२४ यदु-वंशानुकीर्तनम्

॥ ९.२४.१ ॥

श्री-शुक उवाच—

तस्यां विदर्भोऽजनयत् पुत्रौ नाम्ना कुश-क्रथौ ।

तृतीयं रोमपादं च विदर्भ-कुल-नन्दनम् ॥

श्रीधरः :

चतुर्-विंशे विदर्भस्य पुत्र-त्रय-समुद्भवाः ।

वंशा नाना-मुखाः प्रोक्ता राम-कृष्णोद्भवावधि ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

चतुर्-विंशे प्रकीर्त्यन्ते वंशे नाना-मुखे यदोः ।

देवकी-वसुदेवाद्याः पितरौ राम-कृष्णयोः ॥१॥

—ओ)०(ओ—

॥ ९.२४.२ ॥

रोमपाद-सुतो बभ्रुर् बभ्रोः कृतिर् अजायत ।

उशिकस् तत्-सुतस् तस्माच् चेदिश् चैद्यादयो नृपाः ॥

श्रीधरः, विश्वनाथः : चैद्यादयो दमघोषादयः ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.३ ॥

क्रथस्य कुन्तिः पुत्रोऽभूद् धृष्टिस्12 **तस्याथ निर्वृतिः

ततो दशार्हो नाम्नाभूत् तस्य व्योमः सुतस् ततः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : क्रथस्य विदर्भ-पुत्रस्य ॥३॥

—ओ)०(ओ—

॥ ९.२४.४ ॥

जीमूतो विकृतिस् तस्य यस्य भीमरथः सुतः ।

ततो नवरथः पुत्रो जातो दशरथस् ततः ॥

श्रीधरः : ततो दशरथाच् छकुनिः पुराणान्तरादेवम् आदि-विशेषो द्रष्टव्यः ॥४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.५ ॥

करम्भिः शकुनेः पुत्रो देवरातस् तद्-आत्मजः ।

देवक्षत्रस् ततस् तस्य मधुः कुरुवशाद् अनुः ॥

श्रीधरः : ततः कुरुवशाद् अनुः ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्य मधुः कुरु-वंशश् च ततः कुरु-वशादनुः ॥५॥

—ओ)०(ओ—

॥ ९.२४.६-८ ॥

पुरुहोत्रस् त्व् अनोः पुत्रस् तस्यायुः सात्वतस् ततः ।

भजमानो भजिर् दिव्यो वृष्णिर् देवावृधोऽन्धकः ॥

सात्वतस्य सुताः सप्त महाभोजश् च मारिष ।

भजमानस्य निम्लोचिः किङ्कणो धृष्टिर् एव च ॥

एकस्याम् आत्मजाः पत्न्याम् अन्यस्यां च त्रयः सुताः ।

शताजिच् च सहस्राजिद् अयुताजिद् इति प्रभो ॥

श्रीधरः : अनोः पुत्रः पुरुहोत्रः । महाभोजश् चेत्य् एवं सप्त । मातिष हे आर्य ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.९ ॥

बभ्रुर् देवावृध-सुतस् तयोः श्लोकौ पठन्त्य् अमू ।

यथैव शृणुमो दूरात् सम्पश्यामस् तथान्तिकात् ॥3

श्रीधरः : न व्याख्यातम्।

क्रम-सन्दर्भः : बभ्रुर् इत्य् अर्धकं श्लोकं पठन्त्य् अमुम् इति क्वचित् एतन्-मते तूत्तर-श्लोकः श्री-शुक-वाक्यम् एव ॥११॥

विश्वनाथः : सात्वत-पुत्रस्य देवावृधस्य सुतो बभ्रुः, तयोः पिता-पुत्रयोः ॥९॥

—ओ)०(ओ—

॥ ९.२४.१० ॥

बभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधः समः ।

पुरुषाः पञ्च-षष्टिश् च षट्-सहस्राणि चाष्ट च ॥

येऽमृतत्वम् अनुप्राप्ता बभ्रोर् देवावृधाद् अपि ।

महाभोजोऽतिधर्मात्मा भोजा आसंस् तद्-अन्वये ॥

श्रीधरः : ततस् तद्-उपदेशेन ये पञ्च-षष्ट्य्-आदि-सङ्ख्याः पुरुषास् तेऽमृतत्वं मोक्षं प्राप्ताः ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : बभ्रोर् इति बभ्रु-देवावृधयोः सङ्ग-प्रभावाद् इत्य् अर्थः ॥१०-११॥

—ओ)०(ओ—

॥ ९.२४.१२ ॥

वृष्णेः सुमित्रः पुत्रोऽभूद् युधाजिच् च परन्तप ।

शिनिस् तस्यानमित्रश् च निघ्नोऽभूद् अनमित्रतः ॥

श्रीधरः : तस्य युधाजितः शिनिर् अनमित्रश् च ।।१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वृष्णेः सात्वत-पुत्रस्य ॥१२॥

—ओ)०(ओ—

॥ ९.२४.१३ ॥

सत्राजितः प्रसेनश् च निघ्नस्याथासतुः सुतौ ।

अनमित्र-सुतो योऽन्यः शिनिस् तस्य च सत्यकः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.१४ ॥

युयुधानः सात्यकिर् वै जयस् तस्य कुणिस् ततः ।

युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस् ततः ॥

श्रीधरः : सत्यकस्य पुत्रो युयुधानः, तस्य जयः, तस्य कुणिः, ततः कुणेर् युगन्धरः। अनमित्रस्यैवापरो वृष्णिर् नाम पुत्रः ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सात्यकिः सत्यकस्य पुत्रो युयुधानः । अनमित्रस्यैवापरो वृष्णिर् नाम ॥१४॥

—ओ)०(ओ—

॥ ९.२४.१५ ॥

श्वफल्कश् चित्ररथश् च गान्दिन्यां च श्वफल्कतः ।

अक्रूर-प्रमुखा आसन् पुत्रा द्वादश विश्रुताः ॥

श्रीधरः : अक्रूरः प्रमुखो येषाम् इत्य् अतद् गुण-संविज्ञानो बहुव्रीहिः ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अक्रूरः प्रमुखो येषाम् आसङ्गादीनाम् इत्य् अतद् गुण-संविज्ञान-बहुव्रीहिः ॥१५॥

—ओ)०(ओ—

॥ ९.२४.१६-१८ ॥

आसङ्गः सारमेयश् च मृदुरो मृदुविद् गिरिः ।

धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः ॥

शत्रुघ्नो गन्धमादश् च प्रतिबाहुश् च द्वादश ।

तेषां स्वसा सुचाराख्या4 द्वाव् अक्रूर-सुताव् अपि ॥

देववान् उपदेवश् च तथा चित्ररथात्मजाः ।

पृथुर् विदूरथाद्याश् च बहवो वृष्णि-नन्दनाः ॥

श्रीधरः : अतोऽक्रूरातिरिक्तान् द्वादश दर्शयति—आसङ्ग इति ॥१६॥ पृथुर् एकः । विदूरथाद्या अन्ये च बहवः । विपृथु-धामाद्या इति पाठे आद्य-शब्देन विदूरथोऽप्य् उक्तस् ततश् च, शूरो विदूरथाद् आसीत् [भा।पु। ९.२४.२६] इति वक्ष्यामाण-निर्देशोपपत्तिः ।**।**१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : चित्ररथस्य श्वफल्क-भ्रातुर् आत्मजाः ॥१६-१८॥

—ओ)०(ओ—

॥ ९.२४.१९ ॥

कुकुरो भजमानश् च शुचिः कम्बलबर्हिषः ।

कुकुरस्य सुतो वह्निर् विलोमा तनयस् ततः ॥

श्रीधरः : कुकुरादयश् चत्वारोऽन्धकस्य सुता इति ज्ञेयम । तथा च पराशरः, कुकुर-भजमान-शुचिकम्बल-बर्हिषाख्यास् तथान्धकस्य पुत्राः [वि।पु। ४.१४.१२] इति ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वृष्णेर् अनमित्र-पुत्रस्य नन्दनाः कुकुराद्याः । विष्णु-पुराणे त्व् अन्धक-पुत्राः कुकुरादयो दृष्टाः ॥१९॥

—ओ)०(ओ—

॥ ९.२४.२० ॥

कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः ।

अन्धकाद् दुन्दुभिस् तस्माद् अविद्योतः पुनर्वसुः ॥

श्रीधरः : अनोर् अन्धकोऽन्धकाद् दुन्दुभिर् इत्य् अपि तद् वचनाद् एव ज्ञेयम् ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अन्धकात् सात्वत-पुत्रात् ॥२०॥

—ओ)०(ओ—

॥ ९.२४.२१ ॥

तस्याहुकश् चाहुकी च कन्या चैवाहुकात्मजौ ।

देवकश् चोग्रसेनश् च चत्वारो देवकात्मजाः ॥

देववान् उपदेवश् च सुदेवो देववर्धनः ।

तेषां स्वसारः सप्तासन् धृतदेवादयो नृप ॥

शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता ।

सहदेवा देवकी च वसुदेव उवाह ताः ॥

श्रीधरः : धृतदेवा आदिर् यासां शान्तिदेवादीनां षण्णां ताः सप्त ।ताः सप्त ॥२१-२३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.२४ ॥

कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस् तथा ।

राष्ट्रपालोऽथ सृष्टिश्5 च तुष्टिमान् औग्रसेनयः ॥

श्रीधरः : औग्रसेनय उग्रसेनस्य सुताः ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : औग्रसेनयः उग्रसेनस्य पुत्राः कंसादयः ॥२४॥

—ओ)०(ओ—

॥ ९.२४.२५ ॥

कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका ।

उग्रसेन-दुहितरो वसुदेवानुज-स्त्रियः ॥

श्रीधरः : वसुदेवस्य येऽनुजा देवभागादयस् तेषां स्त्रियो भार्याः ॥२५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.२६ ॥

शूरो विदूरथाद् आसीद् भजमानस् तु तत्-सुतः ।

शिनिस् तस्मात् स्वयं भोजो हृदिकस् तत्-सुतो मतः ॥

श्रीधरः : अन्धक-सुतानां चतुर्णां प्रथमस्य कुकुरस्य वंश उक्तः, द्वितीयस्य भजमानस्य वंशम् आह—शूरो विदूरथाद् इति । भजमानाच् च विदूरथः पुत्रोऽभूद् विदूरथाच् च शूरः [वि।पु। ४.१४.२२] इति पराशरादि-वचनात् । यद् वा, प्र्थुर् विदूरथाद्याश् चेति पूर्वोक्त-चित्ररथात्मजाद् विदूरथात् ॥२६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.२७ ॥

देवमीढः शतधनुः कृतवर्मेति तत्-सुताः ।

देवमीढस्य शूरस्य मारिषा नाम पत्न्य् अभूत् ॥

श्रीधरः : देवमीढस्य यः शूरो नाम पुत्रस् तस्य । देवमीढो हृदीकस्यैव सुतः । यथाह पराशरः, तस्यापि कृतवर्म-शतधनुर्-देवमीढुषाद्या बभूवुः । देवमीढुषस्य सूरस्यापि मारिषा नाम पत्न्य् अभवत् तस्यां चासौ दश पुत्रान् अजनयद् वसुदेव-पूर्वान् [वि।पु। ४.१४.२४-२७] इति ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : विदूरथाच् चित्ररथ-पुत्रात् सुहृदिकस्य सुतो देवमीढस् तस्य शूरः, तस्य मारिषा हरेः स्थानं हरिर् यत्र प्रादुर्भवतीत्य् अर्थः । तासु मध्ये पृथां शूरस् तत्-पितैव तवैषा कन्या भवत्व् इति कुन्तेः कुम्भये अदात् ॥२७॥

—ओ)०(ओ—

॥ ९.२४.२८-३० ॥

तस्यां स जनयाम् आस दश पुत्रान् अकल्मषान् ।

वसुदेवं देवभागं देवश्रवसम् आनकम् ॥

सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम् ।

देव-दुन्दुभयो नेदुर् आनका यस्य जन्मनि ॥

वसुदेवं हरेः स्थानं वदन्त्य् आनकदुन्दुभिम् ।

पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ॥

श्रीधरः : आनकाश् च नेदुः । हरेः प्रादुर्भावस्य स्थानम् ॥२८-३०॥

चैतन्य-मत-मञ्जुषा : वसुदेवम् इत्य्-आदि । हरेः स्थानं प्रादुर्भाव-स्थानम् । आनकदुन्दुभिम् इत्य् अनेन पूर्वोक्तस्य, सत्त्वं विशुद्धं वसुदेव-शब्दितं [भा।पु। ४.३.२३] इत्य्-आदेर् अन्यथार्थ-कल्पनम् उचितम् । तत्राप्य् अयम् एवार्थः—वसुदेव-संज्ञितं यद् वपुस् तद् एव सत्त्वं विशुद्धम् इत्य् एवार्थः ॥३०॥

क्रम-सन्दर्भः : वसुदेवं हरेः स्थानम् इति—सत्त्वं विशुद्धं वसुदेव-शब्दितं यद् ईयते तत्र पुमान् अपावृतः [भा।पु। ४.३.२३] इति श्री-शिवोक्त-दिशा विशुद्ध-सत्त्वम् एव वसुदेवाख्यम् । ततस् तद्-अवतारम् एवैतम् आनकदुन्दुभिं वदन्तीत्य् अर्थः । अत्र विशेष-जिज्ञासायां भगवत्-सन्दर्भो दृश्यः ॥३०॥

**विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.३१ ॥

राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः ।

कुन्तेः सख्युः पिता शूरो ह्य् अपुत्रस्य पृथाम् अदात् ॥

श्रीधरः : पृथायाः कन्यकावस्थायां कर्णोत्पत्ति-प्रकारम् आह—कुन्तिर् इति पञ्चभिः ॥३१॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.३२ ॥

साप दुर्वाससो विद्यां देव-हूतीं प्रतोषितात् ।

तस्या वीर्य-परीक्षार्थम् आजुहाव रविं शुचिः ॥

श्रीधरः : कदाचिद् गृहम् आगतं दुर्वाससं पृथा परिचर्यादिना तोषयाम् आस, ततश् च सा तस्माद् देव-हूतीं देवाह्वान-हेतुं विद्याम् अवाप, तद् आह—सापेति ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सा च पृथा कदाचिद् गृहम् आगतात् परिचर्यया प्रतोषितात् दुर्वाससः सकाशात् देव-हूतिं देवाह्वान-हेतुं विद्याम् आप ॥३२॥

—ओ)०(ओ—

॥ ९.२४.३३ ॥

तदैवोपागतं देवं वीक्ष्य विस्मित-मानसा ।

प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ॥

श्रीधरः : देवम् उपागतं वीक्ष्य सा प्राह—प्रत्ययार्थं परीक्षार्थं मया विद्या प्रयुक्ता, न तु त्वया किञ्चित् कार्यम् इत्य् अभिसन्धिना, अतो याहीति ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : देवं सूर्यं प्रत्ययथार्थं परीक्षार्थं मया विद्या-प्रयुक्तातः क्षमस्व सम्प्रत्य् अहं कन्यास्मि, त्वया न किम् अपि कार्यं याहि ॥३३॥

—ओ)०(ओ—

॥ ९.२४.३४ ॥

अमोघं देव-सन्दर्शम् आदधे त्वयि चात्मजम् ।

योनिर् यथा न दुष्येत कर्ताहं ते सुमध्यमे ॥

श्रीधरः : एवम् उक्तो रविर् उवाच, अमोघं दर्शनम् इति । कन्याहम् इति चेत् तत्राह—यथा योनिर् न दुष्येत तथाहं कर्ता करिष्यामि ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सूर्य उवाच—अमोघम् इत्य्-आदि । ननु तर्हि योनि-दुष्टां कन्यां मा कः परिणयेद् इति चेत्, तत्राह—योनिर् इति कर्ता करिष्यामि ॥३४॥

—ओ)०(ओ—

॥ ९.२४.३५-३८ ॥

इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः ।

सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः ॥

तं सात्यजन् नदी-तोये कृच्छ्राल् लोकस्य बिभ्यती ।

प्रपितामहस् ताम् उवाह पाण्डुर् वै सत्य-विक्रमः ॥

श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत् ।

यस्याम् अभूद् दन्तवक्र ऋषि-शप्तो दितेः सुतः ॥

कैकेयो धृष्टकेतुश् च श्रुतकीर्तिम् अविन्दत ।

सन्तर्दनादयस् तस्यां पञ्चासन् कैकयाः सुताः ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

क्रम-सन्दर्भः : ऋषि-शप्त इत्य् अत्र इति-शब्दः इति पाठः सम्बन्धोक्तौ । स पूर्व-जन्मनि दितेः सुत आसीत् । इति-शब्दः किंवदन्तीति व्याख्यानात् ॥३७॥

—ओ)०(ओ—

॥ ९.२४.३९ ॥

राजाधिदेव्याम् आवन्त्यौ जयसेनो6ऽजनिष्ट ह ।

दमघोषश् चेदि-राजः श्रुतश्रवसम् अग्रहीत् ॥

श्रीधरः, विश्वनाथः : आवन्त्यौ विन्दानुविन्दौ ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.४० ॥

शिशुपालः सुतस् तस्याः कथितस् तस्य सम्भवः ।

देवभागस्य कंसायां चित्रकेतु-बृहद्बलौ ॥

श्रीधरः : तद् एवं वसुदेवस्य भगिनीनां पतीन् पुत्रांश् चोक्त्वा तद्-भ्रातॄणां नवानां पत्नीः पुत्रांश् चाह—देवभागस्येति नवभिः श्लोकार्धैः ॥४०॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.४१-४५ ॥

कंसवत्यां देवश्रवसः सुवीर इषुमांस् तथा ।

बकः कङ्कात् तु कङ्कायां सत्यजित् पुरुजित् तथा ॥

सृञ्जयो राष्ट्रपाल्यां च वृष-दुर्मर्षणादिकान् ।

हरिकेश-हिरण्याक्षौ शूरभूम्यां च श्यामकः ॥

मिश्रकेश्याम् अप्सरसि वृकादीन् वत्सकस् तथा ।

तक्ष-पुष्कर-शालादीन् दुर्वाक्ष्यां वृक आदधे ॥

सुमित्रार्जुनपालादीन् समीकात् तु सुदामनी ।

आनकः कर्णिकायां वै ऋतधामा-जयाव् अपि ॥

पौरवी रोहिणी भद्रा मदिरा रोचना इला ।

देवकी-प्रमुखाश् चासन् पत्न्य आनकदुन्दुभेः ॥

बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् ।

वसुदेवस् तु रोहिण्यां कृतादीन् उदपादयत् ॥

श्रीधरः : वसुदेवस्य पत्नीः पुत्रांश् चाह—पौरवीत्य् एकादशभिः ॥४५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.४७-४८ ॥

सुभद्रो भद्रबाहुश् च दुर्मदो भद्र एव च ।

पौरव्यास् तनया ह्य् एते भूताद्या द्वादशाभवन् ॥

नन्दोपनन्द-कृतक-शूराद्या मदिरात्मजाः ।

कौशल्या केशिनं त्व् एकम् असूत कुल-नन्दनम् ॥

श्रीधरः : कौशल्या भद्रा ॥४८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वसुदेवस्य भगिनीनां पतीन् पुत्रांश् चोक्त्वा तद्-भ्रातॄणां नवानां पत्नीः पुत्रआंच् चाह देवभागस्येति नवभिः श्लोकार्धैः कौशल्या भद्रा ॥४७-४८॥

—ओ)०(ओ—

॥ ९.२४.४९-५२ ॥

रोचनायाम् अतो जाता हस्त-हेमाङ्गदादयः ।

इलायाम् उरुवल्कादीन् यदु-मुख्यान् अजीजनत् ॥

विपृष्ठो धृतदेवायाम् एक आनकदुन्दुभेः ।

शान्तिदेवात्मजा राजन् श्रम-प्रतिश्रुतादयः7

राजन्य-कल्प-वर्षाद्या उपदेवा-सुता दश ।

वसु-हंस-सुवंशाद्याः श्रीदेवायास् तु षट् सुताः ॥

देवरक्षितया लब्धा नव चात्र गदादयः ।

वसुदेवः सुतान् अष्टाव् आदधे सहदेवया ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.५३-५५ ॥

पुरुवि-श्रुत-मुख्यांस् तु8 साक्षाद् धर्मो वसून् इव ।

वसुदेवस् तु देवक्याम् अष्ट पुत्रान् अजीजनत् ॥

कीर्तिमन्तं सुषेणं च भद्रसेनम् उदार-धीः ।

ऋजुं सम्मर्दनं भद्रं सङ्कर्षणम् अहीश्वरम् ॥

अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल ।

सुभद्रा च महाभागा तव राजन् पितामही ॥

श्रीधरः : अष्टमस् तु स्वयम् एवासीत्, न तु कर्मादिना हेतुना ताभ्यां जनितो वा, यतोऽसौ हरिः ॥५५॥

क्रम-सन्दर्भः : अष्टमस् त्व् इति । हरत्य् आकर्षति वशीकरोति सर्वम् इति हरिः पूर्णो भगवान् । स एव स्वयम् आसीत्, न त्व् आविर्भावान्तरेण । किलेति, एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८] इति प्रसिद्धिं निश्चिनोति ॥५५॥

विश्वनाथः : स्वयम् एव न त्व् अंशेन ॥५५॥

—ओ)०(ओ—

॥ ९.२४.५६ ॥

यदा यदा हि धर्मस्य क्षयो वृद्धिश् च पाप्मनः ।

तदा तु भगवान् ईश आत्मानं सृजते हरिः ॥

श्रीधरः : तद् एवोपपादयति—यदेति त्रिभिः ॥५६॥

चैतन्य-मत-मञ्जुषा : अतः परं कलौ अवतारान्तरं भविष्यति न वेत्य् आह—

यदा यदा हि धर्मस्य क्षयो वृद्धिश् च पाप्मनः ।

तदा तु भगवान् ईशः आत्मानं सृजते हरिः ॥

इत्य्-आदिना कलौ अवतारान्तरं सूचितम् ॥५६॥

क्रम-सन्दर्भः : अत्र भगवद्-अवतार-मात्रस्य सामान्यतः कारणम् आह—यदेति ॥५६॥

विश्वनाथः : तत्र भगवद्-अवतार-मात्रस्य सामान्यतः कारणम् आह—यदेति ॥५६॥

—ओ)०(ओ—

॥ ९.२४.५७ ॥

न ह्य् अस्य जन्मनो हेतुः कर्मणो वा महीपते ।

आत्म-मायां विनेशस्य परस्य द्रष्टुर् आत्मनः ॥

श्रीधरः : ईशस्य माया-नियन्तुः । परस्यासङ्गस्य । द्रष्टुः साक्षिणः । आत्मनः सर्व-गस्य । न ह्य् एवं-भूतय माया-विनोदं विना जन्मनः कर्मणो वा हेतुः संभवतीत्य् अर्थः ।

क्रम-सन्दर्भः : नन्व् अन्यस्य जन्म-कर्मणोर् हेतुः प्राचीन-कर्मैव स्यात्, तस्य च हेतुर् माया । श्री-भगवतस् तु किं स्यात्? इत्य् आशङ्क्याह—न ह्य् अस्येति । साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् [भा।पु। ९.४.६८] इति न्यायेनात्माभिन्नत्वेन सन्मतेषु साधुषु या माया कृपा, तां विना । तत्र हेतवः—ईशस्येत्य्-आदयः ॥५७॥

विश्वनाथः : ननु जीवस्य जन्म-कर्मणोर् हेतुः प्राचीनं कर्मैव स्यात्, तस्य च हेतुर् माया श्री-भगवतस् तु किं स्याद् इत्य् अत आह—न ह्य् अस्येति । आत्मनः स्वस्य आत्मसु जीवेषु मायां कृपां विना उत्तर-श्लोके अनुग्रह इति मायार्थ-विवरणात् । माया दम्भे कृपायां च इति विश्व-प्रकाशात् माया-शब्देनात्र कृपैवोच्यते । कृपायाः फलम् अभिव्यञ्जयति । ईशस्य जन्म-कर्मभ्यां दर्शिताभ्याम् सर्व-जीवोद्धार-समर्थस्येत्य् अर्थः । सामर्थ्ये हेतुः—परस्य सर्वोत्कृष्टस्य । कृपायां हेतुर् आत्मनो जीवान् द्रष्टुः संसार-दुःखाब्धौ पतितान् विलोकयितुः ॥५७॥

—ओ)०(ओ—

॥ ९.२४.५८ ॥

यन् माया-चेष्टितं पुंसः स्थित्य्-उत्पत्त्य्-अप्ययाय हि ।

अनुग्रहस् तन्-निवृत्तेर् आत्म-लाभाय चेष्यते ॥

श्रीधरः : किं च, यस्य माया-चेष्टितं पुंसो जीवस्यानुग्रहस् तस्य जीवानुग्राहकस्य कुतः कर्मादि-पार-तन्त्र्येण जन्मादि-संभवः । अनुग्रहम् एवाह—हि यस्मात् तद् एव स्थित्यादये इष्यते । प्रलये लीनोपाधेर् जीवस्य धर्माद्य्-असंभवाद् उपाधि-सृष्ट्य्-आदिना धर्मादि-संपादनेनानुग्रहः । तथात्म-लाभाय मोक्षाय चेष्यते । तत्र हेतुः—तेनेव श्रूयमाणेन तस्य स्थित्य्-आदेर् निवृत्तेः ॥५८॥

क्रम-सन्दर्भः : कृपाम् एव कैमुत्येन दर्शयति—स्थित्य्-आद्य्-अर्थं यन् मायायां प्रकृतौ चेष्टितं वीक्षण-रूपं तद् अपि जीवेष्व् अनुग्रह एव पर्यवसीयते बुद्धीन्द्रियादि-सम्पादनात् । अत एवाऽनुग्रहस् तस्य स्थित्य्-आदेर् निवृत्तेर् हेतोर् जीवानाम् आत्मनो भगवतो लाभाय चेष्यते, किम् उत धर्मादेः । तथा च वक्ष्यते—बुद्धीन्द्रिय-मनः-प्राणान् [भा।पु। १०.८७.२] इत्य् आदि ॥५८॥

विश्वनाथः : कृपाया एव हेतुत्वं कैमुत्येन दर्शयति यद् इति । पुंसः प्रकृतीक्षण-कर्तुं मायायां यच् चेष्टितम् ईक्षणादिकं कर्म जीवानां स्थित्य्-आद्य्-अर्थं हि निश्चितः तच् चापि अनुग्रहाद् एव हेतोः किम् उत माया-गन्धेनापि रहितं गोवर्धन-धारणादि-चेष्टितम् इति भावः । बुद्धीन्द्रियादिकं प्राप्य जीवा विषय-भोगादिकं प्राप्नुवन्त्व् इति या कृपा तत एव मायायां चेष्टितम् इत्य् अर्थः ।

ननु विषय-भोगादि-हेतुभ्यः स्थित्य्-आदिभ्यः पुनः संसार-दुःखम् एव स्याद् इति कोऽयम् अनुग्रहः ? तत्राह—तन्-निवृत्तेस् तेषां स्थित्य्-आदीनां भक्ति-ज्ञान-वैराग्यैर् निवृत्तेर् आत्मने भगवतो यो लाभस् तद्-अर्थं चेष्यते । बुद्धीन्द्रियादिकं विना भक्ति-ज्ञानाद्य् अपि न सिद्ध्येद् इति जीव-मात्रेषु कृपैव हेतुर् इत्य् अर्थः । यद् उक्तं—

बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः ।

मात्रार्थं च भवार्थं च आत्मने कल्पनाय च ॥ [भा।पु। १०.८७.२] इत्य् आदि ॥५८॥

—ओ)०(ओ—

॥ ९.२४.५९ ॥

अक्षौहिणीनां पतिभिर् असुरैर् नृप-लाञ्छनैः ।

भुव आक्रम्यमाणाया अभाराय कृतोद्यमः ॥

श्रीधरः : तस्य चेष्टितं भूमेर् अनुग्रह इत्य् आह—अक्षौहिणीनाम् इति द्वाभ्याम् । अभाराय भार-परिहाराय ॥५९॥

क्रम-सन्दर्भः : सम्प्रति त्व् असङ्ख्येय-भक्त-जनाश्रय-रूपायां परम-भक्तायां पृथिव्यां परिव्यक्तयैव कृपयैव स्वयम् अवततारेत्य् आह—अक्षौहिणीनाम् इति युग्मकेन ॥५९॥

विश्वनाथः : श्री-कृष्णस्य तु जन्म-कर्मणोर् हेतुः स्पष्टम् एव पृथिव्यां पृथिवी-स्थ-जनेषु साधक-सिद्ध-भक्तेष्व् अपि कृपैव दृश्यत इत्य् आह—अक्षौहिणीनाम् इति सप्तभिः । भुवो भार-हरणात् असुराणाम् अपि वधेन संसार-हरणात् कृपोक्ता ॥५९॥

—ओ)०(ओ—

॥ ९.२४.६० ॥

कर्माण्य् अपरिमेयाणि मनसापि सुरेश्वरैः ।

सह-सङ्कर्षणश् चक्रे भगवान् मधुसूदनः ॥

श्रीधरः : सुरेश्वरैर् अपि मनसाप्य् अपरिमे याण्यवितर्क्याणि । सङ्कर्षण-सहितश् चक्रे ॥६०॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२४.६१ ॥

कलौ जनिष्यमाणानां दुःख-शोक-तमो-नुदम् ।

अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद् यशः ॥

श्रीधरः : सङ्कल्प-मात्रेण भू-भार-हरण-समर्थस्यापि कर्म-करणं यशो-विस्तार-द्वारा भक्तानुग्रहार्थम् इत्य् आह—कलाव् इति द्वाभ्याम् । दुःख-शोक-तमांसि नुदतीति तथा तद्-यशो व्यतनोत् ॥६१॥

चैतन्य-मत-मञ्जुषा : अत एवाह—कलौ जनिष्यमाणानाम् इत्य्-आदि । कलौ जनिष्यमाणानां श्री-कृष्ण-चैतन्य-पार्षदानां दुःखं शोक-तमो-नुदं यशो व्यतनोत् । अतः कुन्ती-स्तुतौ प्रथमे—चरणारविन्द-स्मरणार्हाणि करिष्यन्न् इति केचन [भा।पु। १.८.३५] इति । कर्माणि चरणारविन्द-स्मरणार्हाणि करिष्यन्न् इति भविष्यन्-निर्देशात् । अन्यथा तत्-कालीन-जनानां चरणारविन्द-स्मरणार्हाणि यदि भवेत्, तदा कुर्वन्न् एवेति ब्रूयात् । अतो वाक्यैक-वाक्यता तेन सहेति स्थितम् ॥६१॥

क्रम-सन्दर्भः : न केवलं तदानीनानाम् एवानुग्रहायावततार । किं तर्हि ? कलाव् इति ॥६१॥

विश्वनाथः : भुवि स्थितेषु कृपाम् उक्त्वा भूति स्थास्यत्स्व् अपि कृपाम् आह—कलाव् इति तमोऽविद्या ॥६१॥

—ओ)०(ओ—

॥ ९.२४.६२ ॥

यस्मिन् सत्-कर्ण-पीयुषे यशस्-तीर्थ-वरे सकृत् ।

श्रोत्राञ्जलिर् उपस्पृश्य धुनुते कर्म-वासनाम् ॥

श्रीधरः : यस्मिन् सतां कर्ण-पीयूषे यशो-रूपे तीर्थ-वरे श्रोत्रम् एवाञ्जलिः पान-साधनं यस्य स पुरुषः । सकृद् अप्य् उपस्पृश्याचमन-मात्रं कृत्वा तत् सौन्दर्याकृष्ट-चित्तः कर्म-वासनां धुनुते ॥६२॥

क्रम-सन्दर्भः : ननु सन्त्य् एव गङ्गादि-तीर्थानि दुःखादि-हन्तॄणि ? तत्राह—यस्मिन्न् इति । वक्ष्यति च—तीर्थं चक्रे नृपोनम् [भा।पु। १०.९०.४७] इत्य्-आदि ॥६२॥

विश्वनाथः : ननु सुपुण्यम् इत्य् उक्त्वा यशः स्वर्ग-जनकम् अवगम्यते, तत्र मैवम् इत्य् आह—यस्मिन्न् इति । सद्भिः कर्णपेय-पीयूष-मये यशो-रूपे तीर्थ-वरे श्रोत्रम् एवाञ्जलिः पान-साधनं यस्य स उपस्पृश्य आचमन-मात्रं कृत्वा किं पुनर् आपीय सकृद् एक-वारम् अपि किं पुनर् बहुशः कर्म-वासनाम् अविद्यां यस्य परोक्ष-वर्तिनोऽपि यत् किञ्चिद् यशः-चरणारविन्द-मात्रेणैव संसारं तरन्तीत्य् अर्थः ॥६२॥

—ओ)०(ओ—

॥ ९.२४.६३-६४ ॥

भोज-वृष्ण्य्-अन्धक-मधु-शूरसेन-दशार्हकैः ।

श्लाघनीयेहितः शश्वत् कुरु-सृञ्जय-पाण्डुभिः ॥

स्निग्ध-स्मितेक्षितोदारैर् वाक्यैर् विक्रम-लीलया ।

नृ-लोकं रमयाम् आस मूर्त्या सर्वाङ्ग-रम्यया ॥

श्रीधरः : तद् एवाह द्वाभ्याम् । भोजादिभिः श्लाघनीयम् ईहितं यस्य ॥६३॥ सर्वैर् अङ्गैः रम्यया मूर्त्या च ॥६४॥

क्रम-सन्दर्भः : तदानीनन्तनानां तु साक्षाद् एव परमानन्द आसीद् इत्य् आह—भोजेति युगलेन । न केवलं भू-लोकम् एव रमयामास, अपि तु,

एते यादवाः सर्वे मद्-गणा एव भामिनि ।

सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥9इति ।

एवं गुण-प्रायैर् भोजादिभिर् अपि श्लाघनीयेहितः सन्न् इति ॥६३॥

विश्वनाथः : तत्-सम-काल-भवत्वेनापरोक्ष-वर्तिनस् तल्-लीला-परिकरास् त्व् अगण्य-महिमानः परम-मन्यो एवेत्य् आह—भोजेत्य्-आदि । ये तु तस्यातिप्रेम-विषयीभूता नेत्राञ्जलिभ्यां तदीय-रूप-माधुर्य-पानासक्ताः श्रोत्रादीन् अपि फलयन्ति ते त्व् अतिधन्या इत्य् आह—स्निग्धं स्मितं यत्र तथा-भूतं यद् ईक्षितम् अवलोकनं तेनोदारैर् मनो-वाञ्छा-पूरकैः कदाचिद् विक्रमस्य स्व-मधुर-चरण-विन्यासस्य वीर-रस-व्यञ्जकस्य स्व-शौटीर्यस्य वा लीलया नृलोकं मनुष्य-जातिं स्व-प्रिय-जन-समूहम् ॥६३-६४॥

—ओ)०(ओ—

॥ ९.२४.६५ ॥

यस्याननं मकर-कुण्डल-चारु-कर्ण-

भ्राजत्-कपोल-सुभगं सविलास-हासम् ।

नित्योत्सवं न ततृपुर् दृशिभिः पिबन्त्यो

नार्यो नराश् च मुदिताः कुपिता निमेश् च ॥

श्रीधरः : तत्-प्रदर्शनार्थं मुख-शोभाम् आह । यस्याननं दृशिभिर् नेत्रैः पिबन्त्यो नार्यो नराश् च न तत्-ऋपुर् न तृप्ताः । निमेषोन्मेष-मात्र-व्यवधानम् अप्य् असहमानास् तत् कर्तुर् निमेः कुपिताश् च बभूवुः । कथं-भूतमाननम् । मकर-कुण्डलाभ्यां चारू कर्णौ भ्राजन्तौ कपोलौ च तैः सुभगम् । सविलासो हासो यस्मिन् । नित्यम् उत्सवो यस्मिन् ।

क्रम-सन्दर्भः : नृ-लोक-रमणम् एव सर्वत उत्करेण दर्शयति—यस्येति ।10 तद्-दर्शनेऽपि निमेष-कर्तृत्वेन निमेर् नियमे कुपिता बभूवुः । इयं खलु महा-भावस्य गतिः । सा च तत्-स्वभावतः सिद्धेत्य् अभिधानाद् युक्तम् अत्रास्योदाहरणम् ॥६५॥

विश्वनाथः- तेष्व् अपि व्रज-वासिनस् तेष्व् अपि गोप्यस् तत्-प्रिय-नर्म-सखायश् च तन्-माधुर्य-पान-प्रवराः परम-धन्यतमा इत्य् आह यस्येति । सर्वाङ्गेष्व् अपि मध्ये परम-मधुरम् आननम् । तद्-आननम् अप्य् ऊर्ध्वाधो-भागाभ्यां द्विधा विभक्तं महा-माधुर्यं भवति । तत्रापि सर्व-महा-माधुर्याणां चक्रवर्ती हासामृत-महा-मधुरिमा तद्-अधर-भाग-मध्ये निवसतीत्य् अधर-भागं वर्णयति । मकर-कुण्डलाभ्यांचारू देदीप्यमानौ यौ कर्णौ ताभ्यां भ्राजन्तौ यौ कपोलौ ताभ्यां सुभगं द्रष्टृ-जन-मनोहरम् । विलासैर् हर्षौत्सुक्य-चापल्यादिभिर् द्योतमानैः सहितो हासो यत्र तत् । यथा मकर-कुण्डलाभ्यां सकाशाद् अपि चारू कर्णौ भूषण-भूषणाङ्गम् इत्य् उक्तेस् तयोर् अपि शोभा-वर्धकत्वात् अर्थात् मकर-कुण्डलाभ्यां ताभ्यां सकाशाद् अपि भ्राजन्तौ कपोलौ । अन्तर्वर्ति-चर्व्यमाण-ताम्बूलस्य पार्श्वस्थयोर् हास-कुण्डलयोश् च छविमत्त्वात् ताम्बुल-हेतुक-दरोत्तुङ्गिमवद् एकतरत्वाद् अतिस्वच्छत्वाद् अतिसुकुमारत्वाच् च ।

अर्थात्, मकर-कुण्डलाभ्यां ताभ्यां सकाशाद् अपि सविलासो हासः बिम्बाधर-दशन-सृक्वणी-शोभानुरञ्जितत्वात् सर्व-माधुर्य-महाराज-चक्रवर्तित्वात् स्व-ज्योत्स्ना-प्रवाह-निर्वापित-सर्व-सन्ताप-श्रेणीकत्वात् सर्व-भक्त-चेतश् चकोरातिलोभनीयत्वाद् युवति-जन-कामाम्बुधिर् बद्धकत्वात् व्रज-कुल-बाला-कुल-जाति-धर्म-धैर्य-ध्वंसक-महोन्माद-प्रवर्तक-कारण-धर्मवत्त्वात् यत्र तत् । दृशिभिर् नेत्राञ्जलिभिः पिबन्त्योऽपि न ततृपुः । निमेषोन्मेष-मात्र-व्यवधानम् अप्य् असहमानास् तत्-कर्तुर् निमेःकुपिता बभूवुर् इति निमेषासहत्वेन रूढ-महा-भाव-लक्षणेनात्र स्त्रियो गोप्य एव नान्या नराह् कृष्ण-प्रिय-नर्म-सखाः सुबलादयो नान्ये ज्ञेयाः । गोपीः प्रिय-नर्म-सखाश् च विना रूढ-भावस्यान्यत्रोदय-सम्भवाभावात् । यद् उक्तम् उज्ज्वल-नीलमणौ—

रतिर् भावान्तिमां सीमां समर्थैव प्रपद्यन्ते ।

रतिर् नर्म-वयस्यानाम् अनुरागान्तिमां स्थितिम् ।

तेष्व् एव सुबलादीनां भावान्ताम् एव गच्छति ॥ [उ।नी। १५.२३२-३] इति ॥६५॥

—ओ)०(ओ—

॥ ९.२४.६६ ॥

जातो गतः पितृ-गृहाद् व्रजम् एधितार्थो

हत्वा रिपून् सुत-शतानि कृतोरु-दारः ।

उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे

आत्मानम् आत्म-निगमं प्रथयन् जनेषु ॥

श्रीधरः : श्री-कृष्णस्य चरितं समासतो वर्णयति—जात इति द्वाभ्याम् । जातो निजेन रूपेण पश्चात् पुरुषो मनुष्याकारः सन् व्रजं गतः । व्रज-वासिनाम् एधिता अर्था येन तेषु दारेषु सुतानां शतान्य् उत्पाद्य । आत्म-निगमं स्वकीयं वेद-मार्गम् ॥६६॥

क्रम-सन्दर्भः : अथ सर्वम् एव युगपत् स्फुरितं तच्-चरितम् आपाततो निजोत्कण्ठा-कुण्ठनेच्छया राजोत्कण्ठा-वर्धनेच्छया च समासेन वर्णयति—जात इति । पितृ-गृहाच् छ्री-वसुदेव-भवनाज् जातः प्रादुर्भूतः । तस्माद् एव व्रजं श्रीमन्-नन्द-गोष्ठं गतः । तद् एतद् वंश-कथनानुरूपेण प्रोच्याप्य् अपरितुष्य प्राह11एधितार्थ इति । ततश् च एधिताः पूर्वतोऽपि समेधिता अर्थाः श्रीमन्-नन्दादौ पितृत्वादि-रूपा येन सः । स्थापितं च श्री-कृष्ण-सन्दर्भे (१३३-१५३) दर्शयिष्यते च । श्री-दशमस्य क्रम-सन्दर्भे—पुत्रीभूते जनार्दने [भा।पु। १०.८.५१], नन्दस् त्व् आत्मज उत्पन्ने [भा।पु। १०.५.१], नन्दः किम् अकरोद् ब्रह्मन् [भा।पु। १०.८.४६] इत्य् आदौ ।

ननु, क्रतुषु तास् ता देवता एवेज्यन्ते, कथम् आत्मानम् ईज ? इति तत्राह—पुरुष इति । पूर्षु देवतादि-देहेषु शेते अन्तर्याम्य्-अंशेन निश्चलं तिष्ठतीति स तथा तत्रैव पर्यवसानाद् इति भावः । ननु, तेन वा कियान् लाभः स्यात् तस्य परम-पूर्णस्य ? तत्राह—आत्म-निगमम् इति । तत्-तल्-लक्ष्येणैव तत् तद् एव मुख्यं प्रयोजनम् इति भावः । शाब्दत्वेनाव्यवहितत्वेन चार्थ-निगमे सति किम्-अर्थम् अध्याहार-व्यवधाने सह्ये ? तर्ह्य् एव सह्ये यदि विरुद्धे अपि न स्याताम् इति, तस्मात् पुरुष-शब्दोऽतिव्यवहितो गत इत्य् अत्र न योज्यः । उक्तं हि नराकृतेः परमत्वं—न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरं [भा।पु। १०.९.१३] इत्य्-आदिभिः ॥६६॥

विश्वनाथः : अथ के ते जन्म-कर्मणी इत्य् अपेक्षायां सर्वम् एव युगपत् स्फुरितं तच्-चरितम् आपाततो निजोत्कण्ठा कुण्ठनेच्छया रोअजोत्कण्ठा-वर्धनेच्छया च समासेन वर्णयति—जात इति द्वाभ्याम् । पितुर् वसुदेवस्य गृहात् व्रजं गतः किम्-अर्थम् एधितः प्रकटी-कृतय् वर्धितः वृद्धि-सीमां प्रापितोऽर्थः सर्व-पुरुषार्थ-शिरोमणिः प्रेमा येन सः । प्रेम-प्रख्यापनस्यैवावतार-मुख्य-प्रयोजनत्वात् प्रेम्णश् च व्रज एव वृद्धि-सीमा-प्राप्तत्वाच् च । रिपून् हत्वेति रिपुभ्यो मोक्ष-प्रदानम् अप्य् एकं प्रयोजनम् इति तेषु दारेषु सुत-शतान्य् उत्पाद्येत्य्-आदिना वर्णाश्रम-धर्म-स्थापनं च दर्शितम् । नराकृति-पर-ब्रह्मत्वात् पुरुषः । आत्मानं समीजे इज्यमानस्यान्यस्याभावात् किम्-अर्थं समीजे ? तत्राह—आत्म-निगमम् आत्मानुगतं स्वकीयं वेद-मार्गम् ॥६६॥

—ओ)०(ओ—

॥ ९.२४.६७ ॥

पृथ्व्याः स वै गुरु-भरं क्षपयन् कुरूणाम्

अन्तः-समुत्थ-कलिना युधि भूप-चम्वः ।

दृष्ट्या विधूय विजये जयम् उद्विघोष्य

प्रोच्योद्धवाय च परं समगात् स्व-धाम ॥

श्रीधरः : अन्तः-समुत्थेन कलिना निमित्तेन गुरु-भारं क्षपयन् दृष्ट्यैव भूप-चमूर् विधूय विजये जयम् अर्जुनेन जितम् इत्य् एवम् उद्घोषं कृत्वा, परं तत्त्वम् उद्धवायोपदिश्य स्व-धाम सम्यक् स्वेनैव रूपेण जगामेति ॥६७॥

क्रम-सन्दर्भः : अतिव्रज्य गतीस् तिस्रो माम् एष्यसि ततः परं [भा।पु। ११.२९.४४] इत्य् एतत्-पर्यवसान-परं प्रोच्य स्व-धाम स्व-स्वरूपं निज-नित्य-लोकं सम्यक् तत् तत् परिकरादिभिः साकम् एवागाद् इति ॥६७॥

विश्वनाथः : भू-भार-हरण-प्रयोजनम् आह—पृथ्व्या इति । भूप-चम्वः भूप-चमूः दृष्टैव विधूय तत्-प्रयोजनम् आह—विजये अर्जुने जयमुत्कर्षेण विघोष्य अर्जुनेन जितम् इति जनेषु ख्यापयित्वेत्य् अर्थः । भक्ति-ज्ञान-विशेष-प्रख्यापनम् अप्य् एकं प्रयोजनम्, तद् आह—प्रोच्येति । स्व-धाम द्वारकां समगात् सङ्गतः प्राप्तो बभूव प्रपञ्च-गोचरतां परित्यज्येति भावः । नारायण-स्वरूपेण स्व-धाम वैकुण्ठं चागात् ॥६७॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

नवमस्य चतुर्विंशः सङ्गतः सङ्गतः सताम् ॥*॥

मन्तु-सिन्धौ निमज्जन्तम् अन्तः-सन्तः पसन्दितम् ।

करुणा-दृष्टि-यष्ट्यैव सन्तः कर्षन्तु मां ततः ॥

वैशाख-शुक्ल-पञ्चम्यां राधा-कृष्ण-सरस्-तटे ।

नवम-स्कन्ध-टीकेयम् अवाप परिपूर्णताम् ॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे

श्री-सूर्य-सोम-वंशानुकीर्तने यदु-वंशानुकीर्तनं नाम

चतुर्विंशोऽध्यायः ।

॥ ९.२४ ॥


  1. वृष्णिस् इति ब-पुस्तके ↩︎

  2. पृश्रिः इति विरराघव-पाथे इति श-पुस्तके ↩︎

  3. यथैव शृणुमो दूरात् सम्पश्यामस् तथान्तिकात् ।

    बभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधः समः ॥५॥

    पुरुषाः षट् च षष्ठिश् च षट् सहस्राणि चाष्ट च ।

    तेऽमृतत्वम् अनुप्राप्ता बभ्रोर् देवावृधाद् अपि ॥६॥ [विष्णु-पुराण ४.१३.५-६] ↩︎

  4. सुचीराख्या सुचाराख्या इति द्वौ पाठौ श-पुस्तके ↩︎

  5. धृष्टिश् इति ब-पुस्तके ↩︎

  6. जयस् तेन इति पाथः ↩︎

  7. प्रशम-प्रसितादयः इति ब-पुस्तके ↩︎

  8. प्रवर-श्रुत-मुख्यांश् च इति ब-पुस्तके ↩︎

  9. भक्ति-रसामृत-सिन्धौ २.१.२९२ धृत-पाद्म-वचनम्। ↩︎

  10. न केवलं (६३)\॥। यस्येति (६५) इति टीकांशः ग-कर-लिपितः प्राप्तः । ↩︎

  11. तद् एतद् वंश\॥। प्राह इत्य् अत्र “तद् एतज् जन्मादि-लीला बाल्याद्-रूपे तत्-तद्-उचित-गुणे चेत् प्रकटेणातिसुखा स्यात्, तत्राह” इति ग-करलिपेः पाथान्तरम्। ↩︎