२० पुरु-वंश-कीर्तनं नाम

॥ ९.२०.१ ॥

श्री-बादरायणिर् उवाच—

पूरोर् वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत ।
यत्र राजर्षयो वंश्या ब्रह्म-वंश्याश् च जज्ञिरे ॥**

श्रीधरः :

विंशे पितृ-प्रसादाप्त-राजासनमहोन्नतेः ।

पूरोर् वंशे हि दौष्यन्तेर् भरतस्येर्यते यशः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

पुरु-वंशेऽत्र दौष्मन्तेर् भरतस्य कथान्वितम् ।

शाकुन्तलम् उपाख्यानं विंशोऽध्यायेऽत्र वर्ण्यते ॥१॥

ब्रह्म-वंश्याश् च ब्राह्मण-वंशोद्भूताश् च ॥१॥

—ओ)०(ओ—

॥ ९.२०.२ ॥

जनमेजयो ह्य् अभूत् पूरोः प्रचिन्वांस् तत्-सुतस् ततः ।
प्रवीरोऽथ मनुस्युर् वै तस्माच् चारुपदोऽभवत् ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.३ ॥

तस्य सुद्युर् अभूत् पुत्रस् तस्माद् बहुगवस् ततः ।
संयातिस् तस्याहंयाती रौद्राश्वस् तत्-सुतः स्मृतः ॥**

श्रीधरः : तत् सुतः अहं यातेः सुतः ॥३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.४-५ ॥

ऋतेयुस् तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः ।
जलेयुः सन्नतेयुश् च धर्म-सत्य-व्रतेयवः ॥**

दशैतेऽप्सरसः पुत्रा वनेयुश् चावमः स्मृतः ।
घृताच्याम् इन्द्रियाणीव मुख्यस्य जगद्-आत्मनः ॥**

श्रीधरः : धर्मेयुश् च सत्येयुश् च व्रतेयुश् च धर्म-सत्य-व्रतेयवः । वनेयुश् चावमः स्मृतः । एवं दशैते ऋतेयु-प्रमुखास् तस्य रौद्राश्वस्य घृताच्याम् अप्सरसि पुत्रा जाताः । अप्सरस इति षष्ठी सप्तम्य् अर्थे । वश-वर्तित्वे दृष्टान्तः—जगद्-आत्मनो जगत आत्म-भूतस्य मुख्यस्य प्राणस्येन्द्रियाणीव ॥४-५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्य रौद्राश्वस्य ऋतेयु-प्रभृतयो दश-पुत्राः धर्म-सत्यव्रतेयवः, धर्मेयुः, सत्येयुः,म् व्रतेयुः अवमः, कनिष्ठो दशम इत्य् अर्थः । अप्सरस इति सप्तम्य्-अर्थे षष्ठी । जीवस्य दशेन्द्रियाणीव ॥४-५॥

—ओ)०(ओ—

॥ ९.२०.६-७ ॥

ऋतेयो रन्तिनावोऽभूत् त्रयस् तस्यात्मजा नृप ।
सुमतिर् ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः ॥**

तस्य मेधातिथिस् तस्मात् प्रस्कन्नाद्या द्विजातयः ।
पुत्रोऽभूत् सुमते रेभिर् दुष्मन्तस् तत्-सुतो मतः ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.८ ॥

दुष्मन्तो मृगयां यातः कण्वाश्रम-पदं गतः ।
तत्रासीनां स्व-प्रभया मण्डयन्तीं रमाम् इव ॥**

श्रीधरः : दुष्यन्तस्य शकुन्तलायां भरतः पुत्रोऽभवद् इति कथा-द्वारेणाह—दुष्यन्तो मृगयाम् इति पञ्चदशभिः, तम् आश्रमं मण्डयन्तीम् ॥८॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.९ ॥

विलोक्य सद्यो मुमुहे देव-मायाम् इव स्त्रियम् ।
बभाषे तां वरारोहां भटैः कतिपयैर् वृतः ॥**

श्रीधरः : स्त्रियं विलोक्य मुमुहेऽमुह्यत् ॥९॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.१० ॥

तद्-दर्शन-प्रमुदितः सन्निवृत्त-परिश्रमः ।
पप्रच्छ काम-सन्तप्तः प्रहसञ् श्लक्ष्णया गिरा ॥**

श्रीधरः : तस्या दर्शनेन प्रमुदितोऽत एव सन्निवृत्तः परिश्रमो यस्य ॥१०॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.११ ॥

का त्वं कमल-पत्राक्षि कस्यासि हृदयङ्-गमे ।
किं स्विच् चिकीर्षितं तत्र भवत्या निर्जने वने ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.१२ ॥

व्यक्तं राजन्य-तनयां वेद्म्य् अहं त्वां सुमध्यमे ।
न हि चेतः पौरवाणाम् अधर्मे रमते क्वचित् ॥**

श्रीधरः : पौरवाणां चेतो न ह्य् अधर्मे रमते । अतो मच्-चेतसस् त्वयि रमणाद् एवाहं त्वां राजन्य-तनयां वेद्मि ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वेद्मीति त्वयि मच्-चेतसः स-लोभत्वान्यथानुपपत्त्येति भावः ॥१२॥

—ओ)०(ओ—

॥ ९.२०.१३ ॥

श्री-शकुन्तलोवाच—

विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने ।
वेदैतद् भगवान् कण्वो वीर किं करवाम ते ॥**

श्रीधरः : विश्वामित्रस्यात्मजाहं मेनकायां जाता तया च स्वर्गं गच्छन्त्यात्र त्यक्ता, अतो राज-कन्यैवाहम् इत्य् अर्थः ॥१३॥

क्रम-सन्दर्भः : विश्वामित्रस्य क्षत्रियत्वावस्थायाम् आत्मजेत्य् अर्थः ॥१३॥

विश्वनाथः : वेदेति कण्वस्य मुखान् मयेदं श्रुतम् । अहं तु माता-पितरौ न परिचिनोमीति भावः ॥१३॥

—ओ)०(ओ—

॥ ९.२०.१४ ॥

आस्यतां ह्य् अरविन्दाक्ष गृह्यताम् अर्हणं च नः ।
भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.१५ ॥

श्री-दुष्मन्त उवाच—

उपपन्नम् इदं सुभ्रु जातायाः कुशिकान्वये ।
स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥**

श्रीधरः : किं करवामेत्य्-आदि-वाक्यात् तद् अभिप्रायं ज्ञात्वाह—उपपन्नम् इति ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : किं करवामेत्य्-आदि-वाक्यैस् तस्यापि ममः स्वस्मिन्न् अभिरतं ज्ञात्वाह—उपपन्नम् इति ॥१५॥

—ओ)०(ओ—

॥ ९.२०.१६ ॥

ॐ इत्य् उक्ते यथा-धर्मम् उपयेमे शकुन्तलाम् ।
गान्धर्व-विधिना राजा देश-काल-विधानवित् ॥**

श्रीधरः : गान्धर्व-विधिना मिथः समय-पूर्वकेण ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ॐ इति शकुन्तलया मौने नैवोक्ते सतीत्य् अर्थः ॥१६॥

—ओ)०(ओ—

॥ ९.२०.१७-१९ ॥

अमोघ-वीर्यो राजर्षिर् महिष्यां वीर्यम् आदधे ।
श्वो-भूते स्व-पुरं यातः कालेनासूत सा सुतम् ॥**

कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः ।
बद्ध्वा मृगेन्द्रं तरसा क्रीडति स्म स बालकः ॥**

तं दुरत्यय-विक्रान्तम् आदाय प्रमदोत्तमा ।
हरेर् अंशांश-सम्भूतं भर्तुर् अन्तिकम् आगमत् ॥**

श्रीधरः : दुरत्ययं विक्रान्तं विक्रमणं यस्य ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.२० ॥

यदा न जगृहे राजा भार्या-पुत्राव् अनिन्दितौ ।
शृण्वतां सर्व-भूतानां खे वाग् आहाशरीरिणी ॥**

**श्रीधरः :**न व्याख्यातम्।

क्रम-सन्दर्भः : विश्वामित्रस्य क्षत्रियत्वावस्थायाम् आत्मजेत्य् अर्थः ॥२०॥

विश्वनाथः : न जगृहे लोक-प्रवाद-भयान् न जग्राह ॥२०॥

—ओ)०(ओ—

॥ ९.२०.२१ ॥

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्मन्त मावमंस्थाः शकुन्तलाम् ॥**

श्रीधरः : भस्त्रा चर्म-पात्रं तद्वन् माता आधार-मात्रम् । पितुर् एव तु पुत्रः । तत्र हेतुः—येनेति । आत्मा वै पुत्र-नामासि [कौ।उ। २.११] इति श्रुतेः । भरस्व पुषाण । अनेन भरत-नाम निरुक्तम् ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भस्त्रा चर्म-पात्रं तद्वद् एव माता आधार-पात्रम् । पितुर् एव तु पुत्रः । आत्मा वै पुत्र-नामासि [कौ।उ। २.११] इति श्रुतेः । भरस्व अङ्गीकुरु, अनेनैव भरत-नाम-निरुक्तिः ॥२१॥

—ओ)०(ओ—

॥ ९.२०.२२ ॥

रेतो-धाः पुत्रो नयति नरदेव यम-क्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यम् आह शकुन्तला ॥**

श्रीधरः : किं च, रेतो-धा रेतः-सेक्ता वंश-कृत् पुत्रो यम-क्षयात् पितरं नयति तारयति । तथा च श्रुतिः—

पुं-नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः । > तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥ इति ।

पाठान्तरे माता-पित्रोः पुत्रं प्रति विवादे यम् अक्षयाद् धर्म-निर्णेतुर् यमस्य सभायाः सकाशाद् रेतो-धा रेतः-सेक्ता पितैव धर्मेण विजित्य पुत्रं नयति, न तु मातेत्य् अर्थः । ततश् च भार्या-पुत्रौ स्वीकृतवान् इति ज्ञेयम् ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : रेतो-धा रेतः-सेक्तारं शकृद् इत्य् अर्थः । यद् वा, पितू रेतः स्व-देहोपादानत्वेन धत्त इत्य् औरसः पुत्र इत्य् अर्थः । यम-क्षयात् यमालयात् पितरं नयति तारयति । तथा च श्रुतिः—

पुं-नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः । > तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥ इति ।

द्वितीयान्त-पाठे पुत्र-प्राप्त्य्-अर्थं माता-पित्रोर् विवादे यम-क्षयात् धर्म-निर्णेतुर् यमस्य स्थानात् रेतोधा रेतः-सेक्ता पितैव धर्मेण विजित्य पुत्रं नयति, न तु मातेत्य् अर्थः । ततश् च भार्या-पुत्रौ स्वीकृतवान् इति ज्ञेयम् ॥२२॥

—ओ)०(ओ—

॥ ९.२०.२३ ॥

पितर्य् उपरते सोऽपि चक्रवर्ती महा-यशाः ।
महिमा गीयते तस्य हरेर् अंश-भुवो भुवि ॥**

श्रीधरः : चक्रवर्ती बभूवेति शेषः । तस्य महिमा गीयते—तद् अप्य् एते श्लोका अभिगीताः इत्य्-आदि बह्व्-ऋच् अश्रुत्या हरेर् अंश-भुवोऽंशाज् जातस्य ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : चक्रवर्ती बभूव ॥२३॥

—ओ)०(ओ—

॥ ९.२०.२४ ॥

चक्रं दक्षिण-हस्तेऽस्य पद्म-कोशोऽस्य पादयोः ।
ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड् विभुः ॥**

श्रीधरः : तत्र लिङ्गम् आह—चक्रम् इति ॥२४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.२५ ॥

पञ्च-पञ्चाशता मेध्यैर् गङ्गायाम् अनु वाजिभिः ।
मामतेयं पुरोधाय यमुनाम् अनु च प्रभुः ॥**

श्रीधरः : गङ्गायाम् अनुलोमं पञ्च-पञ्चाशता वाजिभिर् ईजे । पुरोधाय पुरोहितं कृत्वा । यमुनायाम् अनु च यमुनायाश् चानुलोमम् ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वाजिभिर् अश्वमेधैः । ममतायाः पुत्रं पुरोधाय पुरोहितं कृत्वा अश्वान् बबन्ध यथार्थम् इत्य् अर्थः ॥२५॥

—ओ)०(ओ—

॥ ९.२०.२६ ॥

अष्ट-सप्तति-मेध्याश्वान् बबन्ध प्रददद् वसु ।

भरतस्य हि दौष्मन्तेर् अग्निः साची-गुणे चितः ।
सहस्रं बद्वशो**1 यस्मिन् ब्राह्मणा गा विभेजिरे ॥

श्रीधरः : अष्टाधिक-सप्तति-मेध्यान् अश्वान् ववन्ध । किं कुर्वन् ? वसु धनं प्रकर्षेण ददत । साची-गुणे प्रकृष्ट-गुणवति देशेऽग्निश् चितोऽभूत् । यस्मिन्न् अग्नि देशे वा सहस्रं ब्राह्मणा भरतेन भूरिदानेन दत्ता गाः बद्वशः प्रत्येकं बद्वं बद्वं विभेजिरे विभज्य जगृहुः । चतुरशीत्य् अधिकैस् त्रयोदश-सहस्रैर् एकं बद्वं भवति । तथा हि—

हिरण्येन परीवृतान् कृष्णाञ्छुक्लदतो मृगान् । > मष्णारे भरतोऽददाच् छतं बद्वानि सप्त च ॥

इति श्रुत्य्-उक्तानि सप्ताधिक-शतं बद्वानि श्री-शुकेनोत्तर-श्लोके चतुर्दश-लक्षत्वेन सङ्गृहीतानि—अदात् कर्मणि मष्णारे नियुतानि चतुर्दश इति ।

एवं चतुर्दश-लक्षणां सप्ताधिक-शत-भागो बद्वम् इत्य् उक्तम् । इयं च बद्व-सङ्ख्या श्लोकेन सङ्गृह्यते—

चतुर्दशानां लक्षाणां सप्ताधिक-शतांशकः । > बद्वं चतुरशीत्य् अग्र-सहस्राणि त्रयोदश ॥२६॥

क्रम-सन्दर्भः : अश्वान् बबन्ध यज्ञार्थम् इति शेषः ॥२६॥

विश्वनाथः : साची-गुणे प्रकृष्ट-गुणवति देशेऽग्निश् चितोऽभवत् । यस्मिन्न् अग्नि-चयने कर्मणि सहस्र-सङ्ख्या ब्राह्मणा प्रत्येकं बद्धं बद्धं चतुरशीत्य्-अधिक-त्रयोदश-सहस्राणि गा विभेजिरे प्रापुः । बद्धं चतुरशीत्य्-अग्र-सहस्राणि त्रयोदश ॥२६॥

—ओ)०(ओ—

॥ ९.२०.२७ ॥

त्रयस्-त्रिंशच्-छतं ह्य् अश्वान् बद्ध्वा विस्मापयन् नृपान् ।
दौष्मन्तिर् अत्यगान् मायां देवानां गुरुम् आययौ ॥**

श्रीधरः : देवानाम् अपि मायां वैभवम् । अत्यगाद् अत्यशेत । यतो गुरुं पुज्यं हरिम् आययौ प्राप्तः, तद् अंश-भवत्वात् । “मायावत्तरः” इति पाठे ह्रस्वः श्रुत्य्-अनुसारेण । मायावतां श्रेष्ठो हरिर् एवासाव् इत्य् अर्थः ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : देवानाम् अपि मायां वैभवम् । अत्यगाद् अत्यशेत । यतो गुरुं जगद्-गुरुं हरिं ययौ प्राप्तः । “मयवत्तरः” इति पाठे माया-वैभवं तद्वतां श्रेष्ठः हरेर् अंशत्वात् ॥२७॥

—ओ)०(ओ—

॥ ९.२०.२८ ॥

मृगान् छुक्ल-दतः कृष्णान् हिरण्येन परीवृतान् ।
अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥**

श्रीधरः : मृगान् श्रेष्ठ-गजान् । भद्र-मन्द्र-मृगादयो गज-जाति-भेदाः । मष्णारे इत्य् अस्य श्रुति-पदस्य व्याख्यानं, कर्मणीति । कस्मिंश्चित् कर्म-विशेषे । केचित् तु मष्णारे तीर्थ इति व्याचक्षते ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मृगान् श्रेष्ठ-गजान् । भद्र-मन्द्र-मृगादयो गज-जाति-भेदा उच्यन्ते । मष्णारे कस्मिंश्चित् कर्म-विशेषे तीर्थ-विशेषे इति केचिद् आहुः । चतुर्दश-लक्षाणि अदात्, तथा च श्रुतिः—

हिरण्येन परीवृतान् कृष्णान् शुक्लदतो मृगान् । > मष्णारे भरतोऽददाच् छतं बद्वानि सप्त च ॥ इति ।

तेन सप्ताधिक-शत-बद्वान्य् एव चतुर्दश-लक्षाणि भवन्तीति श्री-शुकदेव-विवरणात् । चतुर्दश-लक्षाणां सप्ताधिक-शत-भागो यश् चतुरशीत्य्-अधिक-त्रयोदश-सहस्र-प्रमाणः बद्वं भवतीत्य् अवसीयते । अत एव बद्व-सङ्ख्या-श्लोकेनोक्ता—

चतुर्दशानां लक्षाणां सप्ताधिक-शतांशकः । > बद्वं चतुरशीत्य् अग्र-सहस्राणि त्रयोदश ॥ इति ॥२८॥

—ओ)०(ओ—

॥ ९.२०.२९-३० ॥

भरतस्य महत् कर्म न पूर्वे नापरे नृपाः ।
नैवापुर् नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥**

किरात-हूणान् यवनान् पौण्ड्रान् कङ्कान् खशान् छकान् ।
अब्रह्मण्य-नृपांश् चाहन् म्लेच्छान् दिग्-विजयेऽखिलान् ॥**

न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.२०.३१ ॥

जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे ।
देव-स्त्रियो रसां नीताः प्राणिभिः पुनर् आहरत् ॥**

श्रीधरः : पुरा देवान् जित्वा येऽसुरा रसौकांसि रसातलादि-स्थानानि भेजिरे तैः प्राणिभिर् बलिभिर् देव-स्त्रियो रासातलं नीताः सतीः पुनर् आहरद् आनिन्ये । प्राणिभिर् अन्यैर् मनुष्यादिभिः सह नीता इति वा । “पणिभिः” इति पाठे पणयोऽसुरास् तैर् नीताः सतीः । यद् वा, पणयो दूतास् तैर् दूतान् प्रस्थाप्य् आहरद् इत्य् अर्थाह् ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : येऽसुराः पुरा देवान् जित्वा रसौकांसि रसातलादि-स्थानानि भेजिरे प्राप्ताः, अत एव देव-स्त्रियो रासां नीता नीतवन्तः, तेभ्य एवासुरेभ्यः सकाशात् ताः स्त्रियः प्राणिभिः स्व-प्रेष्ठ-जनैः पुनर् आहरत् आनिनाय आनीय च दिवि देवान् प्रापयामासेति भावः । “पणिभिः” इति पाठे पणिभिर् असुरैर् द्वार-भूतैः स्त्रियो नीताः ॥३१॥

—ओ)०(ओ—

॥ ९.२०.३२ ॥

सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी ।
समास् त्रि-णव-साहस्रीर् दिक्षु चक्रम् अवर्तयत् ॥**

श्रीधरः : त्रि-णव-साहस्रीः समाः सप्त-विंशति-सहस्रं वत्सरान् । चक्रं सेना आज्ञा वा ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : त्रिनव-साहस्रीः सप्त-विंशति-सहस्रं वत्सरान् व्याप्य । चक्रं सेनाम् ॥३२॥

—ओ)०(ओ—

॥ ९.२०.३३ ॥

स संराड् लोक-पालाख्यम् ऐश्वर्यम् अधिराट् श्रियम् ।
चक्रं चास्खलितं प्राणान् मृषेत्य् उपरराम ह ॥**

श्रीधरः : तस्य वैराग्येण मोक्ष-प्रकारम् आह—स इति । मृषेति विचार्येति शेषः ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : लोक-पालेभ्योऽप्य् आ सम्यक् ख्याति यत्र तथाभूतम् ऐश्वर्यं प्राणात् बल-हेतुकात् शौर्यात् अस्खलितं चक्रम् आज्ञां च मृषा मिथ्या-भूतं विचार्येति शेषः । उपररामेति सर्वं त्यक्त्वा वनं गत्वा भक्त्या भगवन्तम् अवापेत्य् अर्थः ॥३३॥

—ओ)०(ओ—

॥ ९.२०.३४ ॥

तस्यासन् नृप वैदर्भ्यः पत्न्यस् तिस्रः सुसम्मताः ।
जघ्नुस् त्याग-भयात् पुत्रान् नानुरूपा इतीरिते ॥**

श्रीधरः : नानुरूपा मत्-सदृशा न भवन्तीति भर्त्रा ईरिते सति व्यभिचार-शङ्कयास्मांस् त्यक्ष्यतीति भयात् पुत्रान् जघ्नुः । पुनः पुत्राणां दर्शने वैसादृश्यानुसन्धानेन त्यजेन् नान्यथेत्य् आशयेन हतवत्यः ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नानुरूपान् मत्-सदृशा इमे इति भर्त्रा ईरिते सति व्यभिचार-शङ्कया अस्मांस् त्यक्ष्यतीति भयात् पुत्रान् जघ्नुः ॥३४॥

—ओ)०(ओ—

॥ ९.२०.३५ ॥

तस्यैवं वितथे वंशे तद्-अर्थं यजतः सुतम् ।
मरुत्-स्तोमेन मरुतो भरद्वाजम् उपाददुः ॥**

श्रीधरः : वितथे व्यर्थे सति तद्-अर्थं पुत्रार्थं मरुत्-स्तोमेन यागेन यजतस् तस्य प्रसन्नाः सन्तो मरुतो भरद्वाजं नाम पुत्रम् उपाददुः समर्पयाम् आसुः ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तद्-अर्थं वंशार्थं मरुत् सोमेन यज्ञेन यजतः यजते तस्मै मरुतो भरद्वाजं नाम पुत्रम् उपाददुर् निकटम् आनीय ददुः ॥३५॥

—ओ)०(ओ—

॥ ९.२०.३६ ॥

अन्तर्वत्न्यां भ्रातृ-पत्न्यां मैथुनाय बृहस्पतिः ।
प्रवृत्तो वारितो गर्भं शप्त्वा** वीर्यम् अवासृजत्2

श्रीधरः : मरुतां भरद्वाजागम-प्रकारं प्रदर्शयन्न् आह—अन्तर्वत्न्याम् इति चतुर्भिः, अन्तर्वत्न्यां गर्भिण्यां भ्रातुर् उतथ्यस्य पत्न्यां ममतायां चौर्येण मैथुनाय कदाचित् प्रवृत्तो बृहस्पतिस् तदा द्वितीय-गर्भस्यावकाशाभावाद् आक्रोश-पूर्वकं गर्भ-स्थेन वारितस् ततः क्रुद्धो बृहस्पतिर् अन्धो भवेति तं गर्भं शप्त्व बलाद् वीर्यं न्यषिञ्चत् ततो बृहस्पतेः शापाद् गर्भ-स्थो दीर्घतमा अन्धो बभूव तेन च तद्-वीर्यं पार्ष्णि-प्रहारेण योनेर् बहिर् निःसारितं भूमौ पतितं सद्य एव कुमारोऽभवत् ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भरद्वाज एव क इत्य् अपेक्षायाम् आह—अन्तर्वत्न्याम् इत्य्-आदि । भृअतुर् उतथ्यस्य पत्न्यां ममतायां तदा द्वितीय-गर्भस्यावकाशाभावाद् अक्रोश-पूर्वकं गर्भस्थेन वारितः । ततः क्रुद्धो बृहस्पतिर् अन्धो भवेति तं गर्भस्थं शप्त्वा बलाद् वीर्यम् आदधौ ॥३६॥

—ओ)०(ओ—

॥ ९.२०.३७ ॥

तं त्यक्तु-कामां ममतां भर्तुस् त्याग-विशङ्किताम् ।
नाम-निर्वाचनं तस्य श्लोकम् एनं सुरा जगुः ॥**

श्रीधरः : तं च पर-वीर्य-जं भर्तुस् त्यागाद् विशङ्कितां सती त्यक्तु-कामां ममतां प्रति सुरा एनं बृहस्पतेर् ममतायाश् च विवाद-रूपं श्लोकं जगुः । किम् अर्थं जगुः ? अत आह—तस्य नाम निरुच्यते येन तत् । तन् नाम-निर्वचनेनैव भर्तुस् त्याग-शङ्काम् अपाकर्तुम् इत्य् अर्थः ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तरो बृहस्पतेः शापाद् गर्भस्थो दीर्घतमा अन्धो बभूव । तेन च तद्-वीर्यं पार्ष्णि-प्रहारेण योनेर् बहिर् निःसारितं भूमौ पतितं, सद्यः कुमारोऽभूत् । तं तु पर-वीर्य-जं त्यक्तु-कामां भर्तुस् त्यागाद् विशङ्किताम् ममतां प्रति सुरा एनं बृहस्पतेर् ममतायाश् च संवाद-रूपं श्लोकं जगुः । कीदृशम् ? तस्य सुतस्य नाम निरुच्यते येन तत् ॥३७॥

—ओ)०(ओ—

॥ ९.२०.३८ ॥

मूढे भर द्वाजम् इमं भर द्वाजं बृहस्पते ।
यातौ यद् उक्त्वा पितरौ भरद्वाजस् ततस् त्व् अयम् ॥**3

मध्वः : द्वाजम् इमं भर । उचथ्यस्य क्षेत्रज्ञो बृहस्पतेर् जात इति द्वयोर् जातत्वाद् द्वाजः । बृहस्पतेर् वाजः प्रजा-सन्ततिर् येन भृता स बृहस्पतेर् भरद्वाजः4 । भरद्वाजो मरुद्भिश् च भृतो जातो द्वयोर् यतः इति पाद्मे ॥३८-३९॥

श्रीधरः : तत्र पुत्रं त्यक्त्वा यान्तीं ममतां बृहस्पतिर् आह—हे मूढे, इमं पुत्रं भर पुषाण । भर्तुर् बिभेमीति चेत्, तत्राह—द्वाजम् एकस्य क्षेत्रेऽन्यस्य बीजाद् इत्य् एवं द्वाभ्यां जातम् । अतस् तस्याप्य् अयं पुत्र इति न तस्माद् भय-शङ्केत्य् अर्थः । एवम् उक्ता सती तं प्रत्य् आह—हे बृहस्पते, त्वम् इमं भर । यतो द्वाभ्याम् आवाभ्याम् अन्यायतो जातम् । अतो नाहम् एकाकिनी भरामीत्य् अर्थः । यद् यस्माद् एवम् उक्त्वा पितरौ ममता-बृहस्पती विवदमानौ पुत्रं परित्यज्य यातौ, ततो हेतोर् अयं भरद्वाज इति । पाठान्तरे यस्य त्याग-दुःखात् पितरौ याताव् इत्य् अर्थः ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पुत्रं त्यक्त्वा यान्तीं ममतां बृहस्पतिर् आह—हे मूढे, इमं पुत्रं भर पालय । भर्तुर् बिभेमीति चेत्, तत्राह—द्वाजम् एकस्य क्षेत्रेऽन्यस्य बीजाद् इत्य् एवं द्वाभ्यां जातम् । अतस् तस्याप्य् अयं पुत्र इति न तस्माद् भय-शङ्केत्य् अर्थः । ममता प्राह—हे बृहस्पते, त्वम् इमं भर । द्वाजं द्वाभ्याम् आवाभ्याम् अन्यायतो जातम् । तत्रापि मय्य् अकामायां तव बलात्कारात् तवैवायं पुत्रो, न मम वस्तु इत्य् उक्त्वा पितरौ ममता-बृहस्पती यतो यातौ गतौ, ततो हेतोर् अयं तु भरद्वाज इति । यद्-दुःखाद् इति पाठे यस्य पुत्रस्य त्यागः दुःखात् पितरौ यातौ ॥३८॥

—ओ)०(ओ—

॥ ९.२०.३९ ॥

चोद्यमाना सुरैर् एवं मत्वा वितथम् आत्मजम्5

व्यसृजन् मरुतोऽबिभ्रन्6 दत्तोऽयं वितथेऽन्वये ॥

मध्वः : पूर्व-श्लोक-टीका द्रष्टव्या।

श्रीधरः : वितथं व्यभिचार-संभवात् तम् आत्मजं वितथां निरर्थकं मत्वा ममता व्यसृजत् तत्याज । पाठान्तरे आदि-जं प्रथम-जं भर्तुर् वीर्याज् जातम् एव मुख्यम् आत्मजं मत्वा बृहस्पतेर् जातं तत्याजेत्य् अर्थः । एवं तया त्यक्तं मरुतोऽबिभ्रन्न् अविभरुः । तद् एवं मरुद्भिः प्राप्तोऽयं भरतस्यान्वये वितथे सति दत्तः ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सुरैर् एवं चोद्यमाना—हे ममते ! त्वं बृहस्पतेर् उपपतेर् आज्ञां पालयेति सोपहासम् उक्ता तम् आत्मजं वितथं व्यर्थं मत्वा ममता लज्जया वासृजत् तत्याज । आदिजम् इति पाठे प्रथमजं बृहस्पति-जातम् इत्य् अर्थः । एवं तया त्यक्तं मरुतोऽबिभ्रन् अबिभरुः । भूत्वा च भरतस्यान्वये वितथे सति दत्तः ॥३९॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकोनविंशो नवमे सङ्गतः सङ्गतः सताम् ॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये > पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे > पुरु-वंश-कीर्तनं नाम > विंशोऽध्यायः ।

॥ ९.२० ॥

(९.२१)


  1. छक्रवर्ती रेअद्स् बद्धशः। थिस् इस् प्रोबब्ल्य् अ स्च्रिबल् एर्रोर्। म्W: बद्व- १३,८०४। ↩︎

  2. उपासृजत् इति ब-पुस्तके ↩︎

  3. त्राता च दुःखात् पितरौ इति तत्त्ववादि-पाठः। बृहस्पति-भ्रातुर् उचथ्यस्य पत्नीं ममतां देवा आहुः—मूढे ! उचथ्य-क्षेत्रजत्वाद् उचथ्यस्याप्य् अयं सुत इति द्वाभ्याम् उचथ्य-बृहस्पतिभ्याम् । अपति-पत्नीभ्यां द्वाभ्यां ममता-बृहस्पतिभ्याम् इति वा । जातम् इमं बालकं भर । एवं देवैर् उक्तत्वाद् भरद्वाज इति निरुक्तः । निरुक्त्य्-अन्तरं चाहुः—बृहस्पतेः वाजं प्रजा-तन्तुं भरतीति भरद्वाजः, तत्-पुत्रत्वात् । निरुक्तत्वात् पद-विपर्ययः । पितरौ उचथ्य-बृहस्पती ममता-बृहस्पती वा ॥ (गोविन्दाचार्यः) ↩︎

  4. तथा हि श्रुतिः—प्रजा वै वाजः । तस्या एष यद् बिभर्ति, तस्माद् भरद्वाजः ॥ इति (गोविन्दाचार्यः)। ↩︎

  5. मत्वा तं देवम् आत्मजम् इति तत्त्ववादि-पाठः। ↩︎

  6. बिभ्रद् इति पाठान्तरम्। सुरैश् चोद्यमानोऽपि ममता तं देवं बृहस्पतिं देवरम् इति यावत्, आत्मना जातं मत्वा व्यसृजत् । त्यक्तं च शिशुं मरुतः अबिभ्रत् अबिभरुः । भरतस्य चान्वये प्रजा-विच्छेदेन वितथे जाते दत्तश् च भरताय मरुद्भिः । वितथेऽन्वये दत्तत्वाद् वितथ-नामा चाभवत् ॥ (गोविन्दाचार्यः) ↩︎