॥ ९.२२.१ ॥
श्री-शुक उवाच—
मित्रायुश् च दिवोदासाच् च्यवनस् तत्-सुतो नृप ।
सुदासः सहदेवोऽथ सोमको जन्तु-जन्मकृत् ॥
श्रीधरः :
द्वाविंशे तु दिवोदास-वंशम् उक्त्वाथ वर्णितः ।
ऋक्ष-वंशे जरासन्ध-पार्थ-दुर्योधनादयः ॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
द्वाविंशेऽभूद् दिवोदास-वंशे द्रौपद्य् अथाभवन् ।
ऋक्ष-वंशे जरासन्धार्जुन-दुर्योधनादयः ॥
—ओ)०(ओ—
॥ ९.२२.२ ॥
तस्य पुत्र-शतं तेषां यवीयान् पृषतः सुतः ।
स तस्माद् द्रुपदो जज्ञे सर्व-सम्पत्-समन्वितः ।
द्रुपदाद् द्रौपदी तस्य धृष्टद्युम्नादयः सुताः ॥
श्रीधरः : तस्य सोमकस्य पुत्रानां शतं बभूव । तेषां जन्तुर् ज्येष्ठो यवीयान् पृषतः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तस्य सोमकस्य शतं पुत्रास् तेषां जन्तुर् ज्येष्ठः ॥२॥
—ओ)०(ओ—
॥ ९.२२.३ ॥
धृष्टद्युम्नाद् धृष्टकेतुर् भार्म्याः पाञ्चालका इमे ।
योऽजमीढ-सुतो ह्य् अन्य ऋक्षः संवरणस् ततः ॥
श्रीधरः : अजमीढस्यैव वंशान्तरम् आह—य इति । ततः संवरणात् कुरुः ॥३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.४-५ ॥
तपत्यां सूर्य-कन्यायां कुरुक्षेत्र-पतिः कुरुः ।
परीक्षिः सुधनुर् जह्नुर् निषधश् च कुरोः सुताः ॥
सुहोत्रोऽभूत् सुधनुषश् च्यवनोऽथ ततः कृती ।
वसुस् तस्योपरिचरो बृहद्रथ-मुखास् ततः ॥
श्रीधरः : तस्य कृतिनः उपरिचरो वसुः । ततो वसोः बृहद्रथो मुखम् आदिर् येषाम् ॥४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.६ ॥
कुशाम्ब-मत्स्य-प्रत्यग्र-चेदिपाद्याश् च चेदिपाः ।
बृहद्रथात् कुशाग्रोऽभूद् ऋषभस् तस्य तत्-सुतः ॥
श्रीधरः : तान् एवाह—कुशाम्बेति । तत्-सुतः पुष्पवान् जज्ञे । तस्यापत्यं सत्यहित इति योज्यम् ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : बृहद्रथ-मुखान् एवाह—कुशान्वेत्य्-आदि ॥६॥
—ओ)०(ओ—
॥ ९.२२.७-८ ॥
जज्ञे सत्यहितोऽपत्यं पुष्पवांस् तत्-सुतो जहुः ।
अन्यस्याम् अपि भार्यायां शकले द्वे बृहद्रथात् ॥
ये मात्रा बहिर् उत्सृष्टे जरया चाभिसन्धिते ।
जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुतः ॥
श्रीधरः, विश्वनाथः : जरया राक्षस्या ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.९ ॥
ततश् च सहदेवोऽभूत् सोमापिर् यच् छ्रुतश्रवाः ।
परीक्षिर् अनपत्योऽभूत् सुरथो नाम जाह्नवः ॥
श्रीधरः : यद् यस्मात् सोमापेः श्रुतश्रवाः कुरोः पुत्रः परीक्षिद् अनपत्यः । जाह्नवो जह्नोः पुत्रः ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यत् यस्य सोमापेः । परीक्षिः कुरु-पुत्रः । जाह्नवः कुरुपुत्रस्य जह्नोः पुत्रः सुरथः ॥९॥
—ओ)०(ओ—
॥ ९.२२.१० ॥
ततो विदूरथस् तस्मात् सार्वभौमस् ततोऽभवत् ।
जयसेनस् तत्-तनयो राधिकोऽतोऽयुताय्व् अभूत् ॥
श्रीधरः : अतो राधिकाद् अयुतोऽभूद् इत्य् अर्थः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अतो राधिकाद् अयुतायुर् अभूत् ॥१०॥
—ओ)०(ओ—
॥ ९.२२.११ ॥
ततश् चाक्रोधनस् तस्माद् देवातिथिर् अमुष्य च ।
ऋक्षस् तस्य दिलीपोऽभूत् प्रतीपस् तस्य चात्मजः ॥
न कतमेनापि व्याख्यातम् व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.१२ ॥
देवापिः शान्तनुस् तस्य बाह्लीक इति चात्मजाः ।
पितृ-राज्यं परित्यज्य देवापिस् तु वनं गतः ॥
श्रीधरः : तस्य प्रतीपस्य देवापि-शन्तनु-बाह्लीकाः ॥१२॥
**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.१३ ॥
अभवच् छान्तनू राजा प्राङ् महाभिष-संज्ञितः ।
यं यं कराभ्यां स्पृशति जीर्णं यौवनम् एति सः ॥
श्रीधरः : प्राक् पूर्व-जन्मनि महाभिष इति संज्ञा यस्य सः ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्राक् पूर्व-जन्मनि । यं जीर्णं वृद्धं स जीर्णः यौवनम् एष्यति प्राप्नोति ॥१२॥
—ओ)०(ओ—
॥ ९.२२.१४ ॥
शान्तिम् आप्नोति चैवाग्र्यां कर्मणा तेन शान्तनुः ।
समा द्वादश तद्-राज्ये न ववर्ष यदा विभुः ॥
श्रीधरः : यदा देवो न ववर्ष, तदा शन्तनुस् तत्र कारणं ब्राह्मणान् पप्रच्छ ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विभुर् इन्द्रः ॥१४॥
—ओ)०(ओ—
॥ ९.२२.१५-१७ ॥
शान्तनुर् ब्राह्मणैर् उक्तः परिवेत्तायम् अग्रभुक् ।
राज्यं देह्य् अग्रजायाशु पुर-राष्ट्र-विवृद्धये ॥
एवम् उक्तो द्विजैर् ज्येष्ठं छन्दयाम् आस सोऽब्रवीत् ।
तन्-मन्त्रि-प्रहितैर् विप्रैर् वेदाद् विभ्रंशितो गिरा ॥
वेद-वादातिवादान् वै तदा देवो ववर्ष ह ।
देवापिर् योगम् आस्थाय कलाप-ग्रामम् आश्रितः ॥
श्रीधरः : ब्राह्मणैश् चैवम् उक्तः—
दाराग्निहोत्र-संयोगं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्व-जः ॥ इति स्मृतेः ।
योऽग्र-भुक् भुवम् अग्रतो भुनक्ति । अयं त्वादृशेऽपि परिवेत्तैव भवति । अतस् तद्-दोष-परिहाराय राज्यम् अग्रजाय देहि ततो वृष्टिर् भविष्यतीत्य् एवम् उक्तः शन्तनुर् वनं गत्वा ज्येष्ठं छन्दयामास राज्ञः प्रजा-पालनादिः परो धर्मोऽतस् त्वं राज्यं स्वीकुर्व् इति प्रार्थितवान् । ततः पूर्वम् एव तस्य मन्त्रिणा अश्म-राव-संज्ञेन देवापिं पाखण्डी-कृत्य राज्यानर्हं कर्तुं ये प्रहिता विप्रास् तैः पाखण्डमताश्रयया गिरा वेदाद् विभ्रंशितः सन्, वेद-वादस्याति-वादान् निन्दा-वचनानि सोऽब्रवीत्, ततस् तस्य पातित्येन राज्यानर्हत्वे जाते शन्तनोर् दोषाभावाद् देवो ववर्षेत्य् अर्थः ॥१५॥
क्रम-सन्दर्भः : दाराग्निहोत्र-संयोगम् इत्य् अस्य प्रथमानधिकारित्व-तात्पर्यम् इत्य् अभिप्रेत्याह—अग्र-भुग् इति ॥१५॥ एवम् इति सार्धकम् । तन्-मन्त्रि-प्रहितैर् इत्य् अत्र ततोऽपि निह्नुत्येति ज्ञेयम् ॥१६॥
विश्वनाथः :
दाराग्निहोत्र-संयोगं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः । इति स्मृतेः ।
त्वम् अग्रजे देवापौ वर्तमानेऽपि अग्रभुक् कृत-दारो राज्य-भोक्ता परिवेत्तैवेति दोषाद् इन्द्रो न वर्षति तस्माद् राज्यम् इत्य्-आदि ।
छान्दयाम् आस त्वं राज्यं कुर्व् इति प्रार्थितवान् । ततः स वेद-वादि-वादान् वेद-निन्दा-वाक्यानि अब्रवीत् । तत्र हेतुः—तस्य शान्तनोर् मन्त्रिणा अश्ववार-संज्ञेन शान्तनु-प्रार्थां पूर्वम् एव देवापिं पाषण्डीकृत्य राज्यानर्हं कर्तुं शान्तौ-प्रभृत्य्-अलक्षितं ये प्रहिता विप्रास् तैः पाषण्ड-मताश्रयया गिरा वेदाद्विभ्रंशितः । ततश् च तस्य पातितेनैव तस्य राजानर्हत्वे जाते शान्तनोर् दोषाभावं देवो ववर्ष इत्य् अर्थः ॥१६-१७॥
—ओ)०(ओ—
॥ ९.२२.१८-१९ ॥
सोम-वंशे कलौ नष्टे कृतादौ स्थापयिष्यति ।
बाह्लीकात् सोमदत्तोऽभूद् भूरिर् भूरिश्रवास् ततः ॥
शलश् च शान्तनोर् आसीद् गङ्गायां भीष्म आत्मवान् ।
सर्व-धर्म-विदां श्रेष्ठो महा-भागवतः कविः ॥
श्रीधरः : ततः सोमदत्ताद् भूरिर् भूरिश्रवाः शलश् चेति त्रयः ॥१८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.२० ॥
वीर-यूथाग्रणीर् येन रामोऽपि युधि तोषितः ।
शान्तनोर् दास-कन्यायां जज्ञे चित्राङ्गदः सुतः ॥
श्रीधरः : रामो जामदग्न्यः । दाश-कन्यायाम् इति । उपरिचरस्य वसोर् वीर्येण मत्स्य-गर्भाद् उत्पन्ना दाशैः कैवर्तैः पालिताऽतो दाश-कन्येति प्रसिद्धायां सत्यवत्याम् ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दासकन्यायाम् इति उपरिचर-वसोर् वीर्येण मत्स्य-गर्भाद् उत्पन्ना कन्या दासैः कैवर्तैः पालिता, अतो दासकन्येति प्रसिद्दायां सत्यवत्याम् ॥२०॥
—ओ)०(ओ—
॥ ९.२२.२१-२४ ॥
विचित्रवीर्यश् चावरजो नाम्ना चित्राङ्गदो हतः ।
यस्यां पराशरात् साक्षाद् अवतीर्णो हरेः कला ॥
वेद-गुप्तो मुनिः कृष्णो यतोऽहम् इदम् अध्यगाम् ।
हित्वा स्व-शिष्यान् पैलादीन् भगवान् बादरायणः ॥
मह्यं पुत्राय शान्ताय परं गुह्यम् इदं जगौ ।
विचित्रवीर्योऽथोवाह काशीराज-सुते बलात् ॥
स्वयंवराद् उपानीते अम्बिकाम्बालिके उभे ।
तयोर् आसक्त-हृदयो गृहीतो यक्ष्मणा मृतः ॥
श्रीधरः : नाम्ना तत् समान-नाम्ना चित्राङ्गदेन गन्धर्वेण युद्धे हतः । यस्यां सत्यवत्यां शन्तनु-परिग्रहात् पूर्वम् एव । वेदा गुप्ता येन । यतोऽहं जात इदं भागवतं चाध्यगाम् अधिगतवान् अस्मि । स्वयंवराद् भीष्मेण बलाद् उपानीते ॥२१-२४॥
क्रम-सन्दर्भः : शान्ताय ब्रह्म-निष्ठाय ॥२३॥
विश्वनाथः : नाम्ना तत् समान-नाम्ना चित्राङ्गदेन गन्धर्वेण युद्धे हतः यस्यां सत्यवत्यां शान्तनु-परिग्रहात् पूर्वम् एव हरेः कला व्यासः । वेदा गुप्ता येन सः । इदं श्री-भागवतम् । स्वयंवराद् भीष्मेण बलाद् उपानी च ॥२१-२४॥
—ओ)०(ओ—
॥ ९.२२.२५ ॥
क्षेत्रेऽप्रजस्य वै भ्रातुर् मात्रोक्तो बादरायणः ।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्य् अजीजनत् ॥
श्रीधरः : मात्रा सत्यवत्योक्त इति निषेधाभावम् आह—अपतिर् अपत्य-लिप्सुर् देवराद् गुरु-प्रयुक्ता ऋतुम् अतीयात् इत्य्-आदि-वचनात् ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अप्रजस्य विचित्रवीर्यस्य मात्रा सत्यवत्या उक्त इति—अपतिर् अपत्य-लिप्सुर् देवराद् गुरु-प्रयुक्ता ऋतुम् अतीयात् इत्य्-आदि-वचन-बलात् ॥२५॥
—ओ)०(ओ—
॥ ९.२२.२६ ॥
गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्र-शतं नृप ।
तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका ॥
श्रीधरः : दुःशला नाम कन्या च जज्ञे ॥२६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.२७ ॥
शापान् मैथुन-रुद्धस्य पाण्डोः कुन्त्यां महा-रथाः ।
जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिर-मुखास् त्रयः ॥
श्रीधरः : अरण्ये मृग-शापान् मैथुनेन रुद्धस्य प्रतिबद्धस्य ॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अरण्ये मृग-शापान् मैथुनेन रुद्धस्य ॥२७॥
—ओ)०(ओ—
॥ ९.२२.२८ ॥
नकुलः सहदेवश् च माद्र्यां नासत्य-दस्रयोः ।
द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास् ते पितरोऽभवन् ॥
श्रीधरः : नासत्य-दस्राभ्याम् अश्विनी-कुमाराभ्याम् । पञ्चभ्यो युधिष्ठिरादिभ्यः पञ्चाभवन् ॥२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : नासत्यदस्राभ्याम् अश्विनीभ्याम् ॥२८॥
—ओ)०(ओ—
॥ ९.२२.२९ ॥
युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् ।
अर्जुनाच् छ्रुतकीर्तिस् तु शतानीकस् तु नाकुलिः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.३० ॥
सहदेव-सुतो राजन् छ्रुतकर्मा तथापरे ।
युधिष्ठिरात् तु पौरव्यां देवकोऽथ घटोत्कचः ॥
श्रीधरः : तथापरे भार्यान्तरेषु ॥३०॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.३१ ॥
भीमसेनाद् धिडिम्बायां काल्यां सर्वगतस् ततः ।
सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥
श्रीधरः : काली चान्या भीमस्य भार्या तस्यां ततो भीमसेनात् सर्वगतो नाम पुत्रोऽभवद् इत्य् अर्थः ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : काली चान्या भीमस्य भार्या । तस्यां सर्वगतः ॥३१॥
—ओ)०(ओ—
॥ ९.२२.३२ ॥
करेणुमत्यां नकुलो निरमित्रं1 तथार्जुनः ।
इरावन्तम् उलूप्यां वै सुतायां बभ्रुवाहनम् ।
मणिपुर-पतेः सोऽपि तत्-पुत्रः पुत्रिका-सुतः ॥
श्रीधरः : उलूप्यां नाग-कन्यञाम् । मणिपूर-पतेः सुतायां पुत्रिका-धर्मेण दत्तायां बभ्रुवाहनम् असूत । अतस् तत्-पुत्रः सन्न् अपि स पुत्रिका-सुतः मातामहसुत इत्य् अर्थः ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : पार्वती पर्वत-कन्या । उलुप्यां नाग-कन्यायां, मणिपुर-पतेः सुतायां पुत्रिका-धर्मेण दत्तायां बभ्रुवाहनम् असूत । अतस् तत्-पुत्रः सन्न् अपि पुत्रिका-सुतः मातामह-सुत इत्य् अर्थः ॥३२॥
—ओ)०(ओ—
॥ ९.२२.३३-३६ ॥
तव तातः सुभद्रायाम् अभिमन्युर् अजायत ।
सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥
परिक्षीणेषु कुरुषु द्रौणेर् ब्रह्मास्त्र-तेजसा ।
त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात् ॥
तवेमे तनयास् तात जनमेजय-पूर्वकाः ।
श्रुतसेनो भीमसेन उग्रसेनश् च वीर्यवान् ॥
जनमेजयस् त्वां विदित्वा तक्षकान् निधनं गतम् ।
सर्पान् वै सर्प-यागाग्नौ स होष्यति रुषान्वितः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.३७ ॥
कालषेयं पुरोधाय तुरं तुरग-मेधषाट् ।
समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः ॥
श्रीधरः : तुर-संज्ञं पुरोहितं कृत्वा ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तुरं तुर-संज्ञम् ॥३७॥
—ओ)०(ओ—
॥ ९.२२.३८ ॥
तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् ॥
अस्त्र-ज्ञानं क्रिया-ज्ञानं शौनकात् परम् एष्यति ।
श्रीधरः : भविष्यान् आह—तस्य पुत्र इति यावत् समाप्ति । याज्ञवल्क्यात् क्रिया-ज्ञानं परं चात्मानं शौनकात् प्राप्स्यत्य् अस्त्र-ज्ञानं च कृपाचार्याद् इति द्रष्टव्यम् । याज्ञवल्क्यात् त्रयीम् अधीत्य कृपाद् अस्त्राण्य् अवाप्येति वैष्णवोक्तेः । क्वचित् तु, “अस्त्र-ज्ञानं कृपाचार्यात्” इत्य् एव पाठः ॥३८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.३९-४० ॥
सहस्रानीकस् तत्-पुत्रस् ततश् चैवाश्वमेधजः ॥
असीमकृष्णस् तस्यापि नेमिचक्रस् तु तत्-सुतः ।
गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति ।
उक्तस् ततश् चित्ररथस् तस्माच् छुचिरथः सुतः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.४१ ॥
तस्माच् च वृष्टिमांस् तस्य सुषेणोऽथ महीपतिः ॥
सुनीथस् तस्य भविता नृ-चक्षुर् यत् सुखीनलः ।
श्रीधरः : यद् यस्मात् सुखीनलः पुत्रः ॥४१॥
क्रम-सन्दर्भः : नृ-चक्षुर् यत् सुखीनलः इति । नृ-चक्षुस् तस्यापि सुखी-बलः, ततः परिप्लवः, तस्माच् च सुनयः, तस्यापि मेधावी [वि।पु। ४.२१.१२]2 इति विष्णु-पुराण-गद्यम् ॥४१॥
विश्वनाथः : यद् यतः सुखीनल-नामा ॥४१॥
—ओ)०(ओ—
॥ ९.२२.४२ ॥
परिप्लवः सुतस् तस्मान् मेधावी सुनयात्मजः ।
नृपञ्जयस् ततो दूर्वस् तिमिस् तस्माज् जनिष्यति ॥
श्रीधरः : तस्मात् परिप्लवात् सुनयस् तस्यात्मजो मेधावीत्य् अर्थः ॥४२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तस्मात् परिप्लवः । तस्य सुनयः, तस्यात्मजो मेधावीत्य् अर्थः ॥४२॥
—ओ)०(ओ—
॥ ९.२२.४३ ॥
तिमेर् बृहद्रथस् तस्माच् छतानीकः सुदासजः ।
शतानीकाद् दुर्दमनस् तस्यापत्यं महीनरः ॥
श्रीधरः, विश्वनाथः : तस्मात् सुदासस्, ततः शतानीक इत्य् अर्थः ॥४३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.४४-४५ ॥
दण्डपाणिर् निमिस् तस्य क्षेमको भविता यतः ।
ब्रह्म-क्षत्रस्य वै प्रोक्तो3 वंशो देवर्षि-सत्कृतः ॥
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।
अथ मागध-राजानो भाविनो ये वदामि ते ॥
श्रीधरः : न व्याख्यातम्।
क्रम-सन्दर्भः : देवर्षि-सत्कृत इति देवैः ऋषिभिश् च सत्कृतः ॥४४॥
विश्वनाथः : देवैर् ऋष्हिभिश् च सत्कृतः ॥४४-४५॥
—ओ)०(ओ—
॥ ९.२२.४६ ॥
भविता सहदेवस्य मार्जारिर् यच् छ्रुतश्रवाः ।
ततो युतायुस् तस्यापि निरमित्रोऽथ तत्-सुतः ॥
श्रीधरः : बृहद्रथस्य जरासन्धः, तस्य सहदेवः, तस्य मार्जारिः । यस्मान् मार्जारेः श्रुतश्रवाः ॥४६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सहदेवस्य जरासन्ध-पुत्रस्य ॥४६॥
—ओ)०(ओ—
॥ ९.२२.४७-४८ ॥
सुनक्षत्रः सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् ।
ततः सुतञ्जयाद् विप्रः शुचिस् तस्य भविष्यति ॥
क्षेमोऽथ सुव्रतस् तस्माद् धर्मसूत्रः समस् ततः ।
द्युमत्सेनोऽथ सुमतिः सुबलो जनिता ततः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.२२.४९ ॥
सुनीथः सत्यजिद् अथ विश्वजिद् यद् रिपुञ्जयः ।
बार्हद्रथाश् च भूपाला भाव्याः साहस्र-वत्सरम् ॥
श्रीधरः : सहस्र-संवत्सरम् एते भाव्या भू-पालास् ततः परं भाव्यान् द्वादश-स्कन्धे वक्ष्यति ॥४९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : जरासन्धात् सहस्र-संवत्सर-पर्यन्तम् भविष्य्यन्तः । ततः परं तु भाव्यान् द्वादश-स्कन्धे वक्ष्यति ॥४९॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रयोदशोऽयं नवमे सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
शान्तनु-वंश-कीर्तनं नाम द्वाविंशोऽध्यायः ।
॥ ९.२२ ॥
(९.२३)