श्री-कृष्णावतारोपक्रमः, ब्रह्म-कर्तृकं पृथिव्या आश्वासनं, कंसस्य देवकी-वधोद्योगाद् वसुदेव-वचनेन निवृत्तिः, षण्णां देवकी-पुत्राणां कंस-कर्तृको वधश् च ।
॥ १०.१.१ ॥
श्री-राजोवाच—
कथितो वंश-विस्तारो भवता सोम-सूर्ययोः ।
राज्ञां चोभय-वंश्यानां चरितं परमाद्भुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
श्री-गणेशाय नमः ।
विश्व-सर्ग-विसर्गादि-नव-लक्षण-लक्षितम् ।
श्री-कृष्णाख्यं परं धाम जगद्-धाम नमाम तत् ॥१॥
दशमे दशमं लक्ष्यम् आश्रिताश्रय-विग्रहम् ।
क्रीडद् यदु-कुलाम्भोधौ परानन्दम् उदीर्यते ॥२॥
दशमे कृष्ण-सत्-कीर्ति-वितानायानुवर्ण्यते ।
धर्म-ग्लानि-निमित्तस् तु निरोधो दुष्ट-भूभुजाम् ॥३॥
प्राकृतादिश् चतुर्धा यो निरोधः स तु वर्णितः ।
तत्-तत्-प्रसङ्गतः सृष्टि-संहारादि-निरूपणैः ॥४॥
कृता नवतिर् अध्याया दशमे कृष्ण-कीर्तये ।
आदौ चतुर्भिर् अध्यायैर् ब्रह्म-प्रार्थनयावनेः ।
भारं हर्तुं हरेर् जन्म स-प्रसङ्गं निरूप्यते ॥५॥
गोकुले मथुरायां च द्वारवत्यां ततः क्रमात् ।
कृष्ण-लीला त्रिधा प्रोक्ता तत्-तद्-भेदैस् त्व् अनेकधा ॥६॥
स-पञ्चत्रिंशद्-अध्यायैर् बृहद्-वृन्दावनादिषु ।
गोकुले वसतो लीला वर्ण्यते सुर-दुष्करा ॥७॥
एकेन यमुना-वारिण्य् अक्रूरेण कृता स्तुतिः ।
एकादशभिर् आख्याता लीला मधुवने कृता ॥८॥
शेषैर् द्वारवती-लीला तन्-निर्माणादि वर्ण्यते ।
एवं नवतिर् अध्याया दशमे विशदार्थकाः ॥९॥
तत्र तु प्रथमे कंसः स्व-मृत्युं देवकी-सुतात् ।
श्रुत्वा भीतोऽवधीत् तस्याः षड्-गर्भान् इति वर्ण्यते ॥१०॥
कृष्णावतार-चरित-श्रवणामृत-निर्वृतः ।
उक्तानुवादेनौत्सुक्याद् राजा पृच्छति तत् पुनः ॥११॥
कथितो वंश-विस्तार इति ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
ॐ स्वस्ति गणेशाय नमः ।
वन्दे देवं पार्वतीजं महेशं
वाचं सूर्यं मां गुहं राधिकेशम् ।
विद्या-तीर्थान् सर्वतश् च प्रणम्य
व्याख्यां कुर्वे श्रीधर-स्वामि-वृत्तेः ॥१॥
हरि-विधि-वशिष्ठ-शक्ति-पराशर-व्यास-शुकदेवान् ।
वैशम्पायनम् उग्रश्रवसं च नुमः पुराण-गुरु-मुख्यान् ॥२॥
त्रय्यारुणिं कश्यपं च सावर्णिम् अकृत-व्रणम् ।
रोमहर्षण-हारीतौ मैत्रेयं च मृकण्डजम् ॥३॥
शेषं साङ्ख्यायनं चाथ चतुरः सनकादिकान् ।
सर्वांष् टीका-कृतश् चार्थान् कणादं जैमिनिं मुनिम् ॥४॥
पतञ्जलिम् अक्षपादं व्य्सं च कपिलं हरिम् ।
छन्दः-कृतः कौशकृतः साहित्य-कृतिनो\ऽखिलान् ॥५॥
श्री-नृसिंहं प्रणम्यैव श्रीधर-स्वामिनः कृतेः ।
विवृतिं श्रीधरस्यैव प्रसादाद् अधुना ब्रुवे ॥६॥
श्रीधर-स्वाम्य्-अभिप्रायं श्रीधरो वेत्ति सर्वथा ।
भविष्यति तत्-कृपया तद्-अभिव्यक्तिर् आशु मे ॥७॥
क्वचिच् च श्रीधर-त्यक्त-पादानाम् अपि वर्णनम् ।
यथामति माथुराणां प्रेरणातो मुहुर् मुहुः ॥८॥
करिष्यामि विदां प्रीत्यै क्षमन्तां ते मम त्वराम् ।
पूर्वाचार्यानुग्रहान् मे सर्वे\ऽर्थाः प्रतिभान्तु वै ॥९॥
वृन्दारण्यान्तर्गते नन्दजेन
सेवा-कुञ्जे संयुतां कीर्तिजाताम् ।
नत्वा तस्याः प्राप्य चाज्ञां स्व-बुद्ध्या
कुर्वे व्याख्यां श्रीधर-स्वामि-वृत्तेः ॥१०॥
प्रथमं दशम-स्कन्ध-व्याख्यां कुर्वे कुतूहलात् ।
श्री-कृष्ण-लीला-माधुर्य-सेवनासक्त-चेतसः ॥११॥
वंशीधरः कौशिक-गोत्र-गौड-
वंश्यः कृती श्रीधर-वृत्ति-वृत्तिम् ।
करोम्य् अहं कृष्ण-पद-प्रसादात्
तथा गुरूणाम् अनुकम्पयैव ॥१२॥
अथ स्कन्धादौ प्रतिस्कन्ध-व्याख्यावसर-नमस्कृत-श्री-राम-प्रणतिं चेतस्य् आगतातिरम्य-श्री-कृष्ण-लीला-स्मृति-विभ्रमेण निहायैव श्री-दशम-स्कन्ध-मुख्य-वर्णनीय-श्री-कृष्णं श्रीधर-स्वामी प्रणौति—विश्व-सर्गेति । वयं तद्-अनिर्वचनीयम् इयत्तया गुण-रूपादिना वेयद् ईदृग् इति वक्तुम् अशक्यं धाम तेजो रूपं ब्रह्म नमाम । बहुत्वं शिष्याभिप्रायम् । नमतेः, विधि-निमन्त्रणामन्त्रणाधीष्ट-प्रश्न-प्रार्थनेषु लिङ् लोट् च इति प्रार्थायां लोट्, नमनेन प्रार्थयाम इत्य् अर्थः । न तु यत्-तदोर् नित्य-सम्बन्धाद् अत्र यच्छब्दोपादानं कथं न कृतम् इति चेत्, तत्राह—तत् त्वम् असि इति श्रुतौ, तच्-छब्दस्य ब्रह्म-वाचकत्व-दर्शनात् तच्-छब्दोऽत्र ब्रह्म-वाचकः प्रसिद्धः, सोऽहं हंसः इत्य् अत्र च । ततश् चात्र यच्-छब्दोपादानं नापेक्षते प्रक्रान्त-प्रसिद्धानुभूतार्थ-विषयस् तच्-छब्दो यच्-छब्दोपादानं नापेक्षते इति काव्य-प्रकाशोक्तेः । यथा कुमार-सम्भवे कला च सा कान्तिमति कलावतः इत्य् अत्रेति, गृह-देह-त्विट्-प्रभावा धामानि इत्य् अमरः । किं-भूतं श्रीयते सेव्यते ब्रह्मादिभिः श्री-कृष्णेन वेति श्री-राधा । सर्वैर् आपूज्यते देवी राधा वृन्दावने वने इति ब्रह्माण्डे ब्रह्मोक्तेः । यच् चिन्त्यम् अखिलेश्वरैः इति तत्रैव नारदोक्तेश् च । राधैवाराध्यते इति श्री-कृष्णोक्तेश् च, राध्यते सा भगवता राधा इत्य् अभिधा स्फुटम् इत्य्-आदि-पुराणोक्तेश् च । श्री-शब्दो राधार्थकः । यद् वा, श्रयति राध्नोति सर्वदा वृन्दावन-निकुञ्जगं श्री-नन्दनन्दनम् इति श्री-राधा ।
वृन्दावने निकुञ्जस्थो राध्यते सर्वदा यया ।
नन्द-सूनुर् अतो राधा सोच्यते मुनि-सत्तम ॥ इति पुराणान्तरात् ।
कृषति निज-समीपम् आकर्षति वेणु-रवेण वल्लवी-गणम् इति कृष्णो यशोदा-नन्दनः ।
ननु मधुर-गीतादिना त्व् अन्येऽपि प्रमदा-गणम् आकर्षति । तत्र को विशेषः ? इत्य् अरुच्याह—कृषति विलिखति निजानां संसारम् इति कृष्णः । सद्-आनन्द-स्वरूपो भक्त-जन-पापौघ-नाशकश् च ।
कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः ।
तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ इति श्रुतेः सद्-आनन्द-रूपः ।
कोटि-जन्म-कृतं पापं कृषिर् इत्य् उच्यते बुधैः ।
तन्-नाशन-करो देवः कृष्ण इत्य् अभिधीयते ॥
इति ब्रह्म-वैवर्तात् पाप-नाशक-रूपश् च कृष्ण-पदार्थः । श्रिया सहितः कृष्णः श्री-कृष्णः । यद् वा, श्रीश् च ते लक्ष्मीश् च ते पत्न्यौ इति श्रुतौ । श्री-शब्देन राधा लक्ष्मी-शब्देन रमा । चात् सरस्वती ग्राह्या । केशवस्य प्रियां देवीम् इति बृहस्पत्य्-उक्तेः । तथा च श्रीश् च श्रीश् च श्रीश् चेत्य् एक-शेष-समासेन श्रिय इति स्यात्, ततः शब्धिः राधा-रमा-गीर्भिः सहितः कृष्णः श्री-कृष्णः । स आख्याऽभिधा यस्य तच् छ्री-कृष्णाख्यम् ।
पुनः विश्व-सर्ग-विसर्गादि-नव-लक्षण-लक्षितम् । सर्गश् च विसर्गश् च सर्ग-विसर्गौ विश्वस्य सर्ग-विसर्गौ विश्व-सर्ग-विसर्गौ । तौ आदी एषां स्थानादीनां तानि विश्व-सर्ग-विसर्गादीनि तानि च नव लक्षणानि विश्व-सर्ग-विसर्गादि-नव-लक्षणानि तैर् नवभिर् लक्षितं लक्ष्यत्वेन ज्ञापितम् । यद्यपि,
अत्र सर्गो विसर्गश् च स्थानं पोषणम् ऊतयः ।
मन्वन्तरेशानुकथा निरोधो मुक्तिर् आश्रयः ॥ [भा।पु। २.१०.१]
इति लक्षणानि दशोक्तानि, तथापीहाश्रय-रूपस्य दशमस्य लक्ष्याभिप्रायेण न वेत्य् उक्तिर् बोध्या । नाम-रूपत्वेऽपि माया तत्-कार्यास्पृष्टत्वम् आह—परम् इति । परं सर्वस्मात् परतमं,
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥
महतः परम-व्यक्तम् अव्यक्तात् पुरुषः परः ।
पुरुषान् न परं किंचित् सा काष्ठा सा परा गतिः ॥ [क।उ। १.३.१०-११] इति श्रुतेः ।
यद् वा, परं निर्भयम् अन्येषां देवानां गृहीत-शस्त्रत्वेन सभयत्व-प्रतीतेः श्री-कृष्णस्य वंशी-विभूषित-करत्वान् निर्भयत्वं स्फुटम् इति । पुनः जगतो धामेति सत्-पुरुषस् तु जगद् अधिष्ठानत्वेन लक्ष्य-रूपताम् आह—जगन्ति स्थावर-जङ्गमात्मकानि सर्वाणि धामानि यस्येति तत् तथेति समासस् तु सर्वान्तर्यामिताम् आह । अत एव वक्ष्यति—कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् [भा।पु। १०.१४.५५] इति ।
यद् वा, दश-लक्षणम् इत्य् उक्तेः सर्गादीनि दश-महा-पुराण-लक्षणानि श्रीमद्-भागवतस्यैव सन्ति कथं तानि श्री-कृष्णस्य सञ्जाघटति, तथापिइ—इदं भागवतं नाम पुराणं ब्रह्म-संमितम् इत्य्-उक्तेः, तेनेयं वाङ्-मयी मूर्तिः श्री-कृष्णस्य न संशयः इति पाद्मोक्तेश् च श्री-कृष्ण-श्री-भागवतयोर् भेदाभावेनैक-रूपत्वात् तत्रापि तानि न विरुद्धानीति । किं चैतानि च सर्गादीनि सर्व-महा-पुराण-साधारण-लक्षणानि श्री-भागवतस्यैव सन्ति यत् साधारण-लक्षणं तत् तु प्रथम-स्कन्धे—ग्रन्थोऽष्टादश-साहस्रो द्वादश-स्कन्ध-संमितः इत्य् अनेन स्वामि-चरणैः प्रथम-स्कन्धे प्रथम-श्लोक-व्याख्याने प्रपञ्चितम् । लक्षणत्वं च लक्ष्यतावच्छेदक-सम-नियतत्वं लक्ष्यं च यद् उद्दिश्य लक्षणं प्रवर्तत इति । इह च महा-पुराणं लक्ष्यं तत्र लक्ष्यतावच्छेदकं महा-पुराणत्वं तत्-सम-नियतत्वं सर्गादि-दशकस्येति समन्वयः । श्री-भागवतस्य महा-पुराणत्वं तु द्वादशे वक्ष्यति—
श्रीमद्-भागवतं नाम सर्गादि-दश-लक्षणम् ।
महा-पुराणम् अल्पं च पञ्च-लक्षणम् इष्यते ॥ इति ।
यत् त्व् अमर-सिंहेन पुराणं पञ्च-लक्षणम् इत्य् उक्त्वा पञ्च-लक्षणस्यैव पुराणत्वं प्रतिपादितं तद् अल्प-पुराण-विषयम् एवान्यथा,
दश-लक्षण-संयुक्तं पुराणं कवयो विदुः ।
केचित् पञ्चविधं ब्रह्मन् महद् अल्प-व्यवस्थया ॥ इति व्यासोक्तिर् व्याकुप्येतेति ॥(१)॥
अथ दशम-स्कन्ध-वर्णनीयम् आह—दशम इति । दशमे दशम-स्कन्धे । दशमं लक्ष्यम् उदीर्यते । किं-भूतम् ? आश्रितानां जगताम् आश्रयः,
आभासश् च निरोधश् च यतश् चाध्यवसीयते ।
स आश्रयः परं ब्रह्म
इत्य्-उक्त-लक्षणो विग्रहः स्वरूपं यस्य तत् तथा । एतादृग् लक्ष्यं श्री-कृष्णे एव इत्य् एतद् अप्य् अतो लभ्यते । तथा हि—अं वासुदेवम् आश्रिताश्रिता रमा राधा गीर् वा, तस्या आश्रयो विग्रहो देहो यस्य लक्ष्यस्य तत् तथा ।
यद् वा, वीनां पक्षिणाम् आश्रय आश्रय-विर् गरुडः । राजदन्तादिवत् समासः । आश्रित आश्रय-विर् येन स आश्रिताश्रय-विर् वैकुण्ठ-नायको विष्णुर् उपलक्षणम् एतन् नृसिंह-यज्ञ-नर-नारायण-रामचन्द्राणाम् । तं गृह्णाति स्वस्मिन् प्रविलापयतीत्य् आश्रिताश्रय-विग्रहम् । प्रथितम् एतद् वृत्तं गर्ग-संहिता-गोलोक-खण्डे । अनेन नन्द-नन्दनस्यैव लक्ष्यत्वम् आयातम् । अत एव परान् ब्रह्म-रुद्रादीन् आनन्दयति निज-लीलयेति परानन्दम् । नन्दः प्रमुदितो मेने आत्मानं पूर्णम् आशिषाम् [भा।पु। १०.८.२०] इत्य्-आदि बहुशो वक्ष्यमाणत्वात् । पुनः यदु-कुलम् एवाम्भोधिर् इवेत्य् उपमानोत्तर-पद-समासस् तत्र क्रीडतीत् क्रीडत्, क्रीडृ विहारे शतृ-प्रत्ययः । प्रसिद्धाम्भोधौ शशिवद् इति व्यज्यते । नन्द-गोप-कुलम् अपि यदु-कुलम् एव । तथा हि—
अथ सर्व-श्रुति-पुराणादि-कृत-प्रशंसस्य यदु-कुलस्यावतंसः श्री-देवमीढ-नामा परम-गुण-धामा मथुराम् अध्यासामास । तस्य भार्या-द्वयम् आसीत् । प्रथमा द्वितीय-वर्णा, द्वितीया तृतीय-वर्णेति । तयोश् च पुत्र-द्वयं प्रथमं बभूव, शूरः पर्जन्य इति । तत्र शूरस्य श्री-वसुदेवादयः । [गो।च। १.३.१८]
अत एवोक्तं श्री-मुनिना—वसुदेव उपश्रुत्य भ्रातरं नन्दम् आगतम् [भा।पु। १०.५.२०] इति ।
श्री-पर्जन्यस् तु माटृवद् वर्ण-सङ्करः इति न्यायेन प्रायणं हि जनाः सर्वे यान्ति मातामहीं तनूम् इत्य् न्यायेन च वैश्यताम् एवाविश्य गो-वृत्ति-पूर्वकं बृहद्-वनम् एवासाञ्चकार । स च बाल्याद् एव ब्राह्मण-दर्शं पूजयति । , मनोरथ-पूरं देयानि वर्षति, वैष्णव-वेदं स्निह्यति, यावद् वेदं व्यवहरति, यावज्-जीवं हरिम् अर्चयति स्म । तस्य मातुर् वंशश् च व्याप्त-सर्व-दिशां विशां वतंसतया परं शंसनीयः । [गो।च। १.३.१९]
एवम् एव च गोप-वंशोऽपीति पाद्मे सृष्टि-खण्डे स्पष्टीकृतः । स च श्रीमान् पर्जन्यः वैश्यान्तर-साधारण्यम् अतीयाय । यस्य भार्य् नाम्ना वरीयसीत्य् आसीत्, यस्य च श्रीमद्-उपनन्दादयः पञ्चात्मजा जगद् एवानन्दयामासुः । तथा च वन्दिन उपमान्ति स्म—
उपनन्दादयश् चैते पितुः पञ्चैव मूर्तयः ।
यथानन्दमयस्यामी वेदान्तेषु प्रियादयः ॥ [गो।च। १.३व्१५] इति ।
तस्य पुत्र-सम्पत्तिस् तु परंअ-रमणीयताम् अवाप, मध्यम-सुत-सम्पत्तिस् तु सुतराम् [तत्र १.३.२५] । तद् एवं सुमुख-नाम्ना केनचिद् गोप-मुख्येन श्री-पर्जन्य-मध्यम-सुताय श्री-नन्दाय परम-धन्या कन्या दत्ता [तत्रैव १.३.३०] ।
या खलु स्व-गुण-वशीकृत-स्वजना यशांसि ददाति शृण्वद्भ्यः, किम् उत पश्यद्भ्यः, किम् उततराम् भक्तिमद्भ्यः । ततश् च तयोर् दाम्पत्येन सर्वेषाम् अपि सुख-सम्पत्तिर् अजायत, किम् उत मातर-पितरादीनाम् । [तत्रैव १.३.३०]
तद् एवम् आनन्दित-सर्व-जनः पर्जन्यः स्वयम् अपि सुखम् अनुभूय श्री-गोविन्द-पदारविन्द-भजन-मात्रान्वितां देह-यात्राम् अभीष्टां मन्यमानः सर्व-ज्यायसे सुताय स्व-कुल-तिलकतां दातुं श्री-वसुदेवादि-नरदेव-गर्गादि-भूदेव-कृत-प्रभायां सभायां स्वजनान् आहूतवान् । [तत्रैव १.३.३१]
स च ज्यायांस् तत्र सदसि मध्यमं निजानुजं नन्द-नामानं पितुर् आज्ञया कृतकृत्यः सन् गोकुल-राजतत्त्व् सभाजयामास । [तत्रैव १.३.३२]
अथ सङ्कुचति तत्रानुजे सर्वत्र स-विस्मये सर्व-जने पितरि च रोचमान-लोचने च स प्रोवाच—मयेदं स्नेह-सद्-गुण-पराधीनेनाचरितम् इति राजायम् अस्माकम् । ततो देवैस् तद्-उपरि पुष्प-वृष्टिर् अकारि सदस्यैश् च । [तत्रैव १.३.३३-३४]
तथा हि—
किं भय-मूलम् अदृष्टं किं शरणं श्री-हरेर् भक्तः ।
किं प्रार्थ्यं तद्-भक्तिः किं सौख्यं तत्-पर-प्रेम ॥ [तत्रैव १९] इति ।
श्रीमान् उपनन्दः श्री-नन्द-व्रज-महेन्द्र-सदसि मन्त्रितया स्थितवान् । तस्य च श्री-नन्द-राजस्य श्री-गोलोकेशः श्री-कृष्णो द्वादशी-व्रत-चर्या-तुष्टः पुत्रताम् अवापेति । इत्थं नन्द-गोप-कुलं यदु-कुलम् इति ।
अथ प्रकृतम् अनुसरामः । एतद्-विशेषण-सार्थक्यायाश्रितेत्य्-आदेर् अर्थान्तरम् आह—आश्रित-भक्ष्यत्वेन आश्रयो येन स आश्रिताशयोऽग्निः, आश्रयाशो बृहद्-भानुः इति कोषात्, अग्नेर् आश्रयाशत्व-प्रसिद्धेः ।
यद् वा, आश्रितः आश्रयो येन निरधिष्ठानाग्नेर् अदृष्टत्वात् । आश्रिताश्रयोऽशनं यस्य आश्रिताश्रयाशनः । स चासौ विः आश्रिताश्रय-विश् चकोरः, मध्यम-पद-लोपी समासः । तेन गृह्यते प्रियत्वेन सेव्यत इत्य् आश्रिताश्रय-विग्रहं चन्द्र-रूपम् इत्य् अर्थः । आश्रिताश्रय-लक्षणं इति पाठस् तूत्तानार्थः । किं च, आश्रयस्य दशमस्य लक्षणे सूक्तत्वेऽपि पुनर् लक्ष्यत्वेऽपि कथनं तु क्वचिल् लक्ष्य-लक्षणयोर् अभेदेऽपि छन्दो-ग्रन्थेषु वृत्त-रत्नाकरादिषु, मो नारी रो भृङ्गी इत्य्-आद्य् उदाहृत्य लक्ष्य-लक्षण-भेद-व्यवहारवद् बोध्यम् ।
किं च, अवसर-सङ्गति-प्राप्तम् अष्टमं निरोध-रूप-लक्षण-वर्णनं विहायेहाश्रय-रूपस्य दशमस्य वर्णनं तु यदु-वंश-वर्णन-प्रसङ्ग-सङ्गत्या कृतम् इति बोध्यम् । सङ्गतिश् च अनन्तराभिधान-प्रयोजक-जिज्ञासा-जनक-ज्ञान-विषयो ह्य् अर्थः सङ्गतिर् इत्य् उक्त-लक्षणा । सा च—
स-प्रसङ्ग उपोद्घातो हेतुतावसरस् तथा ।
निर्वाहकैक-कार्यत्वे षोढा सङ्गतिर् इष्यते ॥ इत्य् उदयेनोक्तेः षोढा ।
-
स्मृतस्योपेक्षानर्हत्वं प्रसङ्गत्वम् ।
-
वर्णनीयम् अर्थं मनसि निधाय तद्-अर्थम् अर्थान्तर-कल्पनम्
उपोद्घातत्वम् ।
-
वर्णितार्थे कारण-जिज्ञासोत्पादकत्वं हेतुत्वम् ।
-
शुश्रूषान्तर-राहित्य-पूर्वक-प्रकृत-ग्रन्थे शुश्रूषोत्पादकत्वम्
अवसरत्वम् ।
-
उक्तार्थ-साधकत्वं निर्वाहकत्वम् ।
-
द्वयोर् एक-कार्य-करत्वेनैकत्र वर्णनम् एक-कार्यत्वम् ।
एषाम् उदाहरणानि ग्रन्थे यथायथम् अवधेयानि ॥(२)
अथ लक्ष्य-वर्णनावान्तर्गतं सर्गादि-वर्णनावसर-प्राप्तं भाक्तम् अवतान्तरम् अदर्शन-साम्याद् दुष्ट-संहार-रूप-निरोधम् आह—दशम इति । दुष्ट-भूभुजां कंसादीनां । निरोधः संहार-रूपोऽनुवर्ण्यते, निरोधो नाश-रोधयोः इति मेदिनी । विभूतः धर्मस्य त्रयी-विहितस्य ग्लानिः क्षयो निमित्तं यस्य स तथा तेषां धर्म-नाशकत्वेन श्री-कृष्णेन ते हता इति तात्पर्यम् । कृष्णस्य रागि-मुक्त-मुमुक्ष्व्-आदि-सकलानन्द-करी सती या कीर्तिस् तस्या वितानाय विस्ताराय । दुष्ट-नाशेन सर्व-धर्म-प्रवृत्तेः सत्-कीर्तेर् विस्तारः स्फुट एव । तुर् अत्राथान्तरे । तच् च लक्ष्यस्य वर्ण्यत्वं प्रतिज्ञाय पुनर् लक्षण-वर्णन-रूपं चतुर्-विध-निरोध-वैलक्षण्य-रूपं वेति ॥(३)
ननु मुख्यं निरोधं विहाय भाक्त-निरोधः कथम् अत्र वर्णितः ? तत्राह—प्राकृताद् इति । आदिना नित्य-नैमित्तिक्[आर्त्यातकानां]{।मर्क्} ग्रहः । प्रकृतौ तत्-कार्य-ब्रह्माण्डस्य लयः प्राकृतिकः । ब्रह्मणो निद्रां निमित्तीकृत्य जायमानो लोक-त्रय-प्रलयो नैमित्तिकः । देहस्य प्रतिक्षणम् अवस्था-भेदेन वर्तमानो यः स नित्यः ज्ञानेनाविद्यां सकार्यां छित्त्वा स्वरूपेणावस्थानम् आत्यन्तिक इति विवेकः । स च स चानयोः समाहारस् तत् तत् । तत् तच् चासौ प्रसङ्गश् चेति तत्-तत्-प्रसङ्गात् तस्मिंस् तथा । सप्तम्य्-अर्थे तसिः । तस्मिम्स् तस्मिन् प्रसङ्गे सृष्टि-संहार-वादी येषां युद्ध-विचारादीनां तेषां निरूपणैः । वर्णितः—वर्णं वर्णने । अतो भविष्यत्य् अपि क्त-प्रत्ययो बोध्यः । ऊणादयो बहुलम् इति बाहुलकात् । तथा चैकादशे द्वादशे च वर्णितो वर्णयिष्यते इत्य् अर्थः । सृष्टि-संहार-प्रसङ्गे सहस्र-युग-पर्यन्तं इत्य्-आदिना नैमित्तकः प्रथमे सूचितः । आत्यन्तिकोऽपि प्राकृत-मिश्रो युधिष्ठिर-महानुगमने तत्रैवोक्तः । तृतीये एकादशे अष्टमे चाध्याये नैमित्तिक एवोक्तः । चतुर्युगानां च सहस्रम् अप्सु इत्य्-आदिना । तम् एवान्व् अपि धीयन्ते लोकाः इत्य्-आदिना च सप्तमेऽप्य् अवधूताख्याने आत्यन्तिक एवोक्तस् तत्रैवानावृत्ति-प्रकारोऽपि । स एव चतुर्थे पृथूपाख्याने पृथोर् अपि प्राकृत-मिश्र आत्यन्तिक एव । अष्टमे मत्स्यावतार-प्रसङ्गे, यावद् ब्राह्मी निशा इत्य्-आद्य्-उक्ते नैमित्तिक एव । एवं नवमे सौभर्य्-उपाख्याने हरिश्चन्द्रोपाख्याने चात्यन्तिक एव प्रतीयते । एवम् अन्यत्रापि ज्ञेयम् ॥ (४)
ननु कियद् अध्यायो दशम-स्कन्धः ? तत्राह—कृता इति सार्धेन । नवानां दशकं नवतिर् इति,, पङ्क्तिर् विंशति इत्य्-आदिना साधुः । विंशत्य्-आद्याः सदैकत्वे सर्वा सङ्ख्येय-सङ्ख्ययोः इत्य् अमरः । तासु च नवतेः स्त्रियः ॥ इति च । विंशत्य्-आदीनां नवति-पर्यन्तानां नित्यं स्त्रीत्वं, मुखं पुंसः परस्य ये इतिवत् । यद् वा, वेदाः प्रमाणम् इतिवन् नवतिर् अध्याया इति सम्बन्धः । समान-लिङ्ग-विभक्ति-संख्याकानाम् एवान्वयः इति शिष्टोक्तिस् तूद्देश्य-विधेय-भावं विनैव चरितार्था भवति ।
यत्रोद्देश्य-विधेयत्वं तत्रायं नियमो नहि ।
राम-दाराश् च सीतेयं करुणा-भाजनं हरिः ॥ इत्य्-आद्य्-उदाहृतेः ।
चतुर्भिर् आद्यैः प्रथमाच् चतुर्थ-पर्यन्तैः । स-प्रसङ्गं प्रसङ्गश् च मथुरा-वर्णन-पुरःसर-देवक्य्-उद्वाहादि-रूपः । अवनेर् भूमेः, क्ष्मावनिर्- मही इत्य् अमरः । हर्तुम् उपाकर्तुम् । कीर्त्यते वर्ण्यते व्यासाद्यैर् इति कीर्ति-लीला कृष्णस्य कीर्तिः कृष्ण-कीर्तिः । तस्यै कृष्ण-लीलायै । क्रिइयार्थोपपदस्य च कर्मणि स्थानिनः इति चतुर्थी । कृष्ण-कीर्तिं वर्णयितुम् इत्य् अर्थः ॥(५)
सा च त्रिधेत्य् आह—गोकुल इति । गोकुल-लीला-मथुरा-लीला-द्वारका-लीला-भेदात् त्रिधा त्रिप्रकारा । ततो हरि-जन्मानन्तरम् । क्रमाद् गोकुल-लीला-क्रमात् । गोकुल-लीला च जन्मोत्सव-पूतना-वध-शकट-पातनादि-भेदैर् नैकधा । मथुरा-लीलापि धनुर्-भङ्ग-मल्ल-वध-कुवलयापीड-कंस-वध-पित्रादि-मोचनादि-भेदैर् अनेकधा । एवं द्वारका-लीलापि द्वारका-निर्माण-कालयवनादि-वध-रुक्मिणी-हरण-स्यमन्तकोपादानादि-भेदैर् अनेकधैव ॥ (६)
अथ पुनर् अध्याय-संख्यया लीला-पार्थक्यम् आह—सपञ्चेति त्रिभिः । पञ्चभिः सहिता त्रिंशत्-सपाञ्च-त्रिंशत् तत्त्व् । बृहच् च वृण्दा च बृहद्-वृन्दे ते च ते वने बृहद्-वृण्दावने ते आदिनी येषां मधु-तालादीनां तानि बृहद्-वृण्दावनादीनि तेषु । इह वृन्दा-शब्दो वृन्दाख्य-देव्य्-अधिष्ठित-वन-परो लक्षणया बोध्यः । वनानि च मधु-ताल-कुमुद-बहुला-काम्य-खदिर-वृन्दा-भद्र-भाण्डीर-बिल्व-लोह-महा-वन-भेदाद् द्वादश सन्ति व्रज-मण्डले । उपवन-सहितानि चतुर्विंशतिश् च । तानि निधुवन-कोकिलादीनि ज्ञेयानि । स पञ्च-त्रिंशद्-अध्यायैः पञ्चमत एकोनचत्वारिंशद्-अन्तैः । सम्बन्धस् तु पूर्ववत् । गवां कुलानि यूथानि यत्र यद् गोकुलं मथुरां विहाय सर्वं व्रज-मण्डलं तेन नन्द-ग्राम-बृहत्-सानु-पुर-प्रभृतीनां अखिलानां ग्रहः । तत्र वसतः कृत-निवासस्य श्री-कृष्णस्येत्य् अर्थः । सुर-दुष्करा देवैर् अपि कर्तुम् अशक्या गोवर्धनोद्धारणाल्प-प्रदेश-गो-गोपी-यूथ-विवेशनादि-रूपा ॥ (७)
पुनर् एकेन चत्वारिंशद्-आख्येन एकादशभिर् एकचत्वारिंशत् त एक-पञ्चाशद्-अन्तैः मधुपुरे मथुरायां । वने स्थापितं वन-स्थापितम् । मधोर् दैत्यस्य लवण-पितुर् वनं स्थापितं मधुवन-स्थापितं, तच् च तत्-पुरं मधु-पुरम् । मध्य-पद-लोपी समासः । वन-स्थापित-पदस्य समास-कृतैक-पदत्वात् तत्र पद-द्वयत्वं माशक्यं तस्मिंस् तथा ।
शत्रुघ्नश् च मधोः पुत्रं लवणं नाम राक्षसम् ।
हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ [भा।पु। ९.११.१४] इति नवमोक्तेः ।
मधूनां यदूनां पुरं मधुपुरम् इति वा । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः [१०.१.२८] इति वक्ष्यमाणमानत्वात् ॥(८)
शेषैर् एकोनचत्वारिंशद्-अध्यायैर् द्विपञ्चाशत्तो नवति-पर्यन्तैर् इत्य् अर्थः । द्वारवती-लीलाम् आह—तस्या द्वारवत्या निर्माणं रचनादि यस्य रुक्मिणी-हरणादि-रूप-लीला-वृन्दस्य तत्-तन्-निर्माणादि, निर्माणं रचनायां च प्रमाण-रहिते तथा इति धरणि-देवः । विशदार्थका स्फुटार्थका ॥ (९)
तत्र तेषु तेषु अध्यायेषु मध्ये । स्व-मृत्युं निज-मृतिम् । तस्या देवक्याः । षट् च ते गर्भा अर्भका षड्-गर्भास् तान्, गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनस-कण्टके इति । अवधीत् अहिंसीत् ॥ (१०)
कृष्णावतारः कृष्णाविर्भावः,
अवतारोऽवतरणे पुष्करिण्य्-आदि-तीर्थयोः ।
आविर्भावे तरिण्यां स्त्री क्लीबं ज्ञाने प्लवेऽध्वनिः ॥ इति धरणि-देवः ।
तस्य चरितं बाल-लीला-रूपं तद् एव चरणारविन्दयोः कर्णयोर् आनन्द-जनकत्वाद् अमृतं तद्वत् स्वादु, तेन निर्वृतो जातानन्दः । राजा परीक्षित् । संक्षेपेण कथितस्य व्यासेन कथनम् अनुवादः । उक्तस्य, जातो गतः पितृ-गृहाद् व्रजम् [भा।पु। ९.२४.६६] इत्य्-आदिना नवम-स्कन्धान्ते संक्षेपेणोक्तस्य कृष्ण-चरितस्यानुवादेन हेतुना । हेतौ तृतीया । औत्सुक्यात् तत्-परायणत्वात्, इष्टार्थोद्यत उत्सुकः इत्य् अमरः । अधिकाभिलाषत इति यावत् ॥ (११) [इति श्रील-श्रीधर-स्वामिनां मङ्गल-श्लोकानां व्याख्या]
[भागवत-श्लोकस्य व्याख्या] तत् कृष्ण-चरितं पुनर् द्वितीय-वारं पृच्छति—कथित इत्य्-आदिना । वंश-विस्तारो वंश-व्यासः, विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः इत्य् अमरः । यद्यपि एकत्वं न प्रयुञ्जीत गुर्व् आत्मनि कदाचन इति स्मृतेः । पुराणोपदेष्टरि सर्व-गुरु-मुख्ये श्री-शुक-देवे भवत्य् एक-वचन-प्रयोगोऽनुचितं तथापि तस्याप्य् आनन्द-कन्द-श्री-कृष्ण-चरित-चरणारविन्द-व्यग्रत्वेन तद्-इतराननुसन्धान-वशान् न दोषः ।
सोम-सूर्ययोर् इति । ननु सूर्य-चन्द्रमसौ धाता [ऋ।वे। १०.९०.४८] इति श्रुतौ । तस्याक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ [बृ।आ।उ। ३.८.९] इति श्रुतौ च, सूर्याचन्द्रमसोर् योगे इति गर्ग-स्मृतौ च, सूर्य-शब्दस्य पूर्व-निपात-दर्शनात्, सैषा त्रय्य् एव विद्या तपति [म।ना।उ। १४.१] इति श्रुतेः सूर्यस्य सर्व-धर्म-मूल-त्रयी-रूपत्वात्, सूर्य आत्मा जगतस् तस्थुषश् च [ऋ।वे। १.११५.१] इति श्रुतेः । सर्वात्मकत्वेन सर्व-धर्म-प्रवर्तकत्वात् । यस्योदयेनेह जगत्-प्रबुद्ध्यते प्रवर्तते चाखिल-कर्म-सिद्धये इत्य्-आदि-स्मृतेश् च अभ्यर्हितत्वात् ।
वंश-निरूपावसरेऽपि प्रथमं सूर्य-वंशस्यैव निरूपितत्वाच् च सूर्य-शब्दस्य पूर्व-निपात उचितस् तथापि, पुष्णाति चौषधीः सर्वाः सोमो भूत्वा रसात्मकः [गीता १५.१३] इति रस-वर्धकत्वात् सोमस्य रस-शोषक-रवेः प्रधानत्वात् । ब्रह्मणो मरीचिस् तत्ः कश्यपस् ततो रविर् इति ब्रह्म-प्रपौत्राद् रवेर् ब्रह्मणोऽत्रिस् ततश् चन्द्र इति ब्रह्म-पौत्रत्वेन, सोमोऽभूद् ब्रह्मणोऽंशेन इत्य् उक्तेः सर्व-स्रष्टृ-ब्रह्मांशत्वेन सूर्य-वंशस्यापि श्री-भगवद्-रामेण स्वीकृतत्वेऽपि, कृष्णस् तु भगवान् स्वयम् [१.३.२८] स्वयं त्व् असामातिशयस् त्र्यधीशः [भा।पु। ३.२.२१] इति, अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल [भा।पु। ९.२४.५५] इति च, अर्जुने तु नरावेशः कृष्णो नारायणः स्वयम् [आगमे] इत्य्-आदि बहुश उक्तत्वात् स्वयं भगवता श्री-कृष्णेन स्वीकृत-वंश्यताकत्वेन, सोमोऽस्माकं ब्राह्मणानां राजा इति श्रुतेः । सर्व-वेदाधिकरण-विप्र-कुल-राजत्वेन सर्व-देव-गुरुणा श्री-शिवेन उभया सह वर्तत इति सोमः शिवः । सोऽस्त्य् आधारत्वेन यस्य स सोमः । तस्य स्व-मूर्धनि धृतत्वाच् च सोमस्यैवाभ्यर्हितत्वात् पूर्व-निपातः, आत्मानं श्लाघते सर्वः इति न्यायेन, सर्वेषां एव लोकेषु स्वेष्ट-देवः परो मतः इति न्यायेन च राज्ञस् तद्-इष्ट-देवस्य श्री-कृष्णस्य च सोम-वंश्यत्वाद् वा पूर्व-निपातः । [उभयोः सोम-सूर्ययोर् वंशौ तत्र भवाः, उभ-शब्दस्य द्वि-वचन-परत्वाभावे वृत्ति-विषये स्वार्थे नित्यम् अयच् उभयोऽन्यत्र इत्य् उक्तेः ।]
यद् वा, उभाव् अवयवौ यस्य स उभयः, स चासौ वंशश् च जातित्वाद् एकत्वम्, उभय-वंशः तत्र भवाः उभय-वंश्याः, तेषाम् । परंआद्भुतं श्रोतॄणां सुद्युम्नैलादि-चरिताकर्णनेनात्याश्चर्य-करम् ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथ सूतः—
जानासि सूत भद्रं ते भगवान् सात्वतां पतिः ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ [भा।पु। १.१.१२]
इति श्री-शौनक-सूत-संवादे उपक्रान्तस्य, श्रवण-स्मरणार्हाणि करिष्यन्न् इति केचन [भा।पु। १.८.३५] इति कुन्ती-स्तुतौ किञ्चिद् अङ्कुरितं, शुक-परीक्षित्-संवादे, कलौ जनिष्यमाणानां दुःख-शोक-तमो-नुदम् [भा।पु। ९.२४.६१] इत्य्-आदिना नवम-स्कन्धोक्तेन पल्लवितं श्री-कृष्णावतारस्य चिकीर्षितं हि श्री-भागवत-प्रतिपाद्यम् । अन्येषां तु अत्र सर्गो विसर्गश् च [भा।पु। २.१०.१] इति नवानां कथनं, दशमस्य विशुद्ध्य्-अर्थं नवानाम् इह कीर्तनं [भा।पु। २.१०.२] इति दशमस्य श्री-कृष्णस्य विशिष्ट-शुद्धिः परात्परता तज्-ज्ञानार्थं कीर्तितानां प्रासङ्गिकानां नवानां कथन-समाप्तौ प्रतिपाद्य-भूतं श्री-कृष्ण-लीलावतारं कथितस्य सर्वस्य विस्मरणार्थं श्री-परीक्षिता पृष्टं श्री-शुकः श्रावयति ।
राजोवाच—कथितो वंश-विस्तार इत्य्-आदि । कथित इति अलं-बुद्धि-द्योतकं यद् यत् कथितम् । तावताहं कृतार्थो न भवामि । किन्तु कथित एव भवता, अपि तु यद्-अर्थं मया पृष्टः, यद्-अर्थं वा त्वया कथितः सोम-सूर्ययोर् वंश-विस्तार उभय-वंश्यानां राज्ञां च परंआद्भुतं चरितम् । स कृष्णावतार इदानीं कथ्यताम् इति कथित-शब्दस्याभिप्रायः ॥१॥1
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
श्री-कृष्ण-चैतन्य-चन्द्राय नमः ।
श्रीमन्-मदन-गोपालं वृन्दारण्य-पुरन्दरम् ।
श्री-गोविन्दं प्रपद्येऽहं दीनानुग्रह-कातरम् ॥१॥
वन्दे श्री-कृष्ण-चैतन्यं भगवन्तं कृपार्णवम् ।
प्रेम-भक्ति-वितानार्थं गौडेष्व् अवततार यः ॥२॥
श्री-माधव-पुरीं वन्दे यतीन्द्रं शिष्य-संयुतम् ।
लोकेष्व् अङ्कुरितो येन कृष्ण-भक्ति-सुराङ्घ्रिपः ॥३॥
श्री-भागवत-सिद्ध्य्-अर्था2 टीका दृष्टिर् अदायि यैः ।
श्रीधर-स्वामि-पादांस् तान् वन्दे भक्त्य्-एक-रक्षकान् ॥४॥
भट्टाचार्यं सार्वभौमं विद्या-वाचस्पतीन् गुरून् ।
वन्दे विद्या-भूषणं च गौड-देश-विभूषणम् ॥५॥
वन्दे श्री-परमानन्दं भट्टाचार्यं रसालयम्3 ।
रामभद्रं तथा वाणी-विलासं चोपदेशकम् ॥६॥
नमामि श्रीमद्-अद्वैताचार्यं श्रीवास-पण्डितम् ।
नित्यानन्दावधूतं च श्री-गदाधर-पण्डितम्4 ॥७॥
दामोदर-स्वरूपादीन् वन्दे चैतन्य-पार्षदान् ।
येषां पाद-रजः-स्पर्शाद् अधमोऽप्य् उत्तमो भवेत् ॥८॥
वृन्दावन-प्रियान् वन्दे श्री-गोविन्द-पदाश्रितान् ।
श्रीमत्-काशीश्वरं लोकनाथं श्री-कृष्ण-दासकम् ॥९॥
श्रीधर-स्वामि-पादैर् या व्यञ्जिता न क्वचित् क्वचित् ।
सेयं श्री-दशम-स्कन्ध-टीका वैष्णव-तोषणी ॥१०॥
वैष्णवापरितोषः स्याद् यत्र यत्र ततस् ततः ।
लेख्यं वैष्णव-सिद्धान्तानुसारेणैव किं च,न ॥११॥
येषां प्रोत्साहनेनास्मि प्रवृत्तोऽत्यन्त-साहसे ।
ते दीनानुग्रह-व्यग्राः शरणं मम वैष्णवाः ॥१२॥
राधा-प्रिय-प्रेम-विशेष-पुष्टो
गोपाल-भट्टो रघुनाथ-दासः ।
स्याताम् उभौ यत्र सुहृत्-सहायौ
को नाम सोऽर्थो न भवेत् सुसिद्धः ॥१३॥
श्रीमच्-चैतन्य-रूपस्य प्रीत्यै गुणवतोऽखिलम् ।
भूयाद् इदं यद्-आदेश-बलेनैव विलिख्यते ॥१४॥
श्री-चैतन्य-पदाम्भोज-गन्धज्ञैर् एव वैष्णवैः ।
एषा रसयितुं शक्या टीका वैष्णव-तोषणी ॥१५॥
पुरा महा-पुराणस्य दश प्रोक्तानि यानि हि ।
लक्षणान्य् अखिले स्कन्धे तानि सन्ति तरोर् इव ॥१६॥
तत्र प्राधान्यतः स्कन्धे दशमेऽत्र निरूप्यते ।
आश्रयो भगवान् कृष्णो विचित्रैश्वर्य-दर्शकः ॥१७॥
तान्य् अवोचत् तृतीयादि-स्कन्धेषु दशसु क्रमात् ।
निरोधस् तर्हि भगवद्-वशीकरणम् आत्मनि ॥१८॥
तथा च द्वितीये निरोधोऽस्यानुशयनम् आत्मनः सह शक्तिभिः [भा।पु। २.१०.६] इति । अस्यार्थः—शक्तिभिश् चिच्-छक्ति-माया-शक्ति-आह्लादिनी-शक्तिभिः सहितस्य । यद् वा, श्र्य्-आदिभिः शक्तिभिः—ताश् च ऊनचत्वारिंशाध्यायान्ते [भा।पु। १०.३९.५५] अस्यात्मनो हरेर् अनुशयनं निरन्तर-शयनम् इव, वशीकरणेनान्तर्-बहिश् च स्थितिर् निरोध इति । तद्-अर्थम् एव दशमेऽत्र मधुरतर-लीला-कथावतारणम् ।
श्री-युक्तो राजा श्री-राजेत्य् अदन्ताभाव आर्षः । यद् वा, राजा कथम्भूतः ? श्रीः साक्षात् श्री एवेत्य् अर्थः । एवम् अग्रेऽपि । सर्व-कथैक-मूलं श्री-कृष्ण-चरितं विस्तरेण श्रोतुं वक्तुः श्री-बादरायणेः प्रहर्षार्थं तद् उक्तम् अभिनन्दन् प्रार्थयते—कथित इति द्वाभ्याम् । तत्-तद्-आख्यायिकयोक्तः, न तूद्देश-मात्रेणेत्य् अर्थः । तत्रापि वंशानां विस्तारो जन्मारभ्य समाप्ति-पर्यन्तं प्रत्येकं पुत्र-पौत्रादि-प्रपञ्चः । भवतेति परमादरात् । उभय- वंश्यानां सोम-सूर्य-वंशोद्भवानां दिग्-विजयादि-चरितं च कथितम् । परमम् अद्भुतं विस्मयावहम्, श्री-पुरूरवः-ककुत्स्थादीनाम्, ऊर्वशी-परिग्रहेन्द्रारोहणादि-नात्यन्तालौकिकत्वात् । सोमादि-वंश-कथनाद् एवायातस्यापि तद्-वंश्य-चरित्र-कथनाद् एवायातस्यापि तद्-वंश्य-चरित-कथनस्य पुनः पृथग्-उक्तिस् तद्-विशेषापेक्षया । यद्यपि श्री-स्वायम्भुव-मन्व्-आदि-वंश्य-तद्-वंश्य-चरितान्य् अपि तृतीय-स्कन्धादौ कथितानि सन्ति । तथापि सोम-सूर्ययोर् इति उभय-वंश्यानाम् इति सर्वावतार-श्रेष्ठयोः श्री-यदुनाथ-रघुनाथयोस् तत्र तत्र सम्बन्धात् । किं वा, निरन्तर-नवम-स्कन्धोक्तानाम् एवानुस्मरणाद् इति ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
ॐ नमः श्री-कृष्णाय ।
श्रीमन्-मदन-गोपालं वृन्दारण्य-पुरन्दरम् ।
श्री-गोविन्दं प्रपद्येऽहं दीनानुग्रह-कातरम् ॥१॥
वन्दे श्री-कृष्ण-चैतन्यं भगवन्तं कृपार्णवम् ।
प्रेम-भक्ति-वितानार्थं गौडेष्व् अवततार यः ॥२॥
श्री-माधव-पुरीं वन्दे यतीन्द्रं शिष्य-संयुतम् ।
लोकेष्व् अङ्कुरितो येन कृष्ण-भक्ति-सुराङ्घ्रिपः ॥३॥
श्री-भागवत-सिद्ध्य्-अर्था5 टीका दृष्टिर् अदायि यैः ।
श्रीधर-स्वामि-पादांस् तान् वन्दे भक्त्य्-एक-रक्षकान् ॥४॥
भट्टाचार्यं सार्वभौमं विद्या-वाचस्पतीन् गुरून् ।
वन्दे विद्या-भूषणं च गौड-देश-विभूषणम् ॥५॥
वन्दे श्री-परमानन्दं भट्टाचार्यं रसालयम्6 ।
रामभद्रं तथा वाणी-विलासं चोपदेशकम् ॥६॥
नमामि श्रीमद्-अद्वैताचार्यं श्रीवास-पण्डितम् ।
नित्यानन्दावधूतं च श्री-गदाधर-पण्डितम्7 ॥७॥
दामोदर-स्वरूपादीन् वन्दे चैतन्य-पार्षदान् ।
येषां पाद-रजः-स्पर्शाद् अधमोऽप्य् उत्तमो भवेत् ॥८॥
श्री-वासुदेव-दत्तं च श्री-गोविन्दं मुकुन्दकम् ।
मुरारि-गुप्तम् अन्यांश् च वन्दे चैतन्य-सेवकान् ॥९॥
वृन्दावन-प्रियान् वन्दे श्री-गोविन्द-पदाश्रितान् ।
श्रीमत्-काशीश्वरं लोकनाथं श्री-कृष्ण-दासकम् ॥१०॥
स्वामि-पादैर् न यद् व्यक्तं यद् व्यक्तं चास्फुटं क्वचित् ।
टिप्पणी दशमे तत्र सेयं वैष्णव-तोषणी ॥११॥
वैष्णवापरितोषः स्याद् यत्र यत्र ततस् ततः ।
लेख्यं वैष्णव-सिद्धान्त-दाक्षिण्येनैव किंचन ॥१२॥
श्रीमद्-भागवत-व्यक्त-भक्त्य्-एक-पुरुषार्थिनाम् ।
नाभेद-वाद इत्य् एष नालेखि क्षम्यताम् इदम् ॥१३॥
पूर्व-पूर्वत्र च व्याख्या पूर्व-पक्षतया मता ।
सर्वान्तिमा तु विज्ञेया स्व-सिद्धान्ततया मता ॥१४॥
येषां प्रोत्साहनेनास्मि प्रवृत्तोऽत्यन्त-साहसे ।
ते दीनानुग्रह-व्यग्राः शरणं मम वैष्णवाः ॥१५॥
राधा-प्रिय-प्रेम-विशेष-पुष्टो
गोपाल-भट्टो रघुनाथ-दासः ।
स्याताम् उभौ यत्र सुहृत्-सहायौ
को नाम सोऽर्थो न भवेत् सुसिद्धः ॥१६॥
श्रीमच्-चैतन्य-रूपस्य प्रीत्यै गुणवतोऽखिलम् ।
भूयाद् इदं यद्-आदेश-बलेनैव विलिख्यते ॥१७॥
स्वयं विलिखितं किञ्चित् किञ्चिद् योग्यैर् विलेखितम् ।
छिद्रं यद् अस्ति तच् चात्र शोध्यं वैष्णव-पण्डितैः ॥१८॥
श्री-चैतन्य-कृपा-व्यक्त-श्री-कृष्ण-प्रेम-लिप्सुभिः ।
सम्यग् रसयितुं शक्या सेयं वैष्णव-तोषणी ॥१९॥
श्रीमद्-भागवतं यद् धि स्वादु स्वादु पदे पदे ।
तस्य प्रतिपद-व्याख्या कार्या तत्-प्रतिपत्तये ॥२०॥
आद्यः पाठोऽत्र गौडीयो द्वितीयोऽलेखि काशिकः ।
नाना-देशीय-मूल-श्री-टीकानाम् अनुवादतः ॥२१॥
पुरा महा-पुराणस्य दश प्रोक्तानि यानि हि ।
लक्षणान्य् अखिले स्कन्धे तानि सन्ति तरोर् इव ॥२२॥
तत्र प्राधान्यतः स्कन्धे दशमेऽत्र निरूप्यते ।
आश्रयो भगवान् कृष्णः स्व-पूर्णत्व-प्रकाशकः ॥२३॥
तत्र यद्यपि सामान्याकारेणाश्रय-लक्षणम् ।
तथापि कृष्ण एव स्यात् तस्य पर्यवसायिता ॥२४॥
ब्रह्मणो हि प्रतिष्ठाहम् इति तद्-गीः सतां मता ।
आत्मारामाश् च मुनय इत्य्-आदि-सचिवा च सा ॥२५॥
परिभाषा च तत्र स्याद् एते चांशेति सूत-गीः ।
तद् एतद् विवृतं भावि ब्रह्म-स्तवम् अनु स्वयम् ॥२६॥
अथात्र परिभाषेयं ज्ञातव्या यद्य् अपेक्ष्यते ।
मूलं स-टीकम् अङ्काद्यैः परिच्छेद्यं सहानया ॥२७॥
अङ्का वाक्यान्त एवात्र ज्ञेया पद्यान्ततो न तु ।
बहु-पद्यैक-वाक्यत्वे गर्भाङ्का बिन्दु-मस्तकाः ॥२८॥
यस्मिन् वाक्ये नास्ति टीका तद् अप्य् अङ्केन योजयेत् ।
टीका तद्-अङ्क-शून्या वा तद्-अङ्कान्त-युतापि वा ॥२९॥
तद्-युतत्वं तु पूर्वाङ्क-सन्निधौ पृथग् आचरेत् ।
विधिर् एवं गौड-काश्योर् गुर्जरादौ यथा-मति ॥३०॥
एक-पद्यान्य-वाक्यत्वे सङ्ख्या-शब्दास् तु कान्तकाः ।
यथार्धकं युग्मकं च त्रिकम् इत्य्-आद्य् उदाहृतिः ॥३१॥ इति ।
श्री-युक्तो राजा श्री-राजेति श्री-शब्द-प्रयोगोऽत्र श्री-कृष्ण-लीलारम्भे अतिशयेन प्रेम्णा विराजमानत्वात् ट-ज-भावः समासान्त-विधेर् अनित्यत्वात् राजोवाचेति पाठस् तु साधारणः । सर्वथैक-मूलं श्री-कृष्ण-चरितं विस्तरेण श्रोतुं वक्तुः श्री-बादरायणेः प्रहर्षणार्थं तद् उक्तम् अभिनन्दति वा कथित इति सार्धकेण । कथितः प्रायस् तज्-जन्म-कथा-प्रबन्धेनाप्य् उक्तः । न तूद्देश-मात्रेणेत्य् अर्थः । तत्रापि वंशानां विस्तारः प्रत्येकं पुत्र-पौत्रादि-प्रपञ्चः भवतेति परमादरात् सोमस्य पूर्व-निपातस् तद्-वंशे साक्षात् श्री-भगवद्-अवतरणेनाभ्यर्हितत्वात्, उभय-वंश्यानां चन्द्र-सूर्य-वंशोद्भवानां दिग्-विजयादि-चरितं च कथितम् । परमम् अद्भुतं विस्मयावहम्, श्री-पुरूरवः-ककुत्स्थादीनाम् ऊर्वशी-परिग्रहेन्द्रारोहणादिनात्यन्तालौकिकत्वात् । यद्यपि स्वायम्भुव-मन्व्-आदि-वंश-तद्-वंश्य-चरितान्य् अपि तृतीय-स्कन्धादौ कथितानि सन्ति । तथापि सोम-सूर्ययोर् इति उभय-वंश्यानाम् इति सर्वावतार-श्रेष्ठयोः श्री-यदुनाथ-रघुनाथयोस् तत्र तत्र सम्बन्धात् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) :
दशमे क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।
क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥
नवमे द्वादश-स्कन्ध-सम्बन्धि-दश-लक्षणानुसारेण वंश-वंश्यानुचरित-द्वारा द्वितीय-स्कन्ध-सम्बन्धि-तद्-अनुसारेण तत्-तद्-रूप-मन्व्-अन्तर-कथा-भेद-द्वारा दशम-पदार्थम् अधिगत्य तस्य च तद्-अन्ते निजाभीष्ट-श्री-कृष्ण-रूपत्व-पर्यालोचनेन सुख-विशेषम् उपलभ्य तथानुवदंस् तल्-लक्षण-विशिष्टेऽत्र कथा-द्वारा साक्षात् तम् एवाधिगन्तुम् औत्कण्ठ्येन पृच्छति—कथित इत्य्-आदिभिः । तत्र राज्ञां चेति सार्धेन तद्-अनुवादः । तत्र इत्य् अर्धेनाभीष्ट-विज्ञप्तिः ॥१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) :
दशम-क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।
क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥
उक्त्वा सर्व-विसर्गादि-लक्षणानि नवैव तु ।
दशमे दशमः कृष्ण आश्रयत्वेन कथ्यते ॥
अथ,
सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ [भा।पु। १.१.१२]
इति श्री-शौनक-सूत-संवादे उपक्रान्तस्य श्री-कृष्णावतार-प्रयोजन-बीजस्य, श्रवण-स्मरणार्हाणि करिष्यन्न् इति केचन [भा।पु। १.८.३५] इति पुनः कुन्ती-स्तुतौ किञ्चिद् अङ्कुरितस्य,
कलौ जनिष्यमाणानां दुःख-शोक-तमोनुदम् ।
अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद् यशः ॥ [भा।पु। ९.२४.६१]
इति नवमान्ते पुनः पल्लवितस्य विस्तारं पुष्प-फलावधिम् अवगमयितुं, दशमस्य विशुद्ध्य्-अर्थं नवानाम् इह कीर्तनं [भा।पु। २.१०.२] इति सर्ग-विसर्गादि-नव-लक्षण-कथन-द्वाराश्रयस्य दशमस्य श्री-कृष्णस्य विशुद्ध्य्-अर्थं सर्गादि-प्रासङ्गिक-कथनम्, वस्तुतस् तु श्री-कृष्णावतार-कथनम् एव श्री-भागवत-प्रतिपाद्यम् इति पूर्वोक्त-सर्व-विस्मरणार्थम् । तत्र तत्रालं-बुद्ध्या पुनः सम्यक् श्री-कृष्ण-चरित-श्रवणादिकम् एव कार्यम् इति बोधयितुं च परीक्षिता यत् पृष्टं तद् दर्शयन्न् आह—श्री-राजोवाच—कथित इति । तत्र तत्रालं-बुद्धि-द्योतकं तावताहं कृतार्थो न स्याम् । यस्य कथनेन कृतार्थः स्याम्, तत् कथयेति क्त-प्रत्यय-ध्वनिः । सूर्य-सोमयोर् इति वक्तव्ये सोम-शब्दस्य प्रथमोपादानं यदु-वंश-मूल-भूतत्वेन पूजार्थम्, न केवलं वंश-विस्तार एव कथितः । उभय-वंश्यानां राज्ञां परमाद्भुतं चरितम् अपि । तथा मे न तृप्तिर् जाता, श्री-कृष्णावतारं सम्यक् कथयेति वाक्यार्थः । उभय-वंश्यानाम् इत्य् अनेनैव रघु-यदोश् चरितेऽप्य् आयाते ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
नित्यानन्दः कृष्ण-चैतन्य-चन्द्रोऽ
द्वैतः पृथ्व्याम् एधयन् प्रेम-सिन्धुम् ।
सन्तप्तं वै स्तेमयंश् चेतयन् मां
धिन्वन् भूयात् स्वैः कृपा-रश्मि-लेशैः ॥इ॥
श्रीमद्-गदाधर नमो नृहरे नमस्ते
श्री-राम-राय नम एव नमः स्वरूप ।
श्री-रूप सानुग नमोऽस्तु नमोऽस्तु तुभ्यं
श्रीमत्-सनातन नमोऽस्तु नमो नमोऽस्तु ॥इइ॥
श्रीमद्-भागवतीय-दिव्य-दशम-स्कन्धामृताम्भोनिधौ
खेलन् यः स्वकरोद्धृतै रस-कणैर् आर्द्रांस् तटस्थान् अपि ।
चक्रे यस्य महत्त्व-मीलित-महः श्री-रूप-विख्यापितः
सर्वैर् दृश्यत एव नाटक-वरे साश्चर्यम् एतद् यथा ॥इइइ॥
वक्तुं पारमहंस्य-पद्धतिम् इह व्यक्तिं गतानां हि यः
सिद्धानां भुवने बभूव सनकादीनां तृतीयः पुरा ।
साङ्गं भक्ति-रसं रहस्यम् अधुना भक्तेषु सञ्चारयन्
एकः सोऽवततार विश्व-गुरवे शुद्धाय तस्मै नमः ॥इव्॥
व्याख्या वैष्णव-तोषणी प्रकटिता येनैव यस्या रसः
प्रापय्यातिचमक्तृतीः सुहृदयान् आह्लादयन् भ्राजते ।
तस्माद् द्वि-त्रि-कणांस् तदीय-मुखतो ये निःसृता स्वादितास्
तान् आचित्य कृतार्थयानि जनुर् इत्य् आशा वरीवर्ति मे ॥व्॥
गोपाल-भट्ट-रघुनाथ-पदाब्ज-रेणून्
श्री-लोकनाथ-चरणान् अथ जीव-पादान् ।
वन्दे यदीय-करुणा-सुर-दीर्घिकायां
स्नातो घृताघृत-तिरोहितुम् आप्तुम् ईशे ॥वि॥
तमश्-छन्न-दृशां यैर् नः कृते भावार्थ-दीपिका ।
कृता कृपालवस् तेऽत्र श्रीधर-स्वामिनो गतिः ॥विइ॥
व्याख्या लेख्या तदीया या भक्त-चित्त-प्रमोदिनी ।
काचित् प्रभूणां काचित् तु श्रीमद्-गुरु-कृपोदिता ॥विइइ॥
प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।
लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥इx॥
गोप-रामा-जन-प्राण-प्रेयसेऽतिप्रभूष्णवे ।
तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥x॥
दशमेऽनुक्रम-प्राप्तं निरोधं परिहाय यत् ।
आश्रयं वक्ति मुनिराट् तेनेदं प्रतिपद्यते ॥xइ॥
प्रथमः पीठतां स्कन्ध-द्वयं चरण-युग्मताम् ।
चतुर्थादि-कटि-नाभि-वक्षो-दोर्-युग-कण्ठताम् ॥xइइ॥
द्वादशैकादशं शीर्ष-मालादित्वम् अगात् क्रमात् ।
श्री-भागवत-कृष्णस्य दशमो मञ्जु-हास्यताम् ॥xइइइ॥
ध्येय-सर्वाङ्ग-मुख्यं यद् धास्यं नान्तेऽस्य संस्थितिः ।
यथा तथाश्रयः स्कन्धो नैवान्ते स्थातुम् अर्हति ॥xइव्॥
अतः श्री-दशमे ब्रह्म-परमात्मादि-नाम-भाक् ।
आश्रयो वर्ण्यते कृष्णो नव-लक्षण-लक्षितः ॥xव्॥
ईशानुवर्तिनाम् अम्बरीषादीनां कथोदिता ।
नवमे दशमे साक्षड् ईशस्यैव कथोच्यते ॥xवि॥
स चेश्वरो गोप एव कृष्णः पूर्णतमो व्रजे ।
पुर-द्वये पूर्णतरः पूर्णः क्षत्रिय उच्यते ॥xविइ॥
एवं स्थलस्य त्रैविध्याल् लीलास्य त्रिविधोदिता ।
बाल्यादि-तत्-तद्-आलम्बि-भक्त-भेदात् सहस्रधा ॥xविइइ॥
आद्यैः पञ्चभिर् अध्यायैर् जन्म-प्रासङ्गिकी कथा ।
जन्म चास्य ततो बाल्य-लीला नवभिर् ईरिता ॥xइव्॥
षड्भिः पौगण्ड-लीलान्तः-कैशोर-रस-चर्चिता ।
ततः कैशोर-लीलोन-विंशत्या व्रज-मण्डले ॥xव्॥
एकेन स्तुतिर् अक्रूर-कृतैकादशभिस्ततः ।
लीला स्यान् माथुरी शेषैर् द्वारकायां निरूपिताः ॥xवि॥
तद् एवं दशमेऽध्यायैर् नवत्या वर्णिता हरेः ।
लीला नित्य-किशोरस्य निखिलाकर्षिणी क्षितौ ॥xविइ॥
तत्र तु प्रथमे श्रोतृ-वक्त्रोर् वागति-माधुरी ।
देवाज्ञाकाश-वाक् कंसाद् देवक्याः षट्-सुतात्ययः ॥xविइइ॥
वाचयितव्येष्व् अर्थेषु वक्तुर् उत्साहं वर्धयितुं तद् उक्तम् अभिनन्दति—कथित इति । ब्रह्म-प्रपौत्रात् सूर्यात् ब्रह्म-पौत्रत्वेन ब्रह्मांशत्वेन मनोऽधिष्ठातृत्वेन स्वयं भरावद् अङ्गीकृत-वंश्यताकत्वेन च सोमस्याभ्यर्हितत्वात् पूर्व-निपातः । स्वायम्भुव-मनोस् तद्-वंश्यानां च परमाद्भुत-चरित्राणां चतुर्थादिषु कथितत्वेऽपि, तस्य वंशो न पर्यवसान-मधुरः । सोम-सूर्ययोर् वंशस् तु श्री-कृष्ण-राम-चरित्रान्तिमत्वात् पर्यवसान-मधुर इति तयोर् उत्कर्षेणोल्लेखः ॥१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
॥ ॐ नमः श्री-कृष्णाय ॥
श्री-राधादिभिर् आत्म-शक्ति-निकरैर् उद्वीक्षमाण-क्षणः
श्री-रूपादि-मधुव्रताश्रित-पद-द्वन्द्वारविन्दासवः ।
गोविन्दः स्फुरद्-इन्दु-सुन्दर-मुखः सद्-रक्षणैक-व्रती
पूर्ण-ब्रह्मतयोदितः श्रुति-गणैः श्रीमान् स जीयात् प्रभुः ॥१॥
नीलाभ्र-प्रतिमः कृपार्द्र-हृदयो गोविन्द-लीला-सुधा-
वृष्टिं यस् तृषिते परीक्षिति विभुर् भू-भृत्य्-अनल्पां व्यधात् ।
सद्-भक्ताटवि-भाव-वल्लरि-समुल्लासैक-हेतुः सदा
तद्-गन्धैर् अपि संनियोजयतु मां श्रीमान् स वैयासकिः ॥२॥
श्रीमद्-यशोदा-सुत-केलि-सिन्धुं
विगाहमानस्य ममाल्प-शक्तेः ।
सनातन-श्रीधर-विश्वनाथ-
दयालवः सम्प्रति-शक्ति-राशिः ॥३॥
अत्र श्री-दशमे कृष्णो नव-लक्षण-लक्षितः ।
आश्रयो वर्ण्यते दुष्ट-निरोधस् त्व् अनुषङ्गतः ॥४॥
औरस्यो नन्द-राजस्य वसुदेवस्य चाच्युतः ।
निगूढागूढ-भावेन शुकेनोक्तस् तद्-इच्छया ॥५॥
गोकुलादि-त्रिधामत्वाल् लीला तस्य त्रिधा भवेत् ।
नवत्या मुनिनाध्यायैः साश्चर्यं या प्रकीर्तिता ॥६॥
आद्यैः पञ्चभिर् अध्यायैः स-प्रसङ्गं हरेर् जनिः ।
भू-भार-हृतये देवैर् अर्थितस्य निरूप्यते ॥७॥
ततो नवभिर् आख्याता बाल्य-लीलाः परेशितुः ।
षड्भिः पौगण्ड-लीलास् ताः कैशोर-रस-भाविताः ॥८॥
ततः कैशोर-लीलानां भवन्त्य् एकोनविंशतिः ।
अक्रूर-स्तुतिर् एकेन यमुनाम्भसि दर्शिता ॥९॥
प्रोक्तैकादशभिर् लीला मथुरायां जगत्-पतेः ।
अवशिष्टैः कुशस्थल्याम् इत्थं नवतिर् ईरिताः ॥१०॥
दशमस्यादिमे श्रोतृ-वक्त्रोर् वाङ्-माधुरी मिथः ।
देवाज्ञाकाश-वाक् कंसात् शौरेः षट्-तनया हताः ॥११॥
श्री-कृष्णावतार-कथा-पीयूष-सिन्धुर्-निर्वृतः परीक्षिद्-वाचयितव्येष्व् अर्थेषु वक्तुर् उत्साहं वर्धयन्न् औत्सुक्यात् प्रोक्तानुवाद-पूर्वकं पृच्छति—कथित इति सार्धकम् । एवम् अग्रेऽपि । इहान्वितानां वाक्यानां अस्का बोध्या विचक्षणैः ।
सूर्यात् सोमस्य पूर्व-निपातः । विरिञ्चि-प्रपौत्रात् अस्मात् तस्य तत् पौत्रत्वेन तद्-अंशत्वेन मनोऽधिष्ठातृत्वेन स्वयं भगवत्-स्वीकृत-कुलत्वेन चाभ्यर्हितत्वात् । उभय-वंश्यानां सोम-सूर्य-वंश-जातानां राज्ञां परमाद्भुतं दिग्-विजयादि चरितं कथितम् । यद्यपि स्वायम्भुवस्य तद्-वंश्यानां च तृतीयादिष्व् अद्भुतानि चरितानि कथितानि, तथापि तद्-वंशो नावसान-रम्यः । सोम-सूर्ययोर् वंशस् तु श्री-यदुनाथ-रघुनाथ-चरितान्तिमत्वाद् अवसान-रम्य इति तयोर् उत्कर्षणोल्लेखः ॥१॥
॥ १०.१.२ ॥
यदोश् च धर्म-शीलस्य नितरां मुनि-सत्तम ।
तत्रांशेनावतीर्णस्य विष्णोर् वीर्याणि शंस नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अंशेनेति प्रतीत्य् अभिप्रायेणोक्तम् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : च पुनर् यदोश् चरितं कथितम् इति लिङ्ग-व्यत्यासेनान्वयः । यद्यपि
उत्तमश् चिन्तितं कुर्यात् प्रोक्त-कारी च मध्यमः ।
अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितं पितुः ॥
इत्य् उक्तेः पित्राज्ञोल्लङ्घिनो यदोर् धर्म-शीलत्वं न प्रतीयते, तथापि
स्नातं तेन समस्त-तीर्थ-सलिले दत्ता च सर्वावनिर्
यज्ञानां च कृतं सहस्रम् अखिला देवाश् च सम्पूजिताः ।
संसाराच् च समुद्धृताः स्व-पितरस् त्रैलोक्य-पूज्योऽप्य् असौ
यस्य ब्रह्म-विचारणे क्षणम् अपि स्थैर्यं मनः प्राप्नुयात् ॥
इत्य् उक्तेस् तस्य श्री-दत्तात्रेयावाप्तात्म-तत्त्वाद् धर्म-शीलत्वं एव । किं च, अन्यथाकारि-पित्र्-आज्ञोल्लङ्घनस्य दोषत्वे प्रह्लादस्याप्य् अधर्मितापत्तेः ।
यद् वा, मद्-वयसा मन्-मातरं भोक्ष्यतीत्य् अतो मम मातृ-गामितापत्तिर् भविष्यत्य् अतो न दास्यामि वयस्तेन धर्म-शीलत्वम् एव । यद् वा, धर्मो धर्मविद् उत्तमः इत्य् उक्तेर् धर्मो विष्णुस् तत्र शीलं समाधिर् यस्य स तथा तस्य । शीलं समाधौ पचाद्य् अच् । हरि-भक्तस्येत्य् अर्थः । नितराम् अतिशयेन धर्मशीलस्येति सम्बन्धः । मन्तारो वेदार्थावगन्तारो मुनयो भृग्व्-आदयस् तेषु सन्तः श्रेष्ठो वेदोक्त-कारिणः कर्दमादयो मुनि-सन्तस् तत्रापि तद्-उपदेष्टारः पराशरादयो मुनि-सत्तरास् तत्रापि भगवन्-निष्ठा भवद्-आदयो मुनि-सत्तमाः सन्ति, वैयासकिश् च भगवान् वासुदेव-परायणः [२.३.१६] इत्य् उक्तेर् भवान् मुनि-सत्तमोऽस्तीति राज्ञः सम्बुद्ध्य्-अभिप्रायः ।
तत्र यदु-वंशे । अंशेनेति प्रतीत्य्-अभिप्रायेण सुज्ञेतर-प्रतीत्य्-अभिप्रायेण । सा च प्रतीतिः—अहो ! यतोऽनेन सर्वथा नरैः कर्तुम् अशक्यं पूतना-वधाघ-कारि ततोऽयं नारायणांश इत्य् एवं-रूपोन्नेया । यद् वा, योऽंशेन विष्ण्स् तस्य परिपूर्णतमस्येत्य् अर्थः । रमा राधांशतो ज्ञेया विष्णुः कृष्णांशतः स्फुटम् इति ब्रह्म-वैवर्ते । तथा हि—
विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।
प्रथमं महतः स्रष्टृ द्वितीयं त्व् अण्ड-संस्थितम् ।
तृतीयं सर्व-भूतस्य तानि ज्ञात्वा विमुच्यते ॥ इति ।
पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान्
ततोऽभवन् महत्-तत्त्वं [३.५.२६] इत्य्-आद्य्-उक्तेः ।
एष ह्य् अशेष-सत्त्वानां आत्मांशः परमात्मनः [३.६.८] इत्य् उक्तेः ।
पुरुषोऽण्डं विनिर्भिद्य यदादौ स विनिर्गतः [२.१०.१०] इत्य् उक्तेश् च ।
त्रिष्व् एवांशता प्रतीयते । वक्ष्यति च, नारायणोऽङ्गं नर-भू-जलायनात् इत्य्-आदिना । यद् वा, अंशानां मत्स्यादीनां इनः स्वामी अंशेन स चासाव् अवतीर्णोऽंशेनावतीर्णस् तस्य वीर्याणि प्रभाव-प्राकट्य-कराणि कंस-हननादीनि । यद् वा, अंशेष्व् इनः सूर्य इव प्रकाश-कोशेनः पुनः कर्मधारयः । यद् वा, अंशेनैक-देश-रूपेण वीर्याणि साकल्येन तु न कोऽपि श्रोतुं वक्तुं वा प्रभुर् इति भावः । अंशः स्याद् एक-देशेऽपि वस्तुनो बण्टके त्व् अणौ इति धरणि-देवः । यद् वा, अंशेन बलदेवादिना वासुदेव-कलानन्तः इत्य्-आद्य्-उक्तेः । आदिष्टा प्रभुणांशेन इत्य्-आद्य्-उक्तेश् च । अंशः शक्ति-समावेशः इत्य्-आदि पुराणात् । विष्णोः सर्व-व्यापकतत्त्व् परिपूर्णता-पर्यवसानस्य स्वयं भगवतः श्री-कृष्णस्येति यावत् । वीर्याणि महा-प्रभाव-मय-चरितानि । न इति बहुत्वं तच्-छुश्रूषयात्मनो बहु-मननात् । यद् वा, अतोऽस्माकं पाण्डवानां विष्णोर् वीर्याणीति अनेन तत्र स्वस्य भक्तिश् च सूचिता ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उभय-वंश्यानां इत्य् अनेनैव यदोश् चरिते प्राप्ते यदोश् चेति पुनर् उपादानम् अत्यादर-द्योतकम् । तद् एव स्पष्टयति—तत्रांशेनेत्य्-आदि । अंशानां समूह आंशं, समूहे अण्, तेन सह सर्वैर् अंशैर् इत्य् अर्थः । अन्यथा, अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल [भा।पु। ९.२४.५५] इति स्वयम् एव किलेति-शब्दैः, कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८] इत्य् अस्य च स्वयम् इति शब्देनासङ्गतिः स्यात् । यद् वा, अंशेन बलदेवेन ।
ननु कथम् अत्र सङ्गतिः कार्या, यतो विष्णु-पुराणादौ अन्यथैव श्रूयते । सत्यं, यत् तु विष्णु-पुराणे, अंशावतारो ब्रह्मर्षे योऽयं यदु-कुलोद्भवः । [वि।पु। ५.१.२] इति, अंशांशेनावतीर्योर्व्यां [वि।पु। ५.१.३] इति, विष्णोर् अंसांश-सम्भूति-चरितं [वि।पु। ५.१.४] इत्य्-आदि श्रूयते । तत्र तत्रायम् अर्थः क्रमेण दर्श्यते । अयं यदु-कुलोद्भवोऽंशावतारः, अंशानां नारायणादीनां अवतारो यस्मात् स तथा इत्य् एकः ।
अंशो ब्रह्मादयस् तेषां अंशेन यादव-रूपेण सहावतीर्य, भवद्भिर् अंशैर् यदुषूपजन्यताम् [भा।पु। १०.१.२२] इत्य् अत्रैव वक्ष्यमाणत्वात् । इति द्वितीयः ।
विष्णोः श्री-कृष्णस्य चरितं कीदृशम् ? अंशांश-सम्भूतिः—अंशानां नारायणादीनां अंशा यादवास् तेषां सम्यक् समीचीना भूतिः सम्पत्तिर् यस्माद् यत्र वा इति तृतीयः ।
यच् च तत्रैव,
उज्जहारात्मनः केशौ सित-कृष्णौ महा-मुने ।
उवाच च सुरान् एतौ मत्-केशौ वसुधा-तले ।
अवतीर्य भुवो भारं क्लेश-हानिं करिष्यतः ॥ [वि।पु। ५.१.६०-६१] इति,
वसुदेवस्य या पत्नी देवकी देवतोपमा ।
तस्या गर्भोऽष्टमोऽयं तु मत्केशो भविता सुराः ॥ [वि।पु। ५.१.६३] इति,
एषां क्रमेणायम् अर्थः—आत्मनः सित-कृष्ण-केशौ उज्जहार उद्दधाव् इत्य् अर्थः । न तूत्पाटयामास, तेषां केशानां चिद्-रूपत्वात् । छेदो दुर्बोधः । अमङ्गल-प्रतिपादकश् च । अतस् तयोर् उद्धृत्य दर्शनं स-तात्पर्यम् । तच् च तात्पर्यं मूर्धन्यत्व-प्रतिपादनार्थं वर्ण-सूचनार्थं च । केश-द्वय-सन्दर्शनेनापि सन्दिग्धान् पुनर् उवाच—एतौ मम मूर्धन्य-भूतौ शुक्ल-कृष्ण-वर्णौ मत्-केशौ मदीयेश्वर-भूतौ, सर्व-नाम्नः क-प्रत्ययः । अहम् ईशौ याभ्यां तौ मत्-केशौ, त्वत्-पुत्रौ मत्क-पुत्रौ इत्य्-आदिवत् ।
आथवा कं सुखं तत्-स्वरूपौ ईश्वरौ च । यद्यपि बलदेवस् तदीयेश्वरो न भवति, तथापि सह-काल-वचनानन्दातिशयात् स्वांशेऽपि तथा प्रतिपादनं, पश्चाच् च व्यक्तीकृतं, शेषाख्यांशस् ततो मम अंशांशेनोदरे तस्याः सप्तमः सम्भविष्यति [वि।पु। ५.१.७२], अष्टमो भविता गर्भो मत्-केशः [वि।पु। ५.१.६३] इति पृथग्-आख्यानेन मत्-केशः श्री-कृष्ण इति पूर्ववद् व्याख्यानम् ।
यद् वा, मम कं सुखं यस्मात् स चासौ ईशश् चेति । यच् च भारते—
स चापि केशौ हरिर् उद्बबर्ह
शुक्लम् एकम् अपरं चापि कृष्णम् ।
तौ चापि केशौ विशतां यदूनां
कुले स्त्रियो रोहिणीं देवकीं च ।
तयोर् एको बलभद्रो बभूव
योऽसौ श्वेतस् तस्य देवस्य केशः ।
कृष्णो द्वितीयः केशवः सम्बभूव
केशो योऽसौ वर्णतः कृष्ण उक्तः ॥ [म।भा। १.१८९.३१-३२] इति ।
एषाम् एवम् एवार्थः—यस्मै ब्रह्मादयो निवेदनम् अकार्षुः, स हरिः केशौ उज्जजह्रे उद्धृत्य दर्शयामास, हृञ् प्रापणार्थः, उद्धरणं वर्ण मूर्धन्यत्व-सूचनार्थम् । अतस् तौ चापि केशौ । अयम् अर्थः—यतस् तयोः प्रस्तावे केशौ उद्धृत्य दर्शितौ, त्केशतस् तौ चापि राम-कृष्णौ केश-नामानौ बभूवतुः ।
ततस् तु यदूनां कुले स्त्रियौ अविशतां, तयोर् एकः केशः केश-नामा बलदेवो बभूव । द्वितीयः केश-नामा केशवो बभूव । के शिरसि शेते इति केशः । अन्यतोऽपि च, इति उभयोर् अपि केशत्वम्, सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते [भा।पु। १०.२.५] इति वैष्णव-धामत्वात् । षष्ठ-स्कन्धे उवाच च स्वयम् एव सङ्कर्षणः—
अहं वै सर्व-भूतानि भूतात्मा भूत-भावनः ।
शब्द-ब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ [भा।पु। ६.१६.५१]
इति सर्वम् अनवद्यम् ॥२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदोर् वंश-विस्तारस् तद्-वंश्यानां चरितं च परमाद्भुतं नितरां सम्यक्तया कथितम् । तत्र हेतुः—धर्म-शीलस्येति । धर्मोऽत्र श्री-भगवद्-भक्ति-लक्षणः । धर्मो मद्-भक्ति-कृत् प्रोक्तः [भा।पु। ११.१९.२७] इति श्री-भगवद्-उक्तेः । श्री-यदोर् भक्ति-निष्ठत्वम् एकादश-स्कन्धे वक्ष्यते पृथक्त्वेन तस्योक्तिस् तद्-वंशे श्री-यदु-देवावतरणेन सर्वतः श्रैष्ठ्यात् । एवं विस्तरेण स-विशेषं तत्-तत्-कथनं सूचितम्। मुनिषु सद् उत्तमः श्री-भगवद्-भक्तः, सत्तरः श्री-कृष्णे रतः, सत्तमस् तत्-पदाब्जयोः प्रेम-विशेषवान् इत्य् एवं सम्बोधनेन कथिते कथ्ये च समर्थतोक्ता । अत एव परमाद्भुतं श्री-भगवतो वंश-वंश्य-चरितं विस्तार्य कथय इत्य् आशयेनाह—तत्रेति । धर्म-शीलत्वाद् एव तस्मिन् यदोर् वंशेऽवतीर्णस्य श्री-वैकुण्ठ-लोकात् स्वयम् आगतस्य । अंशेन श्री-बलदेवेन सह । अन्यथा, कृष्णस् तु भगवान् स्वयम् [भा।पु। १.२.२८] इत्य् अनेन विरोधापत्तेः । एवम् अन्यत्रापीति तस्यापि वीर्याणि शंस्यानीति भावः । यद् वा, मुक्तानां विनोदार्थं करोमि विविधाः क्रियाह् इत्य् आद्य्-अनुसारतो भक्त-वात्सल्येन तेन सह कृतानि परमाद्भुतानि कर्माणि सूचितानि । तत्र हेतुः—विष्णोः सर्व-व्यापकस्य, तथापि तत्र कृपयावतीर्णस्येति । अत एव वीर्याणि परमाद्भुत-चरितानि नोऽस्मान् प्रति शंस स्तुतिवत् सोत्कर्षं वर्णय । नः इति बहुत्वं तच्-छुश्रूसयात्मनो बहुमानात्, स्व-सङ्गिनाम् अपेक्षया वा, सा च कृपया विनयेन वा । यद् वा, नोऽस्माकं पाण्डवानां यो विष्णुस् तसेत्य् आत्मनस् तस्मिन् भक्तिस् तद्-वीर्य-श्रवणे लालसा च सूचिता । जातो गतः [भा।पु। ९.२४.६६] इत्य्-आदिना पूर्वं सङ्क्षेपतः किञ्चित् कर्म-मात्रम् उक्तम्, न तु वीर्याणीति भावः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदोश् च वंश-विस्तारस् तद्-वंश्यानां चरितं परमाद्भुतं नितरां सम्यक्तया कथितम् । तत्र हेतुः—धर्म-शीलस्येति । धर्मोऽत्र श्री-भगवद्-भक्ति-लक्षणः । धर्मो मद्-भक्ति-कृत् प्रोक्तः [भा।पु। ११.१९.२७] इति श्री-भगवद्-उक्तेः । श्री-यदोर् भक्ति-निष्ठत्वम् एकादश-स्कन्ध-प्रबन्धेन वक्ष्यते । अत एवोक्तं श्री-कुन्ती-देव्या, यदोः प्रियस्यान्ववाये [१.८.३२] इति । पृथक्त्वेन तस्योक्तिस् तद्-वंशे श्री-यदु-देवावतरणेन सर्वतः श्रैष्ठ्यात् । क्रमेणाभीष्ट-प्रश्नेच्छातश् च । मुनिषु सन् उत्तमः श्री-भगवद्-भक्तः सत्तरः श्री-कृष्णे रतः सत्तमस् तत्-पदाब्जयोः प्रेम-विशेषवान् इत्य् एवं सम्बोधनेन कथिते कथ्येव समर्थतोक्ता ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अंशेन श्री-बलदेवेन सह ॥२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यदोश् चेति पुनर् उपादानं तेषाम् अप्य् अधिको यदुर् यद्-वंशे वसुदेवो जात इति यदोः पूजार्थम् । तत्र, वसुदेवः हरेः स्थानं [भा।पु। ९.२४.३०] इत्य् उक्तेस् तस्मात् स्वयं हरिर् अवततार । अत एव,
यदोर् वंशं नरः श्रुत्वा सर्व-पापैर् विमुच्यते ।
यत्रावतीर्णो भगवान् परमात्मा नराकृति ॥ [भा।पु। ९.२३.१९-२०]
इत्य् आशयेनाह—तत्रांशेनेत्य् आदि । तत्र यदोर् वंशे । आंशेन अंशानां समूहेन, तस्य समूह इत्य् अण् । सर्वैर् वंशैर् इति यावत्, अंशेन बलदेवेनेति वा । अथान्यथा, अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल [भा।पु। ९.२४.५५] इति । स्वयम् एव किलेति शब्दैः, कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८] इति स्वयं-शब्देनाप्य् असङ्गतिः स्यात् ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदोश् चरितं कथितम् । तस्य पित्राज्ञालङ्घित्वेऽपि शुद्ध-भक्तिमत्त्वात् नितरां धर्म-शीलत्वं नवमे व्याख्यातम् । एकादशे व्याख्यास्यते च मुनि-सत्तमेति । मुनित्वात् सर्वज्ञत्वं, भक्त-मुख्यत्वात् भक्त्य्-उत्कर्ष-स्थापकत्वम् इत्य् उभयं त्वय्य् एव दृष्टम् इति भावः । तत्रावतीर्णस्य वीर्यणि कथय । कस्य, अंशेन विष्णोर् यः खल्व् अंशेन वैकुण्ठे विष्णुर् भवति । यस्यैकांशो विष्णुस् तस्य पूर्णस्येत्य् अर्थः । यद् वा अंशेन शंस, सामस्त्येन वक्तुं न कस्यापि शक्तिर् इति भावः ॥२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्रेत्य् अर्धकम् । तत्र यदोर् वंशेऽंशेन बलभद्रेण सहावतीर्णस्य विष्णोर् व्यापकस्य पूर्णस्य कृष्णस्य वीर्याणि नोऽस्मान् प्रति शंस स्तुतिवद् वर्णयेत्य् अर्थः । अंशेन सहेति बलभद्र-वीर्य-चरणारविन्देऽपि तृष्णा द्योतिता । न इति बहु-वचनं तच्-छुश्रूषयात्मनो बहुत्व-मननात् स्व-सङ्गिनोऽपेक्षया वा । यद् वा, तत्रावतीर्णस्य कीदृशस्य अंशेन विष्णोः यस्यांशो विष्णुस् तस्य पूर्णस्य स्वयं भगवत इत्य् अर्थः ॥२॥
॥ १०.१.३ ॥
अवतीर्य यदोर् वंशे भगवान् भूत-भावनः ।
कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननूक्तानि जातो गतः पितृ-गृहाद् व्रजम् एधितार्थः [९.२४.६६] इत्य्-आदिना, सत्यम्, पुनर् विस्तरेण वदेत्य् आह—अवतीर्येति ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवतीर्य आविर्भूय ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु सर्वाण्य् अपि तस्य कर्माणि परमाद्भुतानीति चेत् तर्हि तानि सर्वाण्य् एव कथयेत्य् आह—अवतीर्येति । अनेन साक्षात् परमेश्वरत्वम् उक्तम् । यतो भगवान् सर्वैशर्य-परिपूर्णः । किं च, भूत-भावनः स्वेच्छया सर्व-जीव-स्रष्टा । किं च, विश्वात्मा सर्वान्तर्यामीति । विशेषणानां एषां यथोत्तरं परमेश्वरत्वेन श्रैष्ठ्यम् । यद् वा, अवतरण-प्रयोजनम् उद्दिश्य तु परंअ-कारुण्यादि-गुण-प्रकटनं सूचितं । अतो भूतानि सर्वाण्य् एव भावयति पालयति इति तथा सः । अत एव विश्वात्मा परंअ-प्रिय इत्य् अर्थः । एतच् चतुर्दशाध्यायान्ते व्यक्तं भावि । यद् वा, चेतयिता निज-भजने प्रवर्तक इत्य् अर्थ इति तत्-तद्-अर्थं कर्मणाम् आनन्त्यं तदीयत्वेन भगवत्त्वादिकं चाभिप्रेतम् । अतो यानि यावन्ति कर्माणि, तानि सर्वाण्य् एव वद सङ्कीर्तय । अत्र च विस्तरात् प्रयोजनादि-निर्देशेन पल्लविततत्त्व्, न तु पूर्ववत् संक्षेपेणेत्य् अर्थः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु सर्वाण्य् अपि तस्य कर्माणि परमाद्भुतानीति चेत्, तर्हि तानि सर्वाण्य् एव कथयेत्य् आह—अवतीर्येति । अवतार-प्रयोजनम् उद्दिशति, भगवान् सर्वैश्वर्य-पूर्णोऽपि कृपया भूतानि सर्वाण्य् एव भावयति पालयति तथा सः । यतो विश्वात्मा चेतनादि-शक्ति-प्रेरकत्वेन स्वभावत एव हित-कारी परंअ-स्वरूपत्वेन प्रेम-विशेष-पर्यवसान-रूपश् चेत्य् अर्थः । अतो यानि यावन्ति कर्माणि तानि सर्वाण्य् एव वद सङ्कीर्तय । तत्र च विस्तराद् विस्तरेण, प्रयोजनादि-निर्देशेन, न तु पूर्ववत् संक्षेपेणेत्य् अर्थः । इत्य् असम्भवेऽपि लालसयैवोक्तम् ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, जातो गतः पितृ-गृहाद् व्रजम् एधितार्थः [भा।पु। ९.२४.६६] इत्य्-आदिना अंशेनोक्तान्य् एव सत्यं, सामस्त्येन तद्-वीर्याणि संक्षिप्ती-कृत्यापि वक्तुम् अशक्यान्य् एव । त्वया त्व् अंशेन यान्य् उक्तानि तान्य् अपि संक्षिप्तीकृत्य श्लोकाभ्याम् उक्तान्यतो बहुभिः श्लोकैस् तैन्य् एव विस्तृतीकृत्य ब्रूहीत्य् आह—अवतीर्येति । भूतानि भाववन्ति प्रेमवन्ति करोतीति प्रयोजनम् उक्तम्, नृ-लोकं रमयामास मूर्त्या सर्वाङ्ग-रम्यया [भा।पु। ९.२४.६४] इति, अवितृप्त-दृशां नॄणाम् [भा।पु। ३.२.११] इति, स्व-मूर्त्या लोक-लावण्य-निर्मुक्त्या [भा।पु। ११.१.६] इत्य्-आदिभ्यस् तथैवावगमात् । यतो विश्वात्मा देह-जीवाभ्यां सकाशाद् अपि परमात्मा प्रेमास्पदीभवितुम् अर्हत्य् एवेति ब्रह्मस् तवान्ते व्यक्ती-भविष्यति विस्तरात् अस्मद् आदिमन्द-बुद्धि-सुगम्यार्थं विस्तारं शब्द-बाहुल्यं प्रापय्येत्य् अर्थः । विस्तरो विग्रहो व्यासः स च शब्दस्य विस्तरः इत्य् अमरः ॥३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु, जातो गतः पितृ-गृहाद् व्रजम् एधितार्थः [भा।पु। ९.२४.६६] इत्य्-आदिना तद्-वीर्याण्य् उक्तानीति चेत् तत्राह—अवतीर्येति । तेन मत्-तृप्तेर् अभावाद् विस्तरेण वदेति । भूतानि भावयन्ति प्रेमार्द्राणि करोतीति प्रयोजनम् उक्तम्, नृ-लोकं रमयामास मूर्त्या सर्वाङ्ग-रम्यया [भा।पु। ९.२४.६४] इति, अवितृप्त-दृशां नॄणाम् [भा।पु। ३.२.११] इति, स्व-मूर्त्या लोक-लावण्य-निर्मुक्त्या [भा।पु। ११.१.६] इत्य्-आदिभ्यस् प्रत्ययात् । विश्वानि सर्वाणि जनानां चक्षुर्-आदीनि करणान्य् अतति व्याप्नोति स्मरणयतिआदिभिर् इति सः ॥३॥
॥ १०.१.४ ॥
निवृत्त-तर्षैर् उपगीयमानाद्
भवौषधाच् छ्रोत्र-मनो-\ऽभिरामात् ।
क उत्तमश्लोक-गुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र लोके त्रि-विधा जनाः—मुक्ताः, मुमुक्षवः, विषयिणश् च । तेषां मध्येऽत्र न कस्याप्य् अलं-प्रत्यय इत्य् आह—निवृत्त-तर्षैर् इति । गत-तृष्णैर् मुक्तैर् इत्य् अर्थः । मुमुक्षूणाम् अयम् एवोपाय इत्य् आह—भवौषधाद् इति । विषयिणां परमो विषयोऽयम् एवेत्य् आह—श्रोत्र-मनो-ऽभिरामाद् इति । अपगता शुग् यस्मात् तम् आत्मानं हन्तीत्य् अपशुघ्नस् तस्मात्, पशु-घातिन इति वा ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [+++]{।मर्क्}
क्द् : तर्षो विषयेच्छा । अनुवादाद् अन्यैः क्रियमाणाद् इत्य् अर्थः । निवृत्त-तर्षादिभिस् त्रिभिर् मुक्त-मुमुक्षु-सकामा नात्र विरज्यन्त इत्य् उक्तम् । पशुघ्नो हिंसा-निरतः ॥४॥ [मु।फ। ८.४]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : निवृत्त-तर्षैर् इत्य्-आदि । आ-पशुघ्नात् पशुघ्नो व्याधः । व्याधम् अभिव्याप्य । कः पुमान् उत्तम-श्लोक-गुणानुवादाद् विनाविरज्येत, विषयेभ्यो विरक्तो भवतीति भावः ? न कोऽपि । एतेन वा व्याधो भवतु यदि विरक्तो भवति, तदा पर-गुणानुवादाद् एवेति भावः । अतो विरक्तिम् इच्छता भगवद्-गुणा एव श्रोतव्या इत्य् आयाते । तद्-विशेषणम् आह—निवृत्तेति । निवृत्तस् तर्षः कामो येषां तैर् उपगीयमानाद् बीज-रूपेणापि हि तस्य रागस्य पुनः प्ररोहाशङ्कया निष्कामैर् अप्य् उपगीयमानात् । न तूपगीतान् । अतो भवौषधाद् इति मुमुक्षुभिर् निषेव्यमानात् । श्रोत्रमनोऽभिरामाद् इति स-रागाणां अपि प्रीति-प्रदात् । अतस् त्रिविधानां एव प्राणिनां अनुकूलात् । ये तु पूर्वं श्रोत्र-मनोऽभिरामत्वेनैव शृण्वन्ति, तेऽपि चरणारविन्दानन्तरं विषयेभ्यो विरज्यन्तीति भावः । वक्ष्यति च—तद्-अनुचरित- [भा।पु। १०.४७.१८] इत्य्-आदि । अतस् तद्-गुण-चरणारविन्देनैव म्रियमाणस्य बीज-रूपेणापि यथा विषया न स्युः, तथा वर्णयेति भावः । यद् वा, अपगताः शुचः संसार-पीडा येषां ते अपशुचो वैष्णवाः । तान् हन्तीति अपशुघ्नो वैष्णव-द्वेष्टा तं विना को विरज्येत ? ॥४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च विस्तरेण श्रुते सति मे तत्र तृप्तिर् आशङ्क्येत्य् आशयेनाह—निवृत्तेति । निवृत्त-तर्षैर् मुक्तैर् अप्य् उप अधिकं सर्वोपरितनत्वेन वा गीयमानाद् इति परम-फलत्वेन सदोपगानात् परमानन्द-मयत्वम् । भवौषधाद् इति सर्व-दुःख-निवर्तकत्वम् । एवं साध्यत्वं साधनत्वं च, अतः सदा सर्व-सेव्यत्वं अप्य् उक्तम् । अत एवोत्तमः श्लोको यशो यस्य तस्य श्री-भगवतो गुणानां नित्य-सत्य-स्वाभाविकानाम् औदार्य-वात्सल्यादीनाम् अनुवादः कथा, तस्मात् को विरज्येत तृप्तो भवेद् विरतः स्याद् इति वा । त्रयाणां विशेषणानाम् एषां यथा-क्रमं न्यूनतोह्या । तथोक्तिस् तु मुक्तत्व-मुमुक्षुत्वाभावेऽपि मम विषयितया श्रोत्रमनोऽभिरामत्वेनापि तत्र विरक्तिर् न युक्तेति श्री-परीक्षितो विनयादिना । पुमांश् चेत् स्त्रीवद् अस्वतन्त्रः क्लीबवद् अशक्तश् च कथञ्चिद् विरज्येत्य् अपीत्य् अर्थः । यद् वा, पुंस एव सर्वत्र प्राधान्यां पुमान् इत्य् उक्तम् । यद् वा, पुमान् जीवस् तेन चाधिकारापेक्षापि निरस्ता । पशुघ्नात् व्यधात् । तस्य हि विषयित्व-सम्भवेऽपि सतत-क्लेशादिना लोक-द्वय-सुखासिद्ध्या विषयिताया अप्य् अभावात् । अन्यद् भगवद्-भक्ति-विलास-टीकायां कथा-माहात्म्ये विस्तारितम् एवास्ति ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न च विस्तरेण तत्र श्रुते मम तृप्तिर् आशङ्क्येत्य् आशयेनाह—निवृत्तेति । निवृत्त-तर्षैर् भक्तैर् अप्य् उप अधिकं सर्वोपरितनत्वेन वा गीयमानाद् इति परम-फलत्वेन सदोपगानात् परमानन्दमयत्वम् । तत्र मुक्ता ज्ञानिनः शुद्ध-भक्ताश् चेति द्वैविध्ये पुनर् जीवन्मुक्ताः प्राप्त-सालोक्यादयश् चेति चतुर्विधा ज्ञेयाः ।
भवौषधाद् इति । अर्थान् मुमुक्षूणां सर्व-दुःख-निवर्तकत्वम् । श्रोत्र-मनोऽभिरामाद् इति । शब्द-मात्रेण श्रोत्राणि अर्थेन मनांसि चाभितो रमयतीति तथा तस्माद् इति । पारिशेष्याद् विषयेच्छूनां अपि सुख-प्रदत्वम् । तथा भक्तीच्छूनां तु उत्तर-द्वयम् अधिकं । प्रथमं च यथोचितं ज्ञेयम् इति चतुर्थोऽप्य् अधिकारी कल्प्यः ।
एवं साध्यत्वं साधनत्वं च । अतः सदा सर्व-सेव्यत्वं उक्तम् । अत एवोत्तमः-श्लोको यशो यस्य, तस्य श्री-भगवतो गुणानां निरतिशय-नित्य-सत्य-स्वाभाविकानन्तानां औदार्य-वात्सल्यादीनाम् अनुवादः । निरन्तरा पुनः पुनः प्रवर्तिता वा कथा, तस्मात् को विरज्येत विरतस् तृप्तो वा स्यात् ? तत्राद्यानां निरन्तरं मनसि तल्-लीलानन्दो ब्रह्मानन्दाद् अप्य् अधिकतत्त्व् स्फुरति । अत्यन्तोच्छलिततत्त्व् तादृश-गानत्वेन परिणमते च । अतः स्वतः सिद्धत्वात् तेषु गानस्यैव प्राधान्यं दर्शितम् । स्वतः-सिद्ध-तादृश-भावत्वेन त एव च प्रथमं निर्दिष्टाः । भुक्ति-मुक्तीच्छुषु तादृश-स्फूर्त्य्-अभावात्, न स्वतः-सिद्धत्वम् ।\
अत औषध-रूपत्वं श्रोत्र-द्वारैव मनः-प्रवेशित्वं चोक्तम् । तस्मात् चरणारविन्दस्यैव प्राधान्यं दर्शितम् । पूर्वतो न्यूनत्वं च । तत्र द्वितीयेषु परंआर्थ-साधन-रूपत्वेन स्फुरति । वस्तु-स्वभावत्वेन श्रोत्र-मनोऽभिरामत्वं चास्त्य् एव । तृतीयानां तु केवलं श्रोत्र-मनोऽभिरामतयेति तारतम्यम् । चतुर्थानां तु प्रथमेभ्य एव न्यूनत्वम् अन्येभ्यस् त्व् आधिक्यम् । शास्त्रेऽस्मिन् पद-वाक्यानां क्रमस् त्रिविधो ज्ञेयः । पूर्व-पूर्व-न्यूनः, उत्तरोत्तर-न्यूनः, यादृच्छिक-न्यूनश् च । तत्र प्रथम-द्वयं कैमुत्य-विवक्षया । उत्तरस् त्व् अभिधेयार्थस्य नात्यादरेण प्रेमावेशेन चेति । अत्र तु त्रयाणां यथोत्तरं न्यूनता । चतुर्थानां तु यादृच्छिक्य् एव । तथोक्तिस् तु मुक्तत्व-मुमुक्षुत्वाभावेऽपि मम विषयितया श्रोत्र-मनोऽभिरामत्वेनापि तत्र विरक्तिर् न युक्तेति विनयात् ।
पुमान् इति चेत् स्त्रीवद् अस्वतन्त्रः, क्लीबवद् विकलेन्द्रियश् चेत् तदात्म-योग्यत्वासम्भावनया विरज्यतां नामेत्य् अर्थः । यद् वा, पुंस एव सर्वत्र प्राधान्यात् पुमान् इत्य् उक्तं । यद् वा, पुमान् जीवः, तेन चाधिकार्य्-अपेक्षापि निरस्ता ।
पशुघ्नात् व्यधात् । तस्य हि विषयित्व-सम्भवेऽपि सततं हिंसादि-क्लेश-विद्ध-बुद्धित्वेन लोक-द्वय-सुख-विवेकासिद्ध्या विषयिताया अप्य् अभावः । अत उक्तं—
राज-पुत्र ! चिरं जीव, मा जीव ऋषि-पुत्रक ! ।
जीव वा मर वा साधो ! व्याध ! मा जीव मा मर ॥ इति ।
तस्मात् यो विरज्येत, स लोक-द्वयेऽप्य् आत्म-क्लेशित्वेन तद्-विरागात् परेष्व् अपि शल्यवद् अर्पणेन व्याध एवेति गालि-प्रदाने तात्पर्यम् । अन्यद् भगवद्-भक्ति-विलास-टीकायां कथा-माहात्म्ये विस्तारितम् एवास्ति । तद् एवं सामान्यतः श्री-भगवद्-गुणानुवादस्यैतादृशत्वे सति, किम् उत श्री-कृष्ण-रूप-तद्-गुणानुवादस्येति भावः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : निवृत्तेति सामान्यतस् तत्-प्रशंसा । पितेत्य्-आदिभिर् विशेषत इति ज्ञेयम् निवृत्त-तर्षैः ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
श्रीधर-स्वामिभिः श्रीमत्-प्रभुभिश् च सनातनैः ।
ऋजुत्वात् त्यक्तम् उच्छिष्टं भुजिष्ये\ऽहम् उपाददे ॥
अस्मद्-आदयस् तु संसार-रोग-ग्रस्ताः परम-भाग्य-लब्धैर्भिषक्-शिरो-मणिभिस् तत्र भवद् भिर् गीयमानात् कृष्ण-लीलामृत-महौषधात् कथं विरता भवितुम् अर्हन्तीत्य् आह—निवृत्तेति ।
भवौषधात् संसार-व्याधेर् औषध-रूपात् । निवृत्त-तर्षैर् यद् एव निषेव्य विगत-तृष्णा-व्याधिभिस् तृष्णैव संसारस् तस्मान् मुक्तैर् ज्ञानादिभ्यो\ऽपि उप आधिक्येन गीयमानात्, “भो भो वयम् इव निरामया भवत” इत्य् उच्चैर् उपदिश्यमानात्, अन्यौषधवन् नास्य कटवादि-रसत्वम् इत्य् आह—श्रोत्र-मनः-सुख-प्रदात् । श्रोत्रमनोभ्याम् एवैतद् औषधं पीयत इति भावः पशुग्नः स्वरांसुस्वाभिलासी कर्मी तस्माद् विना, स एव विरज्येत नान्यः । यद् उक्तम्, त्रैवर्गिकास् ते पुरुषा विमुखा हरि-मेधसः । कथायाम् [भा।पु। ३.३२.१८] इत्य्-आदि ।
अत्र वक्तृ-श्रोत्रोर् उभयोर् एवानन्द नृत्याह—निवृत्तेति । उत्तम-श्लोकस्य गुणानाम् अनुवादात् गुरोर् मुखाद् आकर्ण्य पश्चाद् अनुकीर्तनात् कः पुमान् वक्ता विरज्येत ? न को\ऽपि यतो निवृत्त-तर्षैर् उपगीयमानात्, कृष्णस्य गुणानाम् अनुकीर्तनम् अपि उप सर्वाधिक्येन गीयते । किं पुनस् तेषाम् आस्वादनम् इति भावादृशो वक्ता तेषाम् आस्वादको\ऽपीति भावः । अत्र वर्तमान-प्रयोगाद् आधिक्य-वाचकोपशब्दोपन्यासाच् च निवृत्त-तर्ष-शब्देन शुद्ध-भक्ता एव व्याख्येयाः, न तु ज्ञानिनः । तेषां निदिध्यासनस्यैव शाश्वतिक-स्तुतिर् दृष्टेर् न त्व् अनुकीर्तनस्य, तथैव गुणानुवादं प्राप्य कः खलु मादृशः संसारिकः श्रोता विरज्येत, यतो भवौषधात् । द्वयोर् एव विरागाभावे हेतुः, श्रोत्रमनो\ऽभिरामात् कथञ्चिद् धनादिक-कामनया यदि कर्मी वक्ता श्रोता वा स्यात् तदा स विरज्येदेवेत्य् आह—पशुग्नाद् विना पशुग्नो व्याधस् तस्मात् तस्य हि विषयित्व-सम्भवे\ऽपि सततं हिंसादि-क्लेश-विद्ध-बुद्धित्वेन लोक-द्वय-सुखवति स्वात्मति संसार-मोचनेच्छत्वम् आरोप्य विवेकासिद्ध्या विषयित्वाया अप्य् अभावः । अत उक्तम्,
राज-पुत्र ! चिरं जीव, मा जीव ऋषि-पुत्रक ! ।
जीव वा मर वा साधो ! व्याध ! मा जीव मा मर ॥ इति ।
तस्माद् यो विरज्येत स लोक-द्वये\ऽप्य् आत्म-क्लेशित्वेन तद् विरागात् परेष्व् अपि शल्यवद् अर्पणेन व्याध एवेति गालि-प्रदाने तात्पर्यम् ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु कृष्ण-चरितान्य् असकृद् वर्णितानि पुनः किं पृच्छसि ? तत्राह—उत्तम-श्लोकस्य कृष्णस्य गुणानुवादात् को विरज्येत ? न कोऽपीत्य् अर्थः । कीदृशात् ? निवृत्त्या तर्षा विषय-तृष्णा येषां तैर् आविर्भूत-स्वात्मानन्दैर् आचार्य्रूपैर् उपाधिक्येन गीतमानात् । मुमुक्षूणां भवौषधात् संसार-रोग-निवर्त्तकात् । मुक्तानां शब्दार्थ-माधुरीभ्यां श्रोत्र-मनसोर् अभिरामात् । मुमुक्षु-जीवन्मुक्त-मुक्त-निषेव्याद् इति पुमर्थ-रूपत्वं व्यक्तम् । पशुघ्नाद् विनेति पश्यत्य् अविशेषेणेति पशुः कृष्ण-तद्-अन्य-चरितयोः साम्य-दर्शी विमुखस् तथा-भूतम् आत्मानं सम्पाद्य हन्त्य् अधः-पातयति तस्माद् विना । यद् वा, पशुघ्नः स्वर्गार्थीं कर्मठस् तस्माद् विना, त्रैवर्गिकास् ते पुरुषा विमुखा हरि-मेधसः । कथायाम् [भा।पु। ३.३२.१८] इत्य्-उक्तेः । पशुघ्नो व्याधस् तस्माद् विनेति वा । स खलु सन्तत-हिंसानुविद्ध-बुद्धिर् लोक-द्वय-सुख-स्पृहा-वर्जित इत्य् अर्थः । अस्त्व् आगर्भात् तेनैव पालितः सम्प्रति मुमुर्षुस् तच्-चरितान्य् एव विशेषत उपजीवामीति ॥४॥
॥ १०.१.५ ॥
पितामहा मे समरेऽमरञ्जयैर्
देवव्रताद्यातिरथैस् तिमिङ्गिलैः ।
दुरत्ययं कौरव-सैन्य-सागरं
कृत्वातरन् वत्स-पदं स्म यत्-प्लवाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं चास्मत् कुल-दैवतं कृष्णः । अतस् तत्-कथैव नित्यं श्रोतव्येत्य् आशयेनाह—पिता-महा इति । अमरान् जयन्ति ये, तैः । देव-व्रतो भीष्मस् तद्-आद्यैर् अतिरथैस्तिमिङ्गिलैस् तिमिङ्गिल-तुल्यैर् दुरत्ययंवत्स-पदम् इवात्य्-अल्पं कृत्वा तुच्छीकृत्य अतरन्स्म । यः श्री-कृष्ण एव प्लवो येषां ते । तस्य वीर्याणि वदस्वेति तृतीय-श्लोक-गतेनान्वयः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्ये विरज्यन्तु नामास्माकं तत्र विराग उचित इत्य् आह—किं चेति । यतः कुल-दैवतम् अतस् तत्-कथा कृष्ण-कथा प्लवस् तरण-साधनं,
प्लवः प्लक्षे प्लुतौ कपौ
शब्दे कारण्डवे म्लेच्छ-जातौ भेलक-भेकयोः ।
क्रम-निम्न-मही-भागे कुलके जल-वायसे ।
जलान्तरे प्लवङ्गे च तृण-मुस्तक-भिद्य् अपि ॥ इति हैमः ।
अस्त्रियां समरान-किरणाः इत्य् अमरः । तिमिर् दश-योजनो मत्स्यस् तं गिलति निगिरतीति तिमीङ्गिलः । देवानां विश्व-देवानां इव व्रतं नियमः सन्तत्य्-अनुत्पादन-रूपं यस्य स देवव्रतो भीष्मः । महारथोयुत-योद्धातिरथः ।
वदस्वेति । भासनोप-सम्भाषा-ज्ञान-यत्न-विमत्य्-उपमन्त्रणेषु वदः [पा। १.३.४७] इत्य् अनेनोपसम्भाषायां आत्मनेपदम् । उपसम्भाषा सान्त्वनम् । तृतीय-श्लोक-गतेन वीर्याणीत्य्-आदि-श्लोक-गतेनेत्य् अर्थः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्रापि विशेषतोऽस्मत्-कुलैक-गतेः श्री-कृष्णस्य कथा अवश्यं सदा विस्तरेण मया श्रोतव्येत्य् आशयेनाह—पितेति । समरे धर्म-युद्धेऽतरन् । किं वा, युद्ध-मध्ये । अमरञ्जयैर् इति महा-शौर्यम् उक्तम् । देव-व्रत इति इच्छा-मृत्युत्वादि-हेतु-महा-नियम-निष्ठया परम-दुर्जयत्वम् । स आद्यः सेनापतित्वादिना श्रेष्ठो येषाम् अतिरथानां, तैर् इति तत्-पाल्यत्वेन तेषाम् अपि दुर्जयत्वम् । अत एव दुरत्ययं दुस्तरम् अपि । अतिरथ-लक्षणं महा-भारते—
एकादश सहस्राणि योधयेद् यस् तु धन्विनाम् ।
अस्त्र-शस्त्र-प्रवीणाश् च महा-रथ इति स्मृतः ।
अमितान् योधयेद् यस् तु सम्प्रोक्तो\ऽतिरथस् तु सः ॥ इति ।
कौरवाणां दुर्योधनादीनां सैन्यम् एव सागर आनन्त्यादिना तम् । स्मेति प्रसिद्दौ, इवार्थे वा । यत्-प्लवा इति । वत्स-पदम् इव कृत्वेति, अनायासेनेत्य् अर्थः । तत्र हेतुः—यत्-प्लवा इति प्लवो वहित्रम् । यथा वायु-वेगेन स्वयम् एव गच्छन्तं प्लवम् आश्रिताः सुखं शीघ्रं महार्णवं तरन्ति वणिजस् तद्वद् इत्य् अर्थः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ त्रिकम् । तत्र मया तु विशेषतो निज-कुलैक-गतेः श्री-कृष्णस्य कथा सदा अवश्यं श्रोतव्येत्य् आशयेनाह—पितेति । अमरञ्जयैर् इति महा-शौर्यम् उक्तम् । देव-व्रतेति इच्छा-मृत्युत्वादि-हेतु-महा-नियम-निष्ठया परम-दुर्जयत्वम् । स आद्यः श्रेष्ठो येषाम् अतिरथानां, तैर् इति तत्-पाल्यत्वेन तेषाम् अपि दुर्जयत्वम् । अत एव दुरत्ययं दुस्तरम् अपि । अतिरथ-लक्षणं महा-भारते—
एकादश सहस्राणि योधयेद् यस् तु धन्विनाम् ।
अस्त्र-शस्त्र-प्रवीणाश् च महा-रथ इति स्मृतः ।
अमितान् योधयेद् यस् तु सम्प्रोक्तो\ऽतिरथस् तु सः ॥ इति ।
कौरवाणां दुर्योधनादीनां सैन्यम् एव सागरः अतिविस्तीर्णत्वादिना तं स्मेति प्रसिद्दौ । यत्-प्लवा इति । प्लवस् तरण-साधनं तत्-साधनत्वं च तस्य न वहित्र-तुल्यत्वेन वोढृ-लक्षणत्वं, किन्तु प्रभाव-विशेषेण विलक्षणम् एवेत्य् आह—वत्स-पदम् इव कृत्वेति, अनायासेनैव तरणात् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पितेति । तस्यासाधारण-प्लवत्वम् आह—वत्सपदम् इव कृत्वेति । ततस् तरण-साधनत्वाद् एव तस्य प्लवत्वं न तु वहनसाम्यादपीति भावः । येन सहायेन प्लव उत्प्लुतिर्येषां तादृशा वा ।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : श्री-कृष्ण-गुणानुवादाद् एव विषय-निवृत्तिः स्याद् इत्य् आह—निवृत्त-तर्षैर् उपगीयमानाद् इत्य्-आदि । आपशुघ्नात् पशुघ्नो व्याधः, तम् अभिव्याप्य । कः पुमान् उत्तम-श्लोक-गुणानुवादाद् विना विरज्येत, विरक्तो भवतीत्य् अर्थः । तच्-छ्रवणेनैव सर्वत्रालं-बुद्ध्या हेयत्वेन सर्वं जानाति । पशुघ्नोऽपि विरज्यति, किं पुनर् विद्वान् ? वक्ष्यति च,
यद् अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्-
सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः ।
सपदि गृह-कुटुम्बं दीनम् उत्सृज्य दीना
बहव इह विहङ्गा भिक्षु-चर्यां चरन्ति ॥ [भा।पु। १०.४७.१८] इति ।
यद् वा, पशुघ्नात् विना को विरज्येत ? पशुघ्नः कर्म-निष्ठः, स्वर्गादि-लोभेन ये पशून् घ्नन्ति, त एव न विर्ज्यन्ति । यद् वा, अपगता शुक् येषां ते अपशुचो वैष्णवास् तान् हन्ति, द्वेष्टीति अपशुघ्नो वैष्णव-निन्दकः, तं विना । गुणानुवादं विशिनष्टि—निवृत्त-तर्षैर् निस्पृहैर् आचार्य्रूपैर् अप्य् उपगीयमानात् । उपाधिकतत्त्व् गीयमानात्, न तु गीतात् । भवौषधात् संसार-व्याधि-भेषजात् । श्रोत्रमनोऽभिरामाद् इति मुक्त-मुमुक्षु-रागिणां एवानुकूलात् । रागिणस् तु श्रोत्र-मनोऽभिरामत्वेनैव पूर्वं शृण्वन्ति, पश्चाद् वस्तु-मर्यादया चरणारविन्देनैव विषयेभ्यो विरज्यन्तीति भावः ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मत्-कुल-दैवतत्वेनापि कृष्णस्य कथा मम श्रोतव्येत्य् आशयेनाह—पितामहा इति । अमरान् जयन्तीति तैः । देवव्रतो भीष्मः तिमिङ्गिल-तुल्यैः दुरत्ययं दुष्पारम् अपि वत्सपदम् इव कृत्वा अतरन् यतो यः श्री-कृष्ण एव प्लवो येषां ते तं समाऋइता इत्य् अर्थः । तथा हि, समाश्रिता ये पद-पल्लव-प्लावम् [१०.१४.५५] इत्य् अत्र भवाम्बुधिर् वत्स-पदम् इति तस्य वीर्याणि वदस्वेति तृतीयेनान्वयः ॥५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मत्-कुल-दैवतत्वात् कृष्णस्य चरितानि मम श्रोतव्याणीति भाववान् आह—पितेति । अमरान् इन्द्रादीन् जयन्तीति तैः । देवव्रतो भीष्मस् तदद्वैयरतिर् अर्थस् तिमिङ्गिल-तुल्यैः दुरत्ययं दुष्पारम् अपि वत्सपदम् इव कृत्वा अतरन् यतो यः श्री-कृष्ण एव प्लवो येषां ते तं समाऋइता इत्य् अर्थः । तथा हि समाश्रिता ये पद-पल्लव-प्लावम् [१०.१४.५५] इत्य् अत्र भवाम्बुधिर् वत्स-पदम् इति तस्य वीर्याणि वदस्वेति तृतीयेनान्वयः ॥५॥
॥ १०.१.६ ॥
द्रौण्य्-अस्त्र-विप्लुष्टम् इदं मद्-अङ्गं
सन्तान-बीजं कुरु-पाण्डवानाम् ।
जुगोप कुक्षिं गत आत्त-चक्रो
मातुश् च मे यः शरणं गतायाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलं पाण्डवान् एवारक्षत्, इदं मम शरीरम् अपि यो रक्षितवान् इत्य् आह—द्रौण्य्-अस्त्र-विप्लुष्टम् इति । द्रौणेर् अश्वत्थाम्नो ब्रह्मास्त्रेण दग्धम् इदं मच्-छरीरं च कुरूणां पाण्डवानां च सन्तानस्य निदानं मम मातुः कुक्षौ प्रविष्टो धृत-चक्रो यो जुगोपेति ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्तं स्वीकृतं भ्रामणेन चक्रवद् वर्तुलं गदा-रूपम् अस्त्रं येन स आत्त-चक्रः । यथा-श्रुतार्थे तु, परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहुः [भा।पु। १.१२.९] इत्य्-उक्ति-व्याकोपः स्याद् इति । चक्रं रथाङ्गे कोके च सैन्येऽस्त्रे जल-सम्भ्रमे इति मेदिन्य्-आदयः । प्रायश् चक्रादानस्य सार्वदिक्त्वाद् वात्त-चक्र इत्य् उक्तं । कुरु-चेदि-पाण्डवानां पृथग्-उक्तिर् ब्राह्मण-परिव्राजकवत् मेयः । इत्य् एक-पदं वा मेयः मदृग्-गोचर इत्य् अर्थः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषतश् च मम जीवन-प्रदः श्री-कृष्ण एवेत्य् आह—द्रौणीति । विशेषेण प्लुष्टं दग्धम् अपि, ब्रह्मास्त्रस्यानन्य-निवार्यत्वाद् दाहकतमत्वाच् च । इदम् इति जन्मान्तरीणत्वं व्यावर्तितम् । यद् वा, प्रत्यक्षम् इत्य् अर्थ इति तत्र संशयो निरस्तः । यद् वा, इदानीं सद्-धमानर्हत्वेन घृणास्पदं हेयं ममाङ्गं स्वतो नश्वरं पाञ्चभौतिकं देहम् अपि जुगोपेति परम-वात्सल्यम् उक्तम् । कुर्व्-आदीनां सन्तान-वीजम् इति तेषां कुल-क्षय-दोष-निरसनेन यशो धर्मश् च रक्षितोऽतस् तेषां हितार्थम् एव जुगोप । पाण्डवानां कुरुत्वेऽपि पृथग्-उक्तिस् तेषां तत्र विशेषापेक्षया । यद् वा, भारते दुर्योधनादय एव कुरुतया प्रसिद्धास् त एवात्र ज्ञेया इति तेषां सन्तानाभाव उक्तः । तेन श्री-भगवतः परम-कारुण्यम् एवाभिप्रेतम् । दुष्टानां समूल-नाशनात्, तथा तेषां अपि बीज-रक्षया पर-लोक-हिताचरणाच् च । प्रायश् चक्रादानस्य सार्वदिकत्वाद् आत्त-चक्र इत्य् उक्तम् । गोपनं तु गदयैव अस्त्र-तेजः स्वगदया नीहारम् इव गोपतिः [भा।पु। १.१२.१०] इति प्रथमे प्रोक्तत्वात् । यद् वा, भक्त-वात्सल्येन व्यग्रतया रक्षणार्थं चक्रम् अपि गृहीतम् । च-कारान् मातुर् अङ्गं च जुगोपेत्य् अर्थः, गर्भ-रक्षया तद्-देहस्यापि रक्षणात् । शरणं गताया इति रक्ष रक्षेति वाङ्-मात्रेणेत्य् अर्थः । अतस् तत्-कथायां विरक्त्या ममाकृतज्ञतापि प्रसज्येतेति श्लोक-द्वय-तात्पर्यम् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषतो मम जीवन-प्रदश् च श्री-कृष्ण एवेत्य् आह—द्रौणीति । विशेषेण प्लुष्टं दग्धम् अपि, ब्रह्मास्त्रस्यानन्य-निवार्यत्वाद् दाहकतमत्वं च इदम् इति जन्मान्तरीणत्वं व्यावर्तितम् । यद् वा, प्रत्यक्षम् इत्य् अर्थः । इति तत्र संशयो निरस्तः । कुर्वादीनां सन्तान-वीजम् इति तत् करुणायां हेतुः सैव स्वदेहे प्रति-हेतुश् च अतस् तेषां सर्वेषाम् अपि कुलक्षय-दोष-निरसनेन यशो धर्मश् च रक्षित इति भावः । पाण्डवानां कुरुत्वे\ऽपि पृथ्ग् उक्तिस् तेषां तत्र विशेषापेक्षया अत एव कुरवस् तद् अन्य एव ब्रह्मण-परिव्राजकादिवत् । इति तेषां स्व-सन्तानाभाव उक्तः । तेन श्री-भगवतः परम-कारुण्यम् एवाभिप्रेतम् । दुष्टानां समूल-नाशात्, प्रकारान्तरेण तेषां अपि बीज-रक्षया परलोक-हिताचरणाच् च । प्रायश् चक्रादानस्य सार्वदिकत्वाद् आत्त-चक्र इत्य् उक्तम् । गोपनं तु गदयैव, अस्त्र-तेजः स्व-गदया नीहारम् इव भास्करः8 [भा।पु। १.१२.१०] इति प्रथमे प्रोक्तत्वात् । यद् वा, भक्त-वात्सल्येन व्यग्रतया रक्षणार्थं चक्रं च गृहीतम् । च-कारान् मातुर् अङ्गं च जुगोपेत्य् अर्थः, गर्भ-रक्षया तद्-देहस्यापि रक्षणात् । अन्यथा पत्य् अनुमरणम् एव तस्या अभीष्टम् इति अतस् तत्-कथायां विरक्त्या नितराम् अकृतज्ञतापि प्रसज्येतेति श्लोक-द्वय-तात्-पर्यम् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : द्रौणीति । अस्त्र-तेजः स्व-गदया [भा।पु। १.१२.१०] इति प्रथमोक्तत्वाद् आत्त-गदत्वम् अपि ज्ञेयम् ॥६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-एक-रक्षकत्वेनापि त्वया अवश्य-श्रोतव्येत्य् आह—द्रौण्यस्रेण विप्लुष्टं दग्धम् इदम् इति, तर्जन्या स्व-पक्षः स्पृशति, आत्त-चक्रश् चक्रधारी अस्त्र-तेजः स्व-गदया नीहारम् इव गोपतिः [भा।पु। १.१२.१०] इति प्रथमोक्तेर् गदयेव जुगोप । च-कारान् मातुर् अङ्गं च जुगोप ॥६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मद्-एक-रक्षकत्वाच् च तच्-चरितानि मे श्रोतव्यानीत्य् आह—द्रौण्य्-अस्त्रेण विप्लुष्टं दग्धं मद्-अङ्गम् । इदम् इति तर्जन्या वक्षः स्पृशति । आत्त-चक्रो धृत-सुदर्शनः । प्रथम-स्कन्ध-संवादाद् गदया तद्-अस्त्रं निरस्य जुगोप । चान् मातुर् अङ्गं च ॥६॥
॥ १०.१.७ ॥
वीर्याणि तस्याखिल-देह-भाजाम्
अन्तर् बहिः पूरुष-काल-रूपैः ।
प्रयच्छतो मृत्युम् उतामृतं च
माया-मनुष्यस्य वदस्व विद्वन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अखिल-देह-भाजां सर्व-प्राणिनाम् अन्तश् च बहिश् च पुरुष-रूपेण काल-रूपैश् च । अंशाभिप्रायेण बहु-वचनम् । मृत्युं संसारम् उत अपि अमृतम् अपि प्रयच्छतो वीर्याणि वदस्व ब्रूहि । अयं भावः—अन्तर्यामि-रूपेणान्तर्-दृष्टीनां मुक्तिं, बहिर् दृष्टीनां च काल-रूपेण मृत्युं ददाति यतः, अतोऽन्तर्-दृष्ट्या तद्-वीर्याण्य् एव श्रोतव्यानीति ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काल-रूपैर् इति बहुत्वोक्तिः । अंशाभिप्रायेण इति कालस्यांशा युग-कल्प-वर्ष-मासादि-भेदाद् बहवः सन्ति, तद्-अभिप्रायेण । मृत्युं मरणं दुःखं वा तत् तत्-समये तत् तद् दृष्टवशाज् जीवानां भवतीति भावः । प्रयच्छतो ददतुः, दाण-दाने प्रपूर् वाच्छतरि यच्छादेशः वीर्याणि लोक-कण्टकायमानासुर-हननादीनि ।
एतेन किम् आयातं ? तत्र अयं भाव इति । अन्तर्-दृष्ट्या तत्-पर-चेतसेति । माया-मनुष्यस्य लीलार्थं धृत-मनुष्य-शरीरस्य । माया लील कृपा-शक्ति-दम्भेष्व् अथ इति कोशात् । विद्वन्न् इति श्री-शुकस्य कथन-सामर्थ्ये द्योतयति ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यतो वैष्णवेभ्य एव गुणानुवादः, तेषां विद्वेषे अत्र विरक्तिर् एव, अतस् तम् एव गुणानुवादं श्रावयेद् इत्य् आह—वीर्याणीत्य्-आदि । हे पुरुष हे विद्वन् ! इति सम्बोधन-द्वयेन तद्-भिन्ना हि क्लीबा मूर्खाश् चेति तात्पर्यम् । विद्वत्त्वं भगवत्-परायणत्वं—सा विद्या तन्-मतिर् यया [भा।पु। ४.२९.५०] इति । पुरुषत्वं पुरुषाकारं सद्-उपदेशेन पर-निस्तारकत्वं, उभयं तवैवास्तीति स्तुति-पूर्वकम् आह—तस्य श्री-कृष्णस्य वीर्याणि वदस्वेति । ज्ञान-यत्नोपच्छन्देषु वदः [पा। १.३.४७] इत्य् आत्मनेपदम् । यत्न-पूर्वं कथयेत्य् अर्थः ।
हे स्वेति वा छेदः । स्व सर्व-भूतानां आत्मन् ! तन्-मयतत्त्व् तरवोऽभिनेदुः [भा।पु। १.२.२] इत्य् उक्तत्वात् ।
कीदृशस्य ? अखिल-देह-भाजाम् अन्तर् बहिश् च काल-रूपैः श्यामल-रूपैर् मृत्युं मरणं अमृतम्, अमृतं आनन्दं च प्रयच्छतः । अदर्शनेन मृत्युं, दर्शनेनामृतं ।
अथो हे पुरुष ! हे विद्वन् ! इति सम्बोधन-द्वयम् एव । पुरुषेति सम्बोधनेन पौरुषत्वं व्यज्यते । तत् तु उपदेशेन पर-निस्तारत्वं, विद्वत्ता च भगवत्-परायणाद् वयं त्वय्य् एवास्तीति भावः । काल-रूपैः कालस्य श्याम-महसो रूपैर् नाना-विधैस् तरङ्गैर् मृत्युम् अमृतम् आनन्दं च प्रयच्छतः । अदर्शनेन मृत्युं, दर्शनेनामृतम् । काल-श्यामल-मेचका इत्य् अमरः । रूपैर् इति बहु-वचनम् इयत्ता-भारत्व-सूचकं, श्याम-महसः पुनः पुनः प्ररोहात् ।
यद् वा, अखिल-देह-भाजां मध्ये अन्तः अन्तरङ्गाणां बहिर् बहिरङ्गाणां च मृत्युम् अमृतं च यथा-योगं प्रयच्छतः, अक्रमेण योज्यम् । प्रविश पिण्डीं गृहं भक्षय इत्य्-आदिना पूर्व-श्लोकार्थस्य पूर्वः । पुरुषाः स्वजनाः कालः काल-शक्तिश् च रूपं च यथा-योग-करणत्वम् अभिगन्तव्यम् । अन्तरङ्गाणां स्वजने रूपेणामृतम्, बहिरङ्गाणां कालेन च मृत्युम्, कालोऽस्मि लोक-क्षय-कृत् [गीता ११.३२] इत्य् उक्तेः । माया-मनुष्यस्य माययाप्य् अमनुष्यस्यालौकिकस्येति वा यावत् । अप्रतिच्छादनीय-परमेश्वरस्य ॥७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् तद्-वीर्याण्य् अवश्यं कथ्यानीति पुनर् औत्सुक्येन प्रार्थयमानः श्री-भगवन्-माहात्म्यम् आह—वीर्याणीति ।
देह-भाजां जीवानाम् अमृतं मरणाद्य्-अशेष-दुःख-रहितं परम-मधुरं वा वैकुण्ठ-लोकं श्री-कृष्ण-पादाब्ज-प्रेम वा प्रयच्छतो ददतः । च-काराद् अन्यद् अप्य् अपेक्षितं वदस्व गुह्यान्य् अपि प्रकाशयेत्य् अर्थः । भासनोपसम्भाषा [पा। १.३.४७] इत्य्-आदिना लोट् । यद् वा, हे स्व ! हे मद्-एक-बन्धो ! मद्-एक-धनेति वा । अतो मद्-धितार्थम् अवश्यं वक्तुम् अर्हसीति भावः । परं श्री-स्वामि-चरणैर् व्याख्यातम् एव ।
भावस् त्व् अयम्—कथा-श्रवणादिना अन्तर्-दृष्टीणां सताम् अन्तर्यामि-रूपेणामृतं, तद्-अभावे च बहिर्-दृष्टीनां काल-रूपेण मृत्युं ददाति यतः, अतस् तद्-वीर्याणि ब्रूहीति ।
अथवा, अन्तर् बहिश् च यानि पुरुष-कालयो रूपाणि, तैः । तत्र श्रवणादिनान्तः-स्थितैः सद्भिः पुरुषस्य श्री-भगवतो रूपैः श्री-विष्ण्व्-आदि-मूर्तिभिः परमानन्दं, तद्-अभावेन च कालस्य रूपैर् बहिः-स्थितैर् यमादिभिर् विविध-दुःखं ।
किं वा, अन्तर् बहिश् चामृतं, बहिर् अन्तश् च मृत्युम् अपि प्रयच्छत इत्य् अन्वयः ।
यद् वा, पुरुष-रूपेणान्तर्यामि-दृष्ट्येत्य् अर्थः, तद्वताम् । अ-कार-प्रश्लेषेणामृत्युं मोक्षं संसार-निवृत्ति-लक्षणम् । कालैः प्राधान्येन सहज-श्यामल-वर्णै रूपैश् च श्री-रघुनाथाद्य्-अवतारैर् अमृतं प्रयच्छत इति यथा-क्रमम् एव योजना ।
मायया इच्छा-शक्त्या । तथा च तन्त्रे—
योग-माया च माया च तथेच्छा-शक्तिर् एव च ।
कमला-भूमि-शक्त्य्-आद्यैर् विद्वद्भिः सैव गीयते ॥ इति ।
स्वेच्छया मनुष्यस्येव, तत्त्वतो मनुष्य-धर्मातीतत्वात् । यद् वा, माययाप्य् अमनुष्यस्य मनुष्य-लोकातीतस्य साक्षाच् छ्री-गरुडारोहण-रुद्र-जय-ब्रह्म-मोहनादिनैश्वर्य-प्रकटनात् ।
यद् वा, माया विचित्र-लीला विविधा विचित्र-कैतवं वा, यथा रास-क्रीडोद्यमेऽपि धर्मोपदेशादि, तद्-युक्तस्य मनुष्यस्य द्विभुजत्वादिना मनुष्याकारस्य ।
यद् वा, माया दया, माया दम्भे कृपायां च इति विश्वः, तया मनुष्यस्य मनुष्याकारं प्रकटयतः । एवं मृत्य्व्-अमृत-प्रदानेनैश्वर्य-विशेषात्, तथा माया-मनुष्यतया माधुर्य-विशेषाच् चैकस्यैवावतारित्वावतारत्वाभ्यां महात्म्य-विशेष उक्त एव ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, सत्यं निवृत्त-तर्षादीनाम् उपादेय एव तद्-गुणानुवादः । तथा भवद्-विधानां निज-रहस्यो\ऽसौ, किन्तु तद्-विमुख-जनाशङ्कया गोपयितुम् इष्यत इत्य् आशङ्क्य परमौत्सुक्येन तान् अपि प्रवर्तयन् प्रार्थये—वीर्याणीति ।
देह-भाजां जीवानाम् अमृतं मरणाद्य्-अशेष-दुःख-रहितं परम-मधुरं वा वैकुण्ठ-लोकं स्व-पादाब्ज-प्रेम वा प्रयच्छतो ददतः । च-काराद् अन्यद् अप्य् अपेक्षितं वदस्व । गुह्यान्य् अपि प्रकाशयेत्य् अर्थः । भासनोपसम्भाषा [पा। १.३.४७] इत्य्-आदिना लोट् । यद् वा, हे स्व ! हे मद्-एक-बन्धो ! मद्-एक-धनेति वा । अतो मद्-धितार्थम् अवश्यं वक्तुम् अर्हसीति भावः ।
हे विद्वन्न् ! इति तानि सर्वाणि त्वया ज्ञायन्त एवेति भावः । अन्यत् श्री-स्वामि-पादैर् व्याख्यातम् एव । भावस् त्व् अयम्—कथा-श्रवणादिना अन्तर्-दृष्टीणां सताम् अन्तर्यामि-रूपेणामृतं तद्-अभावे च बहिर्-दृष्टीनाम् काल-रूपेण मृत्युं ददाति, यतः पुरुषस्य श्री-भगवतो रूपैः श्री-विष्ण्व्-आदि-मूर्तिभिः परमानन्दं, तद्-अभावेन च कालस्य रूपैर् बहिः-स्थितैर् यमादिभिर् विविध-दुःखं ।
किं वा, अन्तर्-बहिश् चामृतं, बहिर् अन्तश् च मृत्युम् अपि प्रयच्छत इत्य् अर्थः । माययैव मनुष्यस्य प्रसिद्ध-प्राकृत-मनुष्यतया प्रतीतस्य स्वतो मनुष्याचार-लीलत्वे\ऽपि प्रकृति-धर्मातीतत्वात् ।
यद् वा, तादृश-मनुष्य-प्रकाशिकया माययाप्य् अमनुष्यस्य मनुष्य-लोकातीतस्य कदापि साक्षात् श्री-गरुडारोहण-रुद्र-जय-ब्रह्म-मोहनादिनैश्वर्य-प्रकटनात् ।
यद् वा, माया दया, माया दम्भे कृपायां च इति विश्व-प्रकाशात् । तया मनुष्यस्य मनुष्याकारं प्रकटयतः ।
यद् वा, माया ज्ञानं माया स्याच् छाम्बरी-बुद्ध्योः इति त्रिकाण्ड-शेषात्, माया तु वयुनं ज्ञानम् इति निघण्टोश् च । तस्यां ज्ञनावस्थायाम् अपि मनुष्यस्य नराकृति-पर-ब्रह्मत्वात् तद्-रूपत्वेनैव स्फुरतः ।
अथवा, अखिल-देह-भाजाम् अनियतानां जीवानां नियमं विनैव तेषाम् केषाञ्चिद् ऐच्छिकादि-मृत्युत्वेन दुर्घट-देह-पातानां श्री-भीष्म-द्रोणादीनां मृत्युं देह-पातं कुर्वतः, केषाञ्चिद् भगवद्-विरोधित्वेन दुर्घट-मोक्षाणां कंसादीनाम् अमृतं मोक्षम् अपि । च-कारात् पूतनादीनां परम-[भक्तातिम्]{।मर्क्} अपि कुर्वतो यानि, तस्य तादृशाणि वीर्याणि स्वच्छन्द-चरितानि वदस्व । तत्र हेतुः—विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यानि इत्य्-आद्य्-उक्त-दिशा पुरुष-रूपैः परमाण्वादि-भेदेन काल-रूपश् चान्तर् बहिश् च स्थितस्येत्य् अर्थः । ततश् च तेषाम् अन्तर् बहिश् च स्वेच्छानुरूपम् एव सम्पादितं यत् तद् युक्तम् एवेति भावः । अन्यत् समानम् ।
एवं मृत्य्व्-अमृत-प्रदानेनैश्वर्य-विशेषात्, तथा तादृश-मनुष्यतया माधुर्य-विशेषात्, तथा स्व-धाम्नि स्व-स्वरूपस्यैव सतः प्रपञ्चेति पुरुषादि-रूपेण स्वयम् अपि चाभिव्यक्तेः एकस्यैवावतारित्वावतारत्वाभ्यां वैचित्र्यात् तद्-अपूर्व-माहात्म्य-श्रवणे स्व-कौतुक-विशेषो\ऽपि दर्शितः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्व-पूर्वोक्त-बहिर्-मुखान् अपि प्रवर्त्तयन् स-कौतुकम् आह—वीर्याणीति । अखिल-देह-भाजाम् अनियतानां जीवानां नियमं विनैव तेषां केषाञ्चिद् ऐच्छिकादित्वेन दुर्घट-देह-त्यागानां भीष्मादीनां मृत्युं देह-त्यागं कुर्वतः केषाञ्चिद् भगवद्-विरोधित्वेन दुर्घट-मोक्षाणां कंसादीनाम् अमृतं मोक्षम् अपि । च-कारात् पूतनादीनां भक्तिम् अपि कुर्वतो यानि तस्य तादृशानि वीर्याणि स्वच्छन्दाचरितानि वदेत्य् अर्थः । तत्र हेतुः—विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यानि इत्य्-उक्त-दिशा पुरुष-रूपैः परमाण्व्-आदि-भेदेन काल-रूपैश् चान्तर्-बहिश् च स्थितस्येति ततस् तेषाम् अन्तर्-बाहिश् च स्वेच्छानुरूपम् एव सम्पादितम् इत्य् अर्थः । तद् एवं तस्य नराकृति-पर-ब्रह्मणः प्राकृत-मनुष्यतया प्रतीतिस् तु माययैवेत्य् आह—मायामनुष्यस्येति । तत एवम्-भूतैश्वर्यादि-दृष्ट्यापि निज-हितैषिभिस् तद्-एक-शरणापत्ति-सम्पादकानि तद्-वीर्याणि श्रोतव्यान्य् एवेति ॥७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतस् तम् एव श्री-कृष्ण-गुणानुवादं कुर्व् इत्य् आह—वीर्याणि तस्येत्य्-आदि । तस्य श्री-कृष्णस्य वीर्याणि वदस्वेति । ज्ञान-यत्नोपच्छन्देषु वदः [पा। १.३.४७] इत्य् आत्मनेपदम् । यत्न-पूर्वकं वदस्वेति भावः । हे स्वेति वा छेदः । स्व सर्व-भूतात्मनाम् आत्मन् ! तन्-मयतत्त्व् तरवोऽभिनेदुः [भा।पु। १.२.२] इत्य् उक्तत्वात् ।
कीदृशस्य ? माया-मनुष्यस्य, माया स्वाभाविकी प्रकाशिका शक्तिस् तत्त्व् मनुष्यस्य मनुष्याकृतेः, गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.९.४८] इत्य्-उक्तेः । यद् वा, मा लक्ष्मीः शोभा तस्या या प्राप्तिस् तत्त्व् मनुष्याकृतेः, शोभालम्भेनैव मनुष्यत्वम्, न तु वास्तवं तस्येत्य् अर्थः । माया लक्ष्म्याः शोभायाः हेतोर् इति पञ्चमी वा ।
पुनः कीदृशस्य ? अखिल-देह-भाजाम् अन्तर् बहिर् वर्तमानस्येति यावत् । पुरुष-काल-रूपैर् मृत्युम्, अमृतं मोक्षम् आनन्दं च प्रयच्छतः । मृतं च अमृतं चेत्य् एक-शेषः, पुनर् एक-वचनम् । काल-शक्त्या मृत्युम् । पुरुष-रूपेण श्री-नारायणेन मोक्षं, रूपेण स्वरूपेण तमाल-श्यामल-वंशी-विलास-रूपेण । आनन्दम् इति एक-शेषः कृत्वा यथा-संख्यं योजनीयम् ।
अथो हे पुरुष ! हे विद्वन् ! इति सम्बोधन-द्वयम् एव । पुरुषेति सम्बोधनेन पौरुषत्वं व्यज्यते । तत् तु उपदेशेन पर-निस्तारत्वं, विद्वत्ता च भगवत्-परायणाद् वयं त्वय्य् एवास्तीति भावः । काल-रूपैः कालस्य श्याम-महसो रूपैर् नाना-विधैस् तरङ्गैर् मृत्युम् अमृतम् आनन्दं च प्रयच्छतः । अदर्शनेन मृत्युं, दर्शनेनामृतम् ।
आथवा अखिल-देह-भाजां मध्ये । अन्तः अन्तरङ्गाणां सुहृदाम् अमृतं प्रयच्छतः । बहिः बहिरङ्गाणां दैत्यानां मृत्युम् । कैः ? काल-रूपैः । काल-रूपाभ्यां काल-शक्त्या मृत्युम्, रूप-शक्त्या अमृतं यथा-योगं योज्यम्, कालोऽस्मि लोक-क्षय-कृत् [गीता ११.३२] इति स्वोक्तेः । काल-रूप्य् अन्वमोदत [भा।पु। ११.२.४३] इत्य् उक्तेश् च ।
आथवा पुरुष-काल-रूपैर् इति पूर्ववद् एव पुरुषाः स्वजना यादवादयः कालः काल-शक्तिश् च, तैः बहिरङ्गाणां मृत्युम्, रूपेणान्तरङ्गाणां अमृतम् इति पाण्डवानां अन्तरङ्गत्वं कुरूणां बहिरङ्गत्वं मनसि कृत्वा तत्-तत्-परिणाम-स्फूर्त्या निरुक्तिः ॥७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वगति-प्रदत्वेनापि श्रोतव्यानीत्य् आह—वीर्याणीति । अखिल-देह-भाजां मध्ये ये अन्तरङ्गा भक्ता, ये च बहिरङ्गा भक्त-द्रोहिणः, तेभ्यो\ऽमृतं मृत्युं च प्रयच्छतो वीर्याणीति योज्याम् । तत्रान्तरङ्गेभ्यो वसुदेवादिभ्यः पुरुष-रूपैश् चतुर्भुज-द्विभुज-पुरुषाकारैर् अमृतं परमानन्दं बहिरङ्गेभ्यः कंसादिभ्यं काल-रूपैः । कालो\ऽयम् इति विह्वलः [भा।पु। १०.४.३] इति, मृत्युर् भोजपतेर् विराट् [भा।पु। १०.४३.१७] इत्य्-आद्य्-उक्त-रीत्या मत्स्यण्डिका-खण्डैः पित्त-दूषित-रसनया तिक्त-रसैर् इव साक्षान् मारकत्वेन भूतैर् मृत्युम् उतानन्तरम् अमृतं मोक्षं च प्रयच्छत इति वर्तमान-सामीप्ये वर्तमानत्वं ।
किं वा, लीलाया नित्यत्व-ज्ञापनार्थं वर्तमान-प्रयोगः । मायया स्वरूपेणैव मनुष्यस्य स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः, अतो माया-मयं विष्णुं प्रवदन्ति मनीषिणः इति माध्व-भाष्य-प्रमाणित-श्रुतेः ॥७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सर्व-गति-प्रदत्वाच् च श्रव्याणीत्य् आह—अखिलानां देह-भाजां प्राणिनां मध्ये येऽन्तर् अन्तर्मुखा भक्तास् तेभ्यः पुरुष-रूपैर् द्वि-भुज-चतुर्भुज-पुरुषाकारैर् अमृतं परंआनन्दं । ये च बहिर् बहिर्मुखा भक्त-विद्रोहिणस् तेभ्यः, कालोऽयम् इति विह्वलः[भा।पु। १०.४.३] इत्य्-आदि-वाक्यात् काल-रूपैर् मारकतत्त्व् विभातैर् मृत्युम् उतानन्तरम् अमृतं च प्रयच्छतः कृष्णस्य वीर्याणि वदस्व, गोपान्य् अपि प्रकाशय । भासनोपसम्भाषा [पा। १.३.४७] इत्य्-आदि-सूत्राद् वदेस् तङ्
यद् वा,, हे स्व ! मद्-एक-बन्धो श्री-मुनीन्द्र ! अतो मद्-धितायावश्यं ब्रूहीति भावः । पित्त-दूषित-रसनेषु सितापानकस्य तिक्तत्ववत् तेष्व् आनन्द-मूर्तेर् अपि दारुणतत्त्व्वभासः ।
कीदृशस्य तस्य ? इत्य् आह—मायेति । माया वयुनं ज्ञानम् इति निघण्टु-कोषाद् विज्ञान-रूप-मनुष्यस्येत्य् अर्थः । तम् एकं गोविन्दं स्मरणात्मअ-विग्रहम् इति चरणारविन्दात् । न हि मनुष्याकारं स्वर्ण-पिण्डो मनुष्य इति भावः, मायया मनुष्या यस्येति वा यन्-मायया मनुष्य-सृष्टिर् इत्य् अर्थः ॥७॥
॥ १०.१.८ ॥
रोहिण्यास् तनयः प्रोक्तो रामः सङ्कर्षणस् त्वया ।
देवक्या गर्भ-सम्बन्धः कुतो देहान्तरं विना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु,
बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् ।
वसुदेवस् तु रोहिण्यां कृतादीन् उदपादयते ॥
इति रोहिण्यास् तनयो रामः प्रोक्तः,
वसुदेवस् तु देवक्याम् अष्ट पुत्रान् अजीजनत् ।
कीर्तिम् अन्तं सुषेणं च भद्रसेनौदारधीः ।
मृदुं सन्तर्दनं भद्रं सङ्कर्षण-महीश्वरम् ।
अष्टम् अस्तु तयोर् आसीत् स्वयम् एव हरिः किल ॥
इति पुनर् देवक्या गर्भ-सम्बन्धस् तस्यैवोक्तः स कुतो घटत इत्य् आक्षेपः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकस्य देहान्तरम् अन्तरेण गर्भ-द्वय-संबन्धो न घटत इत्य् आह—नन्विति । तस्यैव बलस्यैव । स संबन्धः । कुतो हेतोः । घटते चारितार्थो भवेत् । इत्याक्षेप इत्य् आशंका । संदिग्धपदार्थ-निर्णय-जिज्ञासादिनानुयोग आक्षेपः आक्षेपो भर्त्सनाकृष्ट्य्-आशङ्कालं-कृतिषु स्मृतः इति ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र विशेषं पृच्छति—रोहिण्या इति चतुर्भिः । सङ्कर्षण इति । श्री-देवकी-पुत्रेषु सङ्कर्षणम् अहीश्वरम् [भा।पु। ९.२४.५४] इति सङ्कर्षणाख्यया यः प्रोक्तः, स एव रोहिणी-पुत्रो राम इति भेदो निरस्तः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र विशेषं पृच्छति—रोहिण्या इति चतुर्भिः । सङ्कर्षण इति । श्री-देवकी-पुत्रेषु सङ्कर्षणम् अहीश्वरम् [भा।पु। ९.२४.५४] इति सङ्कर्षणाख्यया यः प्रोक्तः स एव रामो बलाख्यो रामः, स एव रोहिणी-पुत्रत्वेन त्वया प्रोक्त इत्य् अर्थः । इति भेदोऽपि निरस्तः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र विशेषं पृच्छति—रोहिण्या इति चतुर्भिः । प्रोक्तो नवम-स्कान्धे सङ्कर्षणम् अहीश्वरम् [भा।पु। ९.२४.५४] इति । देवकी-पुत्रेष्व् अपि तस्यै सङ्कर्षर्णस्य देवक्या गर्भ-सम्बन्धश् च उक्तः । स कुतो घटते ? इत्य् आक्षेपः ॥८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विशेषं पृच्छति रोहिण्या इति चतुर्भिः । नवमे सङ्कर्षणो रामस् तस्या रोहिण्यास् तनयः प्रोक्तः । स एव देवकी-पुत्रेष्व् अपि गणितः । देहान्तरं विना तद्-गर्भ-सम्बन्धः कथं घटते ? ॥८॥
॥ १०.१.९ ॥
कस्मान् मुकुन्दो भगवान् पितुर् गेहाद् व्रजं गतः ।
क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कस्माद् इति । भगवतः कंस-भय-शङ्काया असम्भवाद् इत्य् अर्थः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् अप्य् आक्षिपति—कस्माद् इति । कस्माद् धेतोर् इति हेतौ पश्चमी । पितुर् गेहान् मधुरांतगर्तात् । मुकुन्द इति । सर्व-मोचन[-]{।मर्क्}कर्तुं भगवतः पितृ-मोचनम् अकृत्वा गमनानौचित्यम् आह । यद् वा, मुकुन्दः कंसस्य मुक्तिं दातुं पुर्याम् एव स्थानं योग्यो न व्रजं गन्तुम् इति भावः । स्तौ बृहद्-वनं परित्यज [पोपैः]{।मर्क्} यत्र वासं कृतवांस् तथा मथुरां परित्यज्य यादवैः समं यत्र तस्य वृन्दावनाख्यसय द्वारकाख्यस्य च[*]{।मर्क्} । व्रजं गोकुलम् । व्रजो गोष्ठ-वृन्देषु इति । क्व कुत्र ज्ञतिभिर् नन्द-सजातोयैर् वसुदेव-सजातीयैर् वा वासं निवासम् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सात्वतां पतिर् इति । सन् श्री-कृष्ण उपास्यत्वेन वर्तते । येषां ते सात्वता वैष्णवाः । तेषां मतं सात्वतं तद् आचष्टे इति णिज्-अन्तात् क्विपि रूपम् । सात्वत् । सात्वतः सात्वत-मत-व्याख्यातारस् तेषां पतिः ॥९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुकुन्दो मुक्ति-दातेति कंसस्य मुक्तिं दातुं पुर्याम् एव स्थातुं योग्यो, न च व्रजे गन्तुम् इति भावः । श्लेषेण मु- मुक्ति-सुखं कुत्सितं यस्मात्, स मुकुस् तं प्रेमानन्दं ददातीति व्रजम् एव गन्तुम् अर्हति । तत्र च कं हेतुं व्याजार्थम् उदभावयद् इत्य् अर्थः । सात्वतां भक्तानां पतिः पालक इति स्व-भक्त-पालनार्थम् । यद् वा, सात्वतानां यादवानां पतिः स्वामीति, तैः सहावश्यं वासोपेक्ष्य इति भावः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुकुन्दो मुक्तिदातेति कंसस्य मुक्तिं दातुं पुर्याम् एव स्थातुं योग्यो, न तु व्रजे गन्तुम् इति भावः । अस्योत्तरम् अष्टम-नवमाध्यायौ ज्ञेयौ ।
यद् वा, भक्तेभ्यः स्वैक-दानाय सर्वतो मुक्तिं ददातीति मुकुन्दः । स कस्मात् पितुर् गेहाद् इति पितुर् गेहं परित्यज्य व्रजं गतः ? इत्य् अर्थः । तस्मात् तत्र किम् अपि वैशिष्ट्यम् आसीत् ? इति भावः । अस्योत्तरत्वेन तत्र प्रेमाधिक्यं मुहुर् वर्णयिष्यत एव ।
यद् वा, पृषोदरादित्वाद् एव मुक्ति-सुखं अस्य चोत्तरत्वेन हेतुः पितरौ प्रति भगवता कंस-भयोद्भावनम् एवोन्नेयः । पितुर् इति स्व-सम्बन्ध-स्फुरितया जन्मानुकरण-दृष्ट्या भाव-तत्त्व-दृष्ट्या तु नन्दः स्व-पुत्रम् आदाय प्रोष्यागत उदार-धीः [भा।पु। १०.६.४३] इति मुनीन्द्रेण वक्ष्यते ।
क्व किं-विशिष्टे स्थाने ? ज्ञतयो\ऽत्र तन्-मते यादवा एव ततो मथुरां परित्यज्य यादवैः समं यत्र वासं कृतवान्, तस्य द्वारकाख्यस्य वैशिष्ट्यम् उच्यताम् इत्य् अर्थः । ज्ञतीन् वो द्रष्टुम् एष्यामः [भा।पु। १०.४५.२३] इति श्री-भगवन्-मते तु गोपा एव ज्ञतयो मुख्या ज्ञेयाः । ततो बृहद्-वन-परित्याग-पूर्वकं भगवत्-कृतावासस्य वृन्दावनस्यैव वैशिष्ट्यं श्री-शुकेन स्वयम् एव वर्णयिष्यमाणत्वेनावगतम् ।
सात्वतां भक्तानां पतिः पालक इति स्व-भक्त-पालनार्थं तैः सह वासस्, तद्-उचित-लीला-योग्य एवासीद् इति भावः । अत्रोत्तरं तत्र तत्र श्रीमद्-उपनन्द-वाक्यं श्री-भगवद् वाक्यं च दृश्यम् । एवम् उत्तरत्रापि ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कस्माद् इति । अत्र राज्ञा जन्मानुकरण-दृष्ट्या पितुर् इत्य् उक्तं, न तु भाव-तत्त्व-दृष्ट्या, तया तु नन्दः स्व-पुत्रम् आदाय प्रोष्यागतः [भा।पु। १०.६.४३] इत्य्-आदिकं मुनिना वक्ष्यते । तत्र भावस्यैव मुख्यत्वेन व्रजेश एव मुख्य-पितेति कृष्ण-सन्दर्भे विवृतं, क्व कथम्भूते वृन्दावने द्वारका-नगरे च ज्ञातिभिः श्री-गोपैर् यादवैश् च पूर्ववद् अत्रापिज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इति श्री-कंस-मथनोक्तेः ॥९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वीर्याणि वदस्वेत्य् उक्त्वा किम् अयम् आमूलतः कथयति न वेति शङ्कमानः स्वयम् आमूलतः पृच्छति—कस्माद् इत्य्-आदि । मुकुन्दो भगवान् कस्माद् धेतोः पितुर् वसुदेवस्य गेहाद् व्रजं गतः ? व्रज-रातश् चेत् तदा पुनः क्व वा ज्ञातिभिर् यदुभिः साकं वासं कृतवान् इति व्रज-मथुरा-द्वारका-विलासा एव कथनीयत्वेन पृष्टाः । सात्वतां पतिर् इति श्री-कृष्णः । स उपास्यत्वेन वर्तते येषां ते सत्वन्तो वैष्णवाः । तेषां मतं सात्वतं, तस्येदम् [पा। ४.३.१२०] इत्य् अण् । तदाचष्टे इति णिज्-अन्तात् क्विपि कृते सात्वद् इति स्थितेस् तेषां सात्वतां, सात्वत-मत-व्याख्यातॄणां पतिः पालकः ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पितुर् वसुदेवस्य गेहाद्-व्रजं महावनं गतः, व्रजं गतो\ऽपि पितुर् नन्दस्य गेहात् ज्ञतिभिर् गोपैः साकं क्व वासं कृतवान् ॥९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पितुर् वसुदेवस्य गेहाद् व्रजं बृहद्-वनं कस्माद् धेतोर् गतः ? तद्-गतोऽपि नन्दः स्व-पुत्रम् आदाय [भा।पु। १०.६.४३] इत्य्-उक्तेः पितुर् नन्दस्य गेहद् बृहद्-वनात् क्व किं-विशिष्टे स्थाने ज्ञातिभिर् गोपैः सार्धं वासं कृतवान् ? ज्ञातीन् वो द्रष्टुम् एष्यामः [भा।पु। १०.४५.२३] इति गोपान् ज्ञातीन् वक्ष्यति ॥९॥
॥ १०.१.१०-१२ ॥
व्रजे वसन् किम् अकरोन् मधुपुर्यां च केशवः ।
भ्रातरं चावधीत् कंसं मातुर् अद्धातद्-अर्हणम् ॥
देहं मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः ।
यदु-पुर्यां सहावात्सीत् पत्न्यः कत्य् अभवन् प्रभोः ॥
एतद् अन्यच् च सर्वं मे मुने कृष्ण-विचेष्टितम् ।
वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मातुर् भ्रातरं कंसं तस्माद् वधान् अर्हम् अद्धा साक्षात् कस्माद् अवधीत् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : केशव इति ब्रह्मेश-सेव्यताम् आह—को ब्रह्मा को विष्णुर् ईशः शंभुः कश्चाश् चेशश् च केशा ब्रह्म-विष्णु-शिवास्, तेषां वो बिंबः केशवः, वो बिम्बे इति सौभरि-कोशत् । अर्थाद् ब्रह्म-विष्णु-शिवानां प्रतिबिम्बानां बिंबः कारणं साक्षाद्-ब्रह्म-सर्व-व्यापिनस् तस्य व्रजे मधु-पुर्यां च कैमर्थिकी स्थितिः ? अपरिच्छिन्नस्य प्रदेश-विशेष-स्थितिः संशय-हेतुः स एव प्रश्न-बीजम् । यदूनां पुर्यां मथुरायाम् द्वारकायां च ॥१०॥
मानुषं देहम् आश्रित्य मनुष्य-मानेन कति वर्षाणीत्य् अर्थः । परमात्मा नराकृतिः, परं ब्रह्म नराकृतिः, गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.९.४८] इत्य्-आदिषु मनुष्यस्यैव स्वरूप-लक्षणात् । कति कियत् संख्याकानि । त्रिलिङ्गत्वात् पत्नी-पदेनापि संबन्धो नानुचित इति ॥११॥
एतद् यत् पृष्टम्, अन्यद् यद् अपृष्टम् । सर्वज्ञेति संबुद्धिः पृष्टापृष्ट-कथने हेतुः । अश्रद्धया तु नो वाच्यं वाच्यं चेन् मितम् एव हि इत्य् उक्तेर् मह्यं श्रद्धालवे विस्तारेणेव वाच्याम् इत्य् आह—विस्तृतम् इति ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : देहं मानुषम् इत्य्-आदि । मानुषं देहम् आश्रित्य स्थितैर् वृष्णिभिः सार्धं कति वर्षाण्य् अवात्सीद् इति स्थितैर् इत्य् आध्याहारेण वृष्णिनां देवत्वं ध्वनितम् ॥११॥ सर्वं चेति । योगात् सम्बोधनम् । सर्वात्मकत्वात् सर्वः श्री-कृष्णस् तं जानातीति ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु कञ्चित् कालं मधु-पुर्यां ततश् च द्वारकायां इति सुप्रसिद्धम् एवेति चेत् तर्हि तत्र तत्र कृतं सर्वं कथयेत्य् आह—व्रज इति द्वाभ्यां ।
मधु-पुर्याम् च वसन् इति तत्र वास-समये\ऽन्यत्र कृतम् अपि तत्र तत्रैव पर्यवसायितम् । को ब्रह्मा, ईशो रुद्रः, तौ वयते स्व-महिम्ना व्याप्नोतीति । किं वा, अस्त्य्-अर्थे वः, तौ सेवकोत्तमतया विद्येते । यस्येति परमेश्वरतोक्ता । अतस् तत्र तस्य वासेन मधु-पुराद्भुत-कर्माणि सम्भवन्त्य् एवेति भावः । अद्धा स्वयम् एवेत्य् अर्थः ।
देहं इति । मानुषं मनुष्याकारं परम-सुन्दरं देहम् आश्रित्य प्रकटी-कृत्य सच्चिदानन्द-घनत्वेन तस्य नित्यत्वात् । यदु-पुर्यां श्री-द्वारिकायां । विभोर् व्यापकस्येति पाठान्तरे च । प्रभोः समर्थस्येति पत्नीनां बाहुल्यम् अभिप्रेतम् ।
अहो तत्-तद्-विशेषा मायानभिज्ञेनान्ये कति प्रष्टव्याः ? त्वया स्वयम् एव सर्वे कथ्यन्ताम् इत्य् आह—एतद् इति । पृष्टम् अन्यच् चापृष्टम् अपि श्री-द्वारका-वासादि-सम्बन्दि-श्री-कृष्णस्य नराकृति-परमेश्वरस्य, अत एव विचित्रं चेष्टितं सर्वं विस्तृतं यथा स्यात् तथा । मे मह्यं वक्तुम् अर्हसि ।
कुतः ? श्रद्दधानाय । हे सर्वज्ञेति । श्रद्धावतेऽवश्यं वाच्यम् एवेति त्वया ज्ञायत एवेतु भावः । धर्मज्ञेति पाठान्तरेऽपि तथैवार्थः ।
ननु तत् सर्वम् अहं वक्तुं न योग्योऽस्मि ? तत्राह—मुने ! सदा तन्-मनन-कर्तर् इति ॥१०-१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, तत्र तत्र कृतं सर्वं कथयेत्य् आह—व्रज इति द्वाभ्यां । बृहद्-वने व्रजे मथुराख्यायां च मधूनां पुर्याम् इति तत्-तद्-वास-समये\ऽन्यत्र कृतम् अपि तत्र तत्रैव पर्यवसायितम् । को ब्रह्मा, ईशो रुद्रः, तौ वयते स्व-महिम्ना व्याप्नोतीति । किं वा, अस्त्य्-अर्थे वः, तौ सेवकोत्तमतया विद्येते । अस्येति परमेश्वरतोक्ता, अतस् तत्र तत्राद्भूतान्य् एव कर्माणि सम्भवन्तीति भावः । किं किम् इत्य् अवधीद् इति विशेषण-भेदेनार्थ-भेदात् पूर्वेणैवान्वयः । कस्माद् इति टीका च तद् व्याख्यैव । कर्माणि सम्भवन्तीति भावः । कस्माद् इति पाठे टीका स्पष्टैव । अद्धा स्वयम् एवेत्य् अर्थः ।
देहं इति । मानुषं मनुष्याकारं विराड्-अंशत्वाद् [वद्]{।मर्क्} देहम् इव देहं मर्त्य-लोकम् इत्य् अर्थः । तदीय-साक्षाद् देहस्य विराड् अविदुषां तत्त्वं परं योगिनाम् [भा।पु। १०.४३.१७] इति विराड्-अंशात् प्राकृत-मानुषत्वं निषिध्य परम-तत्त्वतया स्थापनात् । अथ व्यख्यान्तरं, मानुष-शब्दो\ऽत्र इत्य् अत्र च स्वाश्रय-शब्दश् च तथा योग-मायाम् उपाश्रितः [भा।पु। १०.२९.१] इत्य् अत्र च तद्वद् इति मानुषं मनुष्याकारं परम-सुन्दरं देहम् आश्रित्य प्रकटी-कृत्य सच्चिदानन्द-घनत्वेन तस्य नित्यत्वात् ।
वृष्णिभिः सहेहेति वृष्णीनाम् अपि तादृशत्वं व्यञ्जितम् । यदु-पुर्यां श्री-द्वारिकायां करीति प्राकट्य-सम्बन्धीनि कियन्ति वर्षाणि मर्यादा-कृत्येत्य् अर्थः । मधुपुर्याम् इति पाठे पूर्ववत् । याः पत्न्यः अभवन् ताः कति ? कियतीनां तादृशं भाग्यं जातम् इत्य् अर्थः ।
अहो तत्-तद्-विशेषा मायानभिज्ञेन कति प्रष्टव्याः ? त्वया स्वयम् एव सर्वे कथ्यन्ताम् इत्य् आह—एतद् इति । पृष्टम् अन्यच् चापृष्टम् अपि कृष्णस्य नराकृति-स्वयम् भगवत अत एव विचित्रं चेष्टितं तत्-तद्-वचन-षमर्थ्ये हेतुः—हे मुने ! तत्-तल्-लीला-मनन-शील ! नन्व् अनन्तत्वात् कथम् एकस्य सर्व-भननं स्यात् ? तत्राह—सर्वज्ञेति । तद्-अतिरिक्तम् अपि जानासीत्य् अर्थः ॥१०-१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : देहम् इति । मानुषं मानुषीयं देहं लोकम् ॥११॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : आमूलतः पृष्ट्वा कियद् अवधि पृथिव्य्-अवस्थानं च पृच्छति—देहं मानुषम् आस्थायेत्य्-आदि । मानुषं देहम् आस्थाय स्थितैर् वृष्णिभिः सह यदु-पुर्यां मथुरायां वा अवात्सीत् ? कति वा पत्न्यश् चाभवन् ? तन् मे कथयेत्य् अर्थः । स्थितैर् इत्य् अध्याहार्यम् । तेन च वृष्णीनां देवत्वं न मानुषत्वम् इति व्यङ्ग्यम् । यदुषूपजन्यताम् [भा।पु। १०.१.२२] इति वक्ष्यमाणत्वात् । मानुषं देहं राज-कन्या-भावेन मानुषीं तनुम् आश्रित्य पत्न्यो वा कत्य् अभवन्न् इति वान्वयः । तेन च तासां सर्वासां लक्ष्मीत्वम् आयातम् ॥११॥
स उपसंहरति—एतद् अन्यच् चेत्य्-आदि । एतद् इति यद् यत् पृष्टम् अन्यद् इति यद् अपृष्टं वा । ननु कथम् अहं सर्वम् एव ज्ञास्यामि ? तत्राह—सर्वज्ञः । अत एवार्हसि । चरणारविन्दे स्वस्य योग्यतां दर्शयति—श्रद्दधानायेति । अत एव विस्तृतं यथा स्यात् ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मधुनां पुर्यां मथुरायां द्वारकायां च, मातुर् भ्रातरं कंसं कस्माद् अवधीत् ? अतद्-अर्हणं मातुलत्वाद् वधानर्हम् । वृष्णिभिः सह कति वर्षाणि अवात्सीत् ? वर्षाणि कथम्-भूतानि ? मानुषं देहम् आश्रित्य वर्तमानानीत्य् अर्थः । ततश् च मनुष-मानेन कति वर्षाणीत्य् अर्थः फलितः, परमात्मा नराकृति [भा।पु। ९.२३.२०] इति, नराकृति परं ब्रह्म [वि।पु। ४.११.४] इति, गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.९.४८] इत्य्-आदिभिर् मनुष्यत्वस्यैव स्वरूप-लक्षणत्वाद् व्याख्यान्तरं न घटते ॥१०-१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यदूनां पुर्यां श्री-मथुरायां द्वार्वत्यां च । मातुर् भ्रातरं कंसं कस्माद् अवधीत् । मातुलत्वाद् अद्धा तद्-अर्हणं वधायोग्यम् ॥१०॥
देहं श्री-विग्रहं मनुष्य-सन्निवेशित्वान् मनुष्य-चेष्टा-प्राचुर्याच् च मानुषम् आश्रितं चक्षुर् आश्रित्य रूपे स्थित इत्य्-आदिवत् प्रकाशेत्य् अर्थः । मधु-पुर्यां कति वर्षाण्य् अवासीत् मनुष्य-सन्निवेशित्वं तस्य स्वरूप-लक्षणं, गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.९.४८] इति नारदः । पराशरश् च, यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति [वि।पु। ४.११.४] इत्य् अभाणीत् । यो यच्-चेष्टा-प्रचुरः स तत् तथा व्यपदिश्यते । यथा मनुष्योऽपि राजा देववत् सिंहवच् च विचेष्टनान् नृदेवो नृसिंहश् चेति । मानुषं भौतिकं देहम् आश्रित्य गृहीत्वेत्य् अर्थस् तु दुर्धी-विजृम्भित एव । तत्त्वं परं योगिनां [भा।पु। १०.४३.१७] इति तद्-देहस्य पर-तत्त्वत्वेनोक्तेः ॥११॥
अनभिज्ञेन मया ते विशेषाः कति प्रष्टव्याः ? स्वयम् एव सर्वज्ञेन भवता सर्वे ते कथ्यन्ताम् इति भावेनाह सर्वम् इति ॥१२॥
॥ १०.१.१३ ॥
नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते ।
पिबन्तं त्वन्-मुखाम्भोज-च्युतं हरि-कथामृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु क्षुत्-तृड्भ्यां पीडितस्य तव कुतः श्रवणावकाशः ? तत्राह—नैषेति । त्यक्तोदकस्यापि मम जीवनं हरि-कथामृत-पान-निमित्तं, तद्-उपरमे सद्य एव जीवितं न स्याद् इत्य् अर्थः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नैषेति । या क्षुद् ब्रह्मण्यम् अपि मां मुनि-कण्ठे\ऽहिं न्यधापयद् इति द्योतयति—त्यक्तोदम् आचमनं विनेति बोध्यम् । अन्यथा सन्ध्योपासनादि-विहिताचमनाकरणाद् अशुचेः श्रवणाधिकार एव न स्याद् इति । पिबन्तम् इति वर्तमान-निर्देशेन क्षणम् अपि पान-विगमे सैव विवेक-हारिणी क्षुत् प्रादुर्भविष्यतीति ज्ञपयति । इहाम्भोज-पदेन कथामृतस्य मधुरत्वम् आरोपितं, तेन च तस्य मादकत्वं व्यज्य स्वस्य मत्तत्वाद् एव विप्र-शापादि-सर्व-दुःख-विस्मारकत्वं ध्वनितम्
यद् वा, अमृत-पदेन मुखाम्भोजस्य चन्द्रत्वम् आरोपितं, तेन मुखस्याम्भोजत्वात् सौरभ्यं, चन्द्रत्वाद् आह्लादकत्वम्, सर्व-श्रोतृ-तमो-हारित्वं, स्वस्य चकोरत्वं च व्यञ्जितम् । सर्वथैव श्री-कृष्ण-कथा-सक्तिर् द्योतितेत्य् अन्ये ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यथाधुनैव मत्-प्राणा निर्यास्यन्तीत्य् आह—नेति । एषानशन-व्रतोत्था । सर्वानर्थ-मूलतया प्रसिद्धा वा । यद् वा, दुःख-प्रदत्वेन सर्वैर् अनुभूयमाना । यया हि मया मुनि-गले मृत-सर्प-प्रक्षेपणापराधः कृतोऽतोऽतिदुःसहात्यन्त-दुःखेनैव सह्या । किं वा सोढुम् अत्यन्तम् अशक्यापि । तत्र हेतु-विशेषः—त्यक्तोदम् इति ।
यद् वा, अन्यैर् अतिदुःसहापि मां सदा विविध-भोगेन मृदुतराङ्गम् अपि, तत्र च त्यक्तोदकम् अपि न बाधते न व्यथयति । किं वा, कथा-श्रवणादौ कञ्चिद् विघ्नम् अपि कर्तुं न शक्नोतीत्य् अर्थः । नञः सर्वादौ निर्देशो निषेधस्यात्यन्तापेक्षया । तत्र हेतुः—हरेः सर्व-दुःख-हरस्य भगवतः कथैवामृतं संसार-विस्मरणादिना परम-मादकत्वान् मधुरतरत्वाच् च । तत् पिबन्तं परमासक्त्या सेवमानम् इत्य् अर्थः । वर्तमान-प्रयोगेण पानेऽविच्छेद उकः । अतस् तद्-विच्छेदो\ऽनुचित इति भावः ।
यद् वा, पाने प्रवर्तमान-मात्रं इत्य् अर्थः । इति देव-भोग्याद् अमृताद् विशेष उक्तस् तस्मिन् पीते सत्य् एव क्षुद्-बाधाद्य्-उपरमात् ।
किं च, तव मुखम् एवाम्भोजं सुन्दराकारत्वादिना, तस्माच् च्युतं सारांशतया क्षरितम् इति प्रसिद्धामृतस्येव शैत्य-सौर्भ्यादिना सर्व-ताप-हारित्व-मनोहरत्वादि-गुण-विशेषो दर्शितः । श्री-भागवतोत्तम-मुखेन श्री-भागवत-कथाया माधुरी विशेषोदयात् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो भगवन् ! मया पूर्वं महानुभाव-विप्रापराध-जन्मानुताप-दुःखम् अर्चितः प्राणानां त्याजकतया लब्धं येनैवोदकम् अपि त्यक्तम् किन्त्व् अनेन कथामृतेनैव ते रक्षिताः । अतस् तद् विनाधुनैव मत्-प्राणा निर्यास्यन्तीत्य् आह—नेति । अतिदुःसहा अतिकृच्छ्रेणैव, न तु स्वेच्छया सह्येति मुनि-गाले मृत-सर्प-निक्षेप-हेतु-मदीय-तृष्णावत् सर्वानर्थ-मूलम् अपि सेत्स्यत्य् अर्थः । तत्राप्य् एषा अनशनोत्था । तत्रापि हेतु-विशेषस् त्यक्तोदम् अपि उदकम् अपि त्यक्तवन्तम् इत्य् अर्थः । तादृश-तृष्णयापि सहितेति विवक्षितम् । सापि मां न बाधते । तथा पीडां नानुभवामीत्य् अर्थः ।
यद् वा, अन्यैर् अतिदुःसहापि माम् अपि सदा विविध-भोगेन मृदुतराङ्गम्, अपि तत्र त्यक्तोदकम् अपि न बाधते । किं वा, कथा-श्रवणादौ कञ्चिद् विघ्नम् अपि कर्तुं न शक्नोतीत्य् अर्थः । नञः सर्वादौ निर्देशः निषेधस्यात्यन्तापेक्षया ।
तत्र हेतुः—हरेः सर्व-दुःख-हरस्य भगवतः कथैवामृतं संसार-विस्मरणादिना परम-मादकत्वान् मधुरतरत्वाच् च तत् पिबन्तं परमासक्त्या सेवमानम् इत्य् अर्थः । अतः क्षुधा-मात्र-निरसनं तस्या किम् आश्चर्यम् ? इति भावः ।
एवं प्रसिद्धामृताद् वैशिष्ट्यम् उक्तम्, वर्तमान-प्रयोगेण पानाविच्छेद उक्तः । अतस् तद् विच्छेदो\ऽनुचित इति भावः । यद् वा, पाने प्रवर्तमान-मात्रं तद् आरम्भेवारभ्येत्य् अर्थः । किं पुनर् अधुना श्री-कृष्ण-कथां पिबन्तम् इति भावः ।
किं च, तव मुखम् एवाम्भोजं सुन्दराकारत्वादिना तस्मात् परमामोद-युक्तात् पात्रात् क्षरितम् इति गुण-प्रकर्षो दर्शितः । श्री-भागवतोत्तम-मुखेन भागवत-कथाया माधुरी-विशेषोदयात् ।
यद् वा, अमृत-क्षरणेनास्याम्भोजस्यालौकिकत्वं दर्शितम् । तादृग् अम्भोजं यद्वद् अमृतम् एव स्रवति, तद्वत् त्वन्-मुखम् अपि श्री-हरि-कथामृतम् एव स्रवतीति । एवं श्री-परीक्षितो गाढ-राग-व्यक्तिर् जाता ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नैषेति । श्री-परीक्षितो गाढ-राग-व्यक्तिः त्यक्तोदम् अपीति उदकम् अपि त्यक्तवन्तम् इत्य् अर्थः सम्यक् ॥१३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षुधा-तृष्णा-व्याकुलस् त्वं क्षणं विश्राम्येति भावादीर् इत्य् आह—नैषेति । या क्षुत् ब्रह्माण्यम् अपि मां मुनि-गले सर्पं न्याधापयद् इति भावः । त्यक्तोदं सम्प्रति तु त्यक्त-जलम् अपि । तस्यापि बाधाभावे हेतुः—पिबन्तम् इति । वर्तमान-निर्देशेन क्षणम् अपि पान-विगमे सैव विवेक-हारिणो क्षुधा प्रादुर्भविष्यतीति ज्ञापयति । अत्राम्भोज-पदेन कथामृतस्य मधुत्वम् आरोपितम् । तेन च तस्य मादकत्वम् अभिव्यज्य स्वस्य मत्तत्वाद् एव विप्र-शापादि-सर्व-दुःक-विस्मारकत्वं ध्वनितम् ।
यद् वा, अमृत-पदेन मुखम्भोजस्य चन्द्रत्वम् आरोपितम् । तेन मुखस्याम्भोजत्वात् सौरभ्यं चन्द्रत्वाद् आह्लादकत्वं सर्व-श्रोतृ-जन-तमो-हारित्वं, स्वस्य च चकोरत्वं व्यञ्जितम् । सर्वथैव कथायां गाढासक्तिर् द्योतिता ॥१३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न च क्षुत् तृङ् व्याकुलस् त्वं क्षणं विरमेति वाच्यम् इत्य् आह—नैषेति ॥१३॥
॥ १०.१.१४ ॥
सूत उवाच—
एवं निशम्य भृगु-नन्दन साधु-वादं
वैयासकिः स भगवान् अथ विष्णु-रातम् ।
प्रत्यर्च्य कृष्ण-चरितं कलि-कल्मष-घ्नं
व्याहर्तुम् आरभत भागवत-प्रधानः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं साधु-वादं समीचीनं प्रश्नम् । भागवत-प्रधानो भागवतेषु श्रेष्ठः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्यर्च्य संश्लाघ्य । व्याहर्तुं वक्तुम् । भागवता भगवद्-भक्ता एव प्रधानानि यस्य स तथा, प्रधानं प्रकृतौ मुख्ये इति कोशात् । नित्यं विष्णु-जन-प्रियः [भा।पु। १.७.११] इत्य्-उक्तेः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भागवत-प्रधानः श्रेष्ठः । प्रधान-शब्दो विशेष्य-निघ्नोऽपि वर्तते । प्रधान-हरिता मुद्गाः इति प्रयोगात् । यद् वा, भागवतं शास्त्रं भागवतो धर्मो वा प्रधानं यस्य स तथा ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तादृश-तद्-उक्त्या परम-प्रीतः सन् श्री-बादरायणिः प्रवक्तुं प्रवृत्त इत्य् आह—एवम् इतीदृशं । भृगुनन्दनेति शौनकस्य सम्बोधनं प्रहर्षोदयात् । अथ तत्-प्रश्नानन्तरम् एव स परमानिर्वचनीय-माहात्म्यः बतो वैयासकिः वेद-व्यासनात् व्यासः, तस्य सर्व-वेद-तत्त्वज्ञस्य परम-सङ्कल्प-लब्धः पुत्रः । भगवान्, तल्-लक्षणं श्री-विष्णु-पुराणे—
प्रवृत्तिं च निवृत्तिं च भूतानाम् अगतिं गतिम् ।
वेत्ति विद्याम् अविद्यां च स वाच्यो भागवान् इति ॥ [वि।पु। ६.५.७८]
किं वा, श्री-भगवद्-भागवतयोर् अभेदाभिप्रायेण । अत एव विष्णुना गर्भे प्रविष्टेन भगवता रातं ब्रह्मास्त्रतो रक्षित्वा श्री-युधिष्ठिरादिभ्यो दत्तम् । किं वा, आदत्तं स्वीकृतम् इति तस्यापि परम-भागवतत्वम् उक्तम् । अत एव प्रत्यर्च्य साधु साध्व् इत्य् एवम् ।
किं वा, वक्ष्यमाण-प्रकारेण विविध-श्लाघया सम्मान्य । यद् वा, श्री-गुरुर् अयं यथा विविधोपचारैः पूजितस् तैर् एव तं प्रतिपूज्य कृष्णस्य सर्व-चित्ताकर्षकस्य भागवतश् चरितम् । अतः कलौ यत् कल्मषं सुदुस्तरं पापं, तद् अपि । यद् वा, सर्व-पाप-हेतोः कलेर् अपि, किं पुनस् तत्-कालीन-जनस्य कल्मषं दोषम्
यद् वा, सर्व-पाप-हेतोः कलेर् अपि किं पुनस् तत्-कालीन-जनस्य कल्मषं दोषम् । यद् वा, “किं तत्त्वं ? किं फलं ? किं वा साधनम् ?” इत्य्-आदि-विषयकः कलिः कलह एव कल्मषं श्री-भगवन्-माहात्म्यानिर्धारात् तद् धन्तीति तथा तत् । श्री-भगवच्-चरित-श्रवणादिनैव तन्-माहात्म्य-विज्ञानाद् अशेष-कलह-दोष-निवृत्तेः ।
यद् वा, कलिं च, अत एव कल्मषं च, सर्व-दुःख-मूलं च पापं संसार-दुःखम् एव वा हन्तीति सर्व-दुःक-हन्तृत्वम् उक्तम् ।
यद् वा, कथम्-भूतं विष्णु-रातम् ? कलि-कल्मष-घ्नं कलि-रूप-कल्मष-जयिनम् । सुख-प्रदत्वं सुखमयत्वं च कृष्णेत्य् अनेनैव ध्वनितम् ।
ननु, राज-सभायां विविध-वासन-मुनि-गणाग्रे परम-गोप्यं तत् कुतः प्रकाशितं? तत्राह—भागवतेति । तैर् व्याख्यातम् एव ।
यद् वा, श्री-भागवता एव श्री-भागवत-शास्त्रम् एव वा प्रधानं श्रेष्ठं परमादरणीयं यस्य सः । अनन्यापेक्षत्वाद् इति भावः । श्री-शुक इति प्रेम-भरोदयेन शुकवन् मधुर-मधुर-भाषणात् । तथा च ब्रह्म-वैवर्ते व्यासं प्रति श्री-कृष्ण-वाक्यं—
व्यास त्वदीय-तनयः शुकवन् मनोज्ञं ब्रूते ।
वचो भवतु तच् छुक एव नाम्ना ॥ इति ।
एवम् अग्रेऽप्य् ऊह्यम् ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तादृश-तद्-उक्त्या परम-प्रीतः सन् श्री-बादरायणिः प्रवक्तुं प्रवृत्त इत्य् आह—एवम् इतीदृशं । भृगुनन्दन इति शौनकस्य सम्बोधनं प्रहर्षोदयात् । अथ तत्-प्रश्नानन्तरम् एव स परमानिर्वचनीय-माहात्म्यः [बतो]{।मर्क्}वैयासकिः वेद-व्यासनात् व्यासः, तस्य सर्व-वेद-तत्त्वज्ञस्य परम-सङ्कल्प-लब्धः पुत्रः । भगवान्,
उत्पत्तिं प्रलयं चैव9 भूतानाम् अगतिं गतिम् ।
वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥ [वि।पु। ६.५.७८] इति श्री-विष्णु-पुराणात् ।
किं वा, भगवद्-भागवतयोः समानादरणीयत्वेन साधवो हृदयं मह्यं साधुनां हृदयं त्व् अहम् [भा।पु। ९.४.६५] इति रीत्या चाभेदाभिप्रायात् । विष्णुना गर्भे प्रविष्टेन भगवता रातं ब्रह्मास्त्रतो रक्षित्वा श्री-युधिष्ठिरादिभ्यो दत्तम् । किं वा, रातं स्वीकृतम् इति तस्यापि परम-भागवतत्वम् उक्तम् । प्रत्यर्च्य वक्ष्यमाण-प्रकारेण विविध-श्लाघया सम्मान्य कृष्णस्य सर्व-चित्ताकर्षकस्य भागवतश् चरितम् ।
किं च, कलौ यत् कल्मषं सुदुस्तरं पापं, तद् अपि । यद् वा, सर्व-पाप-हेतोः कलेर् अपि, किं पुनस् तत्-कालीन-जनस्य कल्मषं दोषम् । यद् वा, “किं तत्त्वं ? किं फलं ? किं वा साधनम् ?” इत्य्-आदि-विषयकः कलिः कलह एव कल्मषं श्री-भगवन्-माहात्म्यानिर्धारात् तद् धन्तीति । तथा तच्-छ्री-भगवच्-चरित-श्रवणादिनैव तन्-माहात्म्य-विज्ञानाद् अशेष-कलह-दोष-निवृत्तेः । यद् वा, कलिं च, अत एव कल्मषं च, सर्व-दुःख-मूलं च पापं संसार-दुःखम् एव हन्तीति सर्व-दुःक-हन्तृत्वम् उक्तम् । यद् वा, कथम्-भूतं विष्णुरातम् ? कलि-कल्मष-घ्नं कलि-रूप-कल्मष-जयिनम् ।
ननु, राज-सभायां विविध-वासन-मुनि-गणाग्रे परम-गोप्यं तत् कुतः प्रकाशितं? तत्राह—भागवतेति । भागवता एव श्री-भागवत-शास्त्रम् एव वा प्रधानं श्रेष्ठं परमादरणीयं यस्य सः । तद् उक्तम्,
हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिः ।
अध्यगान् महद् आख्यानं नित्यं विष्णु-जन-प्रियः ॥ [भा।पु। १.७.११] इति ।
सर्वत्राप्य् अनन्यापेक्षत्वाद् इति भावः । अथवा, भागवत-श्रेष्ठत्वात् तेषाम् अपि मनः सजातीयं कृतवान् इति भावः । यथोक्तं श्री-प्रह्लादम् उद्दिश्य,
स उत्तम-श्लोक-पदारविन्दयोर्
निषेवयाकिञ्चन-सङ्ग-लब्धया ।
तन्वन् परां निर्वृतिम् आत्मनो मुहुर्
दुःसङ्ग-दीनस्य मनः शमं व्यधात् ॥ [भा।पु। ७.४.४२] इति ।
अत्र प्रधान-शब्दस्य पुंस्तम् आर्षम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तच् छ्रुत्वा श्री-शुको यद् आह, तं सूतो वदति—एतन् निशम्येति । भागवतानां वैष्णवानां प्रधानः श्रेष्ठः । प्रधानः प्रधान-शब्दो वाच्य-लिङ्गेऽपि दृश्यते, प्रधाना हरिता मुहुर् इति दर्शनात् । यद् वा, भागवतं शास्त्रं भागवतो धर्मो वा प्रधानं यस्य । साधु-वादं यथा स्यात् । साध्व् इति वादम् इति णमुल्-अन्तं वा पदं । एतद् इत्य् अस्य विशेषणं वा ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे भृगु-नन्दन शौनक ! कलौ जनिष्यमाणानाम् अपि कल्मषं संसार-दुःखं हन्तीति तत् । यद् वा, कलि-रूपं कल्मषं हन्तीति विष्णु-रात-विशेषणम् अपि भागवतेषु प्राधान इति पुंस्त्वम् आर्षः । यद् वा, भागवता एव मान्यत्वेन प्रधानानि यस्य सः ॥१४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हे भृगु-नन्दन शौनक ! भागवता भक्ता एव मान्यत्वेन प्रधानानि यस्य स वैयासकिः ॥१४॥
॥ १०.१.१५ ॥
श्री-शुक उवाच—
सम्यग् व्यवसिता बुद्धिस् तव राजर्षि-सत्तम ।
वासुदेव-कथायां ते यज् जाता नैष्ठिकी रतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यवसिता कृत-निश्चया । यद् यतो बुद्धेः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निश्चलतया स्थिति-निष्ठा तद्वती नैष्ठिकी उत्कर्षवती वा सर्वोत्कृष्ट-श्री-कृष्ण-चरितानुयोगात् । निष्ठोत्कर्षे व्यवस्थायाम् इति यादवः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वक्तृ-श्रोत्रोर् अन्यो\ऽन्यं प्रीणनेनैव कथायां रसो जायेतेति राज्ञः प्रश्नं प्राग् अभिनन्दति—सम्यग् इति द्वाभ्याम् । सम्यग् व्यवसिता सम्यङ्-निश्चया । वासुदेवस्य सर्वैश्वर्य-प्रकटनार्थं वसुदेवाज् जातस्य कथायां तच्-छ्रवणे इत्य् अर्थः। नैष्ठिकी परम-काष्ठां प्राप्ता रतिः प्रीत्य्-उत्कर्षः । तच् च युक्तम् एवेत्य् आशयेन सम्बोधयति—राजर्षयो भरताद्यास् तेषु सत्तम इति, मुनि-सत्तमेतिवत् । यद्यपि तत्त्वतो भगवत्-कथा-श्रवणेन मुहुः प्रेम्णा विवशी-भवन्तं राजानम् अवधापयितुं स्थाने स्थाने तत्-सम्बोधनं, तथापि श्री-वैष्णवानां प्रीत्यै कुत्रापि कश्चिद् विशेषो व्याख्यायते ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : व्याहर्तुम् आरभतेत्य् उक्त्वापि श्री-शुक उवाचेति पुनः पृथक्-कृत्य वचनंश्रोतॄणाम् उक्तार्थाविष्टानाम् अवधापनार्थम् । तेषां वक्ष्यमाण-श्रवणौत्सुक्ये तु क्वचिद् अपि नास्तीति । एवम् अन्यत्रापि ज्ञेयम् । तत्र श्री-शुक इति प्रेम-भरोदयेन शुकवन् मधुर-भाषणात् । तथा च ब्रह्म-वैवर्ते व्यासं प्रति श्री-कृष्न-वाक्यम्,
व्यासः ! त्वदीय-तनयः शुकवन् मनोज्ञं ।
ब्रूते वचो भवतु तच् छुक एव नाम्ना ॥ इति ।
एवम् अग्रेऽप्य् ऊह्यम् ।
वक्तृ-श्रोत्रोर् अन्यो\ऽन्यं प्रीणनेनैव कथायां रसो जायेतेति राज्ञः प्रश्नं प्राग् अभिनन्दति—सम्यग् इति द्वाभ्याम् । सम्यग् व्यवसिता सम्यङ् निश्चया । वासुदेवस्य सर्वैश्वर्य-प्राकट्यार्थं वसुदेवाज् जातस्य कथायां तच्-छ्रवणे इत्य् अर्थः । नैष्ठिकी परम-काष्ठां रतिः प्रीत्य्-उत्कर्षः । तच् च युक्तम् एवेत्य् आशयेन सम्बोधयति—राजर्षयो भरताद्यास् तेषु सत्तम् एति मुनि-सत्तमेतिवत् । यद्यपि सामान्यतो भगवत्-कथा-श्रवणेन मुहुः प्रेम्णा विवशी-भवन्तं राजानम् अवधापयितुं स्थाने स्थाने तत्-सम्बोधनं, तथापि तत्-तत्-प्रसङ्ग-वशात् कुत्रापि किञ्चिद् विशेषो व्याख्यायते ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्यग्-व्यवसिता सम्यङ्-निश्चया । यद् यतो बुद्धेः । राजर्षि-सत्तमेति भा महा-मानद ! मुनि-सत्तमेति त्वया सम्बोधितात्मनो\ऽपि त्वयि राजत्वम् अधिकम् अस्तीति ज्ञपयति । श्लेषेण तु राज-दन्तादित्वात् तम् ऋषीणां सत्तमानां च राजा श्री-कृष्ण-प्रियतमत्वाद् एव । यतो जन्म-मरण-कालयोर् ब्रह्म-तेजो\ऽपि व्यर्थीकरोषीत्य् अर्थम् अप्य् अन्तर् उपचिक्षेप ॥१५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : व्यवहर्तुम् आरभतेत्य् उक्तम् अपि पुनः श्री-शुक उवाचेत्य् उक्तिस् तस्य शुकवन् मधुर-भाषित्व-बोधनाय ।
व्यासः ! त्वदीय-तनयः शुकवन् मनोज्ञं ।
ब्रूते वचो भवतु तच् छुक एव नाम्ना ॥
इति ब्रह्म-वैवर्ते श्री-कृष्णोक्तेः । हे राजर्षि-सत्तम ! तव बुद्धिः सम्यग् व्यवसितं निश्चयो यस्यास् तादृशी । यद् यतो बुद्धेः ॥१५॥
॥ १०.१.१६ ॥
वासुदेव-कथा-प्रश्नः पुरुषांस् त्रीन् पुनाति हि ।
वक्तारं प्रच्छकं श्रोतॄंस् तत्-पाद-सलिलं यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-पाद-सलिलं श्री-गङ्गा शालग्राम-तीर्थं वा । गङ्गा तु त्रीन् स्वर्ग-मर्त्य-पाताल-लोकान् पुनातीति । यद् वा,
गङ्गेति श्रवणात् प्रश्नात् कथानां च शुचिर् भवेत् ।
किं पुनर् दर्शनात् स्नानान् महिमानं ब्रुवे ततः ॥ इत्य्-आदि-पुराणां च ।
एवं शालग्राम-शिला-तोयं सर्वेषां सर्व-पापहम् इत्य् अपि ज्ञेयम् ।
शालग्राम-मणौ यन्त्रे स्थण्डिले प्रतीमायां वा विष्णुम् अर्चयेत् ।
शालग्राम-शिला-तोयं यः पिबेत् तस्य पापं न विद्यते ।
कोटि-जनाघ-नाशनं विष्णु-पादोदकम् अवश्यं पेयम् ।
भूमौ बिन्दु-पातनाद् अष्ट-गुण-पाप-वृद्धिः ॥
इति तैत्तिरीय-गौतम-गृह्य-सूत्र-चतुर्दशाध्याये पूजा-प्रकरणोक्तेः । शालग्रामः साक्षाद् विष्णु-मुर्तिर् एवेति तज्-जलं गङ्गवत् पाद-जलम् एव,
शालग्राम-शिला-तोयं यो ददाति करोति यः ।
यो वा पिबति विप्रेन्द्र न स गर्भ-गृहे वसेत् ॥
इति त्रि-पावनत्वं श्रूयते विष्णु-धर्मे गङ्गावत् ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् त्वयात्माहं मुनयो\ऽपि विविध-दुर्वासना-मलतः शोधिता इत्य् आह—वासुदेवेति । पुनर्-उक्तिस् तस्यैवोत्कर्ष-ख्यापनेन तन्-निष्ठार्था । कथायाः प्रश्नो\ऽपि त्रीन् त्रिविधान् । हि निश्चितं । पुरुषान् इति तेषाम् एव प्राधान्यात् । तत्र वक्तारं पुनातीति प्रश्नेनैव वक्तुः कथायाः सम्यक् प्रवर्तनात् । श्रोतॄन् इति च तेनैव कथा-प्रव्र्ट्त्या श्रवण-सिद्धेः ।
यद् वा, प्रश्ने भगवन्-नामादि-सम्बन्धेनैव तन्-मात्रेणपि सर्वेषां पावनात् । तत्र वक्तुः प्रष्टुश् चैकत्वं तस्य तस्य च तद्-योग्यत्वात् । अधिकारानपेक्षया सर्वेषाम् एव श्री-भगवत्-सम्बन्ध-मात्रेण पावने दृष्टान्तः । तस्य पाद-सलिलं गङ्गा, श्री-शालग्रामादि-चरणामृतं वा ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतस् त्वयात्माहं मुनयो\ऽपि तद्-अकथन-तद्-अश्रवणादि-हेतु-मलतः शोधिता इत्य् आशयेन सामान्यत आह—वासुदेवेति । तन्-नाम्नः पुनर्-उक्तिस् तस्यैवोत्कर्ष-ख्यापनेन तन्-निष्ठार्थ-कथायाः प्रश्नो\ऽपि त्रीन् त्रिविधान् । हि निश्चितं । पुरुषान् इति तेषाम् एव प्राधान्यात् । वक्तारं प्रश्नस्यैव पवित्री-कुर्वाणत्वात् वक्तृत्वेन स्थापितं सन्तम् एव किम् उत वक्तुं प्रवृत्तं, किम् उततरां स्व-जन्म-भूमिं प्रच्छकम् । अस्तु तावत् तद्-द्वयम् अपि यत आनुषङ्गिकतया तत्-प्रश्न-श्रोतॄन् अपि तत्र वक्तुः प्रष्टुश् चैकत्वं, तस्यानेकत्वायोग्यत्वात् । अधिकारानपेक्षया सर्वेषाम् एव भगवत्-सम्बन्ध-मात्रेण पावने दृष्टान्तः ।
तस्य पाद-सलिलं गङ्गा-जलं श्री-शालग्रामादि-चरणामृत वा । तद् यथा प्रष्टृ-स्थानीयं तेन सेक्तारं प्रथमतः पुनाति, ततो वक्तृ-स्थानीयं सिच्यमानं च, ततः श्रोतृ-स्थानीयानानुषङ्गिकतया सिच्यमान-सङ्गिनो\ऽपि तथेत्य् अर्थः । तथा चैकादशे—
श्रुतो\ऽनुपठितो ध्यात आदृतो वानुमोदितः ।
सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहो\ऽपि हि ॥ [भा।पु। ११.२.१२] इति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-पाद-सलिलं श्री-शालग्रामादि-चरणामृतं, त्रीन् पुरुषान् सेक्तारं सिच्यमानं तद्-उभय-सङ्गिनश् च पुरुषान् । यद् वा, गङ्गा यथा त्रीन् ऊर्ध्व-मध्याधो-लोकन् पुनाति, तथैव वक्त्रादीन् त्रीन् पुरुषान् यथा-पूर्वं श्रैष्ठ्यम् ॥१६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्-कथा-प्रश्नं स्तौति—वासुदेवेति । तत्-पाद-सलिलं श्री-गङ्गा यथा त्रीन् लोकान् पुनाति, तथा तत्-कृतस् तत्-कथा-प्रश्ने वक्त्र्-आदीन् पुरुषान् इति त्वयाहं मुनयश् च तद्-अकथन-तद्-अचरणारविन्दादि-हेतु-मालिन्यात् पाविता इति भावः । यथा-पूर्वं श्रैष्ठ्यम् ॥१६॥
॥ १०.१.१७ ॥
भूमिर् दृप्त-नृप-व्याज-दैत्यानीक-शतायुतैः ।
आक्रान्ता भूरि-भारेण ब्रह्माणं शरणं ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तावत् प्रथमं भगवद्-अवतार-कारणम् आह—भूमिर् इत्य्-आदि-नवभिः श्लोकैः । दृप्त-नृप-व्याजा ये दैत्यास् तैषामनीकशतानाम् अयुतैर् यो भूरि-भारस् तेनाक्रान्ता ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तेषु तत्रांशेनावतीर्णस्येत्य्-आदि-प्रश्नेषु । तावत् सकल-प्रश्नेषु, यावत् तावच् च साकल्ये\ऽवधौ माने\ऽवधारणे इत्य् अमरः । अयुतैर् अनन्तैः, न तु तावन्-मात्र-संख्याकैः । संख्या स्वार्थम् अनन्तत्वं चाह सर्वा शतादिका इति धरणि-देवः । ब्रह्माणं मेरु-मूर्ध-स्थं, न तु सत्य-लोक-स्थं, जगाम धरणी मेरोः समाजे त्रिदिवौकसाम् [वि।पु। ५.१.१२] इति पराशरोक्तेः । दृप्ता गर्विता ये नृप-व्याजा नृपापदेशाः, व्याजो\ऽपदेशो लक्ष्यम् इत्य् अमरः । शरणं रक्षितारम्, शरणं गृह-रक्षित्रोः इत्य् अमरः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दृप्तेति दैत्य-लक्षणम्, शतायुतैर् इत्य् असङ्ख्यत्वे तात्पर्यम् । शरणं ययौ आश्रितवती ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तावद् भगवद्-अवतारे प्रसिद्धं कारणम् आह—भूमिर् इति । दृप्तेति दर्प-स्वभाव-निर्देशात् स्थानास्थान-विवेकाभावेन सद्-अवमानादि-ज्ञपकत्वं दैत्यत्व-लक्षणम्, शतायुतैर् इति अपरिच्छेद्यत्वम् । शरणं ययौ आश्रितवती ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र तावद् भगवद्-अवतारे प्रसिद्धं कारणम् आह—भूमिर् इति । दृप्त-नृप-व्याजाद् इति-वंशत्वाभावे\ऽपि कर्मणैव ये दैत्याः, तेषाम् अनीक-शतानाम् अयुतैर् यो भूरि-भारः, तेनाक्रान्ता । ब्रह्माणं सुमेरुम् ऊर्ध्व-स्थितम् एव, न तु सत्य-लोक-स्थम् । कृष्णावताराद् अतिपूर्वम् एव ककुद्मिना रेवत्याः कन्यायाः सम्प्रदान-प्रश्नार्थं तत्र गतवता तेन सहित एव क्षणानन्तरं ब्रह्मा तं प्रत्य् आह—सम्प्रत्य् अवतीर्णाय बलदेवाय कन्या दीयताम् इति । अतस् तस्य तन्-मध्ये क्षीरोद-तीरागमनं न वृत्तम् जगाम धरणी मेरोः समाजे त्रिदिवौकसाम् [वि।पु। ५.१.१२] इति पराशरेणाप्य् उक्तम् ॥१७-१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्र तावद् भगवद्-अवतारे प्रसिद्धं हेतुम् आह—भूमिर् इति । दृप्त-नृप-व्याजाद् इति वंशत्वाभावे\ऽपि कर्मणैव ये दैत्याः, तेषाम् अनीक-शतानाम् अयुतैर् यो भूरि-भारः, तेनाक्रान्ता । ब्रह्माणं सुमेरुम् ऊर्ध्व-स्थितम् एव, न तु सत्य-लोक-स्थम् । कृष्णावताराद् अतिपूर्वम् एव ककुद्मिना रेवत्याः कन्यायाः सम्प्रदान-प्रश्नार्थं तत्र गतवता तेन सहित एव क्षणानन्तरं ब्रह्मा तं प्रत्य् आह—सम्प्रत्य् अवतीर्णाय बलदेवाय कन्या दीयताम् इति । अतस् तस्य तन्-मध्ये क्षीरोद-तीरागमनं न वृत्तम् जगाम धरणी मेरोः समाजे त्रिदिवौकसाम् [वि।पु। ५.१.१२] इति पराशरेणाप्य् उक्तम् ॥१७.१८॥
॥ १०.१.१८ ॥
गौर् भूत्वाश्रु-मुखी खिन्ना क्रन्दन्ती करुणं विभोः ।
उपस्थितान्तिके तस्मै व्यसनं समवोचत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विभोर् अन्तिके उपस्थिता सती ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : खिन्ना दीना । तस्मै विभवे ब्रह्मणे व्यसनं निजापत्तिम् व्यसनं विपदि ध्वंसे पानस्त्री-मृगयादिषु इति मेदिन्य्-आदयः । तद् व्यसनम् ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथं ? तद् आह—गौर् इति । गोरूपेति कृपा-विशेष-जननार्थम् । तत्रापि खिन्ना दुःखिता, अत एव करुणं काकु-कम्पादि-संयुक्तं यथा स्यात् तथा रुदन्ती रुदती, क्रन्दतीति क्वचित् पाठः । अत एवाश्रु-मुखी, अश्रु-व्याप्तानना । तथा च, श्री-विष्णु-पुराण-हरि-वंशयोः खेदात् करुण-भाषिणी [वि।पु। ५.१.१३] इति ।
यद् वा, गौः पृथिवी अश्रु-मुखी भूत्वा । विशेषेण योन्य्-आदि-व्यवधान-राहित्येन नाभि-कमलाद् आविर्भवतीति विभुस् तस्येति साक्षात् श्री-भगवत्-पुत्रतोक्ता । अतस् तस्मै तं प्रति व्यसनं निज-दुःखं सम्यग् उक्तवती । स्वम् इति पाठे स्वीयम् । तद्-विशेषं श्री-विष्णु-पुराणे—
तत् साम्प्रतम् इमे दैत्याः कालनेमि-पुरोगमाः ।
मर्त्य-लोकं समागम्य बाधन्ते\ऽहर्-निशं प्रजाः ॥
कालनेमिर् हतो योऽसौ विष्णुना प्रभविष्णुना ।
उग्रसेन-सुतः कंसः सम्भूतः स महासुरः ॥
अरिष्टो धेनुकः केशी प्रलम्बो नरकस् तथा ।
सुन्दो\ऽसुरस् तथात्युग्रो बाणश् चापि बलेः सुतः ॥
तथान्ये च महावीर्या नृपाणां भवनेषु ये ।
समुत्पन्ना दुरात्मानस् तान् न सङ्ख्यातुम् उत्सहे ॥
अक्षौहिण्या हि बहुला दिव्य-मूर्ति-धराः सुराः ।
महा-बलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥
तद्-भूरि-भार-पीडार्ता न शक्नोम्य् अमरेश्वराः ।
विभर्तुम् आत्मानम् अहम् इति विज्ञापयामि वः ॥
क्रियतां तन् महा-भागा मम भारावतारणम् ।
यथा रसातलं नाहं गच्छेयम् अतिविह्वला ॥ [वि।पु। ५.१.२२-२७]इति ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथं ? तद् आह—गौर् इति । गो-रूपेति कृपा-विशेष-जननार्थम् । तत्रापि खिन्ना दुःखिता, अत एव करुणं काकु-कम्पादि-संयुक्तं यथा स्यात् तथा रुदन्ती रुदती, क्रन्दतीति क्वचित् पाठः । अत एवाश्रु-मुखी, अश्रु-व्याप्तानना । तथा च, श्री-विष्णु-पुराण-हरि-वंशयोः खेदात् करुण-भाषिणी [वि।पु। ५.१.१३] इति । विभोर् इति भगवद्-आदेशेन जगद्-वैभव-योगात् । अतस् तस्मै तं प्रति व्यसनं निज-दुःखं सम्यग् उक्तवती । स्वम् इति पाठे स्वीयम् । तद्-विशेषः श्री-विष्णु-पुराणे—
तत् साम्प्रतम् इमे दैत्याः कालनेमि-पुरोगमाः ।
मर्त्य-लोकं समागम्य बाधन्ते\ऽहर्-निशं प्रजाः ॥
कालनेमिर् हतो योऽसौ विष्णुना प्रभविष्णुना ।
उग्रसेन-सुतः कंसः सम्भूतः स महासुरः ॥
अरिष्टो धेनुकः केशी प्रलम्बो नरकस् तथा ।
सुन्दो\ऽसुरस् तथात्युग्रो बाणश् चापि बलेः सुतः ॥
तथान्ये च महावीर्या नृपाणां भवनेषु ये ।
समुत्पन्ना दुरात्मानस् तान् न सङ्ख्यातुम् उत्सहे ॥
अक्षौहिण्या हि बहुला दिव्य-मूर्ति-धराः सुराः ।
महा-बलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥
तद्-भूरि-भार-पीडार्ता न शक्नोम्य् अमरेश्वराः ।
विभर्तुम् आत्मानम् अहम् इति विज्ञापयामि वः ॥
क्रियतां तन् महा-भागा मम भारावतारणम् ।
यथा रसातलं नाहं गच्छेयम् अतिविह्वला ॥ [वि।पु। ५.१.२२-२७]इति ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गौर् धेनुर् भूत्वेति दयोत्पादनाय । व्यसनं दुःखम् ॥१८॥
॥ १०.१.१९ ॥
ब्रह्मा तद्-उपधार्याथ सह देवैस् तया सह ।
जगाम स-त्रिनयनस् तीरं क्षीर-पयोनिधेः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपधार्य मत् कर्म तु सृष्टिर् एव पालनं तु विष्णोः स च क्षीराब्धौ तद् अपि किंचित् संहारं विना न सेत्स्यतीति सत्रि-नयन-स्यैव तत्र गमनम् उचितम् इत्यालोच्येत्य् अर्थः । तया भूम्या ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तीरं क्षीर-पयोनिधेर् इत्य्-आदि । क्षीरोद-शायी हि श्री-कृष्णस्य प्रधानांशः, तस्मिन् निवेदनेनैव श्री-कृष्ण-स्थाने निवेदितं भवति । श्री-कृष्ण-सन्निधौ गन्तुम् असमर्थैर् अस्माभिर् एतद् एव कार्यम् इति संमन्त्र्य क्षीर-पयोनिधि-तीरम् एव जग्मुः ।
हरि-वंशे हरि-वंश-पर्वणि चैवं-विध-विस्तारे विष्णुं प्रति नारद-वाक्यम्—
वसुन्धरायाः साहाय्यार्थं स्वम् अंशं नानुयुञ्जसे [ह।वं। १.५४.१७] इति, तदा गच्छ स्वयं विष्णो गच्छाव पृथिवी-तलम् [ह।वं। १.५४.८३] इति ।
अस्यथार्थः—साहाय्यथार्थं स्वम् अंशं नानुयुञ्जसे न प्रयोजय, अनुमतौ वर्तमाना छान्दसी । यथा देवानां अंशा नियोजिताः, तदा स्वम् स्वम् अंशं न नियोजय, स्वयम् एव गच्छतीति भावः । एतत् कौतुकं द्रष्टुम् अहम् अपि गमिष्यामीति गच्छावः । तदा च नारद-वाक्यानन्तरं स विष्णुर् मनसि चकार—
तत्र वै पार्वती नाम गुहा मेरोः सुदुर्गमा ।
त्रिभिस् तस्यैव विक्रान्तैर् नित्यं पर्वसु पूजिताः ॥
पुराणं तत्र विन्यस्य देहं हरिर् उदार-धीः ।
आत्मानं योजयामास वसुदेव-गृहं प्रति ॥ [ह।वं। १.५५.५०-५१]
विचारानन्तरं यच् चकार, तद् एताभ्यां श्लोकाभ्यां प्रतिपादयति । तत्र क्षीरोदधेस् तीरे काचित् पार्वती नाम गुहा वर्तते । सा मेरोर् अपि सुदुर्गमा, मेरौ सर्व-देवानां प्रचारो वर्तते, न तत्र कस्यापीति । पर्वसु उत्सवेषु तस्यैव विष्णोस् त्रिभिर् विक्रान्तैः प्रदक्षिण-परिक्रमैः पूजिता स्व-स्थानस्य प्रवेशे हि स्वयम् अपि प्रदक्षिणीकरोतीत्य् आचारः । अत्र गुहायां गत्वा देहं विष्णु-देहं देव-दृश्यमानं विन्यस्य अन्तर्धाप्यादृश्यो भूत्वा गुहायां एव स्थीयत इति देवान् वञ्चयित्वा पुराणम् अनादिम् आत्मानं श्री-कृष्णं वसुदेव-गृहं प्रति योजयामासेति श्लोक-योजनेति । कथं देवैर् अलक्षितां भूत्वा श्री-कृष्णं पार्श्वं जगाम ? इत्य् आह—उदारधीर् बुद्धि-कौशलेनेत्य् अर्थः । तथात्रापि सर्वे ब्रह्मादयः क्षीराब्धौ शयानं निवेदयाञ्चक्रुः । स च श्री-कृष्णम् इति रहस्यम् ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथेति माङ्गल्ये । श्री-भगवद्-अवतार-हेतूपसत्तेः । यद् वा, अनन्तरं सद्य एवेत्य् अर्थः । तद् भूमेर् वचनं व्यसनं व्योपधार्यावधानेन श्रुत्वा हृदि धृत्वा वा । त्रिनयनेन सहित इति तस्य पृथग्-उक्तिर् भगवत्-प्रियतमत्वे तस्य विशेषतः साहाय्यापेक्षया । क्षीराब्धि-तीरे गमनं तत्र लक्ष्म्या सह सदावस्थित्या सुलभत्वात् सुप्रसन्नत्वाच् च ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथान्तरं सद्य एवेत्य् अर्थः । तच् चावतार-हेतूपन्यासे माङ्गल्य-सूचकम् । त्रिनयनेन सहित इति । तस्य पृथग्-उक्तिर् भगवत्-प्रियतमत्वेन तस्य विशेषतः साहाय्यापेक्षया । क्षीराब्धि-तीरे गमनं तत्रस्थ-भगवद्-रूपस्यैव विष्णुत्वेन पालकत्वात् । पद्मोत्तर-खण्डे तथा व्याख्यानात्, विष्णुः क्षीराब्धि-मन्दिरः इति । बृहत्-सहस्रनाम-स्त्रोत्रे विष्णु-नाम-गण-पाठाच् च । तत्र तीर एव गत्वा, न तु तत्रत्य-श्वेत-द्वीपाख्य-श्री-भगवत् पुर्याम् इति तस्यापि दौर्लभ्यम् अभिप्रेतम् । तच् च मोक्ष-धर्मे नारायणीये व्यक्तम् एव ।
अत्र स्थाने स्थाने दर्शयिष्यमाण-वचनानुसारेण प्रक्रियेयं ज्ञेया—प्रथमतः परम-गोलोकाधिष्ठाता स्वयं भगवान् वासुदेवाख्यः प्रथम-व्यूहः श्री-कृष्णः । तदीय-द्वितीय-व्यूहस्य सङ्कर्षणस्यांशांशः कारणाणर्व-शायी महत्-स्रष्टृ-पुरुषः । सो\ऽपि सङ्कर्षणाख्यः । तदीय-चतुर्थ-व्यूहस्यानिरुद्धस्यांशो गर्भोद-शायी अनन्त-कोटि-ब्रह्माण्ड-परमाणु-गवाक्षायमाणेषु कारणार्णव-शायि-रोम-विवर-तुल्येष्व् अवकाशेष्व् एकैक-ब्रह्माण्ड-स्थितः पुरुषः । सो\ऽप्य् अनिरुद्धाख्यः । तस्यांशाः क्षीरोद-धामा विष्नुः । तथैकैक-व्यष्ट्य्-अन्तर्यामी सर्व-भूत-स्थः पुरुषश् च । तृतीय-व्यूहस्य प्रद्युम्नस्यांशांशः । प्रद्युम्नस् तु हिरण्य-गर्भान्तर्यामीति । क्वचित् तु परम-गोलोक-मध्य-वर्ती श्री-कृष्णापर-पर्यायः शृइ-गोविन्दः, वसुदेवादयस् तु तद् आवरण-देवता इति भेद इति ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मेति । क्षीराब्धेस् तीर-गमनं तस्यैव विष्णुत्वेन पालकत्वात्, तथैव पाद्मोत्तर-खण्डे प्रतिपादितम् विष्णुः क्षीराब्धि-मन्दिरः इति, बृहत् सहस्र-नाम्नि गुणावतार-विष्णु-नाम-वर्गे च दृष्टम् ॥१९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ पृथिवी-निवेदनं श्रुत्वा ब्रह्मा देव-गणैः सह क्षीरोद-तीरं जगाम । श्री-कृष्ण-लोक-गमनं प्रत्यसामर्थ्यात् । क्षीरोद-शायी अनिरुद्ध एव तस्मिन्न् एवास्य निवेदनम् इत्य् आशयेनाह—ब्रह्मा तद् उपधार्येत्य्-आदि ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-उपधार्यार्थं जगामेत्य् अथ-शब्दाधिक्याद् इदं लभ्यते । विश्व-सृष्टिर् एव मत्-कर्म, पालनं तु विष्णोर् एव कर्म, स च विष्णुः क्षीराब्धिस्थ इति तत्रैव गत्वेदं निवेदनीयम् इति पराममर्श । ततो जगामेति । तत्र कार्य-द्वयम् उपस्थितं पृथ्वी-पालनं दैत्य-संहरणं च । तत्र प्रथमार्थं देवेन्द्रं वा आज्ञापने चाधिकरः । वृषाकपिम् इति, वर्षति कामान् आकम्पयति प्रयोजनं चोक्तम् ॥१९-२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ब्रह्मा तद्-व्यसनम् उपधार्य निशम्य अथेत्य् अधिकत्वाद् इदं लक्ष्यते । सृष्टिर् मत्-कर्म-रक्षणं तु विष्णोरतस्त क्षीरधि-निलयं प्राप्येदं निवेद्यम् इति विममर्श । ततः सुमेरु-शिखरात् क्षीर-पयोनिधेस् तीरं जगाम । तया भूम्या सह ॥१९॥
॥ १०.१.२० ॥
तत्र गत्वा जगन्नाथं देव-देवं वृषाकपिम् ।
पुरुषं पुरुष-सूक्तेन उपतस्थे समाहितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र क्षीर-सागरे । पुरुषं पुरुष-सूक्तेन सहस्र-शीर्षा इत्य्-आदि-षोडश-र्च-मण्त्रेणोपतस्थे, उपान् मन्त्र-करण इत्य्-आदिनात्मनेपदम् । जगन्नाथत्वं राजादेर् अप्य् अस्ति, तद्-वारणाय—देव-देवम् इति । इन्द्रादि-वारणाय वृषाकपिम् । वर्षत्य् अभीष्टम् इति वृषः, अकाद् दुःखात् पाति तत्-पिनष्टीति वा\ऽकपिः, स चासाव् अकपिश् चेति वृषाकपिस् तम् । यद् वा, काज्जलाद् भूमिम् अपाद् इति कपिः,
कपिर् वराहः श्रेष्ठश् च धर्मश् च वृष उच्यते ।
तस्माद्-वृषाकपिं प्राह कश्यपो मां प्रजापतिम् ॥ इति व्यासोक्तेः ।
यद् वा, वर्षतीति वृषा वासवो वृत्रहा वृषा इत्य् उक्तेर् इन्द्रस् तम् अकाद् ब्रह्म-हत्या-दुःखात् पातीति वृषाकपिस् तम् । इन्द्रं च वृत्र-वधतस् तम् असि प्रविष्टम् इत्य्-आद्य्-उक्तेः । समाहितः समाधि-निष्ठः । गिरं समाधाव् इति प्रतिपदं वक्ष्यमाणत्वात् ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एतद् एव विवृणोति—तत्र गत्वेत्य्-आदि । पुरुषं श्री-नारायणम् उपतस्थे ॥२०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तीरे गत्वा, न तु तत्रत्य-श्वेतद्वीपाख्य-श्री-भगवत्-पुर्याम् इति तस्या अपि दौर्लभ्यम् अभिप्रेतम् । तच् च मोक्ष-धर्मे नारायणीये व्यक्तम् एव । पुरुषम् इति सदा तत्र पुरि शयनाभिप्रायेण विराड् अन्तर्यामितया वा । समहितस् तद्-एक-चित्तः सन् । उपतस्थे भक्त्या तुष्टाव । कुतः ? जगतां नाथं विशेषतश् च देवानां देवं पूज्यं जगत्-पालनार्थं देवैः स्तुत्यत्वाद् इति भावः । किं च, वर्षति कामान् आकम्पयति क्लेषान् इति वृषाकपिस् तम् इति प्रयोजनं चोद्दिष्टम् ।
पुरुष-सूक्तेनैवोपस्थितिस् तस्य वैदिकतया भगवन्-माहात्म्य-विशेष-परतया च पुरुषोत्कर्षैकोपयोगितया च तथा तदानीं गोकुलादि-लीलानभिव्यक्त्या च सर्व-स्तोत्रेभ्यः श्रैष्ठ्यात् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुरुषम् इति । महत्-स्रष्टृ-महा-पुरुष-भेदाभिप्रायेण । अतः पुरुष-सूक्तेनैवोपतस्थे भक्त्या तुष्टाव, तेन च स्तुतिस् तस्य महिम-विशेष-सूचनार्थं वेद-प्रमाणकता-ज्ञापनार्थं च समहितस् तद्-एक-चित्तः सन् । कुतः ? जगतां नाथं विशेषतश् च देवानां देवं पूज्यं जगत्-पालनार्थं देवैः स्तुत्यत्वाद् इति भावः । किं च, वर्षति कामान् आकम्पयति क्लेषान् इति वृषाकपिस् तम् इति प्रयोजनं चोद्दिष्टम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्र गत्वा किम् अकरोद् इत्य् आह—तत्र गत्वेत्य्-आदि । पुरुषम् अनिरुद्धं पुरुष-सूक्तेन उपतस्थे । कीदृशम् ? इत्य् आह—जगन्नाथम् इत्य्-आदि विशेषणानि । तस्मिन्न् निवेदित एव भगवान् श्री-कृष्णोऽपि निवेदित इति कृत्वा तम् एवास्तौत् । श्री-कृष्णं साक्षाद्-गमनासामर्थ्यात् तत्र न गतम् इति । श्री-कृष्ण-लोकस्य श्री-कृष्णेच्छयैव साक्षाद्-भावः, न स्व-सामर्थ्यात् ।उक्तं च, मनीषितानुभावोऽयं मम लोकावलोकनम् [भा।पु। २.१.२९] इति । मनीषिता ममैवेच्छा ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जगन्नाथम् इति तत्र गमनस्य न्याय्यत्वम् । देवदेवम् इति तन्-निवेदन-चरणारविन्दार्हत्वम् । वर्षति वाञ्छितम् आकम्पयति दुःखम् इति प्रयोजन-सम्पादकत्वम् । पुरुष-सूक्तेनोपतस्थे तुष्टाव । समाहित एकाग्र-चित्तः सन् ॥२०॥
॥ १०.१.२१ ॥
गिरं समाधौ गगने समीरितां
निशम्य वेधास् त्रिदशान् उवाच ह ।
गां पौरुषीं मे शृणुतामराः पुनर्
विधीयताम् आशु तथैव मा चिरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पौरुषीं पुरुषस्य भगवत इयं पौरुषी तां गां वाचं मे मत्त आशु शृणुत । मा चिरम् अविलम्बतं तथैव विधीयतां चेति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समाधाव् इति तादर्थ्ये सप्तमी । देव-कार्य-समर्थनार्थम्, समाधिर् ध्यान-सन्धान-प्रतिज्ञासु समर्थने इत्य् अभिधान-चिन्तामणिः । पौरुषीं पुरुषेण भगवता प्रोक्ताम् । गच्छति श्रोत्रम् इति गौर् वाक्, तां । तथैव यथाहं ब्रवीमीति विधीयतां क्रियताम् ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपासनानन्तरं गगने प्रादुर्भूतां वाणीं श्रुत्वा ब्रह्माह—गां पौरुषीम् इत्य्-आदि । पुरुष-सम्बन्धिनीः गाः वाचं शृणुत, पुरुषो यद् उवाच, तद् अवधारयेति भावः ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गगने समीरिताम् आकाशजाम् अदृष्ट-वक्तृकाम् इत्य् अर्थः । इत्य् अदृश्यमानेन श्री-भगवता नारायणेन तदीयेन वा केनचिद् उक्तां समाधौ तत्रापि गगने समीरिताम् इति परमादृश्यत्वम् उक्तम् । अग्रे श्री-वृन्दावनादौ तस्य तादृश-क्रीडया तदानीन्तनानां भाग्य-विशेष-बोधनार्थम् । ह स्फुटं हर्षे वा । पौरुषीं पुरुषो विराड् अन्तर्यामी नारायणस् तदीयाम् इति । तस्यां तेषां विश्वासार्थम् पुनः पश्चात् तथैव तद्-अनुरूपम् एव विधीयतां युष्माभिः सर्वैर् एवेति वा । हे अमराः ! इति तदैवामरत्वं नाम सिद्ध्येद् इति भावः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समाधौ तत्रापि गगने समीरिताम् अदृष्ट-वक्तृकाम् इत्य् अर्थः । इत्य् अदृश्यमानेन श्री-भगवतोक्तां समाधौ श्रुत्वेति, परमादृश्यत्वम् उक्तम् । अग्रे श्री-वृन्दावनादौ तस्यापि परमांशिनः स्वयं भगवतः श्री-कृष्णस्य तस्य तादृश-क्रीडया तदानीन्तनानां भाग्य-विशेष-बोधनार्थम् । ह स्फुटं हर्षे वा । पौरुषीं स्वयं तद्-रूपेण पुरुषेणोक्ताम् इति । तेषां तस्यां विश्वासार्थम् आशु स्तव-कोलाहलं परित्यज्य शृणुत । हे अमराः ! इति तदैवामरत्वं नाम सिद्ध्येद् इति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गिरम् इत्य्-आदि त्रयम् ॥२१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपासनानन्तरम् अनिरुद्धस्यैव गगने प्रादुर्भूतां वाणीं ब्रह्मा अश्रौषीद् इत्य् आह—गिरं समाधाव् इत्य्-आदि । गगने समीरितां तस्य वाणीं निशम्य वेधास् त्रिदशान् उवाच । ताम् एव गिरम् आहेत्य् अर्थः । किं तद् ? इत्य् आह—गाम् इत्य्-आदि । मे मत्तः सकाशात् पौरुषीं गां वाचं—हे अमराः शृणुत । पौरुषीम् इति आनिरुद्धीम् । श्रुत्वा च तद्-अनुरूपम् आचरत चेत्य् आह—विधीयताम् आश्व् इत्य्-आदि ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समाधौ तत्रापि गगने समीरिताम् इति क्षीरोद-नाथस्यापि ब्रह्मणापि दुर्लभ-दर्शनत्वम् अभिव्यज्य तद्-आदि-परमांशिनः साक्षात् पुरुषोत्तमस्य कृष्णस्याग्रे प्रापञ्चिक-लोक-मात्र-दृश्यत्वे तदीय-कृपातिशयः एव हेतुर् व्यञ्जितः । पौरुषीं पुरुषस्य क्षीरोद-नाथस्य गां वाचम् ॥२१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद्-आज्ञां ब्रह्मा देवान् अवोचद् इत्य् आह—गिरम् इति । समाधौ तत्रापि गगने समीर्ताम् अदृष्ट-वक्तृकाम् इत्य् अर्थः । गां वाणीम् । पौरुषीं पौरुषेणोक्ताम् । अत्रांशांशस्य क्षीराब्धि-पतेर् ब्रह्मादि-दुर्लभ-दर्शनत्वेन महैश्वर्येण तत्-परंआंशिनः कृष्णस्यैश्वर्ये महान् अतिशयो व्यज्यते । तथापि देव-मानवादि-निखिल-लोक-लक्षतत्त्व् तच्-चरिताभिधानं तत्-कृपातिशय-हेतुकम् । तद् धि निगूढ-पारमैश्वर्यं चरितं फलकाधर-मुकुरवन् मनोहरं भवति ॥२१॥
॥ १०.१.२२ ॥
पुरैव पुंसावधृतो धरा-ज्वरो
भवद्भिर् अंशैर् यदुषूपजन्यताम् ।
स यावद् उर्व्या भरम् ईश्वरेश्वरः
स्व-काल-शक्त्या क्षपयंश् चरेद् भुवि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विज्ञापनात् पुरैव पुंसा ईश्वरेण ज्वरस् तापोऽवधृतोऽवधारितः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवधृतो निश्चितः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद् एव किम् इत्य् आह—पुरैवेति । पुंसा श्री-कृष्णेन पुंसः पुरुषान् स्यति अवसाययति अन्तयति स्वस्मिन् विलापयति, योऽन्त-कर्मणि सन्ध्य्-अक्षराणां आकारे सति आतो मनिन् क्वनिब् वनिपश् च [पा। ३.२.७४] इति पुंसा इति गोषादिवत् तस्य तृतीयैक-वचनेऽपि तथैव रूपम् । पुरैव भवतां निवेदन-प्राग् एव धरा-ज्वरो विदितो मया, भवतां निवेदनानन्तरं यन् निवेदनं तस्य च प्राग् एवेत्य् अर्थः । सर्वज्ञत्वात् तस्य निवेदनापेक्षा नास्त्य् एव ।
विदित एवास्तु धरा-ज्वर इति किम् उक्तं तद् उच्यताम् इत्य् आह—भवद्भिर् अंशैर् यदुषूपजन्यताम् इति । नेयं पुरुषस्य स्वकीया वाक्, अत एव पुंसा विदित इति न मया विदितः, श्री-कृष्ण-वाण्य् एवानेन पुरुषेणानुकृतेति यावत् । अत एव स यावद् ऊर्व्या भरम् ईश्वरेश्वर इत्य् अत्र ईश्वरेश्वरत्वेन प्रतिपादितम् । कार्यथार्थे सम्भविष्यति इत्य् उक्तं । पुरुषस्य वाक् ब्रह्मणा देवेभ्यः प्रतिपादिता ॥२२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरुष-निःसृतां गां एवार्थतः प्रतिपादयति—पुरेति चतुर्भिः । पुंसा यस्याहम् अंशस् तेन पुरुषोत्तमेण पुरैवावधृत इति तद्-विज्ञापनार्थं युष्मत्-प्रयासेनालम् इति । यद् वा, अत एव तच्-छ्रवणार्थं स्वयं नाविर्भूत इति भावः । अंशैर् निजाशेषांशैः सहोपजन्यताम् पुत्र-पौत्रादि-रूपेण जनित्वा निकटे स्थीयताम् इत्य् अर्थः । यदुष्व् इति प्रायिकत्वात् । किं वा, तत्-सम्बन्धिनाम् अपि पाण्डवादीनां तद्-अन्तर्-भावात् ।
यद् वा, मुख्यत्वाद् ईश्वराणां अपीश्वरः इच्छा-मात्रेण सद्यः सर्वं कर्तुं शक्तोऽपि स्व-काल-शक्त्या यदा यत् कर्तुं युज्येत, तदैव तत् करोतीति यथा कालम् इत्य् अर्थः । स्व-शब्देन कालस्यापि तद्-अधीनतोक्तैव । यावद् भुवि चरेत् प्रकटो भुवि वर्तेतेत्य् अर्थः । अन्यदा तत्-तन्-नित्य-प्रिय-जनैः सह नित्यं श्री-वृन्दावनादौ विचित्र-क्रीडां कुर्वतोऽपि तस्यान्यैर् अदृश्यत्वात् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य पुरुषस्यैव वाचम् अनुवदति—पुरेति चतुर्भिः । पुंसा यस्याहम् अंशांशस् तेनादि-पुरुषेण स्वयं भगवता श्री-कृष्णेन पुरैवावधृत इति तद्-विज्ञापनार्थं युष्मत्-प्रयासेनालं, तथाहम् अपि तद्-वेत्ता तच्-छ्रवणार्थं स्वयं नाविर्भूत इति भावः । अंशैर् निजाशेषांशैः सह उपजन्यताम्,
एते हि यादवाः सर्वे मद्-गणा एव भामिनि ।
सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥
इति पाद्म-कार्त्तिक-माहात्म्य-रीत्या नित्य-तत्-पार्षदानां यदूनां पुत्र-पौत्रादि-रूपेण जनित्वा निकटे स्थीयताम् इत्य् अर्थः । यदुष्व् इति तत्-सम्बन्धिनाम् अपि पाण्डवादीनां तद्-अन्तर्-भावात् । एषाम् एव स्वर्ग-गमनम् अधिकारान्ते च तत्-प्राप्तिर् ज्ञेया । ईश्वराणां विराड्-आद्य्-अन्तर्यामिनाम् अस्मद्-आदीनाम् अपीश्वरः सर्वांशी । तथा च ब्रह्म-संहितायां—
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ [ब्र।सं। ५.१]
यस्यैक-निःश्वसित-कालम् अथावलम्ब्य
जीवन्ति लोम-विलजा जगद्-अण्ड-नाथाः ।
विष्णुर् महान् स इह यस्य कला-विशेषो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४८]इति ।
व्याख्यास्यते च तैः—अथाहम् अंश-भागेन [भा।पु। १०.२.९] इत्य्-आदौ, नारायणोऽङ्गम् [भा।पु। १०.१४.१४] इत्य्-आदौ, यस्यांशांशांश-भागेन [भा।पु। १०.८५.३१] इत्य्-आदौ च ।
ततः सद्यः सर्वं कर्तुं शक्तोऽपि स्व-काल-शक्त्या यदा तत् कर्तुं युज्येत, तदैव तत् करोतीति यथा-कालम् इत्य् अर्थः । स्व-शब्देन कालस्यापि तद्-अधीनतोक्ता, यावद् भुवि चरेत् प्रकटो वर्तेतेत्य् अर्थः । अन्यदा तत्-तन्-नित्य-प्रिय-जनैः सह नित्यं श्री-वृन्दावनादौ तद्-अप्रकट-प्रकाश-विशेषत्वेन निरूपयिष्यमान-विचित्र-क्रीडां कुर्वतोऽपि तस्यान्यैर् अदृश्यत्वात् । तथा च स्कान्दे—
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तर-गतः स-रामो बालकैः सह ॥ इति ।
वक्ष्यते च—मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः [भा।पु। १०.१.२८] इति । एकादशान्तं च द्वारकाम् अधिकृत्य नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः [भा।पु। ११.३१.२४] इति ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : कासौ पौरुषी वाक् ? इत्य् आह—पुरैवेत्य्-आदि । पुंसा श्री-कृष्णेन स्वयं भगवता धरा-ज्वरोऽवधृतो ज्ञातः । भवादृशा यदा मह्यं निवेदितस् ततः पूर्वम् अपि तेन ज्ञात इत्य् अर्थः । पुंसो महज्-जनकादीन् त्रीन् पुरुषान् स्यति काले अवसाययति इति पुंसा । विनिक्षते पागोषादि-शब्दवत्, तस्य तृतीयैक-वचने पुंसा इत्य् एव रूपम् । तेन परात्परेणेति स्वतः सिद्ध-ज्ञानत्वात् पर-निवेदनापेक्षा तस्य नास्तीति भावः । तेन पुरैव धरा-ज्वरं ज्ञात्वा किम् उक्तम् इत्य् आशङ्क्याह—भवद्भिर् अंशैर् इत्य्-आदि । स पुरैव ज्ञात्वा मां प्रति इदम् उक्तवान् । भवद्भिर् भवद्-आदिभिर् अंशैर् एव ममांश-भूतैर् भवद्भिर् इत्य् अर्थः । यदुषूपजन्यताम् इत्य् अवादीद् इति भावः ।
आथवा सर्वम् एवानिरुद्धस्यैव वचः । तदा किं भविष्यतीत्य् आह—स यावद् इत्य्-आदि । यावत् तावच् च साकल्ये । स ईश्वरेश्वरः, ईश्वराणां अस्माक अपीश्वरः । पुंसेति तथा व्याख्यानात् । स्व-काल-शक्त्या यावत् साकल्येन ऊर्व्या भवं क्षपयन् भुवि चरेत् चरिष्यतीति भावः । इति पुरुषस्यानिरुद्धस्य वाणी या गगने प्रादुरभूत्, सा ब्रह्मणा देवेभ्यः कथिता, न त्व् इयं ब्रह्मणो वाणी देवान् प्रति, भवद्भिर् अंशैर् यदुषूपजन्यताम् इति । अपि तु श्री-कृष्णस्यैव । तेन सर्वैर् अंशैर् एव भगवान् अवतीर्णं इत्य् आयातम् । यदवोऽपि भगवद्-अंशा एव, न तु देवांशाः ।
आथवा पुरैव पुंसावधृतो धरा-ज्वरः [२२] इत्य्-आदि, कार्यथार्थं सम्भविष्यति [२५] इत्य् अन्तम् एव पुरुष-वाक्यं ब्रह्मा श्रुत्वा देवेभ्यः श्रावयामास ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुषस्य वाचम् एवानुवदति—पुरैवेति चतुर्भिः । विज्ञापनात् पूर्वम् एव पूंसा कृष्णः स्वयं समभवत् परमः पुमान् यः [ब्र।सं। ५.३९] इत्य् अनुसारात् स्वयं भगवता शृइ-कृष्णेनेत्य् अर्थः । अवधृतः ज्ञतः । अंशस् तद्-अंश-भुत-पार्षदैर् उद्धव-सात्यक्य्-आदिभिः सह मिलितीभूय । यदुष्व् इत्य् उपलक्षणं कुरुष्व् अपि । क्षीरोदनाथादयो वयम् ईश्वराः, अस्माकम् अपीश्वरः ॥२२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पौरुषीं वाणीम् अनुवदति—पुरैवेति चतुर्भिः । धराया भूमेर् ज्वरः । भवद्-विज्ञापनात् पूर्वम् एव पुंसा श्री-कृष्णेनावधृतो ज्ञातः । तावद् भवद्भिर् यदुषु तद्-अंशैर् उद्धवादिभिः सम्भूय तत्-पुत्र-पौत्र-रूपेणोपजन्यताम् । तावत् कियद् इत्य् आह—स यावत् स्व-काल-शक्त्या भूमेर् भरं क्षपयितुं भुवि चरेत् प्रकटः स्याद् इति सत्वरं खवद्भिर् भाव्यम् । कीदृशः सः ? इत्य् आह—ईश्वराणां अस्मद्-आदीनां ईश्वरः स्वयं भगवान् इत्य् अर्थः ॥२२॥
॥ १०.१.२३ ॥
वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः ।
जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वसुना धनेनार्थाद् गो-धनेन दीव्यति व्यवहरति । द्योतने मोदते इति वा । वसुदेवो नन्दः यशोदा च, जातं परम् अबुध्यत [भा।पु। १०.३.५३] इत्य् उक्तेः । देव-भेदे नले रश्मौ वसू रत्ने धने वसु इत्य् अमरः । धनं वित्तं गो-धने च इति मेदिनी ।
नृप-यादव-गोपेश-धनिक-श्री-नन्द-गोकुले ।
समुद्र-शशि-सूर्येषु वसुदेव उदीरितः ॥ इति निरुक्तात् ।
आनकदुन्दुभिर् वा तस्य गृहे भार्यायां, गृहं गृहाश् च पुं भूम्नि कलत्रेऽपि च सद्मनि इति मेदिनी । वसुदेवो गृह्यते निरुद्ध्यतेऽत्रेति वसुदेव-गृहं कंस-कारागृहं तत्र वा ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वसुदेव-गृहे जनिष्यते प्रादुर्भविष्यति । जनी प्रादुर्भावे । साक्षात् स्वरूपेणैव, न तु प्रच्छन्नः । परः पुरुषः श्री-कृष्णः, तत्-प्रियार्थं तस्य प्रियाणां गोपीनां अर्थं प्रियायाः प्रियो रमाया वा अमर-स्त्रियः सम्भवन्तु ॥२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदुष्व् अंशैर् उपजनने हेतुम् आह—वसुदेवेति । गृह इति जीववत् पितुः सकाशाद् उत्पत्तिर् निरस्ता । यतः परः पुरुषः पुरुषोत्तमोऽवतारी श्री-भगवान् प्रकट-सर्वैश्वर्य-युक्तः सन् साक्षात् स्वयम् एव जनिष्यते प्रादुर्भविष्यति । इत्य् अंशावतारत्वं अपि निरस्तम् । तथा च पाद्मे श्री-व्यास-वाक्यम्—
ततो माम् आह भगवान् वृन्दावन-चरः स्वयम् ।
यद् इदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥
निष्कलं निष्क्रयं शान्तं सच्-चिद्-आनन्द-विग्रहम् ।
पूर्णं पद्म-पलाशाक्षं नातः परतरं मम ॥
इदम् एव वदन्त्य् एते वेदाः कारण-कारणम् ।
सत्यं नित्यं परानन्दं चिद्-घनं शाश्वतं शिवम् ॥ [प।पु। ५.७३.२४-२६] इति ।
अतस् भगवतः प्रियार्थं परिचर्यया प्रीत्य्-उत्पादनाय । यद् वा, तस्य प्रियाः श्री-रुक्मिण्य्-आद्याः श्री-राधाद्याश् च तासां सख्य्-अर्थम् अत एव सम्यग् भवन्तु, उक्त-प्रकारेण जायन्ताम् इत्य् अर्थः । यद् वा सम्भवन्तु योग्याः भवन्त्व् इति वर-प्रदानम् । तथापि जनन एव तात्पर्यम् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईश्वरेश्वरत्वम् एव वदंस् तस्य स्वयम् अवतारे ईदृश-लीला-कैवल्यम् एवान्तरङ्गं प्रयोजनम् इत्य् आह—वसुदेवेति । गृह इति जीववत् पितुः सकाशाद् उत्पत्तिर् निरस्ता । यः परः पुरुषः यस्माद् अन्य उत्कृष्टो नास्ति, स एव भगवान् प्रकट-सर्वैश्वर्य-युक्तः सन् साक्षात् स्वयम् एव जनिष्यते प्रादुर्भविष्यति । अतस् तस्य प्रियार्थं परिचर्यया प्रीत्य्-उत्पादनाय । यद् वा, सम्भवन्तु योग्याः भवन्त्व् इति वर-प्रदानम् । तथापि जनन एव तात्पर्यम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वसुदेव-गृह इत्य्-आदि । वसुदेवं हरेः स्थानम् [भा।पु। ९.२४.३०] इत्य्-उक्तेः । तत्रैव तस्य प्रकाश उचित इति तस्य गृहे साक्षाद् भगवान् श्री-कृष्णो जनिष्यते । साक्षाद् इति स्वेनैव रूपेण । गृह इति गृहिणी-परम् । वसुदेवस्य गृहे देवक्याम् । वस्तुतः कारागारम् एव तत् । ततस् तस्य कृष्णस्य प्रियापि श्री-रमा-देवी च पृथिव्यां प्रादुर्भविष्यति । रमा तु आनन्द-रूपिणी, ऐश्वर्यानन्द-रूपिणी चेति द्विधा । आद्या तु व्रजेऽवतरिष्यति, द्वितीया राज-कन्यात्वेनेति तयोर् अर्थं सुर-स्त्रियोऽपि सम्भवन्त्व् इत्य् आह—तत्-प्रियथार्थम् इति । तस्य श्री-कृष्णस्य प्रियाणां श्री-राधादीनां श्री-रुक्मिण्य्-आदीनां च । अर्थं निमित्तम् । सुष्ठु रातीति सुराः शोभनाः स्त्रियः श्री-रमा-विभूतयः श्री-कृष्ण-लोक-वासिन्यः प्रमदोत्तमाः । यद् वा, सुराणां स्त्रियः सुर-स्त्रियश् च सुर-स्त्रियश् च पूर्वोक्त-रूपे उभयोर् एक-शेषः । श्री-कृष्ण-लोक-वासिन्यः श्री-राधादीनां सेवा-निमित्तं । सुर-लोक-स्त्रियश् च श्री-रुक्मिण्य्-आदीनां इति तत्-प्रियथार्थं इति शब्दस्यथार्थः ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुर-स्त्रियस् तत्-प्रियांश-भूता या उपेन्द्रादि-मन्वन्तरावतार-स्त्रियस् ताम् एव तत्-प्रियाणां सख्यार्थं कृत-चर-तद्-भजन-प्रभाव-वशात् पृथग्-भूतास् तत्-प्रिय-सख्यो भवन्तु । यद् उक्तम् उज्ज्वल-नील-मणौ—
नित्य-प्रियाणाम् अंशास् तु या जाता देव-योनयः ।
ता अंशिनीनाम् एवासां प्रिय-सख्यो\ऽभवन् व्रजे ॥ [उ।नी। ३.५२] इति ॥२३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एतद् एवाह—वसुदेवस्य विशुद्ध-सत्त्वावतारस्य नन्द-नृपस्य शौरेश् च गेहे । सत्त्वं विशुद्धं वसुदेव-शब्दितं यद् ईयते तत्र पुमान् अपावृतः [भा।पु। ४.३.२३] इति चतुर्थे रुद्रोक्तेः । पुरुषो जनिष्यते न त्व् अहं जनिष्ये इत्य् अनुक्तेः स किं गर्भोदशयः ? नेत्य् आह—पर इति । तर्हि किं कारणोद-शयः ? नेत्य् आह—भगवान् इति । तर्हि किं पर-व्योमाधिपतिः ? नेत्य् आह—साक्षाद् इति । अनन्यापेक्षि-रूपः स्वयं भगवान् श्री-कृष्ण इत्य् अर्थः । तत्-प्रियार्थं श्री-राधिका-रुक्मिण्य्-आदीनां सख्यार्थं सुर-स्त्रियस् तद्-अंश-भूता उपेन्द्राजितादि-मन्वन्तरावतार-स्त्रियः । पूर्वाचरित-तद्-भजन-बलात् पृथग्-भूताः सम्भवन्तु जायन्ताम् इत्य् अर्थः ॥२३॥
॥ १०.१.२४ ॥
वासुदेव-कलानन्तः सहस्र-वदनः स्वराट् ।
अग्रतो भविता देवो हरेः प्रिय-चिकीर्षया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वासुदेवाय कं सुखं शय्या-रूपत्वेन लाति ददातीति वासुदेव-कला तच्-छय्या-भूतोऽनन्तः शेषः, शेषोऽनन्तःइत्य् अमरः । अत एव वक्ष्यति—शेषाख्यं धाम मामकम् [भा।पु। १०.२.८] इति स्वेन हरिणा स्वान् वा राजते राजयति वा स्वराट् । प्रिय-चिकीर्षया प्रलम्बादि-वध-द्वारा श्री-भगवत्-प्रतिज्ञता-भूभार-हरण-रूप-प्रिय-कर्माकरणेच्छयेत्य् अर्थः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अग्रतो भविता इत्य्-आदि । अग्रजत्वेन भवितुम् अनिच्छन्न् अपि अग्रजो भविता । कुतः ? हरेः प्रिय-चिकीर्षया । तथा-भूते तस्य प्रियं भवतीति भावः ॥२४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अग्रतः पूर्वं भविता, ज्येष्ठ-भ्राता भविष्यतीत्य् अर्थः । स्पष्टतानुक्तिः सम्भ्रमात् । तत्र योग्यताम् आह—वासुदेवस्य चतुर्व्यूह-प्रधानस्य कला अंशः, सङ्कर्षणत्वात् । अत एवानन्तः प्रलयेऽपि नाश-रहितः । यद् वा, अपरिच्छिन्नोऽत एव सहस्र-वदनः श्री-वासुदेव-गुण-गाने सहस्र-मुख इति निरन्तरानन्त-भगवद्-गुण-गान-परता सूचिता ।
ननु किं तर्हि सप्त-पाताल-तल-वर्ती धरणी-धरः ? नेत्य् आह—स्वयं राजत इति स्वराट् । अतस् तं विनान्यत्र स्थातुम् अशक्तम् इति भावः । अग्रतो भविता देवः सर्वेषां पूज्य इत्य् अर्थः ।
ननु श्री-लक्ष्मणवद् असौ कनिष्ठताम् एवार्हति ? तत्राह—हरेः प्रिय-चिकीर्षयेति । पुरा श्री-रघुनाथावतारे तस्य सेवातिशयेन यन्त्रितस्य हरेर् भक्त-वत्सलस्याग्रजत्वेनैव प्रीतिः स्याद् इति तत्-सम्पादनेच्छयेत्य् अर्थः । हरेर् इति तादृश-स्नेहेन तस्य मनो-हरणात् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अग्रतो भविता, ज्येष्ठ-भ्राता भविष्यतीत्य् अर्थः । अत्र भ्रातृत्वे योग्यताम् आह—वासुदेवस्य द्वारकादि-प्रसिद्ध-चतुर्व्यूह-प्रधानस्य श्री-कृष्णस्य कला अंशः सङ्कर्षणत्वात् । अत एवानन्तः, अपरिच्छिन्नः । अतः स एव शेषाख्येनांशेन सहस्र-वदनः श्री-कृष्ण-गुण-गानेच्छयेति भावः । तथा च वक्ष्यते—यस्यैकांशेन विधृता जगती जगतः पतेः [भा।पु। १०.६५.२८] इति । व्याख्यातं च तैः—एकांशेन शेषाख्येन इति । अतः स्वेन स्व-स्वरूपेण श्री-भगवतैव राजत इति स्वराट् । अतस् तं विनान्यत्र स्थातुम् अशक्त इति भावः । देवः तद्-अग्रजत्वात् सुतरां सर्वेषां पूज्य इत्य् अर्थः ।
ननु श्री-लक्ष्मणवद् असौ कनिष्ठताम् एवार्हति, न तु ज्येष्ठत्वम् । तत्राह—हरेः प्रिय-चिकीर्षयेति । तस्य यन्त्रितता-हानाय तेनात्मन इव तस्यात्मनानुगतये च श्री-कृष्ण-देवस्य तु भक्त-सौहृद-विशेष एवायम् इति भावः । अतो बृहत्-सहस्र-नाम-स्तोत्रे श्री-बलदेव-नामसु, पूर्व-भक्ति-खेदाच्युताग्रजः इति । अत्रापि खेदः श्री-कृष्णस्यैव ज्ञेयः । तेन खेदेन हेतुना अच्युतस्य श्री-कृष्णस्याग्रतो जात इत्य् अर्थः । पूर्वं पुरावतीर्णो लक्ष्मणस् तस्मिंस् तद्-अंशे खेदं परामृश्य स्वांशे तु तथा न क्वचिद् अपि कल्पे प्रकटयतीति तात्पर्यम् ।
अथवा, मयि ज्येष्ठे सति लक्ष्मणापराधीनत्वे श्री-रघुनाथ इव स्वैरं दुःखम् उररीकर्तुं नायं शक्नुयाद् इति स्वातन्त्र्येण हरेः सुखं कर्तुम् इच्छयेत्य् अर्थः । अतः श्री-लक्ष्मणस्यापि तद्-दुःख-निवारणाशक्तत्वेनैव भक्तौ खेदो ज्ञेयः । हरेर् इति तादृश-स्नेहेन तस्य मनो-हरणात् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हरेः प्रिय-चिकीर्षयेति । नात्र श्री-राम-लक्ष्मणवद् यथा-क्रमं, किन्तु तस्य यन्त्रितता-हानाय तेनात्मन इवात्मना ऽनुगतये च भक्त-सौहृद-विशेष एवायम् इति भावः । अतो भक्ति-खेदाच्युताग्रजः इत्य् अत्रापि खेदः श्री-कृष्णस्यैव ज्ञेयः । तद्-अंशे खेदं परामृश्य निजांशे तु, न कदाचिद् अपि कल्पते घटयतीत्य् अर्थः । अथवा, ज्येष्ठे सति श्री-रघुनाथ इव लक्ष्मणापराधीनत्वेन स्वैरं दुःखम् उरीकर्तुं नायं शक्नुयाद् इति स्वातन्त्र्येण हरेः कर्तुम् इच्छयेत्य् अर्थः । अथ लक्ष्मणस्यापि दुःख-निवारणाशक्तत्वेनैव भक्तौ खेदो ज्ञेयः ॥२४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वासुदेव-कलेत्यादि । अग्रजो भविता अग्रजत्वेन भविष्यति । अग्रतो भवितेति पाठेऽपि स एवार्थः । कलापि भूत्वा कथम् अग्रजो भवितेत्य् आशङ्क्याह—हरेः प्रिय-चिकीर्षया । तथा सति तस्य प्रीतिर् भवतीत्य् अर्थः ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वेन भ्रात्रा कृष्णेन सह राजत इति स्व-राट् । देवो बलदेवः । अग्रतः प्रथमम् आविर्भविष्यति य एवांशेन सहस्र-वदनो\ऽनन्तः, यस्यैकांशेन विधृता जगती जगतः पतेः [भा।पु। १०.६५.२८]इति वक्ष्यमाणात् । यो\ऽनन्तो वासुदेवस्य कला ॥२४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्वेन भ्रात्रा कृष्णेन सह राजते स्वराट् । हरिर् भर्तृ-हरिर् इतिवद् देवो बलदेवः । अग्रतः पूर्वम् एव भविष्यति । य एवांशेन सहस्र-वदनोऽनन्तः । यस्यैकांशेन विधृता जगती जगतः पतेः [भा।पु। १०.६५.२८]इति वक्ष्यमाणात् । यो\ऽनन्तो वासुदेवस्य कला भागः । हरेः प्रियेति । मयि ज्येष्ठे सति नैश्चिन्त्येनायं लीलायिष्यते इति भावः ॥२४॥
॥ १०.१.२५ ॥
विष्णोर् माया भगवती यया सम्मोहितं जगत् ।
आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवकी-गर्भ-सङ्कर्षण-यशोदायं सम्भविष्यति ॥२५॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यशोदा-मोहनादीत्य् अत्रादि-शब्देन द्वारप-नगरस्थ-कंसादयो ग्राह्याः । माया-शब्देन योग-माया ग्राह्येह, योग-मायां समादिशत् [भा।पु। १०.२.६] इति वक्ष्यमाणत्वात् । प्रभुणा कृष्णेन । अंशेन स्वांश-भूत-बहिरङ्ग-माया-सहितैव प्रादुर्भविष्यति । यया स्वांश-भूतया मायया । जगद् अपि स्व-स्वांश-भेदाद् द्विधा तद्-विज्ञैर् ज्ञेयं । स्वरूपं जगत् तु ब्रह्मणे दर्शयिष्यति चतुर्दशेऽध्याये स्वांशभूतम् सर्वम् एव प्रसिद्धं । अतः परं विश्वनाथस्य टीका धृता ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कार्यथार्थे सम्भविष्यतीत्य्-आदि । कार्यम् अघटन-संघटना तद्-अर्थे प्रभुणा तस्य नियन्त्रा आदिष्टा । तस्याः कुत एवं सामर्थ्यम् ? अत्राह—अंशेन भगवद्-अंशेन विशिष्टा, विशेषणे तृतीया, तच्-छक्तेस् तद्-अंशत्वात् । विष्णु-मायेति शब्दितत्वात् विष्णु-शक्तिर् एव सा । अतस् तेनादिष्टं करिष्यति, अस्वातन्त्र्यात् । सा च अघटन-संघटना गर्भ-संकर्षणादिः । वृण्दावने च गोपीनां भगवत्-सङ्गे विलसन्तीनां, मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः [भा।पु। १०.३३.३७] इत्य्-आदिना छाया-रूपेण प्रति निकटे वर्तमानत्वादि कृष्ण-लीलानुकरणे तासां पूतनादि-प्रतिकूल-तादात्म्यतत्त्व् विविध-पूतनादि-रूप-स्वीकारः । रासे च तत्-तत्-सामग्री-समाधानं इत्य्-आदि ॥२५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विष्णोर् विश्व-व्यापकस्य भगवतो मायाख्या शक्तिः । अत एव भगवती सर्व-शक्ति-युक्ता । भगवतीत्वम् एव दर्शयन् ताम् एव कार्य-द्वारा विशेषेण लक्षयति—ययेति । इति चिच्-छक्तिर् व्यावर्तिता । सम्यग् भविष्यति । अन्यथा श्री-यशोदादि-मोहनाशक्तेः । कार्यार्थ इति श्री-यशोदा-मोहनादि-कार्यस्य सुगोप्यत्वात् सङ्केतेनैवोक्तम् । ननु वयं देवास् त्वद्-आज्ञा-कारिण एव, अनन्तश् च हरेः प्रिय-चिकीर्षयैव भविता । सा तु परम-स्वतन्त्रा कुतस् तथा कर्ता ? तत्राह—प्रभुणा तद्-ईश्वरेण विष्णुनादिष्टेति । यया संमोहितं जगत् इत्य् उक्तम् ।
ननु, तर्हि तस्यास् तत्र जन्मना अस्मादृशानाम् अपि संमोहः सम्भवेद् इत्य् आशङ्क्याह—अंशेनेति । अंशेन भगवद्-अंशेन संवलिता, अतस् तद्-इच्छानुसारेणैव मोहयिष्यतीति भावः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विष्णोर् विश्व-व्यापकस्य भगवतो मायाख्या शक्तिः । अत एव भगवती सर्व-शक्ति-युक्ता । भगवतीत्वम् एव दर्शयन्, ताम् एव कार्य-द्वारा विशेषेण लक्षयति—ययेति । इति चिच्-छक्तिर् व्यावर्तिता, भगवद्-इच्छया सम्यग् भविष्यति । अन्यथा श्री-यशोदादि-मोहनाशक्तेः । कार्यार्थ इति श्री-यशोदा-मोहनादि-कार्यस्य सुगोप्यत्वात् सङ्केतेनैवोक्तम् ।
ननु वयं त्वद्-आज्ञा-कारिण एव, अनन्तश् च हरेः प्रिय-चिकीर्षयैव भविता । सा तु परम-स्वतन्त्रा कुतस् तथा कर्त्री ? इत्य् अत्राह—प्रभुणा साक्षात् कृष्णेनैवादिष्टेति ।
ननु, यया संमोहितं जगत् इत्य् उक्तम् । तर्हि तस्यास् तत्र जन्मना अस्मादृशानाम् अपि संमोहः सम्भवेद् इत्य् अत्राह—अंशेनेति । अंशेन भगवद्-अंशेन तद्-इच्छा-रूपेण संवलिता, अतस् तद्-इच्छानुसारेणैव मोहयिष्यतीति भावः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भगवद्-अवतारे सति दुर्घट-सङ्घटनार्थं भगवद्-योग-शक्तेर् अप्य् अवतारं सूचयति—विष्णोर् माया भगवतीत्य्-आदि । माया योग-माया, सा च द्वेधा, साकारा निराकारा चेति । साकारा तु दुर्गा, निराकारा तु केवल-शक्ति-रूपा दुर्घटन-पटीयसी भगवती । यया उभय-विधया जगद् असंमोहितं भवतीत्य् अर्थः । अतो ज्ञान-रूपैवेयं प्रकाशिका माया । माया-शब्दोऽत्र शक्ति-विशेष-परः । सा च द्विविधेत्य् अत्र ज्ञान-रूपायाः प्रकाशिकाया एवावसरः, न त्व् आवरिकायाः । अतोऽकार-प्रश्लिष्टः । सैव प्रभुणा आदिष्टा सती साकारा नन्द-गृहे भविष्यतीति । निराकारा तु कार्यथार्थे । कार्यं तु अघटन-संघटनागर्भ-सङ्कर्षणादिः । वृण्दावने च गोपीनां भगवत्-सङ्गे विहारिष्यन्तीनां, मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः [भा।पु। १०.३३.३७] इत्य्-आदिना छाया-रूपेण प्रति समीपे वर्तमानत्वादि-कृष्ण-लीलानुकरणे तासां प्रतिकूल-तादात्म्यतत्त्व् पूतनादित्व-स्वीकारः । रासे च तत्-तत्-सामग्री-समवधानं च । ननु कथं विरुद्ध-गोपी-च्छायादि पूतनाद्य्-अनुकरणं स्याद् इत्य् आह—अंशेनेति । विरुद्ध-कार्यं प्रत्यंशेन, भगवत्-कार्यं प्रति तु पूर्ण-भावेन ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, स्व-लीला-परिकराणां भक्तानां भक्त-द्विषां कंसादीनां च मोहनार्थं योगमायां मायां चादिशद् इत्य् आह—**विष्णोर् माया,**योग-मायां समादिशत् [भा।पु। १०.२.६] इत्य् अग्रिमोक्तेः । प्रभुणा कृष्णेन आदिष्टा सती अंशेन सह स्वांश-भूत-बहिरङ्ग-माया-सहितैव कार्यार्थेप्रादुर्भविष्यति, यया जगत् संमोहितं स्वांश-भूत-माययेत्य् अर्थः ।
यद् वा, जगत् अप्राकृतं प्राकृतं च स्वेन स्वांशेन च संमोहितं, मायया योग-मायांशत्वं दृष्टं नारद-पञ्चरात्रे श्रुति-विद्या-संवादे—
जानात्य् एका परा-कान्तं सैव दुर्गा तद्-आत्मिका ।
या परा परमा शक्तिर् महा-विष्णु-स्वरूपिणी ॥
यस्या विज्ञान-मात्रेण पराणां परमात्मनः ।
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा ॥
एकेयं प्रेम-सर्वस्व-स्वभावा श्री-कुलेश्वरी ।
अनया सुलभो ज्ञेय आदि देवोऽखिलेश्वरः ॥
अस्या आवरिका शक्तिर् महा-मायाखिलेश्वरी ।
यया मुग्धं जगत् सर्वं सर्व-देहाभिमानतः ॥ इति च ।
एका एक-विधैव एकानंशा-परपर्यायेत्य् अर्थः ।
कार्यार्थे इति कार्यम् अत्र द्विविधं—प्रथमं देवकी-सप्तम-गर्भाकर्षण-यशोदा-स्वापनादि । तद् धि योगमायाया एव कार्यं, न तु मायया स्व-नियन्तुर् बलभद्रस्याकर्षणे प्रभुत्वाभावात्, यशोदा-स्वापनस्य राजसत्वाभावाच् च । यद् उक्तं—
व्यतीत्य तुर्याम् अपि संश्रितानां
तां पञ्चमीं प्रेम-मयीम् अवस्थाम् ।
न सम्भवत्य् एव हरि-प्रियाणां
स्वप्नो रजो-वृत्ति-विजृम्भितो ये ॥ [उ।नी। १५.२१९] इति ।
तादृश-सिद्ध-भक्तेषु मायायाः प्रभवितुम् अशक्यत्वाच् च द्वितीयं तु देवकी-कन्या-रूपेण यत् कंस-वञ्चनं तन् मायया एव कार्यं, न तु योगमायायास् तादृश-दुश्लोकेषु तस्या अनुपयोगाद् एव सैव कंस-हस्ताद् आकाशम् उत्प्लुत्य विन्ध्य-वासिन्य्-आदि-रूपेण बहु-नाम-निकेतेषु बहु-नामा बभूव ह [भा।पु। १०.४.१३] । यद् उक्तं स्वयम् एव मायया—
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।
नन्द-गोप-गृहे जाता यशोदा-गर्भ-सम्भवा ।
ततस् तौ नाशयिष्यामि विन्ध्याचल-निवासिनी ॥ [दे।मा। ११.३७-३८]
तथा रास-लीऌआ-सिद्ध्य्-अर्थं भगवत्-प्रेयसीनां पति-पश्व्-आदि-मोहनं योग-मायाया एव कार्यं, न तु मायायाः । तेषां भगवद्-वैमुख्य-दर्शनात् । माया-मोहितत्वे तद्-वैमुख्यस्यावश्यम्भावात्, योग-मायाम् उपाश्रितः [भा।पु। १०.२९.१] इति तत्रोक्तेश् च । दुर्योधनादि-साल्वाद्य्-असुरेषु विश्व-रूप-वरुण-लोकादि-दर्शनान्ते वात्सल्यादि-भावाधिक्यत्वेनैश्वर्य-ज्ञानेऽप्य् असम्भ्रमाद् एवैश्वर्याननुसन्धान-लक्षणं मोहनं तत् न योग-मायया नापि मायया, किन्तु प्रेम्ण एव स स्वभावः यः खलु भगवद्-ऐश्वर्य-ज्ञानम् आवृण्वन् चिन्मय-ममता-रशनया श्री-कृष्णं निबध्य प्रतिक्षणं तस्मिन् स्नेहाधिक्यम् उत्पादयन् तन्-माधुर्यास्वाद-महोदधौ भक्त-जनं निमज्जयतीत्य् असाधारण-लक्षण-ज्ञाप्यो भवत्य् अत एव तत्रोक्तं—वैष्णवीं व्यतनोन् मायां पुत्र-स्नेह-मयीं विभुः [भा।पु। १०.८.४३]इति पुत्र-स्नेह-मयत्वं वात्सल्य-प्रेम्णोऽसाधारणं लक्षणं मोहनत्वेन माया-साधर्म्यान् मायाम् इति ॥२५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अपि च, विष्णोर् माया च सम्भविष्यति प्रकटिष्यति । प्रभुणा तेनैवादिष्टा सती । कीदृशीत्य् आह—भगवती । पराख्या योगाख्या च येश्वरीत्य् उच्यते । परायाम् माया-शब्दः ।
स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः ।
अतो माया-मयं विष्णुं प्रवदन्ति सनातनम् ॥ इति श्रवणात् ।
यथांशेन स्व-प्रतिच्छवि-भूतेन प्रधानेन त्रिगुणेन जगन् मोहितम् । तथा च त्रिगुणया सह परा सम्भविष्यतीत्य् अर्थः । किम् अर्थम् ? तत्राह—कार्यार्थ इति । देवकी-सप्तम-गर्भ-समाकर्षण-यशोदास्वापनादि-सम्पादनाय । त्वच्-छत्रुः क्वाप्य् अभूद् इति कंस-वञ्चनादि-सम्पादनाय चेत्य् अर्थः । आद्यं परया सम्पाद्यते । न हि तत्र त्रिगुणा प्रभवेत् । द्विईत्यं तु त्रिगुणया, तादृश-दुष्टेषु तस्या एव प्रभावात् पराख्य-स्वरूप-शक्तेर् अंशस् त्रिगुणेति दृष्टं नारद-पञ्चरात्रे—
जानात्य् एका परा-कान्तं सैव दुर्गा तद्-आत्मिका ।
या परा परमा शक्तिर् महा-विष्णु-स्वरूपिणी ॥
यस्या विज्ञान-मात्रेण पराणां परमात्मनः ।
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा ॥
एकेयं प्रेम-सर्वस्व-स्वभावा श्री-कुलेश्वरी ।
अनया सुलभो ज्ञेय आदि देवोऽखिलेश्वरः ॥
अस्या आवरिका शक्तिर् महा-मायाखिलेश्वरी ।
यया मुग्धं जगत् सर्वं सर्व-देहाभिमानतः ॥ इति च ।
एकेत्य् एकानंशाभिधानेत्य् अर्थः ॥२५॥
॥ १०.१.२६ ॥
श्री-शुक उवाच—
इत्य्-आदिश्यामर-गणान् प्रजापति-पतिर् विभुः ।
आश्वास्य च महीं गीर्भिः स्व-धाम परमं ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजापतीनां मरीच्य्-आदीनां पतिर् ब्रह्मा गीर्भिः गीयन्त इति गयः गायतेः क्विपीत्वम्, गीर् वाणी च सुरा पत्नी गी रम्या गीः सुधाभिधा इति सौभरिः । ईर्यन्त उच्चार्यन्त इतीरः । ईर् वाक् प्रोक्ता तथेरा च भूमौ मध्ये शुभे स्त्रियाम् इति द्विरूप-कोशः । तथा ग्यो रम्याश् च ता ईरो वाचो गीरस् ताभिः रम्यवाग्भिः । आश्वास्य सांत्वयित्वा । परमं ब्रह्माण्डान्तर्वर्ति-सर्वलोकेभ्यो भूरादिभ्य उत्कृष्टं परतमं परं मा यस्मात् तद् इति व्युत्पत्तेः ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अमर-गणान् सुर-समूहान् । यद् वा, अमरान् गणांश् च । गणाः—देवानुगा गन्धर्वादयः श्री-भगवज्-जन्मोत्सवादौ गीत-वाद्यार्थम् उपयुक्ताः । आदेशे योग्यताम् आह—प्रजापतीनां मरीच्य्-आदीनाम् अपि पतिः, यतो विभुः, उक्तार्थम् एवेदम् ।
यद् वा, अत एव जगताम् अमर-गणानां वा प्रभुर् इति । श्लेषेण श्री-भगवद्- अवतार-साधनाद् इदानीम् एव प्रजानां तत्-पतीनां च पालकत्वं विभुत्वं च सिद्धम् इति । गीर्भिः—“त्वम् एव धन्यासि, अचिरात् तन्-मधुर-पदैर् भूषिता भविष्यसि” इत्य्-आदिभिः । परमं सत्य-लोक-वर्तीति विदूरस्थ-तत्रत्य-मूर्तिमद्-वेदादि-निज-परिवाराणां साक्षात् श्री-भगवद्-अवतार-वार्तया सन्तोषणार्थम् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति श्री-विष्ण्व्-आदेशानुवाद-प्रकारेण आदेशे योग्यताम् आह—प्रजापतीनां मरीच्य्-आदीनाम् अपि पतिः यतो विभुः, उक्तार्थम् एवेदं । श्लेषेण भगवद्-अवतार-साधनाद् इदानीम् एव प्रजानां तत्-पतीनां च पालकत्वं विभुत्वं च सिद्धम् इति । गीर्भिः—“त्वम् एव धन्यासि, अचिरात् तन्-मधुर-पदैर् भूषिता भविष्यसि” इत्य्-आदिभिः । परमं सत्य-लोक-वर्तीति विदूरस्थ-तत्रत्य-मूर्तिमद्-वेदादि-निज-परिवाराणां साक्षात् श्री-भगवद्-अवतार-वार्तया सन्तोषणार्थम् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति श्री-विष्ण्व्-आदेशानुवाद-प्रकारेण ॥२६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : इतीति । विष्ण्व्-आज्ञानुवाद-प्रकरणेन । परंअं स्व-धाम सत्य-लोकम् ॥२६॥
॥ १०.१.२७ ॥
शूरसेनो यदुपतिर् मथुराम् आवसन् पुरीम् ।
माथुरान् छूरसेनांश् च विषयान् बुभुजे पुरा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भोजेन्द्र-बन्धनागारेऽवताराय प्रस्ताव-कथाम् आह—शूरसेन इत्य्-आदिना यावद् अध्याय-समाप्ति । मथुराम् आवसन् मथुरायां वसन् । विषयान् देशान् ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुरसेनः कार्तवीर्य-सुतः तस्य पुत्र-सह-स्नेषु पञ्चैवोर्वरिता मृधे । जयध्वजः शूरसेनो वृषभो मधुरूर्जितः इति नवम-स्कन्धोक्तेः । मधुरां मथुरायाम् उपान्व्-अध्य्-आङ्वसः इत्य् आधारस्य कर्मत्वाद् द्वितीया । मथुरायाः प्रान्ते माथुरास् तान् । शुरसेनेनाधिष्ठिताः सूरसेनास् तान् । श्री-वाल्मीकीये तु शत्रुघ्न-कृत-लवण-वधोत्तरं वर-दानार्थम् आगत-देवेभ्यः—
शत्रुघ्न इमं वरं वव्रे ।
इयं मधुपुरी रम्या मथुरा देव-निर्मिता ।
निवेशं प्राप्नुयाच् छीघ्रम् एव मे\ऽस्तु वरः परः ॥
तं देवाः प्रीत-मनसो बाढम् इत्य् एव राघव ।
भविष्यति पुरी रम्या\॥।
शुरा सेना रस्यां शुरस्य शत्रुघ्नस्य वा सेना यस्यां सा शुरसेना मधुरैवेति ज्ञयते । तत् प्रान्त-देशाश् च तेनैव निवेषितः सूरसेन-संज्ञो\ऽभूद् इति । विषयान् देशान्, नीवृज् जन-पदी देशो विषयस् तूपवर्तनम् इत्य् अमरः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-मथुरायाम् श्री-भगवद्-अवतरणं वक्ष्यन्न् आदौ तत्-कारणम् आह—शूरसेन इति द्वाभ्यां । स्व-गणैः सर्व-चित्तस्य मथनाद् विलोडनान् मथुरा, तां पुरीं पुरीत्वेन प्रसिद्धाम् । किं वा, तत्रापि पुरीं श्री-यमुना-तटे पुरा भगवता श्री-शत्रुघ्नेन वासितां नागरीम् । माथुरान् मथुरा-मण्डल-सम्बन्धिनः । तान् एव शूरसेनाश् च तद्-भुक्तत्वेन तन्-नाम्नैव प्रसिद्धान् देशान् बुभुजे उपबुभुजे । यद् वा, बुभुजे यतो यदु-पतिर् यदु-कुल-श्रेष्ठो ययाति-शापेन राजत्वाभावात् पतिर् इत्य् उक्तं, न च राजेति । अत एव बुभुज इति, अग्रे च भू-भुजाम् इति । पुरेति तस्य पूर्व-पूर्वतरत्वात् । तच् चोक्तम् एव नवम-स्कन्धे ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-मथुरायाम् भगवद्-अवतरणं वक्ष्यन्न् आदौ तत्-कारणम् आह—शूरसेन इति द्वाभ्यां । मथुराम्,
मथ्यते तु जगत् सर्वं ब्रह्म-ज्ञानेन येन वा ।
तत्-सार-भूतं यद् यस्यांमथुरा सा निगद्यते ॥ [गो।ता।उ। २.६०]
इति आर्थर्वणिक-गोपाल-तापनी-श्रुतौ । येन ब्रह्म-ज्ञानेन वा-शब्दस्य समुच्चयार्थत्वाद् भक्ति-योगेन वा सर्वं जगन् मथ्यते, तज् ज्ञानिनाम् तद् भक्ति-योगिनां च विलाप्यते । तद् यत् प्रसिद्धं ज्ञानादि-द्वयं स्वस्य भगवच्-छ्री-कृष्ण-निष्ठत्वात् सार-भूतं यस्यां वर्तते, सा मथुरा निगद्यत इत्य् अर्थत्वात् मथ्नाति सर्वं तद् इतरं खण्डयतीति तन् मण्डलम् । तत्रापि पुरीं तन्-मध्यस्थ-कमल-कर्णिकाश्रितान् माथुरान् मथुरा-मण्डल-सम्बन्धिनः तद्-दक्षिण-भागानुगतान् शुरसेनांश् च तत्-तन्-नाम्नैव प्रसिद्धान् देशान् बुभुजे उपबुभुजे । पुरेति तस्य पूर्व-पूर्वतरत्वात् । तच् चोक्तम् एव नवम-स्कन्धे ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वसुदेव-गृहे जन्म वक्ष्यंस् तद्-उपयोगिनीं कथाम् आह—शूर इति । विषयान् देशान् ॥२७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वसुदेव-गृहे हरेर् जन्म कथयिष्यंस् तद्-उपयोगिनीं कथाम् आह—शूर इति । विषयान् देशान् ॥२७॥
॥ १०.१.२८ ॥
राजधानी ततः साभूत् सर्व-यादव-भूभुजाम् ।
मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः शुरसेनम् आरभ्येत्य् अर्थः । राजधानी राज्ञो नित्यं यत्र वासो राजधानी तु सा पूरी इत्य् अभिधानात् । यद् वा, राज्ञां प्रधान-नगरं राजधानीति कथ्यते इति शब्दार्णवः ।
मथ्यते तु जगत् सर्वं ब्रह्म-ज्ञानेन येन वा ।
तत् सार-भूतं यद्य् अस्यां मथुरा सा निगद्यते ॥ [गो।ता।उ। २.६०] इति तापनीय-श्रुतेः ।
मथुरायां स्थितिर् ब्रह्मन् सर्वदा मे भविष्यति ।
मथुरायां विशेषेण मां ध्यायन् मोक्षम् अश्नुते ॥ इति स्मृतेश् च ।
यत्र मथुरायां संनिहितः स्थितः । नित्यं संनिहितः इत्य् अनेन स्वयं भगवान् परिपूर्णः कृष्णस् तत्र स्व-धामनि सदा वर्तमान एवाविर्भूय प्रपञ्च-गोचरी-भवति न तु कुतश्चिद् वैकुण्ठादिभ्य आगत्यावतरतीति व्यञ्जितम् ।
किं च, तद्-आविर्भाव-समये वैकुण्ठ-श्वेतद्वीपादिभ्यस् तद्-अंशा आगत्य तत्र मिलिता भवन्ति, लीलान्ते पुनस् तत्र तत्र यान्तीति तेषाम् एव वैकुण्ठादिभ्यो\ऽवतरणं चेति प्रसिद्धिर् ज्ञेया, परावरेशो महद्-अंश-युक्तो ह्य् अजोऽपि जातो भगवान् यथाग्निः [भा।पु। ३.२.१५] इत्य्-आदिषु तृतीये तथा व्याख्यानात् । इति विश्वनाथः श्री-सनातन-गोस्वामी तु नित्यं कालादि-दोषेणान्त्यत्रेवान्तर्धानंनिरस्तम् । अस्याश् च नित्यत्वं पाद्म-निर्वाण-खण्डे—
अहो न जानन्ति नरा दुराशयाः
पुरीं मदीयां परमां सनातनीम् ।
सुरेन्द्र-नागेन्द्र-मुनीन्द्र-संस्तुतां
मनोरमां तां मथुरां पराकृतिम् ॥ इति ।
तापिन्याम् अपि, तासां मध्ये साक्षाद्-ब्रह्म-गोपाल-पुरी हि [गो।ता।उ। २.२४] इति ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत आरभ्य सा सुप्रसिद्धा अनिर्वचनीय-माहात्म्या वा मथुरा सर्व-यादव-भूभुजां निखिल-यदु-वंश-क्षिति-भृतां राजधानी कटकम् अभूत् । राजधानीति शुरसेनादीनां यदुपतित्वेन राजवद् व्यवहारत्वात् । सर्वेषाम् एव तेषाम् राजनीत्य् अत्र हेतु-विशेषम् अःअ—यत्र यस्यां भगवान् सर्वैश्वर्य-युक्तः श्री-युक्तः सन्निहितः, तत्रत्यानां निकटे तिष्ठतीत्य् अर्थः । तत्र च मथुरेत्य् एव हेतुर् ज्ञेयः, तया तस्यापि मनो-विलोडनात् । नित्यम् इति कालादि-दोषेण नान्यत्रैव तद्-अन्तर्धानं निरस्तम्, अस्याश् च नित्यत्वात् । तथा च पाद्मे श्री-भगवद् वाक्यम्—
अहो न जानन्ति नरा दुराशयाः
पुरीं मदीयां परमां सनातनीम् ।
सुरेन्द्र-नागेन्द्र-मुनीन्द्र-संस्तुतां
मनोरमां तां मथुरां पराकृतिम् ॥ इति ।
हरिः परम-मोहन-रासादि-लीलया मनोहरः । एवं च श्री-वैकुण्ठ-लोकाद् अप्य् उत्कर्षः सूचितः । अत एवोक्तं पाद्मे पाताल-खण्डे—अहो मधु-पुरी धन्या वैकुण्ठाच् च गरीयसी इति ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः तद् आरभ्य सा सुप्रसिद्धा अनिर्वचनीय-माहात्म्या वा राजधानीति ययाति-शापे\ऽपि शुरसेनादीनां महाप्रभावत्वेन राज-दुर्लभ-व्यवहारत्वात् । अतो भूभुजाम् इत्य् अप्य् उक्तम् । सर्वेषाम् एव तेषाम् राजनीत्य् अत्र कैमुत्यम् अःअ—यत्र यस्यां भगवान् स्वयं भगवत्तया विलक्षण-सर्वैश्वर्य-युक्तः तथा हरिः विलक्षण-रूप-गुण-लीला-माधुर्येण सर्व-मनोहरो यः स श्री-कृष्णो\ऽपि सन्निहितः । तत्रत्यानां निकटे तिष्ठतीत्य् अर्थः । तत्र च मथुरेत्य् एव हेतुर् ज्ञेयः, तया तस्यापि मनो-विलोडनात् । नित्यम् इति कालादि-दोषेण नान्यत्रैवान्तर्धानं निरस्तम् अस्याश् च नित्यत्वम् आनीतम्, तथा च पाद्मे निर्माण-खण्डे श्री-भगवद्-वाक्यम्—
अहो न जानन्ति नरा दुराशयाः
पुरीं मदीयां परमां सनातनीम् ।
सुरेन्द्र-नागेन्द्र-मुनीन्द्र-संस्तुतां
मनोरमां तां मथुरां पराकृतिम् ॥ इति ।
तथा च गोपालोत्तर-तापनी-श्रुतिः मध्ये साक्षाद्-ब्रह्म-गोपाल-पुरी हि [गो।ता।उ। २.२४] इति । किं च, तद् अप्य् एते श्लोकाः—
प्राप्य मथुरां पुरीं रम्यां10 सदा ब्रह्मादि-सेविताम् ।
शङ्ख-चक्र-गदा-शार्ङ्ग-रक्षितां मुसलादिभिः ॥
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [गो।ता।उ। २.३३-३४] इति ।
त्रिभी रामादिभिः शक्त्या रुक्मिण्येत्य् अन्वयः । एवं वैकुण्ठ-लोकाद् अप्य् उत्कर्षः सूचितः । अत एवोक्तं पाद्मे पाताल-खण्डे—अहो मधु-पुरी धन्या वैकुण्ठाच् च गरीयसी इति । तद् एवम् एकस्य स्वयं भगवत आस्पदत्वाद् गोलोकादीनाम् एकात्मकतैव ज्ञेया ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नित्यं सन्निहित इत्य् अनेन स्वयं भगवान् परिपूर्णः श्री-कृष्नस् तत्र स्व-धामनि सदा वर्तमान एवाविर्भूय प्रपञ्च-गोचरी-भवति, न तु कुतश्चिद् वैकुण्ठादिभ्य आगत्यावतरतीति व्यञ्जितम् । किं च, तद्-आविर्भाव-समये वैकुण्ठ-स्वेत-दीपादिभ्यस् तद्-अंशा आगत्य तत्र मिलिती-भवन्ति लीलान्ते त एव पुनस् तत्र तत्र यान्तीति तेषाम् एव वैकुण्ठादिभ्यो\ऽवतरणं वैकुण्ठाद्य् आरोहण प्रसिद्धिर् ज्ञेया परवरेशो महद्-अंश-युक्तो ह्य् अजोऽपि जातो भगवान् यथाग्निः [भा।पु। ३.२.१५] इत्य्-आदिषु तृतीये तथा व्याख्यानात् ॥२८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : राजधानी नृपति-वासः । यत्र नित्यं सन्निहित इत्य् अनेन तस्याश् च नित्यत्वम् उक्तम् । नित्यां मे मथुरां विद्धि नित्यं वृण्दावनं तथा इति पाद्मोक्तेश् च । किं च, सर्वादिक-कल्पेऽवतरिष्यन् कृष्नः स्वयं तत्-परिकरांश् च प्राग् आविर्भाव्य तस्याम् अवतरति । विहृत्य तस्यां एवान्तर्धत्ते । पुनः समये सत्य् एवं यावत् प्राकृतिकः, प्रलयो न स्यात्, न तु प्रति-समयं, कुतश्चिद् वैकुण्ठाद् आगत्यावतरतीति सूच्यते । किं च, तद्-अवतार-समये परव्योमादिभ्यो धामभ्यस् तद्-अधीशांशास् तस्मिन् सम्भवन्ति । तल्-लीलावसाने स्व-स्व-धामानि गच्छन्ति । परवरेशो महद्-अंश-युक्तो ह्य् अजोऽपि जातो भगवान् यथाग्निः [भा।पु। ३.२.१५] इति तृतीय-वचनात् । तैर् एव तस्य तत्-तल्-लीलास् तस्यां भवन्ति । प्राकृतिके प्रलये तु प्रकाश-द्वयम् एकतां नीत्वोपरितने स्व-लोके विराजन्त इति तत्त्व-विदः ॥२८॥
॥ १०.१.२९ ॥
तस्यां तु कर्हिचिच् छौरिर् वसुदेवः कृतोद्वहः ।
देवक्या सूर्यया सार्धं प्रयाणे रथम् आरुहत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सूर्यया नवोढया । प्रयाणे प्रयाणार्थम् ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सूर्यया, सूर्या स्याद् औषधी-भेदे सूर्य-भार्या नवोढयोः इति धरणि-देवः । तस्यां मथुरायाम् । कृतोद्वहः कृत-विवाहः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रैव कंस-कारागारे श्री-भगवतो जन्म वक्तुं तत्-प्रसङ्गम् आरभते—तस्यां हि इत्य्-आदिना । हि एव । तस्यां मथुरा-पुर्यां कर्हिचित् चिर-काले तथैवातीते सति कदाचिद् इत्य् अर्थः । शौरिः शूरस्य पुत्र इति देवक-कन्या-विवाह-योग्यतोक्ता । प्रयाणे विवाहानन्तरं निज-गृहं गन्तुम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रैव कंस-कारागारे श्री-भगवतो जन्म वक्तुं तत्-प्रसङ्गम् आरभते—तस्यां त्व् इत्य्-आदिना । तु भिन्नोपक्रमे । तस्यां मथुरा-पुर्यां कर्हिचित् चिर-काले प्रयाणे विवाहानन्तरं निज-गृहं गन्तुम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूर्यया नवोढया । प्रयाणे विवाहोत्तर-दिवसे निज-गृहं प्रयातुम् ॥२९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सूर्यया नवोढया । प्रयाणे उद्वाहोत्तर-वासरे स्व-गृहं प्रयातुम् । एतद् उद्वाहे द्रोण-पर्वणि विशेषः—
यदोर् अभूद् अन्ववाये देवमीढ इति श्रुतिः ।
यादवस् तस्य च सुतः शूरस् त्रैलोक्य-संमतः ॥
शूरस्य शौरिर् नृ-वरो वसुदेवो महायशाः ।
धनुष्य् अनवरः शूरः कार्तवीर्य-समो युधि ॥
तद्-वीर्यश् चापि तत्रैव कुले शिनिर् अभून् नृपः ।
एतस्मिन्न् एव काले तु देवकस्य महात्मनः ॥
दुहितुः स्वयंवरे राजन् सर्व-क्षत्र-समागमे ।
तत्रैव देवकीं देवीं वसुदेवार्थम् आप्तवान् ॥
निर्जित्य पार्थिवान् सर्वान् रथम् आरोपयच् छिनिः ।
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः ॥
नामृष्यत महातेजाः सोमदत्तः शिनेर् नृप ॥ [म।भा। ७.११९.६-११] इत्य्- आदिना ॥२९॥
॥ १०.१.३० ॥
उग्रसेन-सुतः कंसः स्वसुः प्रिय-चिकीर्षया ।
रश्मीन् हयानां जग्राह रौक्मै रथ-शतैर् वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रश्मीन् प्रग्रहान् ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रश्मीन् प्रग्रहान्, रश्मिः पुनान् दीधितौ च पक्ष-प्रग्रहयोर् अपि इति मेदिनी। विवाह-काले रथ-रश्मि-ग्रहणम् अत्यन्त-बन्धूनां कार्यम् इति दर्शनार्थं रश्मि-ग्रहणं कृतवान् इति व्यज्यते । रौक्मैः सौवर्णैः, रुक्मं तु काञ्चने लोहे इति मेदिनी ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उग्रसेनस्य सुत इति स्वसृत्व-साधनार्थम् । तथा तदानीम् उग्रसेनस्य तत्राधिपत्येन कंसस्यापि तादृशत्व-बोधनार्थं च । अत एव स्वर्ण-मयैर् असङ्ख्यै रथैर् वृतः सन् जगद्-धिंसया कंस-नाम्ना प्रसिद्धो\ऽपि, कसि-धातोः शातनार्थत्वात् । हयानां रश्मीन् जग्राह, स्वयम् एव सारथ्यम् अकरोद् इत्य् अर्थः । किम्-अर्थम् ? स्वसुर् देवक्याः प्रियं कर्तुम् इच्छया । पाठान्तरेऽपि स एवार्थः । भग्नी-शब्दस्यापि वृत्तेः । तथा च द्विरूप-कोषे, भग्नी च भगिनी चैव इति । अत एव माघ-माहात्म्ये—
विप्रं तं प्रति सर्वास् ता वयसानुपमाः पुनः ।
शोभन्ते स्म यथा भग्न्यो मिथस् ताः स्व-सखी-वृताः ॥ इति ।
तस्याम् अमुष्य महा-स्नेहः सूचितः । एतद्-आदिकं सर्वं कंसस्य वक्ष्यमाण-दुश्चेष्टयात्यन्त-खलत्व-ज्ञपनार्थम् ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रापि । उग्रसेनस्य सुत इति निकट-स्वसृत्व-ज्ञपनार्थम् । तच् च पुनर् उक्तं निन्दा-सूचनार्थं जगद्-धिंसया कंस-नाम्ना प्रसिद्धो\ऽपि कसि-धातोः शातनार्थत्वात् । हयानां रश्मीन् जग्राह स्वयम् एव सारथ्यम् अकरोद् इत्य् अर्थः । “जगृहे” इति क्वचित् पाठः । “स्वसुर् देवक्याः भग्न्या” इति पाठे स एवार्थः । तथा च द्विरूप-कोषे भग्नी च भगिनी चैव इति । तस्याम् अमुष्य महा-स्नेहः सूचितः । एतद्-आदिकं सर्वं कंसस्य वक्ष्यमाण-दुश्चेष्टयात्यन्त-खलत्व-ज्ञपनार्थम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भग्न्य इत्य् अपि पाठः । भग्नीं भगिनीं चेति द्विरूप-कोशः । रश्मीन् प्रग्रहान् ॥३०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्वसुर् भगिन्या देवक्याः । रश्मीन् प्रग्रहान् । स्वयं सारथ्यम् अकरोद् इत्य् अर्थः ॥३०॥
॥ १०.१.३१ ॥
चतुः-शतं पारिबर्हं गजानां हेम-मालिनाम् ।
अश्वानाम् अयुतं सार्धं रथानां च त्रि-षट्-शतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पारिबर्हम् उपस्करम् ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विवाह-काले दुहित्रे यद् दीयमानं राज-योग्यं धनं तत्-पारिबर्हम् । पारिबर्हौ राज-योग्य-देय-द्रव्य-परिच्छदे इति मेदिनी । अयुतं दश-सहस्राणि, अयुतं दश-साहस्रे विविक्ते त्रिषु वैष्णवे इति धरणिः । त्रयश् च षट् च त्रिषट्, तानि शतानि यत्र पारिबर्हे स तथा तम् । यद् वा, त्रिगुणितानि षट् त्रिषट्, तानि शतानि यत्रेति वा नव-शतान्य् अष्टादश-शतानि वेति ज्ञायते ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, तादृश-महोत्सवे तादृशं क्रौर्यं न किल सम्भवेद् इति विवाहोत्सवं त्रिभिर् वर्णयन् आदाव् उपस्कर-प्रदानम् आह—चतुर् इति युग्मकेन । हेम्नां माला माल्यं पङ्क्तिर् वा, तद्वताम् । एतद्-अग्रेऽप्य् अनुवर्त्यम् । त्रिषट्-शतं अष्टादश-शतानि इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, तादृश-महोत्सवे तादृशं क्रौर्यं न किल सम्भवेद् इति विवाहोत्सवं त्रिभिर् वर्णयन् आदाव् उपस्कर-प्रदानम् आह—चतुर् इति युग्मकेन । हेम्नां माला माल्यं पङ्क्तिर् वा, तद्वताम् । एतद्-अग्रेऽप्य् अनुवर्त्यम् । त्रिषट्-शतं तत्-तत्-प्रकार-भेदेन सम-वर्ग-त्रयात्मकम् अष्टादश-शतम् इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पारिबर्हम् उपस्करम् ॥३१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : चतुर् इति द्विकम् । पारिबर्हम् उपस्करम् । हेम्नां मालाः सन्तोषाम् । त्रिषट् शतं तत्-तत्-प्रकार-भेदेन सम-वर्ग-त्रयात्मकम् अष्टादश-शतम् इत्य् अर्थः । सुकुमारीणां नव-यौवनानां समलङ्कृते तद्-उत्सवोपयोगि-वित्रोत्तम-वस्त्र-भूषणादिभिर् यथा-विध्य्-अलङ्कृते । प्रकर्षेण श्रद्धयादात् ॥३१-३२॥
॥ १०.१.३२ ॥
दासीनां सुकुमारीणां द्वे शते समलङ्कृते ।
दुहित्रे देवकः प्रादाद् याने दुहितृ-वत्सलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुकुमारीणां मृद्वीनाम्, सुकुमारे मृदौ त्रिषु इति मेदिनी । देवकः कंस-पितृव्यः । याने स्व-गृहात् कन्या-गमने ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुकुमारीणां नव-यौवनानाम् इत्य् अर्थः । सम्यक् विचित्रोत्तम-वस्त्र-भूषणासिना यथा-विध्यलङ्कृते प्रकार्षेण परम-श्रद्धादिना आदात् । याने प्रयान-समये । यानैर् इति पाठे शिविकादिभिः सहिते । तासां स्वयं पाद-व्रजनाक्षमत्वात् । तावत्-प्रदाने हेतुः—दुहितृषु दुहितरि वा सर्व-कनिष्ठायां तस्यां वत्सल इत्य् अर्थः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुकुमारीणां नव-यौवनानाम् इत्य् अर्थः । सम्यक् विचित्रोत्तम-वस्त्र-भूषणासिना यथा-विध्य्-अलङ्कृते । प्रकार्षेण परम-श्रद्धया साधु-प्रकारादिनादात् । याने प्रयान-समये । यानैर् इति पाठे शिविकादिभिर् विशिष्टे तान्य् आरूढे इत्य् अर्थः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : याने प्रयाण-समये ॥३२-३३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पूर्वस्य द्रष्टव्यम्।
॥ १०.१.३३ ॥
शङ्ख-तूर्य-मृदङ्गाश् च नेदुर् दुन्दुभयः समम् ।
प्रयाण-प्रक्रमे तात वर-वध्वोः सुमङ्गलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रयाण-प्रक्रमे गमनारम्भे । तावद् आदौ । वर-वध्वोः सुमङ्गलं यथा भवति तथा शङ्खाद्याः समम् एकदैव नेदुः ॥३३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रयाणस्य प्रक्रमे आरम्भे ।समं युगपत् । यद् वा, अन्यूनाधिकतयैक-रूपं यथा स्यात्, सुमङ्गलं च शोभन-शुभ-ध्वनिर् यथा स्यात् तथा नेदुः, स्वयम् अवाद्यन्त । एतच् च भावि शुभ-लक्षणम् । तातेति वात्सल्येन सम्बोधनम् । श्रि-भगवद्-अवतारासन्नतादिना प्रहर्षात् । किं वा, तादृश-महोत्सवे भाव्य् अनर्थापात-स्मरणेन शोक-वेगात् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समं युगपत् । यद् वा, अन्यूनाधिकं यथा स्यात् सुमङ्गलं च शोभन-शुभ-ध्वनिर् यथा स्यात् तथा नेदुः स्वयम् अवाद्यन्त । एतच् च भावि शुभ-लक्षणम् । हे तातेति श्री-भगवद्-अवतारासन्नतादि-जात-हर्ष-दर्शनेन वात्सल्योद्दीपनात् सम्बोधनम् । तातोऽनुकम्प्ये पितरि इति नानार्थात् । तावद् इति पाठः क्वचित्, स च वाक्यालङ्कारे ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.१.३४ ॥
पथि प्रग्रहिणं कंसम् आभाष्याहाशरीर-वाक् ।
अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसेऽबुध ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आभाष्य रे रे कंसेति सम्बोध्य । हन्ता हनिष्यति *॥*३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रग्रहो हय-रश्मिः । सोऽस्यास्तीति प्रग्रही तम् ।
प्रग्रहस् तु तुला-सूत्रे बद्धा नियमने भुजे ।
हयादि-रश्मौ रश्मौ च सुवर्णालु-महीरुहे ॥ इति मेदिनी ।
अस्या देवक्याः । अशरीरं वा वसन्तम् इति श्रुतेर् अशरीरः परमात्मा तद्-रूपा वाक् । यद् वा, अस्य वासुदेवस्य शरीरम् अशरीरं तत्-सम्बन्धिनी वाक् । यद् वा, न लक्षितं शरीरं योग-तपोभ्यां विना येषां तेऽशरीरा देवास् तेषां वाग् अशरीर-वाक् । पुत्र इति वक्तव्ये गर्भ इत्य् उक्तिस् तु कृष्णस्य सप्तम-पुत्रत्वार्थाष्टम-गर्भत्वार्थी ज्ञेयेति ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रग्रहिणं गृहीताश्व-पाशं । गर्भो\ऽर्भकः । तथा च विश्वः गर्भोभ्रणे\ऽर्भके कुक्षौ इत्य्-आदि । अबुध ! हे मूर्खेति शत्रु-मातृ-वहनात् स्व-मरणाद्य्-अज्ञानाद् वा । कंसस्य भगिनी-विषयक-स्नेहेन सद्-वृत्ततया तत्-कारणोथापनार्थं व्यग्राणां देवतानाम् आकाश-वाणीयं ज्ञेया । नयसे यां भ्रतृ-गृहं प्रापयसि । “वहस” इति पाठे स एवार्थः । किन्तु वाहनवद् वहसीति श्लेषार्थः । ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रग्रहिणं गृहीताश्व-पाशं । न लक्षितं शऋइरं यस्याम् इति मध्यम-पद-लोपः । सा चासौ वाक् चेत्य् अशरीर-वाक् सैवाहेत्य् उपचारात् शिला-पुत्रस्य शरीरम् इतिवत् । यद् वा, वक्ष्यमाणम् अर्थम् आहेति ज्ञेयं । गर्भो\ऽर्भकः । तथा च विश्वः गर्भो भ्रणे\ऽर्भके कुक्षौ इत्य्-आदि । पुत्र-शब्धम् अनुक्त्वा गर्भ-शब्द-प्रयोगश् चाग्रे कन्यायां दृष्टायाम्, कंसस्य सन्देहाभावाय नयसे यां भ्रतृ-गृहं प्रापयसि । “वहस” इति पाठे स एवार्थः । किन्तु वाहनवद् वहसीति श्लेषार्थः । अबुध ! हे मूर्खेति शत्रु-जनयित्री-वहनात् स्व-मरणाद्य्-अज्ञानाच् च । कंसो\ऽयं श्री-देवक्यां स्निग्धतांशे सद्-वृत्त इति श्री-भगवद्-अवतारे शैथिल्य-शङ्कया तत्-कारणोत्थापनार्थं व्यग्राणां देवानाम् आकाश-वाणीयं ज्ञेया । श्री-भगवत्-सम्बन्धिनं देवक्य्-आदिकं तु नासौ विहन्तुं शक्ष्यतीति निश्चयश् चात्र ज्ञेयः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रग्रहिणं गृहीताश्वपाशम् आभाष्य, अरे कंस ! इति सम्बोध्य पुत्र इत्य् अनुक्त्वा गर्भ-पदोपन्यासो\ऽष्टम्याम् कन्यायां दृष्टायाम् अपि कंसस्य सन्देहा-भावाय, देवक्यां स्व-जनन्याम् अतिस्नेहवन्तं कंसं कथं भगवान् हन्यात् ? इति चिन्ता-व्यग्राणां देवानां तस्यां कंसस्यापराधोत्पादनार्थम् इत्य् एवम् आकाशे दृष्ट-शरीराणां तेषां वाणी ज्ञेया । स्व-जन्मनि आनकदुन्दुभि-घोषं स्वस्माद् भावि भगवद्-अवतार-सूचकं मात्रादि-मुखात् श्रुतवतो वसुदेवस्य तद्-अर्थं निश्चयार्थं वसुदेव-मुखात् शोष्यन्त्या देवक्याश् च, हन्त मत्-कुक्षौ भगवान् जनिष्यत इत्य् आनन्दार्थं, मरीचि-सुतानां षण्णां कंस-हस्त-वधेन शापोद्धारणार्थं च ॥३४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रग्रहिणं गृहीताश्व-रश्मिं कंसम् आभाष्य, अरे कंसेति सम्बोध्य गर्भ-पदोक्तिः, अष्टम्यां कन्यायां दृष्टायां अपि तस्यासन्देहाय । यां वहसे रथेन भर्तृ-गृहं प्रापयसि । हे अबुधेति—शत्रु-जनयित्री-वहनात् स्व-मरणाज्ञानाच् च, स्व-मातरि स्निग्धं कंसं हरिः कथं हन्याद् इति तत्-प्राकट्य-शैथिल्य-शङ्कयातिव्यग्राणां देवानां तस्यां तस्यापराधोत्थापनार्थम् अदृष्ट-शरीराणां तेषां इयं वाणी । हरि-मातरं हन्तुं नायं शक्नुयाद् इति निश्चयश् च तेषां विज्ञेयः ॥३४॥
॥ १०.१.३५ ॥
इत्य् उक्तः स खलः पापो भोजानां कुल-पांसनः ।
भगिनीं हन्तुम् आरब्धं खड्ग-पाणिः कचेऽग्रहीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुल-पांसनः कुल-दूषणः आरब्ध उद्युक्तः । कचे केश-बन्धे ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुलं पंसति नाशयतीति **कुल-पांसनः,**पसि नाशने कर्तरि ल्युट् दीर्घी निपातनात् । पंसतीति पंसनः, पंसन एव पांसनः, कुलस्य पांसनः कुल-पांसन इति वा । कुलं पान्तीति कुलपा उग्रसेनादयस् तान् अंसति विभजत इतस् ततः करोतीति कुल-पांसनस् तम् इति वा । अंसं विभागे । अत एव कुल-दूषण इत्य् एवार्थः स्वामि-चरणैः प्रकाशितः । कचः केशे गुरोः सुते इति मेदिनी ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् उक्त इति । तद् वाङ्-मात्रेणैव, न तु तद्-अर्थ-विचारणादिनेत्य् अर्थः । यतः खलोऽधमः, क्रूरो वा । यतः पापो दुष्टः, पाप-स्वरूपो वा । ततो भोजानां यादव-भेदानां कुल-पांसनः । अत एव हन्तुम् आरब्धः । आदि-कर्मणि कर्तरि क्तः, सद्यः-प्रवृत्तः । तत्-प्रकारम् आह—खड्ग-पाणिर् इति। प्रग्रहान् विहाय दक्षिणेन करेणासिम् उद्यम्य, वामेन केश-बन्धे ताम् अग्रहीद् इत्य् अर्थः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् उक्त इति । तद् वाङ्-मात्रेणैव, न तु तद्-अर्थ-विचारणादिनेत्य् अर्थः । यतः खलः, न तु सद्-भाव-युक्तः, पापः तन्-मूर्तित्वान् न कुतश्चित् पापाश् छङ्कमानश् च यतो जन्मत एव भोजानां कुलस्यापि दूषकः किम् उत स्वस्य, अत एव हन्तुम् आरब्धः, आदि-कर्मणि कर्तरि क्तः, सद्यः-प्रवृत्तः । अहो तत्रापि न गुप्त-विषादिना किन्तु खड्ग-पाणिः। तत्रापि न च वस्त्रादि-सावरणां न विगर्हितस् पृष्टां किन्तु कचे\ऽग्रहीत् ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुलं पांसुं करोतीति कुल-पांसनः कुल-दूषण इत्य् अर्थः । आरब्ध इत्य्-आदि कर्तरि कर्मणि कर्मणि चेति क्तः । कचे\ऽग्रहीद् इति येनैव वाम-हस्तेन भगिन्याः प्रत्य् अतिशयार्थः रथ-वःअकाश्व-पाशं जग्राह, तेनैव हस्तेन सहसा तदैव भगिन्या वधार्थं तस्याः केश-पाशं जग्राह । एवं प्रग्रहं त्यक्त्वा दक्षिण-पणिना खड्गं जग्राहेत्य् अहो खल-जन-स्नेहस्य लोक-लज्जा-धर्म-भय-निरपेक्षम् एव घातुकत्वम् इति भावः ॥३५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : इत्य् उक्त एव, न तु विचारित-तद्-अर्थः । भगिनीं हन्तुम् आरब्धः सद्य एव प्रवृत्तः । आदि-कर्मणि कर्तरि चेति क्तः । खड्ग-पाणिः सन् कचे\ऽग्रहीत् । यतः खलः । योऽतिस्नेहाद् भगिन्याः सारथ्यम् अकरोत् स त्यक्त-रश्मि-प्रतोदो गृहीत-तत्-केशः खड्गेन तां हन्तुं प्रवृत्त इति खल-स्नेहस्येयं रीतिः । पापं पाप-मूर्तित्वान् न कुतश्चित् पापाच् छङ्कमानः । कुलपान् वंशधरान् अंसति कुल-पांसनः कुल-दूषण इत्य् अर्थः । अंस समाघाते ॥३५॥
॥ १०.१.३६ ॥
तं जुगुप्सित-कर्माणं नृशंसं निरपत्रपम् ।
वसुदेवो महा-भाग उवाच परिसान्त्वयन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नृशंसं क्रूरम् । मह-भाग इति । अयं भावः, स्व-जन्मनि हर्षेण देवैर् आनकदुन्दुभि-घोषणाद् भावि-भगवद्-अवतारेण शक्य-प्रतीकारता सम्भवतीति सान्त्वयन् स्तुत्या कृपा-विषयत्वेनोपपत्तिभिश् च साम-मार्गेण सम्बोधयन् ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महा-भागास् त्व् अन्ये\ऽपि महान् भागो भाग्यं शुभाशुभं यस्येति व्युत्पत्तेः, भागो भाग्यैक-देशयोः इति रुद्रः । अत आह—इत्य् अयं भाव इति । यद् वा, स्व-पत्नी-वधे प्रवृत्तम् अपि दृष्ट्वा क्रोधानुदयान् महा-भाग इति । ननु तादृशः क्रूरः कथं सान्त्वयितव्यः ? तत्राह—महा-भाग इति । भाग्यवतः प्रातिकूल्यं तु व्याघ्रादिर् अपि न करोतीति वा । स्व-जन्मनि वसुदेव-जन्मनि हेत्व्-आदिभिः संभवद्-अर्थ-प्रतिपादनम् उपपत्तिः । सान्त्वयन् साम-मार्गेण संबोधयन् प्रबोधयन् ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जुगुप्सितं निन्दितं कर्म यस्य तम्, भगिनी-वधे प्रवृत्तेः । नृशंसं सद्यस् तादृश-स्नेह-त्यागात् । निरपत्रपं तादृशोत्सवे सर्व-लोकाग्रे\ऽत्यन्त-विकर्मोद्यमात् । विशेषणानां एषां उत्तरोत्तरं दुष्टत्वे श्रैष्ठ्यम् । एवं तस्य महा-दुश्चेष्टया पुनः पुनर् निन्दा । महा-भाग इति तैर् व्याख्यातम् एव ।
तत्र स्वस्य श्री-वसुदेवस्य जन्मनि हर्षेण दैवतैर् य आनकदुन्दुभि-घोषस् तेन सूचितो यः स्वस्माद् वसुदेवाद् भागवद्-अवतारस् तेन हेतुना स्वस्माच् छक्य-प्रतीकारता सम्भवतीत्य् अर्थः । अयम् उक्तौ हेतुः । किं च, परिसान्त्वयन् । तैर् व्याख्यातम् ।
यद् वा, सान्त्वन-पूर्वकं साम्ना युक्तिभिर् भेदेन स्नेहोत्पादनेन च क्रमेण प्रबोधयन् । तत्र पञ्च-विध साम । भेदश् च द्विविधः, तथा चोक्तम्—
सम्बन्ध-लाभोपकृतिर् अभेदो गुण-कीर्तनम् ।
साम पञ्चविधो भेदो दृष्टादृष्टमयं वचः ॥ इति ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जुगुप्सितेति । भगिनी-वधे प्रवृत्तेः नृशंसं सद्यस् तादृश-स्नेह-त्यागात् निरपत्रपं तादृशोत्सवे सर्व-लोकाग्रे\ऽत्यन्त-विकर्मोद्यमात् । एवं तस्य महा-दुश्चेष्टया पुनः पुनर् निन्दा । महा-भाग इति तैर् व्याख्यातम् एव । तत्र स्वस्य वसुदेवस्य जन्मनि हर्षेण दैवतेयं [दैवतैर् य] आनकदुन्दुभि-घोषस् तेन सूचितो यः स्वस्माद् वसुदेवाद् भावी भागवद्-अवतारस् तेन हेतुना स्वस्माच् छक्य-प्रतीकारता सम्भवतीति । तत्र चेति शब्दस्य एतत् प्रकार इत्य् अर्थः । तेन च एतत् स्व-महा-भागत्वं श्री-वसुदेवो जानातीति क्रीडी-क्रियते ।
यद् वा, महाभाग इति । अयं भाव—इति श्री-शुकदेवेन श्री-वसुदेवस्यायम् अभिप्रायो\ऽभिप्रेयत इत्य् अर्थः । अयम् उक्तौ हेतुः, अत एव परिसान्त्वयन् । तच् च तैर् व्याख्यातम् ।
यद् वा, सान्त्वन-पूर्वकं साम्ना युक्तिभिर् भेदेन स्नेहोत्पादनेन च क्रमेण प्रबोधयन् । तत्र पञ्च-विधं साम । भेदश् च द्विविधः, तथा चोक्तम्—
सम्बन्ध-लाभोपकृतिर् अभेदो गुण-कीर्तनम् ।
साम पञ्चविधो भेदो दृष्टादृष्ट-मयं वचः ॥ इति ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृशंसं क्रुरं महा-भाग इति स्व-साक्षाद् एव स्वभार्यां हन्तुं प्रव्र्त्तम् अपि तं क्रोधानुदयात् धैर्य-गाम्भार्यक्षम् आचातुर्यादि-गुण-समुद्रत्वाश् च यद् वा ननु, तदृशो महाक्रुरः कथं तस्य सान्त्वनं शृणुयात् ? तत्राह—महा-भाग इति । भाग्यवतो जनस्य प्रातिकूल्यं व्याघ्र-सर्पादिर् अपि नैव करोतीति भावः ॥३६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नृशंसं क्रुरं । ननु तादृशः स कथं तत्-सान्त्वनं शृणुयात् ? तत्राह—महा-भाग इति । भाग्यवतः प्रतिकूलतां व्याघ्रादयोऽपि न कुर्वन्तीति भावः । परिसान्त्वयन् साम्ना युक्तिभिर् भेदेन स्नेहोत्पादनेन च क्रमेण प्रबोधयन् ॥३६॥
॥ १०.१.३७ ॥
श्री-वसुदेव उवाच—
श्लाघनीय-गुणः शूरैर् भवान् भोज-यशस्करः ।
स कथं भगिनीं हन्यात् स्त्रियम् उद्वाह-पर्वणि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, साम-भेदाभ्यां सम्बोधयन् । तत्र साम पञ्च-विधम् । भेदो द्वि-विधः । तद् उक्तम्,
सम्बन्ध-लाभोपकृतिर् ह्य् अभेदो गुण-कीर्तनम् ।
साम पञ्च-विधं भेदो दृष्टादृष्ट-भयं वचः ॥
तत्र श्लाघनीय-गुण इति गुण-कीर्तनम् । भगिनीम् इति सम्बन्ध-कथनम् । पुत्रिकोपमेत्य-भेदं वक्ष्यति । हन्याद् इति स्त्री-वध-निवृत्त्या यशो-लाभं दर्शयति । उद्वाह-पर्वणीति सन्तान-वृद्ध्योपकारं दर्शयति ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साम-प्रकारम् आह—संबन्ध-लाभाभेदाश् च गुण-कीर्तनम् एव च । उपकारश् च । पञ्चैव साम-भेदा इहोदिताः ॥ इति । श्लाघनीयेति । गुण-कीर्तनं, भजेति संबन्धः भगिनीम् इत्य् अभेदः, स्वहंतृजनन्या अपि स्रिया अवधेन धार्मिकत्व-यशो-रूप-लाभः, मम भार्यादानेनोपकारश् च । स्त्रियं तत्रापि भगिनीं तत्राप्य् उद्वाह-पर्वणि तत्रापि भवान् महायशस्वीति हनने कैहिकं दुर्यशो-मुत्र नरक-पातश्चेति दृष्टादृष्ट-लक्षण-भेदो\ऽपि दर्शितः । वास्तवार्थस् तु—विपरीत-लक्षणया श्लाघनीयेषु गुणः कोर्थः शून्यः गुणः शून्ये च शव्दादौ इति कोशात् । भोजाः कलह-प्रियाः प्रसिद्धास् तेषां यशः कलहाधिक्यम् । स कथं भगिनीं हन्याद् अपि तु सर्वं कुलम् इति ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रादौ साम्ना प्रबोधयति—श्लाघनीयेति । शूरैर् युद्ध-वीरैः । भवान् इत्य् आदरात् । स्त्रियं, तत्रापि भगिनीं, तत्रापि तद्-विवाहोत्सवे कथं हन्यात् ? अपि तु हन्तुं नैवार्हतीत्य् अर्थः । अन्यथा शौर्य-यशसोर् हानिः । तत्र श्लाघनीयेति गुण-कीर्तनं, भोजेति सम्बन्धः, भगिनीम् इत्य् अभेदः, कथं हन्याद् इति स्त्री-वध-निवृत्त्या यशो-लाभः, उद्वाहेति सन्तति-वृद्ध्योपकारः । श्लेषेण शूरैर् मल्लादिभिर् एव, न तु पण्डितैः साधुभिर् वा कैश्चित् । भोजानां कतिपयानां केषांचिद् एव यादव-भेदानां यशस्करो न त्व् अन्येषां । यद् वा, भोजा भोग-परा भोजका वा देवान्न-भोजिनो दुष्टास् त एव यशस्करा यशः-ख्यापका यस्येति ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रादौ साम्ना प्रबोधयति—श्लाघनीयेति । भवान् इत्य् आदरात् । स्त्रियं तत्रापि भगिनीं, तत्रापि तद्-विवाहोत्सवे कथं हन्यात् ? अपि तु हन्तुं नैवार्हतीत्य् अर्थः । अन्यथा शौर्य-यशसोर् हानिः । तत्र श्लाघनीयेति गुण-कीर्तनं, भोजेति सम्बन्धः, भगिनीम् इत्य् अभेदः, कथं हन्याद् इति स्त्री-वध-निवृत्त्या यशो-लाभः, उद्वाहेति सन्तति-वृद्ध्योपकारः ।
श्लेषेण शूरैः श्लाघनीया तेभ्यो गुणो गौणः, निकृष्ट इत्य् अर्थः । यदुषु भोजा अपि भद्राः, किन्तु तेष्व् अयम् एवैकाकी पापिष्ठ इति किं-वदन्त्या तेषां यशस्करः । स कथं भगिनीं तन्-मात्रं हन्यात् ? अपि तु सर्वम् अपि स्व-कुलं हन्याद् एवेत्य् अर्थः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्बन्ध-लाभाव् उपकृत्य-भेदौ गुण-कीर्तनम् इति प्रथमं पञ्च-विधं सामाह—श्लाघनीयेति गुण-कीर्तनं भोजेति सम्बन्धः भगिनीम् इत्य् अभेदः स्व-हन्तृ-जनन्या अपि स्त्रिया अवधेन धार्मिकत्व-यशो-लाभः मम स्व-भार्या-प्राप्त्या परोपकारश् च । स्त्रियं, तत्रापि भगिनीं, तत्राप्य् उद्वाह-पर्वणि, तत्रापि भवान् महा-यशस्वीति हनने ऐहिकं दुर्यशः परत्रिकं नरकं चेति दृष्टादृष्ट-भय-लक्षणो द्विविधो भेदश् च । स कथम् एकां भगिनीं हन्यात्, अपि तु सर्वम् एव कुलम् ॥३७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सम्बन्ध-लाभाव् उपकृत्य-भेदौ गुण-कीर्तनम् । साम पञ्च-विधं भेदो दृष्टादृष्ट-भयं वच इति साम्नः पाञ्चविध्यं भेदस्य द्वैविध्यं वर्ण्यते । तत्रादौ साम्ना प्रबोधयति—श्लाघनीयेति । स्त्रियं तत्रापि भगिनीं, तत्रापि तद्-उद्वाह-पर्वणीति । अपि तु नैव तां हन्तुम् अर्हतीति, अन्यथा शौर्य-यशसोर् हानिः । तत्र श्लाघनीयेति गुण-कीर्तनं, भोजेति सम्बन्धः, भगिनीम् इत्य् अभेदः, कथं हन्याद् इति शत्रु-जनन्याः स्त्रिया वधाद् विनिवृत्त्या यशो-लाभः, उद्वाहेति मम पत्नी-प्राप्त्या परोपकृतिश् च । स्त्रिया भगिन्या उद्वाह-पर्वणि इति तद्-धनने यशस्विनस् तव ऐहिकं दुर्यशः, परत्रिकं नरकं चेति दृष्टादृष्ट-भय-लक्षणेन द्विविधेन भेदेन च प्रबोधनम् उक्तम् । गीर् देवी त्व् एवं व्यनक्ति । श्लाघ्येषु मध्ये गुणो न्यूनः । भोजो कलहित्वेन ख्यातास् तेषां यशः कलहाधिक्यं तत्-करः स कथं भगिनीं एकां हन्याद् इति तु निखिलं कुलम् इति ॥३७॥
॥ १०.१.३८ ॥
मृत्युर् जन्मवतां वीर देहेन सह जायते ।
अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मरण-भयेन हन्मीति चेत् तथापि मरणस्यापरिहरणियत्वाद् देहान्तरस्यावश्यं-भावित्वात् तत्रापि च भोग-प्रेमास्पदत्वादीनाम् अविशेषात् तद् भयेन पापाचरणम् अयुक्तम् इत्य् अभिप्रेत्य् आह—मृत्युर् जन्मवताम् इत्य्-आदि । देहेन सहेति विधात्र ललाटे लिखितत्वाद् इति । तत्थापि काल-विलम्बार्थं हन्मीति चेत् तत्राह—अद्य वेति । अवश्यं-भाविनि मरणे विलम्ब-मात्राय न पापाचरणं युक्तम् इति भावः ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रापि देहान्तरेऽपि । अविशेषात् तल्यत्वात् । तद्-भयेन मरण-भयेन । अयुक्तम् अनुचितम् । विधात्रा ललाटे इति लिखिता चित्र-गुप्तेन ललाटे\ऽक्षरम् आलिका । आयुः कर्म च विद्या निधनं एव च इत्य् उक्तेः । यद्य् अपि जातस्य हि ध्रुवो मृत्युः इत्य् आद्य् उक्तेर् मृत्युर् अप्रतीकार्यस् तथापीति तत्र काल-विलम्बे अवश्यंभाविनीति ।
अवश्यं-भावि भावानां प्रतीकारो यदा भवेत् ।
तदा दुःखैर् न युज्येरन् नल-राम-युधिष्ठिराः ॥ इत्य्-आद्य् उक्तः ।
इति भाव इत्य् आशयः । हे वीरेति । त्वं मृत्योर् भेतुं नार्हसि । यद् वा, नहि वीराः स्त्रीषु प्रहरन्तीति भावः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : युक्तिभिः षट्-श्लोक्या प्रबोधयन् आदौ मृत्योर् अपरिहार्यत्वम् आह—मृत्युर् इति । जन्मवतां इति यथा जन्म तथा मृत्युर् अवश्यं भवेद् इति भावः । अत एव देहेन सह जायत इति तद् एव निर्धारितम् । तथा चोक्तं—जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च [गीता २.२७] इत्य्-आदि । हे वीर ! इति स-लालन-सम्बोधनम् । श्लेषेण, युद्ध-मात्रे समर्थः, न तु विचारादाव् इति ।
यद् वा, ननु मद्-वीर्यान् मृत्युर् न प्रभविष्यति ? तत्राह—वीरस्यापि देहेन सहेति । अतः प्राणिनां सर्वेषां अपि ध्रुव एव मृत्युः । वा-शब्दाभ्यां पक्षयोर् द्वयोर् अपि प्राधान्याम् बोध्यते । वै एव, तत् प्रसिद्धम् एवेत्य् अर्थः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : युक्तिभिः षट् श्लोक्या प्रबोधयन् आदौ मृत्योर् अपरिहार्यत्वम् आह—मृत्युर् इति । तथा चोक्तं—जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च [गीता २.२७] इत्य्-आदि । हे वीर ! इति प्रोत्साहन-सम्बोधनं । श्लेषेण, अत्र तु वीरत्वं नास्तीत्य् अर्थः । यद् वा, युद्ध-मात्रे समर्थः, न तु विचारादाव् इति । कथं देहेन सह जायते इति ज्ञयेत ? तत्राह—अद्य वेति । अवश्यं यत् कार्योत्पादकं यत् तत् तु तद्-अन्तर्-भूतम् एवेत्य् अर्थः । वा शब्दाभ्यां पक्षयोर् द्वयोर् अपि प्राधान्याम् बोध्यते । वै एतत् प्रसिद्धम् एवेत्य् अर्थः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अप्य् अनिवृत्तं तं युक्त्या प्रबोधयन् भो राजन् ! मृत्यु-भयेन इमां हंसि चेत् स मृत्युर् अपरिहार्य एवेत्य् आह—मृत्युर् अपि । वस्तुतः तावज् जीवानां जन्म-मृत्यू नैव स्तः, तद् अपि देहेन स्थुल-देह-सम्बन्धेनैव हेतुना जन्मवतां । स प्रसिद्धः । ह स्पस्तम् एव । मृत्युर् जायते कदा ? अद्य वा अब्द-शतान्ते वा । वा-शब्दाभ्यां सर्वथैव काल-निश्चयाभावः । अब्द-शत-मध्ये वेत्य् अर्थः । तत्र प्रमाणम् आह—मृत्युर् वै इति ।
जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च ।
तस्माद् अपरिहार्ये\ऽर्थे न त्वं शोचितुम् अर्हसि ॥ [गीता २.२७]
इति शास्त्रं स्मऋअयति हे वीरेति त्वं तु तस्माद्-बिभेतुं नैवार्हसीति भावः ॥३८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मृत्यु-भयेनैनां हन्मि चेत् तत्राह—हे वीर ! जन्मवतां लब्ध-जन्मनां देहेन सहैव मृत्युर् जायते । प्रतिक्षणं परिणामस्य दर्शनात् । वीरेति तत्र वीरत्वं न स्याद् इति भावः । तथापि काल-विलम्बार्थं हन्मीति चेत्, तत्राह—अद्य वेति । वा-शब्दाभ्यां उभयोः पक्षयोः प्राधान्यं बोध्यते । तथा चावश्यके मृत्यौ सति विलम्ब-मात्रार्थम् ईदृश-पापार्जनं न युक्तम् इति । अनुपार्जित-पापस्य पुनर् जन्मनि सुख-भोगो भविष्यत्य् एवेति भावः ॥३८॥
॥ १०.१.३९ ॥
देहे पञ्चत्वम् आपन्ने देही कर्मानुगोऽवशः ।
देहान्तरम् अनु प्राप्य प्राक्तनं त्यजते वपुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अस्मिन् देहे गते यदि देहान्तरं न स्यात् तदा युज्येत पापेनापि तत् पालनम्, नतु तद् अस्तीत्य् आह—पञ्चत्वम् आपन्न इति । आपन्ने आपन्न-प्राये । कर्म-वशाद् अयत्नत एव प्रथमं देहान्तरं प्राप्य पश्चात् पूर्वं वपुस् त्यजति ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र विषये\ऽन्यद् अप्य् आह—किं चेति । तत्-पालनं देह-पालनम् । तद् अस्तीति देहान्तराभवोऽस्तीति । अवश इति कर्मानुगत्वात् । यद् वावशो भगवद्-वशः । त्यजत इत्य् आर्षम् आत्मनेपदम् ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, सत्यं मृत्युर् भवितैव, किन्तु देहाभावेन भोगासिद्ध्या कञ्चित् कालं भोगार्थं देह-रक्षा युक्तैव ? तत्राह—देह इति । पञ्चत्वम् इति पञ्च-भूतैर् आरब्धत्वेन विकारित्वात् पञ्च-भूतातमतापत्त्या तस्य मृत्युर् घटेतैवेति भावः । देहीति देहाद् भिन्नत्वेन तस्य नाशो निरस्तः । देहान्तर-प्राप्तौ हेतुः—कर्मानुग इति कर्मनाम् अवश्य-भोग्यत्वात् । न च तत्र प्रयासोऽस्तीत्य् आह—अवशः, कर्म-वशात् स्वत एव तत्-सिद्धेर् इत्य् अर्थः । अनुत्यजत इत्य् अन्वयः, आत्मनेपदम् आर्षम् ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, सत्यं मृत्युर् भवितैव, किन्तु देहाभावेन भोगासिद्ध्या कञ्चित् कालं भोगार्थं देह-रक्षा युक्तैव ? तत्राह—देह इति । पञ्चत्वम् इति पञ्च-भूतैर् आरब्धत्वेन कदाचिद् विच्छेदापत्तिश् च घटेतैवेति भावः देहीति देहाद् भिन्नत्वेन तस्य नाशो निरस्तः, देहान्तर-प्राप्तौ हेतुः कर्मानुग इति कर्मनाम् अवश्यम् आर्षम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देह-प्राप्ति-त्यागाव् एव जीवस्य जन्म-मृत्यू । तौ त्व् आवश्यकाव् एवेत्य् आह—देहे पञ्चत्वं मृत्युम् आपन्ने आपन्न-प्राये देहान्तरं प्राप्य । अनु पश्चात् । प्राक्तनं वपुस्त्यजति, न च विषय-भोग-साधनम् एव देवो मे नङ्क्ष्यतीति विषीदितुम् अर्हसीत्य् आह—कर्मानुग इति । यदि तव सुख-भोगादृष्टम् अस्ति, तर्हि तत्रैव प्राप्तव्ये देह एव भोगो भविष्यतीति भावः । तस्माद् इदं स्त्री-वध-लक्षणं पापं दुःख-भोग-साधनं माकार्षीर् इति द्योतितम् ॥३९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भावं स्फुटयन्न् आह—देह इति । देहे पञ्चत्वं मरणापन्ने सति, आदि-कर्मणि क्तः । देही जीवो देहान्तरं प्राप्य, अनु पश्चात्, प्राक्तनं वपुस् त्यजति । कर्मानुग इति कर्म-रचिते पर-देहे भोगः स्याद् एवेति । भोग-साधनत्व-बुद्ध्या वर्तमान-देह-रक्षायै पापाचरणं नोचितम् इति भावः । अवश इति तद्-रक्षणेऽपि नायं समर्थ इत्य् अर्थः ॥३९॥
॥ १०.१.४० ॥
व्रजंस् तिष्ठन् पदैकेन यथैवैकेन गच्छति ।
यथा तृण-जलौकैवं देही कर्म-गतिं गतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र दृष्टान्तः, व्रजन्न् इति । एकेनाग्रतो निहितेन पदा तिष्ठन् भुवम् अवष्टभ्य देहं बिभ्रत् पश्चाद् अन्येन पूर्व-प्रदेशाद् उत्थाप्य पुरो निहितेन गच्छति तद्वत् । अत्र च स्वी-कार-परित्यागौ नात्यन्त-भिन्न-विषयाव् इति स्पष्टं दृष्टान्तान्तरम् आह—यथा तृण-जलौकेति । सा हि यथा तृणान्तरम् अवष्टभ्य पूर्वं तृणं त्यजति, एव कर्म-पथे वर्तमानोऽन्यो जीवोऽपि ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र पूर्व-देह-परित्याग-देहान्तर-स्वीकारे । व्रजन् गच्छन्न् इत्य् अर्थः । अवष्टभ्य गृहीत्वा । अत्र च भूमि-दृष्टान्ते च । नात्यन्तभिन्न-विषयौ एकस्या एव पृथिव्या विषयत्वात् । जलूकेति षष्ठ-स्वर-मध्यम पाठोपीति । आहित-संस्कारेण स्थापित-संस्कारेण तद् एव श्रुत-दृष्टं ततश् चाहम् इति मननाच् च । तद् वद् अत्रापीति । स्वप्न-मनो-रथवन् मरणावस्थायाम् अपीति । प्राक्तनं पूर्वम् ॥४०-४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देहीति । अन्यथा मध्ये किञ्चिद् देहाभावेन देहित्वासिद्धेर् इति भावः । सा च नैव घटेतेत्य् आह—कर्म-गतिं गत इति ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देहीति नित्य-योगे मत्वर्थीयः जऌकेति षष्ठ-स्वर-मध्यः पाठो बहुत्र ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्तर-देह-प्राप्त्य्-अनन्तरम् एव पूर्व-देह-त्यागे दृष्टान्तः—व्रजन् गन्ता पुरुषः यथा एकेनाग्रतो निहितेन पदा उत्तर-प्रदेशे तिष्ठन्न् एव पूर्व-प्रदेशाद् उत्पाट्य पुरो निहितेनैकेन गच्छति, न तु युगपद् द्वाभ्याम् एव पद्भ्यां पूर्व-प्रदेशं परित्यज्यैव उत्तरं प्रदेशं गच्छतीत्य् अर्थः । अत्र प्राप्ति-त्यागौ वस्तुतः पृथिव्या एकस्या एवेत्य् अपरितुष्यन् दृष्टान्तान्तरम् आह—यथा तृण-जलौकेति । सा हि तृणान्तरम् अवष्टभ्यैव पूर्वं तृणं त्यजति जलौकेति षष्ठ-स्वर-मध्यो\ऽपि पाठो ज्ञेयः ॥४०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पर-देह-लाभानन्तरम् एव पूर्व-देह-त्यागे दृष्टान्तः—व्रजन् पुरुषः यथैकेन पुरो धृतेन पदा तिष्ठन् पश्चाद् अन्येन पूर्व-देशाद् उत्पाट्य अग्रे निहितेन गच्छति, न चोभाभ्याम् पादाभ्यां युगपत् पूर्व-देशं परित्यज्य पर-देशं गच्छति । अत्र प्राप्ति-त्यागाव् एकस्या भूमेर् एवेत्य् असन्तोषाद् अन्यं दृष्टान्तम् आह—यथेति । तृण-जलौका खलु तृणान्तरम् अवष्टभ्यैव पूर्वं तृणं त्यजतीति । एवं कर्म-मार्गे वर्तमानोऽन्योऽपीति ॥४०॥
॥ १०.१.४१ ॥
स्वप्ने यथा पश्यति देहम् ईदृशं
मनोरथेनाभिनिविष्ट-चेतनः ।
दृष्ट-श्रुताभ्यां मनसानुचिन्तयन्
प्रपद्यते तत् किम् अपि ह्य् अपस्मृतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देह-विषयाव् एव स्वीकार-परित्यागौ दर्शयितुं दृष्टान्तान्तरम् आह—स्वप्न इति दृष्टं राजादि-दर्शनम्, श्रुतम् इन्द्रादि-श्रवणम्, ताभ्याम् आहित-संस्कारेण मनसा तद् एवानुचिन्तयन्न् ईदृशं जाग्रद् दृष्ट-श्रुत-सदृशं देहं राजादि-रूपं किम् अप्य् अनिरुक्तं पश्यति । क्षणान्तरे च तद् एवाहम् इति प्रपद्यते मन्यते । ततश् च जाग्रद्-देहाद् अपगत-स्मृतिर् भवति पुरुषो यथेति । जाग्रत्य् एव दर्शयितुं दृष्टान्तान्तरम् आह—मनो-रथेनेति । अत्रापि दृष्ट-श्रुताभ्याम् इत्य्-आदि सर्वं योज्यम् । तथा च वक्ष्यति—
जन्तोर् वै कस्यचिद् धेतोर् मृत्युर् अत्यन्त-विस्मृतिः ।
जन्म त्वात्मतया पुंसः सर्व-भावेन भूरि-द ।
विषय-स्वीकृतिं प्राहुर् यथा स्वप्न-मनो-रथः ।
स्वप्नं मनो-रथं चेत्थं प्राक्तनं न स्मरत्य् असौ ॥ [११.२२.३९-४०] इत्य्-आदि ।
तद्वद् अत्रापि कर्म-वशाद् देहान्तरं प्राप्य प्राक्तनं त्यजतीति ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देव-विषयाव् एव स्वीकार-परित्यागौ दर्शयितुं दृष्टान्तान्तरम् आह—स्वप्न इति । दृष्टं राजादि-दर्शनं श्रुतम् इन्द्रादि-चरणारविन्दं ताभ्यां आहित-संस्कारेण मनसा तद् एवानुचिन्तयन् ईदृशं जाग्रद्-दृष्ट-श्रुत-सदृशं देहं राजादि-रूपं किम् अप्य् अनिरुक्तं पश्यति क्षणान्तरे च तद् एवाहम् इति प्रपद्यतेऽभिमन्यते । ततश् च जाग्रद्-देहाद् अपगत-स्मृतिर् भवति पुरुषो यथा तथेति । जाग्रत्य् एव तद् दर्शयितुं दृष्टान्तान्तान्तरम् आह—मनोरथेनेति । अत्रापि दृष्ट-श्रुताभ्यां इत्य्-आदि सर्वं योज्यम् । तथा च वक्ष्यति—
जन्तोर् वै कस्यचिद् धेतोर् मृत्युर् अत्यन्त-विस्मृतिः ।
जन्म त्व् आत्मतया पुंसः सर्व-भावेन भूरि-द ॥
विषय-स्वीकृतिं प्राहुर् यथा स्वप्न-मनोरथः ।
स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्य् असौ ॥ [भा।पु। ११.२२.३९-४१]
तद्वद् अत्रापि कर्म-वशाद् देहान्तरं प्राप्य प्राक्तनं त्यजतीति ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतच् च स्वानुभव-सिद्धम् अपीत्य् आशयेन दृष्टान्तान्तरम् आह—स्वप्न इति । हि एव तद् एव । अन्यत् तैर् व्याख्यातम् । यद् वा, ननु देहाद् आत्मनो भिन्नत्वे सतीदं घटेतापि । तच् च न सम्भवति, मरणादौ कदाचिद् अप्य् आत्मनो भिन्नत्वानुपलम्भात् । तत्राह—स्वप्न इति । अर्थः स एव । स्वप्ने मनोरथे च स्व-देहाभिमान-परित्यागेन देहान्तराभिनिवेशेनात्मनो देहात् पृथक्त्वाम् उपलभ्यत एव । तथा मरणेऽपि ज्ञेयम् इति भावः । एवं कर्म-वशाद् देहान्तरं प्राप्यैव पृअक्तनं देहं त्यजतीति देह-प्रप्तेर् आवश्यकता दृढीकृता ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वप्न इति तैर् अवधारितं तत्र दर्शयितुं स्वानुभावेन साधयितुम् इत्य् अर्थः । हि एव तद् एव टीकायां जाग्रद्-दृष्टेत्यादौ जागरे प्रयुक्तो जाग्रच् छब्दः एवं देहाद् आत्मनो भिन्नत्वं योगितम् अपि स्वप्ने मनोरथे च देहाभिमान-परित्यागेन देहान्तराभिनिवेशेनात्मनो देहात् पृथक्त्वा\ऽनुभवात् एवं कर्मवशाद् देहान्तरं प्राप्यैव पृअक्तनं देहं त्यजतीति देह-प्रप्तेर् आवश्यकता दृढीकृता ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीवत्य् अपि देहे प्रतिदिनं देह-प्राप्ति-त्यागाव् अनुभवेन दर्शयति—स्वप्ने यथा ईडृशं जाग्रद्-देह-तुल्यं पश्यति, स्वप्नं विनापि दर्शयति, मनोरथेन मनोरथे चेत्य् अर्थः । कः पश्यति ? इत्य् अत आह—अभिनिविष्टा अभिनिवेशवती चेतना यस्य सः ।
यद् वा, मनोरथेन विषय-वाञ्छया चित्ताभिनिवेशाधिक्यवान् पुरुषः स्वप्ने ईदृशं देहं पश्यति। अभिनिवेश-प्रकारम् आह—दृष्टं राजादि, श्रुतम् इन्द्रादि, ताभ्याम् अभ्यस्ताभ्यां जनित-संस्कारवता मनसा अनुचिन्तयन् । तत् किम् अपि राजादि-रूपम् एव प्रपद्यते राजाद्य्-उचित-विषय-भोगवद् देहम् आत्मानं पश्यतीत्य् अर्थः । अपस्मृतिः वास्तव-देह-स्मरण-शून्यः ॥४१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नन्व् एष देह एवात्मात्, ताम्बूल-राग-न्यायेन ज्ञानं तस्य धर्मः, न खल्व् एतद्-देहाद् अन्य्स्मिन्न् आत्मनि मानम् अस्ति, तस्माद् देहस्यात्मनो रक्षा कार्येति शङ्का-निरासाय देहात्मनोर् भेदम् आह त्रिभिः । स्वप्ने यथेडृशं जाग्रद्-देह-सदृशं प्रेमास्पदं देहं पश्यति, जाग्रद् अपि मनोरथेन चरन् कोऽपि राजा इन्द्रश् च भवति, तं तं देहं पश्यतीत्य् अर्थः । तस्मिन् देहे दृष्टे अभिनिविष्ट-चेतनो लब्धात्माभिमानो भवति । तत्र साधनम् आह—दृष्टं राजादि, श्रुतम् इन्द्रादि, ताभ्याम् आहित-संस्कारेण मनसानुचिन्तयन् भावयन्न् इति । अपस्मृतिर् विस्मृत-जागरद्-देहः सन्, तत् किम् अपि स्वप्नादि-शरीरं प्रपद्यते । एतद्-देहस्यात्मत्वे तद्-धर्मश् चेतनान्यत्र न सङ्क्रमते । तथा च नाना-देहानुगतात्मानुभवाद् देहाद् अन्य आत्मेति, न च ज्ञानं देहस्य धर्मस् तस्मिन् मृते तस्याप्रत्ययात् ॥४१॥
॥ १०.१.४२ ॥
यतो यतो धावति दैव-चोदितं
मनो विकारात्मकम् आप पञ्चसु ।
गुणेषु माया-रचितेषु देह्य् असौ
प्रपद्यमानः सह तेन जायते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु विचित्र-देह-हेतूनां कर्मणां कृतत्वाद् देह-विशेष-प्राप्तौ किं कारणम् अत आह—यतो यत इति । देहस्य पञ्चत्व-समये पञ्चसु गुणेषु भूतेषु माया-रचितेषु मायया नाना-देह-रूपेण रचितेषु दैवेन फलाभिमुखेन कर्मणा चोदितं नाना-विकारात्मकं मनो यं यं देहं देव-तिर्यग्-आदि-रूपं प्रति धावति । धावच् च सद्यं यम् आपाभिनिवेशेन प्राप्तं तत्र तत्रासौ देही जायन्ते । ननु मनसः कर्तृत्वात् तद् एव जायतां न त्व् अकर्तात्मेत्य् अत आह—प्रपद्यमान इति । तद् एवाहम् इति मन्यमानस् तेन सह जायत इति ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कर्मणा देह-मात्र-प्रप्ति-स्वश्यं भाविन्य् अपि देह-विशेषाप्तिः कथम् इत्य् आशङ्कते—नन्वित्य्-आदिना । तत्र कारणम् आह—यत इत्य्-आदिना । पञ्चत्व-समये मृत्यु-कालए । चोदितं प्रेरितम् । रायं देहं तत्र-तत्र तस्मिस् तस्मिन् देहे । देही जीवः यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तन्तम् एवेति कौन्तेय इत्य्-आदि-स्मृतेः । जीवस्य जननम् अयुक्तम् इत्य् आह—नन्वित्य्-आदिना । तद् एव मन एव । मनोध्यासेनात्मनो जन्मेति भावः ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, सत्यं भविता देह-मात्रं, किन्तु पुनर् मनुष्य-देहोऽतिदुर्घटः ? तत्राह—यतो यत इति । दैवेन चोदितम् इति तद्-अर्थः प्रयासान्तरं निरस्तम् । विकारात्मकम् इति मृत्यु-कालेऽप्य् अशान्तत्वम् उक्तम् । माया भागवती, तथा रचितेष्व् इति देह-वैचित्री चोक्ता । असौ अविवेकी देहादेर् भिन्नो\ऽपीति वा । प्रपद्यमानः मन्यमानः । मनुष्य-देहस्य प्राप्तौ तवेच्छा दृश्यते, तथा च तत्-प्रापकं दैवम् अनुमीयते । अतः सोऽप्य् अयत्नेन घटेतैवेति भावः ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, सत्यं भविता देह-मात्रं किन्तु पुनः राज-देहोऽतिदुर्घटः ? तत्राह—यतो यत इति । दैवेन चोदितम् इति तद्-अर्थः प्रयासान्तरं निरस्तम् । असौ अविवेकी देहादेर् भिन्नो\ऽपीति वा । प्रपद्यमानः मन्यमानः । कर्मण एव प्रबलत्वात् श्री-देवक्या जन्मान्तर-पुत्राद् अप्य् आकाश-वाण्य्-उद्दिष्टो मृत्युस् तवानिवार्य एवेति महा-दुर्गति-प्रापकम् ईदृशं पाप-कर्म त्यक्त्वा तादृश-निज-प्राचीन-कर्म-सन्देहे सति सम्प्रत्य् अपि पुनर् इतोऽपि विभूतिमद्-वपुः-प्राप्तये मार्कण्डेयवद् अस्य मृत्युर् अपि कियत् काल-निवारणाय वा सत्-कर्मैव क्रियताम् इति भावः । जन्मान्तरेत्य् अत्र श्री-हरि-वंशोक्त-षड्-गर्भ-सादृश्यं ज्ञेयम् ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, द्रष्टः श्रुतश् च विषयो दैव-प्रेरितेन मनसा स्मर्यमाणत्वात् मनस एवस्तु ततो भिन्नेनात्मना स्व-भोगार्थं स कथं लभ्यताम् ? तत्राह—यत इति । पञ्चसु विषयेषु भोग्येषु मध्ये यतो यतो यत्र यत्र विकारात्मकं मनो धावति धावच् च सत् आपतन्तं विषयम् एव प्राप्तं भवति, असौ देही जीवः तेन विषयाभिनिविष्टेन मनसा सह साहित्याद् धेतोस् तं तं विषयं प्रपद्यमानो जायते भूञ्जानो भवतीत्य् अर्थः ॥४२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मृत्यु-समये दैवेन फलाभिमुखेन कर्मणा चोदितं प्रेरितं मनो यतो यतो यं यं विकारात्मकं देव-मानवादि-देहं धावति, धावन् सत् आप लभते स्म । असौ देही पञ्चसु गुणेषु भूतेषु हरि-मायया देहाद्-रूपेण चरितेषु तेन मनसा सह जायते । प्रपद्यमानः पुत्रे पुष्टे अहम् एव पुष्टः इतिवन् मनो-धर्मम् अभिनिवेशं तस्मिन् प्राप्नुवन्न् इति बहु-देहानुगस्येकस्यात्मनस् तेभ्यो भेदः सिद्धः ॥४२॥
॥ १०.१.४३ ॥
ज्योतिर् यथैवोदक-पार्थिवेष्व् अदः
समीर-वेगानुगतं विभाव्यते ।
एवं स्व-माया-रचितेष्व् असौ पुमान्
गुणेषु रागानुगतो विमुह्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सत्यं, भविष्यत्य् एव किम् अपि देह-मात्रं, तथाप्य् अस्याति-प्रियस्य राज-देहस्य रक्षणायाकृत्यम् अपि क्रियत इति चेत् तत्राह—ज्योतिर् इति । अदश् चन्द्रादि-ज्योतिः उदक-युक्तेषु पार्थिवेषु घटादिषु । यद् वा, उदकेषु पार्थिवेषु तैल-घृतादिषु च प्रतिबिम्बेन स्थितं समीरस्य वायोर् वेगम् अनुगतं कम्पादि-युक्तं प्रतीयते यथा, एवं स्वाविद्या-रचितेषु गुणेषु देहेष्व् असौ रागेणानुगतः प्रविष्टो मुह्यत्यमिनिवेशं प्राप्नोति । अयं भावः, आत्मनस् तावद् देहाद्य्-अध्यासाज् जन्मोक्तं सह तेन जायत इति । ततश् चान्योन्य-धर्माध्यासाद् यथा देहादि-धर्माः कार्श्यादय आत्मनि प्रतीयन्ते, एवम् आत्म-धर्माः प्रेमास्पदत्वादयोऽपि देहादिष्व् इति राज-सूकर-देहयोर् विशेषाभावाद् व्यर्थो मृत्यु-प्रतीकार इति ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु सत्यं भविष्यत्य् एव किम् अपि देह-मात्रं तथाप्य् अस्यातिप्रियस्य राज-देहस्य रक्षणायाकृत्यम् अपि क्रियते ? इति चेत्, तत्राह—ज्योतिर् इति । अदश् चन्द्रादि-ज्योतिर् उदक-युक्तेषु पार्थिवेषु घटादिषु । यद् वा, उदकेषु पार्थिवेषु तैल-घृतादिषु प्रतिबिम्बत्वेन स्थितं समीरस्य वायोर् वेगम् अनुगतं कम्पादि-युक्तं प्रतीयते यथा, एवं त्व् आविद्या-रचितेषु गुणेषु देहेषु रागेणानुगतः प्रविष्टो मुह्यति अभिनिवेशं प्राप्नोति । आत्ममस् तावद् देहाद्य्-अध्यासाज् जन्मोक्तं सह तेन जायत इति । ततश् चान्योन्य-धर्माध्यासाद् यथा देहादि-धर्माः कार्श्यादय आत्मनि प्रतीयते, एवम् आत्म-धर्माः प्रेमास्पदत्वादयोऽपि देहादिष्व् इति राजसूकर-देहयोर् विशेषाभावाद् व्यर्थो मृत्यु-प्रतीकार इति भावः ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु भवतु साधारण-नर-देहः, राज-देहः सुदुर्लभः ? तत्राह—ज्योतिर् इति । अदो निष्कम्पत्वेन ख-स्थितम् अपि स्व-माया स्वाविद्या, स्वस्मिन् श्री-भगवन्-माया वा, तथैव रचितेष्व् इति मिथ्यात्वं बोधितम् । अन्यत् सर्वं तैर् व्याख्यातम् एव ।
यद् वा,, यतो यतः [४२] इत्य् अनेनैव राज-देह-प्राप्तिः साधिता । फलोन्मुख-कर्म-प्रेरित-मनोऽभिनिवेशेन मरण-समये राज्य-भोगेच्छया, मरणे या मतिः सा गतिः इत्य्-आदि-न्यायेन पुरा राजत्व-सम्भवात् ।
ननु अस्तु नाम जन्मान्तरे राज-देह-लाभः, तथापि गर्भे बाल्ये च सम्यग् विषय-भोगासिद्धेर् एतद्-देह-रक्षार्थं प्रयत्नो युक्त एव ? तत्राह—ज्योतिर् इति । यथा जलादिषु प्रतिबिम्बं चन्द्रादिकं ज्योतिर्-वायु-वेगानुगतम् एव सत् कम्पादि-युक्तं प्रतीयते, तथा गुणेषु विषयेषु रागानुवर्ती सन्न् एव जीवो विशेषेण मुह्यति—इदम् उपभुक्तम् इदं च नेत्य्-आदि-चिन्तया विकलो भवति । अतो बाल्यादौ राग-विशेषाभावात् तदानीं विषयोपभोग-दुःखं न स्यात् । यथा-रागं विषयोपभोगेन सुखं च स्याद् एवेत्य् अलं मृत्यु-प्रतीकारेणेति भावः ।
अथवा, ननु सत्यं देहो भावी, सदेष्ट-विषय-भोगस् तु दुर्लभः ? तत्राह—यत [४२] इति । गुणेषु शब्दादिषु विषयेषु मध्ये यं यं प्रति मनो धावति, तं तं देही आप प्राप्तः । निर्धार-विवक्षयातीत-निर्देशः, प्राप्नोत्य् एवेत्य् अर्थः । तत्र हेतुः—मायेति । तेषां अपि मनो-मयत्वाद् इत्य् अर्थः । अतो न तत्-साधने प्रयासोऽपीत्य् आह—प्रपद्यमानस् तं तं विषयम् उपभुञ्जानस् तेन विषयेन सहैव जायत इति बाल्यम् आरभ्यैव तत्-तद्-भोग-सिद्धिर् उक्ता ।
ननु तथापि वैदग्ध्यादि-गुणान् विना तत्-तद्-भोग-सुखं सम्यक् न स्याद् अतः सर्व-गुण-युक्तोऽयं देहो यत्नाद् रक्ष्य एव ? तत्राह—ज्योतिर् इति । मिथ्या-भूतेष्व् अपि विषयेषु राग-मात्रेणैव विमुह्यति—अहो रूपं अहो सौरभ्यम् अहो स्वादुता ! इत्य् एवम् आसक्तिं याति, न तु विचारेणातस् तद्-अर्थं भगिनी-वधो नोपयुक्त इति भावः । अन्यत् समानम् ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, देहाभिनिवेशो\ऽयम् अविद्यामय एवेत्य् आह—ज्योतिर् इति । अदः निष्कम्पत्वेन स्वस्थितम् अपि । माया भगवन्-माया, तयैव रचितेषु ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूर्यादि-किरणः उदकेषु पार्थिवेषु तैल-घृतादिषु च प्रति-बिम्ब-रूपेण स्थितं समीर-वेगानुगतं सत् विभाव्यते विविधं कम्प-वशाद् दीर्घ-ह्रस्वादि-रूपं भाव्यते, भावितं भवति । एवम् एव स्वे स्वीयाश् च ते माया-रचिताश् चेति । स्व-माया-रचितास् तेषु गुणेषु देहेषु पुमान् जीवः रागानुगतः रागो विषय-भोगेच्छालक्षणो मनो-धर्मस् तमनुगतो विमुह्यति तदीय-विषय-भोगेच्छा-व्याप्ती भवति, तेन त्वम् अपि तथा-भूत एव जीवः स्वीय-विषय-सुख-भोग-सिद्ध्यर्थ यद् एतां हंसि तद्-व्यर्थम् एव देहनाशे\ऽपि त्वदीय-शुभादृष्टस्यानश्वरत्वाद् देहान्तरस्य सुलभत्वाच् च तत्रैव ते भोगः सेत्स्यति स्त्री-वधे तु प्रत्युत देहान्तरे दुःखम् एव भोक्तव्यं स्यात् किं च कर्मणः प्रबलत्वाद् आकाश-वाण्य् उद्दिष्टो मृत्युर् देवकी-जन्मान्तर-पुत्राद् अप्य् अवश्यंभावीत्यती वरं मृत्यु-प्रतीकारार्थं मार्कण्देयेनेव सत्कर्मैव क्रियताम् इति द्योतितम् ॥४३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं देहात्मनोर् भेदं प्रतिपाद्य देह-धर्मानुत्पत्त्यादीन् देही स्वस्मिन् मन्यते, इत्य् अत्र दृष्टान्तम् आह—ज्योतिर् इति । अदश् चन्द्रादि-प्रतिबिम्ब-ज्योतिर् यथोदक-पूरितेषु पार्थिवेषु पात्रेषु समीर-वेगम् अनुगतं सत् स-कम्पं विभाव्यते, वायु-हेतुकोद-कम्पस् तत्र प्रतीयत इत्य् अर्थः ।
एवम् असौ पुमान् एव स्वे स्वीयाश् च ते माया-रचिताश् चेतिस्वमाया-रचितास् तेषु गुणेषु देहेषु पुनाम् जीवः स्वतो निर्विकारोऽपि स्वाधिकारिण्या परेश-मायया चरितेषु गुणेषु देहेन्द्रियादिषु रागेण मनो-धर्मेणानुगतो विमुह्यति—आत्मनि देहाभिमानं मोहं विन्दतीत्य् अर्थः । तथा चात्मा जन्मादि-विकार-शून्यो देहस् तु तद्वान् इति तादृशस्य रक्षायै नरक-निपात-हेतुः स्त्री-वधो न विधेयः । आकाश-वाग् उद्दिष्टान् मृत्योश् चेद् भयं, तर्हि तस्याः प्रामाण्याद् देवकी-जन्मान्तर-पुत्रान् स स्याद् एव, चिरं चेत् तद्-रक्षाम् अपेक्षसे, तर्हि मार्कण्देयादिवत् सत्-कर्मैवानुतिष्ठ ॥४३॥
॥ १०.१.४४ ॥
तस्मान् न कस्यचिद् द्रोहम् आचरेत् स तथा-विधः ।
आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुर् वै परतो भयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् उक्तं सामोपायम् उपसंहरन् भेद माह—तस्माद् इति । परत इति । अभिद्रुह्यमाणात् तत् सम्बन्धिनश् च यमाद् अपीहामुत्र च भयम् इति भेदो दर्शितः ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं पूर्वोक्तरीत्या । यस्माद् आत्मा कर्म-फल-भोक्ता तस्माद् इति । स आत्मा तथाविधः कर्मानुरूप-देहि-गृहीता । परतः परलोके वा भयं दुःख-लक्षणम् । भेदस् तु ऐहिकपार-लौकिक-भय-प्रदर्शने स्वीकृत-हठान् निवर्तनम् । प्रत्युग्रे संस्तुति-सामैवोचितम् इति पुनस् तद् एवाह—एषेति । नवोढा कृपणा भयेन रोदनादिपरा पुत्रिकोपमा पुत्रीसमेति दयां जनयति । यद् वा, पुत्तलिका-सदृशी अचेतना भद्र-द्रानभिज्ञा । इमाम् एनां कल्याणीं निरपराधां दीन-वत्सल इति श्लेषेण दीनं मृत-प्रायं वत्सम् एव लाति विप्रेभ्यो ददाति । यद् वा, दीनाद् अपि वत्सम् अपि लातिगृह्नातीति इमां त्वं हन्तुं नार्हसि काकार्हस्येवेति निर्दैव ॥४४-४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवंश्री-कृष्ण-कथारम्भे मृत्योर् आवश्कतायास् तथात्मनो विचित्र-देह-प्राप्तेर् देहाद् भिन्नतायाश् च तथा विषय-मायिकतादेश् च प्राक् प्रसङ्गः । तत्-तज्-ज्ञानं विना स्व-हिताननुसन्धानेन अननु, यतो यत इत्य् अत्राभिप्रेतं तादृशं कर्म दुष्करं तथा तादृशं ज्ञानं चेद्भवतो\ऽस्ति तर्हि कथं भवान् अस्या देह-रक्षार्थं प्रयतते ? तादृशात्मानुभवज्ञानाभावाद् इति चेत् ममापि तद् अभावात् स्व-देह-रक्षार्थो\ऽयं प्रयत्नो युक्त एवेत्य् आशङ्क्याह—तस्माद् इति । यस्मात् सत्कर्मैव श्रेयः-साधनं यस्माद् देहावेशोप्याविद्यक एव तस्मात् स तथा-बिधः पूर्वोक्त-प्रकारात् तयोः कृति-त्यागौ कर्तुम् अशक्नुवन्न् अपि तद् विपरीतं परद्रोहं न कुर्यात्, किम् अर्थम् आत्मानः क्षेमम् अन्विच्छन् इहामुत्र चात्मनः क्षेमा-र्थम् इत्य् अर्थः । यतः द्रोग्धुर् इति एवं दृष्ट-दृष्टभय-प्रदर्शनेन द्विविधो भेदः अत्र श्री-कृष्ण-कथारम्भे आत्म-ज्ञानान्य-वैराग्याकार्य-निवृत्ति-कथनानि बहिर्मुखामन्यावेश-निवारणायोपदिष्टानीति शास्त्र-प्रयोजनं च ज्ञेयम् एवं सर्वत्र ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, यतो यत इत्य् अत्राभिप्रेतं तादृशं कर्म दुष्करं तथा तादृशं ज्ञानं चेद् भवतो\ऽस्ति तर्हि कथं भवान् अस्या देह-रक्षार्थं प्रयतते ? तादृशात्मानु-भव-ज्ञानाभावाद् इति चेत् ममापि तद् अभावात् स्व-देह-रक्षार्थो\ऽयं प्रयत्नो युक्त एवेत्य् आशङ्क्याह—तस्माद् इति । यस्मात् सत्-कर्मैव श्रेयः-साधनं यस्माद् देहावेशोऽप्य् आविद्यक एव, तस्मात् स तथा-विधः पूर्वोक्त-प्रकारात् । तयोः कृति-त्यागौ कर्तुम् अशक्नुवन्न् अपि तद् विपरीतं पर-द्रोहं न कुर्यात् । किम्-अर्थम् ? आत्मानः क्षेमम् अन्विच्छन् इहामुत्र चात्मनः क्षेमा-र्थम् इत्य् अर्थः । यतः द्रोग्धुर् इति एवं दृष्ट-दृष्टभय-प्रदर्शनेन द्विविधो भेदः अत्र श्री-कृष्ण-कथारम्भे आत्म-ज्ञानान्य-वैराग्याकार्य-निवृत्ति-कथनानि बहिर्मुखामन्यावेश-निवारणायोपदिष्टानीति शास्त्र-प्रयोजनं च ज्ञेयम् एवं सर्वत्र ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स तथा-विधः अविद्यावृतः । दोग्धुर् दोह-कर्तुः पुंसः परतो यमादिभ्यो यस्माद् भयं, तस्माद् इति भेदो दर्शितः ॥४४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सामोपायं विधाय पुनर् भेदम् आह । यस्माद् दोग्धुः पुरुषस्य परतो यमादितः सकाशाद् दुर्निवारं भयं, तस्मात् तथा-विधा विनाशि-देहः कस्यचिज् जनस्य द्रोहं नाचरेत् ॥४४॥
॥ १०.१.४५ ॥
एषा तवानुजा बाला कृपणा पुत्रिकोपमा ।
हन्तुं नार्हसि कल्याणीम् इमां त्वं दीन-वत्सलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनः सामैवाह—एषेति । पुत्रिकोपमा दारु-मयीव अचेतन-प्राया ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्युग्रे संस्तुति-सामैवोचितम् इति पुनस् तद् एवाह—एषेति । नवोढा कृपणा दीन-स्वभावा भयेन रोदनादि-परेत्य् अर्थः । पुत्रिकोपमा तव पुत्री-तुल्येति स्नेहं जनयति । यद् वा, पुत्तलिका-सदृशी भद्राभद्रानभिज्ञेत्य् अर्थः । अत एव कल्याणीं निरपराधाम् इत्य् अर्थः । विशेषणानाम् एषाम् उत्तरोत्तरं कल्याणीत्वे श्रैष्ठ्यम् ऊह्यम् । दीन-वत्सल इति श्लेषेण दीनं मृत-प्रायं वत्सम् एव लाति विप्रेभ्यो ददाति । किं वा, दीनाद् अपि वत्सम् अपि लाति गृह्नातीति निन्दैव ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्युग्रे संस्तुति-सामैवोचितम् इति पुनस् तद् एवाह—एषेति । नवोढा कृपणा भयेन रोदनादि-परेत्य् अर्थः । दीन-स्वभावा वा पुत्रिकोपमा तव पुत्री-तुल्येति स्नेहं जनयति । यद् वा, पुत्तलिका-सदृशी अचेतना भद्राभद्रानभिज्ञेत्य् अर्थः । अत एव कल्याणीं निरपराधाम् इत्य् अर्थः । इमाम् एनाम् । विशेषणानाम् एषाम् उत्तरोत्तरं कल्याणीत्वे श्रैष्ठ्यम् ऊह्यम् ।
दीन-वत्सल इति श्लेषेण दीनं मृत-प्रायं वत्सम् एव लाति विप्रेभ्यो ददाति । यद् वा, दीनाद् अपि वत्सम् अपि लाति गृह्नातीति । इमां त्वं हन्तुं नार्हसि, काक्वा किन्त्व् अर्हस्य् एवेत्य् अर्थः । इति निन्दैव ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अप्य् अनिवृत्तं तम् अत्युग्रं स्तुतिभिर् इति न्यायेन पुनः सामाह—एषेति । पुत्रिकोपमा अनुकम्पनीय-पुत्री-तुल्या पुत्तलिकावद् भयेन अचेतना वा वास्तवार्थे तु शिरश् चालने नञ् दीनाद् अतिदरिद्राद् अपि वत्सम् अपि राजकरत्वेन लासि गृह्णासीत्य् अर्थः ॥४५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पुनर् अनिवृत्तं वीक्ष्य दयां लज्जां च जनयन् साम्नाह—एषेति । पुत्रिकोपमा दयनीय-पुत्री-समा पुत्तलिकावद् भयेन चैतन्य-हीनां वा । कल्याणीं निर्दोषां यतस् त्वं दीन-वत्सलः । गीर्देवी त्व् एवं सूचयति—दीनाद् अपि राजकरत्वेन वत्सम् अपि लासि गृह्णासीति ॥४५॥
॥ १०.१.४६ ॥
श्री-शुक उवाच—
एवं स सामभिर् भेदैर् बोध्यमानोऽपि दारुणः ।
न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बोध्यमान उपदिश्यमानः । स्वयं दारुणः । पुनः पुरुषादान् दैत्यान् अनुव्रतोऽनुसृत इति ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यज्ञादि-कर्म-कर्तृ-शुद्ध-कुरु-वंशोद्भूतस्य तव तुल्यता तस्य नासीत्य् आह—हे कौरव्येति । पुरुषादान् अनुव्रतः तत्-स्वभावम् आपन्नः ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भेदैर् इति बहुत्वम् । मृत्यु-सूचनेन भेदस्य गौरवात् । यद् वा, एवम् उक्त-सदृशैर् अन्यैश् च इति ज्ञेयं । पुरुषं अदन्तीति पुरुषादा राक्षसा अघादयः, तान् । भक्षकेषु सामादीनां वैयर्थ्यं युक्तम् एवेति भावः । सामादिभिर् अप्य् अनिवृत्तेर् विस्मयेन सम्बोधयति—हे कौरव्येति । यद् वा, कौरव्यो दुर्योधनस् तद्वत् स्व-कुल-नाशका ये पुरुषादास् तान् ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुरुषादा राक्षसा अघादयः, तान् अनुव्रतः, तेषां परितः-स्थितानां मतम् अनुसृत इत्य् अर्थः । भक्षकेषु सामादीनां वैयर्थ्यं युक्तम् एवेति भावः । सामादिभिर् अप्य् अनिवृत्तेर् विस्मयेन सम्बोधयति—हे कौरव्येति ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चोद्यमान उपदिश्यमानः । पुरुषादान् दैत्यान् ॥४६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : चोद्यमान प्रबोध्यमानः । पुरुषादान् दैत्यान् ॥४६॥
॥ १०.१.४७ ॥
निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः ।
प्राप्तं कालं प्रतिव्योढुम् इदं तत्रान्वपद्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आनकदुन्दुभिर् इति पदं महा-भाग इत्य् अत्रोक्ताभिप्रायम् । प्रतिव्योढुं प्रतिकर्तुम्, वञ्चयितुम् इत्य् अर्थः । इदं वक्ष्यमाणम् अपत्यार्पणम् अन्वपद्यत ज्ञातवात् ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कंसस्य निर्बन्धं हठम् । निर्बन्धो हठम् उक्तयोः इति धरणिः । विचिन्त्य इत्थम् अयं पापो बोधनईय इति विचार्य ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तं हननार्थं निर्बन्धम् आग्रहं । कालं समयं मृत्युं वा प्रतिवोढुं वञ्चयितुम् इत्य् अर्थः । तत्र काल-वञ्चने किं वा तदानीं सद्य एवेत्य् अर्थः ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इदं विचिन्त्येदम् अन्वपद्यतेत्य् अन्वयः । भूयस् तं हननार्थं निर्बन्धम् आग्रहं ज्ञत्वा बुद्ध्वा विचिन्त्य विचार्य कालं समयं मृत्युं वा प्रतिवोढुं वञ्चयितुम् इत्य् अर्थः । तत्र तदानीं सद्य एवेत्य् अर्थः । अन्वपद्यत उपायत्वेन मनसा निश्चितवान् इत्य् अर्थः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : निर्बन्धम् इति अन्वपद्यत उपायत्वेन मनसा विचारितवान् इत्य् अर्थः ॥४७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आनक-दुन्दुभिर् इति मज्-जन्मने देवैर् दुन्दुभि-वादनाद् इदम् अमङ्गलं न मे भविष्यतीति निश्चिन्वन् प्रतिवोढुम् यापयितुम् इदम् अन्वपद्यत पराममर्श ॥४७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आनक-दुन्दुभिर् इति । अस्यायं भावः—यस्य जन्म-समये देवैर् अतिहृष्टैर् दुन्दुभिर् वादितस् तस्य नेदृशम् अमङ्गलं भावीति विचिन्त्य प्राप्तं कालं मृत्युं प्रतिवोढुम् वञ्चयितुम् । तत्र तदेदम् अन्वपद्यत विनिश्चितवान् ॥४७॥
॥ १०.१.४८ ॥
मृत्युर् बुद्धिमतापोह्यो यावद् बुद्धि-बलोदयम् ।
यद्य् असौ न निवर्तेत नापराधोऽस्ति देहिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु खलोऽयम् एतन् न मन्येतेत्य् आशङ्क्याह—स्वयम् एव मृत्युर् इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आर्य-विमृष्टाप्य् अनार्यैर् नाङ्गीक्रियत इत्य् आशङ्कते—नन्व् इत्य्-आदिना । अयं कंसः । एतत् मद्-विचारितम् । वक्ष्यमाण-सुतार्पणादिना [भार्या-मोक्षणम्]{।मर्क्} । स्वयम् एव वसुदेव इत्य् अर्थः । प्राह मृत्युर् इत्य्-आदिना । अपोह्यो निराकर्तव्यः । बुद्धिश् च बलं चोदयश् च ते बुद्धि-बलोयाः ज्ञान-सामर्थ्य-वैभवाः यावन्तो बुद्धि-बलोदयास् तावन्तो मृत्यु-प्रतीकारा इति यावद्-बुद्धि-बलोदयम् । यावद् अवधारणे इत्य् अव्ययीभावः असौ मृत्युः बुद्धि-वैभवादि-सत्त्वे\ऽकार्येणापि मृत्यु-प्रतीकारः कार्यो\ऽन्यथापराधो दोषः स्याद् इति । यद् वा, अकार्येणापि मृत्याव् अनिवृत्ते\ऽकार्य-करण-लक्षणापराधो न भवति प्रतिकर्तुर् इति भावः ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपोह्यः प्रतिकार्यः परिहार्यो वा । बुद्धि-बलयोः किं वा बुद्धेर् बलं सामर्थ्यं तस्योदयः उत्कर्षः, तद्-अवधिः । अपराध उपेक्षा-दोषः । देहिन इति देह-पर-तन्त्रस्य जीवस्य ततो\ऽन्यत्राशक्तेः । किं वा, देहाभिमानिनोऽपि देह-सम्बन्धि-जन-रक्षया दोषो न स्याद् इति भावः । तथा चोक्तं—“यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ?” इति ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तत्र खलो\ऽयम् इत्य् आद्याशङ्कागभं विचारम् एव दर्शयति-मृत्युर् इति अपोह्यः प्रतिकार्यः बुद्धि-बलयोर् उदयः उत्कर्षः, तद्-अवधिः । पूर्वा बुद्धिस् तत्-सामान्यम् उत्तरात् तद्-विशेषः । असौ मृत्युः । अपराध उपेक्षा-दोषः । देहिन इति देह-तन्त्रस्य जीवस्य ततो\ऽन्यत्राशक्तेः ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपोह्यः प्रतिकार्यः यावान्बुद्धि-बलयोर् उदयो यत्र तद् यथा स्यात् तथा तस्मात् कंस-हस्तान् मृत्यु-प्रटिकारे मम तु बलस्योदयो विफल एव । बुद्धेर् उदयस् तु सफलो भवितुम् अर्हतीति भाव असौ मृत्युः ॥४८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अपोह्यः प्रतिकार्यः । यावान् बुद्धि-बलस्योदयो यत्र तद् यथा स्यात्, तथा । तथापि यद्य् असौ मृत्युर् न निवर्तेत तदोपेक्षा-हेतुकोऽपराधो यापनः ॥४८॥
॥ १०.१.४९ ॥
प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम् ।
सुता मे यदि जायेरन् मृत्युर् वा न म्रियेत चेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् उपेक्षा-दोष-परिहारायैवं करिष्यामीत्य् आह—प्रदायेति । मृत्यवे कंसाय । नन्व् इदम् अपि नैव न्याय्यम् इत्य् आशङ्क्याह—सुता इति । अस्याम् यदि मे जायेरंस् तदा यद् भावि तद् भवतु, जीवितं तु तावद् भवेद् एव । तद् अन्तरा यद्य् अयम् एव म्रियेत तदा न किञ्चिद् अन्याय्यम् ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो मृत्यूपेक्षणे देषस् तस्माद् धेतोः । उपेषा औदासीन्यम् । एवं वक्ष्यमाण-प्रकारम् । अहो पुत्र-दानं मारकाया न्याय्यम् एवेति चेत् तत्राह—नन्व् इति । अन्याय्यम् अयुक्तम् ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुत्रान् अष्टमेतरान् सर्वान् अपि प्रकर्षेण दत्त्वा जात-मात्रेणैव साक्षात् सुखम् अर्पयित्वा । मृत्यव इति तस्य साक्षान् मृत्यु-रूपत्वात् । यद् वा, तं प्रति प्रदानेन सद्यो मृत्यु-प्राप्तेः ।
कृपणाम् इति प्राग् दीन-जन-रक्षोचितम् इति भावः । सुता इत्य् अष्टमो गर्भ इत्य् आकाश-वाण्या पुत्राष्टकत्वात् । अयं च गूढो भावः—यद्य् एको द्वौ वा जायेते, तदाष्टम-पुत्रत्वाभावेन युक्त्या तस्य शङ्कां निरस्य रक्ष्याव् अपि स्याताम् । यद् वा, बाहुल्याभावेन पुत्रान् इति बहु-पुत्र-समर्पण-प्रतिज्ञाया हानिर् अपि छलेन सह्या स्याद् इति विपर्ययोऽपि सम्भवेद् इत्य् अर्थः । यत उपस्थितोऽपि मृत्युः श्री-मार्कण्डेयाजामिल-सत्यवदादीनां निवर्तते । निवृत्तो\ऽपि कुश-नमुचि-हिरण्यकशिपु-प्रभृतीनां पुनर् आपतेत् । यतो धातुर् ईश्वरस्य गतिर् इच्छा दूरत्यया, अनतिक्रम्या दुर्ज्ञेया वेत्य् अर्थः ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निश्चयम् एव दर्शयति—प्रदायेत्य् अर्धेन । अष्टमे तु जाते लब्ध-बल एव भविष्यामीति । पुत्रान् अष्टमेतरान् [एति]{।मर्क्} तात्पर्यं–तान् सर्वान् अपि प्रदाय आत्यन्तिक-देयत्वेन प्रतिश्रुत्य । मृत्यव इति तं प्रति प्रदानेन सद्यो मृत्यु-प्राप्तेः, तद्-अभेद-विवक्षया ।
कृपणाम् इति तात्कालिक-तत्-कार्पण्य-दर्शनासहिष्णुतायाः प्राबल्यं व्यञ्जयति । तत्र च स्थूणा-निखनन-न्यायेन—नन्व् इदम् अपीत्य् आशङ्का-गर्भ-विचारान्तरं दर्शयति—सुता इति सार्धेन । तत्रैव आकाश-वाण्यां कुटिल-कल्पितत्वम् आशङ्क्याह—सुता इति । तस्याः सत्यत्वम् आशङ्क्याह—विपर्यय इति । विपर्ययो\ऽपि सम्भवेद् इत्य् अर्थः । यत उपस्थितो\ऽपि मृत्युः श्री-मार्कण्डेयाजामिल-सत्यव्रतादीनां निवर्तते । निवृत्तो\ऽपि कुश-नमुचि-हिरण्यकशिपु-प्रभृतीनां पुनर् आपतेत् । यतो धातुर् ईश्वरस्य गतिर् इच्छा दूरत्यया, अनतिक्रम्या दुर्ज्ञेया चेत्य् अर्थः । अन्यत् तैः ।
तत्र श्लोक-द्वयम् एकी-कृत्यैव व्याख्या । सुता इत्य्-आदिकं, मृत्युर् वेत्य्-आदिकं चोभयत्रैव सम्बन्ध्यते, किन्तूत्तरं नञा सह तं विना च योज्यते, वा-शब्दस्योभय-पक्ष-ग्राहित्वात् । तत्र नञा विना सुता इत्य्-आदिना योजितं, तेन सह तु विपर्यय इत्य्-आदिना । अत्र वा-शब्दः कटाक्ष इति ज्ञेयम् ।
यद् वा, सुता मे यदि जायेरन् मृत्युश् च न म्रियेत । तदा यद् भावि तद् भवतु । यदि-शब्देन लब्ध-पक्षान्तरे\ऽपि सुता यदि न जायेरन्, मृत्युश् च न म्रियेत, तदा न किञ्चिद् अन्याय्यम् । सुता यदि जायेरन्, मृत्युश् च तत्-पूर्वं कथञ्चिन् म्रियेत, तदापि न किञ्चिद् इति । सुता इत्य्-आदि यथा स्थित-पक्षेऽपि विपर्ययो वा किं न स्यात् इति सरला त्व् इयं योजना । प्रदाय दत्त्वा । कदा ? तत्राह—सुता इति । ततश् च विपर्ययो वा किं न स्याद् इति ॥४९-५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आकाश-वाण्याः कुटिल-कल्पितत्वम् आशङ्क्याह—सुता इति ॥४९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रैवं करिष्यामीति स्वगतम् आह—मृत्यवे कंसाय । नन्व् इदम् अप्य् अनुचितम् इत्य् आशङ्क्याह—सुता इति । यदि जायेरंस् तदा न काचिद् अपि चिन्ता । यदि जायेरन्न् अथ च मृत्युः कंसस् तावता कालेनापि न म्रियेत, तदानुचितं स्याद् एव । देवकी तु सम्प्रति जीवेत, यदि च तावता कालेन कंसो म्रियेत, तदा न काचिद् अपि चिन्ता ॥४९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्रैवं विधास्यामीति स्वगतम् आह द्वयेन । मृत्यवे कंसाय । नन्व् एतद् अप्य् अयोग्यम् इत्य् आशङ्क्याह—सुता इति । यदि मे सुता न जायेरन्, तर्हि न काचिच् चिन्ता । यदि जायेरन्, तावतापि कालेनापि मृत्युः कंसो न म्रियेत, तदा त्व् अयोग्यम् एव स्यात् । सम्प्रति देवकी तु जीवेत, कंसे मृते तु नैश्चिन्त्यम् एव भावि ॥४९॥
॥ १०.१.५० ॥
विपर्ययो वा किं न स्याद् गतिर् धातुर् दुरत्यया ।
उपस्थितो निवर्तेत निवृत्तः पुनर् आपतेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदि च सुता भविष्यन्ति न चायं म्रियेत, तदा मत्-पुत्राद् एवास्य मरणम् इति विपर्ययो वा किं न स्यात् । ननु प्रौढस्य कंसस्य तव बालकात् कथं मृत्युः स्यात् ? तत्राह—गतिर् इति । धातुः “अस्यास् त्वाम् अष्टमो गर्भो हन्ता” इत्य् उक्तवतः । अत इदानीम् अपत्यार्पण-प्रतिज्ञैव मन्त्रः । तथा सति उपस्थितो मृत्युर् अयं तावन् निवर्तेत । निवृत्तः पुनः कालान्तरे आपतेच् चेत् तदा नापराधो ममेत्य् अर्थः । अथवास्य मत्-पुत्राद् उपस्थितो मृत्युर् अस्या वधाद्यो निवर्तेत स पुनर् अनेन सन् मन्त्रेण भवेद् एवेति । यद् वा, गतिर् धातुर् दुरत्ययेत्य् एतस्य प्रपञ्चः, उपस्थित इति ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विपर्ययो वैपरीत्यम् । विपर्ययो\ऽसम्भव इत्य् आह—नन्विति । प्रौढो युवातिवलयोः इति मेदिन्यादयः । अत्र बालकाद् अपि प्रौढमरणे धातुर् गतैर्वैचित्र्यम् आह—धातुर् ईश्वरस्य दूरत्ययातिक्रान्तुम् अशक्या यतो\ऽतः कारणात् । तथा सति अपत्यार्पणप्रतिज्ञा-मन्त्रे सति । उपस्थित इदानीम् आगतः । भक्षिते\ऽपि लशुने व्यधिर् नो नाष्टः इति न्यायेनापत्यार्पणेऽपि जीवति दुर्मति-कंसे कालान्तरे मृत्यु-भयं तद्-अवस्थम् इत्य् अस्वरसाद् आह—अथ वेति । अस्य कंसस्य । अस्या देवक्याः, न हि मन्त्रौषधाद्यैः कालो\ऽतिक्रम्यते\ऽतः किं मन्त्रेणेत्य् अरुच्याह—यद् वेति । प्रपञ्चः विस्तारेण कथनम् ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव । एवम् एव जन्तोः प्राणि-मात्रस्यापि हेतुः अदृष्टं दुर्विभाव्यः केनादृष्टेन कस्य कदा किं स्यात्, तत् तर्कयितुं अशक्यम् इत्य् अर्थः । अत्र संयोगस्योक्तिर् दृष्टान्तत्वेन । किं वा, सामान्यतोऽदृष्टस्य स्वभाव-बोधनार्थम् इति । कर्म-शक्तेर् दुर्वितर्क्यतत्त्व् मद्-बालकाद् अप्य् अस्य मृत्युः सम्भवेद् एवेति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, एवम् एव जन्तोर् अप्य् अदृष्टतोऽन्यन् मरण-जीवनयोः कारणं नास्त्य् एवेत्य् अर्थः । अतः कंसस्याशुभाद् अदृष्टान् मरणं, मत्-पुत्रस्य च शुभाज् जीवनम् एवेति भावः । अन्यथा, अस्यास् त्वाम् अष्टमो गर्भो हन्ता [३४] इति देव-वाक्य-वैयर्थ्यापत्तेः ॥५०-५१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्यत्वम् आशङ्क्याह—विपर्यय इति ॥५०॥
जीव-गोस्वामी (बृअह्त्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विपर्ययो वेति । मया तदानीम् अस्मै पुत्रे समर्प्यमाणे सति, स पुत्र एव सद्यः प्रबली-भूय कंसम् इमं वधिष्यति वेत्य् अर्थः । ननु, प्रौढस्य कंसस्य तव बालकात् कथं वधः सम्भवेत् ? तत्राह—गतिर् इति । अस्यास् त्वाम् अष्तमो गर्भः हन्ता इत्य् उक्तवतो धातोः । एवं च सति उपस्थितः कंसस्य हस्ताद् देवकी-मृत्युर् निवर्तेत, तथा मत्-कर्तृक-पुत्रार्पण-प्रतिज्ञया निवृत्तो\ऽपि कंसस्य मृत्युः पुनर् आपतेत् प्राप्तो भवेत् ॥५०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विपर्ययो वेति । समर्पितो मत्-पुत्रस् तं हन्याद् वा । ननु, बालात् त्वत्-पुत्रात् प्रौढस्य तस्य वधः कथं ? तत्राह—गतिर् इति । अस्यास् त्वाम् अष्तमो गर्भः हन्ता [३४] इति वक्तुर् धातोर् गतिर् दुरत्यया दुर्लङ्घ्या । एवं च सति उपस्थितः कंस-हस्ताद् उपस्थितो देवकी-मृत्युर् निवर्तेत, तथा प्रपुत्रार्पण-रूप-मत्-प्रतिज्ञया निवृत्तो\ऽपि कंसस्य मृत्युः पुनर् आपतेद् आगतः स्यात् ॥५०॥
॥ १०.१.५१ ॥
अग्नेर् यथा दारु-वियोग-योगयोर्
अदृष्टतोऽन्यन् न निमित्तम् अस्ति ।
एवं हि जन्तोर् अपि दुर्विभाव्यः
शरीर-संयोग-वियोग-हेतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राणिनाम् अदृष्टं च दुर्वितर्क्यम् इति स-दृष्टान्तम् आह—अग्नेर् इति । वने वृक्षान् प्रदहन्न् अग्निः सन्निहितान् अपि वृक्षान् परित्यज्य कदाचिद् दूरस्थान् अपि दहति, ग्रामे गृहान् वा, न ह्य् अस्य प्राण्य्-अदृष्ट-व्यतिरेकेण किञ्चिन् नियामकम् अस्ति यथा, एवं जन्तोर् जन्म-मरणयोर् अपि हेतुर् दुर्विभाव्योऽचिन्त्यः ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्व् अदृष्टम् एव जनि-मृति-हेतुस् तच् च ज्ञातुं न शक्यम् इत्य् आह—प्राणिनाम् इति । अदृष्टं शुभाशुभं कर्म दुर्वितक्यं ज्ञतुम् अशक्यं दृष्टान्त-प्रपञ्चोग्नेर् इति । सन्निहितान् निकटवर्तिनः । अस्य दहनस्य । नियामकं विनिगमकम् । एवं वृक्षादिवत् । जन्तोः प्राणि-मात्रस्य । दुविभाव्यः दुर्वितर्क्यः ॥५१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि एवम् । एवम् एव जन्तोः प्राणि-मात्रस्यापि हेतुर् अदृष्टं । दुर्विभाव्यः केनादृष्टेन कस्य कदा किं स्यात् ? तत् तर्कयितुम् अशक्यम् इत्य् अर्थः । इति कर्म-शक्तेर् अपि दुर्वितर्क्यतया मद्-बालकाद् अप्य् अस्य मृत्युः सम्भवेद् एवेति भावः ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मच्-चिन्तितम् एतन् नासम्भवं यतः प्राणिनाम् अदृष्टं दुर्वितर्क्यम् इति स-दृष्टान्तम् आह—अग्नेर् वने वृक्षान् प्रदहतो दारुणौ यौ वियोग-योगौ कदाचित् सन्निहितस्यापि वियोगः, कदाचिद् विप्रकृष्टस्यापि योगः । तयोर् अदृष्टतो\ऽन्यत्रेति वृक्षाणां दुःखादृष्टम् एव कारणम् इत्य् अर्थः । एवम् एव शरीराणां संयोग-वियोगयोर् जन्म-मरणयोर् हेतुर् विभाव्यो\ऽविचिन्त्यः ॥५१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मद्-विचिन्तितम् इदं नासम्भवं, यतः प्राणिनाम् अदृष्टं अवितर्क्यम् इति स-दृष्टान्तम् आह—अग्निर् इति । अग्निः क्वचिद् अन्तिक-स्थं तरुं न दहति, दूरस्थं चोत्प्लुत्य दहति । एवं वनं दहतोऽग्नेर् यौ दारुणौ वियोग-योगौ तयोर् अदृष्टतो\ऽन्य-निमित्तं नास्ति, तरूणां सुख-दुःखादृष्टम् एव तत्र हेतुः । एवम् एव जन्तोः प्राणिनः शरीर-संयोग-वियोगयोर् हेतुर् दुर्विभाव्यो\ऽदृष्ट-विशेष एव ॥५१॥
॥ १०.१.५२ ॥
एवं विमृश्य तं पापं यावद्-आत्मनि-दर्शनम् ।
पूजयाम् आस वै शौरिर् बहु-मान-पुरःसरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यावद् आत्म-निदर्शनं स्व-प्रज्ञावधि विचार्य ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृशंसं क्रूरम् नृशंसो धातुकः कृऊरः इत्य् अमरः पूयमानेन तस्यमानेन । विहसन्न् इति बाह्यानन्दम् आह । महतां सत्य् अपि क्लेषे नो विकृतिः [क्रोधादि-रूपा] इति भावः ॥५२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पापम् अपि बहुलादर-पूर्वकं पूजयामास स्तुत्य्-आदिना सम्मानितवान् ॥५२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यावद् इत्य् अपि सम्भ्रमे एतावती प्रतिभेति भावः पापम् अपि बहुलादर-पूर्वकं पूजयामास स्तुत्य्-आदिना सम्मानितवान् ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूजयामास स्तुत्य्-अञ्जल्य्-आदिना ॥५२-५३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यावत् यत्-प्रमाणकम् आत्मना बुद्ध्या निदर्शनं ज्ञानं यत्र यद् यथा स्यात्, तथा विमृश्य तं पापं कंसं पूजयामास बहिस् तुष्टाव ॥५२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शौरिर् वसुदेवः । यावत् यत्-प्रमाणम् आत्मना बुद्ध्या निदर्शनं ज्ञानं यत्र तद् यथा स्यात्, एवं विमृश्य तं पापं कंसं पूजयामास बहिस् तुष्टाव ॥५२॥
॥ १०.१.५३ ॥
प्रसन्न-वदनाम्भोजो नृशंसं निरपत्रपम् ।
मनसा दूयमानेन विहसन्न् इदम् अब्रवीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य विश्वासाय विकसित-मुखाम्भोजः प्रहसन्न् अब्रवीत् ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृशंसं क्रूरम् । नृशंसो धातुकः क्रूरः इत्य् अमरः । पूयमानेन तप्यमानेन । विहसन्न् इति बाह्यानन्दम् आह । महतां सत्य् अपि क्लेशे नो विकृतिः क्रोधादि-रूपा इति भावः ॥५३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च क्रूरं निर्दयम् अपि तं पुनर् अब्रवीत् । प्रत्यग्र-वदनाम्भोजः सद्यो विकसित-पद्मवत् प्रसन्न-मुखः सन् प्रहसन् । प्रसार्य वदनाम्भोजम् इति पाठः स्पष्टः । विश्वासाय तं प्रत्य् आत्मनोऽन्तः-प्रसादो बोधितः । वस्तुतस् तु दूयमानेन मनसा विशिष्टः ॥५३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च क्रूरं निर्दयम् अपि तं पुनर् अब्रवीद् इति पाठः क्वचित् प्रत्यग्र-वदनाम्भोजः सद्यो विकसित-पद्मवत् प्रसादित-मुखः सन् प्रहसन् प्रसार्य वदनाम्भोजम् इति पाठः स्पष्टः । एवं विश्वासाय तं प्रत्यात्मनोऽन्तः-प्रसादो बोधितः । वस्तुतस् तु दूयमानेन मनसा विशिष्टः ॥५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वान्तः-प्रसाद-ज्ञापनार्थं प्रत्यग्रं स्निग्धीकृतं वदनाम्भोजं येन सः दूयमानेन सन्ताप-पीड्यमानेन युक्तः ॥५३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद्-रक्षणाय प्रसन्न-मुखोऽन्तः सन्तप्यमानः ॥५३॥
॥ १०.१.५४ ॥
श्री-वसुदेव उवाच—
न ह्य् अस्यास् ते भयं सौम्य यद् वै साहाशरीर-वाक् ।
पुत्रान् समर्पयिष्येऽस्या यतस् ते भयम् उत्थितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् यथा अशरीरिणी वाग् आह तथा हि निश्चितम् । अस्याः सकाशात् ते भयं नास्ति । यतो येभ्यः पुत्रेभ्यस् ते भयम् उत्थितम् । अष्टमो हन्तेत्य् उक्तेर् अन्योन्यापेक्षया सर्वेऽप्य् अष्टमा भवेयुर् इति सर्वान् अपि तान् अस्याः पुत्रान् समर्पयिष्यते ॥५४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो येषां पुत्राणां ते तव सकाशाद्भयं मृत्यु-रूपम् आगतं तानस्याः पुत्रान् समर्पयिष्ये श्री-कृष्णस्य तद्भयाभावात् तद् असमर्पणे\ऽपि न वसुदेवस्य मिथ्या-वादित्वं स्याद् इतिवास्तवोर्थः प्रतीयत्ये । यद् वा, श्री-कृष्णस्य न कस्यापि पुत्रत्वम् अस्ति न माता न पिता तस्य न भार्या न सुतादयः इत्य् अग्रे वक्ष्यमाणत्वात् । यथा-श्रुरे\ऽपि न दोषः । भगवान् देवकी-सुतः इत्य् उक्तिस् तु देवक्यां सुतवादाविर्भूतत्वाद् आविर्भावपरा । आविर्भावम् एवाग्रे वक्ष्यति—आविर् आसाद्यथा प्राच्यां दिशीन्दुर् इव पुष्कलः इति ॥५४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे सौम्य ! हे शान्त-प्रकृते ! अन्तः-प्रसाद-बोधनार्थं एव पूर्ववद् अत्र श्लेषार्थोऽपि न स्पष्टः । अन्यत् तैर् व्याख्यातम् । यद् वा, यतो यस्या वचः सकाशात् सा यथाह, तथा ते न हि भयम् अस्ति, किन्त्व् अष्टम-पुत्राद् एव । तथापि तव हितार्थं तम् एकम् अर्पयिष्यामीति किम् अपि तु सर्वान् अपि सम्यक्-स्नेहादि-परित्यागेन स्वयम् एव सद्योऽर्पयिष्यामीति दुष्ट-कंस-सन्तोषार्थम् उक्तम् ॥५४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे सौम्य ! शान्त-प्रकृते ! अन्तः-प्रसाद-बोधनार्थं एव पूर्ववद् अत्र श्लेषार्थोऽपि न स्पष्टः । यद् वा, अत्रापि भय-जन्मना सौम्यत्वेन च वीर-स्वभावात्यय एव दर्शितः । पुत्रान् इति छलेन अ-कार-प्रश्लेषात् । येभ्यः तवाभयम् उत्थितं, येभ्यो भयं नास्तीति विचार-सिद्धं, तान् एव समर्पयिष्ये, न तु यस्माद् भयम् उत्थितम् इति । यद् वा, यतो यान् अतिक्रम्य कस्माच्चित् तव भयम् उत्थितं भविष्यति, तान् एव समर्पयिष्यामि, न तु भय-दानेन प्रवृत्तं तं इत्य् अर्थः ।
न ह्य् अस्यास् ते भयं सौम्य यद् धि साहाशरीर-वाक् ।
पुत्रान् समर्पयिष्येऽस्या यतस् ते भयम् आगतम् ॥ इति क्वचित् पाठः ।
उत्थितम् इत्य् अत्रागतम् इति क्वचित् ॥५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यतो येभ्यस् त्व् अभयम् उत्थितं, तान् । न तु यस्माद् भयम् उत्थितं तम् इति गूढोऽभिप्रायः ॥५४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्याः सकाशात् ते भयं नास्ति, किन्त्व् अस्या अष्टमात् पुत्रात् । यद् यथा । अहं तु पुत्रान् अष्टाव् एव समर्पयिष्ये यतः पुत्रात् ते भयम् उत्थितं । स वा वध्यताम्, अष्टाव् एव वा वध्यन्ताम् इति भावः ॥५४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हे सौम्य ! अस्या देवक्याः सकाशात् ते भयं नास्ति, किन्त्व् अष्टमात् पुत्राद् इति सा शरीर-वाग् । यद् यथा । अतोऽष्टाव् अपि पुत्रांस् ते समर्पयिष्यामि । यतः पुत्रात् ते भयम् उत्थितं स एव त्वया वध्यताम्, अष्टाव् एव वा परम्परापेक्षया सर्वेषां अष्टमत्वाद् इत्य् अतिविस्रम्भो दर्शितः ॥५४॥
॥ १०.१.५५ ॥
श्री-शुक उवाच—-
स्वसुर् वधान् निववृते कंसस् तद्-वाक्य-सार-वित् ।
वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-वाक्येसार उपपत्तिः, तद्-वित्निववृते निवृत्तः ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-वाक्ये वसुदेव-वाक्ये ॥५५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुहृदो भगिन्या वधात् । सुहृद् इति पितृव्य-पुत्रीत्वेन भगिनीत्वस्यातिनैकट्य-बोधनार्थम् । श्लेषेण शोभन-हृदयेति । तस्या अपि निमल-चित्तत्वेनाकापट्यम् आलक्ष्य वधान् निवृत्त इति भावः । किं च, तद्-वधान् निवृत्त्या सुहृदाम् अन्येषां अपि वधान् निवृत्त इति सूचयति—तस्यां सर्वेषां एव स्नेह-भरेण तद्-वधे तेषां वध-सम्भवात् । तद्-वाक्येति तैर् व्याख्यातम् । यद् वा, तद्-वाक्यस्य सार अन्तर्ऽर्थ-भागस् तं विचारयन्, सार-ग्राही कृपाशीलोऽसीत्य् एवं स्तुत्वा, प्रकर्षेण गीत-वाद्यादिनाविशत् । इदम् अपि तद्-विश्वास-जननार्थम् एव । अपि-शब्दात् कंसोऽपि । पथि तस्मात् स्थानाद् एव निवृत्तः स्व-गृहं प्रविष्ट इति ॥५५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुहृदस् तद्-विशेषस्य भगिन्या वधात् सुहृच्-छब्द-प्रयोगश् च मय्य् अस्याः सौहृद्यम् अप्य् अस्तीति वध-निवृत्ति-हेतुं तद्-भावना-विशेषम् अपि सूचयति । किं च, तद्-वधान् निवृत्त्या सुहृदाम् अन्येषां अपि वधान् निवृत्त इति सूचयति—देवकादिभिः सह युद्धापत्त्या तेषां वध-सम्भवात् । स्वसुर् इति क्वचित् पाठः, तद्-वाक्येति तैर् व्याख्यातम् । तत्रोपपत्तिर् युक्ततेत्य् अर्थः । सार-शब्दो हि बल-वाची बलं च वचनस्य युक्ततेति । यद् वा, सारं सारत्वं अव्यभिचारित्वम् इत्य् अर्थः । श्री-देवक्या वधान् निवृत्त इतीयन्-मात्रेणापि प्रति इति श्री-वसुदेवस्य महा-महत्त्व-व्यञ्जकं प्रशस्य परंओ बुद्धिमान् सार-ग्राही कृपा-शीलोऽसीत्य् एवं स्तुत्वा प्रकर्षेण गीत-वाद्यादिना विशत् इदम् अपि तद्-विश्वास-जननार्थम् एव ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वाक्यस्य सारः स्थिरता, तद्-वित् ॥५५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वाक्यस्य सारः सत्यत्वं । वसुदेवो मिथ्या न ब्रुते इति सर्वथा जानातीत्य् अर्थः । तवेदं धर्म-शीलत्वं भुवि प्रकटी-भूतम् इति प्रशस्य ॥५५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अस्य वसुदेवस्य वाक्ये यः सारो युक्तिस् तद्वित् । प्रशस्य धर्मिष्ठोऽसीति संस्तूय ॥५५॥
॥ १०.१.५६ ॥
अथ काल उपावृत्ते देवकी सर्व-देवता ।
पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसूति-काले उपावृत्ते प्राप्ते सर्वः सर्वात्मा भगवान् एव देवता यस्याः सा तथा । सर्व-देवता-मयीति वा भगवद्-आश्रयत्वात् ॥५६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न हि तस्या एव भगवान् देवता तस्य सर्वेषां दैवत्वादित्य् अरुच्याह—सर्व-देव-मयीति । सर्व-देव-मयो हरिः इत्य् उक्ते सर्व-देव-स्वरूप-हरेस् तद् अन्त-निर्विष्टत्वात् । कन्यां सुभद्राम् । अनुवत्सरं वत्सरेवत्सरे एकैकम् । अष्टसु वर्षष्वित्य् अर्थः । प्रतिवर्षम् इति वीप्सा तु न व्याक्येया चेत् तत्रेदं बोध्यम् । हरिर् मदात्मजो भावो तन् मुख-दर्शनं मम भविष्यतीत्य् आशया न तत्याज किञ्चाष्टम-पुत्रोत्पत्तिसमयो झटिति नवत्वित्यौक्तं ठ्येनैव प्रतिवर्षम् एकैको गर्भं आधीयते स्मेति भावः ॥५६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथेति माङ्गल्ये । काल उपावृत्ते कतिप्य-काले गते सतीत्य् अर्थे । युवेव वसुदेवोऽभूद् विहायाभ्यागतां जराम् इत्य्-आदि श्री-विष्णु-पुराणोक्तेः । वृद्धौ तवाद्य-पितरौ इत्य्-आदि श्री-हरि-वंशोक्तेश् चानुसारेण प्रायो वार्धक्यान्तिके श्री-भगवद्-आविर्भावात् । सा सर्वस्य देवता पूज्या इत्य् अर्थः । कन्यां सुभद्राम् । अनुवत्सरम् एव प्रत्यब्दम् एकैकश इत्य् अर्थः । तच् च सत्वरम् एव श्री-भगवद्-अवतारार्थम् ॥५६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथेति माङ्गल्ये काले उपावृत्ते कतिपय-काले गते सतीत्य् अर्थः । पुरैव वसुदेवो भूद् विहायभ्यागतां जराम् इत्य्-आदि श्री-विष्णु-पुराणोक्तेः । वृद्धौ तवाद्य-पितरौ इत्य्-आदि श्री-हरि-वंशेऽप्य् अक्रूरोक्तेर् अनुसारेण प्रायो वार्धक्यान्तिके श्री-भगवद्-आविर्भावात् सर्वेषां देवतादीनाम् अपि देवतेति महा-भगवच्-छक्तित्वात् तथा च श्री-विष्णु-पुराणे त्वं परा प्रकृतिः सूक्ष्मा इत्य्-आदि-बहुतरं सर्व-देव-कृत-स्तोत्रम् । अयं भावः—वसुदेव-शब्देन तावद्-भगवत्-प्रकाश-हेतुः शुद्ध-सत्त्वम् उच्यते । यथोक्तं चतुर्थे श्री-शिवेन—
सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः ।
सत्त्वे च तस्मिन् भगवान् वासुदेवो
ह्य् अधोक्षजो मे नमसा विधीयते ॥ [भा।पु। ४.३.२३] इति ।
तद्-रूप एवायं श्रीमान् आनकदुन्दुभिर् यथोक्तं नवमे—वसुदेवं हरेः स्थानं वदन्त्य् आनकदुन्दुभिम् [भा।पु। ९.२४.३०]इति । अतः श्री-देवक्य् अपि तत्-सम्पत्ति-रूपैवेति । कन्यां सुभद्राम् । अनुवत्सरम् एव प्रत्यब्दम् एकैकश इत्य् अर्थः । तच् च सत्वर-श्री-भगवद्-अवतारार्थम् ॥५६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेषां देवादीनाम् अपि देवता भगवन्-मातृत्वात् पूज्याम् । कन्यां सुभद्राम् । अनुवत्सरम् अष्टसु वत्सरेष्व् इत्य् अर्थः । विभक्त्य्-अर्थेऽव्ययीभावः । कन्यां च काले प्रतिवर्षम् इति वीप्सा तु न व्याख्येया एकैकस्मिन् वर्षे एवाष्ट-पुत्रोत्पत्ति-प्रसक्तेः । अत्र कारणम् अग्रे व्याख्यास्यते ॥५६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : काले सन्तानोदय-समये उपावृत्ते प्राप्ते सति सर्वेषां ब्रह्मादीनां अपि देवता भगवन्-मातृत्वात् पूज्या । अनुवत्सरम् इति विभक्त्य्-अर्थेऽव्ययीभावः । अष्टसु वर्षेष्व् अष्टौ पुत्रान् प्रसुषुवे कन्यां चैकां सुभद्राम् ॥५६॥
॥ १०.१.५७ ॥
कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः ।
अर्पयाम् आस कृच्छ्रेण सोऽनृताद् अतिविह्वलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्वादशे\ऽहनि पिता नाम कुर्यात् इति श्रुतेर् अजाते\ऽपि नाम-करणे कीर्तिमद् इत्यादीनि तेषां भाविनि कल्पान्तरीयाणि वा श्री-योगिराज-शुक-देवेनोक्तानीत्य-दोषः । यद् वा, नाम-कर्मोत्तरं कंसाय ददावित्य् अर्थः । अतिविह्वलः अतिविक्लवः विक्लवो विह्वलः स्यात् तु इत्य् अमरः । वाचा विचलितं येन सुकृत तेन हारितम् इति स्मरणात् । यद् उक्ता विनिवर्तेत न तदास्यं गुदं हि तत् । इलेशे स्त्र्य्-अनुगः स्त्री स्याच् चटकेशेन भाषितम् इत्य् अभियुक्तोक्तेश् च ॥५७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कीर्तिमन्तम् इति । पूर्व-जन्मनि स्मरः कीर्तिमांश् चेति नाम-द्वयं तस्यासीद् इत्य् ऊह्यम् । यद् वा, जात-मात्रस्यैव देशाचारेण गणकादि-कृतं तन्-नामेति । स कृत-प्रतिज्ञोऽतिविह्वलः परम-भीतः ॥५७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कीर्तिमन्तम् इति । मरीचित उत्पन्नत्वेन प्राक्तन-तृतीय-जन्मनि तेषाम् एतद्-आदीनि नामानि स्मरादीनि चेति षड्-गर्भानयने स्वामिभिर् व्याख्यास्यते । यद् वा, यदा ते सुतलत आनीताः, तदा श्री-कृष्णेनैव कीर्तिमद्-आदि-नामानि कृत्वा वैकुण्ठं प्रस्थापिता इति ज्ञेयम् । नवमे चात्र च शृइ-वसुदेव-पुत्रत्वावस्थायाम् एव तथानुवादात् । सः कृत-प्रतिज्ञः । अतिविह्वलः परम-भीतः ॥५७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कीर्तिमन्तम् इति जन्म-दिन एव कृत-नामकरणम् इत्य् अर्थः ॥५७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कृच्छ्रेण कष्टेन अनृताद् भीतः ॥५७॥
॥ १०.१.५८ ॥
किं दुःसहं नु साधूनां विदुषां किम् अपेक्षितम् ।
किम् अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मृत्यवे पुत्रं कथम् अर्पितवान् ? इत्य् अपेक्षायाम् आह—किं दुःसहम् इति । साधूनां सत्य-सन्धानाम् । पुत्र-लालन-सुखापेक्षा कथं त्यक्ता ? इत्य् अत आह—विदुषाम् इति । भगवान् एव तत्त्वं नान्यद् इति जानताम् इत्य् अर्थः । ननु स्वयं नीते सति कंसो बालं न हन्याद् इति मत्वा नीतवान् इति किं न स्यात् ? इति नेत्य् आह—किम् अकार्यम् इति । ननु देवकी कथं पुत्रं तत्यज ? इत्य् अत आह—दुस्त्यजम् इति । चित्ते धृत आत्मा हरिर् यैस् तेषाम् ॥५८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मारणाय पुत्रार्पणम् । प्रजा-सवः प्राण-भृतो हि ये ते इति वक्ष्यमाणत्वाद् अत्यसह्यम् इत्य् आशयेनाह—मृत्यवे कंसाय । साधू रम्ये सज्जने च पुंसि सत्य-परे हरौ इति धरणि-देवः । सत्य-सन्धानां सत्य-प्रतिज्ञानाम्, सन्धा सन्धि-प्रतिज्ञयोः इति धरणिः । तत्त्वं सत्यम् । अकार्यम् अकर्तव्यम् । कदर्याणां कुसङ्गिनां दरिद्राणां वा ॥५८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नु वितर्के । किं दुःसहम् ? अपि तु सर्वम् एव सुखेन सह्यम् इत्य् अर्थः । एवम् अग्रेऽपि । अन्यत् तैर् व्याख्यातम् । यद् वा, साधूनां सर्व-सहत्व-दाढ्यार्थं विदुषाम् इत्य्-आदिकं दृष्टान्ततया ज्ञेयम् । यद् वा, कृच्छ्रेण इत्य् उक्तम् ।
ननु तादृशं दुःखं कथं सोढम् ? तत्राह—किं दुःसहम् ? इति । ननु ततो देशान्तरं किं न गतः ? तत्राह—विदुषां श्री-मथुरा-माहात्म्यं किं वा तस्यां भावि-भगवद्-अवतारं जानतां ततोऽन्यत्रापेक्षा नास्तीत्य् अर्थः । किं दुस्त्यजं ? यथा कदर्याणां कुत्सिताचाराणां किम् अप्य् अकृत्यं नास्तीत्य् अर्थः । यद् वा, ननु श्री-देवकी-हस्तेन कुतो नार्पयत् ? पुनस् तद्-वध-शङ्कयेत्य् आह—किम् अकार्यम् ? इति ॥५८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नु वितर्के । किं दुःसहम् ? अपि तु सर्वम् एवानायासेन सह्यम् इत्य् अर्थः । एवम् अग्रेऽपि । अन्यत् तैः । तत्र सत्य-सन्धानाम् इति प्रस्तुतोपयोगित्वात् तदीय-धर्म-विशेष एव निर्दिश्यते, न तु तन्-मात्रत्वेन साधुत्वम् इति । लालनेच्छा तु सुतराम् एव नास्तीत्य् अभिप्रायेणावतारयति पुत्र-लालनेति, विदुषां किम् अपेक्षितम् इत्य् अनेन दुस्त्यजम् इत्य्-आदेः पौनरुक्त्यम् आशङ्क्यावतारयति—ननु, देवकीति । यद् वा, साधूनां सर्व-सहत्व-दाढ्यार्थं विदुषाम् इत्य्-आदिकं दृष्टान्ततया ज्ञेयम् । अत्रापेक्षा-दुस्त्यजत्वयोर् अप्राप्त-प्राप्त-विषयत्वेन भेदः कल्प्यः ॥५८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अनृताद् बिभेतुतमां नाम स्व-साक्षाद् एव पुत्र-वधः कथं सोढव्यः ? तत्राह—किं दुःसहम् इति ।
नन्व् अष्टमम् एकं स्व-भार्या-प्राण-रक्षार्थं समर्पयतुतमां नाम पुत्रान्, समर्पयिष्ये\ऽस्या इति निखिल-पुत्रार्पण-प्रतिज्ञां तदा कंसस्याज्ञां विनैव कथम् अकरोत् ? गृहस्थस्य तथा पुत्र-मात्रोपेक्षा न युज्यते । तत्राह—विदुषाम् इति । वसुदेवः खलु कर्मि-लोक इव नाविद्वान्, अतो भक्ति-ज्ञान-वैराग्य-महोदधेस् तस्य किं पुत्रैर् इति भावः ।
नन्व् एतादृशस्य स्वयम् एव वधार्थम् आनीत-पुत्रस्य तस्य कंसः कथं पुत्रं हन्तुम् अर्हतु ? किम् अत्राप्य् आर्द्र-चित्तो न भवेत् । तत्राह—किम् अकार्यम् इति ।
ननु, तर्हि सर्व-दोष-परिहाराय वसुदेवो गार्हस्थ्यम् एव किं न तत्याज ? तत्राह—दुस्त्यजम् इति । तेन तद्-गार्हस्थ्यम् अपि त्यक्तुं शक्यम् एव केवलं मत्-पुत्रत्वं प्राप्स्यतो हरेर् मुखं कदा द्रक्ष्यामीति मनोरथेन गृहे स्थीयते । अत एव धृत आत्मा हरिः पुत्र-रूपी यैस् तेषां । तेनैव हेतुना पुत्रान्तरेष्व् अपि न स्निह्यते स्म, अष्टम-पुत्रस्य समयः शीघ्रं भवत्व् इत्य् उत्कण्ठयैव प्रतिवर्षम् एकैको गर्भ आधीयते स्म । बाल-वधे स्वस्यानुमन्तृत्व-लक्षण-पाप-स्वीकारश् चेत्य्-आदि तत्त्वम् अवधेयम् ॥५८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ननु वसुदेवोऽनृताद् विभेतु नाम, स्व-समक्षं पुत्र-वधः कथं तेन सोढव्यः ? तत्राह—किं इति । साधूनां सत्य-सन्धानाम् । ननु विनापि कंसाज्ञां पुत्र-मात्रार्पणं कथं प्रतिज्ञातम् ? तत्राह—विदुषाम् किम् इति । पर-तत्त्व-विदां पुत्रैः किम् ? इति भावः ।
नन्व् सत्य-सन्धस्य तस्य स्वयम् एव वधायानीतं बालं कंसो जात-दयः सन् न हन्यात् ? तत्राह—किम् अकार्यम् इति । कदर्याणां अतिपापिनां ।
ननु, देवकी कथं पुत्रान् तत्याज ? तत्राह—दुस्त्यजम् किम् इति । धृतो हृद्य् आत्मा हरिर् यैस् तेषां इति । यद्-गर्भाद् आविर्भूय हरिः कंसं स-गणं निहत्यानन्दान् वर्षिष्यतीति तद्-आशया तत्-पूर्व-पुत्रार्पणं सर्व-दुःखं च तया
सोढम् इति भावः ॥५८॥
॥ १०.१.५९ ॥
दृष्ट्वा समत्वं11 तच् छौरेः सत्ये चैव व्यवस्थितिम् ।
कंसस् तुष्ट-मना राजन् प्रहसन्न् इदम् अब्रवीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शौरेर् वसुदेवस्य तत्-पुत्रार्पण-रूपं समत्वं द्वन्द्व-सहिष्णुत्वं पुत्रे ममत्वाभावात् । इदं वक्ष्यमाणम् ॥५९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : समत्वं पुत्रार्पणेन शत्रौ मित्रे च तुल्यतां । अममत्वम् इति पाठे पुत्र-स्नेह-त्यागम् । सत्ये सत्य-वाक्ये च-कारार्द् धैर्ये च । एव अपि । व्यवस्थितिम् परंअ-निष्ठाम् अपितुष्ट-मनस्त्वेन प्रकर्षेण हसन् । हे राजन् ! इत्य् आश्चर्येण सम्बोधनम् । यद् वा, राजमानः सन्, विशेषणानां एषां यथोत्तरं हेतुमत्तोह्या ॥५९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समत्वं पुत्रार्पणेन शत्रौ मित्रे च तुल्यतां सत्ये प्रतिश्रत एव व्यवस्थितिं निष्टां च दृष्ट्वा अस्मान् मम न किञ्चिद् अप्य् अपमानं भविष्यतीति विभाव्येति भावः । समत्वम् इति विद्वत्तया-धृतात्मतायाश् चानुवादः यो हि विद्वन् धृतात्मा भवति स समो भवतीति । अममत्वम् इति पाठे\ऽपि स एवार्थः । सत्ये व्यवस्थितिम् इति साधुतायाः चतुर्थं तु कंस-गतम् एवेति नानुदितं । प्रहासः सन्तोषात् । हे राजन् ! इत्य् आश्चर्येण सम्बोधनम् ॥५९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समत्वं पुत्रेऽपि ममत्वाभावात् सर्वत्र साम्यम् ॥५९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : समत्वं पुत्रेषु ममत्व-विरहात् सर्वत्र साम्यम् ॥५९॥
॥ १०.१.६० ॥
प्रतियातु कुमारोऽयं न ह्य् अस्माद् अस्ति मे भयम् ।
अष्टमाद् युवयोर् गर्भान् मृत्युर् मे विहितः किल ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतियातु स्वगृहम् इति शेषः ॥६०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि यतोऽस्माद् भयं मम न विद्यते । अस्ति मे इति पाठः स्पष्टः । तत्र हेतुम् आह—अष्टमाद् इति । युवयोर् इति अन्यस्यां जातो\ऽपि व्यावर्तितः । विहितो विधात्रा । किलेति आकाश-वाण्याः प्रसिद्धिं द्योतयति ॥६०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : युवयोर् इति अन्यस्यां जातो\ऽपि व्यावर्तितः । विहितो विधात्रा । किलेति आकाश-वाण्याः प्रसिद्धिं द्योतयति, तयैवाज्ञप्त इति वा ॥६०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१.६१ ॥
तथेति सुतम् आदाय ययाव् आनकदुन्दुभिः ।
नाभ्यनन्दत तद्-वाक्यम् असतोऽविजितात्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असतः खलस्या-विज्तात्मनो\ऽव्यवस्थित-चित्तस्य ।तत् वाक्यम् प्रतियातु कुमारोयम् इत्य्-आदि-रूपम् । नाभ्यनन्दत् सत्यं न मेने । अव्यवस्थित-चित्तानां प्रसादो\ऽपि भयङ्कारः इत्य् अभियुक्तोक्तेः ॥६१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यथोच्यते तथेति । किं वा, एवम् अस्त्व् इत्य् उक्त्वेत्य् अर्थः । नाभ्यनन्दत न प्रतीयाय । कुतः ? असतः खलस्याविश्वसनीयस्येत्य् अर्थः । यतोऽविजितात्मनोऽस्थिर-चित्तस्य चेत्य् अर्थः ॥६१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथेति तथेत्य् उक्त्वेत्य् अर्थः । तथा-शब्दस्य च भवान् यथादिशति तथैवास्त्व् इत्य् अर्थः । नाभ्यनन्दत न प्रतीयाय । कुतः ? असतः खलस्य मृषैव सौहृद्यं प्रकटयतः । अविजितात्मनः अस्थिर-चित्तस्य चेत्य् अर्थः ॥६१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.१.६२ ॥
नन्दाद्या ये व्रजे गोपा याश् चामीषां च योषितः ।
वृष्णयो वसुदेवाद्या देवक्य्-आद्या यदु-स्त्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कंसस्य शान्तिर् देव-कार्यानुगुणा न भवतीति नारदस्य प्रत्यवस्थानं तद् आह—नन्दाद्या इत्य्-आदि-त्रयेण ॥६२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कंसे सुवृत्ते सति देवकार्यं न सेत्स्यतीत्य् आह—कंस्येति । शान्तिर् दयालुतादि-रूपा चित्त-वृत्तिः । अनुगुणानुरूपा योग्येति यावत् । इति हेतोः । प्रत्यव्स्थानं कंसपार्श्वे गमनम् । तवेवाह—त्रयेण नन्दाद्या इत्य् आरभ्य वधोद्यमम् इत्य् अन्तश्कोकत्रयेणेत्य् अर्थः । अमीषां नन्दादीनाम् । योषितो यशोदाद्याः ॥६२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : व्रजे त्वद्-अधिकार-वर्तिनि श्री-माथुर-गोष्ठे अन्यत्रत्याव्यवच्छिन्ना योषितः श्री-यशोदाद्याः, तन्-नामाग्रहणं गौरवात् । द्वितीय-च-कारेण तत्-पुत्र-भृत्यादयः ॥६२-६४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्दाद्या इति त्रिकम् । ये च बृहद्-वनस्थे व्रजे, याश् च तत्र योषितः श्री-यशोदाद्याः । उक्त-समुच्चयार्थो\ऽयं च-शब्दः सर्वत्र सम्बन्ध्यः । द्वितीयश् च-शब्दः कैमुत्य-द्योतनार्थम् अप्य् अर्थे । किं वक्तव्यं ? ते ताश् चेति अमीषां गोपानां, तद्-योषिताम् अपि सम्बन्धिनो ये भृत्याद्याः, ते चेत्य् अर्थः । वृष्णयस् तद्-उपलक्षिता यादवाः देवता-शब्देन श्री-भगवत्-पार्षदा अप्य् उक्ताः ॥६२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्दाद्या इति श्री-शुकोक्तिः । यद् वा, श्री-नारदोक्तिः । तथा हि अवतरिष्यतः स्वाभीष्ट-देवस्य शीघ्र-दर्शनेन स्वम् आनन्दयितुं शीघ्रं तत्-प्रादुर्भाव-कारणं कंस-कर्तृक-वैष्णव-द्रोहं प्रवर्तयन् देवान् आनन्दयितुं तेन भक्त-द्रोहेणैव कंसं च घातयितुं कंस-दास्यमान-खेदानाम् अपि तेषाम् अभिन्न-भक्तानां भगवद्-अविर्भाव-निश्चय-ज्ञापकाय स्वस्यै प्रत्यतिशयम् आशीः-सहस्रं च दास्यमानानां भगवद्-दिदृक्षानन्दं च प्रवर्धयन् हरिर् नौ पुत्रो भविता न वा ? इति सन्दिहानौ देवकी-वसुदेवौ सन्देहोच्छेदनेनानन्द-सिन्धुषु निमज्जयन् तेनैव बन्धन-क्लेशोत्कर्षम् अपि हर्ष-विशेषं मानयन् सूचके\ऽपि स्वस्मिन् सन्तोषयन् मिथ्या-सौहार्दाविष्कारेण सानुगं कंसम् अपि स्वानुकूली-कुर्वन् नारदो मुनिर् आगत्य कंसं प्रति रहस्यम् आह—नन्दाद्या इति द्वाभ्याम् ॥६२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एतन् नारदोऽभ्येत्य कंसायाहेत्य् उत्तरेण सम्बन्धः । एतत् किं ? तत्राह—नन्दाद्या ये इति युग्मकम् । याश् चामीषां योषितो यशोदादयः । वसुदेवाद्या वृष्णय इति यदूनां उपलक्षणं च शब्दात् तद्-भृत्याश् च परः । च-शब्दोऽप्य्-अर्थे । ते च ताश् चेत्य् अर्थः । उभयोर् नन्द-वसुदेव-कुलयोः । देवता-प्राय इति यदुषु केषांचिद् असुरत्वात् । ये च कंसं प्रत्यनुव्रता भक्तायमाना, ज्ञातयः सपिण्डाः, बन्धवः सम्बन्धिनः, सुहृदो मित्राणि ॥६२॥
॥ १०.१.६३ ॥
सर्वे वै देवता-प्राया उभयोर् अपि भारत ।
ज्ञातयो बन्धु-सुहृदो ये च कंसम् अनुव्रताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उभयोर् वसुदेव-नन्द-कुलयोः ॥६३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : केषाञ्चित् कंस-कङ्कादीनां दत्य-रूपत्वात् प्राय-शब्द-प्रयोगः । ते गोपा यदवश् च । उभयोर् यदुकुल-गोप-कुलयोः । ये चाक्रुराद्याः अनुव्रतास् तद् अनुसाराः कंसामन्त्रण-पक्षे मा ज्ञानं तत्रारत । भारतत्वाद् एवैतज् ज्ञानं तव नास्तीति भावः ॥६३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवता-शब्देन श्री-भगवत्-पार्षदा अप्य् उक्ताः । प्राय-शब्दस् तत्र केषाञ्चिद् दैत्यत्वात् । हे भारत ! इति यथा भरत-वंशे । भवत्-पितामहादयो देवता इति भावः । भोजादयस् तदीया अपि सर्वे देवता-प्राया इत्य् आह—कंसं प्रति अनुव्रता भक्ताः । ज्ञतयः सपिण्डाः । बन्धवः सम्बन्धिनः । सुहृदो मित्राणि ॥६३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवता-शब्देन श्री-भगवत्-पार्षदा अप्य् उक्ताः । प्राय-शब्दस् तत्र यदुषु केषाञ्चिद् दैत्यत्वात् । हे भारत ! इति यथा भरत-वंशे । भवत्-पितामहादयो देवता इति भावः । भोजादयस् तदीया अपि सर्वे देवता-प्राया इत्य् आह—ये चेति । कंसं प्रति अनुव्रता भक्तायमानाः । ज्ञतयः सपिण्डाः । बन्धवः सम्बन्धिनः । सुहृदो मित्राणि ॥६३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : देवता-प्राया इति पार्षद-मिश्रत्वात् पञ्चषा सुर-मध्यत्वाच् च ॥६३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केषाञ्चिद् दैत्यत्वात् प्राय-शब्द-प्रयोगः । भा तामसी कान्तिस् तस्यां रतेति कंस-सम्बोधनम् उभयोर् वसुदेव-नन्द-कुलयोः ॥६३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भगवान् सर्वज्ञः कंसस्य शान्त्या हरेर् अवतारे विलम्बः स्यात् । तेन देवाश् च भक्ताश् च पितरो वा भूमिश् चानन्द-भाजो न स्युर् इति जानन्न् इत्य् अर्थः । कंस-कर्तृकेन सतां विद्रोहेण कंसं घातयितुं मिथ्या-सौहार्दाविष्कारेणैतत् शशंस । दैत्यानां वधोद्यमं देवैः कृतं सुमेरु-शिखरे देव-समाजे साक्षाच् छ्रुतं शशंसेति योज्यम् ॥६३॥
॥ १०.१.६४ ॥
एतत् कंसाय भगवान् छशंसाभ्येत्य नारदः ।
भूमेर् भारायमाणानां दैत्यानां च वधोद्यमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वधोद्यमं देव-कृतम् इति शेषः ॥६४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् नन्दाद्या इत्य्-आदि यद् उक्तम् । गोप-कुल-यदु-कुलयोः । द्वेषोत्पत्त्या झटिति भगवद् अवतारेण कंसस्य मृत्युर् भविष्यतीति ज्ञानवत्त्वाद् भगवान् इति उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं रातिम् । वेत्ति विद्याम् अविद्यां च स वाच्यो भागवान् इति इति लक्षणस्य तत्र सत्त्वाद् इति । चातकानां वामतो गतिः इतिवद् देवानाम् अपि गतिर् वामैवातः प्रथमस्यैवाष्टत्वम् आयाति । यद् वा, द्वितीयतो गणने प्रथमस्य तृतीयतो गणने द्वितीयस्यैवम् अग्रे\ऽपि गणनात् सर्वेषाम् अष्टमत्वम् आयातीत्थं च शशंसेति सम्बन्धः ॥६४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भागवान् सर्वज्ञः । कंसस्य शान्त्या शीघ्रं भगवद्-अवतारो न स्यात् । न च तस्य पित्रोः सुख-पूर्वकं गोकुले गमनम् । नापि पूतना-वधादि-विचित्र-लीला सम्भवेद् इत्य्-आदिकं चिन्तयन्न् इत्य् अर्थः । यद् वा, परम-दयालुर् इत्य् अर्थः । शीघ्रं श्री-भगवद्-अवतार-कारणोत्थापनेन जागताम् एव हिताचरणात् । अतस् तं प्रत्य् असूया न कार्येति भावः । शंसयामास स्वर्थे इण् शशंस । तद्-विशेषः श्री-हरिवंशे—[२.१.२-९, १३, १५; वैष्णव-तोषणी द्रष्टव्या] इति ॥६४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भागवान् सर्वज्ञः । कंसस्य शान्त्या शीघ्रं भगवद्-अवतारो न स्याद् इत्य्-आदिकं चिन्तयन्न् इत्य् अर्थः । यद् वा, परम-दयालुता-स्मरणे नारदोक्तिर् इयं शीघ्रं श्री-भगवद्-अवतार-कारणोत्थापनेन जागताम् एव हिताचरणात् । अतस् तं प्रत्य् असूया न कार्येति भावः । शंसयामास स्वर्थे णिच् शशंस । तद्-विशेषः श्री-हरिवंशे—
त्रिविष्टपादापतितो मथुरोपवने स्थितः ।
प्रेषयामास कंसाय स दूतं मुनि-पुङ्गवः ॥
स दूतः कथयामास नारदागमनं नृपे ।
स नारदस्यागमनं श्रुत्वा त्वरित-विक्रमः ॥
निर्जगामासुरः कंसः स्व-पुर्याः पद्म-लोचनः ।
स ददर्शातिथिं श्लाघ्यं देवर्षिं वीत-कल्मषम् ॥
तेजसा ज्वलनाकारं वपुषा सूर्य-वर्चसम् ।
सो\ऽभिवाद्य र्षये तस्मै पूजां चक्रे यथा-विधि ॥
आसनं चाग्नि-वर्णाभं विमृज्योपजहार सः ॥
निषसादासने तस्मिन् स वै शक्र-सखो मुनिः ।
उवाच चोग्रसेनस्य सुतं परम-कोपनम् ॥
पूजितो\ऽहं त्वया वीर ! विधि-दृष्टेन कर्मणा ।
गते त्व् एवं मम वचः श्रूयतां गृह्यतां च वै ॥
अनुसृत्य दिवो लोकान् अहं ब्रह्म-पुरोगमान् ।
गतः सूर्य-सखं तात विपुलं मेरु-पर्वतम् ॥ [ह।वं। २.१.२-९]
सो\ऽहं कदाचिद् देवानां समाजे मेरु-मूर्धनि ।
सङ्गृह्य वीणां संसक्ताम् अगच्छं ब्रह्मणः सभाम् ॥ [२.१.१३]
तत्र मन्त्रयताम् एवं देवतानां मया श्रुतः ।
भवतः सानुगस्येह वधोपायः सुदारुणः ॥ [२.१.१५] इति ।
पद्म-लोचन इति विस्मयेनोत्फुल्ल-चोचन इत्य् अर्थः ॥६४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संशयामास शशंस ॥६४॥
॥ १०.१.६५ ॥
ऋषेर् विनिर्गमे कंसो यदून् मत्वा सुरान् इति ।
देवक्या गर्भ-सम्भूतं विष्णुं च स्व-वधं प्रति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृपेर् नारदस्य । विनिर्गमे गमने सति । स्ववधं प्रति मत्वा च ॥६५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेण पुनर् निवृत्ति-शङ्कापगमादिना पुरीतो निर्गमे सति । अस्य पर-श्लोक-पूर्वार्धेनान्वयः । ऋषेः साक्षाद्-विग्रहे लज्जाद्य्-उत्पत्तेः । किं वा, तेन तन्-निवारणस्य शङ्कया । मत्वा ज्ञत्वा । स्वस्य कंसस्य वधं प्रति तद्-अर्थं विष्णुं च देवक्या गर्भे सम्यक् सर्वैश्वर्य-परिपूर्णतया भूतम् आविर्भूतं विष्णुं प्रवेशन-शीलम् इति श्री-देवकी-गर्भे प्रवेशः सम्भावितः । भविष्यत्य् अपि भूत-निर्देशः सामीप्यात्, तन्-निर्धारणाद् वा ।
यद् वा, गर्भे सम्भूतं सम्भूतिर् यस्य, तं मत्वा । सम्भूतिम् इति पाठोऽपि क्वचित् । तद्-ज्ञानं श्री-नारद-वचनाद् अपि । तथा च तत्रैव हरि-वंशे [ह।वं।२.१.१६-१९; वैष्णव-तोषणी द्रष्टव्या।]
तत्र पितृ-ष्वसेति पितृ-सम्बन्धेन स्वसेत्य् अर्थः । देवक-जनकेनाहुकेन पौत्री देवकी स्व-पुत्रीत्वेन पालितेति केचित् ॥६५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ऋषेर् इति युग्मकम् । इति अनेन प्रकारेण विशेषेण पुनर् निवृत्ति-शङ्कापगमनादिना पुरीतो निर्गमे सति ऋषेः साक्षात् तत्-तन्-निग्रहे लज्जाद्य्-उत्पत्तेः । किं वा, तेन तन्-निवारणस्य शङ्कया मत्वा ज्ञत्वा स्वस्य कंसस्य वधं प्रति तद्-अर्थं विष्णुं देवक्या गर्भे सम्यक् सर्वैश्वर्य-परिपूर्णतया भूतम् आविर्भूतं भविष्यत्य् अपि । भूत-निर्देशः सामीप्यात्, तन्-निर्धारणाद् वा ।
यद् वा, गर्भे सम्भूतं सम्भूतिर् यस्य, तं मत्वा । सम्भूतिम् इति पाठोऽपि क्वचित् तद्-ज्ञानं च, अस्यास् त्वाम् अष्टमो गर्भः [३४] इति पूर्वोक्तेन समुदितात्, दैत्यानां च वधोद्यमम् इति श्री-नारद-वचनाद् एव ज्ञेयम् । तथा च तत्रैव—
तत्रैषा देवकी या ते मथुरायां पितृ-ष्वसा ।
यो\ऽस्या गर्भो\ऽष्टमः कंस ! स ते मृत्युर् भविष्यति ॥
देवानां चैव सर्वस्वं त्रिदिवस्य गतिश् च सः ।
परं रहस्यं वेदानां स ते मृत्युर् भविष्यति ॥
परतो\ऽपि परस् तेषाम् स्वयम्भूश् च दिवौकसाम् ।
ततस् त्व् एतन् महद्-भूतं दिव्यं ते कथयान्य् अहम् ॥
श्लाघ्यश् च स हि मृत्युर् भूत-पूर्वश् च तं स्मर ॥ [ह।वं।२.१.१६-१९]इति ।
तत्र पितृ-ष्वसेति पितृ-सम्बन्धेन स्वसेत्य् अर्थः । देवक-जनकेनाहुकेन पौत्री देवकी स्व-पुत्रीत्वेन पालितेति केचित् ॥६५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विष्णुं च प्रतीति पूर्व-शत्रुर् विष्णुर् देवक्याम् आविर्भूय त्वां वधिष्यतीति नारदेनोक्तं । तत् तत् सर्व एव शुश्रूषुश् चेत्य् अपि ज्ञेयम् । अजनो विष्णुस् तच्-छङ्कया ॥६५-६६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : ऋषेर् इति युग्मकम् । नारदस्य विनिर्गमे यदून् नन्दादीन् वसुदेवादींश् च सुरान् मत्वा, स्व-वधं प्रति विष्णुं च मत्वा, पूर्व-शत्रु-विष्णुर् देवक्याम् आविर्भूय त्वां हनिष्यतीति नारदाद् अवगत्येत्य् अर्थः ॥६५॥
॥ १०.१.६६ ॥
देवकीं वसुदेवं च निगृह्य निगडैर् गृहे ।
जातं जातम् अहन् पुत्रं तयोर् अजन-शङ्कया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निगडैः शृङ्खलैः । अजनो विष्णुस् तच्-छङ्कया ॥६६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निगडैर् अन्दुकैः अन्दुको निगडो\ऽस्त्रो स्यात् इत्य् अमरः । निगृह्य निरुद्ध्य । अयम् एव मत्सहर्ता विष्णुर् इति शङ्कया । जातं जातम् उत्पन्नम् उत्पन्नम् । हतवान् न तु जन्म-काल एव । तथा सति नाम-करणा-संभवे कीर्तिमन्तम् इत्य् उक्त्र् असाङ्गत्यं स्याद् इति भावः । य्ग्मम् ॥६६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निगृह्य बद्ध्वा निज-गृहे । अजनेति जीववज् जन्म-रहितस्यापि प्राकृत-जन्म-शङ्कयेति कंसस्य मौढ्यं सूचितं । किं वा, अजनाद् या शङ्का, भयं तया ॥६६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अजनो विष्णुस् तच्-छङ्कया ॥६६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कंसस्य दौर्जन्यान् नैतच् चित्रम् इत्य् आह—मातरम् इति यथा-पूर्वं गौरवाधिक्यम् ॥
॥ १०.१.६७ ॥
मातरं पितरं भ्रातॄन् सर्वांश् च सुहृदस् तथा ।
घ्नन्ति ह्य् असुतृपो लुब्धा राजानः प्रायशो भुवि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पर-प्राणैः स्व-प्राणांस् तपयन्ति ये ते\ऽसुतृपः । राजानस् तु प्रायशो बाहुल्येन,
मा राज्य-श्रीर् अभूत् पुंसः श्रेयस्-कामस्य मानद ।
स्वजनान् उत वा बन्धून् न पश्यति ययान्ध-दृक् ॥ [भा।पु। १०.८४.६४] इति वक्ष्यमाणत्वात् ॥६७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, बालान् घ्नन् कंसः कथं न लज्जते ? तत्राह—मातरम् इति । मात्रादीनां यथोत्तरं स्निग्धत्वेन न्यूनता । मातरम् अपि घ्नन्ति, किम् उत पितरम् इत्य् एवं कैमुतिक-न्यायम् अवतार्य व्याख्येयम् । हि निश्चये । यतोऽसून् निज-प्राणान् एव तर्पयन्तीत्य् असुतृपः राज्यादि-लुब्धास् तदानीं भुवि वर्तमाना राजानो मात्रादि-घातिन इत्य् अर्थः । तेन साधारण्यान् न लज्जते । प्रायश इति केचिद् भवादृशा एव न घ्नन्तीत्य् अर्थः ॥६७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, बालान् घ्नन् कंसः कथं न लज्जते ? तत्राह—मातरम् इति । मात्रादीनां यथोत्तरं स्निग्धत्वेन न्यूनता । मातरम् अपि घ्नन्ति, किम् उत पितरम् इत्य् एवम् । हि निश्चये । यतो येऽसून् निज-प्राणान् एव तर्पयन्तीत्य् असुतृपः राज्यादि-लुब्धाः, ते मात्रादीन् घ्नन्ति । प्रायश इति ते\ऽपि, न सर्व इति तस्यात्यन्तावमतत्व-विवक्षया ॥६७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कंसादीनां दुर्जनानाम् एतन् न चित्रम् इत्य् आह—मातरम् अपि किम् उत पितरम् इत्य् एवं यथा-पूर्वं गुरुत्वाधिक्यम् ॥६७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कंसस्य दौर्जन्यान् नैतच् चित्रम् इत्य् आह—मातरम् इति यथा-पूर्वं गौरवाधिक्यम् ॥६७॥
॥ १०.१.६८ ॥
आत्मानम् इह सञ्जातं जानन् प्राग् विष्णुना हतम् ।
महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राक् पूर्व-जन्मनि जानन् नारदोक्तेर् इति शेषः । स कंसः ॥६८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इह भू-तले श्री-मधु-पुर्यां वा । अत एव सम्यक् जातम् इति पूर्व-जन्मत उत्कर्षः सूचितः । विष्णुना निज-शक्त्या जगद्-व्यापकेनेति हनने सामर्थ्यम् उक्तम् । जानन्न् इति श्री-नारद-वचनाद् एव । यद् वा, भूत-पूर्वश् च तं स्मर [ह।वं।२.१.१९] इति तद्-आशिषा पूर्व-जन्म-स्मरणात् स कंसो यदुभिः सह व्यरुध्यत मह-वैरं चक्रे ॥६८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विष्णुना निज-शक्त्या जगद्-व्यापकेनेति हनने सामर्थ्यम् उक्तम् । जानन्न् इति भूत-पूर्वश् च तं स्मर [ह।वं।२.१.१९] इति श्री-नारद-वचनाद् एव पूर्व-जन्म-स्मरणात् ॥६८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जानन् नारद-वचनात् ॥६८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जानन् नारद-वाक्यात् ॥६८॥
॥ १०.१.६९ ॥
उग्रसेनं च पितरं यदु-भोजान्धकाधिपम् ।
स्वयं निगृह्य बुभुजे शूरसेनान् महा-बलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चात् तत्-संबन्धिनोऽपि । स्वयं बुभुजे, न केनचिद् अभिषिक्त इत्य् अर्थः ॥६९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च केवलं तैः सह, स्व-पित्रापीत्य् आह—उग्रेति । यद्व्-आदीनां अधिपम् अपि निगृह्य, बद्ध्वा अतिक्रम्य वा । स्वयं बुभुजे, यतो महद्-बलं सामर्थ्यं दैत्य-सेना वा यस्य सः । कुकुरादि-बहु-भेदेषु सत्स्व् अपि यद्व्-आदीनां एवोक्तिः प्राधान्यापेक्षया । भोजादीनां यदुत्वे\ऽपि पृथग्-उक्तिस् तत्-तद्-आख्यया तेषां पृथक् प्रसिद्धेः। शुरसेनान् इति माथुरैः सह तेषां अभेदान् माथुरा न पृथग्-उक्तेः ॥६९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं तैः सह स्व-पित्रापीत्य् आह—उग्रेत्य्-आदि । यदु-भोजाद्य्-अधिपम् अपि निगृह्य बद्ध्वा अतिक्रम्य वा स्वयं बुभुजे, यतो महद्-बलं सामर्थ्यं दैत्य-सेना वा यस्य सः । भोजादीनां यदुत्वे\ऽपि पृथग्-उक्तिः, तेषां तेषु प्रधानानाम् । अप्य् अधिप इति विवक्षया शुरसेनान् इति माथुरास् तत्-पूर्वम् एव तद्-अनुज्ञाम् अतिक्रम्य बुभुज इति द्योतितम् ॥६९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शूरसेनान्तर्-गतत्वान् माथुरान् अपि ॥६९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शूरसेनान् इति माथुराणां तद्-अन्तर्गतत्वाद् ग्रहणम् ॥६९॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमद्-बलदेव-विद्याभूषण-कृत-वैष्णव-नन्दिन्यां प्रथमोऽध्यायः ॥१॥
(१०.२)
-
थे भवनगर् एदितिओन् अन्द् थे पुरिदस् एदितिओन् हवे चोन्सिदेरब्ले दिफ़्फ़ेरेन्चेस्। गिवेन् इस् थे ब्न् एदितिओन् अन्द् थिस् फ़ोओत्नोते चोन्तैन्स् थे प्द् एदितिओन्। हर्द् तो रेचोन्चिले। सर्ग-विसर्गादि-नव-लक्षण-कथन-द्वाराश्रयस्य दशमस्य श्री-कृष्णस्य विशुद्ध्य्-अर्थं सर्गादि-प्रासङ्गिक-कथनम्, वस्तुतस् तु श्री-कृष्णावतार-कथनम् एव श्री-भागवत-प्रतिपाद्यम् इति पूर्वोक्त-सर्व-विस्मरणार्थम् । तत्र तत्रालं-बुद्ध्या पुनः सम्यक् श्री-कृष्ण-चरित-श्रवणादिकम् एव कार्यम् इति बोधयितुं च परीक्षिता यत् पृष्टं तद् दर्शयन्न् आह—श्री-राजोवाच—कथित इति । तत्र तत्रालं-बुद्धि-द्योतकं तावताहं कृतार्थो न स्याम् । यस्य कथनेन कृतार्थः स्याम्, तत् कथयेति क्त-प्रत्यय-ध्वनिः । सूर्य-सोमयोर् इति वक्तव्ये सोम-शब्दस्य प्रथमोपादानं यदु-वंश-मूल-भूतत्वेन पूजार्थम्, न केवलं वंश-विस्तार एव कथितः । उभय-वंश्यानां राज्ञां परमाद्भुतं चरितम् अपि । तथा मे न तृप्तिर् जाता, श्री-कृष्णावतारं सम्यक् कथयेति वाक्यार्थः । उभय-वंश्यानाम् इत्य् अनेनैव रघु-यदोश् चरितेऽप्य् आयाते ॥१॥ ↩︎
-
निध्य्-आप्त्यै ↩︎
-
रसोज्ज्वलम् ↩︎
-
श्रीमच्-चैतन्य-वल्लभम् ↩︎
-
निध्य्-आप्त्यै ↩︎
-
रसोज्ज्वलम् ↩︎
-
श्रीमच्-चैतन्य-वल्लभम् ↩︎
-
भास्करः इति तत्र स्वीकृत-पाठः। ↩︎
-
थिस् इस् थे रेअदिन्ग् फ़ोउन्द् इन् व्प्। ↩︎
-
सम्प्राप्य मथुरां रम्यां ↩︎
-
ममत्वम् [अममत्वम्] इति पाठान्तरम्। ↩︎