२१ भरत-वंशानुवर्णने

॥ ९.२१.१ ॥

श्री-शुक उवाच—

वितथस्य सुतान् मन्योर् बृहत्क्षत्रो जयस् ततः ।

महावीर्यो नरो गर्गः सङ्कृतिस् तु नरात्मजः ॥

श्रीधरः :

एकविंशे तु दौष्यन्तेः सुतस्यान्वय उच्यते ।

रन्तिदेवाजमीढादेर् यत्र कीर्तिः प्रतन्यते ॥

भरतस्यान्वये वितथे सति दत्तत्वाद् वितथ-संज्ञो भरद्वाजः । स च ब्राह्मणोऽपि भरतस्य दत्तः पुत्रो जात इति तद् वंशोऽनुक्रम्यते । वितथस्य सुतो मन्युः, तस्माद् बृहत्-क्षत्र-जय-महावीर्य-नर-गर्गाः पञ्च पुत्रा बभूवुः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

एकविंशे पुरु-वंश्य-रन्तिदेव-कथोच्यते ।

यस्य त्व् औदार्य-धैर्याभ्याम् त्र्यधीशास् तोषम् आययुः ॥

वितथो भरद्वाजः, स च ब्राह्मणोऽपि भरतस्य पुत्रस् तस्मान् मन्युः ॥१॥

—ओ)०(ओ—

॥ ९.२१.२ ॥

गुरुश् च रन्तिदेवश् च सङ्कृतेः पाण्डु-नन्दन ।

रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.३ ॥

वियद्-वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः ।

निष्किञ्चनस्य धीरस्य स-कुटुम्बस्य सीदतः ॥

श्रीधरः : वियद्-वित्तस्य वियतो गगनाद् इवोद्यमं विना दैवाद् उपस्थितम् एव वित्तं भोग्यं यस्य । यद् वा, वियद् व्ययं प्राप्नुवद् वित्तं भोग्यं यस्य । तद् एवाह—बुभुक्षतोऽपि सतो लब्धं लब्धं ददतः । तत् प्रपञ्चयति—निष्किञ्चनस्येत्य्-आदि-सार्धैः पञ्चदशभिः ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वियतो गगनाद् इव उद्यमं विना दैवाद् उपस्थितम् एव वित्तं भोग्यं यस्य तत्रापि लब्धं ददतः बुभुक्षमाणस्यापि ॥३॥

—ओ)०(ओ—

॥ ९.२१.४ ॥

व्यतीयुर् अष्ट-चत्वारिंशद् अहान्य् अपिबतः किल ।

घृत-पायस-संयावं तोयं प्रातर् उपस्थितम् ॥

श्रीधरः : अपिबतो जल-पानम् अप्य् अकुर्वतः । घृतादि-त्रयाणां द्वन्द्वैक्यम् । तोयं च ॥४॥

क्रम-सन्दर्भः : घृतेति सार्धकम् । तद्-अन्तरं घृतादिकम् उपस्थितं भोक्तु-कामस्य ॥४॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.५ ॥

कृच्छ्र-प्राप्त-कुटुम्बस्य क्षुत्-तृड्भ्यां जात-वेपथोः ।

अतिथिर् ब्राह्मणः काले भोक्तु-कामस्य चागमत् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.६ ॥

तस्मै संव्यभजत् सोऽन्नम् आदृत्य श्रद्धयान्वितः ।

हरिं सर्वत्र सम्पश्यन् स भुक्त्वा प्रययौ द्विजः ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

क्रम-सन्दर्भः : अन्नं पूर्वोक्तं घृतादिकम् एव ॥६॥

—ओ)०(ओ—

॥ ९.२१.७ ॥

अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः ।

विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥

श्रीधरः : अथान्यो वृषलोऽतिथिर् आगमत् । विभक्तस्य कुटुम्बार्थम् अन्नादिकं विभक्त-वतः ॥७॥

क्रम-सन्दर्भः : पूर्वं हरिं सर्वत्र सम्पश्यन्न् इत्य् उक्तम् । अधुना च तस्य तां करुणा-वाचम् इत्य् उच्यते । तत्र सर्वत्रैव हरिम् अन्तर्यामितया सम्पश्यन्न् इति चेत्, जीव-दृष्ट्य्-अभावेन करुणेयं तेषु विरुद्ध्यते । तस्मात् तं सर्वत्र परम-कारुणिकतयैव सम्पश्यंस् तद्-भावेन स्पृश्यमानः करुणायत इति लभ्यते । अत एव ब्रह्म-शिवाभ्यां तादृश-गुण-भक्ताभ्यां सह तद्-आविर्भावानन्तरं तद्-भक्तिर् एव फलिता वक्ष्यते—वासुदेवे भगवति भक्त्या चक्रे मनः परं [भा।पु। ९.२१.१५] इति । केवल-जीव-कारुण्यं खलु विघ्नाय स्यात्,1 भरतवत् । तस्मान् न कामये [भा।पु। ९.२१.१२] इत्य्-आदिना यो मोक्षानादरः, सोऽपि तत्-कारुण्य-गुण-विभावन-मय-भक्ति-कृत एवेति नायुक्तः स्याद् इति ज्ञेयम् ॥७॥

विश्वनाथः : विभक्तस्य विभक्तवतो महीपतेर् अन्योऽतिथिर् आगतः । ततश् च कुटुम्बाद्य्-अर्थं विभक्तम् एवान्नं तस्मै व्यभजत्, विभज्य ददौ ॥७॥

—ओ)०(ओ—

॥ ९.२१.८ ॥

याते शूद्रे तम् अन्योऽगाद् अतिथिः श्वभिर् आवृतः ।

राजन् मे दीयताम् अन्नं स-गणाय बुभुक्षते ॥

श्रीधरः : स-गणाय श्व-यूथ-सहिताय ॥८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.९ ॥

स आदृत्यावशिष्टं यद् बहु-मान-पुरस्कृतम् ।

तच् च दत्त्वा नमश्चक्रे श्वभ्यः श्व-पतये विभुः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.१० ॥

पानीय-मात्रम् उच्छेषं तच् चैक-परितर्पणम् ।

पास्यतः पुल्कसोऽभ्यागाद् अपो देह्य् अशुभाय मे ॥

श्रीधरः : उच्छेषम् उर्वरितम् । एकम् एव तर्पयत्ईति तथा ॥१०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.११ ॥

तस्य तां करुणां वाचं निशम्य विपुल-श्रमाम् ।

कृपया भृश-सन्तप्त इदम् आहामृतं वचः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : उच्छेषम् उर्वरितम् एकम् एव तृप्तीकरोति, न तु द्वाव् इति स्वार्थः । विभागानर्हम् इति भावः । अमृतं वच इति तस्य वाचोऽपि येन स-श्रद्धं कर्णाभ्याम् पीयते, सोऽपि न म्रियते, तस्य न देहेनैव सिद्ध्यति, किं पुनस् तत् कर्मानुतिष्ठेयुर् इति भावः ॥११॥

—ओ)०(ओ—

॥ ९.२१.१२ ॥

न कामयेऽहं गतिम् ईश्वरात् पराम्

अष्ट-र्द्धि-युक्ताम् अपुनर्-भवं वा ।

आर्तिं प्रपद्येऽखिल-देह-भाजाम्

अन्तः-स्थितो येन भवन्त्य् अदुःखाः ॥

श्रीधरः : पर-दुःखासहिष्णुतया सर्वेषां दुःखं स्वयं भोक्तुम् आशास्ते—नेति । अणिमाद्य्-अष्ट-समृद्धि-युक्तां गतिम् अपि [अपुनर्-भवं] मोक्षम् अपि च अहं न कामये । तर्हि किं कामयसे? तद् आह—अखिल-देह-भाजाम् आर्तिं दुःखं तत्-तद्-भोक्तृ-रूपेण अन्तः-स्थितः सन्न् अहं प्रपद्ये प्राप्नुयाम् इत्य् एवं कामये, येन तद्-दुःख-भोक्त्रा मया हेतु-भूतेन ते सर्वेऽदुःखा भवन्ति ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अन्तः-स्थितः सन् आर्तिं प्रपद्ये, तैर् भोक्तव्यं दुःखम् अहम् एव भूञ्जेय सर्व-जीवानाम् अपि समुदितं दुःखम् अहम् एक एव भोक्तुम् अलम् इति तत् स्व-दुःखं सह्यं पर-दुःख-दर्शनं त्व् असह्यम् इति भावः ॥१२॥

—ओ)०(ओ—

॥ ९.२१.१३ ॥

क्षुत्-तृट्-श्रमो गात्र-परिभ्रमश् च

दैन्यं क्लमः शोक-विषाद-मोहाः ।

सर्वे निवृत्ताः कृपणस्य जन्तोर्

जिजीविषोर् जीव-जलार्पणान् मे ॥

श्रीधरः : ननु दुःखं किम् इति प्रार्थयसे । पर-दुःख-निवृत्त्यैव मम सर्व-दुःख-निवृत्तिर् इत्य् आह—क्षुत्-तृड् इति । कृपणस्य जन्तोर् जीवन-हेतोर् जलस्यार्पणान् मे सर्वे क्षुत्-तृड्-आदयो निवृत्ताः ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नन्व् इति पिपासार्तोऽसि किञ्चिद् अवशिष्टं जलं स्वयं च पिबेत्य् अत आह—क्षुत् तृड् इति । कृपणस्यास्य जन्तोर् जीवन-हेतोर् जलस्यार्पणान् मम क्षुत्-तृड्-आदयो विवृत्ताः ॥१३॥

—ओ)०(ओ—

॥ ९.२१.१४ ॥

इति प्रभाष्य पानीयं म्रियमाणः पिपासया ।

पुल्कसायाददाद् धीरो निसर्ग-करुणो नृपः ॥

श्रीधरः : इत्य् एवं प्रभाष्य ॥१४॥

क्रम-सन्दर्भः : निसर्ग-करुण इति च निसर्गेण श्री-भगवत्-करुणा-स्फुर्ति-मय-स्वभावेन करुणः ॥१४॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.१५ ॥

तस्य त्रिभुवनाधीशाः फलदाः फलम् इच्छताम्

आत्मानं दर्शयां चक्रुर् माया विष्णु-विनिर्मिताः ॥

श्रीधरः : त्रि-भुवनाधीशा ब्रह्मादयः । मायास् तदीय-धैर्य-परीक्षार्थं प्रथमं मायया वृषलादि-रूपेण प्रतीताः सन्त इत्य् अर्थः ॥१५॥

क्रम-सन्दर्भः : अत एव तस्येति । यतः सामान्यतः फलम् इच्छतां फलदाः, यत एवात्म-प्रभृतयो विष्णुना भगवता स्वयम् एव माया मायिक-वृषलादि-रूपेण निर्मिताः प्रत्यायिता इत्य् अर्थः । अतस् ते पुनर् आत्मानं यथार्थ-रूपं दर्शयाञ्चक्रुः ॥१५॥

विश्वनाथः : त्रि-भुवनाधीशा विष्णु-ब्रह्म-रुद्राः, तस्य धैर्य-परीक्षार्थं प्रथमं मायाः ब्राह्मण-वृषलाश्व-पतीन्, ततः आत्मानं स्व-स्वरूपं च ॥१५॥

—ओ)०(ओ—

॥ ९.२१.१६ ॥

स वै तेभ्यो नमस्कृत्य निःसङ्गो विगत-स्पृहः

वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥

श्रीधरः : परं केवलं वासुदेवे भक्त्या नमश् चक्रे न तु तान् किम् अपि याचितवान् ॥१६॥

क्रम-सन्दर्भः : स वै स तु । निःसङ्गः तद्-दर्शनं विना फलान्तर-भोग-रहितः, तत्र विगत-स्पृहश् च । भगवति तद्-भक्तेषु च सम-पूज्यत्व-दृष्ट्या तेभ्यो नमस्कारं विशेषेणैव कृत्वापि चक्रे2 परं श्रेष्ठं यथा स्यात् तथा वासुदेवे भगवति मनश् चक्रे । तत्र हेतुः—भक्त्या, तयोर् अपि तत्र स-प्रेम-महा-भक्ति-दृष्ट्येत्य् अर्थः ॥१६॥

विश्वनाथः : मनः-परं श्रेष्ठं भगवद्-रूप-गुणादि-ध्यायित्वात् ॥१६॥

—ओ)०(ओ—

॥ ९.२१.१७ ॥

ईश्वरालम्बनं चित्तं कुर्वतोऽनन्य-राधसः

माया गुण-मयी राजन् स्वप्नवत् प्रत्यलीयत ॥

श्रीधरः : अनन्य-राधस ईश्वराति-रिक्त-फलान्तरानपेक्षस्य । प्रत्यलीयतात्मन्य् एव लीना बभूव ।

क्रम-सन्दर्भः : अनन्य-राधस इति, आर्तिं प्रपद्येऽखिल-देह-भाजां [भा।पु। ९.२१.११] इति च मिथः पूर्व-युक्त्यैव सङ्गच्छते । प्रत्यलीयत ततोऽन्तर्हितवती, ऋतेऽर्थं यत् प्रतीयेत [भा।पु। २.९.३३] इति न्यायेन ॥१७॥

विश्वनाथः : तद् एवाह—ईश्वरेति । अनन्य-राधसः अन्यद् एवान्याराधन-शून्यस्य स्व-पूर्वं स्वप्ने यथा स्वत एव लीयते तथैवेत्य् अर्थः ॥१७॥

—ओ)०(ओ—

॥ ९.२१.१८ ॥

तत्-प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः

अभवन् योगिनः सर्वे नारायण-परायणाः ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

क्रम-सन्दर्भः : तादृशीं भगवद्-भक्तिं कैमुत्येन प्रशंसति—तत्-प्रसङ्गेति ॥१८॥

—ओ)०(ओ—

॥ ९.२१.१९ ॥

गर्गाच् छिनिस् ततो गार्ग्यः क्षत्राद् ब्रह्म ह्य् अवर्तत

दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः ॥

श्रीधरः : मन्यु-सुतस्य नरस्य वंशम् उक्त्वा तत् सुतस्यैव गर्गस्य वंशम् आह—गर्गाद् इति । महा-वीर्यस्य वंशम् आह—दुरितक्षयस् तस्य त्रय्यारुणिः कविः पुष्करारुणिश् चेति त्रयः पुत्राः ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नरस्य वंशम् उक्त्वा तद्-भ्रातॄणां गर्गादीनां वंशम् आह—गर्गाद् इति ॥१९॥

—ओ)०(ओ—

॥ ९.२१.२० ॥

पुष्करारुणिर् इत्य् अत्र ये ब्राह्मण-गतिं गताः

बृहत्क्षत्रस्य पुत्रोऽभूद् धस्ती यद्-धस्तिनापुरम् ॥

श्रीधरः : कथं-भूताः ? ये अत्र क्षत्र-वंशे ब्राह्मण-गतिं ब्राह्मण-रूपतां गतास् ते । मन्यु-पुत्राणां पञ्चानां ज्येष्ठस्य वंशम् आह—बृहत्-क्षत्रस्येति । यद् येन हस्तिनापुरं कृतम् इत्य् अर्थः ॥२०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.२१ ॥

अजमीढो द्विमीढश् च पुरुमीढश् च हस्तिनः

अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः ॥

श्रीधरः : अजमीढादयस् त्रयो हस्तिनः पुत्राः ॥२१॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.२२ ॥

अजमीढाद् बृहदिषुस् तस्य पुत्रो बृहद्धनुः

बृहत्कायस् ततस् तस्य पुत्र आसीज् जयद्रथः ॥

श्रीधरः : अजमीढाद् एवान्यः पुत्रो बृहदिषुर् नामाभवत् ॥२२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.२३ ॥

तत्-सुतो विशदस् तस्य स्येनजित् समजायत

रुचिराश्वो दृढहनुः काश्यो वत्सश् च तत्-सुताः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.२४ ॥

रुचिराश्व-सुतः पारः पृथुसेनस् तद्-आत्मजः

पारस्य तनयो नीपस् तस्य पुत्र-शतं त्व् अभूत् ॥

श्रीधरः : पारस्य तनयो नीपः । नीपस्य पुत्र-शतम् ॥२४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.२५ ॥

स कृत्व्यां शुक-कन्यायां ब्रह्मदत्तम् अजीजनत् ।

योगी स गवि भार्यायां विष्वक्सेनम् अधात् सुतम् ॥

श्रीधरः : स एव कृत्व्यां कृत्वी-संज्ञायां शुक-कन्यायां ब्रह्म-दत्तं च जनयाम् आस । तद् उक्तं हरिवंशादिषु, “पराशर-कुलोत्पन्नः शुको नाम महा-यशाः । व्यासाद् अरण्यां संभूतो विधूमोऽग्निर् इवोज्ज्वलन् । स तस्यां पितृ-कन्यायां वीरिण्यां जनयिष्यति । कृष्णं गौर-प्रभं शंभुं तथा भूरि-श्रुतं जयम् । कन्यां कीर्ति-मतीं षष्ठीं योगिनीं योग-मातरम् । ब्रह्म-दत्तस्य जननीं महिषीम् अणुहस्य च ।” इति । यद्य् अपि शुक उत्पत्त्यैव विमुक्त-सङ्गो निर्गतस् तथापि विरहातुरं व्यासम् अनुयान्तं दृष्ट्वा छाया-शुकं निर्माय गतवांस् तद् अभिप्रायेणैव गार्हस्थ्यादि-व्यवहार इत्य् अविरोधः । स ब्रह्म-दत्तो योगी । गवि वाचि सरस्वत्याम् ॥२५॥

क्रम-सन्दर्भः : नीपस्यैव बहु-काल-व्यवधानेन व्यूढायां शुक-कन्यायां वंशान्तरम् आह—स कृत्व्याम् इति । शुक-कन्यायाम् इत्य् अत्र, न तु मम कन्यायाम् इत्य् उक्तम् इति स्वस्माद् अन्योऽसौ शुक इति बोधयति । तच् च युक्तम् । ब्रह्म-वैवर्त-वर्णित-स्वयं-श्री-भगवन्-महानुग्रह-पात्रत्वात्, तत एव विष्णुरातवन् नराकृति-पर-ब्रह्मणा दत्तत्वेन तद्-ब्रह्मरातत्व-सम्भवात् तस्यैव श्री-भागवत-वक्तृत्वं सम्भवति, नान्यस्य । कल्प-भेद-व्यवस्थया भारतादि-वर्णितस्याऽरणि-सम्भवस्य किम् उत छाया-शुकत्वेन कल्पितस्येति । अत्र ब्रह्म-वैवर्तेतिहासोऽयं किञ्चित् किञ्चित् प्रोद्ध्रियते—

प्राप्ते कलियुगे व्यासश् चक्रे यो जगतः कृते ।

महाभारतम् आख्यानं सर्व-वेदार्थ-सङ्ग्रहम् ॥ इत्य्-आदि ।

तथा—

ब्रह्मचर्य-परिभ्रंशे मातुर् वाक्याद् उपस्थिते ।

स्वयं पित-ऋण-नालं द्विपवत् सोढुम् अक्षमः ॥

विचिन्त्य मनसा चक्रे भार्यां जाबालि-कन्यकाम् ।

वीटिकाख्यां ददौ तस्मै सोऽपि वैखानसाश्रमी ॥

चक्रे तया सह तप ऋतु-गामी सुतेच्छया ।

अथ गर्भोऽभवत् तस्मात् तस्यां स ववृधे शनैः ॥

कलाभिः शुक्ल-पक्षे वै हिमद्युतिर् इव द्विज ।

द्वादशाब्दानि जातानि न प्रसूते स्म सा तदा ॥

कृतृष्ण-द्वैपायन-प्रोक्तं वेदा-वेदार्थ-सङ्ग्रहम् ।

पुराणं भारतं धर्म-शास्त्रं यद् अशृणोद् द्विज ॥

तत् सर्वं प्रज्ञया गर्ब्भश् चक्रे हृदि पपाठ च ।

गर्भ-संस्थोऽपि कुरुते न तु निष्क्रमणे मतिम् ॥

स च गर्भभराक्रन्ता इत्य्-आदि ।

अथ द्वादशमे वर्षे कृष्ण-द्वैपायनो मुनिः ।

उपविश्य कृत-स्नानो गर्भम् आमन्त्र्य सामभिः ॥

सम्बोधयामास तदा वचोभिर् युक्ति-भावितैः ।

व्यास उवाच—

यत् त्वं मदीय-गृहिणीम् अधुनाऽतिकालम्

आविश्य पीडयसि गर्भतया यथार्थम् ।

तद् ब्रूहि निष्क्रमसि नाम कथं न मूढ!

किं मारयिष्यसि विरुद्ध-करस् त्वम् एताम् ॥

गर्भ उवाच—

रक्षोऽहम् अस्मि सुर-पक्षेत्य्-आदि,

भ्रान्तोऽहं तेषु सर्वेषु कोऽहं त्वां च ब्रवीमि किम् ।

साम्प्रतं मानुषो भुत्वा जठरेऽस्या अवस्थितः ॥

तद् व्यास! न करिष्यामि गर्भान् निष्क्रमणं बहिः ।

नात्मानं वेष्टयिष्यामि दीन-चित्तोऽजमायया ॥ इत्य्-आदि ।

व्यास उवाच—

यद्य् एवम् अस्त्य् अभिमतं तव तर्हि निन्द्यान्

निष्क्रम्य तुल्य-नरकाद् इह गर्भ-वासात् ।

सम्यक् समाश्रय महोदय-हेतुम् एकं

श्री-प्राणनाथम् उभयोः कुरु वा विवेकम् ॥

गर्भ उवाच—

ज्ञानं विवेक-भवम् अस्ति च तावद् एव

वैराग्यम् अन्य-भव-संस्मरणं च तावत् ।

यावन् न निष्क्रमति जन्तुर् इतो निबद्धो

देवस्य चित्त-निलयस्य न मायया स्यात् ॥ इत्य्-आदि ।

व्यास उवाच—

माया भविष्यति न ते पुरुषोत्तमस्य

वक्त्रं प्रदर्शय निजं मम वत्स! शीघ्रम् । इत्य्-आदि ।

गर्भ उवाच—

यद्य् एत्य मे स भविता प्रति भूर् मुरारिर्

माया-प्रहाण-विषये यदु-वंशनाथः ।

गर्भं विहाय तद् अहं बहिर् अद्य भावी

नैवान्यया कथम् अपीति विनिश्चयो मे ॥ इत्य्-आदि ।

सूत उवाच—

इत्थं तदीय-वचनं द्विज शुश्रुवान् सः

व्यासोऽतिदुःखित-मना प्रययौ तदानीम् ।

नारायणं व्यवसितो हृदि तस्य हेतोर्

आनेतुम् ईषद् अनिवृत्त-मतिर् भवाब्धेः ॥

तत्र त्रिलोक-महितेन कृत-प्रणामः

कृष्णेन विश्व-सुहृदा द्विज-दैवतेन ।

प्राप्तार्हणो निखिलम् आत्म-हृदिस्थम् अस्मै

व्यासो न्यवेदयद् असाव् अपि तत् प्रपेदे ॥

कर्तव्यम् एतद् इह नाम कियन् मदीयं

गेहं पवित्रयितुम् अद्य तवागतस्य ।

तीर्थस्य जङ्गम-गतिं दधतोऽन्तरङ्ग-

जंबाल-शोधन-पटोर् इति चाह वाचम् ॥

नारायणापचिति-भाजनम् एवम् एष

भूत्व ययौ द्विज-वरः सह कृष्ण-युक्तः ।

प्राह प्रविश्य पुनर् एव स कान्दिशीकः

किञ्चित् परानुभव-धिष्ठित-गर्भ-शङ्की ॥

व्यास उवाच—

अयम् अस्त्य् आगतो गर्भ! द्वारवत्या गदाधरः ।

गृहीत्वैनं प्रतिभूवं निष्क्रामं कुरु पुत्रक ॥

गर्भ उवाच—

त्वं ब्रूहि माधव! जगन्-निगडोपमेया

मायाऽखिलस्य न विलङ्घ्यतमा त्वदीया ।

बध्नाति ंआं न यदि गर्भम् इमं विहाय

यास्यामि सम्प्रति बहिः प्रतिभूस् त्वम् अत्र ॥

आ ब्रह्म विश्वम् अखिलं तव माययैव

बद्धं त्वयैव भव-दुःख-हरस् त्वम् एव । इत्य्-आदि ।

सूत उवाच—

इत्थं तदीय-वचसा भगवान् प्रतीतः

प्राह प्रहस्य शनकैर् इति वाचम् ईशः ।

यन् मायया न भविता तव सम्प्रयोगो

योगावृताङ्ग! कुरु निष्क्रमणं विशङ्कम् ॥गन्तासि मोक्षम् अधुनैव मम प्रसादात्

जीवन्न् अवाप्स्यति महोदय-सौख्यम् अङ्ग ।यं तं वदन्ति मुनयो बहु-दुःख-योग-

बुद्धिर् वियोगम् अवियोग-करं मया यत् ॥

वाक्यावसानम् अनुविश्य ततस् तु गर्भात्

तस्या झटित्य् अथ विनिर्गत एव योगी ।

स द्वादशाब्द-मित-वेष-वयाः प्रणम्य

व्यासं हरिं स्वजननीम् अथ सम्प्रतस्थे ॥

ततश् च पित-पुत्र-सम्वादानन्तरम्, श्री-भगवान् उवाच—

व्यास त्वदीय-तनयः शुकवन् मनोज्ञं

ब्रूते वचो भवतु तच् छुक एव नाम्ना ।

हर्म्ये च वत्स्यति तथापि न माययायं

स्पृष्टो यतो मम कथा हृदि मास्य शोकम् ॥

यामो गृहं वयम् अपि प्रकुरुष्व वाक्यं

यत् त्वाम् अयं परम-भागवतोऽभ्युवाच । इत्य्-आदि,

इत्थं जगत्-त्रय-गुरुः पुरुषोत्तमस् तं

सम्बोध्य बोध-निधिम् आशु रथाधिरूढः ।

आमन्त्र्यभारत-कविं द्विज-वर्यम् उच्चैस्

तां द्वारकां यदु-पुरीं द्रुतम् आजगाम ॥ इति ॥२५॥

विश्वनाथः : स एव नीपः पुनर् अपि कृत्वी-संज्ञायां शुकोक-न्यायां शुकोऽयं व्यासाद् अरण्याः संभूतोऽन्य एव । तद् उक्तम् हरिवंचादिषु पराशर-कुलोत्पन्नः शुको नाम महा-यशाः व्यासाद् अरण्यां संभूतो विधूमोऽग्निर् इव ज्वलन् । स तस्यां पितृ-कन्यायां वीरिण्यां जनयिष्यति । कृष्णं गौरं प्रभुं शम्भुं, तथा भूरि-श्रुतं जयम् । कन्याक्म् कीर्तिमतीं षष्ठीं योगिनीं योग-मातरम् । ब्रह्मदत्तस्य जननीं महिषी महुहस्य च इति श्री-भागवत-वक्ता शुकस् तु व्यासस्य प्रथमः पुत्रोऽरणि-सम्भूताद् अन्यः । यद् उक्तं ब्रह्म-वैवर्ते—

प्राप्ते कलि-युगे व्यासश् चक्रे यो जगतः कृते ।

महाभारतम् आख्यानं सर्व-वेदार्थ-सङ्ग्रहम् ॥ इत्य्-आदि ।

तथा—

ब्रह्मचर्य-परिभ्रंशे मातुर् वाक्याद् उपस्थिते ।

स्वयं पित-ऋण-नालं द्विपवत् सोढुम् अक्षमः ॥

विचिन्त्य मनसा चक्रे भार्यां जाबालि-कन्यकाम् ।

वीटिकाख्यां ददौ तस्मै सोऽपि वैखानसाश्रमी ॥

ततश् च व्यासस् तया सह बहु-कालं तपस् तेपे । तद्-अन्ते तस्यां वीर्यम् आधत्त । सा च गर्भवती एकादशसु वर्षेषु व्यतीतेष्व् अपि न प्रसूते स्म ।

अथ द्वादशे वर्षे व्यासः कदाचिद् गर्भस्थां पुत्रम् आह—भोः पुत्र ! किं स्व-मातरं पीडयसि ? गर्भान् निःसरेति ।

स चाह—गर्भान् निःसृतं माया माम् अभिभाविष्यति, तस्माद् अत्रैव भगवन्तं ध्यापयामीति ।

व्यास आह—माया न त्वाम् अभिभविष्यतीति मद्-वचनम् एव प्रमाणीकृत्य गर्भान् निःसर, स्व-मुखं मां दर्शय, मत्-पत्नीं मा पीडयेति ।

स आह—पत्नी-पुत्राद्य्-आसक्तत्वेन त्वाम् अपि मायाभिभूतं जानाम्य् अतस् तद्-वचनं न प्रमाणीकरोमि ।

व्यास आह—तर्हि कस्य वाक्यं प्रमाणीकुरुषे ?

स आह—यस्य मायेति ।

व्यास आह—तर्हि तम् अत्रैवानयामीत्य् उक्त्वा द्वारकां गत्वा निवेदित-सर्व-वृत्तान्तं भगवन्तं स्व-पर्ण-शालाभ्यन्तरम् आनीय व्यासः पुनर् आह—भोः पुत्र ! आयातोऽयं भगवान् इति ।

ततः स आह—

त्वां ब्रूहि, माधव ! जगन्-निगडोपमा

सा मायाखिलस्य न विलङ्घ्यतमा त्वदीया ॥

बध्नाति मां न यदि गर्भम् इमं विहाय

यास्यामि, सम्प्रति बहिः प्रतिभूस् त्वम् अत्रेति ।

भगवान् आह—मन्-मायया न भविता । तव सम्प्रयोगो गन्तासि मोक्षम् अधुनैव मम प्रसादाद् इति ।

अतो गर्भान् निसृत्य प्रणम्य बहु स्तुवानं तं दृष्ट्वा भगवान् आह—व्यास ! त्वदीय-तनयः शुकवन् मनोज्ञं ब्रूते । वचो भवतु तच् छुक एव नाम्नेति ।

व्यासम् आमन्त्र्य रथम् आरुह्य द्वारकां प्रतस्थे । शुकोऽपि प्रवव्राज व्यासस् तम् अनुजगामेति । श्री-स्वामि-चरणास् तु अरणी-सम्भूतः शुक एव विरहातुरं पितरम् अनुव्रजन्तम् आलक्ष्य छाया-शुकं निर्माय प्रवव्राज छाया-शुकस्यैव गार्हस्थ्य-व्यवहार इत्य् आहुः । स ब्रह्मदत्तो गवि सरस्वत्याम् ॥२५॥

—ओ)०(ओ—

॥ ९.२१.२६ ॥

जैगीषव्योपदेशेन योग-तन्त्रं चकार ह

उदक्सेनस् ततस् तस्माद् भल्लाटो बार्हदीषवाः ॥

श्रीधरः, विश्वनाथः : स एव योग-तन्त्रं चकार । बार्हदीषवा बृहदिषोर् वंश्या इमे । दीर्घत्वम् आर्षम् ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.२७ ॥

यवीनरो द्विमीढस्य कृतिमांस् तत्-सुतः स्मृतः

नाम्ना सत्यधृतिस् तस्य दृढनेमिः सुपार्श्वकृत् ॥

श्रीधरः : सुपार्श्व-कृत् सुपार्श्वस्य पिता ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सुपार्श्व-कृत् सुपार्श्व-जनकः ॥२७॥

—ओ)०(ओ—

॥ ९.२१.२८-२९ ॥

सुपार्श्वात् सुमतिस् तस्य पुत्रः सन्नतिमांस् ततः

कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥

संहिताः प्राच्यसाम्नां वै नीपो ह्य् उद्ग्रायुधस् ततः

तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः ॥

श्रीधरः : प्राच्य-साम्नां षट्-संहिता जगौ विभज्याध्यापितवान् ॥२८॥

क्रम-सन्दर्भः : योगं प्राप्येति तत्-प्रभावाद् एव जगौ ॥२८॥

**विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.३० ॥

ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत्

नलिन्याम् अजमीढस्य नीलः शान्तिस् तु तत्-सुतः ॥

श्रीधरः : अजमीढस्य वंश्याः प्रियमेधादयः केचिद् ब्राह्मणा बभूवुर् बृहदिषु-प्रभृतयः क्षत्रियाश् चेति वंश-द्वयम् उक्तम् । तस्यैव वंशान्तरम् आह—नलिन्याम् इति यावत् समाप्ति ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अजमीढस्य वंशाम् अनन्तरम् आह—नलिन्याम् इति ॥३०॥

—ओ)०(ओ—

॥ ९.२१.३१-३३ ॥

शान्तेः सुशान्तिस् तत्-पुत्रः पुरुजोऽर्कस् ततोऽभवत्

भर्म्याश्वस् तनयस् तस्य पञ्चासन् मुद्गलादयः ॥

यवीनरो बृहद्विश्वः काम्पिल्लः सञ्जयः सुताः

भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥

विषयाणाम् अलम् इमे इति पञ्चाल-संज्ञिताः

मुद्गलाद् ब्रह्म-निर्वृत्तं गोत्रं मौद्गल्य-संज्ञितम् ॥

श्रीधरः : मुद्गल एको यवीनरादयश् चत्वार इत्य् एवं पञ्च ॥३१-३३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२१.३४ ॥

मिथुनं मुद्गलाद् भार्म्याद् दिवोदासः पुमान् अभूत्

अहल्या कन्यका यस्यां शतानन्दस् तु गौतमात् ॥

श्रीधरः : भार्म्याद् भर्म्याश्व-पुत्रात् मिथुनं चाभूत् । तद् एवाह—दिवोदासः पुमान् अहल्या च कन्यकेति ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भार्म्यात् भार्म्याश्व-पुत्रान् मुद्गलात् ॥३४॥

—ओ)०(ओ—

॥ ९.२१.३५-३६ ॥

तस्य सत्यधृतिः पुत्रो धनुर्-वेद-विशारदः

शरद्वांस् तत्-सुतो यस्माद् उर्वशी-दर्शनात् किल ॥

शर-स्तम्बेऽपतद् रेतो मिथुनं तद् अभूच् छुभम् ।

तद् दृष्ट्वा कृपयागृह्णाच् छान्तनुर् मृगयां चरन् ।

कृपः कुमारः कन्या च द्रोण-पत्न्य् अभवत् कृपी ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रयोदशोऽयं नवमे सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे

भरत-वंशानुवर्णने

एकविंशोऽध्यायः ।

॥ ९.२१ ॥

(९.२२)


  1. भवति (ङ्) ↩︎

  2. नमस्कार-विशेषेणैव चक्रे, तथापि (ङ) ↩︎