशिष्टस्य स्वस्यैवाह्लादकतया रेज इत्य् अर्थः । यथा तदृष्यग्नि-शिखा सरस्वती च नितरां सर्वोलासकतया न राजते किन्तु स्वान्तरङ्ग-विशिष्ट-स्वोल्लासकतयैव राजत इत्य् अर्थः । एते हि स्वदीप्त्या स्वयम् उल्लासतः स्वानतरङ्गान् वोल्लासयत इति सरस्वती-पक्षे स्वान्तरङ्गं तन् मन आदिकं अग्नि-शिखेव रुद्धेत्य् अनेन सा प्रबला तद्-गृहम् अपि धक्ष्यतितादृशी सरस्वती च निजाधारं पापेन नाशयिष्यत्य् एवेति भावः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वत्त इति श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.१८] इति न्यायेण सिद्धान्तम् आह—वदन्तीति । विरोधं परिहरति ईश्वरे ब्रह्मणीति चिन्तामण्य्-आदिवद् अचिन्त्य-शक्तित्वेनेति भावः । तत एव त्रैगुण्यं शक्तित्वे ऽपि तद् अस्पर्शम् आह—तद्-आश्रयत्वाद् इति । तथैव पालन-लक्षणान्तर-स्थिति-विसर्ग-लक्षणावान्तरं जन्म दैनन्दिनादि लक्षणावान्तर-संयमा अपीत्य् आह ॥१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रकृति-पुरुषाद्य् एव जगत् कारणम्, तथापि सर्व-कारण-कारणत्वात् त्वम् एव जगत् कर्तेति ये केचिद्-वदन्ति, तद् अपि न विरुद्धम् इत्य् आह त्वत्तो\ऽस्येत्यादि । निरीहात् अन्त-रङ्ग-लीलेहां विना बहिर् अङ्ग-रूपा जगत् कर्तृत्वादि-लीला तव नास्तीति निरीहस् तस्मात्, अतएवागुणात् सत्वादि-गुण-रहितात्, अविक्रियात् विक्रिया विकारः परिणामस् तद्-रहितान् नित्य्-कैशोराद् इत्य् अर्थः । तथापि त्वत्त एवास्य जगतः स्थित्यादय इति यद्-वदन्ति, तत्त्वयि ईश्वरे ब्रह्मणि श्री-कृष्णे न विरुध्यते । कुतः ? तद् आश्रयत्त्वात् । तेषां स्थिति-जन्मादि-कर्तृणां विष्णु-ब्रह्म-रुद्राणाम् आश्रयत्वम् एव । अतो हेतोस् तेषां गुणैर् उपचर्यते, वस्तुतस् तु त्वं निर्गुण एवासि ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, स एव स्व-प्रकृत्येदं सृष्ट्वेत्य्-आदि त्वद्-उक्तेर् गुणमय-प्रकृतेश् च मच्-छक्तित्वेनाभेदात् गुणमय-जगद्-उपादानस्य मम कथम् अन्तर्-बहिर्-गुण-योगाभावः ? तत्राह—त्वत्त इति ।

ननु, जगत् सृष्ट्य्-आदि-कर्तुः कुतो\ऽनीहत्वादि सम्भवेत् ? तत्राह—त्वयि ईश्वरे ब्रह्मणि न विरुध्यते त्वयि ब्रह्मत्वान्यथानुपपत्त्या एव ईश्वरत्वे\ऽप्य् अनीहत्वादिकम् अभ्युपगम्यम् एव स्वरूप-द्वयाभावात् [भा।पु। ६.९.३६]1 इति षष्ठोक्तेर् इत्य् अर्थः ।

नन्व् एतेन विरोधो नापयातीत्यत आह तद् आश्रयत्वाद् इति । गुणैः कुर्वद्भिस् त्वयि सृष्ट्यादि-कर्तृत्वम् उपचर्यते गुणाश्रयत्वात् यथा भृत्य-कृतं राजनीत्यतः प्रकृतेस् त्वच् छक्तित्वे\ऽपि बहिर् अङ्गत्वेन त्वत् स्वरूपत्वाभावाद् अन्तर् बहिस् तव तद्-गुण-योगाभाव उपपादितः ।

यद् वा, ननु, त्वत्-पुत्रस्य चतुर्भूजस्य मम कथं ब्रह्मत्वं ? कथं वेश्वरत्वं सम्भवेत् ? इति चेत्, सत्यं, त्वं न ब्रह्म नापीश्वरः किन्तु ब्रह्मणो हि प्रतिष्ठाहम् इति त्वद् उक्तेर् आद्यो\ऽवतारः पुरुष परस्य इति ब्रह्मोक्तेश् च तयोर् आश्रयस् त्वं भवसीत्य् आह—तद् आश्रत्वात् तयोर् ब्रह्मेश्वरयोर्प्य् आश्रयत्वाद्-गुणैर् उपचर्यते इति स्रष्टृत्वादि-गुण-निवन्धनोपचाराद् आश्रित-धर्मम् आश्रयो\ऽपि धत्त इति पुण्यतमो\ऽयं देश इति-वत्त्वम् अपि ब्रह्म ईश्वरश् च भवसीत्य् अर्थः

उक्तिर् इयं रस-रीत्यैव यद् उक्तं रसेनोत्कृष्यते कृष्ण-रूपम् एषा रस-स्थितिः इति वस्तुतस् तु ब्रह्म ईश्वरः कृष्ण एक एव स्वरूप-द्वयाभावात् [भा।पु। ६.९.३६] इति षष्ठोक्तेः ॥१९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उक्त-जगत्-कर्तॄणां दर्शयति—त्वत्तोऽस्येति, अस्य विश्वस्य वदन्ति यतो वा इमानीत्य्-आद्याः श्रुतयः । ननु वर्धकेर् इव कार्यम् ईहमानस्य हर्ष-विषादादिर् विकारश् च श्रम-चिन्तादिः स्यात्, तत्राह—अनीहाद् इत्य्-आदि । सङ्कल्पेनैव करणान् न वर्धकिवद् ईहा ततो न श्रमादिर् विकारः माया-गुण-शून्यत्वाच् च न हर्ष-विषाद-मोहा इत्य् अर्थः । नन्व् अनीहोऽरिकृतः करोति सर्वम् इति कथं सम्भवेत् ? तत्राह ईश्वरे माया-कालयोर् नियन्तरि ब्रह्मणि सत्य-सङ्कल्पादि बृहद्-गुणके त्वयि तन् न विरुध्यते । ननु क्वचिद् गुणाः कर्तारः कथ्यन्ते ? तत्राह—तवैक-कर्तृत्वं गुणैः करणैर् उपचर्यते कर्तारम् ईशम् इति श्रुतेर् गुणेषु तद् भक्तिम् इत्य् अर्थः । एवं कुतः ? तत्राह—तद्-आश्रयत्वाद् इति । त्वद्-ईक्षया तेषु चैतन्यागमाद् इत्य् अर्थः । अयः-पिण्डस्य दग्धत्वं वह्नेर् एव तत् संयोग-हेतुकत्वात् । तथा च जगत्-कर्ता त्वं जगतोऽन्य उपास्य इति ॥१९॥


॥ १०.३.२० ॥

स त्वं2 त्रि-लोक-स्थितये स्व-मायया

बिभर्षि शुक्लं खलु वर्णम् आत्मनः ।

सर्गाय रक्तं रजसोपबृंहितं

कृष्णं च वर्णं तमसा जनात्यये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूतस्यैव तव यथा विश्व-स्थिति-सर्ग-प्रलयार्थं त्रि-वर्णा गुणावताराः, एवम् अयं भू-भारापनयनार्थम् इति ज्ञातम् इत्य् आह—स त्वम् इति श्लोक-द्वयेन ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं-भूतस्यैव निर्विकारस्यैव त्रयः शुक्ल-रक्त-कृष्णा वर्णा येषां ते त्रिवर्णाः गुणैर् अवतीर्यत इति गुणावतारा ब्रह्म-विष्णु-रुद्राख्याः । एवम् अयं तथैवाधुना मद्-दृग्-गोचरो यस् तेऽवतारः । अपनयनम् अपाकरणम् ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपचर्यत इति यद् उक्तं तद् एव प्रपञ्चयति—स त्वम् इत्य्-आदि । स त्वम् अनीहत्वादि-विशिष्टः । अथवा, सत्त्वं सत्त्व-गुण-मयं शुक्ल-वर्णं, रजो-मयं रक्तं च वर्णं, एवं तमो-मयं कृष्ण-वर्णं खलु बिभर्षि, न बिभर्षि खलु शब्दोऽयम् अव्ययो निषेधार्थः । अलं-खल्वोर् इति अलं कृत्वा, खलु कृत्वा । अलं भूषण-पर्याप्ति-शक्ति-वारण-वाचकम् इत्य् अमरः । तं तं वर्णं त्वद्-अंशा एव बिभ्रति, त्वं त्वरिकृत एव । मद्-गृहे यत् त्वम् अवतीर्णोऽसि, स तु त्वम् एव स्व-स्वरूपः, न तु जनात्ययाधिकरणक-कृष्ण-वर्ण-धारी, अत एव प्रथमत एव पयोद-सौभगं [भा।पु। १०.३.९] इत्य् एव उक्तम्, न तु कृष्ण-वर्णम् । स तु कालाग्नि-रुद्रः, ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण-पिङ्गलं [महा-नारायणोपनिषद् १०.१०] इति । उक्तं चात्रैव—ततः कालाग्नि-रुद्रात्मा यत्-सृष्टम् इदम् आत्मनः । सन्नियच्छति तत् काले [भा।पु। २.१०.४३] इत्य्-आदि ॥२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु कथं मत्तोऽस्य सर्वं सृष्ट्य्-आदिकं ब्रह्मादीनाम् अपि सर्गादि-कर्तृत्वाद् अत आह—सत्त्वम् इति । सत्त्व-गुणाधिष्ठातृत्वेनाभेदाद् उक्तम् । यद् वा, स उक्ताविरोध-प्रकारकः सृष्ट्य्-आदि-कारको वा त्वं प्रायः शुक्लं शुक्ल-वर्णं रूपं श्री-यज्ञादि-मन्वन्तरावतारैः स्व-मायया निज-कृपया यद्यपि भवान् एव स्वयं पालकः, अत एवात्र प्रथमं स्थितय इत्य् उक्तम्, तथाप्य् अवतारावतारित्व-भेदापेक्षया स ततो भिन्नतयोक्तः । कृष्णं नील-लोहितं जनात्यये जगत्-संहारे निमित्ते । एवं ब्रह्मादयोऽपि तवैव गुणावतारा इति त्वत्त एव सृष्ट्य्-आदिकम् इत्य् अर्थः ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु कथं मत्तोऽस्य सर्वं सृष्ट्य्-आदिकं ब्रह्मादीनाम् अपि सर्गादि-कर्तृकत्वाद् इत्य् अत आह—स त्वम् इति । स उक्त-विरोध-प्रकारेण सृष्ट्य्-आदि-कारकस् त्वं शुक्लं स्वतो माया-गुण-राह्तियात् सांनिध्येनापि सत्त्व-मात्रोपकारकत्वाच् च शुद्धम् इत्य् अर्थः । तादृशम् आत्मनः स्वस्यैव वर्णं रूपं श्री-विष्णुः सन् बिभर्षि जगति धारयसि प्रकटयसीत्य् अर्थः । तत्र हेतुः—स्व-मायया निज-कृपया तथा रक्तं रजो-मयत्वेन सिसृक्षादि-राग-बहुलं ब्रह्मात्मा सन् बिभर्षि पुष्णासि, तथा तमो-मयत्वेन कृष्णं क्रोधादि-प्रायतया नाभिव्यञ्जित-स्वरूप-प्रकाशम् इत्य् अर्थः । तत् तु रुद्रात्मा सन् बिभर्षीति । अत्र चाक्षुषे गुणे न तात्पर्यं परम-तामसानां बकादीनाम् अपि शुक्ल-वर्णत्वात् परम-सात्त्विकानां श्री-व्यास-शुकादीनाम् अपि श्याम-वर्णत्वात् शुक्लादि-शब्दास् तु ब्राह्मणादि-जातिष्व् अपि प्रयुज्यन्ते ।

किं च, क्षीरोद-शाय्य् एव गुणावतारो विष्णुर् इति पूर्वं प्रतिपादितम् । स च तत्र तत्र श्याम-वर्णत्वेनैव प्रसिद्धः । रुद्रश् च शुक्लः, तथा तयोर् नानावतारा नाना-वर्णा अपि यथा त्वं पालन-संहार-परा एव । अतो ब्रह्मणो रक्त-वर्णत्वेऽपि न तत्र तात्पर्यं श्री-विष्णोस् तु निर्गुण-रूपत्वम् एव नान्यवत् स-गुणत्वं वक्ष्यते च त्रिदेवी-परीक्षायां—

हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।

शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः ॥ [भा।पु। १०.८८.५] इति ।

अत एवात्रापि रजसेत्य्-आदिवत् सत्त्वेनेति नोत्कम् । तैर् अपि तत्-तद्-गुण-क्रिया-व्यत्ययेन व्याख्यास्यन्ते रक्षितुम् इच्छुर् अवतीर्णोऽसि । कृष्णेन वर्णेनेति । अत इत्य्-आदौ च प्रत्युत तामसानां हननम् एव वक्ष्यते । अन्यथा तदीय-स्व-व्याख्या-सहस्रेणापि विरोधः स्याद् इति सर्वदा सच्-चिद्-आनन्द-घन-स्वरूपम् एव तद्-रूपम् इति ॥२०॥


जीव-गोस्वामी (भगवत्-सन्दर्भः ३५) : अत्र ह्य् अयम् अर्थः—स प्रपञ्चस्य सृष्टि-स्थिति-प्रलय-कर्ता त्वं त्रिलोक-स्थितये यदा तस्य स्थितम् इच्छसि, तदा स्व-मायया स्वाश्रितया माया-शक्त्या कृत्वा आत्मनः शुक्लं वर्णं स्वेन सृष्टां धर्म-परां विप्रादि-जातिं बिभर्षि पालयसि । अत्र सत्त्व-मय्य् एव स्व-माया ज्ञेया निष्कृष्टत्वाद् उपयुक्तत्वाच् च ।

अथ यदा सर्गम् इच्छसि, तदा रजसा रजो-मय्या स्व-मायया कृत्वा उपबृंहितंरक्तं कामिनं विप्रादि-वर्णं बिभर्षि । यदा च जनात्ययम् इच्छसि, तदा तमो-मय्या कृत्वा कृष्णं मलिनं पाप-रतं तं बिभर्षि । अथवा यदा स्थितिम् इच्छसि, तदात्मनः श्री-विष्णु-रूपस्य शुक्लं शुद्धं गुण-सङ्कर-रहितम् इत्य् अर्थः । शिव-ब्रह्म-वत् तस्य तत्-सङ्गाभावात् ।

तथैव सिद्धान्तितं श्री-शुकदेवेन—शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः [भा।पु। १०.८८.३] इत्य्-आदौ, हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः [भा।पु। १०.८८.५] इत्य्-आदि । अत एव—

चन्द्रिका-विशद-स्मेरैः

सारुणापाङ्ग-वीक्षितैः ।

स्वकार्थानाम् इव रजः-

सत्त्वाभ्यां स्रष्ंऋ-पालकाः ॥ [भा।पु। १०.१३.५०] इति ।

अत्र सात्त्विकत्व-राजसत्वे उत्प्रेक्षिते एव, न तु वस्तुतया निरूपिते । वर्णं रूपं, न तु कान्ति-मात्रम् । गुण-मयत्व-स्वीकारेऽपि तत् तद् गुण-व्यञ्जकाकारस्याप्य् अपेक्ष्यत्वात् न तु श्वेतं वर्णम् इति व्याख्येयम् । श्री-विष्णु-रूपस्य पालनार्थं गुणावतारस्य परमात्म-सन्दर्भे क्षीरोद-शायित्वेन स्थापयिष्यमाणस्य तत्र श्यामत्वेनाति-प्रसिद्धेर् जनात्यय-हेतो रुद्रस्य श्वेतताति-प्रसिद्ध्या तद्-वैपरीत्य-पातात् ।

तथैव हि गोभिलोक्त-सन्ध्योपासना । अतोऽत्र ब्रह्मणो न शोण-वर्णत्वे तात्पर्यम् । न च तत्-तद्-गुणानां तत्-तद्-वर्ण-नियमः, परम-तामसानां बकादीनां शुक्लत्व-दर्शनात्, सात्त्विक-गुणोपास्यानां श्री-बादरायण-शुकादीनां श्यामत्व-श्रवणाच् च । स्व-मायया भक्तेषु कृपया, माया दम्भे कृपायां च इति विश्व-प्रकाशात्, बिभर्षि जगति धारयसि प्रकटयसीत्य् अर्थः । रक्तं रजोमयत्वेन सिसृक्सादि-राग-बहुलम् । कृष्णं तमोमयत्वेन स्वरूप-प्रकाश-रहितम् इत्य् अर्थः ।

पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः ।

तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [१.२.२४] इत्य् उक्तेः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स त्वं स तथा-भूत एव त्वम् अत्र लोकेषु त्वद्-भक्ता एव मुख्या इति मुख्यं तत्-पालनम् एव प्रयोजनम् इति भावः । तद् एवाह—स्व-मायया स्वेषु भक्तेषु कृपया भक्त-कृपाऽत्र प्रवर्तिका पूर्ववद् अचिन्त्य-शक्तिस् तु दुर्घट-घटनीति ज्ञेयम् । शुद्धत्वेन श्यामोऽपि शुक्लत्वेनोक्तम् उत्तरत्र रजसेत्य्-आदिवत् । सत्त्वेन त्यक्तत्वात् न ततस् तद्-वर्णः, किन्तु तद्-अधिष्ठानक एवेत्य् अर्थः । आत्मनः श्री-विष्णु-रूपस्य तथैवाधुनापीत्य् उपसंहरति ॥२०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपचर्यत इति यद् उक्तं, तद् एव प्रपञ्चयति—स त्वम् इत्य्-आदि । स त्वम् अनीहत्वादि-पूर्वोक्त-विशेषत्वस् त्वं त्रिलोक-स्थितये शुक्ल-वर्णंविष्णु-रूपं बिभर्षि । अथवा सत्त्वं सत्त्व-गुण-मय-शुक्ल-रूपं बिभर्षि । एवं रजसा रक्त-वर्णं ब्रह्म-रूपेण, तमसा कृष्ण-पिङ्गलं वर्णं रुद्र-रूपेण, ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण-पिङ्गलं [नृ।पु। १.६] इति रोद्रोपस्थाने तद्-रूपोक्तेः । उक्तं च—

ततः कालाग्नि-रुद्रात्मा यत्-सृष्टम् इदम् आत्मनः ।

सन्नियच्छति तत् कालः [भा।पु। २.१०.४३] इत्य्-आदि ।

बिभर्षीत्य् अविकारः, त्वं भवसीत्य् अनुक्तेः, बिभर्तेर् धारणार्थत्वाद् अविकारस्य वेशान्तर-धारणवत् । अथवा, खलु-शब्दः प्रतिषेधार्थः, त्वं खलु बिभर्षि ? मा बिभर्षीत्य् अर्थः । निषेध-वाक्याऽलङ्कार-जिज्ञासाऽनुनये खलु इत्य् अमरः । तं तं वर्णं त्वद्-अंशा एव बिभ्रति, त्वं तु अविकृत एव ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ब्रह्मादिभ्योऽस्य सृष्ट्य्-आदि-प्रसिद्धं कथं त्वत्त इति ब्रूषे ? सत्यं ब्रह्मादयोऽपि तवैव रूपाणीत्य् आहुः, स प्रसिद्धस् त्वम् एव स्व-मायया स्वरूपेणैव शुद्धम् इत्य् अर्थः । जगत्-पालकस्य विष्णोः श्याम-वर्णत्वात् । जनात्यये जन-संहारायेत्य् अर्थः । अत्र रजसोपबृंहितं रक्तम् इतिवत् तमसोपबृंहितं कृष्णम् इतिवत् सत्त्वेनोपबृंहितं शुक्लम् इत्य् अनुक्तेर् ब्रह्म-रुद्रयो रजस्-तमोभ्यां योग इव विष्णोर् न सत्त्वेन योगः, सत्त्वस्यावरण-विक्षेपाभावाद् औदासीन्य-रूपत्वेन शुद्ध-सत्त्वे परमेश्वरे सान्निद्ध्य-मात्रं, न तु स्पर्शः । अत एवोक्तं त्रिदेवी-परीक्षायां—हरिर् हि निर्गुणः साक्षात् [भा।पु। १०.८८.५] इति । सत्त्वादयो न सन्तीशे इति, साक्षी चेताः केवलो निर्गुणश् च इति श्रुतिश् च ॥२०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सङ्कर्षण-रूपेणैतद् अण्डं निर्माय तद् गर्भोदे प्रद्युम्न-रूपेण शयानो विष्ण्व्-आदिभिर् अवतारैः सदैव जगत्-कार्याणि करोषीत्य् आह—स त्वम् इति । स प्रसिद्धस् त्वं स्वया मायया पराख्यया शक्त्या शुक्लं शुद्धम् इत्य् अर्थः । जगत्-पालकस्य विष्णोर् अतसी-कुसुम-प्रभत्वाद् इति भावः । रक्तं कृष्णं चेति न ब्रह्म-रुद्रयो रूपे तयोः कनक-चन्द्र-प्रभत्वात् तस्मात् ते-शब्दात् तत्-तद्-गुण-धर्मेषु लाक्षणिका रजसोपबृंहितम् इत्य्-आदिवत् । सत्त्वेनोपबृंहितम् इत्य् अनुक्तेर् विष्णोर् दूरत एव सत्त्व-प्रवर्तकत्वं ब्रह्माद्योस् तु रजादिभ्याम् आवरणम् इत्य् उक्तम् ॥२०॥


॥ १०.३.२१ ॥

त्वम् अस्य लोकस्य विभो रिरक्षिषुर्

गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।

राजन्य-संज्ञासुर-कोटि-यूथपैर्

निर्व्यूह्यमाना निहनिष्यसे चमूः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रिरक्षिषू रक्षितुम् इच्छुर् अवतीर्णोऽसि कृष्णेन वर्णेन । अतः साधूनां रक्षणार्थं राजन्य-संज्ञा येऽसुर-कोटि-यूथपास् तैर् निर्व्यूह्यमाना इतस् ततश् चाल्यमानाश् चमुः सेना निहनिष्यसे संहरिष्यसि ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतोऽवतीर्णोऽसि, अतो हेतोः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : त्वम् अस्येति । प्रत्युत त्वम् अस्य जगतः रिरक्षिषुः । अतोऽखिलेश्वरेति सम्यक् सम्बोधनम् । अत एव विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः [भा।पु। १०.३.१३] इति पूर्ववत् व्याख्या ॥२१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना च लोक-हितार्थं स्वयम् एव त्वं मत्-पुत्रतां प्राप्तोऽसीत्य् अहो मद्-भाग्यम् इत्य् आह—त्वम् इति । अस्य विविध-दुःख-सागर-निमग्नस्य सर्व-लोकस्य ततो रक्षितुम् इच्छुः । किं वा, अस्य यादवादि-निज-भक्त-लोकस्य भक्ति-विघ्नतो रक्षार्थं मम गृहे मत्-सम्बन्ध-मात्र-युक्ते कारागारेऽप्य् अवतीर्णोऽसि । विभो ! हे अपरिच्छिन्नेति अखिलेश्वर ! हे जगदीशेति चावतारणासम्भवं बोधयति, तथाप्य् अवतीर्ण इत्य् अहो परम-कारुण्यादि-महिमेति भावः । निःशेषेण विशेषेण चोह्यमानाः । दीर्घ-पाठे निःशेषेण व्यूहः कार्यमाणा इत्य् अर्थः । अत्रार्षो दीर्घः । नितरां हनिष्यसे भू-भारहरणार्थम् अपुनर्-आवृत्ति-मोक्ष-दाने संहरिष्यसीति प्रार्था-पाटवम् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना च लोक-हितार्थं स्वयम् एव त्वं मत्-पुत्रतां प्राप्तोऽसि । अहो लोक-भाग्यं किम् उत मद्-भाग्यम् इत्य् आह—त्वम् इति । अस्य विविध-दुःख-सागर-निमग्नस्य यादवादि-भक्त-जन-प्रधानस्य सर्व-लोकस्य रिरक्षिषुः सुपां सुपो भवन्तीति द्वितीयायाः षष्ठी तं रक्षितुम् इत्य् अर्थः ।

हे विभो ! अखिलेश्वर ! इति अवतारासम्भवं द्योतयति, तथाप्य् अवतीर्णोऽसि । तत्रापि मम गृहे मत्-सम्बन्ध-मात्र-युक्ते कारा-गृहेऽपि । अहो परम-कारुण्यादि-महिमेति भावः । तस्मात् क्षत्रिय-च्छद्मासुर-चक्र वर्ति-वृन्दैर् निःशेषेण विशेषेण चोह्यमानाश् चाल्यमानायाश् चम्वस् ताः पुनर्-आवृत्त्य्-अभावेन नितरां हनिष्यस एव । तद् अग्रतस् तासां हननेन तेषां हननस्यापि सुष्ठु-प्राप्तेस् तत्-सहित-हननम् एव विवक्षितम् । यद् वा, निर्व्यूहमाणा निर्व्यूढाः सिद्धा इत्य् अर्थः । दीर्घ-पाठस् तु तेषाम् असम्मतः, निःशेषेण व्यूहं कार्यमाण-व्यूहत्वेन रच्यमाना इत्य् अर्थः ॥२१॥


जीव-गोस्वामी (भगवत्-सन्दर्भः ३५) : ननु, कथम् अन्यार्थेन वाक्येन लोक-भ्रामकं वर्णयसि, यतः सम्प्रति जनात्ययार्थं कृष्णोऽयं वर्णो मया तमसा गृहीत इत्य् अर्थोऽप्य् आयाति ? तद् एतद् आशङ्क्य परिहरन्न् आह—त्वम् अस्य इति। निर्व्यूह्यमाना इतस् ततश् चाल्यमानाः ।

अयं भावः—आस्तां तावद् ब्रह्म-घनत्व-शुद्ध-सत्त्व-मयत्व-बोधकं प्रमाणान्तरं, गुणानुरूप-रूपाङ्गीकारेऽपि यथा प्रलयस्य दुःख-मात्र-हेतुत्वात् सुषुप्ति-रूपत्वाच् च तत्र तद्-अर्थावसरो भवति, तथास्य तु कालस्य त्वत्-कृत-रक्षया जगत्-सुख-हेतुत्वात् तमोमयासुर-विनाश-योग्यत्वात् तेषाम् असुराणाम् अपि हनन-व्याजेन सर्व-गुणातीत-मोक्षात्मक-प्रसाद-लाभात् तद्-अर्थावसरो न भवति, सैन्धवम् आनयेतिवत् । तथैवोक्तम्—

जय-काले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् ।

तमसो यक्ष-रक्षांसि तत्-कालानुगुणोऽभजत् ॥ [भा।पु। ७.१.८] इति ।

तस्मान् न तमः-कृतोऽयं वर्ण इति रजः-सत्त्वाभ्यां रक्त-शुक्लाव् एव भवत इति पूर्व-पक्षि-मतम् । ततश् च पारिशेष्य-प्रमाणेन स्वरूप-शक्ति-व्यञ्जितत्वम् एवात्रापि पर्यवस्यतीति भावः । तथैव तम् एवार्थं श्री-देवकी-देव्य् अपि सम्भ्रमेण प्राग् एव विवृतवती—रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यां [भा।पु। १०.३.२४] इति ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वम् अस्येति मम त्वद्-एक-कामत्वात् कारागृह-रूपेऽपि गृहे दारेषु वा विभो सर्वत्र सर्वांशेन स्थितः, हे अखिलेश्वर! सर्वेषां काय-मनो-वाग्-अतीताचिन्त्यानन्त-शक्ते! ततो भक्त-कृपा-प्रवर्तितया अचिन्त्य-शक्त्या तवावयोः प्रवेशोऽपि घटते भवद्-अङ्गीकृतः पुत्र-भावोऽपीति भावः । न विद्यते इत्य् अस्य रूप-व्याख्यायाम् अपि सत्त्वम् इत्य्-आदि द्वयम् ॥२१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं-विधः सर्व-कारण-कारणम् अनीहोऽविकृतस् त्वं मम गृहेऽवतीर्णोऽसीत्य् अहो मे सौभाग्यम् इत्य् आह—त्वम् अस्य लोकस्येत्य्-आदि । हे विभो ! त्वं मम गृहेऽवतीर्णोऽसि, किं चिकीर्षुः ? अस्य लोकस्य रिरक्षिषुर् इति । कृष्णं च वर्णं तमसा जनात्यये [भा।पु। १०.३.२०] इति यद् उक्तं, तस्यान्यथा-प्रतीतौ विरुद्धम् अतिकृद्-दोष-निरासः । रिरक्षिषुत्वं प्रकटयति—हे अखिलेश्वर ! राजन्य-संज्ञासुर-कोटि-यूथपैर् निर्व्यूह्यमाना चमूर् निहनिष्यसे, निःशेषेण हनिष्यसि, हनन-द्वारा अपुनर्-भवं तेभ्यो दास्यसि, यथा पुनर् उत्पद्य लोक-पीडां न कुर्वन्ति । तत् तु त्वत्त एव भवति, नांश-द्वारा, यतस् त्वम् अखिलेश्वरः । विष्णुना हतस्यापि कालनेमेः पुनः कंसत्वेनोत्पत्तेः, इति नेर् उपसर्गस्य ध्वनिः ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भोस् तात ! सत्यं त्वयाहं विदित-तत्त्व एवास्मि । त्वद्-गृहे किम्-अर्थम् अवातरम् इत्य् अपि जानासि चेद् ब्रूहीत्य् अत आह—त्वम् इति । अस्य लोकस्य इमं लोकम्, अतः साधूनां रक्षणार्थं राजन्य-संज्ञा येऽसुर-कोटि-यूथपास् तैः निर्व्यूह्यमानाः इतस् ततश् चाल्यमानाश् चमूः सेनाः ॥२१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, पितः ! त्वं विज्ञात-तत्त्वोऽसि । अधुना त्वद्-गेहे मत्-प्राकट्यस्य प्रयोजनं ब्रूहीति चेत्, तत्राह त्वम् इति । अस्य लोकस्येमं लोकं राजन्य-संज्ञैर् असुर-कोटि-यूथपैर् निर्व्यूह्यमाना इतस् ततश् चाल्यमानाश् चमूः सेनाः सद्-रक्षणाय निहनिष्यसि ॥२१॥


॥ १०.३.२२ ॥

अयं त्व् असभ्यस् तव जन्म नौ गृहे

श्रुत्वाग्रजांस् ते न्यवधीत् सुरेश्वर ।

स तेऽवतारं पुरुषैः समर्पितं

श्रुत्वाधुनैवाभिसरत्य् उदायुधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किन्तु तथाप्य् अप्रमत्तेन त्वया भाव्यम् इत्य् आह—अयं त्व् इति । असभ्यः खलः । समर्पितं कथितम् । अभिसरत्य् आगमिष्यति ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्य् अपि खल-प्रहाणयेऽवतीर्णोसि तथाप्य् अन्यच् छृण्वित्य् आह—किं त्व् इति । अप्रमत्तेन सावधानेन भाव्यं भवितव्यम् । अयं कंसः । कंसस्य बाल-हननादि दुश्चरितं पश्यद्भिर् अपि सुरैर् न किञ्चित् तद्-दमनं कृतमतस् त्वां प्रार्थयामीति सुरेश्वर-संबुद्ध्यभिप्रायः । अभिसरति अभिमुखम् एवागत-प्रायं तं पश्यामीत्य् अतोऽधुनैवेदं रूपम् उपसंहर समागते तु तस्मिन्न् उपसञ्जिहीर्षतः पूवं किं भविष्यतीति । उदायुध उद्धृतायुध इति । मे महान् मप्म इति भावः ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अखिल-लोक-हितार्थम् अत्रैवान्तिके साक्षाद् अवतीर्णस्यापि तव माहात्म्यम् अभक्तः कदाचिद् अपि बोद्धुं न प्रभवेद् इत्य् आह—अयम् इति । पूर्वम् अभ्यहनत् शिलायां मुहुः प्रक्षिप्य पिष्ट्वा मारयामासः, अधुनाप्य् उद्यतायुध एव सन्नभिसरिष्यति, वेगेन धावन्न् अभिमुखम् एष्यतीत्य् अर्थः । हे सुरेश्वरेति—तच् च त्वद् भक्त-देव-वैरिणाम् असुराणां युक्तम् एव, अन्यथावधानापत्तेर् इति भावः ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ वृत्तम् अपि निवेदयन् तथाप्य् अयं तु शीघ्रम् एव प्रतिकार्य इत्य् अभिप्रैति—अयं त्व् इति । अथेति आनन्तर्ये योग-निद्रया तावद् बाह्येन्द्रियावरणात् अन्तरैवम् अन्तः किञ्चिज् जातम् इति भानात् ॥२२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं-विधः सर्व-कारण-कारणम् अनीहोऽविकृतस् त्वं मम गृहेऽवतीर्णोऽसीत्य् अहो मे सौभाग्यम् इत्य् आह—त्वम् अस्य लोकस्येत्य्-आदि । हे विभो ! त्वं मम गृहेऽवतीर्णोऽसि, किं चिकीर्षुः ? अस्य लोकस्य रिरक्षिषुर् इति । कृष्णं च वर्णं तमसा जनात्यये [भा।पु। १०.३.२०] इति यद् उक्तं, तस्यान्यथा-प्रतीतौ विरुद्धम् अतिकृद्-दोष-निरासः । रिरक्षिषुत्वं प्रकटयति—हे अखिलेश्वर ! राजन्य-संज्ञासुर-कोटि-यूथपैर् निर्व्यूह्यमाना चमूर् निहनिष्यसे, निःशेषेण हनिष्यसि, हनन-द्वारा अपुनर्-भवं तेभ्यो दास्यसि, यथा पुनर् उत्पद्य लोक-पीडां न कुर्वन्ति । तत् तु त्वत्त एव भवति, नांश-द्वारा, यतस् त्वम् अखिलेश्वरः । विष्णुना हतस्यापि कालनेमेः पुनः कंसत्वेनोत्पत्तेः, इति नेर् उपसर्गस्य ध्वनिः ॥२२-२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ममैतत् अलौकिक-रूप-माधुर्यास्वाद-निमग्नो मां न प्रहरिष्यति प्रत्युत प्रीणयिष्यतीति तत्राह—असभ्यः रसास्वाद-हेतुर् हि सभ्यत्वम् एवेति भावः । हिंसायां कैमुत्यम् अह—तवेत्य् आदि । समर्पितं कथितम् अभिमुखम् एव सरतीति तमागत-प्रायम् अहं पश्यामीत्यतो\ऽधुनैव रूपम् इदम् उपसंहर तस्मिन्न् आगते तूपसञ्जिहीर्षातः पूर्वं किं भविष्यतीति मे महाकम्प इति भावः ॥२२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ज्ञात-पुत्रैश्वर्यो\ऽपि वात्सल्योदयात् तत्-स्वभावात् कंसाद् बिभ्यद् आह अयम् इति— असभ्यः खलः तव जन्म नौ गृहे नारदात् श्रुत्वा ते\ऽग्रजान् न्यवधीत् स खलस् ते\ऽवतार पुरुषैर् द्वार-पालैः समर्पित निवेदितं श्रुत्वाभिसरत्य् आयाति वर्तमान-सामिप्ये वर्तमानयत् यद्यपि युधि कार्तवीर्य-सम्मोहस् तं निहन्तुं समर्थस् तथापि तन्-मुक्तेर् आसन्नत्वात् तस्याश् च स्वदेक-साध्यत्वान् नाहं तम् अहतं यावत् तद्-अवसरो न स्यात् तावत् समाधानं रच्यताम् इति भावः ॥२३॥


॥ १०.३.२३ ॥

श्री-शुक उवाच—

अथैनम् आत्मजं वीक्ष्य महा-पुरुष-लक्षणम् ।

देवकी तम् उपाधावत् कंसाद् भीता3 सुविस्मिता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपाधावद् अस्तौत् ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : []{।मर्क्}


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ श्री-वसुदेवस् तवानन्तरम् एनम् ईदृशम् अष्टमं वात्मजं निजोदरात् प्रसूतिर् ईत्या जातं यद्य् अपि जीववद्-गर्भे प्रवेशो जन्मनैव घटते, तथापि स्नेह-विशेषार्थं श्री-भागवतैव तादृशत्वं-प्रदर्शनात् तस्यास् तादृग् अभिमानः सम्भवत्य् एव । अतएव मम गर्भजो\ऽभूद् इत्याद्य् उक्तिः । एवम् एव लौकिकवत् प्रसवानुकरणात् प्रसूति-समये प्रसुप्ताया मातुः प्राग् आत्मज-दर्शनासम्भवाद् अथेत्य् उक्तम् । यद् वा, श्री-भगवत् तेजोत्पन्न-साध्वसात् प्राग्-द्रष्टुम् अक्षमायाः पश्चात् प्रतिस् तुल्यनन्तरम् आश्वस्तायास् तद् द्र्शनम् इति महा-पुरुषः श्री-नारायणस् तस्येव चतुर्भुजत्वादिना लक्षणं यस्य तं वीक्ष्य साक्षाद् दृष्ट्वा सुविस्मिता सती कंसाद् भीतापि तमात्मजम् एव हर्षणास्तौत् । यद् वा, तादृशं वीक्ष्यापि स्नेहोद्रेकेण कंसाद् भीता । शृइ-भगवज् जन्मना च सुविस्मिता । तम् एनम् इति वान्वयः । चिरम् अपेक्षितं दिव्य-रूपेणाविर्भूतम् इत्य् अर्थः ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ श्री-वसुदेवस् तवान्तरं तमेनम् इत्य् अन्वयः । तं चिरम् अपेक्षितम् एवं दिव्य-रूपेणाविर्भूतम् इत्य् अर्थः । आत्मजं निरोदराद् एव जातत्वेन भातं तादृश-भानोत्पादनं च ममता विशेष-जननार्थम् अत एव मम गर्भजो\ऽभूद् इत्य् आद्य् उक्तिः किन्तु प्र्सूतिर् ईत्य् अनुकरणात् तद् गोपनाय पूर्वं योग-निद्रया वा भगवत् तेजसा व व्याह्येन्द्रियावरणम् अपि कृतम् अत एवात्मेत्य् उक्तं महा-पुरुषः स्वयम् भगवान् प्राबल्यं दर्शयति ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथेत्य् उक्तम् आत्मजम् इति च तद्-भावनं च ममता-विशेष-जननाय जीवद्-गर्भ-निष्क्रमणस्य सर्वांशानङ्गीकारात् तत्-सङ्गोपनाय ज्ञेयम् ॥२३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : []{।मर्क्}


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ पत्युर्-भयं दृष्ट्वा उप समीपं भीतेति स्वरूपम् अनुपसंहरन्तं स्मयमानं तम् आलक्ष्य परमेश्वरत्वाहङ्कारेण कंस-भयं न गणयति, तद् अहं हन्त किङ्करोमीत्य् अतिविह्वलेत्य् अर्थः । सुविस्मितेत्य् अस्य परमेश्वरस्याग्रे कंसः खलु को वराकस् तद् अप्य् आवयोर् भयं वर्धत एवेति को\ऽयम् अविवेको दुस्तर इति भावः ॥२३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उपाधावत् तुष्टाव वात्सल्योदयात् कंसाद् भीता ॥२३॥


॥ १०.३.२४ ॥

श्री-देवक्य् उवाच

रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं

ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् ।

सत्ता-मात्रं निर्विशेषं निरीहं

स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वयि भय-शङ्कैव तावन् नास्तीति श्लोक-चतुष्टयेनाह देवकी किञ्चिद् विज्ञापयितुम्—रूपम् इति । यत् तत् किम् अपि रूपं वस्तु प्राहुर् वेदाः । किं तद् वस्तु ? तद् आह—अव्यक्तम् । अत्र हेतुः—आद्यं कारणम् । किं परमाणवः ? न, ब्रह्म बृहत् । किं प्रधानं ? न, ज्योतिश् चेतनम् । किं वैशेषिकाणाम् इव ज्ञान-गुणं ? न, निर्गुणम् । किं मीमांसकानाम् इव ज्ञान-परिणामि ? न, निर्विकारम् । किं पुष्कराक्षादीनाम् इव शक्ति-विक्षेप-परिणामि ? न, सत्ता-मात्रम् । तर्हि किं सामान्यं ? न, निर्विशेषम् । तर्हि किं कारणत्वात् सक्रियं ? न, निरीहम् । सन्निधि-मात्रेण कारणम् । एवं-भूतं किम् अपि कार्य-कल्प्यं यद् वस्तु, स एव साक्षात् त्वं विष्णुर् इति । अपरोक्षश् चेत्य् आह—अध्यात्म-दीप इति, बुद्ध्य्-आदि-करण-सङ्घात-प्रकाशक इत्य् अर्थः ।4

अथवा अव्यक्तं, न केनापि प्रकारेण व्यज्यत इत्य् अव्यक्तम् । कथं ? उत्पत्त्या तावन् न व्यज्यत इत्य् आह—आद्यं सर्वस्य कार्यस्याद्यम्, अनादीत्य् अर्थः । तथा ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् इति चतुर्भिः पदैर् देशेन प्रकाशेन च गुणेन च विकारेण च व्यक्तिं निराकरोति । तथा सत्ता-मात्रम् इति विशेषेण, निर्विशेषम् इति सामान्येन, निरीहम् इति क्रियया च व्यक्तिं निराकरोति । अन्यत् समानम् । एवं-भूतस्य तव न भय-शङ्केति भावः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ देवकी परमात्मनि निर्भयतां निवेदयन्ती स्तौतीत्य् आह—त्वयीति । तावत् सर्वथा । विज्ञापयितुं बोधयितुम् । रूप्यते निरूप्यते इति रूपम् । तदाह—वस्तु वक्ति न व्यज्यते वेदातिरिक्त-मानेन प्रकाश्यत इत्य् अव्यक्तम् । अत्राव्यक्तत्वे—आद्यं कारणं कोऽद्धा वेदकः प्रावोचत् इत्य्-आदि-श्रुतेः । तार्किकैः परमाणव एव जगत्-कारणत्वेन स्वीक्रियन्ते तन् निरस्यत्य् आह—न, ब्रह्मेति ।

ननु तर्हि अजाम् एकां लोहित-कृष्ण-शुक्लां बह्वीः प्रजाः सृजमानाम् इत्य्-आदि-श्रुतेः,

मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् ।

संभवः सर्व-भूतानां ततो भवति भारत ॥ [गीता १४.३] इति श्री-मुखोक्तेश् च ।

किं प्रधानं साङ्ख्यैर् अपि तद् एव जगत्-कारणत्वेनाङीक्रियते ? तन् निरस्यन्तीत्य् आह—न, ज्योतिर् इति । चेतनं प्रधानं त्व् अचेन्तनत्वान् न कारणम् इति निरूपितम् आद्य-श्लोक-व्याख्याने, ईक्षतेर् नाशब्दं [वे।सू। १.१.५] इति परमर्षि-सूत्रेण । वैशेषिका अपि तार्किका इवे ते ईश्वरं ज्ञानुगुणकं मन्यन्ते, तद् आक्षिपन्त्य् आह—न, निर्गुणम् इति ।

मीमांसकास् तु विक्रिया ज्ञान-रूपास्य नित्यत्वेन विरोत्स्यते इत्य्-आदि-वाक्यैर् ज्ञान-परिणामिनम् आत्मानम् अभ्युपगच्छन्ति, तन्-मतं द्यन्त्य् आह—न, निर्विकारम् इति ।

पुष्कराक्षा उत्तर-मीमांसकैकदेशिनस् तु शक्ति-विक्षेपेण माया-निष्ठ-विक्षेप-शक्त्या परिणामिनम् आत्मानम् अभ्यर्हन्ति, तन्-मतम् अनङ्गीकुर्वन्त्य् आह—स सत्ता-मात्रम् इति । सत्-स्वरूपं सर्वदैक-रसम् इति यावत् ।

तर्हि किं सामान्यं तन् निरस्यन्त्य् आह—न, निर्विशेषम् इति सामान्यस्य परापर-रूप-विशेषवत्त्वात् । तार्किकैः परापर-भेदेन सामान्य-द्वयम् उरीक्रियते परं सत्तापरं द्रव्यत्वाद् इति ।

कारणत्वं समर्थ्यं पुनर् आशङ्कते—तत्र तर्हीति । तर्हीह वाक्यालङ्कारेऽव्ययम् इति ध्येयम् । अव्ययानाम् अनेकार्थत्वात् । निरीहं निष्क्रियं सन्निधि-मात्रेण चुम्बकाश्मवद् इति । एवं-भूतं सन्निधि-मात्रेण कारणतावत् । किम् अपि अनिर्वाच्यम् । कार्येण जगद्-उत्पादनादि-रूपेण कल्प्यत इति कार्य-कल्पम् । यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१.१] इत्य्-आदि-श्रुतेः । साक्षाद् अपरोक्षः प्रत्यक्षः ।

इत्य् अर्थ इति—जडानां चेतनम् अन्तरा प्रकाशासम्भवाद् इति भावः । पूर्व-व्याख्याने नाना-मत-निरास-प्रयासात् तद् विहाय शुद्ध-वेदान्त-मतम् एव श्रेयोऽतस् तत्-पक्षम् आह—अथ वेति । केनापि प्रकारेण प्रत्यक्षानुमानादि-रूपेणेत्य् अर्थः । तावत् प्रथमम् ।

इत्य् अर्थ इति—आदिमत इव व्यक्तिर् भवति न त्व् अनादेर् इति तात्पर्यम् । तथा दर्शयति चतुर्भिर् विशेषणैः । ब्रह्म व्यापकं नहि व्यापकस्य कस्मिंश्च्चिद् देशे एव व्यक्तिर् अस्ति व्यापक्त्व-व्याघाताद् इति भावः ।

ज्योतिः सर्व-प्रकाशकं येनेद्धः सूर्यस् तपतीत्य्-आदि-श्रुतेः । सर्व-प्रकाशकस्य कश्चित् परिच्छिन्न-प्रकाशो व्यक्तिं कर्तुं न शक्नोतीत्य् अर्थः । निर्गुणं निर्गुणस्य न केनापि गुणेन व्यक्तिः सम्भवतीति निर्गुणत्व-हानेः । निर्विकारं स-विकारस्य प्रकृत्य्-आदेर् महद्-आदि-द्वारेणाभिव्यक्तिर् भवति निर्विकारस्य तु सा कथम् अपि न सम्भवतीत्य् अर्थः ।

तथैव सत्ता-मात्रम् । सत्ता-स्वरूपस्य व्यक्ति-कारको न कश्चिद् विशेषोऽस्ति तस्यैव सर्व-व्यञ्जकत्वात् । तच् च घटः सन् पटः सन्न् इति सत्तयैव घटादयो व्यज्यन्ते, न तु घटादिभिः सत्तापीति तेषाम् असत्त्वात् । असतोऽपि व्यञ्जकत्वे बन्ध्यात्मजोऽपि स्वरूपादि व्यञ्जयेद् इति भावः ।

निर्विशेषं स-विशेषस्यैव सामान्येन घटत्वादिना घटादेर् व्यक्तिर् दृश्यते, न तु निर्विशेषस्य ब्रह्मणोऽपीति विशेषोऽत्रावयवादिर् ज्ञेयो, न तु तार्किकाभिमत-पञ्चम-प्रतिपाद इति । निरीहं स-चेष्टस्यैव क्रियया कर्मणा व्यक्तिर् दृश्यतेऽपिहित-कपाट-कोष्ठान्तर्गतस्य यथा कपाटोद्घाटन-कर्मणा, न तु निश्चेष्टस्याकाशादेर् अपीति ।

अन्यद् विवृतावशिष्टं रूपं यत् तद् इत्य्-आदि । एवं-भूतस्य सर्वथा पर-ब्रह्म-रूपस्य । इति भाव इति । न हि यद् बिभेति स्वयं भयं [भा।पु। १.१.१४] इत्य्-उक्तेः, भीर् अपि यद् बिभेति [भा।पु। १.८.३१] इत्य्-उक्तेश् च, मृत्युश् चरति यद्-भयात् इति श्रुतेः, यस्य मृत्युर् उपसेचनम् इति श्रुतेश् च कालस्यापि त्वत्तो भीतत्वात् कथम् अपि तव भय-शङ्कैव नोदेति । भयं तु कथं स्याद् इति तात्पर्यम् ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : रूपं यत् तद् इति । स त्वं साक्षात् प्रकटिकृतोऽसि, अहो मे भाग-धेयं ! तर्हि कोऽहम् इत्य् अपेक्षायाम् आह—रूपं श्री-विग्रहः । तत् किं लौकिकं ? नेत्य् आह—यद् इति । यद् अव्ययम् । यद् यस्य रूपस्य ब्रह्म ज्योतिः । ब्रह्म तु कीदृशं ? तत् प्रसिद्धम् अव्यक्तं निर्गुणं निर्विकारं सत्ता-मात्रम् इत्य्-आदि । रूपत्वेन किं परिच्छिन्नं ? नेत्य् आह—विष्णुर् व्यापको विग्रहोऽपि व्यापी ।

ननु व्यापी तावद् भवान् इति, किन्तु दृश्योऽस्ति किं ? नैवम् इत्य् आह—अध्यात्म-दीपः आत्मानम् अधि अध्यात्मम् आत्मनः प्राकट्यं तस्य दीपः प्रकाशकः । दीप-भूतेन त्वया दत्त-स्व-प्रादुर्भावक-शक्ति-विशेषैर् एव भक्तानाम् इन्द्रियैर् अनुभूयसे इति दृशत्वं तेनायातीति ॥२४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रूपम् इति तैर् व्याख्यातम् एव । यद् वा, यद् इति यस्य रूपं श्री-मूर्तिस् तद् अनिर्वचनीयं वस्तु प्राहुः । तद् एवाह—अव्यक्तम् इत्य्-आदिना । एवं पर-ब्रह्मत्वम् उक्तम् । स एव त्वं विष्णुर् निजैश्वर्येण सर्व-व्यापक इति परमेश्वरत्वम् । अध्यात्म-दीप इति परमात्मत्वम् । अन्यत् समानम् ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रूपम् इति । तैर् व्याख्यातम् । तत्राव्यक्तं सर्वागोचरम् ।

ननु वस्तु च सर्वागोचरं चेति न सम्भवति ? तत्राह—कारणं सर्व-कारणं कार्यान्यथानुपपत्त्यैव गम्यम् इत्य् अर्थः । न ह्य् अग्नेर् अर्चिषोऽग्निः प्रकाश्यते दह्यते वा स इति भावः ।

ननु परमाणु-समुदाये खल्व् अव्यक्तत्वं कारणत्वं च विद्यत इति तत्रातिव्याप्तिः स्याद् इत्य् आशङ्कते किं परमाणव इति परिहरति—नेति । तेषां वाय्व्-आदि-परमाणूनां परस्पर-व्यावृत्तेर् न बृहत्तमत्वम् इत्य् अर्थः । तर्हि तत्-तद्-धर्म-मये प्रधानेऽतिव्याप्तिर् इत्य् आह—किम् इति । परिहारे तु स्वतः प्रकाशमानत्वाज् ज्योतिः-शब्देन चेतनम् उच्यते । प्रधानस्य जडत्वात् तत्-प्रकाश्यत्वम् इति भावः । ज्योतिश् चरणाभिधानात् [वे।सू। १.१.२४] इति न्यायात् ।

ननु चितो ज्ञानस्य योगाच् चेतनम् उच्यते । तर्हि यथा वैशेषिकाणाम् आत्मानः स्वतओ जडाः, किन्तु ज्ञान-गुण-योगाद् एव चेतना इति मतं, तथा किन्तरापि तद् वस्त्व् इत्य् आशङ्कते किं वैशेषीति तथैव तत्राशङ्कान्तरं किं मीमांसकानाम् इव इति । अथ भास्करीया यद् ब्रह्मण एव शक्ति-कृत-विक्षेपेण ज्ञान-क्रियादि-रूपतया परिणामं मन्यन्ते तद् अप्य् आशङ्कते किं भास्करीत्य्-आदिना । तत् परिहरति—न, सत्ता-मात्रम् इति । सच्-छब्देनात्र वस्त्व् एवोच्यते । तस्य तु प्रवृत्ति-निमित्तं सत्ता-तन्मात्रम् इत्य् अविकृतम् एव तद् इत्य् अर्थः । तत् तु सोत्प्रासम् आक्षिपति । तर्हीति सा खलु सामान्यं तच् च पराजातिर् एवोच्यते । सा च पूर्वोक्ता व्यक्तादि-रूपा न भवतीति हस्ति-स्नानम् इव सर्वं जातम् इति भावः ।

तत्र सिद्धान्तयति न निर्विशेषम् इति सामान्यं खलु विशेषेष्व् अनुगतम् एव स्यात्, तत् तु विशेषात् पूर्वम् उत्तरम् अपि वर्तमानं न सामान्याकारम् इत्य् अर्थः । ततस् तत्-प्रकाशत्वात् तद्-वाचक-शब्दस्यापि प्रवृत्ति-निमित्तं या चित् सैव सत्तोच्यते इत्य् अर्थः । चेतनत्वं च स्वयं प्रकाशत्वाद् एवोक्तम् इति भावः । तद् एवं सामाञ्जस्ये पुनर् आशङ्कते तर्हीति सत्-क्रियं स-क्षोभम् इत्य् अर्थः ।

एवं निरीहम् इत्य्-आद्य् अपि सन्निधि-मात्रेण इति स्वरूप-भूताचिन्त्य-शक्त्यैवेत्य् अर्थः ।

विशेषतश् चायम् अर्थः—ननु सारांश-विवेके सति जगद् अपि ब्रह्मत्वेनोपलभ्येत, तर्हि केन विशेषः ? तत्राह—साक्षाद् इति मायानावृतत्वेनेत्य् अर्थः । तस्माद् इदं व्यक्तत्वं षाड्गुण्यं कृपादि-विकारित्वम् अङ्ग-प्रत्यङ्ग-विशेषत्वं कर-चरणादि-चेष्टा-सौष्ठवम् अपि स्वरूपं धर्म-वैभवम् एव श्री-रामानुजादि-मतानुसारेण तत्-स्वरूपस्य स-धर्मत्व-स्थापना तु श्री-भागवत-सन्दर्भ-तट्-टीकादौ द्रष्टव्या ।

अतः सत्ता-मात्रं केवल-धर्म-रूपं केवल-धर्म-रूपं, ज्योतिः स्व-प्रकाश-चैतन्यं, ब्रह्म सर्वतो बृहत्, आद्यं जन्म-रहितं, दृष्ट-दोष-प्राकृत-तत्-तद्-धर्म-निरासेन ज्ञानिनः प्रति-प्रकाशमानं तद् वस्तु यत् रूपं श्री-विग्रहं प्राहुः, स तद्-रूप एव भवान्, न चैतद् अपि तत्-तद्-दोषार्हं भवेत्, अदृष्ट-दोषत्वात् विद्वद्-अनुभव-सिद्धार्थैः शास्त्रैर् निराकृतत्वाच् चेत्य् अभिप्रेत्य स्वयम् एव निराकरोति तत्र जन्म-राहित्यं साक्षाद् इत्य् अनेनैव निराकरोति तत्-तन्-निज-परिच्छेदवता स्व-स्वरूपेणैव प्राकट्यात् परिच्छिन्नत्वं निराकरोति विष्णुर् इति सर्व-व्यापक इत्य् अर्थः । न चान्तर् न बहिर् यस्य [भा।पु। १०.८.३५] इत्य्-आदि-वचन-वृन्दात् श्री-यशोदादिभिः सर्वाधारादित्वेनानुभवनीयत्वाच् च व्यक्तत्वं निराकरोति ।

अध्यात्म-दीप इति प्रत्युतास्माकं च सौभाग्यादिकम् एवेदं प्रकाशयसि, ततो ब्रह्मवत् स्वयम् एव प्रकाशसे । ततश् च न केनापि व्यज्यस इति शब्द-श्लेषेण च आत्मानम् अधिकृत्य वर्तमाना अध्यात्मा आत्मारामाः, तान् अपि दीपयसि, परमानन्देनोल्लासयसीति, ब्रह्मतोऽपि परमाविर्भावत्वं दर्शितं साक्षाद् इत्य् अनेन च तथैव व्यञ्जितम् अस्फुट-स्फुटत्वेन तारतम्याद् इति दिक् ।

यद् वा, यद् इति यस्य रूपं श्री-विग्रहं, तद् अनिर्वचनीयं वस्तु प्राहुः तद् एवाह—अव्यक्तम् इत्य्-आदिना । निर्गुणादित्वं प्राकृत-गुणादि-रहितत्वम् । एवं पर-ब्रह्मत्वम् उक्तं, स एव त्वं विष्णुः निजैश्वर्येण सर्व-व्यापक इति परमेश्वरत्वम् । अध्यात्म-दीप इति परमात्मत्वम् । अन्यत् समानम् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : रूपं विशेषतश् चायम् अर्थः । ननु, सारांश-विवेके सति जगद् अपि ब्रह्मत्वेनोपलभ्येत, तर्हि केन विशेषः ? तत्राह—साक्षाद् इति । माया नावृतत्वेनेत्य् अर्थः । तस्माद् इदं व्यक्तत्वं षाड्गुण्यं कृपा-विकारित्वम् अङ्ग-प्रत्यङ्ग-विशेषत्वं कर-चरणादि-चेष्टा सौष्ठवम् अपि स्वरूप-धर्म-वैभवम् एव । अतः सत्ता-मात्रं केवल-धर्म-रूपं ज्योतिः स्व-प्रकाश-चैतन्यं ब्रह्म सर्वतोऽपि बृहत्, आद्यं जन्म-रहितं दृष्ट-दोष-प्राकृत-तत्-तद्-धर्म-निरासेन ज्ञानिनः प्रतिप्रकाशमानं तद् वस्तु यद् रूपं श्री-विग्रहं प्राहुः स तद्-रूप एव भवान् न चैतद् अपि तद्-दोषार्हं भवेत् अदृष्ट-दोषत्वात् विद्वद्-अनुभवार्थः शास्त्रे निराकृतत्वाच् चेत्य् अभिप्रेत्य स्वयम् अपि निराकरोति जन्म-राहित्यं साक्षाद् इत्य् अनेनैव । निराकरोत् तत् तन् निज-परिच्छदवता स्व-स्वरूपेणैव प्राकट्यात् ।

परिच्छिन्नत्वं निराकरोति—विष्णुर् इति । व्यापक-मूर्तिर् इत्य् अर्थः । व्यक्तत्वम् अध्यात्म-दीप इति प्रत्युतास्माकं बुद्ध्य्-आदिकम् एवेदं प्रकाशयते, ततो ब्रह्मवत् स्वयम् एव प्रकाशते । ततश् च केनापि व्यञ्जित इति शब्द-श्लेषेण च आत्मानम् अधिकृत्य वर्तमाना अध्यात्मान आत्मारामाः, तान् अपि दीपयसि परमानन्देनोल्लासयसीति ब्रह्मतोऽपि परमाविर्भावत्वं दर्शितं । साक्षाद् इत्य् अनेन च तथैव व्यञ्जितं, स्फुटास्फुटत्वेन तारतम्याद् इति दिक् ॥२४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ देवकी स्तौति—यत् तद् इत्य्-आदि । स त्वं साक्षात् प्रकटीभूतोऽसि, अहो मे भागधेयम् इति शेषः । स त्वम् इति कोऽहम् इत्य् आशङ्क्याह—तद्-रूपं स-विग्रह इत्य् अर्थः । कीदृशं ? आद्यम् । तद् इति कं ? तत्राह—यद् यस्य ज्योतिर् ब्रह्म प्राहुः, अर्थात् सात्वताः । ब्रह्म कीदृशं ? अव्यक्तम् । निर्गुणं निर्विकारम् । सत्ता-मात्रं निर्विशेषं निरीहम् । रूपत्वेन किम् अहं परिछिन्नः ? नेत्य् आह—विष्णुर् व्यापकः वियत् व्याप्तौ । तर्हि दृश्योऽस्मि किं ? नेत्य् आह—अध्यात्म-दीपः, आत्मानम् अधि अध्यात्मम् । दीप आत्म-प्रकाशने आत्मैव प्रकाशक इत्य् अर्थः ॥२४॥

भगवत्-सन्दर्भः (४२): यत् तत् किम् अपि रूपं वस्तु प्राहुर् वेदाः । किं तद् वस्तु, तद् आह अव्यक्तम् इत्य्-आदि । एवम्भूतं किम् अपि कार्य-कल्पं वस्तु यत् स एव साक्षाद् ऐषि-गोचरस् त्वं विष्णुर् इति । तथा च पाद्मे निर्माण-खण्डे5 श्री-भगवन्तं प्रति श्री-वेद-व्यास-वाक्यम्—-

त्वाम् अहं द्रष्टुम् इच्छामि चक्षुर्भ्यां मधुसूदन ।

यत् तत् सत्यं परं ब्रह्म जगद्-योनिं जगत्-पतिम् ।

वदन्ति वेद-शिरसश् चाक्षुषं नाथ मेऽस्तु तद् ॥ [प।पु। ५.७३.१३] इति ।

तत्र हेतुः—अध्यात्म-दीपः, देहि-तत्-कारण-कार्य-सङ्घ-प्रकाशकत्वेनावभासन इत्य् अर्थः । एवम्भूतस्य न तव भय-शङ्केति भावः । इत्य् एष प्रकरणानुरूपः श्री-स्वामि-दर्शित-भावार्थोऽपि श्री-विग्रह-पर एव । अन्यत्र भय-सम्भावनानुत्पत्तेः ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, भक्ताः खलु स्तुत्या भगवन्तम् अपि वशीकुर्वन्तीति प्रसिद्धेर् एनं महा-हठिनं स्तुत्यैव वशीकृत्य स्व-वचने स्थापयामीति मनसि विमृश्य भो पश्य ! आवयोः प्रतिक्षणम् एवातिभये वर्धमानेऽपि तव भय-शङ्कैव नास्तीत्य् आह चतुर्भिः—रूपम् इति । यद्य् अस्य तव तत् प्रसिद्धं रूपम् आकारं नारायण-राघव-हायशीर्षादिकम् अव्यक्तं सर्वेन्द्रियागोचरम्, आद्यम् अजन्यं प्राहुर् वेदाः, तथा निर्गुणं निर्विकारं ब्रह्म यस्य तव ज्योतिः प्राहुः—यस्य भासा सर्वम् इदं विभाति इति श्रुतेः, सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् [भा।पु। १०.२८.१५] इत्य् अग्रिमोक्तेः,

तत् परं परमं ब्रह्म सर्वं विभजते जगत् ।

ममैव तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥

इत्य् अर्जुनं प्रति हरि-वंशे भगवद्-उक्तेः ।

यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-

कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् ।

तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं

गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४०] इति ब्रह्म-संहितोक्तेः ।

ब्रह्मणो हि प्रतिष्थाहं [गीता १४.२७] इत्य् अत्र स्वामि-चरणैस् तथा व्याख्यानाच् च विभूति-प्रसङ्गे विकारः पुरुषोऽव्यक्तं रजः-सत्त्व-तमः-परम् इत्य् अत्र परम् अति-शब्दस्य ब्रह्मेति तैर् व्याख्यानाच् च, मदीयं महिमानं च परं ब्रह्मेति शब्दितं [भा।पु। ८.२४.३८] इति मत्स्य-देवोक्तेश् च । परात्परंब्रह्म च ते विभूतयः इति श्री-यामुनाचार्य-स्तोत्राच् [१४] च । तद् ब्रह्म-कृष्णयोर् ऐक्यात् किरणार्कोपमा-जुषोः [भ।र।सि। १.२.२७८] इति भक्ति-रसामृताच् च ।

तथा यस्य तव सत्ता-मात्रं शुद्ध-सत्त्व-सामान्यं शुद्ध-सत्त्व-विलास-भूतम् इति यावत् स्व-विग्रह-धाम-भक्त-परिकरादिकं निर्विशेषं विशेषात् प्रपञ्चान् निर्गतं प्राहुः । अत एव निरीहं स्वतः परिपूर्णत्वेन वितृष्णम् ।

यद् वा, सकाम-भक्तान् अपि निरीहयतीति निरीहम् । किं वा, निःशेषेण इहयतीति त्वम् अभिलाषयतीति निरीहं स्पृहेहातृङ्-वाञ्छेत्य् अमरः । सत्त्वं विष्णुर् अध्यात्म-दीपः सर्व-तत्त्व-प्रकाशक इत्य् अविज्ञाया अपि मम मनसि यथा स्फोरयसि, तथाहं वच्मीति भावः ॥२४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भीताप्य् अहं निर्भयं त्वां वीक्ष्य प्राणिमीति निवेदयति रूपम् इति चतुर्भिः । यत् तत् किम् अप्य् अलौकिकं रूपं वस्तु प्राहुर् वेदान्ताः । स त्वम् इत्य् अन्वयः । तद् वस्तु किं ? तत्राह—अव्यक्तम् इति । तत्र हेतुर् आद्यम् इति कारणम् इत्य् अर्थः । तर्हि किं नैयायिकानाम् इव परमाणु-वृन्दं ? तत्राह—ब्रह्मेति बृहद् इत्य् अर्थः । तर्हि किं साङ्ख्यानां प्रधानं ? तत्राह—ज्योतिर् इति चेतनम् इत्य् अर्थः । तर्हि किं वैशेषिकाणाम् इव ज्ञान-गुणकं जडं ? तत्राह—निर्गुणम् । गुणान् निर्गतं ज्ञान-स्वरूपम् एव विशेषाज्ञान-गुणकतया विभातम् इत्य् अर्थः । तर्हि किं विज्ञान-वादि-बौद्धानाम् इव ज्ञान-परिणामि ? तत्राह—निर्विकारम्, परिणाम-शून्यम् इत्य् अर्थः ।

ननु स्याद्-वादिनां जैनानाम् इवानियत-सत्ताकं तत् स्यात् ? तत्राह—सत्तेति । सत्तया मीयते परिच्छिद्यत इति सत्ता-मात्रं नियत-सत्ताकम् इत्य् अर्थः ।

ननु द्वैतिनां सतां जगच् चेदृक् ? तत्राह—निर्विशेषम् इति, निश्चितो विशेषो जगन् नियन्तृत्व-लक्षण आधिक्यं यत्र तत्, निर्निव्श्चय-निषेधयोः इत्य् अमरः ।

नन्व् अस्त्व् ईदृशं किं तेन प्राणिना ? तत्राह—निरीहम् इति । नितराम् इहयति स्वस्मिन् सन्-मुखान् जनान् अभिलाषयतीत्य् अतिस्निग्धं स्व-पर्यन्त-सर्व-पुमर्थ-प्रदम् इत्य् अर्थः ।

ननु साम्मुख्यम् एव कथं ? तत्राह—अध्यात्मेति । अध्यात्मं स्व-विषयकं ज्ञानं तस्य दीप इति सद्भिः स्व-ज्ञानं प्रदाय साम्मुख्यं च करोतीत्य् अर्थः । ईदृशस्य ते न भय-गन्ध-शङ्केति ॥२४॥


॥ १०.३.२५ ॥

नष्टे लोके द्वि-परार्धावसाने

महा-भूतेष्व् आदि-भूतं गतेषु ।

व्यक्तेऽव्यक्तं काल-वेगेन याते

भवान् एकः शिष्यतेऽशेष-संज्ञः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, महा-प्रलयेऽप्य् अवशिष्यमाणस्य कुतो भयम् इत्य् आह—नष्टे लोके इति । चराचरे लोके । महा-भूतेषु लीनेष्व् अप्य् आदि-भूतं भूत-सूक्ष्मं प्रविष्टेषु तस्मिन्न् अपि व्यक्तेऽव्यक्तं प्रधानं प्राप्ते । अशेषात्मके प्रधाने संज्ञा प्रज्ञा यस्य । एवं मयि लीनम् इदम् अस्ति पश्चाद् एवम् उद्बोधनीयम् इति सोऽशेष-संज्ञः । शेष-संज्ञ इति वा ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महा-भय-स्थलेऽपि तव निर्भयत्वाद् अन्यत्र कथं तत् स्याद् इत्य् आह—किं चेति । तेषु महा-भूतेषु । तस्मिन्न् अपि भूत-सूक्ष्मेऽपि । व्यक्तेऽव्यक्त-संज्ञके भूत-सूक्ष्माहङ्कार-महत्-तत्त्वानां प्रकृते व्यज्यमानत्वाद् व्यक्तत्वं तथा चादि-भूत-पदं चात्रोपलक्षकं महद्-अहङ्कारयोर् अपि अशेषात्मके सर्व-कारणे प्रधाने प्रकृताव् इति । यद् वा, अशेषाः संज्ञा यस्य सः । नामानि सर्वाणि यम् आविशन्तीति श्रुतेः । न शेषो यस्मात् सोऽशेषः सर्वात्मा स एव संज्ञा यस्येति वा । न शेषोऽर्थात् प्रपञ्चस्य यत्र सोऽशेषः प्रलयस् तस्मिन्न् संज्ञा ज्ञानं यस्येति वा । प्रलयेऽपि यज् ज्ञानं न नश्यतीत्य् अर्थः । प्रधानेऽशेषात्मकत्वासम्भवं पर्यालोच्याह—शेष-संज्ञ इति । शिष्यतेऽस्थूलम् अनण्व् इत्य्-आदिना सर्व-निषेधेऽवधित्वेनेति शेषः परमात्म, स एव संज्ञा यस्येति । अनन्तस्यापि प्रलये श्रूयमानत्वात् तत्-संज्ञो वेत्य् अर्थः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नष्टे लोके इत्य्-आदौ नातिविप्रतिपत्तिः । एकोऽपि अशेष-स्वजने सम्यग्-ज्ञानं यस्य, स्वजना अपि ते नित्या इत्य् आह—शेष इति सात्वत-ग्रन्थे पार्षद-संज्ञा, तेन संज्ञपनं संज्ञा मरणम्, न विद्यतेऽशेषाणां पार्षदानां मरणं नाशो यस्मात्, सोऽशेष-संञः ॥२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव महा-प्रलयेऽपि निज-लोके पार्षदादिभिः सह विहरसीत्य् आह—नष्ट इति । काल-वेगेनेति सर्वत्रैव हेतुः । शेष-संज्ञश् च पार्षदः शिष्यते । उपलक्षणम् एतत् । श्री-गरुडादयोऽप्य् अवशिष्यन्ते । यद् वा, शिष्यन्ति महा-प्रलयेऽपि तिष्ठन्तीति । किं वा, साक्षाच् छेषताम् इव प्राप्ताः शेषाः श्री-वैकुण्ठ-लोक-परिच्छद-परिवारास् तासां संज्ञा ख्यातिर् यस्मात् सः । तथा च श्री-वैष्णवाः पठन्ति—यथेष्ट-विनियोगार्हं शेष-शब्देन कथ्यते इति । श्री-भगवतो यथार्ह-विनियोगार्हम् इत्य् अस्यार्थ इति नित्यं तत्-साहित्यम् अभिप्रेतम् ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : काल-वेगेनेति सर्वत्रैव हेतुः एक इति । वैकुण्ठादीनाम् अपि तद्-अभेदाभिप्रायेण । यद् वा, अशेषा ये तदानीं वैकुण्ठादयस् तत्-तद्-पदार्थाभिधास् तेऽपि संज्ञा यस्य तत्-तद्-रूपेणापि यः स्वयम् एवेत्य् अर्थः । यद् वा, शिष्यन्ते महा-प्रलयेऽपि तिष्ठन्तीति श्री-वैष्णव-मते यथेष्ट-विनियोगार्हं शेष-शब्देन कथ्यन्त इति वा शेषा श्री-वैकुण्ठ-लोक-परिच्छद-परिवारादयः, तेऽपि संज्ञायन्ते येन यद्-ग्रहणेनैव ते गृहीता भवन्तीत्य् अर्थः । एवं-भूतो भवान् एकः शिष्यते न त्व् अन्तर्-गतेतर-जीव-वृन्द-प्रपञ्चेत्य् अर्थः । तथैव तृतीये श्री-विदुर-प्रश्नः—

तत्त्वानां भगवंस् तेषां कतिधा प्रतिसङ्क्रमः ।

तत्रेमं क उपासीरन् कौ स्विद् अनुशेरते ॥ [भा।पु। ३.७.३७] इति ।

एवम् एव कैमुत्येन वक्ष्यते मर्त्यो मृत्युर् इत्य्-आदि ॥२५॥


जीव-गोस्वामी (भगवत्-सन्दर्भः २५) : तद् एवम् ऐश्वर्यादि-षट्कस्य स्वरूप-भूतत्वम् उक्त्वा, श्री-विग्रहस्य पूर्ण-स्वरूप-भूतत्वं वक्तुं प्रकरणम् आरभ्यते । तत्र तस्य तादृशत्व-सचिवं नित्यत्वं तावत् पूर्व-दर्शित-तादृश-वैकुण्ठाधिष्ठातृत्वेन सिद्धम् एव । प्रपञ्चावतीर्णत्वेऽप्य् आह त्रिभिः—नष्ट इति । अतः शेष-संज्ञः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : आद्यम् इति यद् उक्तं तद् विवृण्वन्न् आह—नष्टे लोक इत्य्-आदि । एकः सजातीय-द्वैत-शून्यः । अत आह—अशेष-संज्ञ इति । ज्ञानं ज्ञा, सम्यग्-ज्ञानं भगवत्-तत्त्व-ज्ञानं येषां ते संज्ञाः पार्षदाः । अशेषा अविनाशिनः संज्ञा यस्य स ।तथा-भूतः सन् शिष्यते पार्षदैः सह शिष्यत इत्य् अर्थः । पार्षद-स्थित्या तल्-लोकस्यापि स्थितिर् इति । अहम् एवासम् एवाग्रे [भा।पु। २.९.३२] इत्य् अत्र योऽर्थः, स एवात्रापि ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, महा-प्रलयेऽप्य् अविशिष्यमाणस्य तव कुतो भयम् इत्य् आह—नष्टे चराचरे लोके महा-भूतेषु लीने सति तेष्व् अप्य् आदि-भूतम् अहङ्कारं गतेषु सत्सु तस्मिन्न् अप्य् अहङ्कारे व्यक्ते व्यक्तं प्रविष्टे सति तस्मिन्न् अपि व्यक्ते महत्-तत्त्वे अव्यक्तं प्रधानं प्राप्ते सति एको भवान् एव शिष्यतेऽवशिष्टो भवतीति पूर्व-श्लोकोक्त-लक्षणं भवत एकस्यैव रूपं ज्योतिः सत्ता-मात्रं च शिष्यत इति सपरिवार-स्थान-परिच्छदस्यैव तस्य नित्यत्वम् अभिप्रेतम् अतः शेष-संज्ञः शेष-नामा शिष्यत इति व्युत्पत्त्या भवान् शेष उच्यते इत्य् अर्थः ॥२५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ महा-प्रलये स्थितस्य तव कुतो भय-शङ्केत्य् आह—नष्ट इति । महा-भूतेषु पृथिव्य्-आदिषु पञ्च-सुख-योनिम् आदि-भूतम् अहङ्कारं गतेषु सत्सु व्यक्ते चाहं महद्-रूपे स्थले काल-वेगेनाव्यक्तं प्रधानं गते सति द्विपरार्धस्य ब्रह्मायुषोऽवसाने लोके ब्रह्माण्डे नष्टे सति भवान् एवैकः शिष्यते, अतः शेष-संज्ञः ॥२५॥


॥ १०.३.२६ ॥

योऽयं कालस् तस्य तेऽव्यक्त-बन्धो

चेष्टाम् आहुश् चेष्टते येन विश्वम् ।

निमेषादिर् वत्सरान्तो महीयांस्

तं त्वेशानं क्षेम-धाम प्रपद्ये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, एवं प्रलय-हेतुर् योऽयं कालः, एनम् । हे अव्यक्त-बन्धो ! प्रकृति-प्रवर्तक ! तस्य प्रलयावधि-भूतस्य ते तव चेष्टां लीलाम् । चेष्टते विपरिवर्तते पुनः पुनर् वत्सरावृत्त्या । महीयान् द्वि-परार्ध-रूपः । यस्य चेष्टाम् आहुस् तं त्वा त्वां क्षेम-धाम अभय-स्थानं प्रपद्ये शरणं व्रजामि ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कालस्यैव, यतो भिन्न-दृशां भयम् इत्य्-आदिना सर्व-भय-हेतुत्वं श्रूयते, स तु तव चेष्टैव, अतस् तव कथं भयम् ? न हि स्व-करादि-चालनं स्वस्य भय-करम् इत्य् आह—किं चेति । एवं महा-भूतादि-लय-प्रकारेण । ईशानं कालस्यापि नियन्तारम् ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : काल-वेगेन [भा।पु। १०.३.२५] इत्य् उक्त्वा प्राप्तं कालस्य स्वातन्त्र्यं निरस्यन्ती ततः सुतरां तस्य भय-मात्रं निराकुर्वती स्वयम् अपि कांसादि-भयाच् छरणं याति—य इति । अत एव ईशानं सर्वेश्वरं ततः प्रपन्न-जनाशेष-भय-हरण-समर्थो वा । अत एव क्षेमस्य मङ्गलस्य वा स्थानम् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : काल-वेगेन [भा।पु। १०.३.२५] इत्य् उक्त्वा प्राप्तं कालस्य स्वातन्त्र्यं निरस्यन्ती ततः सुतरां तस्य भय-मात्रं निराकुर्वती स्वयम् अपि कांसादि-भयाच् छरणं याति—य इति । योऽयं निमेषादिर् वत्सरान्तः कालः वत्सरावृत्त्या च महीयान् द्विपरार्ध-रूपः, येनकालेन हेतुना विश्वं चेष्टते, तं कालं, तस्य तादृशस्य ते तव चेष्टाम् आहुर् इत्य् अन्वयः । अत एव ईशानं सर्वेश्वरं ततः प्रपन्न-भय-हरण-मात्रं कियद् वेति भावः । अत एव क्षेमस्य अभयस्य सुख-प्राप्तेश् च स्थानम् । यद् वा, सर्व-मङ्गल-द्रव्यादीनाम् अप्य् आश्रयम् ॥२६॥


जीव-गोस्वामी (भगवत्-सन्दर्भः २५) : तत्र युक्तिः—योऽयम् इति । हे अव्यक्त-बन्धो ! सान्निध्य-मात्रेण प्रकृति-प्रवर्तक ! चेष्टा निमेषोन्मेष-रूपाम् । श्रुतिश् च—सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि [महा-नारायण।उ। १.८] इति । सर्वे निमेषादयः कालावयवाः विशेषेण द्योतते विद्युत् । पुरुषः परमात्मेति श्रुति-पदार्थः । सर्वत्र सृष्टि-संहारयोर् निमित्तं काल एव, तस्य तु तद्-अङ्ग-चेष्टा-रूपत्वात् तौ तत्र न सम्भवत एवेति भावः । तत्र हेत्व्-अन्तरं क्षेम-धाम इति । त्वा त्वाम् ॥२६॥


जीव-गोस्वामी (परमात्म-सन्दर्भः १००) : द्रष्टव्यम्।


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काल-वेगेन [भा।पु। १०.३.२५] इत्य्-उक्त्या प्राप्तं कालस्यापि स्वातन्त्र्यं वारयन्ती सर्व-भीषणात् कालाद् अपि यद् भयं नास्ति, तत्र हेतुर् आह—योऽयं सर्व-संहारकः कालः, तम् अपि तस्य तव चेष्टाम् आहुः—हे अव्यक्त-बन्धो ! प्रकृति-प्रवर्तक ! येन त्वच्-चेष्टा-रूपेण कालेनैव विश्वं चेष्टते, स एव कालः कः ? तत्राह—निमेषेति । महीयान् पुनः पुनर् वत्सरावृत्त्या द्विपरार्ध-रूपः । त्वा त्वां प्रपद्ये, यथा त्वं निर्भयः, तथैव स्व-मातरं माम् अपि निर्भयां कुर्व् इति भावः ॥२६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : काल-वेगेनेत्य् विदित-स्वातन्त्र्यात् कालात् कदाचिद् भयं स्यात्, तत्राह—योऽयम् इति । हे अव्यक्त-बन्धो ! प्रकृति-स्वामिन् ! योऽयं सर्व-संहारकः कालः प्रलये वर्तते तं तव चेष्टां प्रकृतिम् आहुः । येन त्वच्-चेष्टा-रूपेण कालेनेदं विश्वं चेष्टते, स कः ? इत्य् आह—निमेषादिर् इति महीयान् इति वत्सरावृत्त्या द्विपरार्ध-वपुर् इत्य् अर्थः । तं त्वां प्रपद्ये । कीदृशं ? कालस्य प्रधानस्य चेशं नियन्तारं ज्ञः काल-कालः प्रधान-क्षेत्रज्ञ-पतिः [श्वे।उ। ६.२]6इति श्रवणात् । क्षेमस्याभयस्य धामाश्रयं स्वरूपं वेत्य् अर्थः ॥२६॥


॥ १०.३.२७ ॥

मर्त्यो मृत्यु-व्याल-भीतः पलायन्

लोकान् सर्वान् निर्भयं नाध्यगच्छत् ।

त्वत् पादाब्जं प्राप्य यदृच्छयाद्य

सुस्थः शेते मृत्युर् अस्माद् अपैति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षेम-धामत्वम् एवाह—मर्त्य इति । लोकान् प्रति यदृच्छया केनापि भाग्योदयेन । हे आद्य ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वा, त्वत्-पाद एवाब्जो धन्वन्तरिस् तं प्राप्य व्याल-दष्टं यथा धन्वन्तरि पाति, तथा मृत्यु-ग्रस्तं त्वत्-पदाब्जं रक्षकम् इति भावः । अब्जोऽस्त्री शङ्खे ना निचुले धन्वन्तरौ हिम-करणे च पद्मे क्लीबम् इति मेदिनी ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् त्वद्-आश्रितो निर्भयः सन् सुखी स्याद् इत्य् आह—मर्त्य इति । मरण-धर्म-शीलो मनुष्यो निर्भयं मृत्य-भयाभावं भय-रहितं वा कञ्चिद् अपि नाद्यगच्छत्, न प्राप । आद्य ! हे सर्व-श्रेष्ठ ! मृत्य्व्-आदि-नियन्तर् इत्य् अर्थः । स्वस्थो मृत्यु-भय-रहितः सन् शेते निश्चिन्तस् तिष्ठेत् सुखी स्याद् इत्य् अर्थः । यतोऽस्मात् त्वत्-पदाब्जाद् धेतोर् मर्त्याद् वा, तस्मात् सकाशात् मृत्युः पलायते । यद् वा, अद्य अधुना त्वयि साक्षात् प्रादुर्भूते सति सर्व-लोकः स्वस्थः सन् शेते, सामीप्ये वर्तमाना, शयिष्यत इत्य् अर्थः । एवम् अपैतीत्य् अपि । अन्यत् समम् । एवं पर-ब्रह्मत्वादिना सूचितं निर्भयत्वं प्रलयेऽप्य् अवशिष्यमाणत्वेन, तथा सर्व-संहारक-काल-लीलत्वेनाश्रितस्यापि भय-हरणेन च दृढीकृतम् । स सर्वथा स्वयं निर्भय एव त्वम् । यद् वा, पर-ब्रह्मत्वादिनोक्तं माहात्म्यं, तेन दृढीकृतम् । ततश् च स तादृशस् त्वं मत्-सुतोऽसीत्य् अहो मद्-भाग्य-महिमेति भावः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यतस् त्वत्-पादाश्रितोऽपि निर्भयः सन् सुखी स्याद् इत्य् आह—मर्त्य इति । मरण-धर्मा यः कश्चित् मृत्युस् तत्-परम्परा-निर्भयं भयाभावं न प्राप, अध्य हे सर्व-श्रेष्ठ ! मृत्य्व्-आदि-नियन्तर् इत्य् अर्थः । स्व-स्थः भय-रहितः सन् शेते निर्वृतो भवतीत्य् अर्थः । यतः अस्मात् त्वत्-पदाब्जाद् धेतोर् मर्त्याद् वा तस्मात् सकाशात् मृत्युः पलायते अब्जत्व-रूपकेन स्वतः पुरुषार्थत्वम् अपि तस्य ध्वनितम् । तत्-प्रभाव-मात्र-जातत्वं तु भयाभावस्य । यद् वा, मृत्युर् इति अद्य अधुना त्वयि साक्षात्-प्रादुर्भूते सर्वो लोकः स्वस्थः सन् शेते वर्तमान-सामीप्ये वर्तमानवत्त्वम् । तत्र हेतुः—मृत्युर् इति । अन्यत् समानम् । एवं पर-ब्रह्मत्वेन सूचितम् । निर्भयत्वं प्रलयेऽप्य् अवशिष्यमाणत्वेन सर्वोपसंहारादि-हेतु-काल-लीनत्वेन शरणापन्न-मृत्यु-निवारणतस् तत्-कैमुत्येनैव दृढीकृतम् । अतः प्रकरणैक-वाक्यतानुरोधेन रूपं यत् तद् इत्य् उक्त-क्रम-वाक्यं न ब्रह्म-परत्वेन व्याख्यातम्॥२७॥


जीव-गोस्वामी (भगवत्-सन्दर्भः २५) : अत्र स्वाभीष्टात् तस्माद् आविर्भावाद् एव कंस-भयं कैमुत्येन वारितवती । तथैव स्पष्टं पुनर् आह—मर्त्य इति । लोकान् प्राप्य निर्भयं भयाभावम् । त्वत्-पादाब्जं तु प्राप्येत्य् उभयत्राप्य् अन्वयः । अत्र त्वत्-पादाब्जम् इति श्री-विग्रहम् एव तथापि विस्पष्टं साधितवती । अत एव अमृत-वपुर् इति सहस्र-नाम-स्तोत्रे । मृतं मरणं तद्-रहितं वपुर् अस्येत्य् अमृत-वपुरिति शङ्कर-भाष्येऽपि । आद्येति जन्माभावोऽपि दर्शितः, सजन्मनि सर्वत्र सादित्वस्यैव सिद्धेः । तद् उक्तम्—प्रादुरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः । इति । [भा।पु। १०.३.८]

श्रुतिश् चात्र—स ब्रह्मणा सृजति स रुद्रेण विलापयति सोऽनुत्पत्तिर् अलय एव हरिः परः परमानन्द इति महोपनिषदि7 ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वच्-चरणाश्रितोऽपि निर्भयः किम् उत त्वम् इत्य् आह—मर्त्य इति । सर्वान् लोकान् प्रति पलायन् निर्भयं भयाभावं न प्राप, यदृच्छया यादृच्छिक-महत्-कृपा-लब्ध-भक्त्यैवेत्य् अर्थः । त्वत्-पादम् एवाब्जं धन्वन्तरिं प्राप्य, अब्जोऽस्त्री शङ्खे ना निचुले धन्वन्तरौ हिम-करणे इति मेदिनी । हे आद्य ! तेन त्वद्-भक्तापि त्वया मातृत्वेन स्वीकृतापि कंसाद् अपि केवलम् अहम् एव महा-भय-विह्वलेति भावः ॥२७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : त्वच्-चरण-प्रपन्नो निर्भयः स्यात् किं पुनस् त्वम् इत्य् आह—मर्त्य इति । सर्वान् विरिञ्चि-स्थान-पर्यन्तान् लोकान् प्रति पलायन् धावन् निर्भयं भयाभावं मर्त्यो नाध्यगच्छति, यदृच्छया यादृच्छिक-सत्सङ्ग-लब्धया भक्त्या त्वत्-पाद-रूपम् अब्जं धन्वन्तरिं प्राप्य स्वस्थो निर्भयः शेते, अब्जोऽस्त्री शङ्खे ना निचुले धन्वन्तरौ हिम-करणे इति मेदिनी । तथा च त्वद्-भक्त्तायास् त्वन्-मातुश् च मम कंसात् तुच्छाद् भयम् इदं चित्रम् इति भावः ॥२७॥


॥ १०.३.२८ ॥

स त्वं घोराद् उग्रसेनात्मजान् नस्

त्राहि त्रस्तान् भृत्य-वित्रासहासि ।

रूपं चेदं पौरुषं ध्यान-धिष्ण्यं

मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तुतं विज्ञापयति--स त्वम् इति । भृत्यानां वित्रासं हन्तीति भृत्य-वित्रास-हा । भृत्य-विद् इति वा छेदः । पौरुषम् ऐश्वरम् । ध्यान-धिष्ण्यं ध्यानास्पदम् । मांस-दृशां मांस-चक्षुषां प्रत्यक्षं मा कृथाः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रस्तुतं प्रकृतम् । विज्ञापयति । भृत्य-वित्रास-हन्तृत्वेन भगवति वैषम्यम् आशङ्क्याह—भृत्य-वित् त्रास-हा इति छेदम् । भक्त-वत्सलः सामान्यतः सर्व-त्रास-हर इति । यद् वा, भृत्यानाम् अपि त्वं विविध-त्रासं भयं हंसि, आवयोः पित्रारन्तर्-भयं कुतो न हंसि भयं ? इति भावः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : रूपं च इत्य्-आदि । रूपं कीदृशं ? इदं पौरुषं इदं पूर्वोक्त-प्रकारं यस्य ब्रह्म-ज्योतिर् इत्य्-आदिकं पौरुषं सामर्थ्यं यस्य, इदं-पौरुषम् इत्य् एकम् एव पदम्, एवं-प्रकारक-पुरुषाकारम् इत्य् अर्थः । मांस-दृशां प्रत्यक्षं मा कृषीष्ठाः। परमानन्द-चक्षुषाम् एव प्रत्यक्षम् इदम् । अत एव गुरु-वचन-प्रतिपालन-कारणेन प्रेम-भक्त-जनान् विना शत्रुभ्यश् च तथा-रूपं न दर्शयेति मन्तव्यम् ॥२८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतः कंसात् त्रस्तान् दीनान् अस्मान् अस्मद्-विध-जनान् पाहिउग्रा घोरा सेना परिजन-लक्षणा यस्य, तस्यात्मजाद् इति श्लेषेण परमोग्रत्वं सूचितम् । यद् वा, उग्रसेनस्य पितृव्यस्य आत्मजाद् इति भयाधिक्यम् । निकृन्तति स-मूलं हि बन्धुभ्यो भयम् उत्थितम् इति न्यायात् । यद् वा, त्राहि इति अस्मद्-रक्षाम् एव कुरु, न तु कंसं घातय इत्य् अर्थः । कुतः ? उग्रसेनात्मजान् मातुलत्वाद् इत्य् अर्थः ।

ननु कथं तर्हि त्रस्ताः स्थ ? तत्राह—घोराद् इति । भो इति परमार्त्या सम्बोधनम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, त्राण-प्रकारम् एव निवेदयति—भृत्यानां विगतस् त्रासो यस्मात् तथा-भूत-हास-युक्तम् अपि इदं रूपं मांस-दृशाम् अज्ञानम् । किं वा, मांसे दृक् भक्षणार्थं दृष्टिर् यासां, तासां कंसादीनां प्रत्यक्षं दृश्यं मा कृथाः । कुतः ? ध्यान-धिष्ण्यं मुनीनाम् अपि ध्येयम् एवेत्य् अर्थः । दिव्यैतद्-रूप-दृष्ट्या तज्-जन्माज्ञानेन अस्माकं भयं नोत्पादयिष्यति । यद् वा, रूप-रूपवतोर् अभेदेन त्वम् अन्तर्हितो भवेति स्नेह-भरेण प्रार्थितम् इति भावः ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स तादृशत्वेन निर्भयः मद्-भाग्येन च मत्-पुत्रताम् आप्तस् त्वं त्राहि द्विष्टत्वेनारोचकत्वात् साक्षात् कंस-नामाग्रहणम् एवं पूर्वम् अपि अयं त्व् असभ्य इत्य् एवोक्तं शब्द-श्लेषेण परमोग्रत्वं सूचितम् । अर्थ-श्लेषेण च पितृव्यजत्व-व्यक्त्या भयाधिक्यं निकृन्तति स-मूलं हि बन्धुभ्यो भयम् उत्थितम् इति न्यायात् । नस् त्राहि इति अस्मद्-रक्षाम् एव कुरु, न तु तं घातयितुं प्रार्थये इति कृपा-विशेषाय दैन्योक्तिः । भो इति परमार्त्या सम्बोधनम् । तथापि मातृ-भाव-स्वभावतो भय-विषयं तम् एवान्तर्धापयितुं छलेनाह—रूपं च इति । पुरुषस्य व्यष्ट्य्-अन्तर्यामिणो रूपम् आकारं चतुर्भुजत्वात् । तत एव विराड्-अन्तर्-वर्तिषु ध्यान-धिष्ण्यत्वेन प्रसिद्धम् इत्य् एवार्थः । द्विभुजत्वेऽपि गूढत्वं ध्यान-धिष्ण्यत्वं च श्रूयते—गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.१५.५८] इत्य्-आदि सप्तमादौ, शृङ्ग-वेणु-धरं तु वा इत्य्-आदि श्री-गोपाल-तापिनी-ध्यानादौ मांस-दृशाम् अज्ञानाम् अयोग्यत्वाद् इति भावः । तत्र हेतुस् तु वक्ष्यते विश्वम् इत्य्-आदिना ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ स्त्रीत्व-भावात् कंसतो भीता स्वल्पतरम् अपि वरं प्रार्थयमानाह—स त्वं घोराद् इत्य्-आदि । भिया नामापि न गृहीतम् । उग्रसेनात्मजाद् इत्य् एवोक्तम् । यतस् त्वं भृत्य-वित्रासहोऽसि । अन्यच् च । इदं पौरुषं नारायणीयं रूपं चतुर्भुजाकारं मांस-दृशां चर्म-चक्षुषात् प्रत्यक्षं मा कृषीष्ठाः । अथवा, इदं पौरुषं, इदम् उक्त-प्रकारं ब्रह्म-ज्योतिर् यस्येत्य्-आदि निरुपमं पौरुषं पुरुषाकारो यस्य तथा-विधम् इदं-पौरुषम् इत्य् एकम् एव पदम् । ध्यान-धिष्ण्यं परम-प्रेमानन्द-समाधि-स्थानं द्विभुजं श्री-कृष्ण-रूपं मांस-दृशां बहिर्-मुखानां मा प्रत्यक्षं कृषीष्ठाः । अतो मातृ-वचन-प्रतिपालनात् अन्तरङ्गेभ्य एव द्विभुजं रूपं पूर्व्कार्य्, बहिरङ्गेभ्यस् तु चतुर्भुज-रूपम् इति पौण्ड्रादयस् तं तथैव ददृशुः । अथवा, सदृशां स-चक्षुषां मध्ये मां प्रतीदं पौरुषं चतुर्भुज-रूपं मा प्रत्यक्षं कृषीष्ठाः । मां प्रति द्विभुजम् एव स्वरूपं दर्शनीयम् इत्य् अर्थः । यत्र पुत्र-बुद्ध्या वात्सल्यं जनिष्यते ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं त्वदीयश् च निर्भयः कथम् आवाम् एव महा-भय-ग्रस्तौ करोषि ? इत्य् आह—स त्वम् इति । घोराद् इति महा-भीषणत्वम्, उग्र- इति पिता नोग्रः, सेना च नोग्रा किन्त्व् आत्मज एवोग्र इति भयेनैव साक्षात् तन्-नामाग्रहणम् । किं च, भृत्यानां विविधं त्रासं हंसि पित्रोर् आवयोः किम् अन्तर्-भयं न हरसीति भावः । "भो मातः ! कंस-वधार्थम् एवावतीर्णोऽस्मि, आयातु कंसस् तम् अधुनैव वधिष्यामि । चक्षुर्भ्यां पश्य" इति तद् उक्तिम् आशङ्क्य वर्धिष्णुना पुत्र-भावेन तस्मात् कंस-वधम् असम्भावयन्ती प्रत्युत कंसाद् एव तद् अनिष्टम् आशङ्क्यमाना महा-भय-कम्पित-सर्वाङ्गी "हन्त हन्त परमेश्वरत्वाहङ्-कारवति पुत्रेऽस्मिन् भेदादय उपाया न घटन्ते, इत्य् अतः साम्नैव स्व-कृत्यं साधयामि" इति मनसि विमृश्य तद्-रूपम् उपसंहारयितुं युक्त्य्-अन्तरम् उत्थापयति—रूपम् इति । पौरुषम् ऐश्वर्यं ध्यान-धिष्ण्यं ध्यानास्पदं मांस-दृशां मांस-चक्षुषां प्रत्यक्षं मा कृथाः ॥२८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अभयम् इच्छन्त्त्य् आह—स त्वम् इति । यतो भृत्य- इति । ननु "कंसादि-दुष्ट-वधायावतीर्णोऽहम् आगतं कंसम् अधुनैव हन्मि" इति वदन्तं पुत्रम् आशङ्क्य वात्सल्योदयाद् आह—रूपं चेदम् इति । पौरुषम् ऐश्वरं ध्यानस्य धिष्ण्यम् आस्पदं मां सदृशां मनुष्याणां प्रत्यक्षं मा कृषीष्ठा मा कुरु । अद्यैव युद्ध-क्लेशो माभूद् अन्यद् अपि दुःखम् आवां सहैव समये हनिष्यसीति ॥२८॥


॥ १०.३.२९ ॥

जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन ।

समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भवत एव हेतोर् निमित्तात् कंसात् समुद्विजे बिभेमि, यतोऽधीर-चित्ता ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भवत एवेति । यदीश्वरं मा जानासि, तर्हि किम् अर्थम् उद्विजसे ? तत्राह—यतोऽधीरधीश् चल-बुद्धिः ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, मातस् ते गर्भो व्यक्त एवासीद् अतो जातः सन् पित्रा कुत्रापि नीत इति वितर्क्य कंसः प्रतिज्ञात-पुत्रार्पणं तं किल पीडयेद् इत्य् आशङ्क्य प्रार्थयते—जन्म इति । कंसो मयि तव जन्म मा जानातु । हे मधु-नाम-महा-दैत्य-हन्तः ! इत्थं यद्य् अपि त्वयि त्वदीयेष्व् अपि भय-शङ्का नास्त्य् एव, तथाप्य् अहं भवद्-अर्थं कंसान् महा-दुष्टात् सम्यग् उच्चैर् द्विजे बिभेमि । कुतः ? अधीरधीः स्नेहोद्रेकेण धैर्याभावाद् इत्य् अर्थः ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, मातस् तव किम् अर्थं भयं ? तथा ममाप्रत्यक्षतायां गर्भ-चौर्यापराधेन तस्मात् भयम् एव स्यात् ? इत्य् आशङ्क्य यथार्थम् एव निवेदयति—जन्म ते इति । भवद्-अर्थम् एव बिभेमि नात्मार्थम् इति यद्य् अपि मधुसूदनत्वेन त्वयि क्षुद्राद् अस्माद् भयं न सम्भवति, तथापि तत्र कारणम् इदम् एवेत्य् आह—अधीर-धीर् इति हठाद् धैर्य-विलोपकेनानुकम्पोदयेनेत्य् अर्थः । अत्र कंस-नाम-ग्रहणम् अत्युत्कण्ठया ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो मातः ! यदीदं रूपम् अन्तर्धापयामि तदा कंस आगत्य गर्भस् ते क्व गत इति गर्भ-चौर्यापराधेन त्वाम् अधिकं ताडयिष्यतीति चेत् तत्र मम का शङ्का ? इत्य् आह—जन्म इति । मा विद्यात् मा जानातु मधुसूदन इति मधु-दैत्यं हतवतो मम कंस-वधे कः प्रयास इति मा मंस्थाः, तदानीन्तनात् मधोर् अप्य् अयम् इदानीन्तनः कंसः कोटि-गुणित-बलाधिक इति भावः । भवद्-धेतोर् इति मद्-अपराधं प्रकल्प्य मत्-ताडनं वधादिकं कुर्यात् चेत् करोतु, केवलं भवतः कल्याणम् आशासे इति भावः ।

ननु, तर्हि रूपं यत् तद् [भा।पु। १०.३.२४] इत्य् अनेन, नष्टे लोके [भा।पु। १०.३.२५] इत्य् अनेन, यो\ऽयम् [भा।पु। १०.३.२६] इत्य् अनेन, मर्त्यो-मृत्यु-व्याल- [भा।पु। १०.३.२७] इत्य् अनेन मद्-ऐश्वर्यं वृथैव किम् अवादीः ? "सत्यं पुत्र ! भवन्-माताहम् एवम् अधीर-बुद्धिर् एव मा खिद्यस्व । ममैव दोषो\ऽयं । निर्मञ्छनं ते यामि । मातृ-वात्सल्येनापि रूपम् इदम् उपसंहर" इति भावः ॥२९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३.३० ॥

उपसंहर विश्वात्मन्न् अदो रूपम् अलौकिकम् ।

शङ्ख-चक्र-गदा-पद्म-श्रिया जुष्टं चतुर्-भुजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : []{।मर्क्}


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अलौकिकं लोकेष्व् अविद्यमानं शङ्खादीनां श्रिया कान्त्या जुष्टं सेवितं यतः । यद् वा, शङ्खादिभिः सहिता श्रीश् चिह्न-रूपा रमा, तया उपसंहर अन्तर्धेहि ॥३०॥ [अत्र विश्वनाथः]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपसंहर इत्य्-आदि । उपसंहर तिरोभावय, अद इत्य् अस्यायं भावः—तथा-विधेन तेजसा निमीलिताक्षी सर्वम् इदम् उक्तवती, अतो विप्रकृष्टम् इव तद्-रूपं तस्यासीत्, तेजसा मुषित-चक्षुषा अद इति गदितम्, अदसो विप्र-कृष्ट-वाचित्वात्, अलौकिकं यथा स्यात् तथोपसंहर, अन्यथोपहरिष्यमाण-रूपस्य लौकिकत्वम् आयाति ॥३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो\ऽद इदं रूपम् आकारम् उपसंहर संवृणु, यतो\ऽलौकिकं दिव्यम् । हे विश्वात्मन् इति रूपोपसंहारे सामर्थ्यं द्योतितम् । अलौकिकत्वम् एव दर्शयति—शङ्केति, शङ्खादीनां श्रिया शोभया । किं वा, शङ्खादिभिफ़्ः श्रिया च वस्त्राभरणादि-सम्पत्त्या जुष्टम् अलौकिकत्वम् एवोपसंहर्तव्यम् इत्य् अर्थः । गूढो\ऽयं भावः—तथा-सति लोके कुत्रापि निहनुत्य रक्षितुम् अपि शक्य इति । यद् वा, रूपाप्रत्यक्षी-करणे हेतुम् आह—जन्मेति । ततो मा विद्याद् इति सम्भावनायां सप्तमी । तत् किम् इत्य् अत्राह—यतो भवतो भवज् जन्मन एव हेतोर् अहं समुद्विजे त्वज् जन्माज्ञानेन कंसो\ऽस्मान् न खलु पीढयिष्यतीति भावः । ननु, तर्ह्य् अन्तर् दधानि ? नेत्य् आह—उपेति । अर्थः स एव ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रानुमतिम् आशङ्क्य पुनस् तद् अप्य् असहमानाह—उपेति । शङ्खादि-श्रिया सेवितं चत्वारो भुजा यत्र यदृशं यत् रूपम् आकर-विशेषः तद् एवोपसंहर गोपय रूपान्तरं तु प्रकटयेत्य् अर्थः । तथा सति लोके कुत्रापि गोपयितुम् अशक्यस इतिभावः । हे विश्वात्मन्न् इति युगपद् अनन्त-रूपावकाशत्वान् नात्र तवाशक्तिर् इति भावः अतो\ऽधिकम्भुज-द्वयं कौस्तुभादिकं च गोपयन् निगूढं लोकानुरूपम् एव प्रकाशयेत्य् अर्थः । तथा सति लोके कुत्रापि गोपयितुं शक्यस इति भावः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अत्र भक्ति-गौरव एव इमम् अर्थं पुनर् द्योतयति—उप-संहरेत्यादि । हे विश्वात्मन् ! अहो रूपम् उपसंहर । कीदृशम् ? अलौलिकं चतुर्भुजम् । लौलिक-द्विभुजम् एव तव श्री-कृष्णस्य स्वरूपम्—नराकृति परं ब्रह्म [भा। पु। ७-१०-४८, ७-१५-७५] गूढं परं ब्रह्म मनुष्य-लिङ्गम्, परमात्मा नराकृतिः इत्याद्योक्तेः, तद् एव प्रकाशयेत्य् अर्थः । इदं तु पौरुषं रूपम्, तद्-विशिनष्टि—शङ्ख-चक्रेत्यादि ॥३०-३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्वात्मन्न् इति विश्वस्य मध्ये अमहप्य् अस्मि तन्मामान्तर् मध्ये स्थित्वा कथम् एवम् अधीरां धियं प्रवर्तयसीति तवैवायं दोष इति भावः । अलौकिकम् इति लौकिक-नर-बालकाकारो भव यथा झटिति त्वाम् अहं क्वापि गोपयानीति भावः ॥३०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जन्मेति मा विद्यान्न जानातु कुत एवं वदसि तत्राह भवदिति । भवतः कल्याणमिच्छन्ती कंसादहं समुद्विजे यद्यपि मधुसूदनत्वात् कंसमागतं हन्यास्तथापि जननीत्वादहमधीरधीरस्मीति मत्प्रत्यक्षं युद्धकष्टं माभूदिति भावः ॥३०॥


**॥ १०.३।**३१ ॥

विश्वं यद् एतत् स्व-तनौ निशान्ते

यथावकाशं पुरुषः परो भवान् ।

बिभर्ति सोऽयं मम गर्भगोऽभूद्

अहो नृ-लोकस्य विडम्बनं हि तत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किम् इत्य् उपसंहर्तव्यम् एवं-भूतेन मया पुत्रेण तव महती श्लाघा स्याद् इति तत्राह—विश्वम् इति । निशान्ते प्रलयावसाने । यथावकाशम् असङ्कोचतः । असम्भावितत्वाद् उपहास्यतैव स्याद् इत्य् अर्थः ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतादृशं पुत्रं सर्वे वाञ्छन्ति त्वं किम् एवं वदसीत्य् आह—किम् इति । एवं-भूतेन शङ्खादि-शोभितेन नृलोकस्य मनुष्य-लोकस्य विडम्बनम् उपहास एवेत्य् अर्थः । एत्य् अर्थ इति । उचितेनैव श्लाघा न त्वसम्भविनेति भावः ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मम गर्भगो\ऽभूद् इति । गर्भज-मात्रत्वेन तस्याः प्रतीति-मात्रम्, न तु वास्तवम् इदं रूपं तिरोभावनीयम् एव, तत्र सन्देहो नास्ति ॥३१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं चास्मिन्न् ऐश्वरे रूपे वृत्ति सति सति मनुष्याणां मादृशां त्वयि स्नेहो\ऽपि न सम्भवतीत्य् आह—विच्वम् इति । तत् मद्-गर्भजत्वम् अनुकरण-मात्रम्, न तु तात्त्विकम् इति ज्ञानाद् इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् अधुना बन्धनात् तारयाम्य् एव त्वां मारयाम्य् एव तं तथेदृशेन मया पुत्रेण व्याजान्तरेणापि तत् प्रार्थयते विश्वम् इति । अत्र तेषाम् आभासे\ऽपि किम् इति साटोपम् एव वाक्यं ततश् च अधुना मारयाम्येवेत्य् एवोद्धत्येन ध्वनितं स्यात् एवम् इत्य् अर्थान्तरं विश्वम् अनन्त-कोटि-ब्रह्माण्डात्मकं निशा प्राकृत-प्रलयत्रात्रिः तद् अन्ते तस्या नाशे सृष्टि-स्थिति-समये परः पुरुषो महत् स्रष्टृ-रूपः सन् बिभर्षीति सोयम् एव हि विश्वम् अन्तर्भावयन् स्वांशिनं तं प्रविश्याविर्भवतीत्य् अभिप्रायात् गर्भजो गर्भगश् चेति पाठ-द्वयम् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्वम् इति । विश्वम् अनन्त-कोटि-ब्रह्माण्डात्मकं निशा प्रलय-रात्रिः तद् अन्ते तदानीम् एव तेषाम् अभिव्यक्तेः परः पुरुषो महत् स्रष्टृ-रूपः सन् ॥३१-३३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, किम् इत्य् उपसंहर्तव्यम् मया परमेश्वरेण पुत्रेण तव महती प्रतिष्ठैवास्त्विति चेन्नाहं प्रतिष्ठाम् आशासे इत्य् आह—विश्वम् इति । निशान्ते मन्दिरे निशान्तवस्त्यसदन-भवनातार-मन्दिरम् इत्य् अमरः । स्वतनु-मन्दिरे यथावकाशम् असङ्कोचतः नृलोकस्य मानुष्या मम विडम्बनम् एव तद् इदम् अयि मूढे कोटि-ब्रह्माण्ड-विग्रहो भगवांस् तव मानुष-पुत्र्या गर्भे स्थितो\ऽभवद् इति । वक्तुम् अभिमन्तुम् अपि किं न लज्जसे ? इति प्रतिवेशिन्यो माम् उपहसिष्यन्तीति प्रत्युताप्रतिष्ठैव मे स्याद् इति भावः ।

ननु, परब्रह्म-मूर्तेर् भगवतः साक्षाद् अपरोक्षानुभविनोर् देवकी-वसुदेवयोर् अपि किम् इदम् अघटमानमाविद्यकं भय-शोकादिकं मैवं विद्या-विद्याभ्यां बहिर् अङ्गाभ्यां पर-भूता खलु यान्तरङ्गा स्वरूप-भूता चिछक्तिस् तस्या अपि सार-वृत्ति-वृपो यः प्रेमा तद् विलास-भूतम् एवेदं भय-शोकादिकम् आविद्याकत्व-प्रवाद-पात्री-भवितुं नैवार्हति प्रेम्णोमायातीतत्वे किं प्रमाणम् इति चेत् भगवतः प्रेमवश्यत्वान्यथानुत्पत्तिर् एव मायामयत्वे तस्य मायावश्यत्वम् आपद्येतेति किं चात्र चान्यत्र च व्युत्पत्त्यर्थम् इदम् अभ्यस्यते भक्त्या माम् अभिजानाति यावान् यच् चास्मि तत्त्वतः । भक्त्याहम् एकया ग्राह्यः इति भगवद् उक्तेस् तस्य स्वरूपं भक्त्यैव गम्यम् इत्य् असीयते सा च भक्तिस्त्रिविधा गुणी-भूता प्रधानी-भूता केवला च तासां च क्रमेण ज्ञानं ज्ञानमयीरतिः प्रेमा चेति फलानि तत्र ज्ञानेन केवलं चित्-सुखैकमयं ब्रह्म-स्वरूपम् एव ज्ञानमय-रत्या चिद्-ऐश्वर्य-सुखमयं भगवत्-स्वरूपम् एव प्रेम्णा तु माधुर्यमयं कृष्ण-रामादि-स्वरूपम् एवास्वाद्यते कस्यचित् प्रेमवत् साधु-सङ्ग-महिम्ना प्राधानी-भूतापि भक्तिः प्रेम-फला स्यात् किन्तु तत् प्रेमैश्वर्यम् एवेत्य् आहुः, स्वरूपस्य वस्तुत ऐक्ये\ऽप्य् आस्वादन-भेदाद् भेदातिदेशः तच् च माधुर्यं श्री-विग्रह-निष्ठ-रूपादि-पञ्चकस्य भक्त-वात्सल्यस्य लीलायाश् चेति सप्तविधं रजस्थस्य तस्य तु वेण्य-वैश्वर्ययोर् आधिक्यानवविधं यद् उक्तम्—

चतुर्धा माधुरी तस्य व्रज एव विराजते ।

ऐश्वर्य-क्रीडयोर् वेणोस् तथा श्री-विग्रहस्य च ॥ इति ॥

प्रेमा च दास्य-सख्य-वात्सल्योज्वल-भेदाच् चतुर्विधाः तेष्व् अपि मध्ये वात्सल्य-प्रेमा स्व-स्वभाव-महिम्नैव कृष्णम् अनुकम्प्यत्वेन ममत्वातिशय-विषयीकृत्य स्पष्टम् अप्य् ऐश्वर्यं स्वयम् अनुभूयमानत्वं प्राप्तम् अपि तथाच्छादयति, यथा तन् ममता-रसनया निबद्धो वशीभूय स कृष्णः स्व-माधुर्यम् अपारमन्यानास्वाद्यं वात्सल्य-प्रेमवज् जनमास्वादयति । ज्ञानेन वा ज्ञानमय-रत्या वा सच्चिदानन्दात्मक-वस्तूनां य आस्वादस् तस्मात् कोटि-किटि-गुणितं ममता हेतुकम् आस्वादं प्रेमा प्रवर्तयति तथा हि सर्व-सन्ताप-निवर्तकात् परमाह्लादकात् दृष्यमानात् चन्दाद् अपि सकाशात् सर्व-गुण-हीनो\ऽपि कालत्वादि-दोष-युक्तो\ऽपि दृष्यमानः स्व-पुत्रो यत् सुखम् अधिकं दत्ते तत्र ममतैव यदि कारणं तदा सर्व-गुण-मण्डिते स्वभावाद् एव निरवधिक-सुखप्रदे श्री-कृष्णे पुत्री-भूते निरवधिकैव सा ममता प्रेम-निष्ठा किमुतेति ज्ञान-प्रेम्णोर् भेदो विवृतः यथाह्य् अविद्या-स्ववृत्या ममतया जीवं दुःखयितुम् एव बद्नाति तथैव प्रेमा स्ववृत्या ममतयेश्वरं सुख-रूपम् अप्य् अतिसुखयितुं बद्नाति यथा दण्डनीय-जनस्य गात्र-बन्धनं रज्जू-निगडादिना माननीय-जनस्यापि गात्र-बन्धनमनर्घ-सूक्ष्म-श्लक्ष्ण-कञ्चुकोष्णीषादिनेत्य् अविद्याधीनो जीवो दुःखो प्रेमाधीनः कृष्णो\ऽतिसुखीति किं च यथैवाविद्यया स्वतारतम्येन ज्ञानावरणतारतम्याज् जीवस्य पञ्चविध-क्लेश-तारतम्यं विधीयते तथैव प्रेम्णापि स्वतारतम्येन ज्ञानैश्वर्याद्यावरणतारतम्यात् स्व-विषयाश्रययोः अनन्त-प्रकारं सुख-तारतम्यं विधीयते इति तत्र केवलः प्रेमा श्री-यशोदादि-निष्ठः स्व-विषयाश्रयौ ममतारशनया निबद्ध्य परस्पर-वशी-भूतौ विधाय ज्ञानैश्वर्यादिकम् आवृत्य यथादिकं सुखयति न तथा देवक्यादि-निष्ठः ऐश्वर्य-ज्ञान-मिलितत्वेन प्राबल्याभावात् तत् प्रेम्णस् तथा तथा भूतत्वे कारणं तु नान्वेष्टव्यं तासां यशोदादि-देवक्यादीनां नित्य-सिद्धत्वाद् एव तत् तत् तादृश-प्रेम-विशेषाणाम् अपि नित्य-सिद्धत्वाद् इति सर्वं निरवद्यम् ॥३१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नन्वागतः कंसो मद्रूपं पश्येदे भवेद् एव तेन साकं मे युद्धम् इति चेत्तत्राहोपसंहरेति अलौकिकम् इति । लौकिकनरबालकतुल्यो भव यथा त्वां क्वचिद् गोपितुं शक्नुयाम् इति वात्सल्यभयाद्भयोदयः ॥३१॥


**॥ १०.३।**३२ ॥

श्री-भगवान् उवाच—

त्वम् एव पूर्व-सर्गेऽभूः पृश्निः स्वायम्भुवे सति ।

तदायं सुतपा नाम प्रजापतिर् अकल्मषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चतुर्-भुजेन रूपेणाविर्भावे कारणं तावद् आह—त्वम् एवेत्य्-आदि-चतुर्दशभिः । पूर्व-सर्गे प्रथम-जन्मनि । अभूः आसीः । पृष्निर् नाम स्वायम्भूवे मन्वन्तरे तदा अयं वसुदेवः ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावद् आदौ चतुर्दशभिः, त्वम् एव इत्य् आरभ्य, मद्-गतिं पराम् [४२] इत्य् अन्तैः ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तयोर् उक्तिभिर् आनन्दितो निज-दिव्य-रूपाविर्भाव-कारण-वर्तमाने । यद् वा, हे सतीति पुनः पुनस् तस्यैव पत्नीतया पातिव्रत्य्-निष्ठाभिप्रायेणाकल्मषो राग-द्वेषादि-रहिते दुअर्व्हासना-हीनो वा । एवम् अन्यो\ऽन्यं दाम्पत्य-योग्यतोक्ता ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तयोर् उक्तिभिर् आनन्दितो निज-प्रसिद्ध-रूपाविर्भाव-कारण-कथानादिना तौ प्रतिष्टुवन्न् इव परिसान्त्वयन् मातरि स्नेह-व्रत्य् अनिष्ठाभिप्रायेण अकल्मषः राग-द्वेषादि-रहितः एवम् अन्योन्यं दाम्पत्य-योग्यतोक्ता ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वम् एवेत्य् आदि-चतुर्दशभिः । अभूः आसीः स्वायम्भुवे मन्वन्तरे सति वर्तमाने अयं वसुदेवः ॥३२.३३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु मातः कथमिदमैश्वरं रूपमुपसंहार्यं तवानेन कोतिर्भवेत् परेशस्य जननी देवकीति चेत्तत्राह विश्वम् इति । निशान्ते मन्दिरे निशान्तवस्त्यसदनभवनागारमन्दिरम् इत्यमरः । परः पुरुषो भवानेतद्विश्वं यथावकाशमसङ्कोचतः स्वतनुमन्दिरे बिभर्ति सो\ऽयं विभुः परिमितायां मम गर्भगो\ऽभूदिति नृलोककर्तृकं मे विडम्बनमनादरणं तथा च नाहं कीर्तिमिच्छामि किन्तु त्वत्कल्याणमेवेति, रूपमिदमुपसंहर कंसे\ऽष्टमगर्भावेदनन्तु मायान्तरेण भावीति अत्र वसुदेवदेवक्योर्भयादिकं न मायिकं किन्तु पराख्यशक्तिविलासभूतम् एव वात्सल्यमयम् इति विष्णोर्माया भगवतीति पद्यटिप्पण्यां निर्णीतम् ॥३२॥


**॥ १०.३।**३३ ॥

युवां वै ब्रह्मणादिष्टौ प्रजा-सर्गे यदा ततः ।

सन्नियम्येन्द्रिय-ग्रामं तेपाथे परमं तपः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेपाथे तपः कृत्वन्तौ ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजासग ताद् अर्थ्ये सप्तमी तेपाथे आत्मनेपदम् आर्षम् ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै प्रसिद्धौ स्मरणे वा । ततस् तदानीम् एवेति ब्रह्मादेश-पालन-परतोक्ता । इन्द्रिय-ग्रामं सर्वाण्य् एव इन्द्रियाणि सम्यक् नियम्य इति च । दान्ति निष्ठा, अत एव परमम् ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै प्रसिद्धौ स्मरणे वा । ततस् तदानीम् एवेति ब्रह्मादेश-पालन-परतोक्ता सन्नियम्य इति च शान्ति-निष्ठा अत एव परमम् अनेकार्थस्य तपेः तपः कृत्यर्थ-व्यक्तय एव तपः-शब्दो\ऽनूद्यते इत्य् अभिप्रेत्य तैर् व्याख्यातं । तेपार्थे तपः कृतवन्ताव् इति किन्तु उक्तार्थानाम् अप्रयोग इति तत्र कृतवन्ताव् इत्य् अर्थः । पर्यवस्यति तत एव चान्वितं स्याद् इति ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : []{।मर्क्}


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भो मातः! किमेवं दैन्यं मन्यसे, न त्वं प्राकृती मानुषी किन्तु परांशभूतैव यदहं बहुकृत्वस्त्वत्पुत्रो\ऽस्मीत्याह त्वमेवेति चतुर्दशभिः हे सति! स्वायम्भुवे मन्वन्तरे त्वम् एव पृश्निः अयं वसुदेवः सुतपाः ॥३३-३४॥


**॥ १०.३।**३४-३५ ॥

वर्ष-वातातप-हिम-घर्म-काल-गुणान् अनु ।

सहमानौ श्वास-रोध-विनिर्धूत-मनो-मलौ ॥

शीर्ण-पर्णानिलाहाराव् उपशान्तेन चेतसा ।

मत्तः कामान् अभीप्सन्तौ मद्-आराधनम् ईहतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईहतुः कृतवन्ताव् इत्य् अर्थः ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तपसः परमत्वम् आह—आतपः सौर-तापः घर्मो निदाघोत्थतापः । वर्षाद्या घर्माताश् च ते काल-गुणास् तान् । श्वास-रोधेन प्राणायामेन विनिर्धूतं निरस्तं मनो-मलं चाञ्चल्यं याभ्यां तौ तथा ॥३४॥

शीर्ण-पर्णानि वायु-पतित-पत्राणि । ईहतुश् चक्रतुः ईह चेष्टायाम् परस्मैपदम् आर्षम् । तत्त्वाद् एवाम्-अभावश् च ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव दर्शयति—वर्षेति द्वाभ्यां । वर्षादीन् कालस्य गुणान् स्वभावाननु निरन्तरं सहमानावतपः साक्षाद्-रविरश्मितापो धर्म-औष्ण्यम् । किं च, श्वास-रोधः प्राणायामस् तेन विशेष सम्यक्तया निःशेषेण च समूलतया धूता नाशिता मनसो मलाः कामादयो याभ्यां तौ । अत एवोपशान्तेन सुस्थिरेण । किं वा, मन्-निष्ठेन शमो मन्-निष्ठता बुद्धेः [भा।पु।११.१९.३६] इति श्री-भगवद् उक्तेर् इति शान्ति-निष्ठा-कामान् मत्-पुत्रता-वरान् । गौरवेण बहुत्वम् ॥३४-३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तप एव दर्शयति—वर्षेति युग्मकेन । वर्षादीन् कालस्य गुणान् प्राणायामस् तेन प्रथमं सहमानौ आतपः साक्षात् रवि-रश्मि-तापः धर्म औष्ण्यम् । यद् वा, आपतः शारदस्य रवेः धर्मो नैदाघस्य । किं च, श्वास-रोधः प्राणायामह्, तेन प्रथमं सामान्यतो धूता नाशिताः । ततो यावद् उपलभ्यन्ते, तावन् निःशेषेण धूताः । ततः स्वयम् अनुपलभ्यमानाया अपि सुक्ष्मतम-वासनाया उच्छेदनेन विशेषेण निर्धूता मनसो मलाः कामादयो याभ्यां तौ । एतेन यत् किञ्चित् [त्वमध्यत्वयावत्व]{।मर्क्}-क्रमेण तयोर् आग्रहाधिक्यं बोधितम् । अत एव उपशान्तेन सुस्थिरेण । किं वा, मन्-निष्ठेन, शमो मन् निष्ठता बुद्धिर् [भा।पु। ११.१९.३६] इत्य् उक्ते इति शान्ति-निष्ठा मत्तः पुत्र-भूतात् कामान् जनक-भावोचित-सुखानि प्रजा-सर्गं इत्य् उक्तत्वात् मादृशो वा वृतः सुत इति वक्षमाणत्वाच् च ॥३४-३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अनेकार्थस्य तपेः तपः-कर्मक-कृत्य्-अर्थ-व्यक्तय एव तपः-शब्दो\ऽनूद्यते । आतपः शारदस्य रवेः घर्मो नैदाघस्य मत्तः पुत्र-भूतात् कामान् जनक-भावोचित-सुखानि प्रजा-सर्गं इत्य् उक्तं मादृशो वां वृतस् सुत [३७]इत्य् अग्रतश् च वक्ष्यते ॥३४-३६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आतपः सौर-किरणेत्थस् तापः धर्मो निदाघोत्थः ॥३४-३५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वर्षेति युग्मकम् । वर्षादीन् कालगुणान् सहमानौ श्वासरोधः प्राणायामः मनोमलोरागादिः उपशान्तेन रागादिशून्येन ॥३५-३६॥


**॥ १०.३।**३६ ॥

एवं वां तप्यतोस् भद्रे8 तपः परम-दुष्करम् ।

दिव्य-वर्ष-सहस्राणि द्वादशेयुर् मद्-आत्मनोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तप्यतोर् आचरतोः ईयुर् गतानि । मद्-आत्मनोर् मच्-चित्तयोः ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं वर्षादि-सहनादि-प्रकारेण । वां युवयोः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भद्रे ! हे परम-भाग्यवतीति तत्र योग्यतोक्ता । यद् वा, भद्र-वने माथुर-क्ष्रेत्र एवात्र मय्य् एव आत्मा चित्तं ययोर् इति कामान्तरं निरस्तम् इत्य् उपरति-निष्ठा ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भद्रे ! हे परम-भाग्यवतीति तत्र योग्यतोक्ता । यद् वा, भद्रवने माथुर-क्षेत्र एवात्र मय्य् एव आत्मा चित्तं ययोर् इति कामान्तरं निरस्तम् इत्य् उपरति-निष्ठा ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-आत्मनोर् मच्-चित्तयोः ॥३६॥


॥ १०.३.३७-३८ ॥

तदा वां परितुष्टोऽहम् अमुना वपुषानघे ।

तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥

प्रादुरासं वरद-राड् युवयोः काम-दित्सया ।

व्रियतां वर इत्य् उक्ते मादृशो वां वृतः सुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमुना वपुषा प्रादुर्भूतोऽस्मि ॥३७॥ वरद-राट् वरदेषु श्रेष्ठ इत्य् अर्थः । तेन सकृद्-वरेण च वारं वारम् आविर्भावे कारणम् उक्तम् । कामस्य दित्सया दातुम् इच्छया । मादृशो मया सदृशः ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अमुना इदानीं दर्शितेन । वपुषा शरीरेण ॥३७॥

वरदेषु ब्रह्मादिषु राजत इति वरद-राट् विष्णुर् अहम् । इत्य् अर्थ इति—आत्म-प्रदत्वात् सर्व-वरदोत्तम इति तात्पर्यम् । सर्वान् ददाति सुहृदो भजतोऽभिकामान् आत्मानम् अप्य् उपचयापचयौ न यस्य [१०.४८.२६] इत्य्-उक्तेः । एन वरद-श्रेष्ठत्वेन हेतुना । सकृद् वरेण च चोऽप्य्-अर्थे । एक-वार-वरेणापि यतोऽहं वरद-श्रेष्ठस् तत एवैक-वार-वरेण वारं वारं प्रादुर्भूत इति । वां युवाभ्याम् ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इदं रूपं मे ऐश्वरम् ऐश्वर्य-ख्यापकम्, द्विभुजन्तु सहजम्, संप्रति तद् एवाविष्करिष्ये, किन्तु युवयोः प्रत्ययार्थम् एवैतद्-रूपम् आविष्कृतम् इति भगवान् वदति—तदा वां परितुष्टो\ऽहम् इत्य्-आदि । अमूना वपूषा चतुर्भुजेन विग्रहेण पूर्वं प्रादुर् आसम्, तत् स्मरणार्थम् इदं प्रकटी-कृतम् इत्य् अर्थः । युवाभ्यान्तु मादृशो मत् सदृशः पुत्रो वृतः, न त्व् अहं वृतः ॥३७-३८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनघे ! हे सर्वापराध-रहित इति तपो-निश्हद्रता सूचिता । अतएव वाम् युवां प्रति परितस् तुष्टः सन्, अमुनैतेन दिव्येन । ननु भक्त्यैव परितोष्यस् त्वम्, न तु तपो-मात्रेण ? सत्यम्, तेनैव तद् उत्पत्तेर् इत्य् आह—तपसा, श्रद्धा विश्वासस् तया, भक्ति प्रेम-लक्षणा, तया नित्यं हृदि भावितः प्रापितो ध्यातो वा सन् नमुना वपुषेत्यस्याप्य् अनुषङ्गः । विशेषणे तृतीया । अयं तेन रूपेण प्रादुर् भावे युवाभ्यां मादृशो मत् सदृश एव वृतः, न तु साक्षाद् अहं लज्जादिना साक्षात् तथा वरणे\ऽशक्तेर् इति भावः ॥३७-३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एति सार्धकम् । अनघे ! हे सर्वापराध-रहिते ! इति तपि-निश्छिद्रता सूचिता अत एव वां युवयोः सम्बन्धेन युवां प्रतीत्य् अर्थः । परितः तुष्टः सन् परीति-कर्म-प्रवचनीयं वा तश् च वीप्सायां च जन्म-भेदेनेति तथैवार्थः । ननु, भक्त्यैव परितोष्यस् त्वं न तु तपसा सत्यं पारम्परिकम् एव कारणं तद् इत्य् आह, तपसा मत्सन्तोषार्थं प्रयुक्तेन जातायां नवधा साधन-भक्तौ श्रद्धा तया जाता या तल् लक्षणा भक्तिस् तया नित्यं हृदि भावितः यत्नेन प्रापितः चकाराद् विनैव यत्नं च प्रेम-लक्षणया प्रापितः पुत्रत्व-भावनामय्य् एवेति ज्ञेयम् । अमुना एतेन श्री-कृष्णाख्येन वपुषेति परितोषादौ सर्वत्र योज्यम् अमुना वपुषा हृदि भावितः अत एव परि सर्वतो भावेन तुष्टो\ऽहम् अत एवामुनैव वपुषा प्रादुर् आसम् इति वरदराडिति तैर् व्याख्यातम् । किं च तपसो\ऽधिक-फल-दाने तत्र चोत्तरोत्तराधिक्ये च कारणं ज्ञेयम् ॥३७॥

व्रियताम् इत्य् अर्धकम् । वां युवाभ्याम् इत्य् अर्थः । तृतीयायाः षष्ठी मादृशः मत्-सदृश एव वृतः, न तु साक्षाद् अहं लज्जादिना तथा वरणाशक्तेर् इति भावः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भगवत् प्रत्य् उक्तिः । एतद् रूपं संहर्तव्यम् एव, किन्तु पुरैतद् रूपेण भवतोरहं साक्षाद्-भूतः, तद् अर्थ इदानीम् अपि तेनैव रूपेण भवतोः प्रत्ययार्थं प्रादुर्-भूतः, वस्तुतस् तु द्वि-भुज एवास्मीत्य् आह—तदा वां परितुष्टो\ऽहम् इत्य्-आदि बहुभिः । यदा पूर्वं भवद्भ्यां मत् सदृश-पुत्र-काम्यया दुश्चरं तपस् तप्तम्, तद् एत्य् अर्थः । परितुष्टः सन्नमुना चतुर्भुजेन, न तु स्वरूपेण द्विभुजेन वपुषा, प्रादु आसम् । कीदृशो\ऽहम् ? तपासा श्रद्धया नित्यं हृदि भावितः । पुनः कीदृक् ? वरदराट् । किम् अर्थम् ? युवयोः कामदित्सया । कामम् आह—व्रियताम् इत्य्-आदि । मादृशो मत् सदृशो\ऽहम् ॥३७-३८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मदीय-व्रत-रूप-तपः-श्रद्धा-भक्ति-पूर्वकं निरन्तरं मद्ध्यानम् एव मत् परितोषे कारणम् इत्य् आह—तद् एति । अमुना अनेन चतुर्भुजेन अत्र भक्त्येति श्रद्धयेति नित्यम् इति भावित इति पदत्रयाधिक्येन नेयं तपो-योगाङ्ग-भूता भक्तिर् व्याख्येया सा तु मदात्मनोर् इत्य् एतावन् मात्रेणैव सिद्ध्येदतस् तत् पृथग्-भूता प्रेम-हेतु-भूतैव ततश् च तपो-योगावेवाधिकावनयोर् ऐश्वर्य-ज्ञान-हेतुज्ञेयाव् इति केचिद् आहुर् अन्ये तु नित्य-सिद्धयोर् देवकी-वसुदेवयोः प्रेमापि9 ऐश्वर्य-ज्ञान-मिश्रो नित्य एव तद् अंशयोः पृश्नि-सुतपसोर् ज्ञान-योगौ त्व् अंशिनोस् तयोर् अकिञ्चित्कराव् इत्य् आहुः, अत्र चिन्तित इत्य् अनुक्त्वा भावितो भाव-विषयीकृत इत्य् अनेन राग-भक्तिर् अवगम्यते ॥३७-३८॥


**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :**मदात्मनोर्मदेकमनसोः ॥३७॥


**॥ १०.३।**३९ ॥

अजुष्ट-ग्राम्य-विषयाव् अनपत्यौ च दम्-पती ।

न वव्राथेऽपवर्गं मे मोहितौ देव-मायया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मे मत्तोऽपि युवाम् अपवर्गं न वव्राथे न वृतवन्तौ ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अजुष्ट-ग्राम्य-विषयौ अननुभूत-मैथुनादि-सुखौ । देवस्य मम मायया पुत्र-स्नेह-मय्या । वैष्णवीं व्यतनोन् मायां पुत्र-स्नेह-मयीं विभुः [भा।पु। १०.८.४३] इत्य् उक्तेः ।पुत्र-स्नेहोऽपि माया-शब्देनोच्यते । मोहितौ तद्-आस्वादनानन्देन विचित्ती-कृतौ । अत्रोत्तर-श्लोक-गत-युवाम् इति पदम् अन्वेत्य्, अन्यथा तत्र पुनर्-उक्ति-दोषो भविष्यतीति ॥३९-४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न वव्राथ इति । अपवर्गं न वव्राथे, मत्-सदृशम् एव पुत्रं वव्राथे । कुतः ? मम मायया आमोहितौ, माया-मोहिता एवापवर्गं वृणते ॥३९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपवर्गावरणे हेतुः—अजुष्टेत्य्-आदि । विषय-भोगाद्य्-अभावेन वैराग्यानुत्पत्त्या मोक्षारुचेर् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, च अपि । असेवित-लौकिक-विषयाव् अपि, पुत्र-कन्यादि-रहिताव् अपि युवाम्, तथापि मादृशः सुत एवैको युवाभ्यां वृतः, न तु विषय-भोगो बहुल-पुत्र-कन्या-पत्यानि वेत्य् अर्थः । अहो ! मोक्षो\ऽपि न वृत इत्य् आह—अपवर्गम् इति । तत्र सर्वत्र हेतुः—अमोहिताव् इत्य् अनेन मोक्षस्यापि माया-मोहित-ग्राह्यत्वम् उक्तम् ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तादृशेन च मद्-भावेन युवां केवलं विषयान्तरोत्पादनं नादृतवन्तौ, अपि तु तद्-अनादरेण मोक्षाय याग्याव् अपि मत्-प्रसादनेन तं हस्त-प्राप्तम् अपि नादृतवन्ताव् इत्य् आह—अजुष्टेति । तत्र अजुष्ट-ग्राम्य-विषयाव् इत्य् अनेनाहङ्कारास्पद-देहावेशो निरस्तः, अनपत्याव् इत्य् अनेनापत्योपलक्षितम् अमतास्पदाभाव उक्तः । ततश् चापवर्गाचरण-योग्यत्या दर्शिता तद् उक्तं, विनिर्धूतम् अनो-मलौ इति । तत्रापि मे मत्त इति प्राप्ति-भावना दृढी-कृता । तद् उक्तं—वरद-राड् [१०.३.३८] इति तादृशाव् अपि युवां तादृशाद् अपि मत्तो न वव्राथ । तत्र क्रम-प्राप्तं हेतुं निर्विशति—मोहितौ मम माययेति मम मदीयया मायया झटिति स्व-विषयक-पुत्र-स्नेह-सम्पादिकया मायया कृपया । यद् वा, मद् विषय-पुत्री-चित-लालनेच्छामय्या कृपया तिस्कृतान्य-भावत्वाद् इत्य् अर्थः । दृष्टान्तस् तु सालोक्य-सार्ष्टीत्य्-आदिषु प्रसिद्ध एवेति नोक्तः ॥३९॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १३५) : युवयोः प्राग् अंशेनाविर्भूतयोर् अपि मद्-एक-निष्ठासीद् इत्य् आह—अजुष्टेति । मम मायया मद्-विषय-स्नेह-मय्या शक्त्येत्य् अर्थः । वैष्णवीं व्यतनोन् मायां पुत्र-स्नेह-मयीं विभुर् [भा।पु। १०.८.४७] इति व्रज-राज्ञीं प्रति च दर्शनात् । तादृश-स्नेह-जनिकया मम कृपयेति वा, माया दम्भे कृपायांच इति विश्व-प्रकाशात् । तत्-प्रेम्णैव ह्य् अपवर्गस्य तिरस्कारः सर्वत्र श्रूयते, यद्यपि मोक्ष-वरणे हेतुर् अस्तीत्य् आह—अजुष्टेति । विषयावेशाभावाद् वैराग्योत्पत्तेर् इति भावः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्य कामस्य प्रशंसा व्यतिरेकेण दर्शयन्न् आह—अजुष्ट-गृअम्य-विषयाव् इत्य्-आदि । स्वाभावत एव विरक्तौ भवन्तौ अजुष्टो\ऽसेवितो ग्राम्य-विषयो ग्राम्य-धर्मो याभ्याम्, अत एवानपत्यौ, तथापि मे मत्तः सकाशाद् अपवर्ग न वव्राते, मद्-विषयक-वात्सल्य-रसात् तत्रारुच्या । कुतः ? मम माययामोहितौ । मम माया-मोहिता हि अपवर्ग वाञ्छन्ति, माया-तरणार्थम् । ये तु मायया मोहिता न भवन्ति, तेषां किं तेनेति । ते तु मयि रतिम् एव कुर्वन्तीति भावः ॥३९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मायया पुत्र-स्नेहमय्या, वैष्णवीं व्यतनोन् मायां पुत्र-स्नेहमयीं विभुः [भा।पु। १०.८.४३] इत्य् उपरिष्टाद् उक्तेः पुत्र-स्नेहो\ऽपि माया-शब्देनोच्यते । मोहितौ तद्-आस्वादानन्देन विचित्री-कृतौ ॥३९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भावितो भावविषयतां नीतः ॥३८-३९॥


**॥ १०.३।**४० ॥

गते मयि युवां लब्ध्वा वरं मत्-सदृशं सुतम् ।

ग्राम्यान् भोगान् अभुञ्जाथां युवां प्राप्त-मनोरथौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वरं दत्त्वा मयि गते ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः साधिते मयि मद्-एकार्थाद् वैराग्याद् अपि शिथिलौ जातौ उत्फुल्लमनस्त्वेन स्वस्य मल्-लक्षण-पुर-सम्पत्ति-योग्यतेच्छया च विषयम् अप्य् अर्जितवन्ताव् इत्य् आह—गते मयीति । पश्चात् ग्राम्यान् भोगान् अपि युवां भुक्तवन्तौ, यतो युवां प्राप्त-मनोरथौ भूतौ युवां प्रतिगतौ इति वा । अत्र टीकायां वरं दत्त्वा इत्य् अध्याहृत्यैव व्याख्यातम्, दत्त्वेति पाठस्य कुत्राप्य् अदर्शनात् । वरं मत्-सदृशम् इत्य् अत्र च वर-शब्दः कर्म-साधनः ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वरम् एव विवृणोति—मत् सदृशं सुतम् इति । पश्चाद्-ग्राम्यान् भोगान् अपि युवां भुक्तवन्तौ, यतो युवां प्राप्त-मनो-रथौ भूतौ पुत्रत्वेन मत्-प्राप्त्या कुतश्चिद् अपि भयाभावात् । यद् वा, पुत्रोत्पत्त्य् उपकरणत्वेन तैल-ताम्बुल-शय्या-वस्त्राद्य् उपभोगस्यापेक्ष्यत्वात् ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः साधिते मयि मद् एकार्थाद्वैराग्याद् अपि शिथिलौ जातौ उत्पुल्लमनस्त्वेन स्वस्य मल् लक्षण-पुत्र-सम्पत्ति-योग्यतेच्छया च विषयम् अप्य् अर्जितवन्तावित्य् आह, गते मयीति । पश्चात् ग्राम्यान् भोगान् अपि युवां भुक्तवन्तौ यतो युवां प्राप्तवनोरथौ भूतौ युवां प्रति-गते इति वा अत्र टीकायां वरं दत्वेत्य् अध्याहृत्यैव व्याख्यातं दत्वेति पाठस्य कुत्राप्य् अदर्शनात् वरं मत्-सदृशम् इत्य् अर्त च वर-शब्दः कर्म-साधनः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : युवां गते प्राप्तवति मयि वरं लब्ध्वा अत उत्फुल्लम् अनस्त्वेन तादृश-पुत्रार्हसम्पत्ति-योग्यतेच्छया च विषयोपार्जनं ज्ञेयम् ॥४०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मादृश एव सूतो भवद्भ्यां वृतः, न त्वहम् इति कृत्वा पूर्वम् अंशेन वां सुतपः-पृश्निभ्यां पृश्नि-गर्भः इति पुत्रो\ऽभवम् । तद् अनु उपेन्द्र इति च कश्यपादितिभ्यां तथैवांश-रूपेण उपेन्द्रो\ऽप्य् अभवम्, मत् सदृशस्याभावाद् अंशेनैवाभवम् इति भावः ॥४०-४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्राम्यान् भोगान् इति तादृश-पुत्रोत्पत्तीच्छयेति भावः । व्यवायो ग्राम्य-धर्मश् च इत्य् अमरः ॥४०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अपवर्गं सुखैश्वर्यप्रधानं मोक्षं मायया पुत्रस्नेहलक्षणया परया मोहितौ तदनुभवेन विचित्रतां गतौ वैष्णवीं व्यतनोन् मायां पुत्र-स्नेह-मयीं विभुः इति वक्ष्यति ॥४०॥


॥ १०.३.४१ ॥

अदृष्ट्वान्यतमं लोके शीलौदार्य-गुणैः समम् ।

अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यतमं कम् अपि शीलं वृत्तम् । औदार्यं माहात्म्यम् । गुणा वात्सल्यादयः । वां युवयोः ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शीलं स्वभावः शान्तत्वादि, औदार्यं महत्त्वं जगदीशत्वादि, गुणः कारुण्यादिः, तैर् आत्मना समं तुल्यम् । श्रुत इति तस्य तन्-नाम्नैव व्याख्यातत्वात् ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहं तु भवद्भ्यां तद्-उक्ति-चातुर्याच्छलित इव पश्चाद् विचार्यं भवन्-मनो-गतम् एव कृतवान् इत्य् आह—अदृष्ट्वेति । शीलं सच्-चरित्रम् औदार्यं महत्त्वं गुणस् तस्याः कारणं कारुण्यादिः, तैर् आत्मनैव समं तुल्यं स्मृतः ख्यातः शुर इति पाठः क्वचित् सो\ऽयम् एव त्रेता-युगाधिष्ठाता बभूवेति लक्ष्यते, विष्णुर् यज्ञः पृश्नि-गर्भः सर्व-देव उरुक्रमः [भा।पु।११.५.६१] इत्य्-आदिकं ह्य् एकादशे तत्-प्रसङ्गतः श्रूयते ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अदृष्ट्वेति । शीलं सच्-चरित्रम्, औदार्यं महत्त्वं, गुणाः कारुण्यादयः, तयोः कारणानि ॥४१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृश्नि-गर्भ इति सो\ऽयं त्रेता-युगावतारो लक्ष्यते, विष्णुर् यज्ञः पृश्नि-गर्भः [भा।पु।११.५.६१] इत्य् एकादशे तत्-प्रासङ्गिकोक्तेः ॥४१॥


**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :**प्राभ्यान् भोगान् मादृशपुत्रोत्पत्तीच्छया व्यवायान् व्यवायो ग्राम्यधर्मश् च इत्यमरः ॥४१॥


**॥ १०.३।**४२ ॥

तयोर् वां पुनर् एवाहम् अदित्याम् आस कश्यपात् ।

उपेन्द्र इति विख्यातो वामनत्वाच् च वामनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अदित्यां कश्यपाद् वामन आस इति यत्, तद् अपि तद्-रूपयोर् युवयोर् अहम् एव पुनर् आसम् इत्य् अर्थः ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-रूपयोः पृश्नि-सुतपो-रूपयोर् एवादिति-कश्यपयोः । अहम् एव यः पृश्नि-गर्भः, स एवाहम् । इत्य् अर्थः इति—यः पूर्वम् अवतीर्णः, स एव पुनर् अप्य् अवतीर्णोऽस्मीति-भावः । वामनत्वाद् ध्रस्वत्वात् सुन्दरत्वाद् वा वामनः सुन्दरे खर्व हराव् अङ्कोट-पादपे10 इति धरणिः ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तयोर् इति तैर् व्याख्यातम् । आसम् इति वक्तव्यो आसेत्यार्षम् । किं वा, अहम् आसेति परोक्ष-प्रयोग आर्षः । वामनश् चेति विख्यातः ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तयोर् इति तैर् व्याख्यातम् । तत्र तद् अपीत्य् आदौ तद् अपि ममैव पुनर् अस्तित्वम् इत्य् अर्थः । वामन आस इति यद् इति उपेन्द्र इति विख्यातो वामनत्वाच् च वामनः इति विख्यातो यः स आसेति यद् इत्य् अर्थः अस्ते लिटि रूपं भ्व्-आदेशाभाव आर्षः । यद् वा, तथा तथा विख्यातः सन् यः कश्यपाद् अदित्याम् आस बभूव, सो\ऽहम् एव तद्-रूपयोर् युवयोर् आस बभूवेति ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : या तयातिदुरत्यया अभवन्, ता द्वारो\ऽपि श्री-वसुदेव आगते सति विवृता इति द्वयोर् अन्वयः । तद्-अंशस्येव तत्-साम्यात् पृश्नि-गर्भादि-रूप-द्वयेन पूर्वम् आविर्भावः । तथाप्य् अपरितोषात् तृतीये स्वयम् एव स्वयं तावद् अत्रैव तेनैव वपुषेत्य् उक्त्या गम्यते ॥४२-४४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अदित्यां कश्यपाद् वामनआस इति यत्, तद् अपि तद्-रूपयोर् युवयोर् अहम् एव पुनर् आसम् इत्य् अर्थः ॥४२॥


**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :**पृश्निगर्भो यो ध्रुवाय वरमदात् त्रेतावतारो\ऽयं विष्णुर्यज्ञः पृश्निगर्भ इति तत्प्रासङ्गिकोक्तेरेकादशे ॥४२॥


**॥ १०.३।**४३ ॥

तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् ।

जातो भूयस् तयोर् एव सत्यं मे व्याहृतं सति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्मिन् वर्तमानकालीए भवे जन्मनि । तेनैव शङ्खाब्जादियुतेन भूयः पुनस् तयोर् एव पृश्निसुतपसोर् एव नामान्तरेण देवकी-वसुदेवयोर् वां युवयोः । हे सति । व्याहृतं कथितम् ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मादृशत्वं लोके नास्त्य् एव, युवाभ्यां तु स हि वृतः, अतो मया अंशेन पृष्णि-गर्भोपेन्द्र-रूपाभ्यां द्वयोर् एव भवयोर् अभवम्, तथापि युवयोस् तपसा नाहम् अनृणी, तेन युवाभ्याम् अहम् अवृतो\ऽपि स्वयम् एवास्मिन् भवे पुत्रो\ऽभवम् इत्य् आह—तृतीये\ऽस्मिन् भवे\ऽहं वै इत्य्-आदि । वै प्रसिद्धे, प्रसिद्धः परिपूर्णः सर्वेश्वरः पतात्पर इति वै-शब्दस्यार्तः । तेनैव वपुषा अहम् इत्य् अस्य समुचितेन परिपूर्ण-सच् चिद् आनन्द-स्वरूपेण श्री-विग्रहेण, सर्व-नाम्नो वुद्धिस्थत्वाद् एवम् अधि-गन्तव्यम् । न तु पृष्णि-गर्भादिवद् अंश-रूपेण प्रादुर् आसम् । अत एतद् एव तद् अर्थितं यत् त्वया मा प्रत्यक्षम् [२८श श्लो] इत्य्-आदिना प्रत्य् एषेधि । भुजाधिक्यन्तु प्राक्-स्मृतये, अन्यथा यद्य् अपि मर्त्य-लिङ्ग एवाहं गूधं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु।७.१०.४८] इत्य्-आदिना तत् स्वरूपत्वे\ऽपि ऐश्वर्य-प्रकाशकं चतुभुज-रूपं झटिति मत् स्वरूपाज्ञानान् न द्विभुजत्वेन प्रादुर् आसम् इत्य् आह—नान्यथेत्य् आदि । इति व्याक्यार्थः, इति सत्यम् एव मे मया व्याहृतम् ॥४३.४४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : येन पुरा प्रादुर् आसन्, तेनैवेत्य् अधुना परिपूर्णतया पूर्व-जन-द्वये चांशतयेति बोधयति आत्मनो\ऽवतारित्वात् तयोश् चावतारत्वात्, [भा।पु।१.३.२८] एते चांश-कलाः पुंसः इत्य् आद्य् उक्तेः । वै स्मरणे । अथानन्तर्यं माङ्गल्ये वा । वां युवयोस् तयोर् एवेति जन्म-भेदेष्व् अभेदं बोधयति । हे सतीत्य् एवं सतीत्य् एवं पाति-व्रत्यादि-धर्मतया मद् उक्तेर् अपि सत्यतापेक्षत एवेति भावः ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : येन पुरा वराय प्रादुर् आसं तेनैवेति अत एव पृश्नि-गर्भाद् इत्वे तेनैव वपुषेत्य् अनुक्तत्वात् न तु तदानीम् अधुनेव स्वयम् एव किन्त्व् अंशेनैवेति एते चाम्श-कला पुम्सः इत्य् आद्य् उक्तेः पृश्नि-गर्भस् तु ते बुद्धिम् आत्मानं भगवान् परः इत्य् अत्राप्य् एतद् एव गीर्देव्या सूचितम् अस्ति अत एव वै निश्चये अथ कार्त्स्न्य तृतीय एव भवे तत्-सदृशसुत-प्राप्ति-लक्षण-वरस्य परम-पूर्णत्वापेक्षया च सत्यं मे व्याखृतम् इत्य् उक्तम् ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तथापि भवतोस् तपसा ऋणीव पुनस् तृतीये\ऽस्मिन् भवे\ऽहं परिपूर्ण एव प्रादुर् आसम् । तत् स्मरणार्थं तेनैव वपुषा चतुर्भुजेनेत्य् आह—तृतीये\ऽस्मिन् भवे\ऽहं वै इत्य्-आदि । वै इति प्रसिद्धौ । प्रसिद्धः परिपूर्णः सर्वेश्वरेश्वरः परात् परः, तेनैव वपुषा अहम् इत्य् अस्य समुचितेन वपुषा परिपूर्ण-सच् चिद् आनन्द-रूपेण श्री-विग्रहेण न तु पृश्नि-गर्भादिवद् अंशकलया । भुजाधिक्यं तु यद् इदम्, तत् प्राक्-स्मृतय एव । यद्य् अपि मनुष्य-लिङ्ग एवाहम्, तथापि चतुर्भुजाकारेणैव माम् ईश्वरम् इति लोका जानन्ति, न तु मनुष्य-लिङ्गेनेत्य् आह—नान्यथा मद्-भवम् इत्य्-आदि । मयि भवतीति मद् भवं ज्ञानं मर्त्य-लिङ्गेनान्यथा न जायते, चतुर्भुजाकारे विना न जायते । अथवा, मद् भवं ज्ञानं यद्य् अपि मर्त्य-लिङ्गेनापि अन्यथा न जायते, अन्यथा न भवति, तथापि एतच् चतुर्भुजं रूपं प्राग्-जन्म-स्मरणाय वां दर्शितम् इति पूर्वोक्ते एव भावः ॥४३-४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भावे जन्मनि तेनैव चतुर्भुजेन अहं जात इति प्रथमे जन्मन्य् अहं पृश्नि-गर्भः द्वितीये\ऽहं वामनः तृतीये\ऽस्मिन्न् अहम् एवेत्य् अस्मछब्द-मात्र-वाच्यत्वेन ममैव पूर्णत्वं तयोः मद् अंशत्वम् इति बोधितम् एवं त्वम् एव पूर्व-सर्ग्\ऽभूः पृश्निर् इति न तु पृश्निर् एव त्वम् इत्य् उक्त्या युवाम् इति पुत्र-भावेन नराकृति परब्रह्म भावेन वा कृत-स्नेहौ सकृद् एव वा चिन्त्यन्तौ परां प्रकट-लीलाम् उत्तराम-प्रकट-लीलां पृश्न्यादीनाम् अंशत्वं देवकी-वसुदेवयोर् अंशित्वं च सति हे कोविदे सन् सुधीः कोविदो बुधः इत्य् अमरः ॥४३॥


**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :**अदित्यं कश्यपाद्वा मन आसेति यत्तदपि तद्रूपयोर्युवयोरहम् एव पुनरासम् इत्य् अर्थः ॥४३॥


**॥ १०.३।**४४ ॥

एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे ।

नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राक् प्रथमं तावद् एतद् रूपं मे जन्मेति स्मरणाय ज्ञानाय दर्शितम्मद्-भवं मद्-विषयम् । अनन्तरं त्वद्-इच्छया बालोऽपि भविष्यामीति भावः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यथा मद्-इच्छां विना । मर्त्य-लिङ्गेन मनुष्य-देहेन । इति भाव इति । मद्-इच्छया भवद्भ्यां मद्-दर्शनं जातं भक्त-वत्सलत्वान् मम त्वद्-इच्छापि कार्यैवेति तात्पर्यम् ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मम भवो जन्म यस्मिन् तत् । अहं जातो\ऽस्मीति ज्ञानं मनुष्य-रूपेण न स्याज् जन्मतः इति चित्सुखः ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भवत्य् अस्मिन्न् इति भवो विषयः, अहं विषयो यस्य, तज् ज्ञानं निर्णयो मनुष्य-रूपेण न स्यात् । “जन्यत” इति चित्सुख-पाठः । यद् वा, यच् चोक्तं रूपं चेदम् इत्य्-आदि तत्राह—एतच् चतुर्भुजाकारं यद् रूपं दर्शितं, तत् तु वर-दानम् आरभ्य प्राचीन-तद्-आकार-प्रादुर्भाव-त्रय-स्मरणायैव, न तु प्राधान्यापेक्षया नराकृति-परब्रह्मत्वेनैव स्वयं भगवतो मम तत्र तत्र प्रतिपादनाद् इत्य् अर्थः । किं च, अन्यथा प्रकारान्तरेण मम भवो जम्न तत्-प्रतीतिर् यत्र तज् ज्ञनं न जायते । केन ? अत्र प्रकारान्तरं तद् एवाह—मर्त्यस्य द्विभुजत्वादिना प्राकृत-मनुष्यम् एव लिङ्गं चिह्नं यत्र, तेन गूढेन नराकृति-पर-ब्रह्म-रूपेणेत्य् अर्थः । तस्माच् चतुर्भुज-द्विभुजतया क्रीडतो मम मुख्योऽपि तद्-आकारः प्रथमं न दर्शित इति भावः । मुख्यत्वं चास्य दर्शितम् एकोऽसि प्रथमम् [भा।पु। १०.१४.१८] इत्य्-आदौ, तद् अमितं ब्रह्माद्वयं शिष्यते इत्य् अन्त-ब्रह्म-वाक्ये, न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य्-आदि श्री-शुक-वाक्ये, गोप्यस् तपः किम् अचरन् [भा।पु। १०.४४.१४] इत्य्-आदि-श्री-शुकदेवेनापि स्वयम् अनुमोदनामेनानूदिते मथुरा-पुर-स्त्री-वाक्ये, यन्-मर्त्य-लीलौपयिकम् [भा।पु। ३.२.१२] इत्य्-आदि-श्रीमद्-उद्धव-वाक्ये च ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मयि भवतीति मद्-भवं मद्-विषयं मर्त्य-लिङ्गेन मयेत्य् अहं तु स्वयं परिपूर्ण-स्वरूपो मर्त्य-लिङ्गो द्वि-भुज एव नराकृति-परब्रह्मत्वाद् इति भावः ॥४४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तृतीये भवे जन्मनि अत्राहं पृश्निगर्भो\ऽहं वामन इति कृष्णांशत्वं तयोर् उक्तं त्वम् एव पृश्निर् अभूर् इति पृश्न्य्-अदित्योर् देवक्यांशत्वं तदायं सुतपा इति सुतपः-कश्यपयोर् वसुदेवांशत्वं चाभिमतं । हे सति कोविदे! सन् सुधीः कोविद बुधः इत्य् अमरः ॥४४॥


**॥ १०.३।**४५ ॥

युवां मां पुत्र-भावेन ब्रह्म-भावेन चासकृत् ।

चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु त्वयि प्रसन्नेऽपि कथम् आवयोः पुनः पुनर् जन्मेत्य् अतः परं न भविष्यतीत्य् आह—युवाम् इति ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् प्रसन्ने सकलाशिषां पतौ किं दुर्लभं ताभिर् अलम् लवात्मभिः इत्य्-आद्य्-उक्तेर् आवयोर् जन्मावृत्तिः कथं जातेत्य् आशङ्कते—नन्व् इति । नहि वस्तु-शक्तिर् बुद्धिम् अपेक्षते इति न्यायेन पुत्र-भावेनापि परां पुनर् आवृत्ति रहिताम् । यास्येथे आत्मने पदम् आर्षम् । यास्यथ इत्य् अर्थः ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : युवाम् इत्य्-आदि पुत्र-भावेन कृत-स्नेहौ असकृद् वा सकृद् वा इति वा-शब्दस्यार्थः । ब्रह्म-भावे सति न परां गतिं मल्-लोकं श्री-वृन्दावनम्, ब्रह्म-भावे सति मोक्षम् एव ॥४५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ब्रह्म-भावेनेति स्वस्मिन् पुत्र-भाव-ब्रह्म-भावयोस् तुल्यता बाधिता, विसयस्य महात्म्य-विशेषात्, अत एवासकृच् चिन्तयन्ताव् इति तत् तद् भाव उक्तः । यद् वा, वा-शब्द उपमार्थे—ब्रह्म-भावेनेव पुत्र-भावेनासकृच् चिन्तयन्तौ । ब्रह्म-भावेन वेति वा-शब्देन ब्रह्म-भाव य तुच्छत्वम् अभिप्रेतम् । परां सर्वोत्कृष्टां मम गतिं गम्य स्थान—प्रपञ्चात तश्रावैकुण्ठ-लोकम् इत्य् अर्थः कृत-स्नेहौ सन्तौ यास्यथः । यद् वा, मत् मत्तः सकाशाद् इति तत्-प्रप्तावनायासः स्वकारुण्य-विशेषश् चोक्तः । यद् वा, अप्य् अर्थे वा-शब्दः । किं वक्तव्यं, परम-स्नेह-रसमय-पुत्र-भावेनेति नीरस-ब्रह्म-भावेनापि सकृद् अपि चिन्तयन्तौ, कुतः ? कृत-स्नेहा मद् विषयक-स्नेहेन युवयोः कथम् अपि मत्-प्रद-प्राप्ति-विघातासम्भवात् । एवं युवां इति पूर्वं-पूर्व-जन्मतस् तयार् माहात्म्यं च दुःखितयोस् तयोः सान्त्वनार्थं प्रतिस्तुत्य् एव सूचितम् । यद्य् अधिकारान्ते\ऽदितिकश्यपयोः परम-पद-प्राप्त्यैव तद् अंशयोर् अनयोस् तत्-प्राप्तिस् तथापि युवां यास्येथ इति जन्मान्तराभाव-मात्रे तात्पर्यम् । यद् वा, श्री-देवकी-वसुदेवाविभावेव नित्य-वैकुण्ठ-मुख्य-पार्षदावेतयोर् एवांशौ तौ, अत एवोक्तम् त्वम् एव पूर्व-सङ्गे\ऽभूः पृश्निः [भा।पु। १०.३.३२] इत्य्-आदि, अतो\ऽनयोर् अधुनैव निज-पद-प्राप्तिस् तयोश् चाधिकारान्ते तत् प्राप्तिर् इति श्री-भाववतामृतोत्तर-खण्डोक्तानुसारेण ज्ञयम् । यद् वा, मद् गतिं पुत्र-भाव-दार्ढ्ये न माम् एव न माम् एव गतिम् ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : युवाम् इति वा-शब्द उपमार्थे विकल्पे वा, स्वरूपेण गुणेन च बृहत्तमत्वान् मुख्यत्वेन भगवान् एवात्र ब्रह्म तादृश-भावेन कृत-स्नेहौ सन्तौ मुहुश् चिन्तयन्तौ भाव-द्वयस्य तुल्यत्वं च विषय-माहात्म्यात् परां मद्-गतिं परम-वैकुण्ठं तद् गमनं च कश्यापादितिभ्याम् एकीभूयाधिकारान्ते ज्ञेयम् । अन्यत् तैः ।

तत्रावतारिकायाम् इति कथम् इत्य् अन्वयः अत इत्य्-आदिस् तु सिद्धान्तः । अथवा तद् एवम् अपि युवां साधकाव् इति न मन्तवयं, न च पुनर् मत्-प्राप्तौ शङ्का कार्या, यतः एते हि यादवाः सर्वे मद्-गणा एव भाविनि इत्य्-आदि पाद्म-कार्तिक-माहात्म्य-वचनात्, यथा

सौमित्रि-भरतौ यथा शङ्कर्षणादयः ।

तथा तेनैव जायन्ते निज-लोकाद् यदृच्छया ।

पुनस् तेनैव गच्छन्ति तत्-पदं शाश्वतं परं ।

न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते ॥

इति पाद्मोत्तर-खण्ढ-वचनात् मदीय-तन्महा-मन्त्र-मज् जन्माष्टमी-पूजादि-पटलानुसाराच् च युवां नित्यम् एवैतादृशौ तथापि नम् एव युवयोर् अपि मत् प्रेम्णैव मत् प्रेम-विशेषम् अमराधन-रचारार्थं तत्र तत्र स्वांशेन सम्प्रति स्वयम् एव चावतरणं पूर्ववद् एव मत्-प्राप्तिस् तु स्वत एवेत्य् आह, युवाम् इति । पुत्र-भावेनेति, भाव-वैशिष्ट्येन तथा मद् आविर्भाव-वैशिष्ट्येन चेत्य् अर्थः । ब्रह्म-भावेनेति भाव-सामान्येन भगवन् मन्त्रतयाविर्भाव-सामान्येन चेत्य् अर्थः । वेत्य् अनुकल्पे ।

पितरौ नान्वविन्देताम् इत्य्-आदिना, पितराव् उपलब्धार्थौ इत्य्-आदिना, अहो भाग्यम् अहो भाग्यम् इत्य्-आदि-रीत्या, इत्थं सतां ब्रह्म-सुखानुभूत्या इत्य्-आदि-रीत्या च, तारतम्यात् पूर्वेण मुख्येनेतरेण गौणेन वा चिन्तयन्तौ, तथापि सकृद् अपि चिन्तयन्तौ वा यद् अवम् अपि सम्भवति, तद् आपीत्य् अर्थः । पराम् अस्याः प्रपञ्च-प्रकट-लीलात उत्तरां तद् अप्रकट-लीला-रूपां मद्-गतिं यास्येथ एव, नाधुनिक-साधन-योग्यतायोग्यताभ्यां तत्रोपकार्यतापकार्यते इति भावः । तत्र हेतुः—कृत-स्नेहौ कृतः स्वभावत एव सिद्धः स्नेहः पुत्र-भावमयः प्रेमा ययोस् तौ स्वभाव-सिद्धत्वम् । अत्र अयम् आत्मापहत-पाप्मा इतिवत् । यद् वा, कृत-स्नेहो चिन्तयन्तौ सकृद् एव वा चिन्तयन्तौ अन्यत् समानम् ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यास्यथः ॥४५-५३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किन्तु नारायण-रूपं दर्शितम् इति भवद्भ्यां मयि ब्रह्म-भावो न कार्यः, पुत्र-भाव एव कार्य इत्य् आह युवां माम् इत्य्-आदि । असकृत् सकृद् वा, च-कारो वार्थः । पुत्र-भावेन कृत-स्नेहौ सन्तौ मां चिन्तयन्तौ । ब्रह्म-भावे सति परां परात्परां मद्-गतिं मल् लोकाख्यां न यास्येथे । ब्रह्म-भावे कैवल्यम् एव भवति, न तु मल् लोक-प्राप्तिः । येन पूर्वम् अपवर्गं न वव्राथे, तेनैवाधुनापि पुत्र-भावम् एव कुरुतम् । अथो नित्यतयैव मयि वात्सल्यवन्तौ भविष्यथ इति भावः ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं स्व-पितृत्वात् स्व-मन्त्रोपासना-पटलोक्त-वसुदेवादि-ध्यान-पूजादीनां सार्वकालिकत्व-प्रदर्शनाद् अप्य् अन्यथानुपपत्ति-सिद्धं तयोर् नित्य-सिद्धत्वं सङ्गोप्य प्रेम-वर्धनार्थं साधकत्वम् एव ख्यापयन् सिद्धिं प्रतिश्रुत्य तावानन्दयति-युवाम् इति । वस्तुतश् चायम् अर्थः मम प्रथमा गतिर् अद्यतनी गोकुलं प्रतियात्वेकाशे वर्षे मथुरां प्रति पुनर्भाविनी तां परां मद् गतिं युवां यास्येथे यास्य् अथः प्राप्स्यथ इत्य् अर्थः साम्प्रतं तु माया स युवयोर् विच्छेद एव भवतीत्य् अर्थः ॥४५॥


**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :**एतच् चतुर्भुजं रूपं वां युवयोर्दर्शितं किमर्थं तत्राह प्राग्जन्मेति वरदानमारभ्य प्राचीनतदाकारप्रादुर्भायत्रयस्मरणायैव न तु प्राधान्यापेक्षया नराकृति परब्रह्मणो मे प्राधान्यात् अन्यथा मर्त्यलिङ्गेन रूपेण परिपूर्णेनापि मद्भवं ज्ञानं न जायते भवत्यस्मिन् भवो विषयः अहं प्राचीनतदाकारो युष्मद्दृष्टो विषयो यस्य तत् ॥४५॥


॥ १०.३.४६ ॥

श्री-शुक उवाच—

इत्य् उक्त्वासीद् धरिस् तूष्णीं भगवान् आत्म-मायया ।

पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : []{।मर्क्}


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वा, प्रलयेति कृतः प्राकृतः इह पृषोदरादित्वात् प्रलयस्य प्रा इत्य् आदेशः वट-पत्र-पुटे तोकं शयानम् इत्य् उक्तेः । प्रकर्षेणाकृतः स्वतस् सिद्धः प्रकृतः । यद् वा, प्रकृतेः प्रवर्तकः प्राकृतिको\ऽपि शिशुः शिशुवद् बभूवेति । यद् वा, प्राकृतः प्रकृतिश् च स्वरूपं च स्वभावश्चेति पर्यायात् प्राकृति-सिद्धम् इदं हि महात्मनाम् इति शिष्ट-प्रयोगाच् च । स्वभाव-सिद्ध इत्य् एवार्थः । अर्थान्तरं तु न चान्तर् न बहिर् यस्य इत्य् आरभ्य बबन्ध प्राकृतं यथा इत्य् अग्रिम-वाक्ये दृष्टान्त-दार्ष्टान्तिकाभ्यां निरसिष्यतीति ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सुत-स्नेह-स्वभावाद् बभूव प्राकृतः शिशुर् इति—प्रकृत एव प्राकृतः, बान्धवादित्वात् स्वार्थे\ऽण् प्राकृतत्वं तु द्विभुजत्वम्, तथा च गोविन्द आसङ्गव आत्त-वेणुः [भा।पु।६.८.२०] इति वेणु-पाणित्वाद् द्विभुजत्वम् एव प्राक्-सिद्धम्, प्राग् एव तथा व्याखातम् । किं च, वल्गु प्रकोष्ठ-वलयं विनता सूतांसे, विन्यस्त-हस्तम् इतरेण धुनानम् अजम् [भा।पु।३.१५.४०] इति तृतीयोक्तेस् तथैव व्याख्यानात् । प्रकृतः सन् शिशुर् बभूव शिशुर् इति प्रतीतिकृत्, न त्व् अविकृतस्याखण्ड-किशोरस्य शिशुत्वादि-विकृतिः । ननु तर्हि किम् एतत्, यतः स्तनन्धयाकारत्वेन प्राकट्यम् ? सत्यम्, आत्म-मायया आत्मसु भक्तेषु या मा शोभा तस्याः या प्राप्तिः, या प्रापणे क्विप् तया येषु येषु भक्तेक्तेषु यथा शोभते, तत् तद् इच्छानुरूपत्वात्, मातृ-रूपस्य भक्तस्य तथा-विधेच्छया तथाविध प्राकट्यं यथा चक्षुषोर् विप्र-कृष्ट्वोपाधिकं ध्रुवादेर् ज्योतिषस् तथाविध—सूक्ष्मत्वम्, न हि वस्तुतस् तत् सूक्ष्मम् एव, निकटवर्तिनां तु प्रकृतम् एव तत् तथा भक्तेश्छोपाधिकम् एव प्रकृतस्य किशोरस्य स्तोकाकारत्वम्, न तु विकृतिस् तस्यापीति स्तोकाकारत्वम् एव शिशुत्वम्, न तु ज्ञानादि-सङ्कोचवत् चेत् तर्हि तस्यैव भक्तस्य समयान्तरे कथं किशोरत्वादि—स्फूर्तिर् इति को विशेषः । अत एव भक्तेच्छोपात्त-विग्रह इति भक्तेच्च्यायाम् उपात्तो विविधो ग्रहो येनेति तत्र तत्र व्याख्या । वस्तुतस् तु नित्य-कैशोर-एवायम्, तथा च—सन्तं वयसि कैशोरे [भा।पु। ३.२८.१७] इति नित्य-प्रकृत्ते वर्तमाने शतृङ् । वस्तुतस्त्व् इदम् अत्र रहस्यम्—श्री-कृष्ण-विग्रहो हि ज्ञानमयः, भक्तेच्छानां च ज्ञानान्तर् भावात् ते यदा यद् यद् ज्ञानं कुर्वन्ति, तत् तद् एव तत्र तत्र प्रतिफलतीति, सर्वस्यैव ज्ञानस्य तत्र तत्र विद्यमानत्वान् न विकृतिः । ननु तर्हि नित्य-लीलत्वं कथम् आस्ताम् ? सत्यम् एतत्, नित्य-लीलत्वं नाम किं तद् एव विचार्यताम्—नित्या लीला नाम शक्तिर् यस्य स तथा, लीला तस्य श्रीर् इव काचिन् मूर्तिमती शक्तिः, श्रीर् भूर् लीला [सीतोप ८] इत्य् अन्यत्र लिखितत्वात्, सा तु श्रीर् इव नित्या, तस्यास् तु नाना-विधा एव प्रपञ्चाः, पुरु-महिमत्वात् । तस्या नित्यत्वे तत्-प्रपञ्चानाम् अपि नित्यत्वे\ऽपि सर्वा एव लीला नित्य-सिद्धा एव, किन्तु भक्तेच्छया कालवशाद् आविर्भाव-तिरोभावौ तासाम् इति रहस्यम् । अथ तयोर् वां पुनर् एवाहम् अदित्यामास कश्यपात् [४२श श्लो] इति यद् उक्तम्, तत्र द्वितीये भवे सुतपः-पृश्न्योर् एव कश्यापादितित्वम् आसीत् । तृतीये\ऽस्मिन् [४३श-श्लो] इति तयोस् तत् तद्-रूपेण वर्तमानयोः कथं वसुदेव-देवकी-रूपेण पुनर् आविर्भावः सङ्गच्छताम् ? सत्यम्, तयोः शुद्ध-सत्तांशाव् एव पृथग्-भूय वसुदेव-देवकी-रूपेणवतीर्णाव् इति मन्तव्यम् । अत उक्तम् सत्त्वं विशुद्धं वसुदेव-शब्दितम् [भा।पु।४.३.२३] इति वसुदेव-शब्द उपलक्षणः, देवकी चेति बोद्धव्यम्, सत्त्वं विशुद्धम् इति कश्यपादित्योर् इति तात् पर्य-लभ्यम् ॥४६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्म-तुल्यया मायया सच् चिद् आनन्द-शक्ति-विशेषेणेत्य् अर्थः । यद् वा, निज-सहज-कृपया । प्रकृतिः स्वभावः, पृआकृतो लोक-स्वाभाविकः । किं वा, प्रकृष्टम् आकृतम् आकृतिर् आकारो द्विभुजत्वम्-लक्षणं यस्य तथा-भूतः शिशुर् लौकिकाभिनव-जात-बालको\ऽतो मनो-हरणाद्धरिर् भगवान् इति च परम-सौन्दर्याद्य् अभिप्रायेण । एवं दिव्यायुधाद्य् अन्तर्धापनं नाभिनालसाहित्य्-आदिकं च द्रष्टव्यम्, अन्यथा गोकुल-वासिषु महा-विस्मयाद्य् उत्पत्तिस् तथा नाडी साहित्येनैवाशौचानापत्त्या श्री-नन्दस्य वक्ष्यमाण-दानाद्य् उपपत्तश् च पित्रोः संपश्यतोः सतोर् इत्य् अविलम्बतोक्ता । यद् वा, तन् मायायाः परमाद्-भूता शक्तिर् दर्शिता । यद् वा, तयोर् दृष्ट्या तादृशो वृत्तस् ताभ्यां तादृशाः सर्वे\ऽस्निग्धतरा उप-लक्ष्यन्ते, अन्यद् दृष्ट्या च दिव्य-रूप एवेत्य् अर्थः । अतएवार्जुन-नारदादयस् तं चतुर्भुजम् एव पश्यन्ति, तच् च श्री-गीता-विश्वरूपाध्यायादौ वक्तम् एव । यद् वा, संपश्यतोः प्राकृत-शिशुत्वम् एवापेक्षमाणयोः । केचिच् चैव व्यचक्षते—पूर्वं द्विभुज-मनुष्य-बालक-रूपेणैव जातस् ततः पित्रोः स्वजन्म-वोधनाय दिव्य-रूपो\ऽभूद् अत एवोक्तम्—अद्भूतम् इति, पश्चाच् च प्राकृतः स्वाभाविको यथा प्राग्-जातस् ततैवाभूद् इति ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः किं जातम् इत्य् अपेक्षायाम् आह—इतीति इत्य् उक्त्वा हरिस् तच् चतुर्भुजं सूपम् अपहर्तुं प्रवृत्तत्वेन च विख्यापित-तन् नामासौ तूष्णीम् आसीत् ततश् च पित्रोः सम्पश्यतोर् एव नत्व् अन्यत्र दत्त-दृष्ट्याः सतोर् भगवान् स्व-स्वरूपभूत-षाड्गुण्यवानसावात्म-मायया मायास्याच् छाम्बरी-बुद्ध्याः इति त्रिकाण्ड-चेषात् माया तु वयुनं ज्ञानम् इति निघण्ठोश् च स्वरूप-भूत-ज्ञान-शक्त्या बुद्धि-सौष्ठव-विशेषम् अयशक्य्तेति यावत् यद् वा आत्ममाया तद् इच्छा स्यात् गुण-माया जडात्मिका इति महा-स महा-संहिता वचनाद् आत्मेच्छया यद् वा माया दम्भे कृपां च इति विश्व-कोशाद् आत्म-कृपया शिशुर् आविष्कृत-शंशवो बभूव तत्र विशेषज्ञानार्थम् आह, प्राकृत इति । गौण्या वृत्त्या प्राकृत एवेत्य् अर्थः । यद् वा न चागन्तुका-कारेण तादृग् बभूवेत्य् आह—प्राकृत इति प्रकृतिश् च स्व-रूपं च स्वभावश् च इति पर्यायात् प्रकृति-सिद्धम् इदं हि महात्मनाम् इति प्रयोगाच् च स्वभा-सिद्ध एवेत्य् अर्थः । अर्थान्तरं हि न चान्तर् न बहिर् यस्य इत्य् आरभ्य बवन्ध प्राकृतं यथा इति पूरिते वाक्ये दार्ष्ठान्तिक-दृष्टान्ताभ्यां निरसनीयं स्वाभीष्ट-लीला-क्रमम् एव प्रकटयतस् तस्य सर्वदा सर्व-शक्ति-निधानत्वेन तत् तद् उपासकाभीष्ट-लीला-दर्शनाय युगपद् योग्यत्वात् सर्वम् एव तत्र स्वभाव-सिद्धम् इति भावः । वक्ष्यते च गर्गेण बहूनि सन्ति रूपाणि नामानि च सुतस्य ते इति ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ कथं सुतपः-पृश्न्यो कश्यपादित्योर् वा परिपूर्ण-भावेन भगवान् पुत्रो नाभूत् ? सत्यम्, ब्य्हगवद् अवतार-सम्बन्धाद् एव जन्म-द्वयेन पूर्णवतारावस्थान-योग्यताम् आपन्नौ तौ । यतः [भा पु १-२४-३०] वसुदेवं हरेः स्थानं वदन्ति इत्य् उक्तिः, [भा पु ४-३-२३] सत्त्वं विशुद्धं वसुदेव-संज्ञितम् इति शुद्ध-सत्त्वता च, इति स्वयम् एव तद् रूपम् उपसञ्जिहीर्षुर् मात्रापि तथैवोक्तश् च प्रकृतं स्वकीय-रूपं प्रादुर्भावयामासेत्य् आह इत्य् उक्तासीद् इत्य्-आदि । भगवान् श्री-कृष्ण आत्ममायया आत्मन ऐच्छिक्या प्रकाशिकया मायया संपश्यतोर् एव पित्रोः प्राकृतो बभूव । प्रकृत एव प्राकृतः बान्धवादित्वाद् अण् । कीदृशः शिशुः ? शिशुर् इति प्रतीति-कृतत्वात् शिशुर् इत्य् उपचारः । अविकारित्वाद्-भक्त-वासनानुरूपं प्रकाश एवासौ, न तु विकृतिः । तथाविध शक्तिमत्त्वं हि ऐश्वर्यम्, उक्तं हि-जुष्टं भगैः स्वैरितर् अत्र चाध्रुवैः इत्य्-आदि भगैर् अणिमादिभिः । तत् मज् जुष्टता च न विकृतिर् अपि त्वंश्वर्य-विशेष एव ॥४६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्म-मायया आत्म-मायाया-तद् इच्छास्याद्-गुण-माया-जडात्मिका इति महा-संहिता-वचनाद् आत्मेच्छया प्राकृतः प्रकृतिश् च स्वरूपं च स्वभावश् चेति पर्यायात् प्राकृति-सिद्धम् इदं हि महात्मनाम् इति शिष्ट-प्रयोगाच् च स्वभाव-सिद्धः इत्य् एवार्थः । अर्थान्तरस्य न चान्तर् बहिर् यस्य [भा।पु।१०.९.१३] इत्य् आरभ्य बबन्ध प्राकृतं यथा [भा।पु।१०.९.१४] इति अग्रिम-वाक्ये दार्ष्टान्तिक-दृष्टान्ताभ्यां निरसनीयत्वात् ॥४६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : श्री-गोकुलं यास्यन् स्व-प्राप्तिविश्रम्भेण पितरौ हर्षयति युवाम् इति पुत्रभावेनोपसर्जनीभूतपारमैश्वर्येण ब्रह्मभावेनोपसर्जनीभूतपुत्रभावेन परां गतिम् इति अद्य गोकुलं प्रति मे गतिः पूर्वा एकादशे वर्षे मथुरां प्रति या भाविनी सा परा तां युवां यास्येथे प्राप्स्यथः सम्प्रति विच्छेदो मया सह भवेदितिखिन्नता माभूदिति, न च परां गतिं मोक्षलक्षणां मद्भक्त्या प्राप्स्यथः यां मायामोहिताभ्यां युवाभ्यां प्राक् न वृतेति व्याख्येयं एते हि यादवः सर्वे मद्गणा एव भाविन् त्यादिवाक्यव्याकोपात् किं च विशुद्धसत्त्वस्य वसुदेवः पराख्याशक्तेस्तु देवक्यवतार इति द्वयोर्नित्यमुक्तत्वम् एव तथाप्यन्यथा चेष्टितं हरेरिव जनसंग्रहायेति प्राहुः ॥४६॥


॥ १०.३.४७ ॥

ततश् च शौरिर् भगवत्-प्रचोदितः

सुतं समादाय स सूतिका-गृहात् ।

यदा बहिर् गन्तुम् इयेष तर्ह्य् अजा

या योगमायाजनि नन्द-जायया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदि कंसाद् बिभेषि तर्हि मां गोकुलं नय यशोदायाश् च तां कन्यां मन्-मायाम् आनयेति प्रथमम् एव भगवता प्रचोदितो वसुदेवो यदा गन्तुम् ऐच्छत् तदैव अजापि या योग-माया सा नन्द-जायया निमित्त-मात्र-भूतया अजनि जाता ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अजनि प्रादुर्भूता । किं च,

गर्भ-काले त्व् असम्पूर्णे ह्य् अष्टमे मासि ते स्त्रियौ ।

देवकी च यशोदा च सुषुवाते समं तदा ॥

इति हरिवंश-वाक्ये समं सम-कालं सुषुवात इत्य् अर्थावगमात् । अत्र तु देवकी-प्रसवोत्तर-काले एव यशोदा-प्रसव-दर्शनाद् उभयोर् एव शास्त्र-वाक्ययोः । प्रामाण्याद् एवम् अवसीयते । यदैव देवकी विष्णुं सुषुवे तद् एव यशोदापि कृष्णं तद्-अनन्तरं योगमाया च सुषुव इति काल-भेदेन तस्या द्विः प्रसव एवेत्य् अत एव अदृश्यतानुजा विष्णुः सायुधाष्ट-महाभुजा इति पक्ष्यते किं यशोदा-प्रसवस्य चतुर्भुजत्वाद्य् अनुक्तेर् नराकृतिपर-ब्रह्मत्वाच् च द्वि-भुजत्वम् एव बुध्यत वक्ष्यति च तत्रोद्वहत् पशु-वंशाशिशुत्वनाट्यं प्रह्लादयं परम् अनन्तम् अगाध-बोधम् इति ब्रह्मा गूढं परं ब्रह्म मनुष्य-लिङ्गं इति च ॥४७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ततश् चेत्य् आदि । भगवता तेनैव मां नन्द-गृहं प्रापय, मच् छक्तिर् योगमायावतीर्णा, सा ते\ऽपत्यं भविष्यति, अहं यशोदाया अपत्यं भविष्यामि, अतो मां यशोदायां न्यस्य ताम् आनय इति-प्रकारेण प्रचोदितः प्रेरितः । सुतं भगवन्तम् आदाय शौरिर् यदा वहिर् गन्तुम् इयेष, तदैव योग-माया नन्द-जायया अजनि, यतः—कार्यार्थे सं-भविष्यति [भा।पु।१०.१.२५] इति तत्-क्षण एव सर्वेषाम् इन्द्रिय-वृत्ति-लोप-कवाट-कूटोद्घाटनादि कार्यम् आपतितम् । अतो मध्य-रात्रे अष्टम्यां भगवद् आविर्भावः, तद् अनन्तरम् अविल्बत एव नवम्यां योग-मायाविर्भावः, एवम् विध एव योगो हि दुर्लभः प्रिय-भक्तानाम् ॥४७.४८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवता प्रचोदित इत्य् अत्र व्यक्तोक्तिर् एव तस्य, यथा श्रीहरि-वंशे—

अनुज्ञाप्य पितृत्वेन नन्द-गोप-गृहं नय ।

वसुदेव-वचः श्रुत्वा रूपं संहरद् अच्युतः ॥ [ह।वं। २.४.२४] इत्य् अस्यार्थः,

संहरत् समहरत, किं कृत्वा ? नन्द-गोप-गृहं नयेति पितृत्वेन पितृ-स्नेहेनानुज्ञाप्य् एत्य् अर्थः । सम्यग् आदाय कोमल-वस्त्रास् तृत-पेटिकायां सुख निधाय ताश् च शिरस्याधाय किं वा सावधानं शनैः शनैः कराभ्याम् उत्थाप्य निजाङ्के निधाय बाहुभाम् आश्लिष्यन्न् इव गृहीत्वा सो\ऽनिर्वचनीय-भाग्यवान् । ततश् च पाद-निगडः स्वयम् एव भ्रष्ट इति ज्ञेयम् । तर्हीत्य् अत्र विशेषः श्री-हरिवंशे नवम्याम् एव सञ्जातां कृष्ण-पक्षस्य वै तिथौ [ह।वं। २.२.३४] इति नन्दस्य जाययेति श्री-नन्दादीनां तया मोहनं सूचितम् ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भागवता प्रचोदित इत्य् अत्र व्यक्तोक्तिर् एव तस्य श्री-हरि-वंशे

वसुदेव-वचः श्रूत्वा रूपं संहरद् अच्युतः ।

अनुज्ञाप्य पितृत्वेन नन्द-गोप-गृहं नय ॥ [ह।वं। २.४.२४] इति ।

अस्यार्थः संहरत् समहरत् किं कृत्वा ? नन्द-गोप-गृहं नयेति पितृत्वेन पितृ-स्नेहेनानुज्ञायेत्य् अर्थः । सम्यग् आदाय कोमल-वस्त्रास् तृप-पेशिकायां सुखं निधाय तां शिरस्याधाय किं वा, सावधानं शनैः शनैः कराभ्याम् उत्थाप्य निजाङ्के निधाय बाहुभ्याम् आश्लोष्यन्न् इव गृहीत्वा सः अनिर्वचनीयभाग्यवान् ततश् च पाद-निगडः स्वयम् एव भ्रष्ट इति ज्ञेयं तर्हीत्य् अत्र विशेषः श्री-हरि-वंशे नवम्याम् एव सञ्जाता कृष्ण-पक्षस्य वै तिथौ [ह।वं। २.२.३४] इति ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ अथाहम् अंश-भागेन देवक्याः पुत्रतां शुभे [भा पु १०.२.९] इत्य्-आदौ व्याख्यातं व्यत्ययार्थः सत्यी-कर्तुं नन्द-पुत्रतां प्रेप्सुस् तद्-भगवान् प्रापणार्थम् आदिष्टेन पित्रा तत्रैव नीत इति प्रस्तवन्न् आह—ततश् च शौरिर् इत्य्-आदि । भगवत्—प्रचोदितो भगवता चतुर्भुजाकारेण पूर्वं प्रेरितः, पश्चात् शिशुर्यदभूत्, तदा जननी-स्तन-पानानन्तरंक् नन्द-भवनं प्रापयितुं समादाय बहिर् गन्तुम् इयेयेति । भगवत् प्रचोदित इति भगवच् छब्दस्य सुतं समादायेति सुत शब्दस्य च वैयधिकरण्येन निर्देशः । यदा बहिर् गन्तुम् इयेव तदैव लौह-निगढक-प्पाट-कूटोद्घाटनादि-कऋयाय [भा पु १०-१-२५] कार्यार्थ संभविष्यति इत्य् उपक्रान्तावतार-हेतुर् योगमाया नन्द-जायायाम् अजनिष्ट, तदैव-तत्-प्रादुर्भाव-समये लौह-निगडादि-भङ्गस् तत्-प्रभावेणैवाभूत् । भगवत इच्छा-शक्तिः सैवेति तस्या एव तत्-तत्-कार्य-हेतुत्वाद्-भगवान् अपि ताम् अपेक्ष्य पृथग् इच्छा-विलासं प्रकटितवान् इति यदातदाशब्दयोर् अर्थः ॥४७-४८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : "भगवता प्रचोदितः यदि बिभेषि, तर्हि मां गोकुलं नय । यशोदायाश् च तां कन्यां मन्-मायाम् आनय च" इत्य्-आदिष्टः स वसुदेवः स्वपाद-निगडं स्वयम् एव स्रस्तं वीक्ष्य यदा गन्तुम् ऐच्छेत्, तदा सा नन्द-जायया निमित्त-भूतया अजनि जाता किं च—

गर्भ-काले त्व् असम्पूर्णे अष्टमे मासि ते स्त्रियौ ।

देवकी च यशोदा च सुषुवाते समं तदा ॥

इति हरिवंश-वाक्ये समं सह सम-कालम् एव सुषुवात इति तत्रार्थावगमात् । अत्र तु देवकी-प्रसवोत्तर-काल एव यशोदा-प्रसव-दर्शनाद् उभयोर् एव शास्त्र-वाक्ययोर् अति-प्रामाण्याद् एवम् अवसीयते । यदैव देवकी कृष्णं सुषुवे तदैव यशोदापि कृष्णं सुषुवे, तद्-अनन्तर-समये योग-मायां च सुषुवे इति काल-भेदेन तस्या द्विः प्रसव एवेति । अत एव अदृश्यतानुजा विष्णोः सायुधाष्ट-महा-भूजा [भा।पु।१०.४.९] इति वक्ष्यते । किं च, यशोदा-प्रसूतस्य कृष्णस्य चतुर्भुजत्वाद् अनुक्ते नराकृति-परब्रह्मत्वाच् च द्विभुजत्वम् एव बुद्ध्यत इति ॥४७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आत्ममायया निजेच्छया आत्ममाया तदिच्छा स्याद्गुणमाया जडात्मिक इति महासंहितावचनात् प्राकृतः प्रकृत्या स्वरूपेणैव व्यक्तः शैषिक्रोण-संसिद्धि-प्रकृती त्व् इमे स्वरूपं च स्वभावश् च निसर्गश् चेत्य् अमरः स्वभावः प्रकृति-शीलम् इति निधनं जयश् च तस्य शिशोर् गोकुले गतस्य पर-ब्रह्मत्वाद्य्-अभिमानात् ॥४७॥


॥ १०.३.४८ ॥

तया हृत-प्रत्यय-सर्व-वृत्तिषु

द्वाः-स्थेषु पौरेष्व् अपि शायितेष्व् अथ ।

द्वारश् च सर्वाः पिहिता दुरत्यया

बृहत्-कपाटायस-कील-शृङ्खलैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हृताः प्रत्ययार्थाः सर्वा वृत्तयो येषाम् । अथवा हृताः प्रत्यया अन्याश् च सर्वा वृत्तयो येषां जाग्रताम् अपि तथा-भूतेषु द्वार-पालेषु सत्सु । बृहत्सु कपाटेषु लोह-कीलक-युक्त-शृङ्खलैर् बृहद्भिः कपाटादिभिर् दुरत्यया इति वा ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्ययार्थाः पदार्थ-प्रत्यायकाः बुद्ध्यादि-वृत्तयः । क्किष्ट-कल्पनयारुचेर् अर्थान्तरम् आह—अर्थवेति । प्रत्ययाः प्रतीतयो ज्ञानानीति यावत् । अन्याः सर्वा वृत्तयोऽध्यवसायाद्याः । यद् वा, प्रतीयते पदार्था यैस् ते प्रत्ययाः चक्षुरादीद्रियाणि तेषां वृत्तयो रूपादि-ज्ञान-हेतुका इति तथा-भूतेषु निवृत्तिकेषु सत्सु पूर्व-समासे कार्कश्यं दृष्ट्वा समासान्तरम् आह—बृहद्भिर् इत्य्-आदि ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रत्ययो ज्ञानम्, द्वाःस्था द्वारस्थिता रक्षिणो द्वार-पालाश् च, तेषु तथा च श्री-विष्णु-पुराणे—

मोहिताश्चाभवंस् तत्र रक्षिणो योग-निद्रया ।

मथुरा-द्वारपालाश् च व्रजन्त्य् आनक-दुन्दुभौ ॥ [वि।पु। ५.३.१६]इति

मोहनादिकं मायया एव योग्यम् इति तथा तद् उक्तम्, प्रकाशनन्तु श्री-भगवत एवेति तथैव तद् आह—द्वारश् चेति । अथान्तरं सद्य एवेत्य् अर्थः, एवम् अस्य पूर्वेणान्वयः । च अपि, पिहिता रक्षार्थस्थापित-सिंह-व्याघ्रादि-व्याप्तत्वात्, किं च, बहत्-कपाटादिभिः पिहिता । कृष्णः परमानन्द-घन-मूर्तिस् तस्य वाहे वाहक इति वहनादि-श्रमो निरस्तः । यद् वा, संसार-बन्धम् अपि कर्षति हरतीति कृष्णस् तद् वाह इति । स्वयं द्वार्विकृतौ हेतुः । तमो यथोद्घाटितं स्याद् इति समये निज-सेवा-सिद्धये पार्षद-प्रवरः श्रीमान् अनन्त एव—

शय्यासन-परिधान-पादुकाच् छत्र-चामरैः ।

किं नाभूस् तस्य देवस्य मूर्ति-भेदैश् च मूर्तिषु ॥इति ब्रह्माण्ड-वचनात् ।

अन्वगात् श्री-वसुदेवस्य पश्चाद् अलक्षितं प्रत्यक्षं वागच्छत्, तथा च श्री-विष्णु-पुराणे—

वर्धतां जल-दानाच् च तोयम् अत्युल्बणं निशि ।

सञ्छाद्यानुययौ शेषः फणिर् आनकदुन्दुभिम् ॥ इति [वि।पु। ५.३.१७] ॥४८.४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तयेति युग्मकं प्रत्ययः ज्ञानं द्वास्थाः द्वारस्थिता रक्षिणो द्वार-पालाश् च तेषु तथा च श्री-विष्णु-पुराणे मोहिताश् चाभवं तत्र रक्षिणो योग-निद्रया । मथुरा-द्वार-पालाश् च व्रजत्य् आनकदुन्दुभौ इति मोहनादिकं च मायया एव योग्यम् इति तथा । तद् उक्तं प्रकाशनं तु श्री-भगवत एविति तथैव तद् आह द्वारश् चेति । अथानन्तरं सद्य एवेत्य् अर्थः । याः पिहिता मुद्रितास् ता द्वारो\ऽपि द्वास्थादीनां हृत-प्रत्ययादित्वं लक्षणी-कृत्य श्री-वसुदेव आगते सतिस्वयम् एव विवृता इत्य् अर्थः । ताश् च कथम् अप्य् उद्धाटयितुं न शक्यन्त इत्य् आह-बृहत् कपाटादिभिर् दुर्रत्ययाः ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तया योग-मायया हृताः प्रत्ययस्य ज्ञानस्य सर्व-वृत्तयो येषां तेषु द्वास्थेषु द्वारपालेषु शायितेषु सत् स्विति ज्ञान-हरणं योग-मायांश-भूतायाः मायायाः कार्यं याः द्वारः पिहिताः ताः व्यवर्यन्त विवृता इत्य् अर्थः । बृहत् कवाट-गतैर् आयसकोलशृङ्खलैर् दुर्त्ययाः दुरतिक्रमाः रवेर् निमित्तात् उपांशु मन्द-मन्दङ्गर्जितं यस्य सः फणैर्श् छत्री-कृतैर् इत्य् अर्थः । शय्यासन-परीधान-पादुकाच् छत्र-चामरैः किन्नाभूस् तस्य कृष्णस्य मूर्ति-भेदैश् च मूर्तिषु इति ब्रह्माण्ड-पुराणात् ॥४८.४९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ततश्चेति त्रिकम् । बिभेषि चेन्मां यशोदावेश्मनि निधाय तत्कन्यामानीय कंसाय देहीति भगवता प्रचोदितः शौरिः स्वपादौ निगडौ वीक्ष्य सुतं हरिं समादाय सूतिकागृहाबहिर्गन्तुं यदेयेष तर्हि तस्मिन्नेव समये नन्दजायया निमित्तेन या योगमाया विष्णोर्माया भगवतीत्यत्रोक्ता\ऽजनि जाता तया कर्त्र्या त्रिगुणया स्वांशेन हृताः प्रत्ययस्य ज्ञानस्य सर्वा वृत्तयो येषां तेषु द्वाःस्थेषु शायितेषु सत्सु या द्वारः कपाटैः पिहितास्ताः कृष्णवाहे वसुदेवे आगते सति स्वयम् एव व्यवर्यन्त विवृत्ता उद्घाटितकपाटा बभूवुः मृदुवस्त्रास्तृतायां पेटिकायां निहितं कृष्णं परानन्दं शिरसि बहतीति कृष्णवाहस्तस्मिन् कीदृश्यस्ता इत्य् आह—बृहद्भिः कपाटैस्तद्गतेरायसकीलैः शृङ्खलैश् च दुरत्यया दुर्लभ्याः रवेर्निमित्तात् उपांशु मन्दई गर्जितं यस्य स पर्जन्यो मेघः फणैच्छत्रीकृतैः शय्यासनपरीधानपादुकाछत्रचामरैः । किं नाभूस्तस्य देवस्य मूर्तिभेदैश् च मूर्तिष्वि इति ब्रह्माण्डवचनात् ॥४८-५०॥


॥ १०.३.४९ ॥

ताः कृष्ण-वाहे वसुदेव आगते

स्वयं व्यवर्यन्त यथा तमो रवेः ।

ववर्ष पर्जन्य उपांशु-गर्जितः

शेषोऽन्वगाद् वारि निवारयन् फणैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वयम् एव व्यवर्यन्त विवृता इत्य् अर्थः । व्यव्रियन्तेन्ति वक्तव्ये गुणश् छान्दसः । रवेर् निमित्तात्


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ववर्ष पर्जन्य इत्य्-आदि । उपंशुत्वं कंस-भिया, कुतो मेघानां गर्तितैः कंस-भयम् इत्य् आशङ्कायां गर्जितान्य् अत्र जय कृष्ण जय कृष्णेति स्तवन-पराणीति ज्ञेयम् । वर्षणन्तु तेषाम् एवानन्दाश्रूणाम् इति शेष-सौभाग्यार्थं च, तथा सति तस्य छत्र-सौभाग्यं भवति, लोक-प्रचाराभावार्थं च । शेषो\ऽन्वगाद् इत्य्-आदि । यद्य् अपि वर्षातप-वारणत्वेन गरुडस्यैवेयं सेवा, तथापि शेषस्याग्रजत्वापराध-सङ्कोचेन तद् अपजिहीर्षया हठेण पर-सेवा-ग्रहणम् ॥४९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ववर्ष पर्जन्य इत्य्-आदि । उपंशुत्वं कंस-भिया, कुतो मेघानां गर्तितैः कंस-भयम् इत्य् आशङ्कायां गर्जितान्य् अत्र जय कृष्ण जय कृष्णेति स्तवन-पराणीति ज्ञेयम् । वर्षणन्तु तेषाम् एवानन्दाश्रूणाम् इति शेष-सौभाग्यार्थं च, तथा सति तस्य छत्र-सौभाग्यं भवति, लोक-प्रचाराभावार्थं च । शेषो\ऽन्वगाद् इत्य्-आदि । यद्य् अपि वर्षातप-वारणत्वेन गरुडस्यैवेयं सेवा, तथापि शेषस्याग्रजत्वापराध-सङ्कोचेन तद् अपजिहीर्षया हठेण पर-सेवा-ग्रहणम् ॥४९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णः—

कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः ।

तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥

इत्य् अनुसारेण सर्वाकर्षक-परमानन्द-घन-मूर्तिस् तस्य बाहे बाहक इति बहनादिश्रमो निरस्तः प्रत्युत परमानन्द एव व्यञ्जितः तथा संसार-बन्धम् अपि कर्षति हरतीति कृष्णस् तद् वाह इति स्वयं द्वामिवृतौ च हेतुः व्यवर्यतेति कर्म-कर्तरि प्रयोगः कर्ता चार्थात् श्री-वासुदेव एव तमो यथोद्धटितं स्याद् इति दृष्टान्तेन तद् आगमनात् पूर्वम् एव क्रमेण सम्यग् विवृतिर् द्वनिता पर्जन्यो गर्जन् मेघः उपांशु मन्दं मन्दं गर्जितं यस्य सः शेष इति समये निज-सेवा-सिद्धये पार्षद-प्रवरः श्रीमान् अनन्त एव शय्यासन-परीधान-पादुकाच् छत्र-चामरैः किं नाभूस् तस्य कृष्णस्य मूर्ति-भेदैश् मूर्तिषु इति ब्रह्माण्ड-वचनात् अन्वगात् श्री-वसुदेवस्य पश्चाद् अच्छत् तथा च शृइ-विष्णु-पुराणे वर्षतां जल-दानां च तोयम् अत्य् उल्वणं निशि । सञ्छाद्यानुययौ शेषः फणैर् आनक-दुन्दुभिम् इति तच् च तेन स्व-शीरसि महा-वृष्टि-निवारणं यत् किञ्चित् लक्षितम् एव ज्ञेयं चिन्तया वर्धमाने वैयग्र्ये सद्यः सुखद-चमत्कार-हेतुत्वेन योग्यत्वात् ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भगवद् विजय-समये मेघा जय शब्दं चक्रुर् इत्य् आह—ववर्ष पर्जन्य इत्य्-आदि । उपंशु-गर्जितत्वं कंस-भयेनैव जय कृष्ण, जय कृष्ण इति गर्जनं बोद्धव्यम् । ववर्षेति आनन्दाशुक्षरणं शेष-सौभाग्य-प्रकटणार्थम् । अन्यथा शेषस्य छत्रता न स्यात् । यद्य् अपि वर्षातपवारणादि-सेवा-गरुडस्यैव, तथापि शेषेनाग्रजत्वापराधक्षमापनार्थं हठात् पर-सेवा गृहीता । अन्वगाद् इति पश्चाद् गमनं चत्र-धारिणः पार्श्वस्थत्व-सम्भवे\ऽपि वसुदेव-सङ्कोच-ख्यापनार्थम् ॥४९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : []{।मर्क्}


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३.५० ॥

मघोनि वर्षत्य् असकृद् यमानुजा

गम्भीर-तोयौघ-जवोर्मि-फेनिला ।

भयानकावर्त-शताकुला नदी

मार्गं ददौ सिन्धुर् इव श्रियः पतेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गम्भीरो यस् तोयौघस् तस्य जवेन य ऊर्मयस् तैः फेनिला फेन-व्याप्ता । भयणकैर् आवर्त-शतैर् व्याप्तापि । श्रियः पतेः सीता-पतेः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यमानुजा यमुना ॥५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मघोनि शक्रे स्वयम् एव वर्षतीति लोकस्य कस्यचिद् अपि वहिर् अनिः सरणार्थम् अन्धकाराधिक्येन श्री-वसुदेवाद् अदर्शनाद्य् अर्थं च वृष्टेर् बाहुल्यं सूचितम् । यमानुजेति तदानीं परम-भीषणत्वाद्य् अभिप्रायेण, तद् एवाभिव्यञ्जयति—गम्भीरेत्यादि विशेषणाभ्यां, अत एव नदीति महा-शब्द-युक्तत्वं च श्लेषेणोक्तम्, तथापि यथा सीतापतेः समुद्रस् तथा श्री-वसुदेवस्य मार्गं ददौ । तथा च तत्रैव—

यमुनां चाति-गम्भीरां नानावर्तशाकुलाम् ।

वसुदेवो वहन् विष्णुं जानु-मात्र-वहां नदीम् ॥इति ॥ [वि।पु। ५.३.१८] ॥५०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मघेनि शक्रे स्वयम् एव वर्षतीति सत्य् अपि माया-मोहित-जनत्वे तद् अज्ञानाद् असौ शृई-वसुदेवाद् अर्शनाद्य् अर्थम् एव वृष्टिम् अकरोत् या खलु जलभूम्योर् एकतापादनेन तस्य सहसा यमुनावगाहे\ऽपि हेतुर् अभूत् तत्रासकृत्वं च तत् क्लेश-शङ्कया मध्ये मध्ये विच्छेदनात् स च विच्छेदो निर्जन-देश इति ज्ञेयं यमानुजेति तदानीं परम-भीषणत्वाद्य् अभिप्रायेण तद् एवाभिव्यञ्जयति—गम्भीरेत्यादि-विशेषणाभ्याम् अत एव नदीति महा-शब्द-युक्त त्वं च श्लेषेणोक्तं तथापि यथा सीतापतेः समुद्रस् तथा सा शृइ-वसुदेवस्य मार्गं ददौ परावृत्तावपि तस्यैव तद् दानात् अत एव तैर् अपि सीतापतेर् इत्य् एव व्याख्यातं तथा च शृई-विष्णु-पुराणे यमुनां चातिगम्भीरां नानावर्तं-शताकुलाम् । वसुदेवो वहन् विष्णुं जानु-मान्त्रवहां ययौ इति ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तयौघस् तोय-समूहः श्रियः पतेः सीता-पतेः ॥५०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३.५१ ॥

नन्द-व्रजं शौरिर् उपेत्य तत्र तान्

गोपान् प्रसुप्तान् उपलभ्य निद्रया ।

सुतं यशोदा-शयने निधाय तत्-

सुताम् उपादाय पुनर् गृहान् अगात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निद्रया अजया ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र नन्द-व्रजे । तान् नन्द-प्रभृतीन् । किं च—यदा वसुदेवः स्वपुत्रं गृहीत्वा नन्दालयम् इतस्तदा तेन यशोदा-सूनुर्भगवद् योग-माया-पिहित-दृष्टिना तत्र स्थितो नावलोकितोऽपि तु तद् उपरि स्व-सुतं न्यधापयत्स च तदा तस्मिन्न् एवान्तर्हितोऽभूद् इति तद् आह—सुतम् इति । यशोदया सह यशोदायां वा प्रादुर्भावात् प्राक् शेते इति यशोदाशयनः गोलोकेशः परतमो द्विभुजाकृति श्री-कृष्णस् तस्मिन् निधाय वसुदेव-नन्दनस्तु वैकुण्ठेशो विष्णुस् तस्य गोलोकेशेन्तर्धानं प्रपञ्चितं श्री-गर्गाचार्यैर् लोकोक-खण्ड इति । किं च यावद् अक्रूरागमनं तावत्स तत्रैवान्तर्हितस् तस्थावक्रूरेण साकन्तु वसुदेव-नन्दन एव ययौ तां सम्प्रतिष्टौ वसुदेव-नन्दनौ इति वक्ष्यमाणत्वात् नन्द-नन्दनस्तु तत्रैव तस्थौ वृन्दावनं परित्यज्य पादम् एकं न गच्छति इत्य् उक्ते गोपीनां तद्वियोगस्तु द्वारकास्थ-पट्ट-राज्ञीवन् प्रातिभासिक एव न तु वास्तव इति ध्येयम् । तत्-सुतां यशोदा-सुताम् किं च कंसात् स्वपुत्र-रक्षणार्थं मित्र-पुत्यावधानार्थं जानतोऽपि परम-धार्मिकस्यापि वसुदेवस्यायमन्यायो न दूषणं प्रत्युत भूषणम् एव पुत्रीभूते भवति वर्धिष्णु-स्नेहेनैव तादृश-विवेकापहारात् । तथा चकारेति भावः । अत्र गृहं भार्या गृहीण्य् एव गृह म्प्रोक्तम् इत्य् उक्तेः बहुत्वं तस्या मुहुश् चिन्तनात् । कंस-कारागृहस्य वसुदेव-गृहाभावात् ॥५१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्दस्य व्रजं प्रायो गवावासम् इति तत्र द्वर-बन्धादिशंका निरस्ता । उपेत्य समीपे प्राप्येति सद्यस् तत्र गमनं बोधयति । यद् वा, उपायेन गत्वेति प्रयत्न-विशेषम्, श्री-व्रजेश्वराज्ञया सर्वतो निखात-कष्टकावरणादिना दुष्प्रवेशत्वात्, तान् श्री-नन्दादीन्, निद्रया स्वाभाविक्या । किं वा, तान् जागरण-शीलान् अपि योगमायया हेतुना प्रकार्षेण निःसंज्ञतया सुप्तानुपलभ्य दृष्टवेत्य् अर्थः । शिशुम् इति प्राकृततया स्नेह-भरोदयेन श्री-वसुदेवस्य निज-बालकाभिमानात् । यद् वा, अशिशुम् अपि शिशुत्वं प्राप्तम् इति श्री-बादरायणेर् भक्ति-भरोक्तिः । एवम् अन्यद् अप्य् ऊह्यम् । तस्याः सुताम् उपायेनोपकारार्थं वा आदायेति श्री-वसुदेवस्य श्री-भगवति स्नेह-भरो दर्शितस् तद् अर्थं मायाया अपि स्वीकारात्, तथा मित्र-पुत्र्याः कंस-कार्य-वध-दोषान् अपेक्षणाच् चेति, गृहान् निज-बन्धनागारम् ॥५१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपेत्य समीपे गत्वे\ऽपि वर्त्मादिकम् अजानतो\ऽपि तस्य दैव-साहाय्यं सूचितं द्वार-बन्धादि-विमोकस् तु पूर्ववत् तदानीं श्री-यशोदा-समीपे समभिव्यक्त-शैशव-माधुर्येण श्री-वसुदेवस्य स्वस्य चाष्ट-चित्तत्वाच् छिशुम् इत्य् उक्तं सुतम् इति क्वचित् पाठः निधाय निधिम् इव गूढं न्यस्य तस्याः सुताम् उपादाय मायात्वेन कन्यात्वेन च कंस-वचनार्थम् उपादेयत्वेन च गृहीत्वा एष च श्री-भगवति स्नेह-भर एव यद् अर्थं मायात्वेन ज्ञाताया अपि स्वीकारः तथा मित्र-पुत्रीत्वेन प्रतीयमानाया अपि कंस-कार्य-वध-दोषान् अपेक्षणं गृहान् इति चिन्ता-व्याकुलस्य शृइ-देवकी-लाक्षणस्य निज-गृहस्य ततो मुहुः स्फुरितत्वेन बहुत्व-निर्देशः ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तदा मथुरातो महा-वनागमने मध्यवर्तिनी यमुना च स्वयम् एव पन्थानं ददावित्य् आह—मार्गं ददौ सिन्धुर् इवन् श्रीयः पतेः । सिन्धुर् इव गभीरत्वाद् दुस्तरापि सा यनुना श्रियः पतेस् तस्य मार्गं ददौ ॥५१-५३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् सुताम् उपदायेयि कंसात् स्व-पुत्रस्य रक्षणं मित्र-पुत्र्या वधं ज्ञानतो\ऽपि परम-धार्मिकस्यापि वसुदेवस्यायमन्यायो न दूषणं प्रत्युत भूषणम् एव पुत्री-भूते भगवति वर्धिष्णुस्नेहेनैव तादृश-विवेकापहारात् ॥५१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मघोनि इन्द्रे असकृद्वर्षति सति यम-अनुजा नदी यमुना मार्गं ददौ जानु-दघ्न-जला बभूव, कीडृशी? गम्भीरा चासौ तोयौघजवेन वारिप्रवाहवेगेनोर्मयो यस्यां सा च फेनिला चेति भयानका भयङ्करा ये आवर्ता जल-भ्रमास् तेषां शतैर् आकुला व्याप्ता श्रियः पतेः श्री-रामस्य लङ्कां जिगमिषोः सिन्धुर् इव ॥५१॥


॥ १०.३.५२ ॥

देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् ।

प्रतिमुच्य पदोर् लोहम् आस्ते पूर्ववद् आवृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिमुच्य वद्ध्वा । पदोः पादयोः । लोहं निगडम् । आस्ते स्म ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दारिकां कन्याम् ॥५२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दारिकां बादिकां तां पूर्ववद् आवृतो निरुद्ध तद् आगमनानन्तरं पुनर् द्वार-बन्धादि-निष्पत्तेः ॥५२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दारिकां बालिकां शयने न्यस्येति तस्या उदकर्शोक-वृद्धि-शङ्काया अनादरेणैव शयन एव न्यस्य न पुनर् अङ्क इत्य् अर्थः । पूर्ववद् आवृतः कपाटादिभिर् निरुद्धः ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिम् उच्य बद्ध्वा पादयोर् लौहं निगडम् आवृतः आस्ते स्म ॥५२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नन्देति । अत्रापि नन्द-नृप-द्वार-पालानां गोपानां प्रस्वापो योग-निद्रया परांश-भूतया बभूव, द्वारश् च सर्वा मुक्त-कपाटाः स्वयम् आसन्, यशोदा च तयैव स्वापं प्राप, तत्-पुत्रं वसुदेवो नापश्यत् स्व-पुत्रं तत्र निधाय तत्-कन्यां नीत्वा प्रागात् । द्वौ डिम्भौ मेघ-खण्डाधिवकतां गताव् इति बोध्यम् । सा कन्या कंसेन हन्तुम् अशक्येति ज्ञान-सत्त्वाद् वसुदेवस्य न छद्भित्वं दोषः ॥५२॥


॥ १०.३.५३ ॥

यशोदा नन्द-पत्नी च जातं परम् अबुध्यत ।

न तल्-लिङ्गं परिश्रान्ता निद्रयापगत-स्मृतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जातं किञ्चिद् इति केवलम् अबुध्यत न तु तल् लिङ्गं पुत्रः कन्या वेति । योग-निद्रया च मोहितेति ॥५३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्द-पत्नी चेति च-कारोनुक्त-समुच्चायकः । यथा वसुदेव-पत्नी तथा नन्द-पत्नी च जातं स्व-गर्भाद् उत्पन्नम् अपत्यं परं सर्वोत्कृष्टम् अबुध्यत तन्-माधुर्यास्वादशक्त्यैव तद् दत्तया तदीय-स्वरूप-भूतान्तन्दम् अनुभवगोचरी चकारेत्य् अर्थः । किं तु तस्य लिङ्गं परमेश्वरोऽयम् एवेति विशेषं नाबुध्यतेति भेदः ।

ननु, तस्या गर्भजः कृष्ण इति न प्रसिद्धं तत्राह—यशोदेति । तद् यशो ददाति देवक्यै सखीभावात् ।

द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च ।

अतः सख्यम् अभूत् तस्या देवक्या शौरिजायया ॥

इत्य्-आदि पुराणाद् इति व्याख्यातं भागवतामृत-वैष्णवतोषिण्यानन्द-वृन्दावन-चम्प्वादि-सन्तत्यैवेति नोपेक्षणीयम् । परिश्रान्तातिसौकुमार्यात् प्रसवोत्थश्रमयुता प्रसवान्ते चानन्देन श्रमोपशन्त्या निद्रयेत्याहेति वा ॥५३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यशोदेर् इति सत् पुत्रोत् पत्त्या श्री-नन्दस्य व्रजस्य च तथा स्व-गर्भतो जननेन योग-मायायाश् च कीर्ति-विस्तारणाभि-प्रायेण । किं च, नन्दयति गजद् इति नन्दस् तस्य पत्नीति अपि तत् पुत्तोत् पत्त्या जगद् आनन्दकत्वं तथा तत् पतित्वेन नन्दस्यापि योग-मायादि यशो-विस्तारणं च सूचितम् । अप्य् अर्थे चकारः, व्रजेश्वरीत्वेन बहुल-परिजन-वृतापीत्य् अर्थः । परिश्रान्ता प्रसव-स्वाभावेन जातात्य् अन्तश्रमा, अपगता स्मृतिर् अनुसन्धानं यस्याः सा, तत् परिजनानाम् अपि तादृशत्वम् ऊह्यम् तथा च तत्रैव—

तस्मिन् काले यशोदापि मोहिता योग-निद्रया ।

ताम् एव कन्यां मैत्रेय प्रसूता मोहिते जने ॥ इति । [वि।पु। ५.३.२०]

अन्यत् तैर् व्याख्यातम् यद् वा, ततश् च परम् उत्तमं पुत्रं जातम् अबुध्यते, तस्य कान्ति-विशेष-प्रसरादि-दर्शनात् तस्य श्री-वसुदेव-कृत-पुत्र-परिवर्तनादेर् लिङ्गं लक्षणम् अन्यत् समानम् । पश्चात् पुत्र-दर्शनेन परम-दृष्टाभूद् इति ज्ञेयम् तथा च तत्रैव—

ददृशे च प्रबुद्धा सा यशोदा जातम् आत्मजम् ।

नीलोत्पल-दल-श्यामं तत्\ऽत्य् अर्थं मुदं ययौ ॥ इति ॥५३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यशोदेति । तादृश-पुत्रोत्पत्या श्री-नन्दस्य व्रजस्य च कीर्तेर् विस्ताराभिप्रायेण तथा नन्दयति पुत्रोत्पत्या जगद् इति नन्दत्वात् तस्यापि तद् आनन्दता सूचिता तस्य पत्नीति तस्या अपि जगद् आनन्दकत्वं तथा तत्-पतित्वेन यशो-विस्तारणं सूचितं प्रिश्रान्ता प्रसन्न-स्वाभावेन जातात्य् अन्त-श्रमा निद्रया योग-निद्रया अतः सुतरां तत् परिजनानाम् अपि तादृशत्वम् ऊह्या तथा च शृइ-विष्णु-पुराणे तस्मिन् काले यशोदापि मोहिता योग-निद्रया । ताम् एव कन्यां मैत्रेय प्रसूता मोहिते जने इति पश्चात् पुत्र-दर्शनेन परम-दृष्टाभूद् इति च ज्ञेयं तथा च तत्रैव ददृशे च प्रबुद्धा सा यशोदा जातम् आत्मजम् । नीलोत्पल-दल-श्यामं ततोत्य् अर्थं मुदं इति ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परं केवलं जातम् अबुध्यत न तु पुत्रः कन्या वेति तस्य जातस्य चिह्नं तत्र हेतुः परिश्रान्ता अति-सौकुमार्यात् प्रसवोत्थ-श्रमयुता प्रसवान्ते चानन्देन श्रमोपशान्त्या च निद्रयेति किं चात्र चकार उक्त-समुच्चये यथा वसुदेव-पत्नी तथा नन्द-पत्नी च जातं स्व-गर्भाद् उत्पन्नम् अपत्यं परं सर्वोत्कृष्टम् अबुद्ध्यत तन् माधुर्यास्वाद-शक्त्यैव तद् दत्तया तदीय-स्वरूप-भूतानन्दम् अनुभव-गोचरी चकारेत्य् अर्थः । किन्तु तस्य लिङ्गं परमेश्वरो\ऽयम् एवेति लिङ्ग-विशेषं न अबुद्ध्यतेति भेदः

ननु, तस्याः गर्भजः कृष्ण इति यशो न प्रसिद्धं तत्राह यशोदा तद् यशो ददाति देवक्यै सखीभावात् द्वे नाम्नी नन्द-भार्या या यशोदा देवकीति च अतः सख्यम् अभूत् तस्या देवक्या शौरि-जाययेत्यादि-पुराण-वचनावगताद् इत्य् अर्थः । व्याख्यानम् इदं भागवतामृत-वैष्णवतोषण्य् आनन्द-वृन्दवनादि सम्मत्यैवेति नोपेक्षिणीयम् ॥५३॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीयो दशम-स्कन्धे सङ्गतः सङ्गतः सताम् ॥३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पदोः पादयोः लोहं निगडं प्रतिमुच्य बद्धा आवृतः कारानिरूद्धः ॥५३॥

निशीथे इत्य्-आदिना हरेर् मथुरायां गोकुले च जन्मोक्त्या पूर्वत्र पितृभ्यां तस्य स्तुतिः सम्भाषणं चोक्ते उत्तरत्र किम् अभूत् तद् आह—यशोदेति; वसुदेवपत्नीव नन्दपत्नी च स्वगर्भाज्जातं परं परेशमबध्यत तत्करचरणगतानि चिह्नानि वीक्ष्यानादिमत पुत्रो\ऽयं परेशोमां प्रमोदयन्नवातरदित्यवैदित्य् अर्थः । ननु देवकीव तुष्टाव पुत्रभावेन तदैश्वर्यधियो\ऽन्यग्भूतत्वात् जातां कन्यां तु नापश्यदिति बोध्यम् । ननु तत्र वसुदेवो\ऽप्यागत्य कन्यां नीत्वा गतवानिति कुतो नाबुध्यत तत्राह—न तदिति तस्य वसुदेवागमादेर्लिङ्गं चिह्नं नाबुध्यत । लिङ्गं चिह्ने तु माने\ऽपि इति विश्वः न तद्वेदेति केचित् पठन्ति । तद् वसुदेवागमनं न वेदेति तत्र हेतुर्निद्रयेति रहस्यरक्षिण्या योगमाययेत्य् अर्थः ॥५४॥

इति श्रीमद्भागवते महापुराणे दशमस्कन्धे श्रीमद्बलदेवविद्याभूषणकृतवैष्णवानान्दन्यां तृतीयो\ऽध्यायः ॥३॥


(१०.४)


  1. न हि विरोध उभयं भगवत्य् अपरिमित-गुण-गण ईश्वरे\ऽनवगाह्य-माहात्म्ये\ऽर्वाचीन-विकल्प-वितर्क-विचार-प्रमाणाभास-कुतर्क-शास्त्र-कलिलान्तःकरणाश्रय-दुरवग्रह-वादिनां विवादानवसर उपरत-समस्त-मायामये केवल एवात्म-मायाम् अन्तर्धाय को न्व् अर्थो दुर्घट इव भवति स्वरूप-द्वयाभावात्। ↩︎

  2. सत्त्वम् इति बृहद्-वैष्णव-तोषणी। ↩︎

  3. भीतेति महा-पुरुषत्व-दर्शनेऽपि भय-स्थितिः पुत्र-स्नेहस्य प्राबल्य-व्यञ्जनाय इति पद-टीकायां पाण्डेयः। ↩︎

  4. यद् वा, अधिकृत आत्मा यैस् ते अध्यात्मानः शुकादयस् तान् अपि दीपयसि इति पद-टीकायां पाण्डेयः। ↩︎

  5. इन् थे एxतन्त् एदितिओन्, थिस् फ़ल्ल्स् इन् थे पाताल-काण्ड, वृन्दावन-माहात्म्य। ↩︎

  6. येनावृतं नित्यम् इदं हि सर्वं

    ज्ञः काल-कालो गुणी सर्व-विद् यः ।

    तेनेशितं कर्म विवर्तते ह

    पृथिव्य्-अप्-तेजोऽनिल-खानि चिन्त्यम् ॥ ↩︎

  7. नोत् फ़ोउन्द् इन् महोपनिषद्। ↩︎

  8. तीव्रं ↩︎

  9. प्रेमान्ध इति कृष्णदास-संस्करणे ↩︎

  10. अङ्कोट, अङ्कोठ, अङ्कोल, अङ्कोल्ल, अङ्कोलक; हिन्दि अकोल्अलन्गिउम् हेxअपेतलुम्। ↩︎