भगवतो देवकी-गर्भे\ऽनुप्रवेशः, तत्र ब्रह्मादि-देव-कृतं तदीयं स्तवनं, देवकी-सान्त्वनं च ।
॥ १०.२.१-२ ॥
श्री-शुक उवाच—
प्रलम्ब-बक-चाणूर-तृणावर्त-महाशनैः ।
मुष्टिकारिष्ट-द्विविद-पूतना-केशी-धेनुकैः ॥**
अन्यैश् चासुर-भूपालैर् बाण-भौमादिभिर् युतः ।
यदूनां कदनं चक्रे बली मागध-संश्रयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
द्वितीये कंस-घाताय देवक्या गर्भ-गो हरिः ।
ब्रह्मादिभिः स्तुतः सा च सान् त्व् इतेति निरूप्यते ॥
यदुभिः स व्यरुध्यत इत्य् उक्तं तम् एव विरोधं प्रपञ्चयति त्वरया देवकी-गर्भस्यान्यत्र सञ्चारेण भगवतः प्रवेशं वक्तुं प्रलम्बेत्य्-आदि-सार्ध-श्लोक-त्रयेण । महाशनोऽघासुरः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गर्भगः तदन्तः [चित्ते]
प्रविष्टः गर्भो भ्रूणे ध्वनौ धार्ष्ट्ये सेक्तरि ज्ञान-वालयोः । > मध्ये कुक्षौ हन्तृ-सन्ध्योपनसस्य च कण्टके । > चित्ते गर्ते चापि ॥
सा च देवकी च । सन्त्विता निर्भया कृता [१] ॥\
त्वरया वेगेन । अन्यत्र रोहिण्याम् । सञ्चारेण प्रापणेन । सार्ध-श्लोक-त्रयेण प्रलम्बेत्य् आरभ्य पर्युपासत इत्य् अन्तेन ॥१.२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रलम्बादिभिर्वृत इति द्वितीयेनान्वयः । असुर-रूपैर् भू-पालैः, आदि-शब्दात् साल्वादयः । कदनं पीडाम् । तैर् वृतत्वे हेतुः—वलीति । किम् च, मागधो जरासन्धस् तदानीं सम्राट्, स आश्रयः श्वशुरत्वात् सहायो यस्य सः ॥१.२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रलम्बेति युग्मकम् ॥१॥ तैर् युतत्वे बलीति ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
गर्भं सञ्चार्य रोहिण्यां देवक्या योग-मायया ।
तस्याः कुक्षिं गतः कृष्णो द्वितीये विबुधैः स्तुतः ॥
यदुभिः स व्यरुध्यत [१०.१.६८] इत्य् उक्तम् । तम् एव विरोधं प्रपञ्चयति—प्रलम्बेति सार्ध-त्रयेण । महाशनोऽघासुराह् ॥१-३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रापय गर्भं देवक्या रोहिण्यां योगया प्रभुः । तस्याः कुक्षिं गतः कृष्णो द्वितीये स्तूयते सुरैः ॥
यदुभिः स व्यरुध्यतेत्युक्तं विरोधः वर्णयति प्रलम्बेति? द्विकम् । महाशनो\ऽघासुरः । अरिष्टो वृषाकतिर्दानवः । मागधसंश्रयो जरासन्ध-सहायः ॥१-२॥
॥ १०.२.३ ॥
ते पीडिता निविविशुः कुरु-पञ्चाल-केकयान् ।
शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते यदवः । निविविशुः निवेशं चक्रुः । परस्मैपदम् आर्षम् नेर्विशः इत्य् आत्मनेपदे प्राप्ते ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नितरां निभृतं वा विशुस् तत्र तत्र गतास् तत् तद्-वेशादिनैक्यं प्राप्ता इत्य् अर्थः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निभृतं विविशुः तत्-तद्-वेषादीनां हालिक-गोपादि-ग्रामेषु इत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कुर्वादीन् देशान्निविविशुः ॥३॥
॥ १०.२.४ ॥
एके तम् अनुरुन्धाना ज्ञातयः पर्युपासते ।
हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुरुन्धानाः ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकेऽक्रूरादयः । तं कंसम् । औग्रसेनिना कंसेन ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एके केचिद् भक्त-मुख्या वा अक्रुरादयोऽनुरुन्धाना आनुकूल्यम् आचरन्तश् चातुर्येण वशीकुर्वन्तो वा । यद् वा, श्री-मधुपुर्यां स्थिताः—कंसे हते सद्योऽत्र श्री-कृष्णं द्रक्ष्यामो गोकुल-क्रीडां च तस्य नैकट्यात् सर्वां श्रेष्याम इत्य्-आदि-स्वार्थम् अपेक्षमाणा इत्य् अर्थः—एतच् चाग्रेऽक्रुरयाने व्यक्तं भावि । पर्युपासते सर्वतोभावेन सेवन्ते, समीपे वा तिष्ठन्ति, अतीते वर्तमाना तद् अविच्छेदात् । पर्युपासत इति पाठो वा । जातं जातम् अहन् इति पूर्वम् उक्तम्, ते कति हता इत्य् अपेक्षायाम् आह-हतेष्व् इति । ते हि पुरा मरीचेः पुत्रा देवाः श्री-ब्रह्मण्यपराधेनासुरत्व-प्राप्त्या हिरण्य-कशिपु-पुत्रात् कालनेमेर् उत्पन्नाः षड्-गर्भा इति ख्याताः, पिता सर्वान् वधिष्यतीति हिरण्य-कशिपु-शापतः श्री-देवकी-गर्भे योगमाया-द्वारा श्री-भगवफ़्ता नियोज्य तत्-पितृ-कालनेम्य् अवतार-कंस-हस्तेन घातिता इत्य्-आदिकम् अत्र श्री-हरि-वंशाद्य् उक्तम् अनुसन्धेयम्, घातनं च तेषां विमुक्तय एवेत्य् अग्रेऽत्र पञ्चाशीतितमाध्याये व्यक्तं भावि । एवं तेषां हनने श्री-भगवत्-कृतोपेक्षापि परिहृता स्याद् इति दिक् । औग्रसेनिनेति हतानां भागिनेयत्ववोधनेन कंसस्य महाक्रुरत्वं सूचयति । अनन्तं सङ्कर्षणं चतुर्ब्युह-द्वितीयं प्रचक्षते वदन्त्यभिज्ञाः ॥४.५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एक इत्य् अर्धकम् अनुरुन्धानाः चातुर्येण वशी-कुर्वन्तः यद् वा एके भक्ताः श्री-कृष्णवतार-दर्शन-रूपं स्वार्थम् अपेक्षमाणा इत्य् अर्थः एतच् चाग्रे अक्रूर-याने व्यक्तं भावि पर्युपासते पर्युपासत हतेष्विति सार्धकम् जातं जातम् अहन्न् इति पूर्वम् उक्तं ते कति हता इत्य् अपेक्षायाम् आह—हतेष्विति । ते हि पुरा मरीचेः पुत्राः देवाः श्री-ब्रह्मण्यापराधेनासुरत्वप्राप्त्या हिरण्याक्ष-पुत्रात् कालनेमेर् उत्पन्नाः षड्-गर्भा इति ख्याताः स्वं परित्यज्य ब्रह्मोपासकास् ते जाता इति क्रुद्धस्य हिरण्यकाशिपोः पिता युष्मान् वधिष्यतीति शापं स्मृत्वा श्री-देवकी-गर्भे योगमाया-द्वारा श्री-भगवता नियोज्य तत् पितृकालनेम्यवतार-कंस-हस्तेन घातिका इत्य्-आदिकम् अत्र श्री-हरिवंशाद्य् उक्तम् अनुसन्धेयं यत्त्वग्रे हिरण्य-कशिपोर् जाता इति तेषाम् आख्यानं ते नैकवाक्यत्वाय कालनेमि-क्षेत्रे तस्माद् एव जाता इति ज्ञेयं जाता इत्य् अर्थ पुत्रा इत्य् अनुक्तत्वात् भारद्वादिषु च तथा श्रवणात् अथवा क्ल्प-भेदं व्यवस्थेयं यातनं च तेषां विमुक्तय एवेत्य् अग्रे पञ्चाशीतितमाध्याये व्यक्ते भावि एवं तेषां हनने श्रि-भगवत् कृतोपेक्षपि परिहृता स्यात् औग्रसेनिनेति येर्ष्व-युक्तं साक्षात् तन् नामाग्रहणात् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकेऽक्रूरादयः श्री-कृष्णावतार-दर्शनोत्कण्ठावन्तः तं कंसम् अनुरुन्धानास् तद्-आज्ञा-वर्तिनः ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एके इत्य् अर्थकम् अक्रूरादयस् तं कंसम् अनुरुद्धानास् तद्-आज्ञावहाः श्री-कृष्णावतार-दिदृक्षयेति बोध्यम् ॥४॥
॥ १०.२.५ ॥
सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते ।
गर्भो बभूव देवक्या हर्ष-शोक-विवर्धनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : धाम कला तद् एव सप्तमो गर्भो बभूव । किं तद् धाम इत्य् आह—यम् अनन्तम् इति । हर्ष-शोक-विवर्धन आनन्द-रूपस्यावतीर्णत्वाद् धर्षः पूर्व-गर्भ-साधारण-दृष्ट्या च शोक इति ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कला अंशः । शयनीयत्वाद् वा धामेति ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : [+++]{।मर्क्}
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या [४-५]।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी): वैष्णवं श्री-कृष्ण-मयं मद्-धाम अनन्तं सङ्कर्षणं चतुर्-व्यूह-द्वितीयं प्रचक्षते वदन्त्य् अभिज्ञाः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सप्तमो गर्भो बभूव यं गर्भम् अनन्तं प्रचक्षते । कीदृशं ? वैष्णवं धाम कृष्णस्यांशम् इत्य् अर्थः । साक्षाद् आनन्दस्य कुक्षिङ्गतत्वाद् धर्षः कंसो वधिष्यतीति बुद्ध्या शोकः ॥५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हतेष्व् इति सार्धकम् । देवक्याः सप्तमो गर्भो बभूव, यं गर्भम् अनन्तं प्रचक्षते । कीदृशं ? वैष्णवं धाम विष्णोर् व्यापिनः कृष्णस्यांशम् इत्य् अर्थः । परमानन्दस्योदर-गतत्वाद् धर्षः कंसः कदनं करिष्यतीति विमर्शाच् छोकः । तयोर् विवर्धनः ॥५॥
॥ १०.२.६ ॥
भगवान् अपि विश्वात्मा विदित्वा कंसजं भयम् ।
यदूनां निज-नाथानां योगमायां समादिशत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निज आत्मैव नाथो येषां ते तथा तेषाम् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपि-शब्दः पूर्वोक-क्षीरोदशाय्यापेक्षया, विश्वस्यात्मा व्यापको\ऽतो विदित्वा । यद् वा, अन्तर्यामी यदूनां भयं विदित्वा निवेदनं विनापि तद्-भय-निरासार्थम् इत्य् अर्थः । सम्यक् प्रोत्साहनादि-पूर्वकम् आदिशत् । कुतः ? निजः स्वयम् एव नाथः । किं वा, निजाः श्री-वसुदेवादयो नाथा येषां तेषां भक्त-वात्सल्याद् इति भावः । यद् वा, विश्वस्यात्मा प्रभुर् इति योगमायां प्रति समादेशे हेतुः । तस्या अपि तद्-अधीनत्वात् योगो भगवच्-छक्ति-विशेषः । स एव श्री-ब्रह्मादीनाम् अपि मोहनान् माया, ताम् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् स्वयम् एव नित्य-रूपः श्री-कृष्णः विश्वात्मा सर्वांशी । अपि-शब्दः क्षीरोदशाय्य्-अपेक्षया पूर्वं स वै ब्रह्मादीन् समादिशत् अधुना स्वय्म् असाव् आप योग-मायाम् इति विदित्वा निवेदनं विनापि यदूनां भयं ज्ञात्वा तद्-भय-निरासार्थम् इत्य् अर्थः । सम्यक् प्रोत्साहनादि-पूर्वकम् आदिशत् । कुतः ? निजाः श्री-वसुदेवादयो नाथा येषां तेषां भक्त-वात्सल्याद् इति भावः । स्वीयेषु श्रेष्ठानाम् इति वा योगो भगवच्-छक्ति-विशेषः स एव ब्रह्मादीनाम् अपि मोहनान् माया तां जगत्-कारण-शक्तितोऽपि परावस्थाम् एकानंशाख्यां यद् वात्रापि-शब्दोऽयं श्री-भगवतः परमोत्कर्षं सूचयित्वा तस्यास् तादृशत्वेऽपि ततोऽतिनिकर्षं सूचयति तादृशोऽपि तादृशीं तां सम्दिशद् इति तु तस्य निजेषु वात्सल्यातिशयम् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं स्वयं भगवान् कृष्णोऽपि योगमायां विमलादीनां चिच्-छक्ति-वृत्तीनां पञ्चमीम् ॥६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नारदोपजापस्य फलं त्वरया हरेर् अवतरणं दर्शयति भगवान् अपीति । यदूनां भयं विदित्वा योगमायां विमलादीनां नवानां परांशानां पञ्चमीं समादिशत् ॥६॥
॥ १०.२.७ ॥
गच्छ देवि व्रजं भद्रे गोप-गोभिर् अलङ्कृतम् ।
रोहिणी वसुदेवस्य भार्यास्ते नन्द-गोकुले ।
अन्याश् च कंस-संविग्ना विवरेषु वसन्ति हि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सा गोकुले किम् इत्य् आस्ते अत आह—अन्याश् चेति । न केवलं सैव अन्या अपीति । विवरेषु अलक्ष्य-स्थानेषु ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्द-गोकुले बृहद् वनाख्ये ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : [+++]{।मर्क्}
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवि ! हे जगत्-पूज्ये ! भद्रे ! हे सर्व-मङ्गले ! एतत् सर्वं तस्याः प्रोत्साहनार्थम् । यद् वा, तत्र गमने योग्यतोक्ता, पुनर् विशेषेण प्रोत्साहनार्थम् । यद् वा, तत्र गमने योग्यतोक्ता, पुनर् विशेषेण प्रोत्साहयति । किं च, नन्दयति जगद् इति नन्दस् तस्य गोकुले आवासे अन्या वसुदेव-भार्याः कंसात् सम्यक् विग्ना भीताः, हि निश्चितम् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गच्छेत्य् अर्धकम् । हे देवि जगत्-पूज्ये ! भद्रे ! सर्व-मङ्गले ! एतत् सर्वं तस्याः प्रोत्साहनार्थम् । यद् वा, तत्र गमने योग्यतोक्ता । पुनर् विशेषेण प्रोत्साहयति—गोपेति । अनेन तेषां गोपाणां गवां च तस्या अप्य् अगम्यं परमाश्चर्य-रूपत्वं दर्शितम् । अन्या वसुदेव-भार्याः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्द-गोकुले रोहिण्यास् ते इति षड्-गर्भ-वधानन्तरं रोहिण्या अपि जातं गर्भम् आलक्ष्य रहसि लोक-द्वारा वसुदेवेनैव सा प्रेषिता कंसात् संविग्ना भीताः विवरेषु रहस्य-स्थलेषु ॥७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गच्छेति सार्धकम् । अलङ्कृतम् इति स्वाभाविक-सम्पत्तिमत्त्वम् । नन्द-गोकुले इति षड्-गर्भ-वधोत्तरं तस्या गर्भं सम्भाव्य वसुदेवेनैव तत्राप्त-द्वारा प्रेषितेति बोध्यं न केवलं सैवैका किन्त्व् अन्याश् च तस्य भार्याः विवरेषु गमन-स्थानेषु तेन प्रेषिता निवसन्ति ॥७॥
॥ १०.२.८ ॥
देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् ।
तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : जठरे सन्तम् । ननु गर्भ आकृष्यमाणः कथं जीवेद् अत आह—मामकं धाम ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मम धामत्वेन तस्याविनाशित्वम् एवेत्य् आह—मामकं धामेति भवान् एकश्शिष्यते शेष-सञ्ज्ञः इत्य् अग्रे वक्ष्यमाणत्वात् । ततो गर्भात् ।
ननु, शुद्ध-स्वरूपायां भगवत् प्रकाशिकयायां महा-शक्तौ देवकी-देव्यां प्राकृतानां षड्गर्भाणां कथं प्रवेशसत्य शुद्ध-स्वरूपे श्री-भगवति समष्टि-व्यष्टीनां प्रविष्टत्वेऽपि यथा न तद् योगस् तथैव देवक्याम् अपि षड्-गर्भाणाम् इत्य् अर्थः । तद् उक्तम्—
मत् स्थानि न चाहं तेष्व् अवस्थितः । > न च मत् स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ इति ।
किन्तु जनेषु भक्ति-परिपाटी-प्रदर्शनार्थैवेयं लीलेत्य् अवगम्यते । तथा हि भक्त-जने श्रवण-कीर्तनादि-रूपा भक्तिस् तिष्ठति तद् गर्भ एव तदानुषङ्गिक-फल-भूतत्वात् षड्विषय-भोगाश् च तिष्ठन्ति हत एतैर् एवे संसारान्धकूपे पतिष्यामीति । ततः प्रकटी-भूताद् भयात्-कालेन ते निवर्तते च ततो भगवद्यशः श्रवण-कीतन-परिचर्यादिमयी भक्ति-रतिप्रवृद्धा भवति तस्यां च भगवान् रूप-गुण-महोदधिः प्रादुर्भवति भक्तेर् भगवत् प्रकाशक-शुद्ध-सत्त्व-स्वरूपत्वात् भक्तिर् एवैनं दर्शयति इति श्रुतेः । एवम् एव मरीचिर् मनसोऽभवत् इति श्रवणान् मरीचेर् मनोऽवतारत्वं तत्-पुत्राणां षण्णां षड्विषयावतारत्वं देवक्या भगवत्-प्रादुर्भावकत्वाद् भक्त्यवतारत्वं भयात् कंसः इत्य् उक्तेर् भयमयत्वेन कंसस्य भयावतारत्वम् अतो भक्ति-गर्भगतानां षड्-विषयानां संसारमयम् एव निवर्तकं तथैव षड्-गर्भाणां कंसो हन्ता विषय-निवृत्तौ सत्यां यथा भक्ति-गर्भे भगवद्यशः परिचर्यादिमयी प्रेम-भक्तिर् एव भवेत् तथैव देवक्यां षड्-गर्भ-निवृत्त्यनन्तरं सप्तमो गर्भो भगवद्यशोनिवास-शय्यासनच् छत्रादि-रूपोऽनन्तः ततः प्रेम-भक्त्याविर्भावानन्तरं यथा भगवत्-साक्षात्कारो भक्त्रे अष्टमो गर्भस् तथैव देवक्याश् चाष्टमो गर्भो भगवान् इति तत् त्वम् अत्र द्रष्टव्यम् इति विश्वनाथः ॥८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गर्भं भ्रूणं शेषाख्यं सङ्कर्षणाभिधं धाम रूपम् एकं सम्यग् अलक्षितं सुख-पूर्वकं च विकृष्य । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ननु, शेषाख्यश् चेत् तर्हि कंस-भयाभावात् किम् अर्थं तथा कार्यम् ? तत्राह—मामकं धाम आश्रयः । यद् वा, तद् धाम गोकुलं प्रति, तेन विना तत्र मम क्रीडा-सुखासम्पत्तेर् इति भावः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गर्भां भ्रूणं शेषाख्यं शिष्यत इति शेषांशः स आख्या ख्यातिर् यस्य तं ममांशत्वेन ख्यातिम् इत्य् अर्थः । मामकं सङ्कर्षण-संज्ञं धाम रूपम् आधार-शक्तिमयत्वेनाश्रयं वा सम्यक् अलक्षितं सुख-पूर्वं च नितरां कृष्टा ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शेषाख्यं ममांशत्वेन प्रसिद्धम् इत्य् अर्थः । तं सङ्कर्षणं मामकं धाम स्वरूपम् आश्रयं वा ॥८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) :
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मामकं धाम मद्-अंश-भूतं बलदेव-स्वरूपम् । कीदृशं ? शेष इत्य् अंशेन आख्या यस्य । यस्यैकांशेन विधृता जगती जगतः पतेः इत्य् अग्रिमोक्तेः । अत एव तस्य रोहिणी नित्य-मातृकत्वेऽपि देवक्या गर्भे मत्-प्रवेशानुरोधेनैव प्रथमं तेन प्रविष्टं, ततः स्वांशं मन्-निवास-शय्यासनाद्य्-आत्मकं शेषं तत्र देवकी-गर्भे स्थापयित्वैव स्व-मातू रोहिण्या गर्भे स्थापयेत्य् अर्थः ।
ननु, शुद्ध-सत्त्व-स्वरूपायां भगवत्-प्रकाशिकायां महा-शक्तौ देवकी-देव्यां प्राकृतानां षड्-गर्भाणां कथं प्रवेशः समुचितः ? भवति सत्यं शुद्ध-सत्त्व-स्वरूपे श्री-भगवति समष्टि-व्यष्टीनां प्रविष्टत्वेऽपि यथा न तद्-योगस् तथैव देवक्याम् अपि षड्-गर्भाणाम् इत्य् अर्थः । यद् उक्तम्—
मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः । > न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । [गीता ९.१४-१५] > इति ।
किन्तु जनेषु भक्ति-परिपाटी-प्रदर्शनार्थम् एवेयं लीलावगम्यते । तथा हि, भक्त-जने श्रवण-कीर्तनादि-लक्षणा भक्तिस् तिष्ठति तद्-गर्भ एव तदानुषङ्ग्किक-फल-भूतत्वात् षड्-विषय-भोगाश् च तिष्ठन्ति हन्त एतैर् एव संसारान्ध-कूपे पतिष्पाम् इति ततःप्रकटीभूताद् भयात् कालेन ते निवर्तन्ते च । ततो भगवद्-यशः-श्रवण-कीर्तन-परिचर्यादि-मयी भक्तिर् इति प्रवृद्धा भवति तस्यां च भगवान् रूप-गुण-महोदधिः प्रादुर्भवति भक्तेर् भगवत्-प्रकाशक-शुद्ध-सत्त्व-स्वरूपत्वात्—भक्तिर् एवैनं दर्शयतीति श्रुतेः । एवन् एव मरीचिर् मनसोऽभवत् इति श्रवणान् मरीचेर् मनोऽवतारत्वं तत्-पुत्राणां षण्णां शब्दाद् इति षड्-विषयावतारत्वं देवक्या भगवत्-प्रादुर्भावकत्वाद् भक्त्य्-अवतारत्वं भयात् कंस इति श्रवणाद् भय-मयत्वेन कंसस्य भयावतारत्वम् । अतो भक्ति-गर्भ-गतानां षड्-विषयाणां यथा संसार-भयम् एव निवर्तकं तथैव देवकी-षड्-गर्भाणां कंसो हन्ता विषय-निवृत्तौ सत्यां यथा भक्ति-गर्भे भगवद्-यशः परिचर्यादिमयी प्रेम-भक्तिर् एव भवेत्, तथैव देवक्यां षड्-गर्भ-निवृत्त्य्-अनन्तरं सप्तमो गर्भो भगवद्-यशा निवास-शय्यासन-च्छत्रादि-रूपोऽनन्तः । ततः प्रेम-भक्त्याविर्भावानन्तरं यथा भगवत्-साक्षात्कारो भक्तेर् अष्टमो गर्भस् तथैव देवक्याश् चाष्टमो गर्भो भगवान् इति तत्त्वं द्रष्टव्यम् ॥८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जठरे सन्तं गर्भं भ्रूणम् । कीदृशं ? इत्य् आह—शेषाख्यम् अंशेनेति बोध्यम् । मामकं धाम स्वरूपम् आश्रयं च तस्याधार-शक्ति-रूपत्वात् । सम्यक् सुख-पूर्वकम् अलक्षितं नितरां कृष्ट्वा । तस्य नित्य-रोहिणी-मातृकत्वेऽपि पूर्वं देवक्याः गर्भे प्रवेशो मन्-निवास-शय्यादि-रूप-शेषांश-स्थापनायेति रहस्यः । पत्युः सकाशात् सगर्भेयम् इहागतेति गोकुले ख्यातिर् बोध्या ॥८॥
॥ १०.२.९ ॥
अथाहम् अंश-भागेन देवक्याः पुत्रतां शुभे ।
प्राप्स्यामि त्वं यशोदायां नन्द-पत्न्यां भविष्यसि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किम्-अर्थम् एव कार्यं ? इत्य् आह—अथेति । अनन्तरम् एवेत्य् अर्थः । अंश-भागेन इति अंशैः शक्तिभिर् भजतेऽधितिष्ठति सर्वान् ब्रह्मादी-स्तम्ब-पर्यन्तान् इत्य् अंश-भागः, तेन परिपूर्णेन रूपेणेत्य् अर्थः । यद् वा, अंशैर् ज्ञानैश्वर्य-बलादिभिर् भाज्यति योजयति स्वीयान् इति यथा तेनेति । यद् वा, अंशेन पुरुष-रूपेण मायाया भागो भजनम् ईक्षणं यस्य तेन । यद् वा, अंशेन मायया गुणावतारादि-रूपा भागा भेदा यस्य तेन । यद् वा, अंशा एव मत्स्य-कूर्मादि-रूपा भजनीयाः, न तु साक्षात्-स्वरूपं यस्य तेन । यद् वा, आंशैर् ज्ञान-बलादिभिर् भजनम् अनुवर्तनं भक्तेषु यस्य तेन सर्वथा परिपूर्णेन रूपेणेति विवक्षितम् । कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८]इत्य् उक्तत्वाद् इति । तां प्रोत्साहयति—त्वं यशोदायाम् इति त्र्य्-अक्षरोन-सार्ध-चतुष्टयेन ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं गर्भ-सङ्कर्षणम् इत्य् अर्थः । अथेत्यव्ययस्य मङ्गलादि-रूप-बह्वर्थकत्वाद् अनन्तरार्थम् एवात्र ग्राह्यम् इत्य् आह—अनन्तरम् एवेति । पूर्व-व्याख्याने शक्तिभिर् इत्य् उक्तेः काः शक्तय इति जिज्ञासोत्पत्तेर् ब्रह्मादिषु कथञ्चिच् छक्ति-दर्शनेऽपि स्तंवादिषु तद् अदर्शनाच् चास्वरसप्रतीतेः पुनर् आह-यद् वेति । इहापि स्वीयान् इत्य् उक्तेः । पक्षपातित्वेन वैषम्यनैर् घृण्ययोः प्रतीतेर् उच्च्या पुनर् आह—यद् वेति । इहापि पुरुष-रूपेणेत्य् उक्तेर् जीवस्यापि द्वाविमौ पुरुषौ लोके क्षरश् चाक्षर एव च इति श्री-मुखोक्तेः । पुरुष-रूपत्वेन मायाभागित्वं स्यात् । किं च, भाग-शब्दस्येक्षणार्थे वृत्तेर् अदर्शनादप्यस्वरसप्रतीतेः पुनर् आह—यद् वेति । इहापि माया-संब्ध्न्ध-प्रतीतेर् मायिकत्वम् आयाति तादृशस्य तु न सर्वथा परिपूर्णत्वं सेत्स्यतीत्यर् उच्च्या पुनर् आह—यद् वेति । न तु साक्षात् स्वरूपम् । यतो वाचो निवर्तते इत्य्-आदि-श्रुतेर् वाङ्मनसागोचरत्वात् । तेन निर्गुणं स्वरूपं लभ्यते तत्र चांशादि-कल्पनम् अप्य् अयुक्तमयोग्यत्वात् योग्य एव पृथिव्यादावंश्यंशादि-कल्पना दृश्यते नायोग्ये वियदादाव् इति अतोऽयम् अर्थोऽपि न तोषकर इत्य् अरुच्या पुनर् हाह—यद् वेति । इह भक्तोष्व् इत्य् उक्तेऽपि राग-द्वेषादयस् तत्र नैवोह्याः कल्प-वृक्षादिवद् इति । सर्वथा सर्व-प्रकारेण । तां योगमायाम् । प्रोत्साहयति सोत्साहां करोति-त्वम् इत्य् आरभ्योच्छ्रयादित्यन्तेन सार्ध-चतुष्क-श्लोकेन ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथाहम् अंश-भागेनेत्य् आदि । अंशानां ब्रह्मादीनां भागेन भाग-धेयेन । अंशानां जीवानाम् इति वा । ममैवांशो जीव-लोके [गीता १५.७] इत्य् आदेः ॥९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथानन्तरम् एवेति देवकी-पुत्रत्व-प्राप्तौ त्वरात् वोधयति । एवं श्री-बलरामस्यात्य् अल्प-कालम् एवाग्रजत्वं ज्ञेयम्, तच् चाग्रे व्यक्तं भावि । अंशेति तैर् व्याख्यातम् एव । यद् वा, अंशानां श्री-ब्रह्मादीनां भागधेयेन हेतुना ।
ननु, शेषाकर्षणे यशोदायां जन्मनि च मम का योग्यतेत्य् अपेक्षायाम् आह—शुभे ! हे सर्वत्तमे ! मत्-प्रभावाद् उत्तमत्व-सिद्ध्या योग्या भूया इत्य् अर्थः । एवं तां प्रति वर-प्रदानं ज्ञेयम्, अतएव तया श्री-नन्दादि-मोहनं वक्ष्यति । यद् वा, हे भाग्यवति ! अतो यशोदायां भविष्यति, यशोदायाम् इति तेन तव यशः । नन्द-पत्न्याम् इत्य् आनन्दश् च भवितेति भावः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ अनन्तरम् एवेति देवकी-पुत्रत्व-प्राप्तौ त्वरां बोधयति । एवम् एव श्री-बलदेवस्याल्प-कालाग्रजत्वं तच् चाग्रे व्यक्तं भावि । अंशेति तैर् व्याख्यातं ।
तत्र प्रथमे कर्तरि घञ् आर्षः । द्वितीये च णिज्-अन्तत्वात् तद्वत् । तृतीये अंशेन पुरुष-रूपेणेत्य् आदिकं त्व् अस्मन्-मत-सहायम् इति ज्ञेयम् । यद् वा, अंशानां भागो भजनं प्रवेशो यत्र तेन पूर्णेन स्वरूपेण । यद् वा, अंशानां जीवानां भाग-धेयेन हेतुना ।
ननु, श्री-सङ्कर्षणाकर्षणे श्री-यशोदायां जन्मनि च मम का योग्यतेत्य् अपेक्षायाम् आह—शुभे मन्-निदेशेनैव प्राप्त-मङ्गले तत्र त्वं योग्यो भूर् इत्य् अर्थः । एवं तां प्रति वर-दानं ज्ञेयम् । अत एव तया श्री-नन्दादि-मोहनं वक्ष्यति ।
यद् वा, हे भाग्यवति ! यतो यशोदायां भविष्यसि, यशोदायाम् इति तेन तव यशः नन्द-पत्न्याम् इत्य् आनन्दश् च भवितेति भावः । निगूढश् चायम् अर्थः । अंश-भागेन प्रकाश-भेदेन देवक्याः पुत्रतां प्राप्स्यामीत्य् एवं प्रकाशान्तरेण श्री-यशोदाया अपि पुत्रतां प्राप्स्यामीति ज्ञेयम् । अवतीर्णौ जगत्य्-अर्थं स्वांशेन बल-केशवौ इत्य् अत्र श्री-स्वामि-चरणैर् अपि व्याख्यातं स्वांशेन मूर्ति-भेदेन इति । अत एव त्वं यशोदायां भविष्यसि विद्यमानताम् एव प्राप्स्यसि, न तु पुत्रीत्वम् इति तथा व्यवहाराभावाद् इति भावः । एतद्-व्यञ्जनयैव भविष्यसीति पृथग् उक्तम् । अन्यथा श्री-यशोदायां त्वं पुत्रतां प्राप्स्यसीति विभक्ति-विपरिणामेनैवार्थ-सिद्धिः स्यात् । पुत्र-शब्दो हि कन्याम् अपि वदति । अत एव तद्-व्यवच्छेदाय पुमांसं पुत्रम् आधेहीति श्रुतौ पुमांसम् इति पुत्रताम् इति सामान्य-वचनत्वेन पुंस्त्व-व्यभिचारित्वं युक्तानाम् इतिवत् ।
अयं भावः—दधार सर्वात्मकम् आत्म-भूतम् इति वक्ष्यमाण-दिशा यथा देवकी मां मनसि धारयिष्यति, स्वगर्भजत्वेनाभिमंस्यते च तथा सापि । यथा च देवक्यां मम मातृत्वानुभवस् तथा तस्याम् अपीति । नन्दस् त्व् आत्मज उत्पन्न इत्य्-आदौ श्री-शुक-वाक्ये विवृतीभविष्यति । अतो भवत्यास् तत्र सत्ता-व्याज-मात्रार्थं मया दिश्यते यतो भवती मायेति ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथाहम् इति । अंशानां भागो भजनं प्रवेशो यत्र तेन पूर्ण-स्वरूपेणेति ॥९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : आदिष्टा प्रभुणांशेन [भा।पु। १०.१.२५] इति ब्रह्माणं प्रति अनिरुद्धो यद् उवाच, तम् एव प्रभोर् आदेशं प्रपञ्चयति—अथाहम् आंश-भागेनेत्य् आदि । हे शुभे ! अहं देवक्याः पुत्रतां प्राप्स्यामि, त्वं यशोदायां नन्द-पत्न्यां भविष्यसि । अथानन्तरं त्वं देवक्यां भविष्यसि, अहं नन्द-पत्न्यां पुत्रतां प्राप्स्यामीति व्यत्ययो\ऽप्य् अथ-शब्देन बोद्धव्यः । अव्ययानाम् अनेकार्थत्वात् । अंश-भागेन अंशानां भागेन भाग-धेयेन । अंशा अत्र देवा इति बोद्धव्यम् ।
अथवा, अंश्यते विभज्यते क्रिया अनेनेति अंशः कालः । अंशांशत्क विभाजने इत्य् अतो वाभिरूपम् । तस्य भागेन भेदेन । अहम् आदौ देवक्याः पुत्रो भविष्यामि, पश्चान् नन्द-पत्न्याः । त्वम् आदौ नन्द-पत्न्याः पुत्री भविष्यसि, पश्चाद् देवक्या इति । वसुदेवं हरेः स्थानं [भा।पु। ९.२४.३०] इति लक्ष्य-लक्षण-भावात् हरेः स्थानत्वं हि वसुदेवत्वम् । तद् उभयोर् आनकदुन्दुभि-नन्दयोर् एवास्ति । नन्दादयो\ऽपि यदु-वांशान्त\॥। [[तेxत् मिस्सिन्ग्]{।मर्क्}]
भवद्भिर् अंशैर् यदुषूपजन्यतां [भा।पु। १०.१.२२] इति तेषाम् उभयत्रैवावतारश् च । अत एव स्वयं वक्ष्यति भगवान्—ज्ञातीन् वो द्रष्टुम् एष्यामः [भा।पु। १०.४५.२३] इत्य्-आदि ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आंशैर् ज्ञान-बलादिभिर् भजनम् अनुवर्तनं भक्तेषु यस्य तेन सर्वथा परिपूर्ण-स्वरूपेणैति भावार्थ-दीपिकायाम् । अंशानां भागो भजनं प्रवेशो यत्र तेन पूर्णेन स्वरूपेण इति अंशानां ब्रह्मादीनां भागेन भागधेयेन हेतुना इति द्वयं वैष्णव-तोषण्याम् ।
यद् वा, अंश-भागेन अंशांशेन पुत्रतां पुत्र-भावं प्राप्स्यामि न तु सर्वांशेनेत्य् अतः सा देवकी मयि वात्सल्यम् ऐश्वर्य-भाव-मयं करिष्यतीत्य् अर्थः । तेन भावान्तर-शून्यं सम्पूर्णम् एव वात्सल्य-सुखं श्री-यशोदायाम् एव प्राप्स्यामीति द्योतितम् । त्वं तु यशोदायां भविष्यसि उत्पत्स्यसे मातरि यशोदायां पुत्रीत्वं समवाप्स्यसीत्य् अनुक्तस् त्वयि सुतायाम् अपि सा वात्सल्यं न करिष्यते, अलक्ष्य-विग्रहत्वेनैव तव व्रजे वर्तिष्यमाणत्वाद् इति भावः ॥९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : किम् अर्थम् एवं कार्यं तत्राह—अथेत्य् अन्तरम् एव तेन बलदेवस्याल्पकालाग्रजत्वं व्यज्यते । अंश-भागेनाहं देवक्याः शौरित्-पत्न्याः वक्ष्यमाणार्थान् नन्द-पत्न्याश् च पुत्रतां प्राप्स्यामि । अंशानां भागो भजनम् अनुवृत्तिर् यत्र तेनेति वा । अंशैर् ज्ञान-बलादिभिर् भागो भक्तेष्व् अनुवृत्तिर् यस्य तेनेति वा । अंशानां ब्रह्मादीनां भागेन भागधेयेनेति वा परिपूर्णेत्य् अर्थः । अत्राहुः—अंश-भागेनांशांशेन देवक्याः पुत्रताम् इति तस्या मयि परमैश्वर्य-प्रधानत्वात् पुत्र-भावो गौणः । श्री-यशोदायास् तु मयि तद्-भावो माधुर्य-प्रधानत्वान् मुख्यो भावी । त्वं यशोदायां भविष्यतीति सा त्वां न वेत्स्यति । अलक्ष्य-विग्रहैव व्रजे स्थास्यतीति भावः ॥९॥
॥ १०.२.१० ॥
अर्चिष्यन्ति मनुष्यास् त्वां सर्व-काम-वरेश्वरीम् ।
धूपोपहार-बलिभिः सर्व-काम-वर-प्रदाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वान् पुत्रादीन् कामयन्ते ये तेषां वराम् ईश्वरीं श्रेष्ठां नियन्त्रीम् अर्चकानां सर्वान् काम-वरान् प्रददाति या ताम् ॥१०॥११॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नियन्त्रीं प्रेरिकां स्वामिनीम् इति यावत् ॥१०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति—अर्चिष्यन्तीति त्रिभिः । पूजयिष्यन्ति मनुष्या इति प्रायस् तेषाम् एव सकामत्वात् धर्मेऽधिकाराच् च । सर्वेति तैर् व्याख्यातम् । यद् वा, सर्वकामान् ये वृण्वन्ति, तेषां सेव्याम् इत्य् अर्थः । तत्र हेतुः-सर्वेति । इत्य्-आदिकं च तां प्रति प्रसादवर एव । तथा च श्री-हरि-वंशे—
प्रसादं ते करिष्यामि मत्-प्रभाव-समं भुवि । > येन सर्वस्य लोकस्य देवि ! देवी भविष्यसि ॥ [ह।वं। २.२.३०] > इति ।
कुर्वन्ति करिष्यन्ति भुवि वर्तमानाः सर्वेऽपीत्य् अर्थः । दुर्गादि-नामान्य् अर्चकानां भाव-भेदेन तत्-तत्-कामापेक्षया । किं वा, स्थान-भेदेन तत्र तत्र तत्-तद् आख्याया प्रसिद्धेः, तत्र च क्वापि नामैकम्, कुत्रापि द्वे, क्वचिच् च बहूहीत्येतद् अभिप्रायेण तत्र तत्रेति-शब्द-प्रयोगः । च-काराश् च सर्वेषाम् एव प्रधान्य-वोधनार्थम् इति ॥१०.१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति—अर्चिष्यन्तीति त्रिभिः । मनुष्या इति प्रायस् तेषाम् एव सकामत्वात् धरेऽधिकाराच् च इत्य्-आदिकं च तां प्रति वर एव । तथा च श्री-हरि-वंशे—
प्रसादं ते करिष्यामि मत्-प्रभाव-समं भुवि । > येन सर्वस्य लोकस्य देवि देवी भविष्यसि ॥ [ह।वं। २.२.३०] इति > ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तवांश-भूतां मायां तु वसुदेवेनानेष्यमाणां कंसं वञ्चयित्वा विन्ध्यादि-स्थानेषु प्रभविष्यन्तीति नरा आराधयिष्यन्तीत्य् आह—अर्चयिष्यन्तीति । यतः सर्व-कामानां लोकानां वरां श्रेष्ठाम् ईश्वरीम् ॥१०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : त्वद्-आभास-शक्तिं मायां वसुदेवेनानेष्यमाणां वञ्चित-कंसां विन्ध्याचलादि-स्थानेषु राजमानां मनुष्याः पूजयिष्यन्तीत्य् आह त्रिभिः । यतः सर्व-कामानां निखिल-वस्तु वाञ्छतां लोकानां वराम् ईश्वरीम् । नामेति युग्मकम् । कुर्वन्ति करिष्यन्ति । माधवस्य भगिनी माधवी ॥१०-१२॥
॥ १०.२.११-१२ ॥
नाम-धेयानि कुर्वन्ति स्थानानि च नरा भुवि ।
दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥**
कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च ।
माया नारायणीशानी शारदेत्य् अम्बिकेति च ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नामघेयानि नामानि । दुःखेन गम्यते प्राप्यत इति दुर्गा । भद्रं कल्याणं कलयति भक्तानाम् इति भद्र-काली । यद् वा, भद्रा मङ्गल-रूपा चासौ काली नीलक्-रूपेति भद्रकाली । विजयते सर्व-दुःखानि सर्व-दुष्ट-दैत्यान्वेति विजया । विष्णोर् इयं शक्ति-वैष्णवी ॥११॥
कौ भूमौ मुद्धर्षोऽनयेति कुमुदा । शत्रुषु चण्डति कोपं करोतीति चण्डिका । चण्डि कोपे । सदानन्द-रूपत्वत् कृष्णा कृष्ण-भगिनीत्वाद् वा । अदृश्यतानुजा विष्णोः इति वक्ष्यमाणत्वात् नन्द-गोप-गृहे जाता यशोद-गर्भ-सम्भवा इति मार्केण्देयाच् च कृष्णत्वाद् वा कृष्णेति । मधु-वंशे जातत्वान् माधवी मधोर् भगवतो भगिनीत्वेन दयितत्वाद् वा माधववी । कं सुखं नयति प्रापयति दुष्ट-दैत्यनाशनेन सर्वं जगद् इति कन्या जगत् स्वास्थ्यमतीवाप इति मार्कण्डेयोक्तेः । णोञ्—प्रापणे अत कः । यद् वा, कनति तत् तद् रूपेण द्योतसे सर्वत्रेति कन्या कनी—दीप्तौ कन्यैव कन्यका । स्वार्थे क-प्रत्ययः । मायः पीताम्बरेऽपि स्यात् इति कोशान् मयस्येयं माया । मीयते कार्यान्य् अथानुपपत्त्या ज्ञायते इति माया । अघटन-घटनापतीयसी भगवच् छक्तिः । तद् रूपा नारस्य जन-समुदायस्यायनं प्रवृतिर् यथा सा नारायणी
जलायना नराधारा समुद्र-शयनापि वा । > नारायणी समाख्याता नर-नारी-प्रवर्तिका ॥
इति देवी-पुराणोक्त-रीत्या नारायणी-पदं व्याख्येयम् । ईष्टे इतीशाना । सर्वेश्वरी सर्व-देवस् तुल्यत्वात् । तथात्वम् शक्रादयः सुरगणाः इत्य्-आदिना देव्या हते तत्र महा-सुरेन्द्रे इत्य्-आदिना च मार्कण्डेये स्फुटतरम् । शीर्यत ज्ञानेनेति शारः संसारः । शॄ-हिंसायाम् तं द्यति खण्डयतीति शारदा
सेषा प्रसन्ना वरदा नृणां भवति मुक्तये । > सा विद्या परमा मुक्तेर् हेतु-भूता सनातनी ॥
इत्य् उक्तेः । या मुक्ति-हेतुर् अविचिन्त्य-महाव्रता च इत्य् आद्य् उक्तेश् च । यद् वा, शरणं शारो हिंसा तं ददाति महिषादि-दोत्येभ्यो इति शारदा । शरद्द्नौ पूज्यत्वाद् वा शारदा । शरत् काले महा-पूजा क्रियते या च इति मार्कण्देयोक्तेः । अम्ब्य शब्द्यते दुःखे या सा अम्बा अबि-शब्दने यद् वा, अम्ब्यते स्नेहेनोप-गम्यते या सा अवि-गतौ, अकर्तरि च कारके संज्ञायाम् इत्य् उभयत्रापि स्त्रियां घङ् ततष्टाप् स्वार्थिके आम्बिकेति ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नामेति युग्मकं कुर्वन्ति करिष्यन्ति भुवीति भुवि वर्तमानाः सर्वेऽपीत्य् अर्थः । दुर्गादि-नामानि अर्चकानां भाव-भेदेन तत्-तत्-कामापेक्षया किं वा स्थान-भेदेन तत्-तद्-आख्यया प्रसिद्धेः तत्र च क्वापि नामैकं कुत्रापि च द्वे क्वचिच् च बहूनीत्य् एतद्-अभिप्रायेण तत्र तत्रेति-शब्द-प्रयोगः । च-काराच् च सर्वेषाम् एव प्राधान्य-बोधनार्थम् इति ॥११-१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुर्वन्ति करिष्यन्ति तद् एवम् इदानीं मद्-अवतारेण त्वद्-अवतारेण च लोकाः केचिद् वैष्णवाः केचित् शाक्ताश् च भविष्यन्तीति भावः ॥११-१२॥
॥ १०.२.१३ ॥
गर्भ-सङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि ।
रामेति लोक-रमणाद् बलभद्रं बलोच्छ्रयात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वद्-विक्रमेण भुवि तं वै सङ्कर्षणं प्राहुः लोक-रमणात् रामेति बलोच्छ्रयात् बलभद्रं प्राहुः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-पुरुषार्थोत्कर्षम् आह—त्वद् इति । तस्याकृष्ट-गर्भस्य । व्यपदिश्यत उच्चार्यतेऽर्थाद् आहूयते यैस्ते व्यपदेशा नामानि । रत्य् उत्पादनात् प्रीत्युत्पादनात् । बलवताम् उच्छ्रयात् उन्नतत्वात् । तम् आकृष्ट-गर्भजं प्राहुः वदिष्यन्ति । वर्तमान-सामीप्ये वर्तमानवद् वा इति लट् ॥१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-गोकुल-सम्बन्धेन तस्यापि माहात्म्यम् उदेष्यतीति सङ्कर्षण-[जन्म]-प्रयोजनान्तरम् आह—गर्भेति । वै एव, गर्भतः सङ्कर्षणाद् एव, न तु शेषत्वादिना प्रलयादौ जग द् आकर्षणादित्य् अर्थः । गर्भ-सङ्कर्षणाद् एव गोकुल-प्राप्त्या सर्व-लोकानां रमणात्, तयैव बलस्योच्छ्रयाद् आधिक्यात् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परम-मत्-प्रेम-मय-श्री-गोकुल-सम्बन्धेन तस्यापि माहात्म्यम् उदेष्यतीति सङ्कर्षण-प्रयोजनान्तरम् आह—गर्भेति । वै एव गर्भतः सङ्कर्षणाद् एव न तु शेषत्वादिना प्रलयादौ जगद्-आकर्षणाद् इत्य् अर्थः । गर्भ-सङ्कर्षणाद् एव गोकुल-प्राप्त्या सर्व-लोकानां रमणात् तथैव बलस्य उच्छ्रयाद् आधिक्यात् तदीय-परम-प्रेमार्जित-मनस्तयेति भावः । बलं बलवद्-उच्छ्रयाद् इति पाठे बलवत्सु आधिक्याद् इत्य् अर्थः । रामेति सहसुपा [पा। २.१.४] इति सुप्-मात्र-समासः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : रामेति सहसुपा [पा। २.१.४] इति सुप्-मात्रेण समासः ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : रामेत्य् अत्र सहसुपा [पा। २.१.४] इति समासः ॥१३॥
॥ १०.२.१४ ॥
सन्दिष्टैवं भगवता तथेत्य् ॐ इति तद्-वचः ।
प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथेति पुनर् अप्य् ॐ इत्य् आदरेण प्रतिगृह्य गां पृथ्वीम् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं पूर्वोक्तरीत्या सन्दिष्टाज्ञाप्ता । तथेति यथोक्तं श्री-ल्ल्मता तथा करोमीत्य् अर्थः । पुनर् अपि ॐ इत्य् आदरेण प्रतिगृह्य ॐ इत्यंगीकारे ब्रह्मणि च गां भूमिम्
दिग् दृष्टिदीधिति-स्वर्गवज्र-वाग् वाणिवारिषु । > भूमलु पशौ च गो-शब्दो विद्वद्भिर् दशसु स्मृतः ॥
इत्य् अनेकार्थ-घ्वनिम् अर्जयाम् ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : [+++]{।मर्क्}
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवता परमेश्वरेणेति तद् आदेश-प्रतिग्रहे हेतुः । परिक्रम्य तद् आदिष्ट-संसिद्धये तं प्रदक्षिणीकृत्य तद् भगवद् वचो यथा-दिष्टं तथैव, न तु किञ्चित् तद् व्यभिचारेणेत्य् अर्थः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य भगवतो वचस् तत् यथादिष्टं तथैव न तु किञ्चिद् व्यभिचारेणेत्य् अर्थः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथेति पुनर् अप्य् ॐ इति अत्यादरेण तदीयं वचः प्रतिगृह्य गां पृथिवीं तत्-तद्-अनन्तरम् ॥१४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तथेति पुनर् ॐ इति परमादरेण हरेर् वचः प्रतिगृह्य गां पृथिवीं गता सा । तत्-तद्-अनन्तरम् ॥१४॥
॥ १०.२.१५ ॥
गर्भे प्रणीते देवक्या रोहिणीं योग-निद्रया ।
अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्रंसितो विभ्रष्टो विस्रस्त इत्य् अर्थः । इति विचुक्रुशुर् न तु तद् विदुर् इत्य् अर्थः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विस्रस्त इत्य् अर्थः । कंसनैव केनचिन् मन्त्रौषधाद्य् उपायेन श्रावित इत्य् अर्थः । विचुक्रुशुः देवक्यां स्नेहवत् तया विलेपुः । इत्य् अर्थ इति । योगमायाकृत्यस्य देवैर् अपि दुर्विज्ञेयत्वादित्य् अर्थः । योगमायैव योग-निद्रा निद्रावत्सकल-बोध-हरणात् । तया प्रकर्षेण निते देवक्यां दुःखादिकं रोहिण्याश् च विस्मयादिकं गोकुल-वासिनां च तज् ज्ञानादिकं किम् अपि नाभूद् इति द्योतितम् । किं च, हरिवंशाद्य् अनुसारेणात्र ज्ञेयं प्राग् एव वसुदेवाहित-गर्भायाः श्री-रोहिण्याः पश्चाद् गोकुलं गतायाः सत्पमे मासि तं गर्भम् अपसार्य देवकी-जठरात् साप्तमासिकं गर्भम् अलक्षितम् आकृष्य रोहिण्य् उदरे नीत इति ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : [+++]{।मर्क्}
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : योगमायैव योग-निद्रा निद्रावत् सकल-लोक-वोध-हरणात्तया प्रकर्षेण नीत इति देवक्या दुःखादिकं रोहिण्याश् च विष्मयादिकं गोकुलादि-वासिनां च तज्-ज्ञानादिकं किम् अपि नाभूद् इति वोधितम् । अत्र च श्री-हरि-वंशाद् उक्त्यानुसारेणैवं ज्ञेयम्-प्राग् एव श्री-वसुदेवाहित-गर्भायाः श्री-रोहिण्याः पश्चाद्-गोकुलं गताया सप्तमे मासि तं गर्भम् अपसार्य देवकी-जठरात् सप्तमासकं गर्भम् अलक्षितम् आकृष्य श्री-रोहिण्य् उदरं नीत इति । तथा च श्री-हरि-वंशे—योग-निद्रां प्रति श्री-भगवद् उक्तौ—
सप्तमो देवकी-गर्भो योऽंशः सौम्यो ममाग्रजः । > स संक्रामयितव्यस् ते सप्तमे मासि रोहिणीम् ॥ [ह।वं। २.२.३१] > इति ।
तन्-नयन-प्रकार-विशेषश् च तथैव हरि-वंशे—
सार्ध-रात्रे स्थितं गर्भं पातयन्ती रजस्वला । > निद्रया सहसाविष्टा पपात धरणी-तले ॥ > सा स्वप्नम् इव तं गर्भे गर्भम् आहितम् । > अपश्यन्ती च तं गर्भं मुहूर्तं व्यथिताभवत् ॥ > ताम् आह निद्रासंविग्नां नैशे तम् असि रोहिणीम् । > कर्षणेनास्य गर्भस्य स्व-गर्भे चःइतस्य वै ॥ > सङ्कर्षणो नाम शुभे ! तव पुत्रो भविष्यति ॥ [ह।वं। २.४.३-६] > इत्य्-आदि ।
अहो आश्चर्ये खेदे वा, देवक्या गर्भो विस्रंसितोविस्रस्तः कंस-भयाद् इति शेषः, तथा च श्री-विष्णु-पुराणे—
सप्तमो भोज-राजस्य भयाद् रोधोपरोधतः । > देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥ [वि।पु। ५.१.७३] इति > ।
यद् वा, कंसेनैव केनचिद् उपायेन पातित इत्य् अर्थः । व्यक्ततया तद् अनुक्तिस् तेषां तद् भयात् । विचुक्रुशुर् उच्चैर् आत्तस्वरेण जजल्पुर् विलेपुर् इति वा ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : योगमायैव योग-निद्रानिद्रावत् सकल-लोक-बोध-हरणात् तया प्रकर्षेण नीत इति । देवक्या दुःखादिकं गोकुलादि-वासिनां च तज्-ज्ञानादिकं किम् अपि नाभूद् इति बोधितम् । अत्र च श्री-हरि-वंशाद्य्-उक्तानुसारेणैव ज्ञेयं प्राग् एव श्री-वसुदेव-वाहित-गर्भायाः श्री-रोहिन्याः पश्चाद् गोकुलं गतायाः सप्तमे मासि तं गर्भम् अपसार्य श्री-देवकी-जठरात् सप्त-मासिकं गर्भम् अलक्षितम् आकृष्य रोहिण्य्-उदरं नीत इति । तथा च, श्री-हरि-वंशे योग-निद्रां प्रति श्री-भगवद्-उक्तौ—
सप्तमो देवकी-गर्भो योऽंशः सौम्यो ममाग्रजः । > स सङ्क्रामयितव्यस् ते सप्तमे मासि रोहिणीम् ॥ [ह।वं। २.२.३१] > इति ।
तन्-नयन-प्रकार-विशेषश् च तत्रैव—
सार्ध-रात्रे स्थितं गर्भं पातयन्ती रजस्वला । > निद्रया सहसाविष्टा पपात धरणी-तले ॥ > सा स्वप्नम् इव तं दृष्ट्वा गर्भं निःसृतम् आत्मनः । > अपश्यन्ती च तं गर्भं मुहूर्तं व्यथिताभवत् ॥ > ताम् आह निद्रा संविग्नां नैशे तमसि रोहिणीम् । > रोहिणीम् इव सोमस्य वसुदेवस्य धीमतः ॥ > कर्षणेनास्य गर्भस्य स्व-गर्भे चाहितस्य वै । > सङोकर्षणो नाम सुतः शुभे तव भविष्यति ॥ [ह।वं। २.४.३-६] > इत्य्-आदि ।
अहो आश्चर्ये खेदे वा । देवक्या गर्भो विस्रंसितः विस्रस्तः कंस-भयाद् इति शेषः । तथा च श्री-विष्णु-पुराणे—
सप्तमो भोज-राजस्य भयाद् रोधोपरोधतः । > देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥ [वि।पु। ५.१.७५] इति > ।
यद् वा, कंसेनैव केनचिद् उपायेन पातित इत्य् अर्थः । व्यक्ततया तद्-अनुक्तिस् तेषां तद्-भयात् विचुक्रुशुः उच्चैर् आर्त-स्वरेण जजल्पुः विलेपुर् इति वा ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विस्रंसितः पातितः कंसेनेति भयात् कर्तृ-पद-गुप्तिः ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विस्रंसितः कंसेनैव केनचिन् मन्त्रौषधाद्य्-उपायेनेत्य् अर्थः । विचुक्रुशुर् देवक्यां स्नेहवत्तया विलेपुः ॥१५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विस्रंसितः कंसेनैव मन्त्र-जपादिना पातित इति देवक्यां स्निग्धा जना विचुक्रुशुर् विलेपुर् न तु तद् विदुः ॥१५॥
॥ १०.२.१६ ॥
भगवान् अपि विश्वात्मा भक्तानाम् अभयङ्करः ।
आविवेशांश-भागेन मन आनकदुन्दुभेः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मन आविवेश मनस्य् आविर्बभूव । जीवानाम् इव न धातु-सम्बन्ध इत्य् अर्थः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थः । धातु-संबन्धे हि जीवत्वं दुर्वारं तथाजत्वव्याघातश् च स्याद् इत्य् अर्थः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आविवेशांश-भागेनेत्य् आदि । अंश-भागेनेति पूर्ववत् । अंशानां भागो विभागो यस्मात् तथा तेन स्वेनैव रूपेणेत्य् अर्थः इति । यद् वा, अंश-भागः परिपूर्ण-भागस् तेन । आनकदुनुद्भेर् मन आविवेश मनसि प्रकटीबभूव । हरिः शेष इव मनोऽभिभूय तस्थौ ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विश्वस्यात्मा प्रभुर् अपि भक्तानाम् एवाभयङ्करः । यद् वा, विश्वान्तर्यामितया सदा तस्मिन् वर्तमानेऽपि तदानीं तच् चित्ते भाव-विशेषेण पर्यस्फुरद् इत्य् अर्थः । तत्र च सर्वैश्वर्य-परिपूर्णतयेत्य् अभिप्रायेणाह—भगवान् इति । एतद् आद्य-पद्यार्थं सर्व-सम्मतं न स्यात् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विश्वस्य आत्मा प्रभुर् अपि भक्तानाम् एवाभयङ्करः तदानीं तच्-चित्ते भाव-विशेषेण पर्यस्फुरद् इत्य् अर्थः । तत्र च सर्वैश्वर्य-परिपूर्णतयेत्य् अभिप्रायेण श्री-भगवान् इति एतद् आद्य्-अपद्य्-आर्धं सर्व-संमतं न स्यात् । अत एव श्री-चित्सुखेनैवं व्याख्यातं मन आविवेश पौरुषं धामेति सम्बन्धैति श्री-स्वामि-पादानां तु सम्मतं लक्ष्यते तथा च तद्-व्याख्यानात् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ वासुदेव-कलानन्तः [भा।पु। १०.१.२४] इति पूर्वोक्तम् उपपादयति—सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते [भा।पु। १०.२.५] इत्य्-आदि । वैष्णवं धाम श्री-कृष्ण-तेजः । अथवा, शेष-तल्प-रूपं स्थानं यम् अनन्तं प्रचक्षते, अनन्तम् इत्य् आहुः, सप्तमो देवक्या बभूव । अयम् अर्थः—भगवद्-धामत्वेनायम् अपि भगवान् एव । तथापि यद् देवक्या जठरस्थतया जीववद् गर्भाकारतां प्राप, यच् च योगमाया रोहिण्यां सङ्क्रामयामास, सङ्क्रामिते च तस्मिन्, अहो विस्रंसितो गर्भः [भा।पु। १०.२.१५] इति वा यल् लोक-भ्रान्तिस् तत् सर्वं विचारतो वक्ष्यमाणस्य भगवतः प्रादुर्भावस्य व्यतिरेक-मुखेन गर्भाकारताद्य्-अभाव-सूचनार्थम् । यतो\ऽनन्तस्य गर्भत्वं कथितम् । न तस्येति । तद् एव दर्शयति—भगवान् अपीत्य् आदि । आनक-दुन्दुभेर् मन आविर्[+++ (तेXत् मिस्सिन्ग्?)]{।मर्क्}
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्वात्मा विश्वस्यैव प्रेमास्पदीभविष्यन् अंशेन पुरुषाद्य्-अवतार-वृन्देन सह भागेन भग-समूहेन षड्-ऐश्वर्येण सहित एव मन आविवेश मनस्य् आविर्बभूव । परावरेशो महद् अंश-युक्तो ह्य् अजोऽपि जातो भगवान् [भा।पु। ३.२.१५] इति तृतीयोक्तेः ॥१६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भगवान् अपि कृष्णः अंशेन स्व-विलास-पर-व्योमाधीशाद्य्-अंश-समूहेन भागेनैश्वर्यादि-भाग-समूहेन च सहानकदुन्दुभेर् मन आविवेश । परावरेशो महद् अंश-युक्तः [भा।पु। ३.२.१५] इत्य्-आदि तृतीयात् तादृशः सन् तन्-मनस्य् आविरासीत् ॥१६॥
॥ १०.२.१७ ॥
स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः ।
दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : धाम श्री-मूर्तिम् ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्री-मूर्तिं पुरुषाकारीभूतं तेज इत्य् अर्थः । दुससदः प्राणिभिर् आसन्न-भवितुम् अशक्यः । दुर्धर्षः कंसादिभिर् अभिभवितुम् अशक्यः । पौरुषं धाम पुरुषोत्तमस्य प्राभावं दधानः । स्वस्मिन् प्रादुर्भूतं कृष्णं पश्यन्तीत्य् अर्थः । धाम देहे गृहे रश्मौ स्थाने जन्म-प्रभावयोः इति विश्वः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स बिभ्रदित्य्-आदि । स स वसुदेव पौरुषं पुरुषाकारं विभ्रत् यथा रविस् तथा राजमानः सन् धाम बभूव, धाम-स्वरूपो वभूवेत्य् अर्थः । अत एव च भूतानां जनानां च दुरासदो दुर्धर्ष । यद् वा, पुरुषाणां नारायणादीनां च धाम आश्रय-भूतं श्री-कृष्णं विभ्रत् सम्बन्ध-मात्रेण । यद् वा, पुरून् पाण्डवान् पुरु यथा स्यात् वा सिनोति वध्नातीति पुरुषः श्री-कृष्न एव, तस्य धाम तत्-स्वरूपं धामेति स्वार्थे वाण् धाम विग्रहं वा, गृह-देह-त्विट्-प्रभावा धामानि इत्य् अमरः ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पौरुषं धाम श्री-भगवत् तेजो मनसि श्री-भगवद् आवेशेन तत् तेजोऽभिव्यक्तेः । यद् वा, धाम प्रादुर्भावं प्रभावं वा, तथा च विश्वः—धाम देहे रश्मौ स्थाने जन्म प्रभावयोः इति । दुरासदो निकटे गन्तुम् अशक्यश् चक्षुराद्य् अग्राह्यो वा, अत एवातिदुर्धर्षोऽभिभवितुम् अशक्यः सम्यक् बभूव । ह स्फुटम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पौरुषां धाम श्री-भगवत्-तेजः मनसि श्री-भगवद् आवेशेन तत् तेजो\ऽभिव्यक्तेः यद् वा, धामा-प्रादुर्भावं प्रभावम् । तथा च विश्वः—धाम देहे गृहे रश्मौ स्थाने जन्म-प्रभावयोः इति । दुरासदः निकटे गन्तुम् अशक्यः चक्षुर्-आद्य्- अग्राह्यो वा, अत एव अतिदुर्धर्षः अभिभवितुम् अशक्यः सम्यग् बभूव ह स्फुटम् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पौरुषं धाम भागवतं वपुः ॥१७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पौरुषं धाम पुरुषोत्तमस्य प्रादुभावं दधानः स्वस्मिन् प्रादुर्भूतं कृष्णं पश्यन्नित्य् अर्थः । धाम देहे गृहे रश्मौ स्थाने जन्म प्रभावयोर् इति विश्वः । दुरासदः प्राणिभिर् आसन्नीभवितुम् अशक्यः, अत एव अतिदुर्धर्षः कंसादिभिर् अप्य् अभिभवितुम् अशक्यः ॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पौरुषं पुरुषस्य कृष्णस्य धाम मूर्ति विभ्रत् । धाम देहे गृहे रश्माव् इति विश्वः । दुरासदो राजकीयैः सन्निधातुमशक्यः । दुर्द्धर्षः कंसेनाप्यभिभवितुमशक्यः ॥१७॥
॥ १०.२.१८ ॥
ततो जगन्-मङ्गलम् अच्युतांशं
समाहितं शूर-सुतेन देवी ।
दधार सर्वात्मकम् आत्म-भूतं
काष्ठा यथानन्द-करं मनस्तः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जगन्-मङ्गलं जगतो मूर्तिमन्-मङ्गलम् । अच्युतांशम् अच्युताश् च्युति-रहिता अंशा ऐश्वर्यादयो यस्य तम् । यद् वा, अच्युतस्यांश इवांशः । भक्तानाम् अनुग्रहार्थं परिच्छिन्न-वपुर् इत्य् अर्थः । सम्यग्-भूतम् एव आहितं वैध-दीक्षयार्पितम् । देवी द्योतमाना शुद्ध-सत्त्वेत्य् अर्थः । सर्वात्मकं सर्वस्यात्मानम्, अत एव आत्म-भूतं स्वस्मिन्न् आदाव् एव सन्तम् । मनस्तो मनसैव दधार धारणया धृतवती, अत्रानुरूपं दृष्टान्तम् आह—यथा काष्ठा प्राची दिग् आनन्द-करं चन्द्रम् इति ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जगतो मूर्तिमन् मङ्गलम् जगद्-रिरक्षया मङ्गलेन मङ्गलानां च मङ्गलम् इत्य् उक्त-दिशा परम-मङ्गलेन श्री-भगवता मूर्ति-धृतेत्य् अर्थः । अपरिच्छिन्नेश्वर्यस्य परिच्छिन्न-मनसा धारणम् अशक्यम् इत्य् अस्वारस्येन पुनर् आह—यद् वा इति ! इत्य् अर्थः इति परिच्छिन्न इह वपुर् न प्रापितम् इत्य् अर्थः । वैध-दीक्षा तु कुलार्णव-तन्त्रे दीक्षा-कथन-प्रकृते कथिता । तथा हि—
स्पर्श-दीक्षा वैध-दीक्षा दृग्-दीक्षा चेति चेद् अतः । > दीक्षा तु त्रिविधा प्रोक्ता पार्वत्यै शङ्करेण वै ॥ > यथा पक्षी स्व-पक्षाभ्यां शिशून् संवर्धयेच् छनैः । > स्पर्श-दीक्षोपदेशस् तु तादृशः कथितः प्रिये ॥ > यथा कूर्मः स्व-तनयान् ध्यान-मात्रेण पोषयेत् । > वैध-दीक्षोपदेशस् तु मानसः स्यात् तथा-विधः ॥ > स्वापत्यानि यथा मत्स्यो वीक्षणेनैव पोषयेत् । > दृग्-दीक्षाया उपदेशस् तादृश कथितः शिवे ॥ इति ।
शुद्ध-सत्त्वेत्य् अर्थः । देवी-पदस्य क्रीडमानेत्य्-आद्य्-अर्थो मा भूद् इत्य् अर्थः । अत एव सर्वात्मकत्वाद् एव । यद् वा, आत्मनैव भूतं स्वयम् आविर्भूतं न तु योगिवद्यत्नेन मनस्यानीतं तेन जीववज् जननी-जठर-संबन्धो वारित इति । धारणया ध्यानेनेत्य् अर्थः । मनस्स्त इति । तृतीयार्थे तसिः । अत्र धारणेऽनुरूपं योग्यम् आनन्दोऽमृतं यद् रूपाः करा रश्मयो यस्य तम् । काष्ठा प्राची यथा स्वतस् सिद्धं चन्द्रमाकाशे दधाति, तथा हृदयाकाशे स्वतः सिद्धे सर्व-भूतान्तरात्मा इत्य्-आदि-श्रुतेर् दधारेत्य् अर्थः । चन्द्र-पक्षे तु अन्धकार-नाशकत्वेन जगन् मङ्गलम् । अच्युतांशे पूर्ण-फलम् । शूरः सूर्यस् तस्य सूतः । सुषुम्नाख्यो रश्मिस् तेन समाहितं निष्पादितम् । अमायां सूर्य-लीनश् चन्द्रस् तस्य सुषुम्नाख्य-रश्मिनाभिव्यज्यत इति शास्त्रान्तर-प्रसिद्धेः । सर्वासाम् औषधीनाम् अङ्कुर-जनकत्वात् सर्वात्मकम् । आत्मनो मनसोऽभिमानित्वाद् आत्म-भूतम् इति योज्यम् ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ततो जगन्-मङ्गलम् इत्य्-आदि । अच्युता अस्खलिता अंशा यत्र तत् तथा जगन् मङ्गलं सर्वात्मकम् आत्म-स्वरूपं यत् श्री-कृष्ण-धाम तत् मनस्तो मनसि । शूर-सूतेन समाहितं समाधिना सर्पितं तस्य हृदये प्राग् आविर्भूतं श्री-कृष्ण-धाम, तेन समाधिना देवक्याम् अर्पितम्, तद् धृदयात् वसुदेवं हरेः स्थानम् [भा।पु।९.२४.३०] इति प्रादुर् अभूद् इत्य् अर्थः । उभयोर् हृदये उत्तरा-गर्भ इव प्रादुर् अभूत् । उभयोः पितृ-मातृत्वानुग्रह-कारणाद् उभय-त्रैवाभिव्यक्ति, भगवान् तम् आवेश्य ताम् आविशद् इत्य् अर्थः । यद् वा, सर्भात्म-भूतं सर्वात्मपरा मा शोभा तस्या आत्म-भूतं त्रिलोकी-सौन्दर्य-सौभाग्यात्मकं जगन् मङ्गलम् अच्युतांश-धाम दधारेत्य् अन्वयः । स विभ्रं पौरुषं धाम [१७श।श्लो] इति धाम-शब्द-श्रुत्या धाम-शब्दानु-वृत्तिः कारयित्व्या । तत्र दृष्टान्तः—काष्ठेति । आनन्दकरं चन्द्रं काष्ठा पूर्वा दिक सा यथा चन्द्रं धत्ते, तस्यां तस्योत्पत्ति-स्हानम् ॥१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शूरस्य सुतेनेति श्लेषेण तत्र तस्य सामर्थ्यम् उक्तम् । देवी देवकीति श्लेषेण तस्या अपि तद् धारण-योग्यतोक्ता । सर्वात्मकम् अप्य् आत्म-भूतम् आत्मनि प्रादुर्भूतं पुत्र-रूपतया दधारेत्य् अर्थः । भगवन्तम् इति शेषः, अच्युतांशम् इत्य् अस्य च द्वितीय-व्याख्यायेदम् एव पदं विशेष्यं ज्ञेयम् । आनन्दयन्तीत्यानन्दाः करा यस्य चन्द्रस्य तम् अमृत-रश्मित्वात् । अन्यत् तैर् व्याख्यातम् । यद् वा, न च्युता अंशा यस्य तं सर्वांश-परिपूर्णं भगवन्तम् इत्य् अर्थः । समाहितं साक्षाद् अर्पितवत् प्रकाशितम् । हर्ष-शोक-विवर्धन इति पूर्वं शोकोऽप्य् उक्तः । अधुना च परमानन्द एव जात इत्य् आह—सर्वेषाम् आत्मनां जीवानां कं सुखं यस्मात् तम् । कुतः ? आत्मभूतं परमात्म-रूपं परम-प्रियत्वाद् इत्य् अर्थः । यद् वा, न च योगिनाम् इव तद्धारणे यत्न इत्य् आह—आत्मना भूतं समाहितं सत् स्वयम् एवाविर्भूतम् इत्य् अर्थः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वात्मकम् अपि आत्म-भूतम् आत्मनि प्रादुर्-भूतं पुत्र-रूपतया दधारेत्य् अर्थः । तेन जीववज् जन्माभावाद्ध्यक्तिर् एव श्री-भगवतो जन्मोच्यते । तथा च श्री-मध्वाचार्य-धृतं तन्त्र-भागवत-वचनम्—
अहेयम् अनुपादेयं मद्-रूपं नित्यम् अव्ययम् । > स एवापेक्ष्य रूपस्य व्यक्तिम् एव जनर्दनः ॥ > अगृह्नाद् व्यसृजच् चेति कृष्ण-रामादिकां तनुम् । > पठ्यते भगवान् ईशो मूढ-बुद्धि-व्यपेक्षया ॥ > तमसाद्य्-उपगूढस्य यत् तमः पानम् इशितुः । > एतत् पुरुष-रूपस्य ग्रहणं समुदीर्यते ॥ > कृष्ण-रामादि-रूपाणां लोके व्यक्ति-व्यपेक्षया । इति ॥
महावराह-वचनं च—
सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः । > हेयोपादेय-रहिता नैव प्रकृतिजाः क्वचित् ॥
परमानन्द-सन्दोहा ज्ञान-मात्रश् च सर्वतः । इति ।
भगवन्तम् इति शेषः । आनन्दयन्तीत्य् आनन्दाः करा यस्य चन्द्रस्य तम् अमृत-रश्मित्वात् अन्यत्तौ यद् वा न च्युतः एको\ऽप्य् आंशो यस्य तं सर्वांश-परिपूर्णं भगवन्तम् इत्य् अर्थः । यत् एवात्म-भूतं सर्व-मूल-स्वरूपं समाहितं साक्षाद् अर्पित-वत्-प्रकाशितं हर्ष-शोक-विर्धनं इति पूर्वं शोको\ऽप्य् उक्तः अधुना च परमानन्द एव जात इत्य् आह, सर्वेषाम् आत्मनां जीवानां कं सुखं यस्मात् तं यद् वा न च योगिनाम् एव तद् धारणे यत्न इत्य् आह, आत्मना भूतं समाहितः सन् यः स्वयम् एवाविर्भूतस् तम् इत्य् अर्थः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततो भगवांस् तद्-देहाद् देवकी-देहे प्रविष्ट इत्य् आह—तत इति । जगतां मूर्तिमन् मङ्गलं च्युति-रहिता अंशा नारायण-नृसिंहादयो यत्र तत् । सर्वेषां भक्तानां सर्वस्य शम्भोर् वा आत्मनो मनसः कं सुखं यत्र, तद् आत्म-भूतं आत्मनैव भूतं स्वयम् आविर्भूतं, न तु योगिवद् यत्नेन धारणया मनस्य् आनीतं, मनस्तो मनसा दधार, तेन जीववज् जननी-जठर-सम्बन्धो वारितः । अत एवानुरूपं दृष्टान्तम् आह । काष्ठा प्राची दिक् आनन्द-करं चन्द्रं यथेति कियद्-दिनानन्तरं तं तु सा स्व-कुक्षि-मध्येऽपि कृष्णं पश्यन्ती बभूवेति ज्ञेयम् । दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान् [भा।पु। १०.२.४१] इत्य् अग्रिमोक्तेः ॥१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अथ देवकीदेहं प्राविशदित्य् आह—ततो वसुदेवमनसः सकाशात् सत्पौरुषं धाम देवी परात्मा देवकी मनस्तो मनसि दधार । कीदृशं? जगतो मूर्तिमन्मङ्गलम् । न च्युत एको\ऽप्यंशो यस्य तं निखिलांशपूर्णम् इत्य् अर्थः । शूरसुतेन वसुदेवेन वैधदीक्षयाकाण्वाम्नायख्यातया समाहितमर्पितम् इति हरेस्तदौरसत्वं व्यक्तम् । सर्वेषां भक्तानां सर्वस्य शिवस्य चात्मनो मनसः कं सुखं यस्मात्तम् आत्मना स्वयमेवाविर्भूतं ननु योगिवद्यत्नेन धारणया मनस्यानीतम् इत्य् अर्थः । अनुरूपं दृष्टान्तमाह—काष्ठा प्राची दिक् यथानन्दकर चन्द्रम् इति । तदुत्तरं कुक्षौ च दधारेति बोध्यम् । दिष्ट्याम्ब! ते कुक्षिगतः परः पुमान् इति देववाक्यात् । अयं भावः, वसुदेवदेवक्योर्देहसम्बन्धेन हरेर्नापुरुषार्थो जीवस्येव स्वमातापित्रोर्देहसम्बन्धेन भवेत् । सत्त्वं विशुद्धं वसुदेवशब्दितमित्य्-आदि चतुर्थवाक्येन त्वं परा प्रकृतिः सूक्ष्म इति वैष्णवोक्तदेवकीस्तोत्रेण च तयोः परावतारत्वोक्तेः । न खलु सौरभिणी रत्नमन्दिरे तिष्ठन्नृपतिरपुमर्थभाक् प्रतीत इति ॥१८॥
॥ १०.२.१९ ॥
सा देवकी सर्व-जगन्-निवास-
निवास-भूता नितरां न रेजे ।
भोजेन्द्र-गेहेऽग्नि-शिखेव रुद्धा
सरस्वती ज्ञान-खले यथा सती ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्व-जगन्-निवासस्य श्री-हरेर् निवास-भूता सत्य् अपि नितरां सर्व-जनाह्लादकतया न रेजे, किन्तु स्वयम् एवानन्दम् अन्वभवत् । यतः कंसस्य गृहेरुद्धा अन्यैर् न दृश्यते । घटादिषु रुद्धाग्नि-शिखा दीप-कलिकेव । तथा सती शोभमाना सरस्वती ज्ञान-खले ज्ञान-वञ्चके रुद्धा यथाऽन्येषाम् अनुपकारिणी न राजते तद्वत् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्व-जगद् आह्लादकतया निखिल-विश्वानन्द-जनकत्वेन न रेजे न शुशुभे । स्वयम् एवैकाकिन्य् एव । ज्ञान-वञ्चकेऽधीत्यापि शास्त्रम् अनध्यापकेन्##येषां तद्-भिन्नानाम् अनुपकारिणी अदत्ता सती कस्यापि पठन-पाठन-जन्य-पुण्योत्पत्तिं करोतीत्य् अर्थः ।
यद् वा, ज्ञानेन शस्त्रीयोपदेशेन लोकान् धर्मे प्रवर्तयन्न् अपि स्वोपकारार्थं स्वयं स्वप्नेऽपि धर्म-वार्ताम् अपि यो न करोति, सोऽपि ज्ञान-वञ्चकस् तस्मिन् यथा-शास्त्रं न शोभते, तद्वद् इति।
यद् वा, ज्ञान-वञ्चको दाम्भिकस् तत्र यथा सरस्वती न शोभते, दाम्भिक-कथितं न को\ऽपि सत्यं मनुते, वञ्चकत्वात् तस्य ।
किं च, यथा अग्नि-शिखा प्रबला सती रोधक-गृहं दहति, तथा देवक्य् अपि कंसस्यैश्वर्यं धक्ष्यतीत्य् अर्थः । यथा च सती सरस्वती पापातिशयेन स्व-रोधकं कालेन नाशयति, तथैव देवकी कंसम् इति भावः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सा देवकीत्य्-आदि । भोजेन्द्र-गृहे रुद्धापिजगन् निवास-निवास-भूताअग्नि-शिखेव नितरां न रेजे, ज्ञान-खले ज्ञानेनापि खले धूर्ते आत्म-वञ्चके दीनानुरूप-व्यवहारिणि जने सती वर्तमाना शोभमाना वा सरस्वती यथा राजते, अस्थानस्थापि राजते, किन्तु पारलौकिक-पर्याया न भवति, एवं भोजेन्द्रस्य सुखाय नाभूत्, किन्तु रेजे, भोज-गृह-ज्ञान-खलयोः साधर्म्यम् । तथा च—तां वीक्ष्य कंसः प्रभयाजितान्तरां, विरोचयन्तीं भवनम् [भा।पु।१०.२.२०] इति वक्ष्यति ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्व-जगतो निवास आश्रयः श्री-कृष्णः, तस्य निवास-भूता परमाश्रयत्वं प्राप्तेत्य् अर्थः । किं च, देवकी साक्षाद् भगवन्-मातृतयावतीर्णेत्य् अर्थः । इति भाग्य-विशेषेण परम-शोभा-योग्यतोक्ता, तथापि न रेजे नाशोभत । अग्नि-शिखायाः स्व-सुखाभावाद् दृष्टान्तान्तरम् आह—सरस्वतीति, वेद-शास्त्र-रूपा । ज्ञाने खले वञ्चकः परस्मिंस् तद्-अप्रकाशक इत्य् अर्थः । तस्मिन् जने तस्यात्म-सुखं सतीत्वेन ज्ञान-खलेऽपि स्वतो बहुधोल्लासात् । भोजेन्द्र-गेहे न ज्ञान-खलस्य साम्यं बोधन-मात्रत्वापेक्षया । अन्यत् तैर् व्याख्यातम्
यद् वा, ज्ञान-खलः परोपतापार्थं शास्त्र-ज्ञान-परः, तस्मिन् कथञ्चित् प्राप्तोत्तमा सरस्वती यथा न रेजे आधार-दोषात्, तद्वद् इत्य् अर्थः । श्लेषेण भोजयन्तीति भोजाः [सुदाः]{।मर्क्}, तेषाम् इन्द्रः श्रेष्ठः, तस्य गेहे महानसे भस्मादिभी रुद्धा ज्वलद्-अग्नि-शिखा अन्येषाम् उपकारम् अकुर्वाणा यथा न रेज इति तस्य दुष्टत्वाभावाद् दृष्टान्तान्तरम् ।
अथवा भोजेन्द्र-गेहे रुद्धापि नितरां न रेजे किम् ?—काक्वा, अपि न नितरां रराजैवेत्य् अर्थः, यतः सर्वेति साक्षाद्-भगवत्-समाधिष्ठितेत्य् अर्थः । रुद्धाप्य् अग्नि-शिखा यथा राजते, तथा । तस्यां नितरां दीप्त्य्-अभावेनान्यो दृष्टान्तः—सरस्वती पाण्डित्य-रूपा सती सर्वोत्तमा ज्ञानस्य खले सूचके सङ्केतादिनैव प्रतिपादके यथा चातुर्य-विशेष-व्यञ्जनेन नितरां राजत एवेति ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गच्छतीति जगद् इति निरुक्त्या सर्व-मात्र-वाचकेनापि तच्-छब्देनात्रानित्य एव सर्व उच्यते । सर्व-शब्दस्य पृथक्-पाठात् ततः सर्व-शब्देन तद्-अतीतं सर्वम् इति । ततश् च नित्यस्यानित्यस्य च सर्वस्य निवास आश्रयः, यस्य भासा [मु।उ। २.२.११] इत्य्-आदि-श्रुतेर् यद्-आश्रयत्वेनैव तत् तत् सर्वं भासते, स श्री-कृष्ण इत्य् अर्थः । तस्य च निवास-भूता आश्रयत्वं प्राप्तापीत्य् अर्थः । इति सर्वाह्लादक-शोभा योग्यतोक्ता तादृश्य् अपि नितरां सर्वाह्लादकतया न रेजे, किन्तु स्वान्तरङ्गैः श्री-वसुदेवादिभिर् विशिष्टस्य स्वस्यैवाह्लादकतया रेज इत्य् अर्थः ।
यथा तादृष्य् अग्नि-शिखा सरस्वती च नितरां सर्वोल्लासकतया न राजते, किन्तु स्वान्तरङ्ग-विशिष्ट-स्वोल्लासकतयैव राजत इत्य् अर्थः । एते हि स्व-दीप्त्या स्वयम् उल्लासतः स्वान् अन्तरङ्गान् वोल्लासयत इति । सरस्वती-पक्षे स्वान्तरङ्गं तन्-मन-आदिकं अग्नि-शिखेव रुद्धेत्य् अनेन सा प्रबला तद् गृहम् अपि धक्ष्यति, तादृशी सरस्वती च निजाधारं पापेन नाशयिष्यत्य् एवेति भावः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सेति । सा शुद्ध-सत्त्व-वृत्ति-रूपत्वेन प्रसिद्धा द्योतनाद् देवकीति यथार्थ-नाम्नी नितरां न रेजे इति तेजसः सर्व-चक्षुःषु प्रसरणाभावाद् आनन्दस्य च सर्व-मनःस्व् इति भावः । पूर्वोऽत्र दृष्टान्धोऽग्नि-शिखेव रुद्धेति । उत्तरोऽत्र सती ज्ञान-खले यथेति तत्र कंसस्य तद्-गृह-प्रवेशो पूर्वम् अनुभव-विषयो भवद् उत्तरं तु मनः-प्रवेशाभावान् नैवेत्य् आह ॥१९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राकृत-सर्व-जगन्-निवासस्य श्री-हरेर् निवास-रूपा सत्य् अपि नितरां सर्व-जनस्याह्लादकतया न रेजे, किन्तु तत्रत्य-स्वान्तरङ्ग-द्वित्र-जन-सहितस्य स्वस्यैवेत्य् अर्थः । यतः कंसस्य गृहे रुद्धा अग्नि-शिखा इवेति सा यथा गृहे रुद्धा, नगरं न प्रकाशयति किन्तु गृह-स्थित-वस्त्व् एव, तथा स्व-समीप-वर्तिनां द्वि-त्र-जनानां शीतादि-नाशिका च, तथैवेत्य् अर्थः । यथा च, सा प्रबला सती रोधकस्य गृहं दहति, तथैव देवक्य् अपि कंसस्यैश्वर्यं धक्ष्यतीत्य् अर्थः । ज्ञान-खले ज्ञान-वञ्चके रुद्धा सरस्वती सर्व-लोकानुपकारिणी सती यथा न राजते, पापातिशयेन स्व-रोधकं च कालेन यथा नाशयति, तथैव स्वापराधेन कंसम् अपि देवकी नाशयिष्यतीत्य् अर्थः ॥१९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स परात्मा देवकी सर्वजगन्निवासस्य कृष्णास्य निवासभूतापि स्वयं तदनुभवेन जातात्यानन्दापि सतो नितरां निखिलजनानन्दकतया न रेजे, किन्तु स्वपार्श्वस्थाद्वित्रान्तरङ्गजनसाहितस्वानन्दकतयैवेत्य् अर्थः । यतो भोजेन्द्रस्य कंसस्य गृहे रुद्धा । यथा घटाद्यवरुद्धा दीपशिखा गृहं न प्रकाशयति । यथा सरस्वती ज्ञानखले विद्यावञ्चके रुद्धा परोपकाराय न भवति । दीपशिखा यथा प्रबला सती स्वरोधकस्य गृहं निर्दहेत्, सरस्वती च स्वरोधकं पापातिशयेन विनाशयेत् तथा स्वापराधेन कंसं स्वरोधकं सेति व्यज्यते ॥१९॥
॥ १०.२.२० ॥
तां वीक्ष्य कंसः प्रभयाजितान्तरां
विरोचयन्तीं भवनं शुचि-स्मिताम् ।
आहैष मे प्राण-हरो हरिर् गुहां
ध्रुवं श्रितो यन् न पुरेयम् ईदृशी ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रभया भवनं विरोचयतीम् । अजितोऽन्तरा कुक्षि-मध्ये यस्यास् ताम् । एष विरोचमानो ध्रुवंहरिर् एव । यद् यस्माद् ईदृशीयं पुरा पूर्वं नासीत् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रभया स्व-देह-कान्त्या । भवनं गृहम् । अजितो विष्णुरन्तरा कुक्षि-मध्ये कुष्यते निष्कृष्यते विचार्यते शुभाशुभमनेनेति कुक्षि मनस्तन् मध्येऽन्यथा मनस्त इत्य् उक्ति-विरोधस्स्याद् इति । कंस-दृष्ट्या यथाश्रुतम् एवास्तु । शुचि स्वाभाविकम् आनन्ददोत्थं न तु पूर्ववत् सकपटं स्मितं यस्यास् ताम् ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीक्ष्य साक्षाद् दृष्ट्वा प्रभयेत्य् अत्र विशेषः श्री-विष्णु-पुराणे—
न शेके देवकीं द्रष्टुं कश्चिद् अप्य् अति-तेजसा । > जाज्ज्वल्यमानां तां द्रष्टुं मनांसि क्षोभम् आययुः ॥ [वि।पु। > ५.२.५] इति ।
शुचि शुद्धं न तु पूर्ववद् तद्-वञ्चनार्थं कपटं स्मितं यस्यास् ताम् आह । स्वचित्ते गुहां हृदयम् उदरं वा, श्लेषेण मद् भयाद् गुप्त-स्थानम् आश्रितः । किं वा, नागस्य मम हननार्थं हरिः सिंहो दरीं श्रित इति ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीक्ष्य साक्षात् दृष्ट्वा प्रभवेत्य् अत्र विशेषः श्री-विष्णु-पुराणे—
न शेके देवकीं द्रष्टुं कश्चिद् अप्य् अतितेजसा । > जाज्वल्यमानां ताम् दृष्ट्वा मनांसि क्षोभम् आययुः ॥ [वि।पु। ५.२.५] > इति ।
भगवद् आनन्द-स्फूर्ति-स्वाभाव्यात् शुचि शुद्धं न तु पूर्ववद् वञ्चनार्थं सकपटं स्मितं यस्यास् ताम् आह स्वचित्ते गुहां हृदयम् उदरं वा श्लेषेण नागस्यैव मम सिंह इव भीषणो\ऽयं दरी श्रित इति ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ताम् इति । एव जीवन् जीव-रूपेण दृश्यमानो\ऽपि लोक-बहिष्कृतत्व-साम्यात् मृत एव सन्निवृत्तौ हेतुम् आह, अन्तर्यामि-रूपतया स्वयं प्रभुः परमेश्वरो यत्रेति तस्य दोषम् उक्त्वा श्री-हरिवंश-सम्बन्धस्य स्वाभाविकं गुणम् आह ॥२०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रभया भवनं विरोचयन्तींअजितः अन्तरे कुक्षि-मध्ये यस्यास् ताम् । शुचिः स्वाभाविकम् आनन्दोत्थं न तु पूर्ववद् वञ्चनार्थं स-कपटं स्मितं यस्यास् तां वीक्ष्य स्व-गतम् आह "मे मातङ्गजस्य हरिः सिंहः"यद् यस्माद् ईदृशी पूर्वंनासीत् ॥२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अजितान्तरां कुक्षिगताजितां, प्रभया भुवनं विरोचयन्तीं तां देवकीं वीक्ष्य कंसः स्वगतमाह—मे मत्तकरीन्द्रस्य हरिः सिंहः गुहां कुक्षिं गत इयं पूर्वमीदृशी नासीत् ॥२०॥
॥ १०.२.२१ ॥
किम् अद्य तस्मिन् करणीयम् आशु मे
यद् अर्थ-तन्त्रो न विहन्ति विक्रमम् ।
स्त्रियाः स्वसुर् गुरु-मत्या वधोऽयं
यशः श्रियं हन्त्य् अनु कालम् आयुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सन्ति सामादय उपायाः, नेति स्वयम् एवाह । अयम् अर्थ-तन्त्रो देव-कार्य-प्रधानो विक्रमं न विहन्ति । मद्-वधे पराक्रमं करिष्यत्य् एवेत्य् अर्थः । यद् वा, तर्हीदानीम् एवेयं हन्यताम् इति निचिन्त्याह—अर्थ-तन्त्रोऽपि पुमान् स्वं विक्रमं न विहन्ति न नाशयति । स्त्री-वधे तन्-नाशः स्याद् इति भावः । तद् एवाह—स्त्रिया इति । गुरु-मत्या गुर्विण्याः ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अधुना किं कार्यम् इति चेत् तत्राह—नन्व् इति । आदि-शब्दात् दान-भेद-दण्डा ज्ञेयाः । स्वयम् एव कंसः । अयं गर्भगो हरिः । अथ चोपायेषु दण्डस्य कार्य-सिद्धिकरत्वेऽप्य् अनर्थ-हेतुत्वम् आह—यद्वेति । इयं देवकी । इदानीम् एवाधुनैव । न नाशयति रक्षत्य् एवेत्य् अर्थः । तन् नाशो विक्रमो नक्ष्यत्वेवास्यां जीवन्त्यां ततो जात-प्रवृद्ध-तरुणीभूतेनास्या बालेन सह युद्धे जये पराजये वा समविक्रमः स्यास्यत्य् एव सगर्भ-स्त्रीवधे तु को विक्रम इति भावः । न केवलं विक्रम-हानिर् एव धर्मादि-हानिर् अपीत्य् आह—स्त्रिया इति । प्रथमं स्त्री-वध एव महत् पापं तत्रापि स्वसा सापि सगर्भेति सर्वथा धर्मादि-हानिर् एवेति । गुर्विण्याःआपन्न-सत्त्वा स्याद् गुर्विण्य् अन्तर्वत्नी च गर्भिणी इत्य् अमरः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्याधुना, तत्राप्य् आशु, अयं स्वदेह-रक्षार्थकः क्षणिकोऽपि वा सर्वकालं यश् आदि हन्ति । स्थिया इत्य् आदेर् यथोत्तरम् अवध्यत्वे यश् आदेश् च यथोत्तरं तद् अपेक्ष्यत्वे श्रिष्ठ्यम् । यद् अर्थं वधस् तज् जीवनम् अपि हन्याद् इति किं तेनेति भावः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किम् अद्य् एति अत्र टीकायाम् यद् वेत्य् अस्य पूर्वत्र किन्तु स्रिया इति यदि विक्रमं न विहन्ति तथाइ स्रियां ज्ञेयम् अद्यास्मिन्न् एवाहनि तत्राप्य् आशु अधुनैव एवं भयेनैव यत् स्वदौरात्म्यं स्तब्धं तत् तु विवेकेनैव स्वयं करोम् इति स्वस्मिन्न् अभिमान-सुखं कल्पयति स्त्रिया इति सार्धेन । अयं स्व-देह-रक्षार्थकः क्षणिको\ऽपि वा सर्व-कालं यश आदि हन्ति स्त्रिया इत्य् आदेर् यथोत्तरम् अवध्यत्वे यश आदेश् च यतोत्तरं तद् अपेक्ष्यत्वे श्रैष्ठ्यं यद् अर्थं वधस् तज् जीवनम् अपि हन्याद् इति किन्तेनेति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्पष्टम् अप्य् आह तस्मिन् मद्-वैरिणि आशु इदानीं किं करणीयं गर्भस्थम् एव तम् इमं हन्यां चेन् न यद्य् अस्माद् अर्थ-तन्त्रः स्वार्थ-परोऽपि लोकः विक्रमं न विनाशयति सम्प्रत्य् अस्य वधे मम वीरत्व-व्यञ्जको विक्रमो नङ्क्ष्यति । तस्माज् जात प्रवृद्ध-तरुणी-भूतेनानेन सह सङ्ग्रामे जये पराजये वा मम विक्रमस् तु स्थास्यत्य् एव गर्भ-वधे तु को विक्रम इति भावः । न केवलं विक्रम-हानिर् एव धर्मादि-हानिर् अपीत्य् आह स्त्रिया इति गुरु-मत्या गुर्विण्याः अत्र भयेनैव यत् स्व-दौरात्म्यं स्तब्धं, तत् तु मद्-विवेकेनैव इति स्वस्मिन्न् अभिमान-सुखं कल्पितं कंसेनेति ज्ञेयम् ॥२२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्फुटमाह—तस्मिन् पूर्वमद्वैरिणि विष्णौ मयाद्य किमाशु कार्यं गर्भस्य एवैष न हन्तव्यः यतो\ऽर्थतन्त्रः स्वार्थपरो\ऽपि लोको विक्रमं न हन्ति गर्भस्थवधे मे विक्रमहानिरित्य् अर्थः । न केवलं तद्धानिरेव धर्मादिहानिश्चेत्य् आह—स्त्रिया इति । गुरुमत्या गर्भिण्याः अनुक्षणं तत्क्षणम् एव ॥२१॥
॥ १०.२.२२ ॥
स एष जीवन् खलु सम्परेतो
वर्तेत योऽत्यन्त-नृशंसितेन ।
देहे मृते तं मनुजाः शपन्ति
गन्ता तमोऽन्धं तनु-मानिनो ध्रुवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, स एष जीवन्न् अपि मृतः स्यात् । नृशंसितेन क्रौर्येण यो वर्तेततं जीवन्तम् एव मनुजाः शपन्ति दुर्वाक्यैर् धिक्-कुर्वन्ति । स च देहे मृते तनु-मानिनः पापिनो नरकं गच्छन्ति । अथवा, शाप-प्रकारम् एवाह—तनु-मानिनोऽस्य देहे मृतेऽयं ध्रुवम् अन्धं तमो गमिष्यतीति ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र लोके क्रूर-कर्मणाम् अपि श्र्यायुर् आदयो यद्य् अपि सन्ति तथापि ते सतां न श्लाघ्या इत्य् आह—किञ्चेति । धिक्कुर्वन्ति निन्दन्ति धिक्कारम् आह—स चेति । स च धिक्कार ईदृश इत्य् आह—देह इति । शपन्तीत्यस्य धिक् कुर्वन्तीत्य् अर्थ-कल्पनातः प्रसिद्धार्थ एव वर इत्य् आह—अथवेति । तनु मानिनः प्राणिहिंसया स्वतनुं मानयतो लालयतोऽस्य जनस्य । अयं तनु-मानी ध्रुवम् अतिशयेन यद् अन्धं तमो नरकस् तूद्गतां गमिष्यतीति मनुजाः शपन्ति [निन्दन्ति] इत्य् अन्वयः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : [+++]{।मर्क्}
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिनानि कतिचिद् यज् जीव्यते, तद् अपि शुभम्, तत्राह—स इति तत् प्रत्यक्षतां तात्कालिकतां वा वोधयति, खलु वितर्के निश्चये वा । नृशंसितं हिंसा । मनुजाः सर्व एव मनुष्याः । अन्यत् तैर् व्याख्यातम् । यद् वा, देहे अमृते जीवत्य् अपि सति । किं वा, देहे सति मृते च सतीत्य् अर्थः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, दिनानि कतिचित् यज् जीव्यते तद् अपि शुभं, तत्राह—स इति । एष जीवन् जीवद् अवस्थत्वेन दृश्यमाणो\ऽपि मृत एव लोक-बहिस्कृत-तासाम्याद् इति भावः । खलु वितर्के नृशंसित हिंसा मनुजाः सर्व एव मनुष्याः अन्त्यत्तैः तत्र तनुमानिनः पापिन इति देहात्म-बुद्ध्यैव पापाभिनिवेशो भवतीति भावः । यद् वा, देहे मृते जीवत्य् अपि सति किं वा, देहे सति मृते मरणे च सतीत्य् अर्थः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गर्भं हतवतो मम जीवितव्यम् अपि धिक्-कृतम् एव इत्य् आह—स इति । नृशंसितेन कौर्येण । देहे मृते सतीति जीवति तु यद्यपि तस्माद् बिभ्यति, तद् अपीति भावः । शपन्ति"रे पापिन् ! कुम्भीपाके पत" इति साक्षेपम् उच्चैर् आक्रोशन्ति । ततश् च तनु-मानिनः प्राण्य्-अन्तर-हिंसया स्व-तनुं मानयतो लालयतो जनस्य भोग्य यद् अन्धं तमस् तद् ध्रुवम् एव गन्ता गच्छति ॥२२-२३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भ्रूणहत्यया जीवनं निन्द्यम् इत्य् आह—स इति—अत्यन्तनृशंसितेन तद्धत्यालक्षणेनातिक्रौर्येण जीवदेहात्तस्मात् भीता मनुजा मनसैव शपन्ति तद्देहे मृते तु सति अरे महापापिन् कुम्भीपाके निपतेति साक्षेपमुच्चैराक्रोशन्ति । ततश् च तनुमानिनः प्राणिहत्ययापि स्वतनुं मानयतो लालयतो जन य यदन्धं, तमस्तद् एव ध्रुवं सङ्गता गमिष्यतीति । तस्माद् गर्भस्थो\ऽयं न हन्तव्यः किन्तु जातस्तरुणो हन्तव्यस्तेन मे विक्रमस्थितिरिति भयहेतुको\ऽपि स्वदौर्जन्यस्तम्भो विवेकहेतुकतयैव तेन कल्पित इति बोध्यम् ॥२२॥
॥ १०.२.२३ ॥
इति घोरतमाद् भावात् सन्निवृत्तः स्वयं प्रभुः ।
आस्ते प्रतीक्षंस् तज्-जन्म हरेर् वैरानुबन्ध-कृत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति पूर्वोक्त-विचारेण । घोर-भावः सामान्य-स्त्री-हिंसा, घोरतर-भावो भागिनी-हिंसा, घोरतमस् तु स-गर्भायास् तस्या हिंसा इति भावात् कर्मणः
भावो लीला क्रिया चेष्टा भावः सत्ता भावोऽपि च । > भावो भक्तिः समाख्याता पदार्थो भावः उच्यते ॥ इति हलायुधः ।
स्वयं प्रभुः स्वयम् एव स्वीकृत-राज्यत्वात् । उग्रसेनं च पितरम् इत्य्-आदि-उक्तेः । ज्ञानित्वाभिमानित्वाद् वा स्वयं प्रभुः । तज् जन्माष्टम-गर्भ-जन्म । प्रतीक्षन् कदोत्पत्स्यत इति मृशन् । वैरं विरोधस् तद् अनुबन्धस् तदाधिक्यं तं करोतीति तथा निरन्तर-वैरकृद् इत्य् अर्थः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : [+++]{।मर्क्}
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवं विचारेण । भावाद् अभिप्रायाच् चेष्टिताद् वा । स्वयम् एव, न त्व् अन्येषां मन्त्रणादिना सम्यङ्-निवृत्तः, न तु गर्भपातनादौ यन्तं चकारेत्य् अर्थः, यतः प्रभुस् तादृश-विचारे समर्थः । यद् वा, स्वयम् आत्मनैव, न त्व् अन्य-सम्मत्या प्रभुः प्रभुम्मन्य इत्य् अर्थः । हरेर् वैराद्यशेष-दोष-हरस्यापि । किं वा, स्वगुणैः सर्व-मनोहरस्यापि यद् वैरं तस्मिन् द्वेषस् तस्यानुबन्धोऽनुवर्तनम्, तं करोतीति तथा-भूतः सन् तस्य हरेर् जन्म प्रतीक्षमाण आस्ते बभूवेत्य् अर्थः । विरानुबन्धे च विशेषः श्री-हरि-वंशे सचिवान् प्रति कंसोक्तौ—
मासान् वै पुष्यमासादीन् गणयन्तु मम स्त्रियः । > परिणामे तु गर्भस्य शेषं ज्ञास्यामहे वयम् ॥ [ह।वं। २.२.४] > इति ।
अत एव तथैव हरि-वंशे—
यद्-अर्थं सप्त ते गर्भाः कंसेन विनिपातिताः । > तं तु गर्भं प्रयत्नेन ररक्षुस् तस्य मन्त्रिणः ॥ [ह।वं। > २.४.८] इति ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति एवं विचारेण भावात् अभिप्रायात् चेष्टिताद् वा स्वयम् एव न त्व् अन्येषां मन्त्रणादिना सम्यक् निवृत्तः न तु गर्भ-पातनादौ च यत्नं चकारेत्य् अर्थः । यतः प्रभुर् अन्य-निरपेक्षः यद् वा, स्वयम् आत्मनैव न त्वन्य-संमत्या प्रभुः प्रभुं-मन्य इत्य् अर्थः । वस्तुतस् तु तत्र तत्रान्तर्यामि-वश एव स्याद् इति भावः । हरेः वैराद्य् अशेष-दोष-हरत्वेन किं वा, सर्व-मनोहरत्वेन ततामतया प्रसिद्धस्यापि यद् वेरं द्वेषस् तस्यानुबन्धो\ऽनुवर्तनं तं करोतीति तथा-भूतः सन् यद्य् अपि भयात् कंस इत्य् उक्तं तथापि भयस्थाने वैरम् अपि भवतीति तथोच्यते तेन तस्य हरे जन्म प्रतीक्षमाण आस्ते बभूवेत्य् अर्थः । तत्-प्रतीक्षायां च विएषः श्री-हरि-वंशे स्वचिवान् प्रति कंसोक्तौ
मासान् वै पुष्य-मासादीन् गणयन्तु मम स्त्रियः । > परिणामे तु गर्भस्य शेषं ज्ञास्यामहे वयम् ॥ [ह।वं। २.२.४] > इति ।
अतस् तत्रैव—
यद्-अर्थं सप्त ते गर्भाः कंसेन विनिपातिताः । > तं तु गर्भं प्रयत्नेन ररक्षुस् तस्य मन्त्रिणः ॥ [ह।वं। > २.४.८] इति ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्वयम् अभिमानी प्रभुर् उपायज्ञः ॥२३॥
॥ १०.२.२४ ॥
आसीनः संविशंस् तिष्ठन् भुञ्जानः पर्यटन् महीम् ।
चिन्तयानो हृषीकेशम् अपश्यत् तन्मयं जगत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : संविशन् शयानः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैरानुबन्ध-जनितभयेन कंसस्य चित्तावेशम् आह—आसीन आससे स्थितः तिष्ठन् कुत्रचित् स्थित उत्थितो वा । पर्यटन् इतस् ततो विचरन् । हृषीकेशं सर्वेन्द्रिय-प्रवर्तकं सर्वेन्द्रिय-ग्राह्य-विषये तम् एव ददर्शेत्य् अर्थः । तन्मयत्व-दर्शनं तु प्रेम्णा सदा परमानन्द-जनकं भयेन तत्-कालं परम-दुःख-जनकम् इति भक्त-वैरिणोर् भेदः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चिन्तयन् अयम् अधुनैवाविर्भूय मां हनिष्यतीत्य् एवं भावयन् । हृषीकेशम् इति सर्वेन्द्रिय-वृत्तौ परिस्फुरणेन हृषीकेशताभिव्यक्तेः । यद्य् अपि तन् मयत्व-दर्शनं योगिनाम् अपि सुदुर्लभं प्रेम-भक्तानाम् एव सम्पद्यते, तथापि तेषु परमानन्दमयत्वेनास्मिंश् च परम-दुःखमयत्वेनेति सिद्धान्तः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वैरानुबन्धम् एवाह आसीन इति । चिन्तयानः अयम् अधुनैवाविर्भूय मां हनिष्यतीत्य् एवं भावयन्न् इत्य् अर्थः । हृसीकेशम् इति सर्वेन्द्रिय-वृत्तौ परिस्फूरणेन हृषिकेशताभिव्यक्तेः यद्य् अपि तन्मयत्व-दर्शनं योगिनाम् अपि सुदुर्लभं प्रेम-भक्तानाम् एवं संपद्यते तथापि तेषु परमानन्दमयत्वेन अस्मिंस् तु परम-दुःख-भयत्वेनेति भेदः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आसीन इति येनान्ते स दोषो ऽपि तद्रूपं यास्यतीति भावः ।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैरानुबन्धजनितेन भयेन कंसस्य चित्तावेशं विवृणोति आसीन इति संविशन् शयानः । चिन्तयानः चिन्तयन्हृषीकेशं सर्वेन्द्रियविषयीभुतं तन्मयत्वदर्शनं प्रेम्ना परमानन्दजनकं भयेन तु परमदुःखजनकम् इति भक्तवैरिणोस्तन्मयत्वदर्शनस्य भेदो द्रष्टव्यः ॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वैरानुबन्धहेतुकं कंसस्य चित्तावेशमाह—मासीन इति । संविशन् शयानः हृषीकेशं निखिलेन्द्रियविषयीभूतं चिन्तयन् जगत्तन्मयं तत्प्रधानमपश्यत् । प्रेम्णा तन्मयत्वदर्शनमानन्दकरं भयेन तु दुखकरम् इति विवेच्यम् ॥२४॥
॥ १०.२.२५ ॥
ब्रह्मा भवश् च तत्रैत्य मुनिभिर् नारदादिभिः ।
देवैः सानुचरैः साकं गीर्भिर् वृषणम् ऐडयन् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : रम्याभिर् गीर्भिर् वृषणं काम-वर्षिणम् ऐडयंस् तुष्टुवुः ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कंसकारागारे । एत्य प्राप्य । ब्रह्मा भवः सा च पृथिवी दैवैः ऐडयन् इति संबन्ध । अन्यथा बहुत्वासिद्धेः । अनुचरंतीत्वनुचरास् तैर् देवविशेषणाम् इदम् । गीर्भिर् इति पूर्वं व्याख्यातम् एव । ईडेः प्रयोजकणिजन्ताल्लङ् स कर्मकत्वात् प्रयोज्यकर्तरि तृतीया देवैर् इति ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): तत्र बन्धनागारे । आदि—शब्देन सनकादयस् तेषु श्री-नारदस्यादित्वं परम-भागवतत्वेन मुख्यत्वात् । किं वा, श्री-हरिवंशोक्तस्य तद् अवतारार्थ-तदीय-यत्न-विशेषस्य सकलतया प्रहर्षेण सर्वेषां तेषाम् अग्रत आगमनात् । सानुचरैर् गन्धर्वादि-सहितैर् ऐडयन् ऐडत—द्वित्वे वाचेऽपि बहुत्वम् आर्षम् । किं वा, मुन्यादि-साहित्येन बाहुल्यापेक्सया कंसस्य तत् तच् चेष्टानन्तरं देवानां स्तुतिस् तस्य निकटवर्तितयादौ श्री-भगवद् अवतार-ज्ञानात् तेषां च दूरवर्तित्वात् ततः पश्चाद् एव तत् सिद्धिरि इति1 ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र बन्धनागारे आदि-शब्देन सनकादिभिः तेषु श्री-नारदस्यादित्वं केवलं परम-भत्त्यारामत्वेन मुख्यत्वात् श्री-हरि-वंशोक्तस्य भगवद् अवतारार्थ-तदीय-प्रयत्न-विचेषस्य सफलतया प्रहर्षेण सर्वेषां तेषाम् अग्रत आगमनाच् च सानुचरैः गन्धर्वादि-सहितैः एडयन् एडयत द्वित्वे\ऽपि वाच्ये बहुत्वम् आर्षं किं वा, आगमने मुन्यादीनां पश्चाद्-भावेनाप्राधान्यात् सहार्थ-योगस् तृतीया च स्तुतौ तु च सर्वेषां यौगपद्येन प्रधान्याद् एव कर्तृत्वम् इतो तौ मुन्यादिभिर् अनुगतौ पूर्वम् आगतौ च पश्चात् ते च तौ च युगपद् एव तुष्टुवुर् इत्य् अर्थः ! पूर्व तेषाम् अप्य् अप्रधान-कर्तृत्वेनैक-कर्तृत्वाविरोधात् क्त्वा-योगश् च ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मेति अत्रागमने पश्चाद् भावि मुन्य्-आदीनाम् अप्राधान्यात् सहार्थ-योगे तृतीया च स्तवे तु यौगपद्येन प्राधान्यात् सर्वेषां कर्तृत्वम् एव विवक्षितम् इति एडयन्न् इति बहुत्वं पूर्वं मुन्य्-आदि-मिलतौ ताव् आगतौ पश्चात् तौ च ते च तुष्टुवुर् इत्य् अर्थः । पूर्वं तेषाम् अपि प्रधान-कर्तृत्वेनैक-कर्तृकत्वाविरोधात् क्त्वा-योगश् च न यद् इत्य् अस्य व्याख्यायाम् ॥२५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : [+++]{।मर्क्}
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृषणं लीलामृत-वर्षिणं कृष्णान्वुदम् । ब्रह्मा भुवन-चतुर्दश-केदार-महा-कृषीवल इव । भवश् चोल्लासित साधु-पक्षो नृत्य-विनोदी महा नीलकण्ठ इव । भवश् चोल्लासित साधु-पक्षो नृत्य-विनोदी महा नीलकण्ठ इव नारदादिभिस् तद् एक जीवनैर् महा-सोत्कण्ठ-चातकैर् इव देवैः कंस-जरासन्धादि-दावानलावृतैर् महा-मतङ्गजैर् इव सह ऐडयन् ऐडयत तुष्ठुवुर् इति यावत् । बहु-वचनम् आर्षम् ॥२५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वृषणं लीलामृत-वर्षिणं कृष्ण-बलाहकम् ऐडयन् तुष्टुवुः । तत्र ब्रह्मा चतुर्दश-भुवन-महा-क्षेत्र-कर्षक इव, भवश् चोल्लासित-सत्-पक्षो नृत्यन् नीलकण्ठ इव, नारदादिभिस् तद्-एक-जीवातुभिश् चातकैर् इव । देवैश् च कंसादि-दावाग्नि-परिवृतै राजेन्द्रैर् इव साकम् इति सूच्यते ॥२५॥
॥ १०.२.२६ ॥
सत्य-व्रतं सत्य-परं त्रि-सत्यं
सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यम् ऋत-सत्य-नेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नाः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सच्-छब्द उत्तमं ब्रूयाद् आनन्दन्तीति वै वदेत् ।
येति ज्ञानं समुद्दिष्टं पूर्णानन्द-दृशिस् ततः ॥ > सत्य-शब्दोदितं तादृग्-रूपं नित्यं यतो हरेः । > सत्य-व्रतस् ततो विष्णुः सद्-भूत-त्रयम् उच्यते ॥ > त्यं तद् अन्यत् समुद्दिष्टं तत्-परत्वात् तु तत्-परः । > वेद-मुख्यार्थ-रूपत्वात् त्रिसत्यो भगवान् हरिः ॥ > सत्यस्य चोत्तमानन्द-ज्ञान-दातृत्वतः सदा । > सत्यस्य सत्यो भगवान् सत्यस्थो जगति स्थितः ॥ > जगन्-नेतृत्वतः सत्य-नेता विष्णुः प्रकीर्तितः । > अत्तृत्वाच् च तदा दानात् सत्यात् त्यचोच्यते विभुः ॥ इति > तन्त्र-भागवते ॥२६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिश्रुतं सत्यं कृतम् इति हृष्टाः सन्तः सत्यत्वेनैव प्रथमं स्तुवन्ति--सत्य-व्रतम् इति । सत्यं व्रतं सङ्कल्पो यस्य तम् । सत्यं परं श्रेष्ठं प्राप्ति-साधनं यस्मिंस् तम् । त्रि-सत्यं त्रिष्व् अपि कालेषु सृष्टेः पूर्वं प्रलयान्तरं च स्थिति-समये च सत्यम् अव्यभिचारेण वर्तमानम् । तद् एवाहुः—सत्यस्य योनिम् इति सच्-छब्देन प्र्ठिव्य्-अप्-तेजांसि । त्यच्-छब्देन वाय्व्-आकाशौ । एवं सच् च त्यच् च सत्यं भूत-पञ्चकम् । तत् सत्यम् इत्य् आचक्षते इति श्रुतेः । तस्य योनिः कारणम् । अनेन पूर्वं वर्तमानतोक्ता । तथा सत्ये तस्मिन्न् एव निहितम् अन्तर्यामितया स्थितम् । अनेन स्थित-समयेऽपि सत्यत्वम् उक्तम् । तथा सत्यस्य सत्यं तस्यैव सत्यस्य सत्यं पारमार्थिकं, तन्-नाशेऽप्य् अवैशिष्यमाण-रूपम् । अनेन प्रलयेष्व् अवधित्वेन सत्यत्वं दर्शितम् । एवं त्रिसत्यत्वम् उपपादितम् । तथा ऋत-सत्य-नेत्रम् ऋतं सूनृता वाणी सत्यं सम-दर्शनं तथा भगवता व्याख्यास्यमानत्वात् । सत्यं च सम-दर्शनम् । ऋतं च सूनृता वाणी कविभिः परिकीर्तिता इति । त्योर् नेत्रं नयन-साधनं नेतारं प्रवर्तकम् इति यावत् । एवं सर्व-प्रकारेण सत्यात्मकं त्वां भगवन् वयं शरणं प्रपन्नाः प्राप्ता इति ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतिश्रुतं भू-भार-निवृत्तये वसुदेव-गृहे भविष्यामीत्य् एवं-रूपम् । तद् एव त्रिकालवस्थायित्वम् एव । तत् इत्य्-आदि-श्रुतेर् अर्थम् आह—तत् भूत-पञ्चकं सत्यं सत्य-शब्द-वाच्यम् इत्य् आचक्षते वदन्तीत्य् अर्थः । तस्य भूत-पञ्चकस्य । अनेन भूत-पञ्चकोत्पादकत्वेन । तस्मिन्न् एव भूत-पञ्चके एव । अनेन भूत-पञ्चकान्तर्यामित्वेन । तस्यैव भूत-पञ्चकस्यैव । पारमर्थिकं यथार्थम् । तन्-नाशे भूत-पञ्चक-नाशे । अनेनावशिष्यमाणत्वेन । इति यावत् इति सिद्धान्तः । एवं पूर्वोक्त-प्रकारेण । प्राप्ता इति सर्वथा प्राप्ता इत्य् अर्थः । अर्थान्तरम् आह—सत्य् अनृताप्रिय-हीनं यथार्थ-कथनं व्रतं नियमो यस्य तम् । सत्य-संहिता वै देवाह् इति श्रुतेः । सत्यो धर्म उदाहृतः इति कोशात् सत्यस्य धर्मस्य परं पालकम् । यद् वा, सत्तिर् अवसादनं ततोऽपरम् अन्यं तद्-रहितम् इत्य् अर्थः । अविनाशी वा अरे अयम् आत्मा इति श्रुतेः । त्रिषु लोकेषु सत्यं तेषु नष्टेष्व् अप्य् अनष्टम् । सत्यस्य मुख्य-प्राणस्य योनिं कारणम् । आत्मन एष प्राणो जायते इति श्रुतेः । सत्ये निहितं सन्निहितम् । सत्येन प्राप्यते हरिः इत्य् आद्य् उक्तेः । सत्यस्य प्रपञ्चस्य सत्यम् अबाधित-स्वरूपम् । अद्वैतं परमार्थः इति श्रुतेः । सत्या देवा नेत्रं शिष्यादिषु नेतारो यस्य तम् । तं देवा प्रापयन्ते इति श्रुतेः । यद् वा, सत्यं नेत्रं प्रकाशकं यस्य न ह् असत्य-वादिनां तत्-प्रकाशो जायत इति भावः । सत्यम् अबाधितम् आत्मनः कं स्वरूप-सुखं यस्य तम् । एष ह्य् एव हि परमानन्दः इति श्रुतेः ॥२६॥ (+ विशेषिश्वनाथः)
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सत्य-व्रतम् इत्य्-आदि । सत्य-व्रतं सत्य-सङ्कल्पम् । सत्यं ब्रह्म तस्माद् अपि परम् । त्रीणि श्री-विग्रह-लीलास्व् अधिष्ठानानि सत्यानि, यतः सत्यस्य योनिम् उत्पत्ति-स्थानम् । अस्य लोकस्य सत्ये सति निहितं नितरां हितम् अनुकूलम् । सति भक्ते अमृतात् मोक्षाद् अपि सत्यं दुर्लभं यत् प्रेम, तस्य नेत्रं नेतारम् । सत्यं निरन्तरम् आत्मसु आत्मीयेषु परिजनेषु कं सुखं यस्य त्वां श्री-कृष्णं प्रपन्नाः ॥२६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): सत्य-व्रतम् इति । यः कश्चित् सङ्कल्पोऽपि सत्यः । किं पुनः प्रतिश्रुतम् अतोऽत्रावतरणम् इदं युक्तम् एवेति भावः । किं च, सत्यं परम् अतः सत्य-क्रोशनेन धरण्यापि त्वं प्राप्त इति भावः । न च द्वापरान्ते कलि-प्रवेशेऽधुना त्वत्-प्राकट्यं न घटते इत्य् आह—त्रिसत्यम् इति । एतद् एव सत्यास्य योनिम् इत्य्-आदि विशेषण-त्रयेणोपपादितं सत्यस्य सत्यम् इत्य् असन्धितया छन्दोऽनुरोधेन पठनीयम् । अत एवास्मान् प्रति तम् इमं महानुग्रहम् अकरोद् इत्य् आशयेनाहुः—ऋत-सत्ययोर् नेत्रं प्रवर्तकं किं वा चक्षुः प्रकाशकम् । तत्र सत्यं सम-दर्शनं, तच् च सर्वेषां जीवानां भगवद्-अंशत्वेन समतया दर्शनं ज्ञानम् । किं वा, अन्तर्यामितया सर्वत्र साम्येन भगवतो दर्शनम् । यद् वा, मया लक्ष्म्या सह वर्तत इति समो भगवान् । तस्य दर्शनम् इति । अस्माकं त्वत्-स्तवनम् इदं त्वज्-ज्ञानं च कृपया त्वयैव प्रवर्तितम् इत्य् अर्थः । एवं प्राग् एव तत्-तद्-अर्पितम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, व्रतम्—
सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।
अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥ इत्य्-आदि-लक्षणम् ।
अतो यादवादि-स्व-भक्तानाम् अभयार्थं त्वयावतीर्णम् इति युक्तम् एवेति भावः । यतः सत्य-परं सदा सर्वदा मिथ्यात्व-रहितम् इत्य् अर्थः । अत एव त्रि-सत्यम् । अतः सर्वेषां यत् सर्व-साधुत्वम् । तच् च त्वत्-प्रसादाद् एवेत्य् आह—ऋतेति । ऋतेन सूनृततया वाण्या सत्यं प्रेम त्वत्-स्तुति-विषयकम् अस्माकं प्रेमापि त्वत्त एवेत्य् अर्थः ।
ननु देवकी-गर्भे प्रविष्टस्य कथं सत्य-योनित्वादिकं ? तत्राहुः—सत्यात्मकं सत्यो विकार-रहित आत्मा श्री-मूर्तिर् यस्य तम् । यद् वा, सत्यम् अव्यभिचारि आत्मनां जीवानाम् अपि कं सुखं यस्मात् तम् । अतो भक्त-वात्सल्येन देवकी-गर्भ-प्रविष्टत्वेऽपि जीवस्येव गर्भ-वासादि-दुःखं किम् अपि नास्तीति भावः । अन्यत् समम् । चतूरस इत्य् अनेन मिथ्यात्वम् इव सूचितम्—अज्ञान-संज्ञौ भव बन्ध-मोक्षौ [भा।पु। १०.१४.२६] इति वक्ष्यमाणात् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सत्य-व्रतम् इति । व्रतं परिश्रुतं यः कश्चित् सङ्कल्पोऽपि सत्यः किं पुनर्-व्रत-रूप इत्य् अतोऽत्रावतरणम् इति युक्तम् एवेति भावः । अतः सत्यं परं सत्य-व्रतत्वाद् एव सत्य-प्रियो भवान् तच् च तव प्रीतिं ज्ञात्वा विधीयमानं चेत् श्रेष्ठं भवति श्रेष्ठत्वं च तस्य तत्-प्राप्ति-साधनतापन्नत्वम् एवेति तथा तैर् व्याख्यातम् एव अतः सत्य-क्रोशनेन धरण्यापि त्वं प्राप्त इति भावः । स च धर्मो महा-सत्यस्य तव युक्त एवेत्य् आहुः त्रिसत्यम् इति । अतः कलेः प्रथमांशम् अभिव्याप्य त्रियुगस्यापि तवावतारोऽयं नायुक्त इति भावः त्रिसत्यम् एव सत्यस्य योनिम् इत्य्-आदि विशेषण-त्रयेणोपादितं सत्यस्य सत्यम् इति असंहिता-निर्देशेन काल-व्यवधानात् पूर्व-गुरुत्वम् अनुभूय पादान्तवत् दकाकु-गान-प्लुतेन वा ततस् तथैव छन्दोऽनुरोधेन पठनीयं तवेदं सत्यव्रतत्वं त्रिसत्यत्वं च चित्रम् इत्य् आहुः—ऋतेति सत्या प्रिया च या वाक् सा सूनृता सैव ऋतं समय-व्यभिचारि यत् ज्ञानं तत् सत्यं तयोर् अपि प्रवर्तकं प्रकाशकं वेति तस्य तयोर् वाङ्-मनस-धर्मयोर् अव्यभिचारित्वं कैमुत्येनानीतं वैदिक-रूपयोः परमयोस् तयोः परमाश्रयत्वेन त्रि-सत्यत्वम् अपि । अतो भवत्-प्रसादाद् एव वयम् अपि भवन्तं जानीमश् चेत्य् अनुग्रहान्तरं च सूचितम् । अन्यत् तैः । तत्र सृष्टेः पूर्वम् इत्य् अनेन भूत-कालस्य वैशिष्ट्यम् उक्तं प्रलयान्तरम् इत्य् अनेन भविष्यत्-कालस्य स्थिति-समयम् इत्य् अनेन वर्तमानस्येति ज्ञेयम् । यद् वा, व्रतम्—
सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।
अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥ इति लक्षणम् ।
अतो यादवादि-स्वभक्तानाम् अभयार्थं त्वयावतीर्णं युक्तम् एवेति भावः । यतः सत्य-परं सदा सर्वथा मिथ्या-रहितम् इत्य् अर्थः । अत एव त्रि-सत्यं यतः सत्यस्य व्यवहारिक-सत्यस्य प्रपञ्चस्य योनिम् इत्य्-आदि । ननु देवकी-गर्भे प्रविष्टस्य कथं सत्य-योनित्वादिकं ? तत्राहुः सत्यात्मकं सत्यः विकार-रहित आत्मा श्री-मूर्तिर् यस्य तम् । अन्यत् समानम् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्य-व्रतं विमर्शयति—सत्त्वेन सच्चिदानन्द-घनत्वेन उपपन्नानि श्रौत-सिद्ध-युक्ति-सिद्धानि ॥२६॥
जीव-गोस्वामी (परमात्म-सन्दर्भ ७१) : इत्य् अत्र सत्य-सङ्कल्पत्वं सत्य-पारायणत्वं सृष्ट्य्-आदि-लीला-त्रयेषु सत्यत्वं सत्यस्य विश्वस्य कारणत्वं सत्य एव विश्वस्मिन्न् अन्तर्यामितया स्थितत्वं सत्यस्य तस्य स्थितता-हेतुत्वं सत्य-वचनस्याव्यभिचारि-दिष्टेश् च प्रवर्तकत्वं सत्य-रूपत्वम् इत्य् एतेषाम् अर्थानाम् आकूतं परिपाटी च सङ्गच्छते । अन्यथा सत्यस्य योनिम् इत्य्-आदौ त्रये तत्रापि निहितं च सत्य इत्य् अत्राकस्माद् अर्ध-जरतीय-न्यायेन कष्ट-कल्पना-मयार्थान्तरे तु भगवता स्व-प्रतिश्रुतं सत्य-कृतं यत् तत् तद् युक्तम् एवेत्य् अतो ब्रह्मादिभिस् तथा स्तवे स्वारस्य-भङ्गः स्यात् प्रक्रम-भङ्गश् च । तस्मात् सत्यम् एव विश्वम् इति स्थितम् ॥२६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ देवकी-हृदयस्थं श्री-कृष्णं ब्रह्मादयः स्तुवन्त ऊचुः—सत्य-व्रतम् इति । सत्य-व्रतं सत्य-सङ्कल्पम्, अङ्गीकृत-प्रतिपालनात् । सत्यं ब्रह्म तस्माद् अपि परम् उत्कृष्टं परमानन्द-प्रदं स-विशेषम् । तस्य निर्विशेषस्य वैभवत्वात् । उक्तं च—सा ब्रह्मणि स्व-महिमन्य् अपि [भा।पु। ४.१.१०] इति । त्रि-सत्यं त्रिषु कालेषु सत्यं त्रीणि श्री-विग्रह-लीला-स्वधिष्ण्यानि सत्यानि यस्येति वा । अतः सत्यस्य वैकुण्ठादेर् योनिम् उत्पत्ति-स्थानम् । निहितं च सत्ये सत्यस्यास्य वैकुण्ठादेः । सत्ये सति सत्यत्वे सति नितरां हितम् । सत्य-शब्दो धर्म-वचनोऽप्य् अस्ति । सत्यं शौचं [भा।पु। १.१६.२७] इत्य् आद्य् उक्तेः । सन् वैष्णवः, तस्मिन् सति अमृतान् मोक्षाद् अपि सत्यं दुर्लभं यत् प्रेम, तस्य नेत्रं नेतारं प्रापकम् । सत्यात्मकं सत्यस् त्रिकाल-सिद्ध आत्मा विग्रहो यस्य तं त्वां श्री-कृष्णं श्रयणं प्रपन्नाः स्मः ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
त्वम् एव वास्तवं वस्तु संसारेऽस्मिन् न वास्तवे ।
त्वं भक्तैर् गम्यसे नान्यैर् इति स्तुत्य्-अर्थ ईक्षितः ॥
स्व-भक्त-पालनैक-व्रतत्वान् नित्य-सत्यत्वाच् च त्वम् एव प्रपत्त्य्-अर्ह इत्य् आहुः सत्यं व्रतं यस्य तं,
सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।
अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥इति तद्-उक्तेः ।
न च स्व-भक्त-पालक-देवतान्तरवत्त्वम् अनित्योऽनुकृष्टश् चेत्य् आह—सत्यः सर्व-काल-देश-वर्ती परः श्रेष्ठश् च तं यद् वा सत्यं सत्य-नामानं,
सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् ।
सत्यात् सत्यो हि गोविन्दस् तस्मात् सत्यो हि नामतः ॥
इत्य् उद्यम-पर्वोक्तः परं परमेश्वरम् । तद्-बुद्धि-बलादयोऽपि सत्या एवेत्य् आहुः । तिस्रः ज्ञान-बल-क्रिया-शक्तयः सत्या यस्य तम् ।
न तस्य कार्यं करणं च विद्यते > न तत् समश् चाभ्यधिकश् च दृश्यते । > परास्य शक्तिर् विविधैव श्रूयते > स्वाभाविकी ज्ञान-बल-क्रिया च ॥ इति श्रुतेः ।
त्वद्-अंशा अपि सत्या इत्य् आहुः । सत्यस्य मत्स्य-कूर्माद्य्-अवतार-वृन्दस्य योनिम् उद्गम-स्थानम् अवतारिणम् इत्य् अर्थः । त्वद्-धामापि नित्यम् इत्य् आहुः—निहितं सन्निहितं स्थितम् इत्य् अर्थः सत्ये मथुरा-वैकुण्ठादि-लोके । किं च सारस्य सार इति यत् समस्त-चिद्-वस्तु-सारस् त्वम् एवेत्य् आहुः सत्यस्य सत्यम् इति ।
यद् वा, सत्यस्य यत् किञ्चित् काल-वर्तिनो मायिक-प्रपञ्चस्य प्रकाशकत्वात् सत्यं सर्व-काल-वर्तिनं, चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् इतिवत् । सत्यं ह्य् एवेदं विश्वम् असृजत इति माध्व-भाष्य-प्रमाणित-श्रुतेः । हे ऋत नित्य-सत्य-स्वरूप ! सत्यं नेत्रं सर्वेन्द्रियोपलक्षकं नयनेन्द्रियं यस्य तं सत्य आत्मा श्री-विग्रहो यस्य तम् ॥२६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्वभक्त-रक्षणैक-व्रतत्वात् कूटस्थत्वाच् च प्रपत्ति-योग्यस् त्वम् इति तावद् आहुः—हे भगवन् त्वां वयं शरणं प्रपन्ना इत्य् अन्वयः । कीदृशम् इत्य् आह—सत्यम् अबाधितं त्वाश्रितत्राण-रूपं व्रतं यस्य तं, कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति [गीता ९.३१] इति त्वद्-उक्तेः । सत्येभ्यो जीव-प्रधान-कालेभ्यः परं श्रेष्ठं तिस्रो ज्ञान-बल-क्रियाः । सत्या यस्य तं परास्य शक्तिर् इत्य्-आदौ, स्वाभाविकी ज्ञान-बल-क्रिया च इति श्रवणात् । सत्यस्य विश्वस्य योनिं कारणं याथार्थ्यतोऽर्थान् व्यदधाद् इति श्रवणात् ।
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः ।
सत्याद्भूतानि जातानि सत्यं भूतमयं जगद्॥ इति स्मरणाच् च ।
सत्ये परम-व्योम्नि तद्-उपरि श्री-गोकुलादौ च निहितं स्थितम् । सत्यस्य जीवात्म-वृन्दस्य सत्यं तद्-अपेक्षयाप्य् अतिसत्यम् । प्राणा वै सत्यं तेषाम् एव सत्यम् इति श्रवणात् । जीवात्मनां ज्ञान-सङ्कोच-विकास-रूप-परिणामाभासस् तद्-विरहात् परम-सत्यम् इत्य् अर्थः । ऋतं सुनृता वाणी सत्यं च सम-दर्शनं तयोर् नेत्रं स्वाश्रितेषु प्रापकं सत्य आत्मा श्री-विग्रहो यस्य तं सत्यात्मकं नित्य-मूर्तिम् इत्य् अर्थः ॥२६॥
॥ १०.२.२७ ॥
एकायनोऽसौ द्वि-फलस् त्रि-मूलश्
चतू-रसः पञ्च-विधः षड्-आत्मा ।
सप्त-त्वग् अष्ट-विटपो नवाक्षो
दश-च्छदी द्वि-खगो ह्य् आदि-वृक्षः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भवन्तोऽपि लोकेश्वरा मत्-तुल्या एव, किम् इति मां शरणं प्रपद्यन्ते ? नैवं वाच्यम्, त्वम् एवैकः सर्वेश्वरः, सर्व-सृष्ट्य्-आदि-कारणत्वात्, वयं तु त्वद्-एक-शरणा एव, लोकादि-रूपं द्वैतं च सर्वं त्वद्-व्यतिरेकेण नास्तीति वक्तुं द्वैत-प्रपञ्चं वृक्ष-रूपकेण निरूपयन्ति—एकायन इति । असौ प्रपञ्च आदि-वृक्षः वृश्च्यत इति वृक्षः समष्टि-व्यष्टि-देह-रूपः । कथं-भूतः ? एकायनः एका प्रकृतिर् अयनम् आश्रयो यस्य सः । द्वे सुख-दुःखे फले यस्य सः । त्रयो गुणा मूलानि यस्य सः । चतू रसो धर्मार्थ-काम-मोक्षाश् चत्वारो रसा यस्य सः । पञ्च इन्द्रियाणि विधा ज्ञान-प्रकारा यस्य सः । षड् ऊर्मयः कोषा वा आत्मनः स्वभावा यस्य सः । सप्त धातवस् त्वचो यस्य । पञ्च भूतानि मनो बुद्ध्य्-अहङ्काराश् चेत्य् अष्टौ विटपाः शाखा-विस्तारा यस्य सः । नव द्वाराण्य् अक्षश् छिद्राणि यस्य सः । दश प्राणाश् छदाः पत्राणि विद्यन्ते यस्य स दश-च्छदी । द्वौ जीवेश्वरौ खगौ यस्मिन् स द्वि-खगः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्बलाः शरणं यान्ति समर्था न कदाचन इत्य् अभियुक्तिम् आश्रित्य शङ्कते--ननु इति । किम् इति ? कुतः ? देवा ऊचुः--नैवम् इति । त्वद्-एक-शरणः त्वम् एकः शरणं रक्षिता येषां ते तथा । त्वद्-व्यतिरेकेण त्वत्-पार्थक्येन वृक्ष-रूपकेण रूपकालङ्कारेण । तल्-लक्षणं च—
यत्रोपमान-चित्रेण सर्वथाप्य् उपरज्यते ।
उपमेय-मयी भित्तिस् तत्र रूपकम् इष्यते ॥ इति ।
तच् चानेकधा इह च समस्तं सादृश्य-रूपकम् अस्ति--पृथक् कथित-सादृश्यं दृश्यं सादृश्य-रूपकम् इति तल्-लक्षणात् । समस्तत्वं चास्य एकायनो\ऽसौ इत्य्-आदीनां सर्वेषां समासवत्त्वाद् इति ध्येयम् । आदिः सनातनश् च असौ वृक्ष आदि-वृक्षः । अनेनानादित्वं समर्थितं प्रवाहापन्नत्वाद् । यद् वा, आदेर् हरेर् वृक्षस् तया आरामम् अस्य पश्यन्ति [बृ।आ।उ। ४.३.५]2 इत्य्-आदि श्रुतेः । यद् वा, आदिना ज्ञानेन वृश्च्यत इति तथा, तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ३.८] इति श्रुतेः । ज्ञानस्यादित्वं तु परम-पुरुषार्थादि-कारणत्वात् । यद् वा, आदिर् अदनार्हो वृक्षस् तथा भोग्य-रूपत्वेन विनाशित्वाद् इति तयोर् अन्यः पिप्पलं स्वाद्वत्ति [ऋग्-वेद १.१६३.२०, मु।उ। ७.१.१] इति श्रुतिर् अपीह यथा-कथञ्चिद् उन्नेयेति ।
धर्मार्थ-कामाः प्रवृत्तानां रसास् त्रयः, निवृत्तानां त्व् एको मोक्ष एव रसः, एवं चत्वारः सन्तीति । पञ्चेन्द्रियैर् एव सर्वं शब्दादि ज्ञायतेऽत उक्तं पञ्च-विधा इति । षड् ऊर्मयः क्षुत्-पिपासे शोक-मोहौ जरा-मृत्यू आत्मानः स्वभावा यस्य । अन्ये\ऽपि अस्तित्वादयः स्वभावाः सन्त्य् अस्य कथम् उक्तं षड् ऊर्मयः ? इति तत्राह—कोषा वा इति । कोष-शब्दो\ऽत्र षड्-भाव-विकार-परः । तच्-चिन्तापि कोशवद् आत्मावरकैव, अतस् तेऽपि कोशा एव । ते च—अस्ति, जायते, वर्धते, विपरिणमते, अपक्षीयते, नश्यति इत्य् एवं-रूपा ज्ञेयाः । यद् वा, पञ्च-कोशा अन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमयाख्याः । षष्ठश् चाहङ्कारः, तस्याप्य् आत्मावरकत्वेन कोषत्वं कैश्चित् स्वीकृतम् । एते वा षट्-कोशाः--
कोशोऽस्त्री कुड्मले पात्रे दिव्ये खड्ग-पिधानाके । > जाति-कोपेऽर्थ-संघाते वेश्यां शब्दादि-सङ्ग्रहे ॥ इति मेदिनी ।
सप्त धातवः--त्वङ्-मांस-रुधिर-स्नायु-शुक्रास्थि-मज्जाख्याः । नव-द्वाराणि सप्त चक्षुर्-आदिन्य् उपरिष्ठानि, द्वे पायूपस्थ-रूपे अधोगे अक्षाः छिद्राणि ।
अक्षो ज्ञानार्थ-शकटावयवेषु च पाशके । > रुद्राक्षेर् द्राक्षयोः सर्वे व्यवहारे विभीतके ॥ > चक्रे कर्षे तथा छिद्रे तुल्ये सौवर्चलेन्द्रिये । इति यादव-मेदिन्यौ > ।
दश प्राणाः--प्राणापान-समान-व्यानोदान-नाग-कूर्म-कृकल-देवदत्त-धनञ्जयाख्याः छदाः पत्राणि यस्य, छदः पलाशे गरुति ग्रन्थि-पर्ण-तमालयोः इति मेदिनी ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्वि-खग इत्य् अधिष्ठातृत्व-मात्रापेक्षया द्वयोः साम्येन निर्देशः । आदिश् च असौ प्रवाह-रूपेण प्रथमत एव वर्तमानत्वात् सोढव्यः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्वि-खग इत्य् अधिष्ठातृत्व-मात्र-विवक्षया साम्येनैव निर्देशः । विशेषस् तु तयोर् एकः स्वद्व् अत्ति पिप्पलान्नम् [ऋग्-वेद १.१६३.२०, मु।उ। ७.१.१]3 इत्य्-आदौ ज्ञेयः । एवम् अनया वृक्षाङ्गत्वाभावात् प्रपञ्चातीतत्वं दर्शितं प्रवाह-रूपेण प्रथमत एव वर्तमानत्वात् आदिश् चासौ सदा काल-च्छिद्यमानत्वाद् वृक्षश् च । तत्र सुख-दुःख-रूपे फले, चतूरसः त्वग् अष्ट-विटप इत्य् अत्र च छन्दः प्लुत-स्वरेण घटनीयम् । अन्यत् तैः । तत्र एकायन इतीत्य्-अन्ते द्वाभ्यां इति शेषः । पञ्च इत्य्-आदौ ज्ञन- इति करणे ल्युट् । वृक्षस्यापीन्द्रिय-पञ्च-सद्भावः, तेन पश्यन्ति पदपा इत्य्-आदौ प्रसिद्धः । कोशास् त्वङ्-मांस-रुधिर-मेदो-मज्जास्थीनि, लोम-रक्त-मांस-स्नाय्व्-अस्थि-मज्जान इत्य् एके । धातवस् तु त्वग्-आदयः शुक्र-संहिताः । सप्त-त्वग् इति सप्तावरणानि त्वक् यस्येति वा ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि देहेन्द्रिय-धामादि-विशिष्टोऽहम् एव सत्यः, तर्हि जगद् इदं किम् असत्यं ? तत्र जगतः सत्यत्वेऽपि काल-च्छेद्यत्वं, तव तु तद्-अभाव इत्य् आहुः—एकायन इति । असौ प्रपञ्च आदि-वृक्षो भवति । प्रथमत एव प्रवृत्तत्वाद् आदिः, वृश्च्यते कालेन च्छिद्यते इति वृक्षः, समष्टि-व्यष्टि-देह-रूपः । एका प्रकृतिर् अयनम् आश्रयो यस्य सः । द्वे सुख-दुःखे फले यस्य सः । त्रयो गुणा मूलानि यस्य सः । चत्वारो वर्ण-धर्मा आश्रम-धर्मा वा रसा यस्य सः । पञ्च इन्द्रियाणि विधा ज्ञान-प्रकारा यस्य सः । षड् ऊर्मयः आत्मानः स्वभावा यस्य सः । अत्र शोक-मोह-जरा-मृत्यु-क्षुत्-पिपासाः षड् उर्मयः । सप्त धातवस् त्वचो यस्य सः । त्वग्-असृङ्-मांस-मेदोऽस्थि-वशा-शुक्राणि धातवः । अष्टौ पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-मनो-बुद्ध्य्-अहङ्कारा विटपाः शाखा-विस्तारा यस्य सः । नव द्वाराणि अक्षाश् छिद्राणि यस्य सः । दश प्राणाश् छदाः पत्राणि विद्यन्ते यस्य, स दश-च्छदी । द्वौ जीवेश्वरौ खगौ यस्मिन् सः ॥२७॥
एकायनोऽसौ द्वि-फलस् त्रि-मूलश्
चतू-रसः पञ्च-विधः षड्-आत्मा ।
सप्त-त्वग् अष्ट-विटपो नवाक्षो
दश-च्छदी द्वि-खगो ह्य् आदि-वृक्षः ॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु विग्रह-गुण-धाम-विशिष्टो\ऽहं च प्रपञ्चश् च यदि सत्यः, तर्हि मत्तः सकाशान् न किञ्चित् प्रपञ्चे वैलक्षण्यम् इति चेत् काल-च्छेद्यत्वेन तत्र तद् अस्तीत्य् आह--एकायन इति । असौ समष्टि-व्यष्टि-लक्षणः प्रपञ्चः प्रथमतः प्रवृत्तत्वाद् आदिः, कालेन वृश्च्यत इति वृक्षः । एका प्रकृतिर् अयनम् आश्रयो यस्य । द्वे सुख-दुःखे फले यस्य । त्रीणि सत्त्व-रजस्-तमांसि मूलानि यस्य । चत्वारो धर्मार्थ-काम-मोक्षा रसा यस्य । पञ्च श्रोत्रादीनीन्द्रियाणि विधा ज्ञान-प्रकारा यस्य । षट् शोक-मोह-जरा-मृत्यु-क्षुत्-पिपासा ऊर्मय आत्मानः स्वभावा यस्य । सप्त त्वग्-असृङ्-मांस-मेदो\ऽस्थि-वसा-शुक्राणि धातवः त्वचो यस्य । पृथिव्य्-आदयः पञ्च मनो-बुद्ध्य्-अहङ्काराश् चेत्य् अष्टौ विटपाः शाखा यस्य । नव द्वाराण्य् अक्षाश् छिद्राणि यस्य । दश प्राणाश् छदाः पत्राणि सन्ति यस्य । द्वौ ईशजीवौ खगौ पक्षिणौ यत्र सः । ईदृशो वृक्षो यम् आश्रितः, तं त्वाम् इति पूर्वेण सम्बन्धः । उभयो\ऽसत्यत्वे\ऽपि नित्यत्वानित्यत्वाभ्यां लक्षण्यम् अस्तीति त्वम् एव नित्यत्वात् प्रयत्तव्यः ॥२७॥
॥ १०.२.२८ ॥
त्वम् एक एवास्य सतः प्रसूतिस्
त्वं सन्निधानं त्वम् अनुग्रहश् च ।
त्वन्-मायया संवृत-चेतसस् त्वां
पश्यन्ति नाना न विपश्चितो ये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं रूपस्य संसार-वृक्षस्य सतः कार्यस्य त्वम् एक एव प्रसूतिः प्रकर्षेण सूतिर् जन्म यस्मात्, स त्वम् । कारणम् इत्य् अर्थः । त्वम् एव सन्निधानं सम्यङ् निधीयतेऽस्मिन्न् इति लय-स्थानम् । त्वम् एवानुग्रहश् च अनुगृह्णातीति पालकः । ननु ब्रह्म-विष्णु-रुद्रा एवं-भूताः प्रसिद्धाः कथम् अहम् एव ? इति चेत्, तत्राहुः—त्वन्-मायया इति । संवृतं पिहितं चेतो ज्ञानं येषां ते त्वाम् एव नाना पश्यन्ति । ये तु विपश्चितो विद्वांसस् ते तथा न पश्यन्ति ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कारणम् इत्य् अर्थः—इत्य् अस्योत्पादकम् इत्य् अर्थः । न तूत्पत्तिस्थानम् इति । पुनर् आशङ्कते—एवम्भूता उत्पत्ति-स्थितिलयकर्तारः । तत्र ब्रह्मादीनाम् एवम्भूतत्वे । आहुः देवा इति शेषः । किम् आहुस् तत्राह—त्वन्माययेति पिहितम् आच्छादितम् तथा नाना ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वम् इति पदस्य पुनः पुनः प्रयोगस् तत्र तत्र तद् इतरव्यावृत्तिर् दार्ध्यार्थः4 । अनुग्रहस्य पश्चान् निर्देशस् तदानीं तस्यैव प्राधान्यात् । एवं त्रयाणां यथोत्तरं श्रिष्ठम् । अन्यत् तैर् व्याख्यातम् । यद् वा, सन् निधानम् आश्रयः, संहारकस्यानुक्तिः स्तुतावयोग्यत्वात् । इत्थं कारणाश्रय-पालकत्व-लीलया महा-पुरुष-नारायण-विष्ण्वाद्य् अवतारैर् भिन्नम् अपि त्वां नाना न पश्यन्ति, किन्त्वनेक-रूपेण वर्तमानम् अप्य् एकम् एव पश्यन्तीत्य् अर्थः । के ? तव मायाख्यशक्त्या न संवृतं सर्वतः प्रसरच् चेतो वुद्धिर् येषां तथा-भूता विपश्चितः । एवं सर्वेषां श्री-भगवद् रूपाणाम् अभिन्नत्वञ्चाभिप्रेतम् । यद् वा, संवृतचेतसः स्वल्प-वुद्धायस् त्वदीयमाययैव नान-विधं त्वं पश्यन्ति, न तु सत्यतया । ये तु विपश्चितस् ते त्वन् मायया नाना न पश्यन्ति, किन्तु मायां विनैव5 सच्चिदानन्द-घन-श्री-महा-पुरुषादि-रूपैः सत्यतया नानाविधं पश्यन्ति । त्वद् इति पृथक्-पदं वा । त्वत्तः संवृतम् आकृष्टं चेतो यैस्ते अभक्ता इत्य् अर्थः । अन्यत् समानम् । एवं सर्वेषाम् एव भगवद् रूपाणाम् अमायिकत्वम् उक्तम् ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुहुस्त्वं पद-प्रयोगस् तत्र तत्र तद् इतर-व्यावृत्तिदार्ढ्यार्थः अन्यत् तैः यद् वा । ननु, प्रसूतिः सन्निधानं च महा-पुरुषः अनुग्रहो विष्णुः कथम् अहम् एव तत् रूपः ? तत्राहुः—त्वद् इति अकार-प्रश्लेषेण । त्वन् मायया ये तु असंवृत-चेतसस् ते नाना न पश्यन्ति किन्त्वेकम् एव पश्यन्तीत्य् अर्थः । एवं सर्वेषां भगवद् रूपाणाम् अभिन्नत्वं चाभिप्रेतम् एकस्यैव भगवद् विग्रहस्य स्वाभाविकाचिन्त्य-शक्त्या नाना-रूपतासम् आवेशात् उपासना-भेदेनैव दर्शनम्-भेदाच् च यतोक्तं श्री-नारद-पञ्चरात्रे—
मणिर् यथा विभागेन नील-पीतादिभिर् युतः । > रूप-भेदम् अवाप्नोति ध्यान-भेदात् तथाच्युत ॥ इति ॥
मणिर् अत्र नाना-च्छवि-धारी वैदूर्याख्यो ज्ञेयः । यद् वा संवृत-चेतसः स्वप्ल-बुद्धयस् त्वदियया माययैव पूर्वोक्तं नाना-विधं त्वं पश्यन्ति तयैव नानात्वम् असौ प्राप्नोतीति मन्यन्त इत्य् अर्थः । ये विपश् चितस् ते तु तया तथा न मन्यन्ते किन्तु स्वाभाविक-शक्त्यैवेत्य् अर्थः । अन्यत् समानम् एवं सर्वेषाम् एव श्री-भगवद् रूपाणाम् अमायिकत्वं सच्चिदानन्द-घन-रूपत्वञ्चोक्तम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वच्-छक्ति-कार्यत्वाद् वृक्षो ऽयं त्वदीय एवेत्य् आहुः । त्वम् एव अस्य प्रपञ्च-वृक्षस्य सतः सत्यस्य एक एव प्रसूतिर् उत्पादकः । सन्निधानं लय-स्थानं अनुग्रहः पालकः । भाव-प्रधान-निर्देशेन तत्-तद्-आधिक्यम् अभिप्रेतम् । ननु भवद्-आदयो ब्रह्म-विष्णु-रुद्रा एवं-भूताः प्रसिद्धाः, कथम् अहम् ? इति चेत्, तत्राहुः—त्वन्-मायया असंवृत-चेतसः अनावृत-ज्ञानास् त्वां नाना न पश्यन्ति ये, विपश्चितस् ते । ब्रह्मादीनां त्वद्-अवतारत्वाद् इति भावः ॥२८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु ब्रह्मा देवानां प्रथमः संबभूव, विश्वस्य कर्ता भुवनस्य गोप्ताः, एको रुद्रो न द्वितीयो\ऽवतस्थे इति ब्रह्मरुद्रयोश् च जगत् कर्तुत्वश्रवणान्ममैव तत्कतृत्वं कुतो ब्रूथेति चेत्तत्राहुस्त्वम् इति अस्य सतः सत्यस्य जगत एक एव त्वं प्रसूतिः प्रकर्षेण सूतिरुत्पत्तिर्यस्मात् स स्वतन्त्रतन्त्रकर्तेत्य् अर्थः । सम्यक् निधीयते\ऽत्रेति संनिधानं लयाधारः अनुगृह्वाति पाल्यतीत्यनुग्रहः पालकश्च, ये त्वन्मायया संवृतचेतसस्ते ब्रह्मादिरूपेण त्वां नाना पश्यन्ति, ये विपश्चितः श्रुतितात्पर्यज्ञास्ते खलु त्वाम् एव तत्-तद्-रूपं पश्यन्तीति सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तेर् इति निर्णयात्त्वम् एव ब्रह्मा रुद्रश् च भवसि यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणम् इति श्रुत्यर्थनिर्णयेन तत्तदन्तःस्थस्त्वम् एव तथेति न को\ऽपि सन्देहगन्धः ॥२८॥
॥ १०.२.२९ ॥
बिभर्षि रूपाण्य् अवबोध आत्मा
क्षेमाय लोकस्य चराचरस्य ।
सत्त्वोपपन्नानि सुखावहानि
सताम् अभद्राणि मुहुः खलानाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु देवकी-पुत्रं मां कथम् एवं वर्णयथेति चेत्, तत्राहुः, बिभर्षीति । अवबोधैक-स्वरूप आत्मा त्वम् एव रूपाणि मूर्तीर् बिभर्षि धत्से । न तु त्वं कस्यापि पुत्र इत्य् अर्थः । क्षेमाय पालनाय । सतां धर्म-वर्तिनां सुख-कराणि । स्वकानाम् अभद्राणि नाशकानि ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यूयं विद्वांसश् चेत् तर्हि किम् अर्थम् एवं स्तुवन्ति गर्भगम् इति शङ्कते भगवान्-नन्व् इति । एवं जगद् उत्पत्त्यादि-कर्तारम् । तत्र देवकी-पुत्रत्वे । आहुः [कारणम् इति शेषः] बिभर्षाति पद्येन । अवबोधैक-स्वरूपो ज्ञानैक-स्वरूपः । इत्य् अर्थ इति । न हि मूर्ति-धारणेनान्यथात्वं जायतेऽन्यथा करणाम् अपि जलत्वत्यागेन पार्थिवत्वं स्याद् इति भावः । क्षेमाय तत्-तत्-काल-प्राप्त-विपत् परिहार-रूप-पालनाय । क्षेमो ना प्राप्त-रक्षायाम् इति यादवः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु प्रतिज्ञानं मया सत्यं कृतम्, तेन सत्यव्रतत्वादिना जात्य्-उचितम् एवास्तु तथा ? अस्य विश्वस्यादि-वृक्षत्वं निरूपयन्तः सर्व-कारण-कारणत्वेन स्तुमः । किम् इति मत्स्यादि-साधारण्येन कृतावतारं ? हे नाथेत्य् अध्याहार्यम् । त्वं सत्त्वोपपन्नानि रूपाणि बिभर्षि, तथापि लोकस्य क्षेमाय य आत्मा भवान् एव, न तथा अंश-भूतोऽसि, न केवलं जगतः क्षेमाय, अवबोधे च । आत्मा त्वम् एव अवबोधो ज्ञानं यस्मात् तस्मिन् । अवबोधे भक्ति-रसे त्वम् एव । अयं भावः—यथा त्वयि भक्ति-रसो रस्यताम् एति, यथा च लोकानां क्षेमः स्वरूपान्तरेष्व् इति त्वम् एव सर्व-कारण-कारणं सर्वेश्वरेश्वर इति ॥२९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रूपाणि श्री-मत्स्यादि-मूर्तीर् अववोधैक-स्वरूप इति तत्-रूपाणाम् अपि तादृशत्वं सूचितम्, तद् एवाभिव्यञ्जयति—सत्त्वेति, सत्त्वं सत्ता-मात्रं ब्रह्म तद् उपपन्नानि सच्चिदानन्द-घनानीत्य् अर्थः । यद् वा, आत्मा स्वयम् एव विभर्षि, न तु माययेति सोऽर्थः समर्थित एव । क्षेमत्वे हेतुः—सत्त्वानि विविध-साधुता तद् युक्तानि, अत एव सताम् अविच्चेदेन सुखकराणि, सतां सुखावहत्वेन खलानां च नाशनेनैव पालन-सिद्धेः । यद् वा, सत्त्वानां सात्त्विकानाम् उपपन्नानि हितार्थं समीपं प्राप्तानि । मुहुर् इत्य् अस्य विभर्षीत्य् अनेनान्वयः । ततश् च रूपाणां बाहुल्यं प्रत्येक-वैविध्यं च वोध्यते । यद् वा, सुखावहानीत्य् अनेनाभद्राणीत्य् अनेन चान्वयः । ततश् च तत्-तद् अविच्छेधः । यद् वा, मुहुः खलानां पुनः पुनर् दुष्टानाम् इति कदाचित् साधुत्वे सति तेषाम् अपि भद्राणि स्युर् इति भावः । अन्यत् तैर् व्याख्यातम् । यद् व, अववोध इति यथा यस्य यदा येन रूपेण क्षेमं स्यात् तज्-ज्ञानं तद् अनुसारेण विभर्षीति भावः । क्षेमाय हिताय, अभद्राणि-दण्डादिना दुःखकराणि, तथापि तेषां मध्ये केषाञ्चिन् मद-भञ्जनादिना केषाञ्चिन् मोक्ष-दानेन च हितं सिध्येद् एव, पक्षान्तरे च, न केवलं तान्य् एव, जगद् धितार्थम् अन्यान्य् अपि विविधारि रूपाणि प्रकटयसीत्य् आहुः—विभर्षीति । अर्थः स एव ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अवबोध-रूप आत्मा सर्व-मूल-स्वरूपः श्री-देवकीनन्दनाख्यस् त्वम् एव सत्त्वेन सच् चिद् आनन्द-घनत्वेन उपपन्नानि श्रौत-पुराणादि-वाक्य-युक्ति-सिद्धानि रूपाणि पुरूषाख्यादीनि मुहुर् बिभर्षि जगत् सृष्टिं प्रतिघत्से प्रकटयसीत्य् अर्थः । अतो देवकि-लक्षण-निज-शक्ति-द्वारा प्राकट्यात् तव तन् नन्दनत्वे\ऽपि तादृशत्वं च न व्याहन्यत एवेति भावः लोकक्षेमार्थत्वे हेतुः सुखेत्यादि सत्-पालन-खल-दण्डाभ्याम् एव तत् सिद्धेः खलानाम् अपि दुष्ट-कर्मतो निवृत्तेः सन्तो\ऽत्र दर्ममर्यादा-कारकाः खलास् तल्लोपका इति अन्यत् तैः । यद् वा त्वम् एक एवास्येत्याद् आवेव श्री-देवकी-नन्दन-रूपस्यैव तस्य तादृशत्वं निर्धार्येदम् एवावतार्यं तेषां नाना-रूपाणाम् प्रयोजनम् आहुः—बिभर्षीति । तद् एवं सर्वेषाम् एव त्वद् रूपाणां तदृशत्वे सिद्धे किम् उत स्वयं भगवतस् तवेति भावः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : बिभर्षीति लोक-दृष्टिं प्रतिधत्से प्रकटयस इत्य् अर्थः । अतो देवकी-लक्षण-निज-शक्ति-द्वारा तव प्राकट्येन तत्-पुत्रत्वेऽपि तादृशत्वं न व्याहतम् इति भावः । न केवलं पालनार्थं, किन्तु भक्त-जनानां स्वानुभवानन्दावेशार्थम् अपि रूपं बिभर्षि येनोत्तीर्यमाणम् उत्तीर्णं च भवाब्धिं जानन्ति तत्-संसर्गेणान्येऽपि तादृशा न भवन्तीत्य् आहुः ॥२९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्ये ऽपि मत्स्य-कूर्मादयो बहवस् त्वद्-अवताराः सन्तीत्य् आहुः—बिभर्षि इति । अवबोधः चिद्-घन-रूपः । सत्त्वोपपन्नानि शुद्ध-सत्त्व-स्वरूपाणि खलानांअभद्राणि अभद्र-कराणि ॥२९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अवतारान्तरैरप्यन्यदापि त्वं विश्वरक्षां कृतवानसीत्याह बिभर्षीति । अवबोधश्चिदेकरस आत्मा विभुस्त्वं रूपाणि मत्स्यकूर्मवराहादीनि बिभर्षि प्रकटयसि किमर्थं? लोकस्य क्षेमाय रक्षणाय । कीदृशानि ? सत्त्वेन निरतिशयेन बलेनोपपन्नानि । सतां सुखावहानि । खलानामभद्राणि दुःखावहानीति अधुनापि तथा कुर्विति भावः ॥२९॥
॥ १०.२.३० ॥
त्वय्य् अम्बुजाक्षाखिल-सत्त्व-धाम्नि
समाधिनावेशित-चेतसैके ।
त्वत्-पाद-पोतेन महत्-कृतेन
कुर्वन्ति गोवत्स-पदं भवाब्धिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलम् एतावद् भक्तानां मोक्षार्थम् अपीत्य् आहुः—त्वयीति । त्वयिसमाधिनाआवेशित-चेतसा निमित्तेन त्वत्-पाद-पोतेन आश्रितेन । एके मुख्या विवेकिनः । महद्भिः कृतेन सेव्यतया संपादितेन । यद् वा, इदम् अपि मायामयम् इत्य् अनादरं परित्यज्येदम् एव महत्-सर्वोत्कृष्टम् इति मनसि कृतेन, बहुमतेनेत्य् अर्थः । भवाब्धिं तुच्छी-कुर्वन्ति । अनायासेनैव भजनानुनिष्पादिनी तेषां मुक्तिर् इत्य् अर्थः ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतावत् सत्पालनं स्वलहननमात्रम् एव । किन्तु भक्तानां मोक्षार्थम् अपीति त्वयीति पद्येनाहुः पादाव् एव पोतो वहित्रं तेन अभेद-रूपकेण पादयोर् बहित्रत्वम् । पोतः शिशौ वहित्रे च इति मेदिनी । कृतेनेत्य् उक्तेः कृत्रिमस्य मायामयत्वं स्याद् इत्य् आह—यद्वेति । इत्य् अर्थः इति तात्पर्यम् । भवस् संसार एवाब्धिस् तं यथा वत् सचरण-भर-कृत-निम्न-स्थित-जलमयत्नेन तरन्ति तथा भवाब्धिम् अपीत्य् आह—तुच्छीकुर्वति । भवाब्धेर् अस्तित्वम् अपि न जानन्तीति भावः । भवः क्षेमेशसंसार-सत्तासु प्राप्ति-जन्मनोः इति मेतिनी । मुक्तिर् इत्य् अर्थ इति भावः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इमम् एवार्थम् अन्वय-व्यतिरेकाभ्यां परात्परत्वेन प्रपञ्चयति—त्वयीत्य् आदि बहुभिः । हे अम्बुजाक्ष ! अखिल-सत्त्व-धाम्नि अखिलानि सर्वे सत्त्व-रूपावतारास् तेषां धाम्नि बीज-भूते त्वयीत्य् आदि । यद् वा, हे अम्बुजाक्ष ! अखिलानां सत्त्वानां सत्त्वावताराणां धाम्नि आश्रये ॥३०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वद् भक्तानां च मुमुक्षूणाम् अप्य् अनायासेन स्वयं संसारोत्तरणार्थम् अन्य-तारणार्थं च विभर्षीत्य् आहुः—त्वयीति द्वाभ्याम् । हे अम्बुजाक्षेति परम-सौन्दर्यम् उद्दिष्टम् । अयं समाधिना चेतस आवेशे हेतुः । किं च, अखिलानां सत्त्वानां जीवानां धाम्नि आश्रये । यद् व, सत्त्वानां साधुत्वानाम् आस्पदे । किं वा, , सम्पूर्ण-ब्रह्म-मूर्ताव् इत्य् अर्थः । अमलेति पाठे आद्ये पक्षे—अमले सत्त्व-धाम्नि, द्वितीये—अमलानां सत्त्वानाम्, तृतीये—विशुद्ध-सत्त्वं केवल-सत्त्वरूपं ब्रह्मैवेति । एवं सर्व-सद्-गुणादिकम् उक्तम् ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्तु तावत् त्वद् रूपाविर्भाव-समय-गतानां वार्तां अन्यद् आपि मनो-मात्रेणापि—लब्धत्वद् आश्रयाणाम् अनायासेनाखिल-संसार-दुःख-नाशः परम-सुख-रूपत्व-प्राप्तिश् च भवति तत् प्रसङ्गेनान्येषाम् अपि तादृशत्वं संपद्यत इत्य् आहुः त्वयीति द्वाभ्यां परम-सुखात्मके तत् पारतीरायमाने त्वयि हे अम्बुजाक्ष्तेति परम-सौन्दर्यम् उद्दिष्टम् अयम् आवेशे हेतुः किं च अखिलस्याखण्डस्य सत्त्वस्य चिच् छक्ति-वृत्ति-विशेषाचिन्त्यापरिमित-सर्व-सद्-गुणात्मक-त्वदीय-स्वरूप-सुखाभिव्यञ्जक-शुद्ध-सत्त्वस्य धाम्नि आश्रये अमलेति-पाठे तस्य माया-मल-राहित्येन यत् शुद्ध-सत्त्व-संज्ञतं तद् एव साक्षाद् उक्तम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वयीति । हे अम्बुजाक्ष! इति सौन्दर्यं व्यञ्जितम् अखिलसत्त्वधाम्नीति अप्राकृतसत्त्वहेतुकनिरतिशयानां न गुणा त्वं प्राकृतसत्त्वस्य खण्डत्वेन सातिशयत्वात् परिमितकार्यत्वाच् च अमलेति पाठे प्रसिद्धसत्वाख्यानेनापि तादृशत्वं व्यक्तं तादृशे त्वयि भवसमुद्रपारपरमसुखदद्वीपायमाने महत्कृतेन परमादरविषयीकृतेन त्वत्पादेनैव पोतेन आवेशितं प्रवेशितं तच्चेतः तेन भवाब्धिं गोवत्सपदं कुर्वन्ति तदानन्देन तदस्तित्वमपि न जानन्तीत्य् अर्थः ।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इमम् अर्थं प्रपञ्चयति—त्वय्य् अम्बुजाक्षेत्य् आदि बहुभिः । हे अम्बुजाक्ष ! एके मुख्याः सात्वता इति यावत् त्वयि आवेशिते तच्-चेतसा भवाब्धिं गो-वत्स-पदं कुर्वन्ति । कीदृशे ? अखिलानां सत्त्वानां सत्त्व-मूर्तीनाम् अवताराणां धाम्नि आश्रये, बीज-भूत इति यावत् । अतस् त्वं परात्पर एवासीति भावः ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षेमायेत्य् उक्तम् । तद् एव क्षेमं वास्तवम् अतिव्यञ्जयन्ति—त्वयीति । खिलं निकृष्टं सत्त्वं गुणात्मकं अखिल-सत्त्वं विशुद्ध-सत्त्वं निर्गुणं धाम स्वरूपं यस्य तस्मिन् । "अमल-सत्त्व-" इति च पाठः समाधिना पृथिव्याम् अवतीर्णस्य तव रूप-गुण-लीलादि-ध्यानातिशयेन त्वयावेशितं यच् चेतः, तेन हेतुना प्राप्तेन त्वत्-पाद-पोतेनमहत्-कृतेन महद्भिर् भवाब्धेः पोत-तुल्यीकृतेनेत्य् अर्थः । गोवत्स-पदं कुर्वन्ति भवाब्धेर् अस्तित्वम् अपि न जानन्तीत्य् अर्थः ॥३०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सतां सुखावहानीत्येतद्विवृणोति त्वयोति । अखिलसत्त्वानां देवमानवादिसमस्तप्राणिनां धाम्नाश्रये त्वयि समाधिना त्वद्दिव्यचरितादिनिदिध्यासनेनावेशितं यच्चेतस्तेन हेतुना लब्धेन त्वत्पादपोतेनैके वैष्णवा अग्रे भवाब्धिं गोवत्सपदं तद्वर्तिजलचुलूकमिव कुर्वन्ति तदस्तित्वं न जानन्तीति भावः । महत्कृतेन महद्भिस्तत्तया सम्पादितेन ॥३०॥
॥ १०.२.३१ ॥
स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीमम् अदभ्र-सौहृदाः ।
भवत्-पदाम्भोरुह-नावम् अत्र ते
निधाय याताः सद्-अनुग्रहो भवान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तेन पोतेन पूर्वे चेत् पारं गतास् तर्हीदानीन्तनानां का गतिः ? तत्राहुः—स्वयम् इति । अयम् अर्थः—हे द्युमन् स्व-प्रकाश ! त्वत्-पाद-पोत-सामीप्य-मात्रेण भवाम्बुधौ वत्स-पद-मात्रे जाते, अतस् तन्-निरपेक्षं स्वयम् एवान्येषां भीमंदुस्तरम् अपि भवार्णवंसमुत्तीर्य भवत्-पदाम्भोरुह-रूपां नावमत्रैव निधाय । भक्ति-मार्ग-संप्रदायं प्रवर्त्येत्य् अर्थः । पारं याताः । तत् किं ? यतोऽदभ्र-सौहृदाः सर्व-भूतेष्व् अतिप्रीति-युक्ताः । अतस् तेऽन्येषां तरणाय निधायेति । कथं मत्-पाद-पोत-श्रवण-मात्रेण तीर्णाः ? अत उक्तम्—भवान् सद्-अनुग्रहः सतो भक्तान् अनुगृह्णातीति ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते तु मुक्ता अन्येषां का गतिर् इति शङ्कते—नन्व् इति । तेन त्वत्-पाद-रूपेण । पारं गताः मुक्ताः । इदानीन्तनानाम् आधुनिकानां का गतिः कथं मोक्षः ? तत्र इदानीन्तन-मोक्षे स्वयम् इति पद्येन । न केवलं स्वयं मुक्ताः किन्त्व् अन्य-जन-मोक्षार्थम् उपायं कृत्वैव स्वयं मुक्तिम् इता इत्य् आह—अयम् अर्थ इति । ततो वत्स-पद-मात्रत्वात् । तन्-निरपेक्षं पोत-निरपेक्षम् । अन्येषाम् अभक्तानाम् । निधाय इत्य् अस्यायम् अर्थ इति बोधयतीत्य् अर्थ इत्य् अन्तेन न तु संस्थाप्येति, नि-पूर्वः स्थापने मतः इत्य् उक्तेः । तत्-सम्प्रदाय-प्रवर्तनम् । किं किम्-अर्थम् । अत्र किम् अव्ययं प्रश्ने, किं कुत्सायां वितर्के च निषेध-प्रश्नयोर् अपीति मेदिनी । यतो हेतोः ॥ अर्थान्तरम् आह—विश्वनाथस्य टीका ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् उच्चैस् तीर्त्वेति । वत्स-पद-मात्रता-करणेन कथञ्चित् तत्-तत्-सम्बन्धोऽपि निरस्तः—द्युमन्न् इति । तच् च तव कृपा-प्रकाशनाद् एवेति भावः । अन्यत् तैर् व्याख्यातम् । यद् वा, मोक्षाद्य्-अपेक्षकान् अपि भक्तांस् तान् न कथञ्चित् कदाचिद् अपि त्वम् उपेक्सास इत्य् आहुः—सन् सत्य उत्तमो वानुग्रहो यस्य सः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् उच्चैस् तीर्त्वेति । वत्स-पद-मात्रता-करणेन नावस् तीतीर्षोश् च चेष्टा-मात्रं निरस्तं—द्युमन्न् इति । तच् च तव प्रकाश-स्वभावाद् एवेति भावः । अत्र पूर्वत्र च पादादि-शब्दस्य साधन-लक्षण-भक्तौ तात्पर्यम् अत उक्तम् अत्र निधायेति । अन्यत् तैः । तत्र कथं मत्-पादेत्यादौ ज्ञानं विनेति शेषः । यद् वा, एवं तेषाम् एव तत्-तारण-कारणत्वे हेतुः सन्त एवानुग्रह-रूपा यस्येति ॥३१॥
जीव-गोस्वामी (भक्ति-सन्दर्भः १८०) : अथ भगवत्-कृपैव तत्-साम्मुख्ये प्राथमिकं कारणम् इति च गौणम् । सा हि संसार-दुरन्तानन्त-सन्ताप-सन्तप्तेष्व् अपि तद्-विमुखेषु स्वतन्त्रा न प्रवर्तते, तद्-असम्भवात् । कृपा-रूपश् चेतो-विकारो हि पर-दुःखस्य स्व-चेतसि स्पर्शे सत्य् एव जायते । तस्य तु सदा परमानन्दैक-रसत्वेनापहत-कल्मषत्वेन च श्रुतौ जीव-विलक्षणत्व-साधनात् । तेजो-मालिनस् तिमिरायोगवत् तच्-चेतस्य् अपि तमो-मय-दुःख-स्पर्शनासम्भवेन । तत्र तस्या जन्मासम्भवः । अत एव सर्वदा विराजमाणेऽपि कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थे तस्मिंस् तद्-विमुखानां न संसार-सन्तापाः सन्ति । अतः सत्-कृपैकावशिष्यते । सन्तोऽपि तदानीं यद्यपि सांसारिक-दुःखैर् न स्पृश्यन्त एव, तथापि लब्ध-जागराः स्वप्न-दुःखवत्त्वे कदाचित् स्मरेयुर् अपीति, अतस् तेषां संसारिकेऽपि कृपा भवति, यथा श्री-नारदस्य नलकूवर-मणिग्रीवयोः । तस्मात् प्रस्तुतेऽपि संसारिक-दुःखस्य तद्-धेतुत्वाभावात् । परमेश्वर-कृपा तु स एवात्र मम शरणम् इत्य्-आदि-दैन्यात्मिका-भक्ति-सम्बन्धेनैव जायते, यथा गजेन्द्रादौ व्यतिरेके नारक्यादौ । भक्तिर् हि भक्त-कोटि-प्रविष्ट-तद्-आर्द्रीभावयितृ-तच्-छक्ति-विशेष इति विवृतं विवरिष्यते च । दैन्य-सम्बन्धेन च साध्व् इयम् उच्छलिता भवतीति तत्र तद्-आधिक्यम् । तस्माद् या कृपा तस्य सत्सु वर्तते, सा सत्-सङ्ग-वाहनैव वा, सत्-कृपा-वाहनैव वा सती, जीवान्तरे सङ्क्रमते, न स्वतन्त्रेति स्थितम् । तथैव चाहुः—स्वयम् इति ।
हे द्युमन् स्व-प्रकाश ! भवत्-पदाम्भोरुह-लक्षणा या नौर् भवार्णव-तरणोपायस् ताम् अत्रभवार्णव-पारे निधाय उत्तरोत्तर-जनेषु प्रकाश्येत्य् अर्थः । ननु कथं तां न स्वयं प्रकाशयामि ? कथम् इव तेषाम् अपेक्षा ? तत्र सद्भिर् एव द्वार-भूतैर् अन्यान् अनुगृह्णाति यः, स सद्-अनुग्रहो भवान् इति । यद् वा, सन्त एवानुग्रहो यस्य सः । तवानुग्रहो यः प्रापञ्चिके चरति, स तद्-आकारतयैव चरति, नान्य-रूपतयेत्य् अर्थः । तथोक्तं श्री-रुद्र-गीते—
अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर् > अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् । > भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां > स्यात् सङ्गमोऽनुग्रह एष नस् तव ॥ [भा।पु। ४.२४.५८] इति ।
सत्स्व् अनुग्रहो यस्येति व्याख्यानेऽपि तद्-विमुखेष्व् असत्सु तवानुग्रहो नास्तीति प्राप्तेः सद्-द्वारैव तत् प्रकाशनम् उचितम् इत्य् एवायाति । तद् एवं—
जायमानं हि पुरुषं यं पश्येन् मधुसूदनः । > सात्त्विकस् तु स विज्ञेयो भवेन् मोक्षे च निश्चितः ॥ [म।भा। > १२.३३६.६८]
इति मोक्ष-धर्म-वचनम् अपि सत्-सङ्गानन्तर-जन्म-परम् एव बोद्धव्यम् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वम् इत्य् अत्र पूर्वत्र च पाद-शब्दस्य साधन-लक्षणायां तद्-भक्ताव् एव तात्पर्यं तत्र निधायेति टीकां च भक्ति-मार्गं प्रवर्त्येत्य् अर्थः । इत्य् एषा भवापवर्गेत्य् अस्य व्याख्यायाम् अपि स्वयम् ॥३१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वत्-पाद-पोताश्रयण-मात्रेणैव भवाब्धौ गोष्पद-तुल्य जाते, वैष्णवा भवाब्धिम् अजानन्त एव पद्भ्याम् एवोल्लङ्घ्यन्तीत्य् आहुः—स्वयम् इति । तरण-साधन-निरपेक्षम् एव अन्यैः सुदुस्तरम् अपि भीमम् अपि समुत्तीर्ययाताः । द्युमन् हे सूर्य ! इति त्वं येषाम् अन्तःकरणे नोदेषि, तेषाम् एव तमः-पुञ्ज-रूपः संसारोऽर्णव-तुल्यो भीमो दुस्तरश् च भवति, प्रेम-भक्त्य्-उदय-पर्वते त्वय्य् उदिते तु समस्त-तमसि स्वयम् एव नष्टे सति स्वयम् एव संसार-तरणं भवेत् । अतो भवत्-पदाम्भोरुह-नावम् अत्रैव कूले निधायैव भक्ति-मार्गं सम्प्रदायं प्रवर्त्यैव याताः । ते यथाऽन्येऽप्य् एवं तरेयुर् इत्य् अभिप्रायेणेत्य् उत्प्रेक्ष्यत इति भावः । अत्र संसारस्य सामस्त्येन नष्टत्वेऽपि वयं संसारिण एवेति भक्तानां मिथ्याभिमान एव गोवत्स-पदाकारः संसारः । यथा च गोवत्स-पदम् अलं पावनं श्लाघनीयं च भवेत्, तथैव तेषां सोऽभिमानोऽप्य् अन्येषां भक्त-मानिनाम् अभिमान-रोग-हरोऽभिज्ञ-जनैः श्लाघनीयश् च भवतीति भावः । यतः सत्सु वैष्णवेष्व् एव अनुग्रह एतादृशो नान्येषु यस्य सः ॥३१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु महान्तस् तत्-पाद-पोतेन तरन्ति, स कथम् अन्यैर् लभ्यः ? तत्राह—स्वयम् इति । हे द्युमन् ! विज्ञान-घन-मूर्ते ! उपायान्तरैः सुदुस्तरं भीमं भवार्णवं ते स्वयं समुत्तीर्य भवत्-पदाम्भोरुह-रूपं नावम् अत्र सम्प्रदाय-रूपेण निधाय तत्-पारं त्वद्-धाम याताः, यतस् तेऽदब्ध्रम्ं बहु-सौहृदं भूतेषु दया येषां तादृशाः । ननु नाविकं विना कथं नावश् चालनं ? तत्राह—सत्स्व् अनुग्रहो यस्य स भवान् त्वम् एव । सद्भिः सम्प्रदायः चालयेद् इति भावः ॥३१॥
॥ १०.२.३२ ॥
येऽन्येऽरविन्दाक्ष विमुक्त-मानिनस्
त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु विवेकिनां किं मद्-भजनेन मुक्ता एव हि ते ? तत्राहुः—येऽन्ये इति । विमुक्त-मानिनो विमुक्ता वयम् इति मन्यमानाः । त्वयि अस्तो निरस्तोऽत एव आसन् यो भावस् तस्मात् । भक्तेर् अभावाद् इत्य् अर्थः । न विशुद्धा बुद्धिर् येषां ते, तथा । यद् वा, त्वयि अस्त-भाः इति छेदः । अस्त-मतयो वादेष्व् एव विशुद्ध-बुद्धयः । कृच्छ्रेण बहु-जन्म-तपसा परं पदं मोक्ष-संनिहितं सत्-कुल-तपः-श्रुतादि । पतन्ति विघ्नैर् अभिभूयन्ते । न आदृतौ युष्मद्-अङ्घ्री यैस् ते ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुक्तानां भजनम् अकिञ्चित्करम् इति शङ्कते—नन्व् इति । विवेकिनां ज्ञानिनाम् । ते विवेकिनः । तत्र भजनाकरणे भावो भक्तिः । इत्य् अर्थ इति तु सत्तादि-रूपो भाव-पदार्थोऽत्र न ग्राह्य इत्य् आह—किं च पद-च्छेदे नार्थाधिक्यम् आह—यद् वेति । छेद इति । अस्ता भा मतिर् येषां ते तथा भाति दीप्यते पुमान् अनयेति भा बुद्धिः । अधोऽर्वाक् तिर्यग्-योनौ श्व-शृगालादि-योनौ अरविन्दोऽन्धकारस् तद्-भिन्नेऽरविन्दः प्रकाशा ज्ञानम् इति यावत् । अधः-कारोऽरविन्दान्ध-तिमिरं तम उच्यते इत्य् उत्पलः । स एवाक्षिणी यस्य सोऽरविन्दाक्षस् तत्-सम्बुद्धौ, हे ज्ञान-लोचन ! ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-भक्तिं विना ब्रह्म-विदोऽपि सन्न्यासिनो विविध-दुःखं प्राप्नुवन्तीत्य् आहुः—य इति । हे अरविन्दाक्षेति दृष्टि-मात्रेण सर्व-ताप-हारित्वम् उक्तम् । तादृशेऽपि त्वयि । युष्मच्-छब्देन त्वदीयाश् च गृह्यन्ते ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, विनापि मत्-पदाश्रयं ज्ञानेनैव संसारोत्तरणादिकं भवेत्, किं तेन ? तत्राहुः—य इति । हे अरविन्दाक्ष इति दृष्टि-मात्रेण सर्व-ताप-हारित्वम् उक्तं, तादृशेऽपि त्वयि बहुत्व-पर्यवसित्वेन युष्मत्-पदेन तदीयाश् च गृह्यन्ते, अन्यत् तैः तत्र श्रुतादीत्य् आदि-ग्रहणात् मनन-निदिध्यासनादि
यद् वा, प्रथमतस् तावत् त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः, तथापि ज्ञान-मार्गम् आश्रित्य विमुक्त-मानिनो देह-द्वयातिरिक्तत्वेनात्मानं भावयन्तः । ततः, क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसां [गीता १२.५] इत्य्-आद्य्-उक्तेः कृच्छ्रेण परं पदं जीवन्-मुक्ति-रूपम् आरुह्य प्राप्यापि ततोऽधः पतन्ति भ्रश्यन्ति । कदेत्य् अपेक्षायाम् आहुर्—अनादृत्येति । यदीति शेषः । तेषां भक्ति-प्रभावस्याननुवृत्तेर् अबुद्धि-पूर्वकस्य त्वद्-अनादरस्य निवर्तकाभावात् । तथापि दग्धानाम् अपि पाप-कर्मणां महा-शक्ति-श्री-भगवत्-पाद-पद्मावज्ञया पुनर् विरोधात् । तथा च वासना-भाष्योत्थापितं भगवत्-परिशिष्ट-वचनम्—
जीवन्-मुक्ता अपि पुनर् बन्धनं यान्ति कर्मभिः । > यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥
अत एव तत्रैव—
जीवन्-मुक्ताः प्रपद्यन्ते क्वचित् संसार-वासनाम् । > योगिनो वै न लिप्यन्ते कर्मभिर् भगवत्-पराः ॥ इति ।
तथा रथयात्रा-प्रसङ्गे विष्णु-भक्ति-चन्द्रोदयादि-धृतं पुराणान्तर-वचनम्—
नानुव्रजति यो मोहाद् व्रजन्तं परमेश्वरम् । > ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥ इति ।
तद् एवं भक्ति-सोपान-ज्ञान-मार्गे, तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते [भा।पु। ३.२८.३४] इत्य्-आदौ, तत्र लब्ध-पदं चित्तम् आकृष्य व्योम्नि धारयेत् [भा।पु। ११.१४.४४] इत्य्-आदौ च यत् तद् ध्यान-त्यागो धारणान्तरं सिद्धिश् च श्रूयते, तत्रानादरो न मन्तव्यः, किन्तु ब्रह्म-कैवल्येच्छा-संस्कार-वशाच् छैथिल्यम् एव, यथा निद्रा-संस्कार-वशाद् विषयाविष्टानां विषये तद् दृश्यते, तत्र श्री-भगवता वञ्चना च क्रियते इति ब्रह्मण्य् एव मग्नता स्यात् ।
अस्त्व् एवम् अङ्ग भजतां भगवान् मुकुन्दो > मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ [भा।पु। ५.६.१८] इत्य् > आदेः ।
अनादरे तु नरकोऽपि श्रूयते, नातः परं परम यद् भवतः स्वरूपं [भा।पु। ३.९.३] इत्य्-आदिषु, योऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः [भा।पु। ३.९.४४] इत्य्-आद्य्-उक्तेः । तस्मात् सर्वं समञ्जसम् ॥३२॥
जीव-गोस्वामी (भक्ति-सन्दर्भः १११) : तद् एवं श्री-भगवद्-उक्तेर् एव सर्वोर्ध्वम् अभिधेयत्वं स्थितम्—
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । > कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥ > योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । > श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६.४६-४७] > इति ।
अत्र योगिनाम् अपि सर्वेषाम् इति च पञ्चम्य्-अर्थ एव षष्ठी, तपस्विभ्य इत्य्-आदिना तथैवोपक्रमाद् भजतः सर्वाधिक्य एव विख्यातस्य । सर्व-शब्दोऽत्र देवम् एवापरे यज्ञं योगिनः पर्युपासते [गीता ४.२५] इत्य्-आदिना पूर्व-पूर्वोक्तं न सर्वान् उपायिनो गृह्णातीति ज्ञेयम् ।
तद् एवम् अभक्त-निन्दा-श्रवणात् श्रीमद्-भगवद्-भक्तेः सर्वेषु नित्यत्वम् अपि सिद्धम् । उक्तं च श्री-भगवता उद्धवं प्रति भिक्षोर् धर्मः शमोऽहिंसा तप ईक्षा वनौकसः [भा।पु। ११.१८.४४] इत्य्-आदौ, सर्वेषां मद्-उपासनं [भा।पु। ११.१८.४३] इति । तथा नारदेन च सार्ववर्णिक-स्वधर्म-कथने, श्रवणं कीर्तनं चास्य [भा।पु। ७.११.१०] इत्य्-आदि ।
तथा च महाभारते—
मातृवत् परिरक्षन्तं सृष्टि-संहार-कारकम् । > यो नार्चयति देवेशं तं विद्याद् ब्रह्म-घातकम् ॥ इत्य्-आदि ।
श्री-गीतोपनिषत्सु—
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । > माययापहृतज्ञाना आसुरं भावम् आश्रिताः ॥ [गीता ७.१५] इत्य्-आदि ।
आग्नेये विष्णु-धर्मे च—
द्विविधो भूत-सर्गोऽयं दैव आसुर एव च । > विष्णु-भक्ति-परो दैव आसुरस् तद्-विपर्ययः ॥
अन्यद् अप्य् उदाहृतम्— विप्राद् द्वि-षड्-गुण-युताद् अरविन्द-नाभ-पादारविन्द-विमुखात् [भा।पु। ७.९.१०] इति श्वपचोऽपि महीपालः इत्य्-आदि च ।
तथा गारुडे—
अन्तं गतोऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि । > यो न सर्वेश्वरे भक्तस् तं विद्यात् पुरुषाधमम् ॥ [ग।पु। > १.२३१.१७]
बृहन्-नारदीये—
हरि-पूजा-विहीनाश् च वेद-विद्वेषिणस् तथा । > गो-द्विज-द्वेष-निरता राक्षसाः परिकीर्तिताः ॥ [ना।प। १.३७.५] इति > ।
अपरं च—येऽन्य इति । प्रथमतस् तावत् त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः ।
धर्मः सत्य-दयोपेतो > विद्या वा तपसान्विता । > मद्-भक्त्यापेतम् आत्मानं > न सम्यक् प्रपुनाति हि ॥ [भा।पु। ११.१४.२२] इत्य्-आद्य्-उक्तेः ।
तथा ज्ञान-मार्गम् आश्रित्य विमुक्त-मानिनो देह-द्वयातिरिक्तत्वेनात्मानं भावयन्तः, ततः— क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसां [गीता १२.५] इत्य्-आद्य्-उक्तेः कृच्छ्रेण जीवन्-मुक्ति-रूपाम् आरुह्य प्राप्यापि ततोऽधः पतन्ति भ्रश्यन्ति । कदेत्य् अपेक्षायाम् आह—नादृतेति । यदीति शेषः । तेषां भक्ति-प्रभावस्याननुवृत्तेर् अबुद्धि-पूर्वकस्य त्वद्-अनादरस्य निवर्तकाभावात् । तथापि दग्धानाम् अपि पाप-कर्मणां महा-शक्ति-श्री-भगवत्-पाद-पद्मावज्ञया पुनर् विरोधात् । तथा च वासना-भाष्योत्थापितं भगवत्-परिशिष्ट-वचनम्—
जीवन्-मुक्ता अपि पुनर् बन्धनं यान्ति कर्मभिः । > यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥
अत एव तत्रैव—
जीवन्-मुक्ताः प्रपद्यन्ते क्वचित् संसार-वासनाम् । > योगिनो वै न लिप्यन्ते कर्मभिर् भगवत्-पराः ॥ इति ।
तथा रथयात्रा-प्रसङ्गे विष्णु-भक्ति-चन्द्रोदयादि-धृतं पुराणान्तर-वचनम्—
नानुव्रजति यो मोहाद् व्रजन्तं परमेश्वरम् । > ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥ इति ।
एवम् उक्तं यो नादृती नरक-भाग्भिर् असत्-प्रसङ्गैः [भा।पु। ३.९.४] इति । अत एवोपदिष्टम्—
तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव । > ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावतः ॥ [भा।पु। > ११.१९.५]
तस्मात् सुतराम् एव सर्वेषां श्री-हरि-भक्तिर् नित्येत्य् आयातम् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : येऽन्य इति ॥३२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैष्णवानाम् एव भवार्णवो गोष्पदीभवति ये तु तव विशुद्ध-सत्त्वमय-वपुषि माया-भानवन्तो ज्ञानिनस् तेषां तु सुदुस्तरो भीम एव ।
कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां > षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति । > तत्त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं > कृत्वोडुपं व्यसनम् उत्तर-दुस्तरार्णम् ॥ [भा।पु। ४.२२.४०]
इति यथा सनत्-कुमारेणोक्तम् । क्लेशोऽधिकतरस् तेषां [गीता १२.५] इति यथा भगवतापि, नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते ज्ञानम् अलं निरञ्जनं [भा।पु। १.५.२२] इति यथा नारदेनापि तथैव देवा अप्य् आहुः—ये इति ।
अन्ये उक्त-लक्षणेभ्यस् त्वद्-अनुगृहीतेभ्यः सद्भ्यो भिन्नाः । अरविन्दाक्षेति तत्-कृपावलोकन-माधुर्याननुभविन इति भावः । विमुक्त-मानिन इति त्वद्-भक्ता यथा संसारोत्तीर्णा अपि संसारि-मानिनः, तथा एवैते संसार-मध्य-पतिता अपि विमुक्त-मानिनः । तत्र हेतुः—त्वय्य् अरविन्दाक्षे मधुराकारे अस्त-भावात् माया-शाबल्य-मननेन प्रीत्य्-अभावात् । अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितं [गीता ९.११] इति भगवद्-उक्त-मौढ्याद् अविशुद्ध-ज्ञानाः कामादि-निर्जय-मूलकान्तः-करण-शुद्धिमत्त्वाद् उत्पन्नम् अपि ज्ञानं न विशुद्धिम् इत्य् अर्थः । तद् अपि कृच्छ्रेण तपः-शम-दमादि-कृच्छ्र-जनितेन विज्ञानेन परं पदं जीवन्-मुक्तत्व-दशायाम् आरुह्य एतेषां गुणी-भूत-भक्त्या युक्तत्वं ज्ञेयम्, तां विना परम-पदारोहासम्भवात् । श्रेयः-सृतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति [भा।पु। १०.१४.४] इत्य्-आदेस् तां विना ज्ञानस्य मरीचिका-जलायमानत्वात् ततोऽधः पतन्ति ।
ननु, भक्ति-सत्त्वे कथम् अधः पतन्ति ? तत्राहुः—न आदृतौ मायिकत्व-बुद्ध्या युष्मद्-अङ्घ्री यैस् ते । अयम् अर्थः—ज्ञानिनां ज्ञानाङ्ग-भूता भक्तिर् द्विविधा—भक्तिं विना ज्ञानं न सिद्ध्येद् इति शास्त्राज्ञयैव किञ्चिन्-मात्री-क्रियमाणा, भजनीय-भगवद्-विग्रहादिषु मायिक-बुद्ध्या वा अनादरवती आदर-रहिता च । आद्यया तेषां तपः-शम-दमादिमतां बहु-कालेनाविद्या-निरसनीं विद्याम् उत्पाद्य ब्रह्म-भूतत्व-दशायाम् उत्पाद्य सहसैवान्तर्धीयते, ते विमुक्त-मानिन एवोच्यन्ते, न तु वस्तुतो जीवन्-मुक्ताः, भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति भगवद्-उक्तेः । भक्तिं विना तत्-पदार्थस्यापरोक्षानुभवालाभात्, भगवद्-अपराध-सम्भवाच् च दग्धानाम् अपि कर्मणां पुनः प्ररोहाद् अधः पतन्ति च । यद् उक्तं रथयात्रा-प्रसङ्गे श्री-विष्णु-भक्ति-चन्द्रोदय-धृतं पुराण-वचनं—
नानुव्रजति यो मोहाद् व्रजन्तं जगद्-ईश्वरम् । > ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥ इति ।
वासना-भाष्योत्थापितं परिशिष्ट-वचनं च—
जीवन्-मुक्ता अपि पुनर् बन्धनं यान्ति कर्मभिः । > यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥ इति ।
द्वितीयया तु तेषां ब्रह्म-भूतत्व-दशाम् उत्पाद्य अविद्या-विद्ययोर् उपरामेऽप्य् अनुपरमन्त्या तत्-पदार्थ-साक्षात्कारम् अनुभाव्यमाना जीवन्मुक्ताः सिद्धा एव स्युः । यद् उक्तं—
ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति । > समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ > भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । > ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता १८.५४-५५] > इति ॥३२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अनीदृशास् तु विद्वांषोऽपि संसरन्तीति—येऽन्ये इति । हे अरविन्दाक्ष ये त्वद्-अनुगृहीतेभ्यः सद्भ्योऽन्ये य आत्मोपहतयास्मेति प्रजापत्य् उक्तम् अष्ट-गुणं स्वात्मानं विज्ञानं ब्रह्म चेद् वेद इत्य्-आदि-श्रीइ-निखिल-फलत्वेन जानन्तस्य समाधिना कृष्णेन परं पदं तद्-आत्म-वस्त्व् आरुह्य साक्षात्-कृत्य विमुक्ति-मानिनो जाताः, अस्माकं विमुक्तिर् इति स-गर्वाः सन्तो नादृत-युष्मद्-अङ्घ्रयः किम् अनेन साकारत्वाद् अनित्येनेति त्वच्-चरणौ नाद्रियन्ते, ते त्वयि सर्व-स्वामिन्य् अस्त-भावात् भाव-त्यागाद् वैमुख्याद् अविशुद्ध-बुद्धयो विषय-राग-कलुषित-धियः सन्तः, ततः पदात् कृच्छ्रारूढाद् अधः पतन्ति—
जीवन्-मुक्ता अपि पुनर् बन्धनं यान्ति कर्मभिः । > यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥ इत्य्-आदि-स्मृतिभ्यः > ।
तथा च पर-ब्रह्म-विग्रहस् त्वं, त्वां तथा जानन्तो मूर्खा एव जैव-स्वरूप-साक्षात्कारोऽपि त्वद्-उक्ति-साचिव्याद् एव, युक्त आसीत मत्-परः इत्य्-आदि इत्य्-आदि श्री-गीताभ्यः ॥३२॥
॥ १०.२.३३ ॥
तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः ।
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकप-मूर्धसु प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वदीयास् तु न कदाचिद् अपि पतन्तीत्य् आहुः—तथा नेति । विनायका विघ्न-हेतवस् तेषाम् अनीकानि स्तोमास् तानि पान्ति ये तेषां मूर्धसुविचरन्ति विघ्नान् जयन्तीत्य् अर्थः ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हरि-भक्तानां पतन-शङ्कैव, नेत्य् आहुः—त्वदीया इति । विनायकस् तु हेरम्बे तार्क्ष्ये विघ्नेऽजिने गुरौ इति हरि-दीक्षित इति । विघ्न-हेतव उपद्रव-हेतवस् ते तु विघ्ना एवम् एषां स्तोमाः समूहाः, स्तोमः स्तोत्रेऽध्वरे वृन्दे इति रुद्रः । इत्य् अर्थ इत्य् अस्य कोऽर्थः ? न हि विचरतेर् गत्य्-अर्थोऽत्र कार्य इति ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वदीयास् तु आत्म-तत्त्वादि-ज्ञानाभावेऽपि स्व-धर्म-परित्यागेऽपि कथञ्चित् पातकापातेऽपि नैव पतन्तीत्य् आहुः—तथेति । त्व्-अर्थे तावकाः कथञ्चित् त्वद्-आश्रितास् तु ये, ते सर्व एव क्वचित् कदाचिद् अपि मार्गाद् अपि किं पुनर् मृग्यात् [न पतन्ति] । तत्र हेतुम् आहुः—त्वयीत्य् आदिना । अभितो गुप्ता अत एव विघ्नादेर् निर्भयाः सन्तः । माधव ! हे लक्ष्मी-कान्त ! इति तेषां स्वत एव सम्पत्-सिद्धिर् अप्य् अभिप्रेता । यद् वा, मधु-कुलावतीर्णेति परम-कारुण्यम् । प्रभो ! हे सर्व-शक्ति-युक्त ! इति प्रभु-प्रभावात् तेषां तद् युक्तम् एवेति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, तथा तेन प्रकारेणाशुद्ध-बुद्ध्या कामादिना ये तावकास् तेऽपि न भ्रश्यन्ति, किन्तु त्वयि बद्ध-सौहृदाः सन्तस् त्वयाभिगुप्ता इत्य् अर्थः ।
विनायकानीकप-मूर्धसु विशेषेण चरन्ति, निर्भयत्वेन तान् एव महा-विघ्न-वर्गेशान् विघ्न-करणार्थम् आगतान् सोपानानीव कृत्वा श्री-वैकुण्ठ-पदम् आरोहन्तीत्य् अर्थः ।
यद् वा, वीनां पक्षिणां नायका मुख्याः, तेषाम् अनीकं पक्षि-राजत्वात् पातीति विनायकानीकपः श्री-गरुड-जातीय-गरुड-भेदः, तस्य मूर्धसु । बहुत्वं गौरवाद् विस्तीर्णत्वाद् वा, विचरन्ति श्री-वैकुण्ठ-लोक-प्रयाणार्थम् आरोहन्तीत्य् अर्थः । अन्यत् समानम् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वद्-रूपोपासकास् तु आत्म-तत्त्वादि-ज्ञानाभावेऽपि स्व-धर्म-परित्यागेऽपि कथञ्चित् पातकापातेऽपि नैव पतन्तीत्य् आहुः—तथेति । पूर्वार्थ-विरोधे यथा त्वं मूर्खस् तथाहं नेतिवत् । यद् वा, किं चेत्य् अर्थः । तावकाः कदाचित् त्वच्-चरणाश्रिता ये ते तु कदाचित् क्वचिद् अपि मार्गाद् अपि किं पुनर् मृग्यात् न पतन्ति, प्रत्युत त्वयि बद्ध-सौहृदाः प्राप्त-निश्चल-प्रेमाणः सन्तः, अत एव त्वया अभितो गुप्ताः सन्त इत्य्-आदि ।
माधव ! हे लक्ष्मी-कान्त ! इति तेषां स्वत एव सर्व-सम्पत्-सिद्धिर् अप्य् अभिप्रेता । यद् वा, मधु-कुलावतीर्णेति परम-कारुण्यम् । प्रभो ! हे सर्व-शक्ति-युक्त ! इति प्रभु-प्रभावात् तेषां तद्-युक्तम् एवेति भावः । अन्यत् तैः ।
यद् वा, तथा तेन प्रकारेणापि प्रथम-प्रवृत्तत्वात् कथञ्चिद् अनादृत-युष्मद्-अङ्घ्रित्वेनापि न भ्रश्यन्ति, किन्तु बद्ध-सौहृदाः सन्त इत्य् अर्थः ।
विनायकानीकप-मूर्धसु विशेषेण चरन्ति निर्भयत्वेन तान् एव महा-विघ्न-वर्गेशान् विघ्न-करणार्थम् आगतान् सोपानानीव कृत्वा श्री-वैकुण्ठ-पदम् आरोहन्तीत्य् अर्थः । तेषां भक्ति-विघ्ने ह्य् अनुतापः स्यात्, तेन च श्री-भगवतो महती कृपा स्याद् इति । अन्यत् समानम् ॥३३॥
जीव-गोस्वामी (भक्ति-सन्दर्भः १२१) : सर्वान्तराय-निवारकत्वम् आहुः—तथा नेति । पूर्वं येऽन्येऽरविन्दाक्ष [भा।पु। १०.२.३२] इत्य्-आदिना मुक्तानाम् अपि भगवद्-अनादरेण पारमार्थिको भ्रंश उक्तः । भक्तानां स नास्तीत्य् आह—तथेति । तथा पूर्वम् आरूढ-परम-पदत्वावस्थातोऽपि भ्रश्यन्ति, तथातावका मार्गात् साधनावस्थातोऽपि न भ्रश्यन्तीत्य् अर्थः । श्री-वृत्र-गजेन्द्र-भरतादीनां सज्-जन्मतो भ्रंशेऽपि भक्ति-वासनानुगति-दर्शनात् ।
मुक्ता अपि प्रपद्यन्ते पुनः संसार-वासनाम् । > यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥
तेषां तु पुनः संसारवासनानुगतेः । यतस् त्वयि बद्ध-सौहृदाः । सौहृदम् अत्र श्रद्धा । मार्गाद् इति साधकत्व-प्रतीतेर् एव । त्वद्-बद्ध-सौहृदत्वाद् एव त्वयेत्य् आदि । तथोक्तं—त्वां सेवतां सुर-कृताः [भा।पु। ११.४.१०] इत्य्-आदौ । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेत् [भा।पु। ११.२.३३] इत्य्-आदौ च ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, ज्ञानिन एव केवलं किम् इत्य् आक्षिप्यन्ते, भरतेन्द्रद्युम्न-चित्रकेत्व्-आदि-दृष्ट्या भक्ता अप्य् आक्षिप्यन्ताम् इत्य् अत आहुः—तथेति । यथा विमुक्त-मानिनोऽधः पतन्ति, तथा तावका मार्गात् भक्ति-योगान् न भ्रश्यन्ति, किम् उत मृग्यात् त्वत्त इत्य् अर्थः । यदि वा भ्रश्यन्ति, तदापि त्वयि बद्ध-सौहृदा एव भवन्ति । चित्रकेतु-भरतेन्द्रद्युम्नादीनां भ्रंशे सति, वृत्रादित्वे प्रेम्णः शत-गुणी-भाव-दर्शनात् भक्तानां भ्रंशोऽपि प्रेमाधिक्य-हेतुर् एव दृष्टः ।
यद् वा, तथा न भ्रश्यन्ति, यतो भ्रष्टत्वेऽपि त्वयि बद्द-सौहृदाः, न मे भक्तः प्रणश्यति [गीता ९.३१] इति प्रतिज्ञातवता ममोपकरिष्यतैव मत्-प्रभुणा ममायं भ्रंशः कृत इति त्वयि दृढ-विश्वस्त-मतयः । ततश् चाभितस् त्वया रक्षिताः । विनायकानां विघ्न-कारिणाम् अनीकानि स्तोमाः तानि पान्ति ये, तेषाम् अपि मूर्धसु विचरन्ति, तान् अभिभवन्तीत्य् अर्थः। यद् वा, तच्-चरणांस् तेऽपि भक्त्या स्व-मूर्धसु धारयन्तीत्य् अर्थः ॥३३॥6
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु मां भजन्तोऽपि केचिद् भ्रष्टा दृष्टाः किम् इति त एव तथोच्यन्ते ? तत्राह—तथा नेति यथा त्वद्-अङ्घ्र्य्-अवज्ञातारो भ्रश्यन्ति, तथा तावका नेति व्यतिरेको दृष्टान्तः । मार्गाद् अपि न किम् उत मृग्यात् त्वत्त इत्य् अर्थः । चेत् कदाचिद् भ्रश्यन्ति तदापि त्वयि बद्ध-सौहृदा एव तिष्ठन्ति—क्षिप्रं भवति धर्मात्मा [गीता ९.३२] इत्य्-आदि-त्वद्-उक्तेर् एव भरत-चित्रकेत्व्-आदीनां त्वद्-उक्तानां विभ्रंशेऽपि त्वयि सौहृद-वृद्धेः प्रत्ययाद् इति भावः । त्वयाभिगुप्ताः सन्तो विनायकानीकपानां विध्न-वृन्द-सेनापतीनां मूर्धसु विचरन्ति त्वत्-पक्षपातान् निर्भयाः सन्तो विघ्नान् विजित्य त्वां सम्भवन्तीत्य् अर्थः ॥३३॥
॥ १०.२.३४ ॥
सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेय-उपायनं वपुः ।
वेद-क्रिया-योग-तपः-समाधिभिस्
तवार्हणं येन जनः समीहते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
विशुद्धं सत्त्व-ब्रह्मादेः शरीरे संस्थितो हरिः ।
तेषाम् आदेश-मार्गेण वेदाद्यैर् अर्चयन्ति तम् ॥ इति भागवत-तन्त्रे > ॥३४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सतां सुखावहानि रूपाणि धारयसीत्य् उक्तम् । बिभर्षि रूपाणीति तत् केन प्रकारेण ? सुखावहत्वम् इत्य् अपेक्षायाम् आहुः—सत्त्वं विशुद्धम् इति । सत्त्वं वपुःश्रयत इत्य् अन्वयः । श्रेय-उपायनं कर्म-फल-दातृ । कथं ? येन वपुषा जनस् तवार्हणं पूजाम् ईहते करोति । कैः ? वेदाश् च क्रिया-योगाश् च तपश् च समाधिश् च, तैश् चतुर्-आश्रमैर् इत्य् अर्थः। वपुषोऽनाश्रयणेऽर्हणासम्भवान् न कर्म-फल-सिद्धिः स्याद् इति ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-सुखावहत्वं केन प्रकारेणेति सम्बन्धः । इत्य् अन्वय इति योजना वेद-शब्देन तद्-अभ्यासः चतुराश्रम-धर्मैः क्रमाद् ब्रह्मचारि-गृहस्थ-वनस्थ-यति-धर्मैर् वेदाभ्यासादिभिर् इत्य् अर्थ इत्य् आह—अर्हणासम्भवात् पूजनाभावात् ॥३४॥
क्द्- तद् एवाह—सत्त्वम् इति । सत्त्वं वपुर् इति सामानाधिकरण्यं स्थितौ निमित्ते श्रेयसि कैवल्ये उपायनम् उपाय-भूतम् । तदाह—वेद- इति । येन सत्त्व-वपुषाश्रितेन । जनस् तवार्हणं पूजां समीहते सम्यक् करोति । शुद्धस्य अविषयत्वात् सत्त्वोपहितं भजतीति भावः । क्रिया-योग इत्य् एकम् । ततश् च वेदादिभिश् चतुर्भिः क्रमाद् आश्रमिणः पूजयन्तीति चतुर्णाम् उक्तिः । यद् वा, वेदेन वेदिकाः । क्रियया पाञ्चरात्राः । योगेन प्रकृति-पुरुष-विवेकोपायेन साङ्ख्याः । तपसा तपस्विनः । शैवाः पाशुपताश् च । समाधिना पातञ्जलाः । सत्त्वोपाधेर् एव तत्-तच्-छब्दैस् तत्र तत्राभिधानम् इति प्राग् उक्तम् । पाञ्चैव मार्गाः । अतो मार्ग-पञ्चक-विषयत्वेन पञ्चानाम् उक्तिः ॥३४॥ [मु।फ। २.९]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्थितौ पालनार्थम् । तत्-प्रकारम् एवाहुः—शरीरिणां चराचराशेष-जीवानां श्रेय उपायनम् इति वेदादिभिः कृत्वा स्व-स्वधर्मार्पणेनेत्य् अर्थः । येन वपुषा हेतुना चतुराश्रम-वर्ती सर्वोऽपि जनः सम्यग् ईहते, स्वधर्मैः मनः-शुद्धेर् इति तेषाम् अर्हण-साधनतोक्ता । तत्र चतुर्-आश्रमिणाम् अर्हण-सिद्ध्या तत्-सम्बन्धिनाम् अन्येषां सर्वेषाम् एव तत्-सिद्धेर् युक्तम् एवोक्तं शरीरिणाम् इति । अन्यत् तैर् व्याख्यातम् ।
यद् वा, श्रेयसां सर्वार्थानाम् उप समीप एव अयनं प्राप्तिर् यस्मात् तत् । विशेषतश् च त्वद्-भक्ति-विस्तारकम् इत्य् आहुः—वेदेति । अन्यथा चतुर्-आश्रमिणां त्वद्-भक्त्य्-असिद्धेर् इत्य् अर्थः । यद् वा, श्रेयः सर्वम् एवोपायनम् उपढौकनं समर्प्य यस्मिन् तत् । कुतः ? येन वपुषा तच्-छ्री-मूर्त्य्-आदिना द्वारा वेदादिभिर् अर्पितैर् जनस् त्वद्-भक्तः सन् सर्वोऽप्य् आश्रमी तवार्हणं समीहते ।
यद् वा, श्रेयः प्रेम वैकुण्ठ-लोको वा । तस्योपायनं शीघ्र-प्रापकम् । कथं ? तद् आहुः—वेदेति स्वधर्मार्पणेन श्री-मूर्ति-द्वारा तद्-अर्हण-सम्पत्त्या श्रेयः-सिद्धेर् इत्य् अर्थः । अथवा, तावकत्वादिकं तु सर्वं त्वया सत्त्व-गुणे प्रकाशिते तस्य् एव सिध्येद् इत्य् आहुः—सत्त्वम् इति । सत्त्व-गुणं श्रयतेऽधितिष्ठति प्रकाशयतीत्य् अर्थः । येन सत्त्वेन शरीरिणां देहाभिमानिनाम् अपि ।
किं वा, सर्व-जीवानां वपुः श्रेय उपायनं सर्वार्थ-प्रापकं भवति । कथं ? तद् आहुः—वेदेति । यद् वा, येन च स्वधर्म-कृत् सन् सर्वाश्रमी त्वद्-भक्तः स्याद् इत्य् आहुः—वेदेति । एवं पक्ष-द्वयेऽपि येनेत्य् अस्योभयतोऽप्य् अन्वयः ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नातः परं परम यद् भवतः स्वरूपं [भा।पु। ३.९.३] इति तृतीयोक्तानुसारेण परम-कारण-त्वद्-वपुषः परम-तत्त्वैक-रूपत्वेऽपि विशुद्ध-सत्त्वस्य तत्-प्रकाश-शक्ति-रूपत्वेन तद्-अभेद-विवक्षया विशुद्धं मायातीतं चिच्-छक्ति-वृत्ति-विशेष-सत्त्वम् एव वपुर् इत्य् उक्तं, स्थितौ पालनार्थं तच् छ्रयते नित्यानन्द-विध-वपुर् आकारवान् एव यत्र पालने यादृशं वपुर् युक्तं तद्-अर्थं तादृशं वपुः प्रवर्तयतीत्य् अर्थः । यथा नानेन्द्रियवान् एव देवदत्तो दर्शनार्थं चक्षुः श्रयते, श्रवणार्थं श्रोत्रम् इत्य्-आदि व्यपदिश्यते, तद्वद् इति भावः । तद् एवं स्वयं प्रकटीभूय पालनेन सुखावहत्वं दर्शितं ध्यान-गतत्वेनापि दर्शयन्ति—शरीरिणाम् इत्य्-आदि
शरीरिणाम् अशेष-जीवानां श्रेयसः सत्-कर्म-फलस्य त्वत्-प्रेमान्त-पुरुषार्थ-वर्गस्य वा उपायनम् उपढौकनम् इव करुणया सादर-दानं येन ।
यद् वा, श्रेयसस् तस्य उपायनम् आधिक्येनाश्रय-रूपं परमानन्द-फल-स्वरूपम् इत्य् अर्थः। एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [बृ।आ।उ। ४.३.३२] इति श्रुतेः । उभयथाप्य् उपासकानां तत्-तत्-फल-दातृत्वे पर्यवसानम् । वेदेति त्वद्-अर्हण-प्रधानैश् चतुराश्रमैर् इत्य् अर्थः । अर्हणस्य विवक्षितत्वात् केवल-वेदाद्य्-अर्पण-लक्षणार्हणस्य तु वपुर् विनाप्य् उपदेशेनैव सम्भवाच् च येन वपुषा हेतुना जनश् चतुराश्रम-वर्ती सर्वोऽपि सम्यग् ईहते यद् अनपेक्षित-वपुर् वेदाद्य्-अर्पण-मात्रम् अर्हणं, तत् तु न सम्यग् इति भावः । तत्र चतुराश्रमिणाम् अर्हण-सिद्ध्या तत्-सम्बन्धेनान्येषाम् अपि तत्-सिद्धेर् युक्तम् एवोक्तं शरीरिणाम् इति । अन्यत् तैः । तत्र न कर्म-फल-सिद्धिर् इति सर्वासाम् अपि सिद्धीनां मूलं त्वच्-चरणार्चनम् इति न्यायेन ॥३४॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ७): अत एव श्री-भगवन्तं प्रति ब्रह्मादीनां स-युक्तिकम्—सत्त्वं विशुद्धम् इति द्वाभ्याम् । अयम् अर्थः—सत्त्वं तेन प्रकाशमानत्वात् तद्-अभिन्नतया रूपितं वपुर् भवान् श्रयते प्रकटयति । कथम्भूतं सत्त्वं ? विशुद्धम् । अन्यस्य रजस्-तमोभ्याम् अमिश्रस्यापि प्राकृतत्वेन जाड्यांश-संवलितत्वान् न विशेषेण शुद्धत्वम् । एतत् तु स्वरूप-शक्त्य्-आत्मत्वेन तद्-अंशस्याप्य् अस्पर्शाद् अतीव शुद्धम् इत्य् अर्थः । किम् अर्थं श्रये ? शरीरिणां स्थितौ निज-चरणारविन्दे मनः-स्थैर्याय सर्वत्र भक्ति-सुखाद् अनस्यैव त्वदीय-मुख्य-प्रयोजनत्वाद् इति भावः, भक्ति-योग-विधानार्थं [भा।पु। १.८.१९] इति श्री-कुन्ती-वाक्यात्।
कथम्-भूतं वपुः ? श्रेयसां सर्वेषां पुरुषार्थानाम् उपायनम् आश्रयम् । नित्यानन्द-परमानन्द-रूपम् इत्य् अर्थः । अतो वपुषस् तव च भेद-निर्देशोऽयम् औपचारिक एवेति भावः । अत एव येन वपुषा यद् वपुर् आलम्बनेनैव जनस् तवार्हणं पूजां करोति । कैः साधनैः ? वेदादिभिस् त्वद्-आलम्बकैर् इत्य् अर्थः । साधारणैस् त्व् अर्पितैर् एव त्वद्-अर्हण-प्रायतासिद्धाव् अपि, वपुषोऽनपेक्षत्वात् ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मै [भा।पु। २.९.९-१०] इत्य्-आदि-द्वय-व्याख्यायां सत्त्वम् इति द्वयम् ॥३४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं बिभर्षि रूपाणि [१०.२.२९] इत्य् अनेन शुद्ध-सत्त्वात्म-शरीरिणां चराचर-लोके प्राकट्यम् उक्तं, क्षेमाय [तत्र] इति तत् प्रयोजनं क्षेमं च भक्तेः कैवल्यं, त्वय्य् अम्बुजाक्ष [भा।पु। १०.२.३०] इति चतुर्भिर् विवृतम् । तन्-मध्य एव, येऽन्येऽरविन्दाक्ष [भा।पु। १०.२.३२] इत्य् अनेन भक्तेर् गुण-भावश् च मोक्ष-फलको भगवच्-चरणादरे सति ध्वनितः। इदानीं भक्तेः प्राधान्यम् अपि प्रयोजनं शुद्ध-सत्त्वात्मक-वपुः प्राकट्यस्येत्य् आहुः—सत्त्वम् इति ।
विशुद्धं मायातीतं सत्त्वं चिन्-मयं वपुर् भवान् श्रयते । कीदृशम् ? स्थितौ पालन-समये श्रेयसाम् उप आधिक्येन अयनं प्राप्तिर् यतस् तत् श्रेय एवाहुः । वेदादिभिश् चतुर्भिश् चतुर्-आश्रम-धर्मैः सह अर्हणमीहतेयेन वपुषेति वपुषोऽनाश्रयणेऽर्हणासिद्धेः ॥३४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भक्ति-प्रचाराय त्वद्-रूपस्य प्राकात्यम् इत्य् आह । विशुद्धं सत्त्वं वपुः श्री-विग्रहं भवान् श्रयते प्रकाशयति, चक्षुः श्रयन् रूपे स्थित इत्य् अत्र श्रयतिः प्रकाशार्थः । किम् अर्थं ? तत्राह—शरीरिणां जीवानां स्थितौ त्वयि चित्त-स्थैर्याय स्व-भक्ति-प्रचार-फलको भवान्, भक्ति-योग-विधानार्थं [भा।पु। १.८.१९] इति कुन्ती-वाक्यात् । कीदृशं तत् ? श्रेयसां पुमर्थानाम् उपायनम् आश्रयम्, फलम् अत उपपत्तेः [वे।सू। ३.२.३८] इति न्यायाच् च । येन वपुषालम्बनेन जनः सत्-प्रसङ्गी वेदादिभिश् चतुराश्रम-धर्मैश् चतुर्भिः सार्धं तवार्हणम् अर्चां समीहते करोति ॥३४॥
॥ १०.२.३५ ॥
सत्त्वं न चेद् धातर् इदं निजं भवेद्
विज्ञानम् अज्ञान-भिदापमार्जनम् ।7
गुण-प्रकाशैर् अनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सत्त्वं ब्रह्मादि-देहाख्यं ज्ञान-रूपं तमो-नुदम् ।
यदि न स्यात् तदा सत्त्व-प्रकाशानुमितो विभुः ॥ > यदि न स्यात् परो विष्णुः कथं विद्वज्-जना अमुम् । > अर्चयन्तीति तत्त्वस्य जिज्ञासुभिर् अधोक्षजः ॥ > कथं ज्ञायेत कस्यापि विगुणत्वात् परो विभुः ॥ इति > तन्त्र-भागवते ॥३५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वय्य् अम्बुजाक्ष [भा।पु। १०.२.३०-३२] इत्य्-आदिना श्लोक-त्रयेण भगवद्-भक्तानाम् एव मोक्षो नान्येषाम् इत्य् उक्तम् । तत्र कर्म-फलं भक्तिं विना माभूत्, मोक्षस्य तु ज्ञानैक-साध्यत्वात्, किं भक्त्या ? इति सानुशयान् प्रत्य् आहुः—सत्त्वं न चेद् इति ।
हे धातर् ! इदं सत्त्वं निजं तव वपुर् न भवेच् चेत्, तर्हि विज्ञानं विशिष्टम् अपरोक्षं ज्ञानं न भवेद् इत्य् अनुषङ्गः । कथम्-भूतं ? अज्ञान-भिदापमार्जनम् अज्ञानं च तत्-कृता भिदा च, तयोर् अपमार्जनं निवर्तकम् । यद् वा, अज्ञानं भिनत्तीत्य् अज्ञान-भिद् विज्ञानं मार्जनं नाशम् आप प्राप्तम् एवेति ।
ननु जडानां बुद्ध्य्-आदीनां यतः प्रकाशः, तद् ब्रह्मेति ज्ञानं भवेद् एव ? इति चेन्, न । गुण-प्रकाशैर् गुणावच्छिन्नैः प्रकाशैर् भवान् सर्व-साक्षी परिपूर्णः केवलम् अनुमीयते कल्प्यते, न तु साक्षात्क्रियत इत्य् अर्थः ।
अनुमान-प्रकारम् आहुः—प्रकाशते यस्य च येन वा गुण इति । यस्य सम्बन्धी अयम् आभ्यन्तरो बुद्ध्य्-आदि-गुणः प्रकाशते, यो गुण-साक्षीत्य् एवं, येन वा बुद्ध्य्-आरूढेन प्रमात्रा बुद्ध्य्-अधिष्ठात्रा बाह्यो गुणः प्रकाशते इत्य् अनुमीयत इत्य् अर्थः । शुद्ध-सत्त्व-वपुषि त्वयि सेव्यमाने तु तद्-आकारेऽन्तः-करणे त्वत्-प्रसादेन साक्षात्कारो भवेद् इति भावः ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सानुशयान् सहवान् भवेद् अनुशयो द्वेषे पश्चात् तापानुबन्धयोः इति मेदिनी । अनुबन्धो हटः । अनुषङ्गः पुनः सबन्धः
ननु, किम् अर्थम् अनुषङ्गः कार्यः ऋजु-मार्गेण सिध्यतोऽर्थस्य वक्रेणादर्शनायोगात् इति न्यायम् आश्रित्य् आह—यद्वेति । अचेतन-चेतने नात्म-ज्ञानं स्याद् एवेति शङ्कते-नन्वीति । अनुमानं विशदयति-अत्रेमौ प्रयोगौ बुद्ध्यादयः स्वातिरिक्तभास्याः प्रकाश-रूपत्वाभावे सति प्रकाशमानत्वात् । जडज्वाद् वा घटादिवत् । बुद्धिकृत-घटादि-प्रकाशः तद् गत-प्रकाशात्म-प्रतिर् बिम्बप्रयुक्तः स्वतोऽप्रकाश-स्वच्छ-द्रव्य-हेतुक-प्रकाशत्वात् । स्वतोऽप्रकाश-जलादि-स्वच्छ-द्रव्य-हेतुकम् इत्य्-आदि-प्रकाशस्यादित्य् अप्रतिबिम्ब-युक्तवद् इति । अनुमीयत इत्य् अर्थ इत्य् अस्यायम् अनुमानोऽर्थ इति । न हि केबलम् अनुमीयतेऽपि तु प्रत्यक्षीभवतीत्य् आह—इति भावः इति ॥३५॥
क्द्- सत्त्वं वपुर् इत्य् उक्तं तद् अमृष्यमाणं प्रति विपक्षे बाधकम् आह—सत्त्वं न चेद् इति । हे धातः ! इदं प्राग् उक्तं विशुद्धं सत्त्वं निजं वपुष्ट्वेन स्वरूपं न स्यात् । चेत् तर्हि विज्ञानं विशिष्टं ज्ञानं मार्जनं लोपम् आप प्राप्नुयात् । लोकोक्त्या लिट् प्रयोगः । निर्मूलत्वात् तत् स्याद् इत्य् अर्थः । किं तद् वैशिष्ट्यम् ? तद् आह—अज्ञानभित् सर्व-वस्तु-तत्त्व-विदकं न तु भ्रम-रूपम् इत्य् अर्थः । ज्ञानं हि सत्त्वाद् उत्पद्यते, तच् चेत् सत्त्वं नास्ति तदा ज्ञानम् अपि न स्यात् । दृश्यते च ज्ञानं, अतस् त्वं सत्त्व-वपुर् इत्य् अनुमीय स इत्य् आह—गुण इति । गुण-प्रकाशैः सत्त्व-जन्यैर् विषय-प्राकट्यैः ।
ननु सत्त्वस्य जडत्वात् कुतः प्रकाशकत्वम् ? तत्राह—प्रकाशत इति । गुणश् च यस्य सम्बन्धेन प्रकाशते प्रकाशयति अन्तर्-भावित-निज्-अर्थत्वात् । येन वा कर्तृ-भूतेनेति परमतम् उक्तम् । वा-शब्दो हि पक्षान्तरार्थः सर्वथा चिद् उज्ज्वलितं प्रकाशकम् इत्य् अर्थः। एवम् अपि सत्त्वम् एव प्रकाशकं, न तु रजस्-तमसी तयोर् अस्वच्छत्वेन चिति सङ्क्रान्त्य्-अनुपपत्तेः । यथा रवि-तेजो दर्पणादिष्व् एव प्रादुर्भूय मुखादि प्रकाशयति न घटादिषु ॥३५॥ [मु।फ। २.१०]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धातर् हे विविध-मूर्तिधर ! इदं सर्वोपकारकं सत्त्वात्मकं गुणस्य बुद्ध्यादेः प्रकाशैर् बहुत्वं बुद्ध्य्-आदेस् तद्-वृत्तीनां वा बाहुल्यापेक्षया । च-काराद् यद्-आश्रयः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, त्वच्-छ्री-मूर्ति-सेवयैव साक्षात्कारानन्दः सम्पद्यते, नायथेत्य् आहुः—इदं त्वद्-वपुर् निजम् आत्मीयं प्रेम्णा सेव्यम्, न चेद् भवति, तर्हि विज्ञानं साक्षात्कारो मार्जनं प्रापैव । अज्ञान-भित् सर्वाज्ञान-विदारकम् । साक्षात्कारे सति सर्व-संशय-निवृत्तेः ।
यद् वा, तत्राप्य् एतत् त्वदीयावतारं विना त्वन्-माहात्म्यादि-ज्ञानं नैव स्याद् इत्य् आहुः—सत्त्वं नेति । निजं साक्षाद् भगवत्-तत्त्वाद् विशिष्टं ज्ञानं श्री-भगवत्-तद्-भक्ति-तद्-भक्त-माहात्म्यादि-सम्बन्धि । कथम्भूतं ? तद्-इतर-ज्ञानम् एवाज्ञानम्, तद्-भित् मार्जनं निवृत्तिं प्राप ।
ननु, साक्षाद् अहम् अवतीर्णोऽस्मीति कुतो ज्ञातं ? तत्राहुः—गुणस्य श्री-देवक्याः प्रभावादेः । किं वा जगतां गुणस्य तत्-तत्-स्वभावस्य प्रकाशनैः । तथा च श्री-विष्णु-पुराणे—
ततो ग्रह-गणः सम्यक् प्रचचार दिवि द्विज । > विष्णोर् अंशे भुवं याते ऋतवश् चाभवन् शुभाः ॥ [वि।पु। ५.२.४] > इति ।
ननु, स्वत एव तस्यास् तादृशाः प्रकाशाः सन्तु ? नेत्य् आहुः—प्रकाशत इति । त्वत्-सम्बन्धि-गुणस्य त्वयैव प्रकाश-सिद्धेर् इत्य् अर्थः । सत्त्व-गुण-पक्षे इदं तावकत्वादि-सर्व-श्रेयः सात्त्विकं सत्त्वं सत्त्व-गुणः । निजं त्वदीयं त्वद्-अधिष्ठितम् इत्य् अर्थः । विज्ञान-मार्जन-प्राप्तौ सत्यां किं स्यात् ? तद् आहुः—गुणेति । अनुमीयत एव, न तु दृढं विज्ञायत इत्य् अर्थः । समम् अन्यत् ।
अथवा, स सर्व-श्रेयः-प्रापक-मूर्तिस् त्वं यदि न भवसि नावतरसीत्य् अर्थः । निजम् अस्मदीयं किं वा कस्यचिद् अपि निजं स्वाधीनम् इदं त्वद्-भक्तादि-माहात्म्य-विषयकं विज्ञानं भवेत् किं ? काक्वा, अपि तु न भवेद् एवेत्य् अर्थः । कथम्भूतं ? न ज्ञानेन भिदा तत्त्व-ज्ञानेन यो भेदाभाव इत्य् अर्थः । तस्य मार्जनम् । अन्यत् समानम् ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धातर् हे विविध-मूर्ति-धर ! इदं सर्वोपकारकं सत्त्वात्मकं गुणस्य बुद्ध्य्-आदेः प्रकाशैर् बहुत्वं, बुद्ध्य्-आदेस् तद्-वृत्तीनां वा बाहुल्यापेक्षया प्रकाशत इत्य् अत्र प्रयोगश् च । अयं बुद्ध्य्-आदिर् गुणः सम्बन्धि-विशेषाश्रयः । गुणत्वेन प्रकाशात् यो यो गुणत्वेन प्रकाशते, स स सम्बन्धि-विशेषाश्रयत्वेनैव प्रकाशते, यथा गन्धादिः । स चास्य सर्वस्य साक्ष्यस्य सम्बन्धि-विशेषः परम-साक्षित्वेन भवान् एवेति । यथा, अयं बुद्ध्य्-आदिर् गुणः प्रमात्र्-अधिष्ठातृकः, जडत्वेऽपि प्रकाशमानत्वात् । यो यो जडत्वेन प्रकाशते, स स तद्-अधिष्ठातृकत्वेनैव प्रकाशते, यथा घटादिः । स चास्य परम-प्रमाता भवान् एव, यच्-छक्त्या जीवस्यापि प्रमातृत्वम् इति । अन्यत् तैः ।
श्लोक-त्रयेण इत्य् अत्र श्लोक-पञ्चकेनेति वाच्यम् । किं भक्त्या इति गुणापोह-द्वारैव ज्ञान-सिद्धेर् इति भावः । न इति तत्त्व-ज्ञानं न भवति, किन्तु कल्पना-मात्रम्, इत्य् अपेक्षया तथा गुण-साक्षी इति पर्यन्त एकः प्रयोगः, एवम् इत्य्-आदिकोऽन्यः । तथा शुद्ध-सत्त्व इत्य्-आदौ त्वत्-प्रसादेनैवेत्य् एव-शब्दो योज्यः । किं भक्त्या? इत्य् आक्षेप-समाधानार्थं तत्र प्रमाणं च श्रेयः-सृतिं भक्तिम् उदस्य ते विभो [भा।पु। १०.१४.५] इत्य्-आदि बहुतरम् एवास्तीति ।
यद् वा, ननु सत्त्वात् सञ्जायते ज्ञानं [गीता १४.८] इत्य् उक्त्या मायिक-सत्त्वात्मकतयैव तत्-प्रकाशतां किं विशुद्धाख्य-सत्त्वान्तराङ्गीकारेण ? तत्राहुः—हे धातः ! सर्व-शक्ति-धारिन् ! इदम् अस्माभिर् अनुभूयमानं त्वत्-प्रकाश-शक्ति-रूपं सत्त्वं चेत् यदि निजं त्वदीयं विज्ञानं चिच्-छक्ति-रूपं न भवेत्, किन्तु मायिकं भवेत्, तदा त्वज्-ज्ञान-प्रकार एव मार्जनम् आप, निर्विकल्पतया पर्यवसितवान्, यतः गुणस्य प्राकृत-सत्त्वस्य प्रकाशैर् भवान् अनुमीयत एव, न तु साक्षात्क्रियत इति ।
यद् वा, इदं त्वदीयं चिच्-छक्ति-रूपं सत्त्वं न भवेन् नार्विर्भवेच् चेत्, तदा गुणेत्य् आदि । कथं-भूतं ? सत्त्वं ज्ञानेन ब्रह्म-ज्ञानेन कृत्वा यद् भिदापमार्जनं, तन् न विद्यते । यत्र यस्मिन्न् उदिते तद् अप्य् अपयातीत्य् अर्थः, आत्मारामाश् च मुनयः [भा।पु। १.७.११] इत्य् आदेः । अनुमान-प्रकारम् आहुः—यस्य सम्बन्धी विश्वैकाधिष्ठितृत्वेन नित्याव्यभिचारि-गुणः सत्त्वाख्यः प्रकाशते सूर्योदय-सान्निध्यस्येवारुणोदय इति । येन च त्वद्-एक-प्रकाश्यः स गुणः प्रकाशते वह्निनेव धूम इति । अतस् त्वद्-वपुषः परमानन्द-रूपत्वेन स्व-प्रकाशत्वात् । येन प्रकाशः, येन च ब्रह्म-ज्ञानस्यापि तिरोधानं, सा त्वदीय-स्वप्रकाशता-रूपा शक्तिर् एव स्यात् । ततो बाह्येन जडेन सत्त्वेन न तत्-प्रकाशः, किन्तु कथञ्चिद् अनुमानम् एव अरुणोदयादिना सूर्यादेर् इवेति, यथा मनांस्य् आसन् प्रसन्नानि साधूनाम् असुर-द्रुहां [भा।पु। १०.३.५] इत्य्-आदि वक्ष्यते । अत एव श्री-विष्णु-पुराणादौ—
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । > स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ [वि।पु। > १.९.४४] > ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये । > ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६९] > इत्य्-आदि बहुतरम् अस्ति ।
यद् वा, तत्राप्य् एतत् त्वदीयावतार-प्रकाश-हेतुं विशुद्ध-सत्त्व-विशेषं विना त्वन्-माहात्म्यादि-ज्ञानं नैव स्याद् इत्य् आहुः—सत्त्वेनेति । निजं स्वयं भगवतस् तव साक्षात् सम्बन्धित्वात् । अत एव त्वन्-माहात्म्यादि-ज्ञान-लक्षणं विशिष्टं ज्ञानं मार्जनं निवृत्तिं प्राप । कीदृशं ? तद्-इतर-ज्ञानम् एवाज्ञानं तद्-भित् ।
ननु, स्वयं भगवान् एवाहम् अवतीर्ण इति कुतो ज्ञातं ? तत्राहुः—गुणेति । गुणस्य श्री-देवक्य्-आदि-प्रभादेः प्रकाशैः । ननु, ममांशत एव तस्य तादृशाः प्रकाशा भवन्तु, न विलक्षणत्वात् ? इत्य् आहुः—प्रकाशत इति श्री-सङ्कर्षणादितस् तादृशत्वाननुभवाद् इति भावः ॥३५॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ७) : तादृश-वपुः-प्रकाश-हेतुत्वेन स्वरूपात्मकत्वं स्पष्टयन्ति**—**हे धातः ! चेद् यदीदं सत्त्वं यत् तव निजं विज्ञानम् अनुभवः, तद्-आत्मिका स्व-प्रकाशता-शक्तिर् इत्य् अर्थः, तन् न भवेत्, तर्हि त्व् अज्ञान-भिदा स्व-प्रकाशस्य तवानुभव-प्रकार एव मार्जनं शुद्धिम् अवाप । सैव जगति पर्यवसीयते न तु तवानुभव-लेशोऽपीत्य् अर्थः
ननु प्राकृत-सत्त्व-गुणेनैष भवतु, किं निजेन ? इत्य् आह—प्राकृत-गुण-प्रकाशैर् भवान् केवलम् अनुमीयते न तु साक्षात्क्रियत इत्य् अर्थः । अथवा तव विज्ञान-रूपम् अज्ञान-भिदाया अपमार्जनं च यन् निजं सत्त्वं तद् यदि न भवेन् नाविर्भवति तदैव प्राकृत-सत्त्वादि-गुण-प्रकाशैर् भवान् अनुमीयते त्वन्-निज-सत्ताविर्भावेण तु साक्षात्-क्रियत एवेत्य् अर्थः । तद् एव स्पष्टयितुं तत्रानुमाने द्वैविध्यम् आहुः—यस्य गुणः प्रकाशत इति । अस्वरूप-भूतस्यैव सत्त्वादि-गुणस्य त्वद्-अव्यभिचारि सम्बन्धित्व-मात्रेण वा त्वद् एव प्रकाश्यमानता-मात्रेण वा त्वल्-लिङ्गत्वम् इत्य् अर्थः । यथा अरुणोदयस्य सूर्योदय-सान्निध्य-लिङ्गत्वं यथा वा धूमस्याग्नि-लिङ्गत्वम् इति तत उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो युक्त इति भावः
तद् एवम् अप्राकृत-सत्त्वस्य तदीय-स्व-प्रकाशता-रूपत्वं येन स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् । अत्र ये विशुद्ध-सत्त्वं नाम प्राकृतम् एव रजस्-तमः-शून्यं मत्वा तत्-कार्यं भगवद्-विग्रहादिकं मन्यन्ते ते तु न केनाप्य् अनुगृहीताः । रजः-सम्बन्धाभावेन स्वतः प्रशान्त-स्वभावस्य सर्वत्रोदासीनताकृति-हेतोस् तस्य क्षोभासम्भवात् विद्यामयत्वेन यथावस्थित-वस्तु-प्रकाशितामात्र-धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच् च । तद् उक्तम् अपि अगोचरस्य गोचरत्वे हेतुः प्रकृति-गुणः सत्त्वम् । गोचरस्य बहुरूपत्वे रजः । बहुरूपस्य तिरोहितत्वे रजः । तथा परस्परोदासीनत्वे सत्त्वम् । उपकारित्वे रजः । अपकारित्वे तमः । गोचरत्वादीनि स्थित्-सृष्टि-संहाराः उदासीनत्वादीनि चेति ।
अथ रजो-लेशे तत्र मन्तव्ये विशुद्ध-पदवैयर्थ्यम् इत्य् अलं तन्-मत-रजो-घट-प्रघट्टनयेति । पाद्मोत्तर-खण्डे तु वैकुण्ठ-निरूपणे तस्य सत्त्वस्याप्राकृतत्वं स्फुटम् एव दर्शितम् । यत उक्तं प्रकृति-विभूति-वर्णनानन्तरम् ।
एवं प्राकृत-रूपाय विभूतेर् रूपम् उत्तमम् । > त्रिपाद्-विभूति-रूपं तु शृणु भूधर-नन्दिनि ॥ > प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी । > वेदाङ्ग-स्वेद-जनित-तोयैः प्रस्राविता शुभा ॥ > तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् । > अमृतं शाश्वतं नित्यम् अनन्तं परं पदम् ॥ > शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् ॥ इत्य्-आदि ।
तद् एतत् समाप्तं शुद्ध-सत्त्व-विवेचनम् ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र सत्त्व-शब्दस्य साक्षात् तद्-आविर्भावे श्री-वसुदेव-देवक्याव् एव तात्पर्यतोऽवगम्येते । श्री-वसुदेवाद्य्-आख्यं सत्त्वं वपुर् इत्य्-आदि योज्यम् । तद् एव रूप-प्रसङ्गेन नाम्नोऽपि स्व-प्रकाशत्वम् आहुः ॥३५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु केचिद् दार्शिनिका मद्-वपुः प्राकृत-सत्त्व-मयम् एव मन्यन्ते ? तत्राहुः—सत्त्वम् इति । हे धातः ! इदम् इति तर्जन्या गर्भं लक्ष्यीकुर्वन्ति तव वपुर् इदं निजं सत्त्वं शुद्धं सत्त्वं न भवेच् चेत्, किन्तु प्राकृतम् एव सत्त्वं भवेत् । तदा विज्ञानं तथाभूतत्वेन सताम् अनुभवः । मार्जनं लोपम् आप प्राप्तम् । महद्-अनुभव एवात्र प्रमाणम् इत्य् अर्थः । विज्ञानं कीदृशं ? अज्ञान-भित् अज्ञान-निवर्तकम् इति त्वद्-वपुषो विशुद्ध-सत्त्वत्वेन व्ज्ञान-मात्राद् एव संसारो निवर्तत इति तादृश-विज्ञानस्य प्रामाण्यं नाशङ्क्यम् इति भावः
किं च, अत्र प्रमाणान्तरम् अप्य् अस्तीत्य् आहुः—गुण-प्रकाशैर् गुणस्यातितेजस्वित्वाद् अस्मद्-आदि-सर्व-मनः-प्रसादकत्व-प्रेम-प्रदत्वादेः प्रकाशैर् एव इदं वपुर् भवान् एव, न मायेत्य् अनुमीयते, सम्प्रत्य् अस्माभिर् अपीत्य् अर्थः । तथा हि—यस्य च यस्यैव गुणः प्रकाशते चिन्मयत्वात्, न प्रकृतेर् जाड्यात्, प्रकाशोऽपि प्रयोजक-सापेक्षत्वाच् च । येन वा शुद्ध-सत्त्वेनैव हेतुना प्रकाशते, न तु प्राकृतत्वेन । अत एव वक्ष्यते—
यस्यावतारा ज्ञायन्ते शरीरेष्व् अशरीरिणः । > तैस् तैर् अतुल्यातिशयैर् वीर्यैर् देहिष्व् असङ्गतैः ॥ [भा।पु। > १०.१०.३४] इति ।
यद् वा, इदं निजं सत्त्वं शुद्ध-सत्त्वात्मकं तव वपुर् न भवेन् नाविर्भवेच् चेत्, तदा अज्ञान-भित् विज्ञानम् अपरोक्षानुभवो मार्जनम् आप, नाशम् एव प्राप्नुयाद् इत्य् अर्थः । किन्तु तदा गुणानां बुद्ध्य्-आदीनां प्रकाशैर् भवान् अनुमीयते । केवलम् अनुमीयेत एव अनुमान प्रकारम् आहुः—यस्य गुणः प्रकाशते, येन वा बुद्ध्य्-अधिष्ठात्रा हेतुना बाह्यो गुणः प्रकाशते, स ईश्वर इति ॥३५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, मद्-वपुः किं जडं सत्त्वं ब्रूथ ? तत्राह—सत्त्वम् इति । हे धातः ! इदं सत्त्वं वपुश् चेन् निजं विज्ञानं स्व-प्रकाश-संविच्-छक्ति-रूपं न भवेत् । कीदृशं ? अज्ञान-भिदा या विविधा ज्ञानस्य मार्जनं विनाशकं, तर्हि गुणस्य सत्त्वस्य प्रकाशैर् भवान् अनुमीयेतैव, न तु साक्षात्क्रियेतेत्य् अर्थः ।
ननु कथं ममानुमानं तैः स्यात् ? तत्राह—यस्य गुणः प्रकाशते, येन वा गुणः प्रकाशत इति । प्राकृतस्य सत्त्वस्य त्वद्-अव्यभिचारि-सम्बन्धित्व-मात्रेण व्â त्वद्-एक- प्रकाश्यता-मात्रेण वा तल्-लिङ्गम् इति यथारुणोदयस्य सूर्योदय-सन्निधि-लिङ्गत्वम् । यथा च धूमस्याग्नि-लिङ्गत्वं, तथा च विज्ञान-रूपं सत्त्वं संविच्-छक्ति-भूतं त्वद्-वपुर् न तु रजस्-तमः-सम्पृक्तं मायिकं सत्त्वं तस्य विज्ञान-शब्दितत्वाभावात्, अन्योन्य-मिथुनाः सर्वे सर्वे सर्वत्र-गामिनः इत्य्-आदि स्मृत्या मायिक-सत्त्वस्य तत्-सम्पृक्तत्वाभिधानाच् च यद्यप्य् आत्मनो वपुर् न भिन्नः तथापि विशेषाद् भेद-भानं सत्ता सतीत्य् आदिवत् ॥३५॥
॥ १०.२.३६ ॥
न नाम-रूपे गुण-जन्म-कर्मभिर्
निरूपितव्ये तव तस्य साक्षिणः ।
मनो-वचोभ्याम् अनुमेय-वर्त्मनो
देव क्रियायां प्रतियन्त्य् अथापि हि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावद् भक्तानाम् अभ्युदयापवर्गार्थं रूपाणि बिभर्षीत्य् उक्तं तान्य् अपि भजनीयानि केवलं, न तु ज्ञातुं शक्यन्ते अन्नतत्वाद् अतर्क्यत्वाच् च मनो-वचसोर् अगोचरत्वाद् इत्य् आहुः—न नाम-रूपे इति । गुणाश् च जन्मानि च कर्माणि च तैर् निरूपणार्हे न भवतः । कुतः ? अनुमेयं वर्त्म मार्गो यस्य तवेति । तत्रापि हेतुः—तस्य साक्षिण इति । न हि साक्षिणस् तत्त्वं मनो-वचो-गोचरम् इत्य् अर्थः । हे देव ! बहुधा द्योतमान ! अथापि क्रियायाम् उपासनादि-लक्षणायां त्वां प्रतियन्ति, उपासकाः साक्षात् पश्यन्ति । हि प्रसिद्धिं सूचयति ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वोक्त-रीत्येत्य् एवं पदार्थः । अभ्युदयः सम्पत्-सन्तत्य्-आदि-रूपः । अपवर्गो मोक्षः । अप्रतर्क्यत्वात् तर्काविषयत्वात् । अगोचरत्वाद् अविषयत्वात् । अनुमेयम् अनुमातुं योग्यं वर्त्म मार्गो यस्य, वर्त्म नेत्र-च्छदे मार्गे इति मेदिनी । तत्रापि अनुमेय-वर्त्मत्वे । तस्य नाम-रूपस्य । इत्य् अर्थ इति भावः । यद्यपि त्वं मनो-वचो-गोचरोऽथापि, तथापि ॥ विश्वनाथस् तु\॥। ॥३६॥
क्द्- अस्तु तर्हि मत्त्व-योगो नित्य एव न त्व् ऐच्छिक इत्य् अत आह—न नाम इति । नाम रूढं योगिकं च रूपं श्यामादि । गुणः सौन्दर्यादिः । कर्म चरित्रं निग्रहानुग्रह-रूपम् । जन्म शरीर-ग्रहणम् । सहार्थे तृतीया । न निरूपितव्ये निरूपयितुम् अशक्ये । आर्षो णि-लोपः । नामादि-पञ्चकं तव वक्तुं न शक्यते । कुतः ? साक्षिणः त्वं हि तेषां साक्षी द्रष्टा द्रष्टुश् च दृश्यत्वानुपपत्तिः । साक्षित्वम् एव कुतः ? इति चेत् तत्राह—तस्य इति । तस्य समाधौ चिन्मात्रतया अनुभूयमानस्य अनुभूत-वाचित्वाच् चास्य तच्-छब्दस्य यच्-छब्दानपेक्षा । यथा—
उत्कम्पिनी भय-परिस्खलितांशुकान्ता ।
ते लोचने प्रतिदिशं विदूरे क्षिपन्ति ॥
इत्य् आदाव् अनुभूतिम् अपह्नुवानं प्रत्याह--मन इति । यतश् चाचेतने मनो वचसो प्रसरतः स कश्चिद् अस्तीत्य् अनुमानम् । हे देव ! अथापि एवम् अपि क्रियायां षोडशोपचार-पूजायाम् । प्रतियन्ति जानन्ति । वस्तुतस् त्वं सत्य् अपि त्वयि वागा चादि प्रवृत्त्य्-अर्थं भक्ताः कल्पयन्तीत्य् अर्थः ॥३६॥ [मु।फ। २.११]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गुणादिभिर् ये नाम-रूपे, तत्र गुणैर् नाम—भक्त-वत्सल इत्य्-आदि । रूपं च श्यामसुन्दरादि । कर्मभिर् नाम श्री-गोवर्धनोद्धरण इत्य्-आदि । रूपं च वेणु-वदन-त्रिभङ्ग-ललितेत्य्-आदि । जन्मभिर् नाम श्री-देवकीनन्दन इत्य्-आदि । रूपं श्री-मत्स्यादि ।
यद् वा, गुणाः शास्त्राभ्यासादयः, कर्माणि सद्-आचारा यम-नियमादीनि वा, जन्मानि सद्-विप्र-कुलोत्पन्नत्वादीनि, तैर् अपि निरूपयितव्ये न स्याताम् । तयोर् उपासनायां सत्यां प्रतियन्ति तयोर् माहात्म्यम् अनुभवन्ति, तत्र विश्वसन्तीति वा । प्रतियन्ति त्वां नाम-रूपे वा । मनो-वचोभ्याम् अनुमेयम् एव, न तु प्राप्यं वर्त्म-मार्गोऽपि यस्य, यतस् तस्य मनसो वचसश् च साक्षिणः । एवं नाम-रूपयोर् अपि तादृशत्वम् अभिप्रेतम् । नाम-नामिनो रूप-रूपवतोर् अभेदात् क्रियायाम् उपासन-कर्मणि वर्तमानाः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, निरूपयितुं शक्ये न भवतस् तस्य कृपया साक्षात् स्वयम् अवतीर्णस्यापि तव । अन्यत् समानम् ।
अथवा, एवं रूप-माहात्म्यम् उक्त्वा प्रसङ्गान् नाम्नोऽपि तादृशत्वम् अभिप्रेत्य पूर्वोक्त-रूप-तयाम् अभिव्यञ्जयन्तो द्वयोर् अपि माहात्म्यम् एकत्राहुः—नेति, निरूपयितव्ये न स्याताम् । प्रत्येकं निर्गुणत्वात् सगुणत्वाच् च ।
नन्व् एकस्यैव निर्गुणत्वं स-गुणत्वं च दुर्घटं ? सत्यम्, उपासका एव तद् बोद्धुं शक्नुवन्ति, नान्य इत्य् आहुः—देवेति । अन्यत् तथैव ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु नाम-रूपे खलु मनो-मये एव स्यातां, कथं मद्-रूपस्य तादृशत्वं वर्ण्यते ? तत्राहुः गुणादिभिर् ये तव नाम-रूपे ते निरूपणीये ज्ञेये यथार्थ्येन अनुभावनीये न भवत इत्य् अर्थः । तत्र गुणैर् नाम भक्त-वत्सल इत्य्-आदि, रूपं श्यामसुन्दरादि, कर्मभिर् नाम श्री-गोवर्धनोद्धरण इत्य्-आदि, रूपं च वेणु-नादन-त्रिभङ्ग-ललितेत्य्-आदि । जन्मभिर् नाम श्री-देवकीनन्दन इत्य्-आदि । रूपं श्री-मत्स्यादि ।
यद् वा, गुणाः शास्त्राभ्यासादयः, कर्माणि सद्-आचारा यम-नियमादीनि वा, जन्मानि सद्-विप्र-कुलोत्पन्नत्वादीनि, तैर् अपि निरूपणीये, यतः मनसा तर्केण वचसा आप्त-वाक्येन च अनुमेयम् अस्तीति निश्चीयम् एव न त्व् अनुभवितुं शक्यं वर्त्म गुण-कर्मादि-लक्षणं प्राप्ति-साधनं यस्य तस्य तव तत्र च हेतुः तस्य पूर्वोक्त-बुद्ध्य्-आदि-गुणस्यापि यः साक्षी साक्षाद् दर्शन-शक्तिमान् । अत एव तेनादृश्यस् तस्य तद् अगोचर-विलक्षण-स्वरूप-माधुर्य-मय-गुणादेर् इत्य् अर्थः । वैपरीत्येन वा तयोर् हेतु-हेतुमद्-भावः । अतो गुणादीनाम् अनिरूपणीयत्वात् ते अपि न निरूपणीये इति तथा साक्षि-सम्बन्धित्वेन तयोर् अपि तादृशत्वम् । यद् उक्तं तच् च प्रमितम् एव परमानन्दक-रूपेणाव्यतिरेकेण च विद्वद्-अनुभावात्, तद् अश्म-सारं हृदयं बतेदं [भा।पु। २.३.२४] इत्य्-आदौ, रूपं यद् एतद् अवबोध-रसोदयेन [भा।पु। ३.९.२] इत्य् आरभ्य, नातः परं परम यद् भवतः स्वरूपं [भा।पु। ३.९.३] इत्य्-आदौ च क्रियायां नाम-कीर्तन-रूप-ध्यान-लक्षणायां सत्याम् इत्य् अर्थः ।
प्रतियन्ति ते नाम-रूपे स्वरूप-माधुर्यादिना यथावद् अनुभवन्ति, तद् उक्तं, भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सतां [भा।पु। ११.१४.२१] इति । अन्यत् तैः ।
तत्र भजनीयानि स्मरणाभासादिना यथा कथम्चिद् अनुवर्तनीयानि ज्ञातुम् अनुभवितुम् अतर्क्य-स्वरूपादि-याथार्थ्यत्वात् तत्त्व-शब्देन नाम-रूपे अप्य् अन्तर्भाविते तयोस् तत्-प्रकारत्वात् उपासनादीति उपासना मानसी आदि-ग्रहणाद् बाह्या क्रिया च गृहीतेति ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न नामेति पूर्वोक्त-गुणस्य साक्षिणः तथापि क्रियायां श्रवण-कीर्तनादि-लक्षणायां भक्तौ प्रतिपत्ति-भक्तौ जातायां स्व-शक्त्यैव ते प्रकाशते इत्य् अर्थः । तद् अश्म-सारं हृदयं बतेदं [भा।पु। २.३.२४] इत्य् आदेः, नाहं प्रकाशः सर्वस्य [गीता ७.२५] इत्य्-आदेश् च ॥३६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलम् एतद् रूपम् एव ते विशुद्ध-सत्त्वात्मकम्, अपि तु एतस्य वाचकं नामापि, ते च नाम-रूपे भक्त्यैवानुभवितुं शक्ये नान्यथेत्य् आहुः—नेति । गुणैः श्यामसुन्दर-कृपार्द्र-लोचनेति कर्मभिः गोवर्धनोद्धरण-त्रिभङ्ग-ललितेति जन्मभिर् नन्दनन्दन-वसुदेवनन्दनेति ये तव नाम-रूपे ते यद्यपि यथा कथञ्चिद् वाच्य-ध्येये भवतस् तद् अपि साक्षिणो विषय-द्रष्टुर् जीवस्य निरूपितव्ये साक्षाद्-अनुभवनीय-माधुर्ये न भवतः । तयोर् माधुर्याननुभव एव तद्-अननुभवः । यथा पित्त-दूषित-रसन-जनेन चर्वितस्यापि मत्स्यण्डिका-खण्डस्य स्वादालाभाद् अननुभव एव, एवं च भक्ति-रहित-जीव-कर्तृकानुभवाशक्तेर् एव हेतोर् नाम-रूपयोर् द्वयोर् अपि विशुद्ध-सत्त्वात्मकम् अवगतम् इति भावः ।
यद् वा, साक्षिण इति तवेत्य् अस्य विशेषणं, नाम-रूपयोः स्वरूप-भूतत्वात्, न हि साक्षिणः स्वरूपं साक्षात् ज्ञातुं शक्नुवन्तीति भावः । हे देव ! अथापि क्रियायां त्वदीय-श्रवण-कीर्तनादि-भक्तौ सत्यां प्रतियन्ति नाम-रूपे साक्षाद् अनुभवन्ति च । तेषाम् अनुभवस् त्व् अन्यैर् अनुमान-ज्ञेय इत्य् आहुः । मनसा क्षान्ति-मान-शून्यत्वादि-लिङ्गेन, मनोऽरविन्दाक्ष दिदृक्षते त्वां [भा।पु। ६.११.२६] इत्य्-आद्य्-अनुराग-व्यञ्जक-वाक्येन अनुमेयं वर्त्म प्रेम-भक्ति-योगो यस्य तस्य ॥३६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भक्तानुग्रह-खल-निग्रहायाविर्भावितानि रूपाणि नामानि च भाव्यान्य् एव तेषाम् इयत्वालाभाय न प्रयतनीयम् अतर्क्यत्वाद् आनन्त्याच् चेत्य् आशयेनाह—न नामेति साक्षिणस् तस्य तव गुणादिभिः सह नाम-रूपे निरूपयितव्यः साकल्येन निर्णेतुः शक्ये न भवतः
जन्म-कर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः । > न शक्यन्ते\ऽनुसङ्ख्यातुम् अनन्तत्वान् मयापि हि ॥ [भा।पु। > १०.५१.३६] इति वक्ष्यमाणात् ।
तत्र गुणाः सार्वज्ञ-सार्वैश्वर्य-भक्त-वात्सल्यादयः, जन्म नन्दात्मज-वसुदेवसुतेत्य् आदि, कर्म पूतनावध-गोवर्धनोद्धरादि, नाम गोविन्द कृष्णेत्य्-आदि, रूपं—श्यामसुन्दरेत्य्-आदि । एतानि सामस्त्येन निरूप्याणि नेत्य् अर्थः । तथापि क्रियायां श्रवण-स्मरणादि-विशुद्ध-सत्त्व-भक्तौ सत्यां त्वद्-उक्तास् तैः सह ते प्रतियन्त्य् अनुभवन्तीत्य् अर्थः । तद्-इयत्ता तु लभ्या इति भावः । तव कीदृशस्येत्य् आह—मनसा वचसा चानुमेयं वर्त्म यस्य तार्किकास् त्वां जगत्-कर्तारम् अनुभवन्ति भक्ताश् च साक्षात्-कुर्वन्तीत्य् अर्थः ॥३६॥
॥ १०.२.३७ ॥
शृण्वन् गृणन् संस्मरयंश् च चिन्तयन्
नामानि रूपाणि च मङ्गलानि ते ।
क्रियासु यस् त्वच्-चरणारविन्दयोर्
आविष्ट-चेता न भवाय कल्पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् भक्यैव मोक्ष इत्य् उपसंहरन्ति, शृण्वन्न् इति । अन्यान् अपि संस्मारयन् । क्रियासु देवार्चनादि-कर्मसु ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वोक्त-रीत्येत्य् एवं पदार्थः । अभ्युदयः सम्पत्-सन्तत्य्-आदि-रूपः । अपवर्गो मोक्षः । यस्माद् उपासकास् त्वां साक्षात् पश्यन्ति तस्माद् धेतोर् इत्य् अर्थः । भक्त्यैव भक्ति-द्वारेणैव । एव-शब्दो भक्तिं विना मोक्ष-हेतु-ज्ञानासिद्धिम् आह । तद् वक्ष्यति—
श्रेयः शृतिं भक्तिम् उदस्य ते विभो > क्लिश्यन्तिं ये केवल-बोध-लब्धये । > तेषाम् असौ क्लेशल एव शिष्यते > नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ इति ॥३७॥
क्द्- ननु नामादेर् अवास्तवत्वेऽकिञ्चित्-करत्वं स्यात् ? तत्राह—शृण्वन्न् इति । संस्मरयन्न् अन्यैः रूपाणि चेति च-काराद् गुण-कर्म-जन्मानि च । आविष्टत्वम् अवस्थान्तराविष्कारः, भवः संसारः । अवास्तवस्यापि सत्यार्थ-हेतुत्वं रज्जु-सर्पादेर् इव भयादि-हेतुत्वम् इत्य् अर्थः । तस्मात् सिद्धम् अस्योपास्यतमत्वम् ॥३७॥ [मु।फ। २.१२]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-तद्-उपासक एव परम-कृतार्थो भवतीत्य् आहुः—शृण्वन्न् इति । श्रवणादीनां विकल्पो ज्ञेयः, मङ्गलानि परम् अशृण्वन्न् इति । श्रवणादीनां विकल्पो ज्ञेयः, मङ्गलानि पर-सुखात्मकानीति स्वतः पुरुषार्थतोक्ता । अत एव क्रियासु निजाशेष-कर्मसु वर्तमानो यः, सोऽपि त्वच् चरणारविन्दयोर् आविष्ट-चित्तः परमासक्तो भवति । यद् वा, य इत्य् अस्य पूर्वेणान्वयः, यः शृण्वन् भवतीत्य् अर्थः । त्वच् चरणारविन्दयोः क्रियासु श्रवणादि-कर्मस्वाविष्ट-चित्तो भवति । युष्माद् इति ततश् च समञ्जसम् एव । अतो भवाय संसाराय न कल्पते—तत्-कारणे विद्यमानेऽपि तद्-योग्या न स्याद् इत्य् अर्थः । एवम् आनुसङ्गिक-न्यायेन स्वत एव संसार-निवृत्तिर् उक्ता ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तत् क्रिया चेत् तद्-अनुभवस्य हेतुस् तर्हि कथं प्रथमत एव स न स्यात् ? उच्यते—अस्त्य् अत्र नानापराधमयी संसार-वासना प्रतिबन्धिनी सा च तदा वृत्त्यैवापगच्छतीत्य् आहुः—शृण्वन्न् इति । श्रवणादीनां विकल्पो ज्ञेयः, मङ्गलानि सर्व-दुःख-निवर्तकत्वात् परम-सुखात्मकत्वाच् चेति भावः । अतः स्वतः पुरुषार्थतोक्ता अत एव क्रियासु निजाशेष-कर्मसु वर्तमानो यः सो\ऽपि त्वच्-चरणारविन्दयोर् आविष्ट-चित्तो भूत्वा । यद् वा, य इत्य् अस्य पूर्वेणान्वयः । यः शृण्वन् भवतीत्य् अर्थः । तच् चरणारविन्दयोः क्रियासु श्रवणादि-कर्मसु आविष्ट-चित्तः यद् वा, क्रियासु तत्-तल्-लीलासु युष्मद् इति पाठश् च क्वचित् ततश् च समञ्जसम् एव । अतो भवाय संसाराय न कल्पते तत्-कारणे विद्यमाने\ऽपि नद्-योग्यो न स्यात् तद्-वासना-रहितो भवतीत्य् अर्थः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मात् तत्-तद्-उपासक एव तत्र तत्राविष्ट-चित्तो भवति, भवाय च न कल्पते, नान्य इत्य् आहुः—शृण्वन्न् इति । क्रियासु व्यवहारिकीष्व् अपि वर्त्तमानः ॥३७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, नाम-रूपयोः श्रवनादिभिर् अभ्यास एवानुभवे कारणम् इत्य् आहुः । शृण्वन्न् इति क्रियासु स्व-दैहिक-व्यापारेषु वर्तमानो ऽपि न भवाय कल्पते किन्तु भवद्-अनुभवाय कल्पते ॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : किं च, नामरूपयोर् [उञ्चारण]{।मर्क्}-स्मरणाभ्यास एव कार्यो नतु तयोरियत्तालाभाय यत्न इत्य् आह—क्रियासु लौकिकीष्व् अपि स्थितो जनो भवाय न कल्पते किन्तु मुच्यते एवेत्य् अर्थः ॥३७॥
॥ १०.२.३८ ॥
दिष्ट्या हरेऽस्या भवतः पदो भुवो
भारोऽपनीतस् तव जन्मनेशितुः ।
दिष्ट्याङ्कितां त्वत्-पदकैः सुशोभनैर्
द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विशेषतः श्री-कृष्णावतारम् अभिनन्दन्ति, दिष्ट्येति । दिष्ट्या भद्रम् । तव पदः पाद-भूतायाः । ईश्वरस्य तव जन्म-मात्रेणापनीत एव । किं च त्वत्-पदकैः कोमलैः पदैः सु-शोभनैर् वज्राङ्कुशादि-शुभ-लक्षणैः गां पृथ्वीं द्यां स्वर्गं च तव त्वयानुकम्पिताम् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विशेषतः तृतीयार्थे तसिः । अभिनन्दन्ति श्लाघन्ते दिष्ट्येत्य् अव्ययं भद्रे । पदः पाद-भूतायाः कार्याकारणाभेदाभिप्रायेण वा पद्भ्यां भूमिः इति पद इत्य् उक्तम् । भूः पादौ द्यौ शिरः इत्य् उक्तेः । अपनीतोऽपास्त एव अधुनैव कंसादीन् हतान् जानीम् इत्य् आह—भारः कंसादि-हेतुकस् तवावतार-मात्रेणैवाद्य नीत इदं विज्ञापनचातुर्यं देवानां ज्ञेयम् अन्यद् अपि सुखम् अनुभविष्याम इत्य् आह—किञ्चेति । त्वत् पदकैः तव कोमलैः पादैर् इह पद-शब्दात् कोमलेर्थे बाहुलकात्कः । सुष्ठु शोभनानि शोभाकराणि वज्रादीन् एषु तैः । यद्य् अपि मया हतांस् त्वं जहि मा व्यथिष्ठाः इति रीत्या तव जन्मनैव भारोपनीतस् तथापि बहिस् तल् लीला-दर्शनार्थम् अस्माकम् इयं प्रार्थनानि । द्यां स्वर्गम् सुर-लोको द्योदिवौ इत्य् अमरः । कदाचित् पारिजात-हरणाद्य् अर्थं तत्र गतस्य पारिजात-परागादिषु पदानाम् उदयात् स्वर्गम् अपि पदाङ्कितं द्रक्ष्याम इत्य् अर्थः । अनुकम्पा जाता यस्येति ताम् । जातार्थे इतच् ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिष्ट्या—एतद् भद्रं जातम् । किं वा, अस्माद् ऋशानां भाग्येनेत्य् अर्थः । अस्या भारार्तायास् त्वद् अवतारेण परम-धन्यत्वं प्राप्ताया वा, पद इति पद्भ्यां भूमेरु उत्पत्त्या, तत्र च कार्य-कारणयोर् अभेदाभिप्रायेण । अतएवाग्रेऽक्रूर-स्तुतौ अग्निर् मुखं तेऽवनिरङ्घः इति[भा।पु १०.४०.१३] । जन्मना श्री-देवक्याम् अवतार-मात्रेण भारः कंसादि-हेतुकोऽपनीतो दूरी-कृतः । इदं तद् विज्ञापन-चातुर्यम् । यद् वा, भारः पाप-लक्षणोऽपनीत एव—दुष्टानाम् अपि तत्-तत्-सद्-वुद्ध्याद्य् उत्पत्तेः । एवं भार-हरणाद्धरे इति सम्बोधनं निज-पदाव्ज-भारापनयनेन भक्तानाम् अस्माद् ऋशां हितं कृतम् एवेति प्रयोजनम् एकं सिद्धम्, किन्त्व् अस्माकं परम-हितकारि-विचित्र-क्रीडया सर्व-लोक-कृतार्थी-करणम् एव मुख्य-प्रयोजनं कार्यम् इत्य् आशयेनाहुः—दिष्ट्याङ्किताम् इति । अल्पार्थे क-प्रत्यः प्रदानां सुकोमलत्वं वोधयति । ङ्किताम् अलङ्कृताम् इत्य् अर्थः । द्याम् अनुकम्पिताम् इति दैत्यवधादिना, तत्रत्यानां हिताचरणात् । यद् वा, विशेषण-द्वयम् इदं द्वयोर् एव ज्ञेयम् । ततश् चाङ्कितत्वेनैव भक्ति-विस्तारणादिना वानुकम्पितां गां द्यामङ्किताम् इति कदाचित् पारिजात-परागादिषु पदानाम् उदयात् ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दिष्ट्या एतद्भद्रं जातम् अस्मादृशानां भाग्येनेत्य् अर्थः । अस्याः भारार्त्तायाः स्वदवतारेण परमधन्यत्वं प्राप्ताया वा पद इति पद्ध्यां भूमेरुत्पत्त्या कार्यकारणयोरभेदाभिप्रायेण पद्भ्यां भूमिः इति श्रुतेः अत एवाप\ऽकूरस्तुतौ अग्निर्मुखं ते\ऽवनिरङ्घ्रिः इति जन्मना श्रीदेवक्यामवतारमात्रेण भारः कंसादिहेतुकः अपनीतः दूरीकृतः इदं तद्विज्ञापनचातुर्यम् एवं भारहरणाद्धरे इति सम्बोधनं निजपदाब्जव्यपदेशसौभाग्यभाजनपृथिवीभारापनयनेन भक्तानामस्मादृशां भुवो\ऽपि हितं कृतमेवेति प्रयोजनमेकं सिद्धम् । किन्तु अस्माकं तस्याश् च परमहितकारिविचित्रक्रीडया सर्वलोककृतार्थीकरणम् एव मुख्यप्रयोजनं कार्यमित्याशयेनाहुः—दिष्ट्याङ्किताम् इति । अल्पार्थे कप्रत्ययः द्वापरान्तोचितनराकृतित्वेन महाशरीरिणां तेषां देवानां तादृशदृष्ट्या किंवा दयार्थे सुकोमलत्वस्फुरणात् अङ्किताम् अलङ्कृताम् इत्य् अर्थः । द्यामनुकम्पिताम् इति दैत्यवधादिना तत्रत्यानां हिताचरणात् । यद् वा, विशेषणाद्वयमिदं द्वयोरेव ज्ञेयम् । ततश् च अङ्कितत्वेनैव भक्तिविस्तारणादिना वा\ऽनुकम्पितां गां द्यामङ्किताम् इति कदाचित् पारिजातहरणार्थं तत्र गतस्य पारिजातपरागादिषु पदानामुदयात् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भरावतरणमवश्य कर्तव्यम् इति भङ्ग्या ज्ञापयन्ति । “दिष्ट्येति पदः पदजन्यायाः पद्भ्यां भूमिरि"ति श्रुतेः । भावः अपनीतः अधुनैव कंसजरासन्धादीन् हतान् जानीम इति भावः । पदकैः सुकुमारैः पदैः सुशोभनैर्ध्वजवज्रादि मङ्गलचिह्नवद्भिः । गां पृथिवीं द्यां स्वगञ्च ॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भूमेर्भारो\ऽवश्यमपनेय इति भङ्ग्या निवेदयन्ति भवतः पदःपद्भ्यां भूमिम् इति श्रुतेः पादोद्भूतया भूमेर्भारापनीत इति दिष्ट्या भद्रमेतत् अद्यैव कंसादीन् हतान् जानीम इति भावः । त्वत्पदकैः सुकोमलैर्व्यजवज्राङ्कुशादिचिह्नसुशोभनैर्गां भूमिं द्यां स्वर्गं चाङ्कितां इक्ष्यामः ॥३८॥
॥ १०.२.३९ ॥
न तेऽभवस्येश भवस्य कारणं
विना विनोदं बत तर्कयामहे ।
भवो निरोधः स्थितिर् अप्य् अविद्यया
कृता यतस् त्वय्य् अभयाश्रयात्मनि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तव जन्मना भारोऽपनीत इत्य् उक्त्या ममापि किं जीववत् संसार उक्तो न हि न हीत्य् आहुः, नेति । वत हे ईश, असंसारिणस् ते जन्मनः कारणं क्रीडां विना न तर्कयामः । किं च हे अभयाश्रय, न भयम् आश्रयत, इति तथा तत् सम्बोधनम् । हे नित्य-मुक्तेत्य् अर्थः । तव जन्म-कारणं नास्तीति किं वक्तव्यम्, यतो जीवात्मन्य् अपि भवादयस् त्वयि विषये या अविद्या तया कृता न परमार्थः सन्तीति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जीववज् जन्माद्य् उक्तेः कुपितम् इव प्रसादयतां संभ्रमान्न् अहिनहीति द्विरुक्तिः । नेति । बत हे ईश बतामन्त्रण-सन्तोष-खेदानुक्रोश-विस्मये इति मेदिनी । बत संबुद्धौ ज्ञेयोत्र त्वयि विषये याविद्या तथा कृताः जीवस्यापि वस्तुतस् त्वद् रूपत्वात् त्वद् अज्ञान-कल्पिता इत्य् आह-न परमार्थत इति ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न भवः संसारो भक्तानाम् अपि जगताम् अपि वा यस्मात् तस्य, बत हर्षे । अन्यत् तैर् व्याख्यातम् । यद् वा, दुष्ट-वधादिना भार-हरणम् अपि त्वत् क्रीडैवेति
अथवा ननु, भू-भार-हरणार्थम् अवतीर्णस्य दुष्ट-वधादि-प्रयासेन सा विचित्र-क्रीडा कथं सिध्योदित्य् अत्राहुः—नेति । यत आत्मनि साक्षाद्भूते, न तु किञ्चिद्-व्यवहिते त्वयि वर्तमानया-विद्यया माययैव सृष्ट्यादयः कृता भवन्ति, आत्मनीत्य-विद्यायास् तत्र शक्तिः सम्भाविता, अतो दुष्ट-वधादिकं तव कियद् एतत् प्रयोजनम् इति भावः । यद् व, युष्मत् प्रार्थनया भू-भार-हरणायावतीर्णोऽस्मीति तद् एव कार्यम्, किम् अन्य-क्रीडयेत्यत्राहुः—नेति । गोकुलादि-क्रीडार्थम् अवतीर्णत्वात् तत्-क्रीडावश्यं कर्येति भावः । अन्यत् समानम् ।
यद् व, ननु, सृष्ट्याद्या महा-लीला वर्तन्ते, तद् अपेक्षया कोऽयं विनोदो नाम ? तत्राहुः—भव इति । आत्मनि जीवे विषये निमित्ते वा—जातावेकत्वम् । भवादयोऽविद्ययैव, ते मायिकाः । अयं च सत्य एवेत्य् अर्थः । एवं रूप-लीलानां सच्चिदानन्द-रूपताभिप्रेता ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न भवः संसारो भक्तानां जगतामपि वा यस्मात्तस्य बत हर्षे अन्यत्तैः । यद् वा, विनोदमात्रार्थत्वे हेतुः हे अभय ! यतः सर्वाश्रयात्मनि त्वय्याश्रित्य वर्तमाना या अविद्याविद्याख्यायाश्चिच्छक्तेरितरा माया तयैव नित्यं भवादयः कृता वर्तन्ते ततस्तदन्तःपातिपालनमात्रार्थं नायं स्वस्वरूपेण प्रयत्नविशेषो युक्त इति विनोदं विना कारणान्तरं न तर्कयामह इत्य् अर्थः । दुष्टवधार्थप्रयत्नश् च सभयस्यैव सम्भवतीति तदेवं विनोदस्य स्वरूपा\ऽनुबद्धत्वेन सृष्ट्यादिलीलाभ्यो महान् विशेषो दर्शितः । अत एव नागपत्नीभिर् उक्तम् । अव्याकृत-विहारायेति, अत एव अजित-रुचिर-लीलाकृष्ट-सारम् इत्य्-आदिकानि श्रीशुकादीनामपि विशेषणानीति ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मद्-विज्ञापितः अस्मद्-आदि-पालनार्थम् अवतीर्णोऽसीत्य् अस्माकम् अभिमान एव केवलं वस्तुत स्त्वं स्वैर-जन्म-कर्म-लीलोऽसीत्य् आहुः । नेति अभवस्य अजन्मनः भवस्य प्रादुर्भावस्य यत आश्रयात्मनि त्वयि त्वाम् आश्रित्य वर्तमाना या अविद्या माया तयैव भवादयो जगत्-सृष्ट्य्-आदयः कृता इत्य् अर्थः । नास्ति भयं यत इति तत् स्मरणाद् एव कंसाद्यसुरभयं निवर्तते । तत् वधार्थं तव स्वयम् एवाविर्भूयोद्यमो न घटत इति भावः ॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अस्मदभ्यर्थनयास्मदादिरक्षार्थमवतीर्णो\ऽसीत्यस्माकमभिमान एव केवलं वस्तुतस्तु स्वतन्त्रस्य तवानन्दरूपा क्रीडैवेयम् इत्य् आह—न ते इति । हे ईश! ते भवस्य देवक्यामाविर्भावस्य कारणं वयं न च तर्कयामहे किन्तु विनोदं विनेति जगत्सर्गादौ लीलैव कारणं न त्वन्यत् किमपीत्याह—सत्रकारः लोकवत्तु लीलाकैवल्यम् इति । कीदृशस्येत्य् आह—अभवस्येति अपूर्वदेहयोगौ भवस्तद्रहितस्य पूर्वसिद्धदेहस्यैव प्राच्यामिन्दोरिव देवक्यां प्रादुर्भवत इत्य् अर्थः । यत आश्रयात्मनि त्वयि त्वामाश्रित्य विद्यमानया अविद्यया मायया भवादयो जीवानां कृताः हे अभय भयनिवर्तक! यद्विचिन्तनाद् एव कालभयमपि निवर्तते तत्र त्वयि कः सो वराक इति भावः ॥३९॥
॥ १०.२.४० ॥
मत्स्याश्व-कच्छप-नृसिंह-वराह-हंस-
राजन्य-विप्र-विबुधेषु कृतावतारः ।
त्वं पासि नस् त्रि-भुवनं च यथाधुनेश
भारं भुवो हर यदूत्तम वन्दनं ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तुतं प्रार्थयन्ते, मत्स्याश्वेति । नोऽस्मांस् त्रि-भुवनं चान्यदा यथा पासि तथाधुनापि पाहीति वन्दनं ते इति च वदन्तः सर्वे शिरोभिः प्रणमन्ति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रस्तुतं भू-भार-निराकरणम् । अन्यदा इदानीन्तन-कालाद् अन्यस्मिन् काले । अश्वो हयग्रीवः । विप्रो जामदग्न्यः । विबुधो यज्ञः । कृतोऽवतारो येन स तथा । वयं तु तव नतिं विना किञ्चिद् अपि प्रतिकर्तुं न क्षमाः इत्य् आहुः-वन्दनम् इति । यदव उत्तमा उद्गत-क्लेशा येन स तथा तत्-संबुद्धौ तवाविर्भावेण यदूनां क्लेशो नङ्क्ष्यत्यतो झटित्याविर्भवेति संबुद्ध्य् अभिप्रायः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मत्स्याश्वेत्य् आदि । मत्स्यादिषु कृतारतारः सन् त्रिभुवनं नो\ऽस्मान् अपि पासि, हे ईश ! अधुना त्वं साक्षात् स्वयम् अवतीर्ण सन् भुवो भारं हरेत्य् अस्य सर्वेश्वरेश्वरतं प्रतिपादितम् ॥४०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे ईशेति तत्र सामर्थ्यं दर्शयन्ति । हे यदूत्तमेति अधुना श्री-कृष्ण-रूपत्वेन साक्षाद् भगवत्त्वात् पूर्वतो विशेषेण पालनं कर्तव्यम् इति भावः, अतएव भारं हरेति । अन्यत् तैर् व्याख्यातम् । यद् वा, यथा पासि, तथाधुनापि पास्यसि किम् ?—-काक्वा, ततोऽधिकं पाहीत्य् अर्थः । तद् एवाभिव्यञ्जयन्ति—भुवो भारं हरेति, श्री-नृसिंहाद्य् अवतारे त्वया हतानाम् अपि हिरण्य-कशिपु-कालनेति-प्रभृतीनां पुनर् अत्र जन्मना भुवो भारो भवत्य् एव, अधुना तथा विधेति, यथा तेषां पुनर् आवृत्तिर् न स्याद् इति भावः ।
नन्व् एवं, दुष्टानां मुक्ति-दानम् अयोग्यम् इत्य् आशङ्क्य तद् अर्थः सकाकु प्रणमन्ति—यदूत्तमेति । अन्यत् समानम् । गूढोऽयम् अभिप्रायः—अपुनर् आवृत्ति-मोक्षाप्त्या तेषां दुष्टानां कदाचिद् अपि दर्शनादिकं न भावीति भक्तानाम् अस्मादृशां परम-हितम् एव सिद्धम् इति । यद् व, ते तव बन्धनं जगत्-कर्तृक-भजनं यथा स्यात् तथा दुष्ट-वधादिना भूवो भारं हर । किं वा, ते त्वदीयानां यदूनां यदु-प्रधान-भक्तानाम् उत्तम-बन्धनं यथा स्यात्, दुष्टानाम् अत्यन्ताभावेनैव प्रेम-भक्ति-सिद्ध्यात्यन्ताभाव-लक्षणो मोक्षस् तान् प्रति दातुं योग्य एवेति भावः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे ईश ! इति तत्र सामर्थ्यं दर्शयन्ति हे यदूत्तम ! इति अधुना श्री-कृष्णरूपत्वेन साक्षाद्भगवत्त्वात् पूर्वतो\ऽपि विशेषेण पालनं कर्त्तव्यम् इति भावः । अत एव भारं हरेति यद्यपि मया हतांस्त्वं जहि मा व्यथिष्ठाः इति रीत्या तव जन्मना भारो\ऽपनीत इत्युक्त्यैव तत्प्रार्थना विशेषतो लब्धा तथापि पुनर्बहिस्तल्लीलादर्शनार्थमत्युकण्ठयेवेदमुक्तम् इति ज्ञेयम् । अन्यत्तैः यद् वा, यथा पासि तथा\ऽधुनापि पासि पास्यसि काक्वा ततो अधिकम् एव पास्यसीत्य् अर्थः । तदेवाभिव्यञ्जयन्ति भुवो भारं हरेति श्रीनृसिंहाद्यवतारे त्वया हतानामपि हिरण्यकशिपुकालनेमिप्रभृतीनां पुनरत्र जन्मना भुवो भारो भवत्येव अधुना तथा विधेहि यथा तेषां पुरावृत्तिर्न स्यात् येन भक्तानामस्माकं तादृशदुष्टादर्शनेन च परमहितं स्यादिति भावः । नन्वेवं दुष्टानां मुक्तिदानमयोग्यमित्याशङ्क्य तदर्थं सकाकु प्रणमन्ति यदूत्तमेति अन्यत् समानम् ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अप्य् अस्माकम् अधीराणां बहुधैवावगत-चरं वैकल्यम् अवगम्यतां चेत्य् आहुः—मत्स्याश्वेति । तथैव भूवो भावं हरेति भू-भार-हरणम् एव सम्प्रत्य् अस्माकं पालनम् इति भावः । वन्दनं ते इति वदन्तः सर्वे शिरोभिः प्रणमन्ति ॥४०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तथाप्य् अधीराणाम् अस्माकं विज्ञापनम् अवधारयेत्य् आह—मत्स्येति, अश्वेषु हयग्रीवः, राजन्येषु रामचन्द्रः, विप्रेषु परशुरामः, विबुधेषु वामनः, त्वं नस् त्रिभुवन-पतीन् त्रिभुवनं च यथा सर्वदा पासि तथाधुना भुवो भारं हरेति पूर्णस्य ते नतिर् एव पूजेत्य् आह—वन्दनं ते इति वदन्तः शिरोभिः प्रणेमुः ॥४०॥
॥ १०.२.४१ ॥
दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान्
अंशेन साक्षाद् भगवान् भवाय नः ।
माभूद् भयं भोज-पतेर् मुमूर्षोर्
गोप्ता यदूनां भविता तवात्मजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवकीं प्रत्य् आहुः, दिष्ट्येति । नोऽस्माकं भवायोद्भवाय साक्षात् परः पुमांस् ते कुक्षिं गतः अतो भयं मा भुद् इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्र्त्य् आहुः—सान्त्वयामासुः । यदूनाम् अंशेनापि भोजपतेः कंसस्य सकाशाद् भयं मा भूत् किं हर्यवतारेण सर्वं तेषां भयं नष्टं भविष्यतीति । यद् वा, योशेनः परः पुमान् प्रकृतीक्षण-कर्ता पुरुषः स साक्षाद् इति सम्बन्धः । अन्यथा कृष्णस्तु भगवान् स्वयम् इत्य् उक्ति-रसमञ्जसा स्याद् इति भावः । हे अम्बेति । भगवन् मातृत्वेन परमवन्द्यत्वात् । यद्य् अपि मनस्तो दधारेयुक्तं तथापि मातरि कुषिगत इति तथैव वक्तुं योग्यत्वाद् उक्तम् । अंशेन श्री-बदेवेन तस्यापि तस्यां जन्म प्रकाशितम् इति यद् वांशेन मत्स्यादिना योऽस्माकं भवाय भवेत् स एव साक्षात् ते कुक्षिगत इति दिष्ट्या ।
ननु, कंसस्य दुश्चेष्टाभरेण बिभेमि तत्राहुः—मुमूर्षोर् इति । निकटापातमृत्युत्वाद् एवं चेष्टत इति भावः । ते भयं मा भूत्त्वं भयं मा कुर्वित्य् अर्थः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दिष्ट्येत्य् आदि । हे अंब मातः ! देवः परो भगवान् साक्षात् स्वयम् एव ते तव कुक्षिं गतं कुक्षिं गतः कुक्षि-प्रविष्टः, यः खल्वंशेन भवायनो भवो विश्वमयनं यस्यांशेन पुमान् पुरुषावताः, अतो भोज-पतेः सकाशाद् भयं मा भूत् । यद् वा, नो\ऽस्माकं भवाय वृद्धये साक्षात् भगवान् ते तव कुक्षिं गतः, अंशेन पुरुषः पुरुषावतारो यस्यांशे इत्य् अर्थः । अतः परः परात्परः ॥४१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अन्यैर् अलक्ष्यमाणा देव्याः श्री-भगवन्तं स्तुत्वा तेनैवातिविस्मितां श्री-देवकीम् आश्वासयन्ति—दिष्ट्या[ंब्]{।मर्क्}एति, हे मातर् इति भगवन् मातृत्वेन परम-वन्द्यत्वात् यद्य् अपि मनस्तो दधारेत्य् उक्तम्, तथापि कुक्षिगत इति स्नेह-विशेष-जननार्थं तव पुत्र इत्य् अर्थः । भक्त-वात्सल्येन स्नेहभर-जननार्थं कुक्षि-प्रवेशोऽपि भगवत्तया विकारादि-दोषाभाव एवेति सिद्धान्तेऽपि विरोधो न स्यद् एव । परः पुमान् पुरुषोत्तमः परमेश्वर इत्य् अर्थः । तत्र च साक्षात् स्वयम् एव, न त्व् अंशादिना, अत एव भगवान् सर्वैश्वर्य-युक्तोऽंशेन श्री-बलदेवेनेति तस्यापि तस्यां जन्म प्रकाशितम् इति । ज्ञेयम् । यद् वा, योऽंशेन मत्स्याश्व-कच्छपादिना नोऽस्माकं भवाय भवेत्, स एव साक्षात् ते कुक्षिं गत इति यद् एतद् दिष्ट्या । नः इति श्री-देवकी-वसुदेवादीन् अप्य् आत्मीयत्वेन गृह्नन्ति ।
ननु, कंसस्य दुश्चेष्टाभरेण विभेमि ? तत्राहुः—मुमूर्षोर् इति निकटायात-मृत्युत्वाद् एवं चेष्टत इति भावः ।
ननु, न जाने तावद् एव किम् अनिष्टं स्याद् इति ? तत्राहुः—गोप्तेति, यदूनां सर्वेषां अपि, किं पुनस् तव वसुदेवादीनाम् एवेत्य् अर्थः । एवं नित्यम् एव देवास् तां स्तुवन्तीति ज्ञेयम् । तथा च श्री-विष्णु-पुराणे—
अदृष्टाः पुरुषैः स्त्रीभिर् देवकीं देवता-गणाः । > विभ्राणां वपुषा विष्णुं तुष्टुवुस् ताम् अहर्निशम् ॥ इति ।[वि।पु। > ५.२.६] ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवमन्यैरलक्ष्यमाणा देवाः श्रीभगवन्तं स्तुत्वा तेनैवातिविस्मितां श्रीदेवकीमाश्वासयन्ति—दिष्ट्याम्ब ! इति हे मातरिति भगवन्मातृत्वेन परमवन्द्यत्वात् यद्यपि मनस्तो दधारेत्युक्तं तथापि कुक्षिङ्गत इति मातरि तस्यां तथैव वक्तुं योग्यत्वादुक्तं परः पुमान् परमपुरुषोत्तम इत्य् अर्थः । तत्र साक्षात् स्वयम् एव न त्वंशादिना अत एव भगवान् सर्वैश्वर्ययुक्तः अंशेन श्रीबलदेवेनेति तस्यापि तस्यां जन्म प्रकाशितम् इति ज्ञेयं न इति साक्षात्तदङ्गविशेषयोर्युवयोर्भवायेति किंवक्तव्यमपि तु तत्प्रजानामस्माकमेवेत्य् अर्थः । यद्वा, अंशेन मत्स्याश्वादिना यो\ऽस्माकं भवाय भवेत् स एव साक्षात्त कुक्षिं गत इति यत् एतद्दिष्ट्या । ननु, कंसस्य दुश्चेष्टाभरेण विभमि तत्राहुः—मुमूर्षोरिति । निकटायातमृत्युत्वादेवं चेष्टत इति भावः । ते भयम्माभूत्त्वं भयमाकुर्वित्य् अर्थः । ननु, न जाने तावद् एव किमनिष्टं स्यादिति तत्राहुः—यदूनां सर्वेषामपि किम्पुनस्तव श्रीवसुदेवादीनां वा तस्य स्वस्य वेत्य् अर्थः । एवं नित्यम् एव देवास्तां स्तुवन्तीति ज्ञेयं तथा च विष्णु-पुराणे—
अदृष्टाः पुरुषैः स्त्रीभिर् देवकीं देवता-गणाः । > बिभ्राणां वपुषा विष्णुं तुष्टुवुस् ताम् अहर्-निशम् ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : योऽंशेन मत्स्यादिनाऽस्माकं भवाय स साक्षात् स्वयम् एवेति कुक्षिं गत इति पूर्वे मनस्तो दधारेत्य् अप्य् उक्तम् । तत एक-वाक्यतानुरोधेनायम् अर्थः—यद्यपि तदीय-प्राचीन-तादृश-प्रेम-याच्ञा-वशतया कुक्षिं प्रविष्ट एव, तथापि कुक्ष्य्-आदि-द्रव्यं भगवतोऽवरोधकं न स्यात्, किन्तु प्रेमैवेति । तस्य च प्रेम्ण आश्रयः कुक्षिर् न भवति, किन्तु मन एवेति तद्-आत्मतया मन एव तद्-धारणे साधनम् । ततः कुक्षिं-गतः मनसैव दधारेति ॥४१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवकीं स्तुवन्त आश्वासयन्ति दिष्ट्येति । अंशेन बलदेवेन सह कुक्षिं गतः । यद् वा, । यो ऽंशेन परः पुमान् प्रकृतीक्षणकर्ता भवेत् स साक्षाद्भगवानित्य् अर्थः । भवाय भुत्यै ॥४१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हरिमातरं स्तुवन्त आश्वासयन्ति दिष्ट्येति । यो\ऽशेन परः पुमान् कारणोदशयः स साक्षाद्भगवान् स्वयं प्रभुरित्य् अर्थः । भवाय भूत्यै ॥४१॥
॥ १०.२.४२ ॥
श्री-शुक उवाच—
इत्य् अभिष्टूय पुरुषं यद्-रूपम् अनिदं यथा ।
ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर् दिवम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य रूपम् अनिदं सर्व-प्रत्यग्-भूतम् । यथा यथावत् । अस्मान् वञ्चययित्वा एताव् इह स्थास्येते इति मन्यमाना ब्रह्मेशानौ पुरोधाय पुरतः कृत्वा ययुर् इति ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्व-प्रत्यग्-भूतं सर्वान्तरम् । यद् वानिदम् । इदन्तया वक्तुम् अशक्यं प्रत्यक्ष-जगद् विलक्षणम् । एताविह स्थितौ किञ्चिद् रहस्यं मा द्रक्ष्य्सत इति मन्यमाना देवा ब्रह्मेशानौ पुरोधायैव ययुर् इति भावः ॥४२॥ गर्भस्य देवक्य् अष्टम् अ-गर्भस्य स्तुतिर् यस्मिन् स गर्भ-स्तुतिः अस्य द्वितीयाध्यायस्य नामेत्य् अर्थः ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरुषम् इति श्री-देवकी-हृदय-पुरे स्थित्य् अभिप्रायेण । यद् वा, पुरुषोत्तमम् अपि यस्य रूपम् अनिदं प्रपञ्चातीतं परब्रह्मात्मकम् इत्य् अर्थः । तथा-भूतम् अपीत्य् अनेन देवक्यां जन्म-मात्रेणैव भू-भारोऽपनीत इत्य्-आदि-प्रकारेणाभितः स्तुत्वेति परमात्मतादि-वर्णनेन स्तवनाद् अपि देवकी-गर्भ-जातत्वादि-वर्णन-स्तुतेर् उत्कर्षोऽभिप्रेतः ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुरुषम् इति श्री-देवकी-हृदय-पुरे स्थित्य्-अभिप्रायेण । यद् वा, परम-पुरुषोत्तमं यस्य [रूपम् अन् इदं]{।मर्क्} प्रपञ्चातीतं पर-ब्रह्मात्मकं तथा तथा-भूतत्वेन स्तुतेर् अविषयम् अपीत्य् अर्थः । इत्यनेन देवकी-जन्म-मात्रेणैव भू-भारो\ऽपनीत इत्य्-आदि-गर्भितेन प्रकारेणाभितः स्तुत्वेति परमात्मतादि-वर्णनेन स्तवनाद् अपि श्री-देवकी-गर्भ-जातत्वादि-वर्णन-स्तुतेर् उत्कर्षो\ऽभिप्रेतः ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य रूपं अनिदं प्रपञ्चातीतं चिन्मयम् इत्य् अर्थः । अस्मान् वञ्चयित्वा एताव् इह किमपि रहस्यं अद्भुतं द्रक्ष्यत इति मन्यमाना ब्रह्मेशानौ पुरतः कृत्वा ॥४२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यस्य रूपमनिदं प्रप;चातीतं विज्ञानानन्दमयम् इत्य् अर्थः । ब्रह्मोशानौ पुरोधायेति—अस्मान् वञ्चयित्वा किम् अप्य् अद्भुतम् एतौ ईक्ष्यत इति मन्वानास् ताव् अग्रे कृत्वेत्य् अर्थः ॥४२॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमद्-बलदेव-विद्याभूषण-कृत-वैष्णवानन्दिन्यां द्वितीयो\ऽध्यायः ॥२॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वितीयो दशमेऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
गर्भ-गत-विष्णोर् ब्रह्मादि-कृत-स्तुतिर् नाम
द्वितीयोऽध्यायः ।
॥१०.२॥
* इन्दिचतेस् एदितेद् वेर्सेस्
(१०.३)
-
तत्-सिद्धेर् इति ↩︎
-
आरामम् अस्य पश्यन्ति न तं पश्यति कश्चन; न तम् विदाथ य इमा जजानान्यद् युष्माकम् अन्तरम् बभूव; नीहारेण प्रावृता जल्प्या चासु-तृप उक्थ-शासश् चरन्ति। भा।पु। १०.८७.२२ द्रष्टव्यम्। ↩︎
-
११.११.६ ↩︎
-
दार्ढ्यार्थं ↩︎
-
मायाधीनैव ↩︎
-
हे माधव ! यथा अभक्ता भ्रश्यन्ति, तथा तावकास् त्वद्-भक्ता भजन- मार्गान् न भ्रश्यन्ति । त्वयाभिगुप्ताः सर्वतो रक्षिताः सन्तः विनायानीकपस्य विघ्न-रूप-सेना-पालकस्य मूर्धसु विचरन्ति त्वद्-आश्रयेण विघ्नान् न गणयन्तीति तात्पर्यार्थः ॥ इति सर्वोत्तमाश्रयत्वे गर्व-सञ्चारि-दृष्टान्ते भक्ति-रसामृत-सिन्धु-(२.४.४६)-टीकायां चक्रवर्ति-पादाः । ↩︎
-
ओर् अज्ञान-भिद् आप मार्जनम्। ↩︎