॥ ९.२३.१ ॥
श्री-शुक उवाच—
अनोः सभानरश् चक्षुः परेष्णुश् च त्रयः सुताः ।
सभानरात् कालनरः सृञ्जयस् तत्-सुतस् ततः ॥
श्रीधरः :
त्रयोविंशे त्व् अनोर् द्रुह्योस् तुर्वसोश् चान्वयः क्रमात् ।
यदोश् च वंशोऽनुक्रान्तो यावज् ज्यामघ-संभवः ॥
तद् एवं ययातेः पुत्राणां पञ्चमस्य पूरोर् वंशोऽनुक्रान्तः, इदानीं चतुर्थस्य वंशम् अनुक्रामति, अनोर् इति कर्णस्य जगती-पतेर् इत्य् अन्तेन ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
अनोर् द्रुह्योस् तुर्वसोश् च यदोर् वंशोऽपि कीर्त्यते ।
ज्यामघान्तस् त्रयोविंशे कार्तवीर्योऽत्र कीर्तिमान् ॥
ययातेः पञ्चमस्य पुत्रस्य पुरोर् वंशम् उक्त्वा चतुर्थादीनां पुत्राणां वंशम् आह—अनोर् इति ॥१॥
—ओ)०(ओ—
॥ ९.२३.२ ॥
जनमेजयस् तस्य पुत्रो महाशालो महामनाः ।
उशीनरस् तितिक्षुश् च महामनस आत्मजौ ॥
श्रीधरः : तस्य जनमेजयस्य महा-शीलस् तस्य महामनाः ॥२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२३.३ ॥
शिबिर् वरः कृमिर् दक्षश् चत्वारोशीनरात्मजाः ।
वृषादर्भः सुधीरश् च मद्रः केकय आत्मवान् ॥
श्रीधरः : चत्वार उशीनरात्मजाः । सन्धिर् आर्षः ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : चत्वार उशीनरात्मजाः ॥३॥
—ओ)०(ओ—
॥ ९.२३.४ ॥
शिबेश् चत्वार एवासंस् तितिक्षोश् च रुषद्रथः ।
ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२३.५ ॥
अङ्ग-वङ्ग-कलिङ्गाद्याः सुह्म-पुण्ड्रौड्र-संज्ञिताः ।
जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : बलेः क्षेत्रे भार्यायां दीर्घतमस उतथ्य-पुत्रात् सकाशात् अङ्गादयो जज्ञिरे ॥५॥
—ओ)०(ओ—
॥ ९.२३.६ ॥
चक्रुः स्व-नाम्ना विषयान् षड् इमान् प्राच्यकांश् च ते ।
खलपानोऽङ्गतो जज्ञे तस्माद् दिविरथस् ततः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विषयान् देशान् । प्राच्यकान् भारतवर्षस्य पूर्व-दिग्-वर्तिनः ॥६॥
—ओ)०(ओ—
॥ ९.२३.७-१० ॥
सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः ।
रोमपाद इति ख्यातस् तस्मै दशरथः सखा ॥
शान्तां स्व-कन्यां प्रायच्छद् ऋष्यशृङ्ग उवाह याम् ।
देवेऽवर्षति यं रामा आनिन्युर् हरिणी-सुतम् ॥
नाट्य-सङ्गीत-वादित्रैर् विभ्रमालिङ्गनार्हणैः ।
स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वते ॥
प्रजाम् अदाद् दशरथो येन लेभेऽप्रजाः प्रजाः ।
चतुरङ्गो रोमपादात् पृथुलाक्षस् तु तत्-सुतः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२३.११ ॥
बृहद्रथो बृहत्कर्मा बृहद्भानुश् च तत्-सुताः ।
आद्याद् बृहन्मनास् तस्माज् जयद्रथ उदाहृतः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : आद्यात् बृहद्रथात् ॥११॥
—ओ)०(ओ—
॥ ९.२३.१२ ॥
विजयस् तस्य सम्भूत्यां ततो धृतिर् अजायत ।
ततो धृतव्रतस् तस्य सत्कर्माधिरथस् ततः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२३.१३ ॥
योऽसौ गङ्गा-तटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् ।
कुन्त्यापविद्धं कानीनम् अनपत्योऽकरोत् सुतम् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अपविद्धं लज्जया त्यक्तम् ॥१३॥
—ओ)०(ओ—
॥ ९.२३.१४ ॥
वृषसेनः सुतस् तस्य कर्णस्य जगतीपते ।
द्रुह्योश् च तनयो बभ्रुः सेतुस् तस्यात्मजस् ततः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : द्रुह्योर् ययाति-पुत्रस्य ॥१४॥
—ओ)०(ओ—
॥ ९.२३.१५ ॥
आरब्धस् तस्य गान्धारस् तस्य धर्मस् ततो धृतः ।
धृतस्य दुर्मदस् तस्मात् प्रचेताः प्राचेतसः शतम् ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
क्रम-सन्दर्भः : प्राचेतसम् इत्य् अत्र प्रचेतस इति वाच्यम् ॥१५॥
—ओ)०(ओ—
॥ ९.२३.१६ ॥
म्लेच्छाधिपतयोऽभूवन्न् उदीचीं दिशम् आश्रिताः ।
तुर्वसोश् च सुतो वह्निर् वह्नेर् भर्गोऽथ भानुमान् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तुर्वसोर् ययाति-पुत्रस्य ॥१६॥
—ओ)०(ओ—
॥ ९.२३.१७ ॥
त्रिभानुस् तत्-सुतोऽस्यापि करन्धम उदार-धीः ।
मरुतस् तत्-सुतोऽपुत्रः पुत्रं पौरवम् अन्वभूत् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अपुत्रः, अत एव पौरवं पुरुवंश्यं दुष्यन्तम् एव पुत्रम् अन्वभूत् ॥१७॥
—ओ)०(ओ—
॥ ९.२३.१८ ॥
दुष्यन्तः1 स पुनर् भेजे स्व-वंशं राज्य-कामुकः ।
ययातेर् ज्येष्ठ-पुत्रस्य यदोर् वंशं नरर्षभ ॥
श्रीधरः : स दुष्यन्तः स्वं वंशं पौरवं वंशम् ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : स च दुष्यन्तः स्व-वंशं पौरव-वंशम् एव भेजे, न तु तुर्वसु-वंशं यतो राज्य-कामुकः पुरुवंश्यानाम् एव नृपासनाधिकारात् ॥१८-१९॥
—ओ)०(ओ—
॥ ९.२३.१९ ॥
वर्णयामि महा-पुण्यं सर्व-पाप-हरं नृणाम् ।
यदोर् वंशं नरः श्रुत्वा सर्व-पापैः प्रमुच्यते ॥
चैतन्य-मत-मञ्जुषा : यदोर् वंशम् इत्य्-आदि । नराकृतित्वं हि परमात्म-लक्षणम् । उक्तं च, गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.१०.४८], नराकृति परं ब्रह्म [पाद्मोत्तरे बृहद्-विष्णु-सहस्र-नाम-स्तोत्रे] । परमात्मा श्री-कृष्णः, अन्ये तु आत्मानः ॥१८-२०]
अन्यैर्न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२३.२०-२१ ॥
यत्रावतीर्णो भगवान् परमात्मा नराकृतिः ।
यदोः सहस्रजित् क्रोष्टा नलो रिपुर् इति श्रुताः ॥
चत्वारः सूनवस् तत्र शतजित् प्रथमात्मजः ।
महाहयो रेणुहयो हैहयश् चेति तत्-सुताः ॥
श्रीधरः : प्रथमस्य सहस्र-जित आत्मजः ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : नराकृतिर् नर-स्वरूपो नर-जातिर् वेत्य् आकृति-शब्दस्य स्वरूप-वाचित्वे वा जाति-वाचित्वे परमात्मनो नरत्वस्य न ताटस्थ्यं, किन्तु स्वरूपत्वम् एव ज्ञापितम् । गूढं परं ब्रह्म मनुष्य-लिङ्गम् इत्य् अनेन ज्ञापितम् अग्रेऽपि ज्ञापयिष्यति ॥२१॥
—ओ)०(ओ—
॥ ९.२३.२२ ॥
धर्मस् तु हैहय-सुतो नेत्रः कुन्तेः पिता ततः ।
सोहञ्जिर् अभवत् कुन्तेर् महिष्मान् भद्रसेनकः ॥
श्रीधरः : कुन्तेः सोहञ्जिः, सोहञ्जेर् महिष्मान्, महिष्मतो भद्रसेनकः ॥२२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२३.२३ ॥
दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः ।
कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥
श्रीधरः : भद्रसेनस्य दुर्मदो धनकश् चेति द्वौ पुत्रौ । कृतवीर्यस्य जनकः । कृतवीर्यादयश् चत्वारो धनकस्यात्मजा इत्य् अर्थः ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : भद्रसेनस्य दुर्मदो धनकश् चेति द्वौ पुत्रौ । तत्र धनकः कृतवीर्यसूर् इति धनकस्य कृतवीर्यः पुत्रः । तथा कृतवीर्यादयश् चेति चत्वारः पुत्राः ॥२३॥
—ओ)०(ओ—
॥ ९.२३.२४ ॥
अर्जुनः कृतवीर्यस्य सप्त-द्वीपेश्वरोऽभवत् ।
दत्तात्रेयाद् धरेर् अंशात् प्राप्त-योग-महागुणः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु ययाति-शापात् स यदु-वंश्यः कथं सप्त-द्वीपेश्वरः ? तत्राह—दत्तेति ॥२४॥
—ओ)०(ओ—
॥ ९.२३.२५ ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञ-दान-तपो-योगैः श्रुत-वीर्य-दयादिभिः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२३.२६ ॥
पञ्चाशीति सहस्राणि ह्य् अव्याहत-बलः समाः ।
अनष्ट-वित्त-स्मरणो बुभुजेऽक्षय्य-षड्-वसु ॥
श्रीधरः : अनष्टम् अविनाशं वित्तं येन तथा-विधं स्मरणं यस्य सः । अक्षय्यं षड्-वसु षड्-इन्द्रिय-विषयं बुभुजे ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : न नष्टम् भवति वित्तं स्मरणाद् यस्य सः । अक्षय्यं षड्-वसु षड्-इन्द्रिय-विषयं बुभुजे ॥२६॥
—ओ)०(ओ—
॥ ९.२३.२७ ॥
तस्य पुत्र-सहस्रेषु पञ्चैवोर्वरिता मृधे ।
जयध्वजः शूरसेनो वृषभो मधुर् ऊर्जितः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मृधे परशुराम-युद्धे ॥२७॥
—ओ)०(ओ—
॥ ९.२३.२८ ॥
जयध्वजात् तालजङ्घस् तस्य पुत्र-शतं त्व् अभूत् ।
क्षत्रं यत् तालजङ्घाख्यम् और्व-तेजोपसंहृतम् ॥
श्रीधरः, विश्वनाथः : और्वस्य तेजसा सगरेणोपसंहृतम् इत्य् अर्थः ॥२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२३.२९ ॥
तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः ।
तस्य पुत्र-शतं त्व् आसीद् वृष्णि-ज्येष्ठं यतः कुलम् ॥
श्रीधरः : तेषां ताल-जङ्घ-पुत्राणां ज्येष्ठः । तस्य मधोः पुत्र-शतम् । वृष्णिर् ज्येष्ठो यस्मिन् । यतो मधोर् वृष्णेर् यदोश् च हेतोर् इदं कुलम् ॥२९॥
क्रम-सन्दर्भः : तेषाम् इति सार्धकम् । ते च माधवा इत्य्-आदि सञ्ज्ञिता इत्य् अर्थः ॥२९॥
विश्वनाथः : मधोर् अर्जुन-पुत्रस्य ॥२९॥
—ओ)०(ओ—
॥ ९.२३.३०-३१ ॥
माधवा वृष्णयो राजन् यादवाश् चेति संज्ञिताः ।
यदु-पुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस् ततः ॥
स्वाहितोऽतो विषद्गुर् वै तस्य चित्ररथस् ततः ।
शशबिन्दुर् महा-योगी महा-भागो महान् अभूत् ॥
चतुर्दश-महारत्नश् चक्रवर्त्य् अपराजितः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : माधवा इति यदु-मधु-वृष्णय ईती त्रयः कुल-प्रवर्तका यदु-वंशो मधु-वंशो वृष्णि-वंश इति प्रसिद्धेः । चतुर्दश-महारत्नानि तत्-तज्-जाति-श्रेष्ठानि यस्य सः । तानि च—
गज-वाजि-रथ-स्त्रीषु निधि-माल्याम्बर-द्रुमाः ।
शक्ति-पाश-मणि-च्छत्र-विमानानि चतुर्दश ॥ इति मार्कण्डेयोक्तानि ज्ञेयानि ॥३१॥
—ओ)०(ओ—
॥ ९.२३.३२ ॥
तस्य पत्नी-सहस्राणां दशानां सुमहा-यशाः ॥
दश-लक्ष-सहस्राणि पुत्राणां तास्व् अजीजनत् ।
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दश लक्ष-सहस्राणीति तासु प्रत्येकम् एकैक-लक्ष-पुत्रोद्भवात् ॥३२॥
—ओ)०(ओ—
॥ ९.२३.३३ ॥
तेषां तु षट् प्रधानानां पृथुश्रवस आत्मजः ।
धर्मो नामोशना तस्य हयमेध-शतस्य याट् ॥
श्रीधरः : पृथुश्रवाः पृथुकीर्तिः पृथुयशा इत्य्-आदयः षट्-प्रधानाः श्रेष्ठा येषां तेषां मध्ये ॥३३॥
क्रम-सन्दर्भः : षट् प्रधानानि येषां, क्लीबे प्रधानम् इत्य् अमरः ॥३३॥
विश्वनाथः : तस्य धर्मस्य उशना ॥३३॥
—ओ)०(ओ—
॥ ९.२३.३४ ॥
तत्-सुतो रुचकस् तस्य पञ्चासन्न् आत्मजाः शृणु ।
पुरुजिद्-रुक्म-रुक्मेषु-पृथु-ज्यामघ-संज्ञिताः ॥
श्रीधरः : पञ्च आत्मजा आसंस् तान् शृणु ॥३४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२३.३५-३६ ॥
ज्यामघस् त्व् अप्रजोऽप्य् अन्यां भार्यां शैब्या-पतिर् भयात् ।
नाविन्दच् छत्रु-भवनाद् भोज्यां कन्याम् अहारषीत् ।
रथ-स्थां तां निरीक्ष्याह शैब्या पतिम् अमर्षिता ॥
केयं कुहक मत्-स्थानं रथम् आरोपितेति वै ।
स्नुषा तवेत्य् अभिहिते स्मयन्ती पतिम् अब्रवीत् ॥
श्रीधरः : तान् एवाह—पुरुजिद् इति । भार्या-भयाद् एवैक-भार्यस्य वन्ध्यापतेर् ज्यामघस्यापुत्रस्य तद् भयम् एव पुत्र-प्रदम् अभवद् इति दर्शयन्न् आह—ज्यामघस् त्व् इति ॥३६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२३.३७ ॥
अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् ।
जनयिष्यसि यं राज्ञि तस्येयम् उपयुज्यते ॥
श्रीधरः : यदि मे सपत्नी स्यात्, तर्हि स्नुषेयं युज्येतापि, न त्व् एतद् अस्तीत्य् आह—असपत्नी चेति । अति-भय-व्याकुल आह—जनयिष्यतीति ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : असपत्नी मम काचित् सपत्न्य् अपि नास्ति । अतिभय-व्याकुलम् आह—जनयिष्यसीति ॥३७॥
—ओ)०(ओ—
॥ ९.२३.३८ ॥
अन्वमोदन्त तद् विश्वे-देवाः पितर एव च ।
शैब्या गर्भम् अधात् काले कुमारं सुषुवे शुभम् ॥
स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥
श्रीधरः : भार्या-भय-प्रकम्पमान-स्विन्न-सर्वाङ्गस्य राज्ञः प्राण-सङ्कटम् आलोक्यानुकम्पितास् तेन पूर्वं बहु-कालम् आराधिताश् च विश्वेदेवाः पितरश् च तथेत्य् अन्वमोदन्त । ततश् च देवता-प्रसादेन जनयिष्यसीति प्रति-वचन-मुहूर्त-गुणेन च निवृत्त-रजस्कापि शैव्या गर्भम् अधात् । तस्य च महिमा पराशरादिभिर् उक्तः । यथोक्तम्—
भार्यावश्यास् तु ये केचिद् भविष्यन्त्य् अथवा मृताः ।
तेषां तु ज्यामघः श्रेष्ठः शैव्या-पतिर् अभून् नृपः ॥ इति ॥३८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : भार्याभय-प्रकम्पित-स्विन्न-सर्वाङ्गस्य तस्य राज्ञः प्राण-सङ्कटम् आलक्ष्य, तद् एव वचनं कृपया अन्वमोदन्त सत्यं चक्रुः विश्वेदेवाः । पूर्वं तेन बहुश आराधिता इति भावः । निवृत्त-रजस्कापि शैव्याः, तेषां कृपया गर्भम् अधात् ।
भार्यावश्यास् तु ये केचिद् भविष्यन्त्य् अथवा मृताः ।
तेषां तु ज्यामघः श्रेष्ठः शैव्या-पतिर् अभून् नृपः ॥ [वि।पु। ४.१२.१३] इति पराशरादय आहुः ॥३८॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रयोदशोऽयं नवमे सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
यदु-वंश-कथने
त्रयोविंशोऽध्यायः ।
॥ ९.२३ ॥
(९.२४)
-
दुष्मन्तः इति क्वचिद् दृश्यते। ↩︎