॥ ९.१९.१ ॥
श्री-शुक उवाच—
स इत्थम् आचरन् कामान् स्त्रैणोऽपह्नवम् आत्मनः ।
बुद्ध्वा प्रियायै निर्विण्णो गाथाम् एताम् अगायत ॥**
श्रीधरः :
ऊनविंशे ययातिः स्वं चेष्टितं नन्व् अजोपमम् ।
देवयानीं समाश्राव्य विरक्तो मुक्तिम् आप्तवान् ॥
भुक्त-भोगाम् अजां हास्यन्न् अजवद् वृत्तम् आत्मनः ।
विडम्बयन् प्रियाम् आह निर्वेदयितुम् आत्मवान् ॥
कामान् आचरन्न् उपभुञ्जानः । गाथाम् इतिहासम् ॥१॥
क्रम-सन्दर्भः : स इति सार्धकम् ॥१॥
विश्वनाथः :
ऊनविंशे च्छाग-गाथा-वर्णितः स्व-स्वरूपकः ।
विरजा प्राप कृष्णं स देवयान्य् अपि सा तथा ॥
कामान् आचरन्न् उपभुञ्जानः । अपह्नवं वञ्चनम् ॥१॥
—ओ)०(ओ—
॥ ९.१९.२ ॥
शृणु भार्गव्य् अमूं गाथां मद्-विधाचरितां भुवि ।
धीरा यस्यानुशोचन्ति वने ग्राम-निवासिनः ॥**
श्रीधरः : मद्-विधेन मत्-सदृशेनाचरिताम् अनुष्ठिताम् । मद्-विधस्याचरितं यस्याम् इति वा । यस्य ग्राम-निवासिनः कामिनो मद्-विधस्याचरितं वने स्थिता । धीराः शोचन्ति तस्य गाथां शृणु ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मद्-विधस्याचरितं यस्याम् तां यस्य ग्राम-निवासिनो मद्-विधस्याचरितं वने स्थिता धीरा अनुशोचन्तीति सहासे गुणीभूताभ्याम् अपि पदाभ्याम् अन्वय आर्षत्वात् ॥२॥
—ओ)०(ओ—
॥ ९.१९.३ ॥
बस्त एको वने कश्चिद् विचिन्वन् प्रियम् आत्मनः ।
ददर्श कूपे पतितां स्व-कर्म-वशगाम् अजाम् ॥**
श्रीधरः : आत्मानम् अनुलक्ष्याह—बस्त इति । प्रियाम् अनुलक्ष्याह—अजाम् इति । वने संसारे । प्रियं विषयम् ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : बस्तस् छागः अतिशयोक्त्या ययातिः वने संसारे प्रियं विषय-सुखम् अजां देवयानीम् ॥३॥
—ओ)०(ओ—
॥ ९.१९.४ ॥
तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् ।
व्यधत्त तीर्थम् उद्धृत्य विषाणाग्रेण रोधसी ॥**
श्रीधरः : रोधसि तटे विषाणाग्रेण मृदादिकम् उद्धृत्य तीर्थं निर्गमाय मार्गं व्यधत्त ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : रोधसि तटे विषाणाग्रेण मृदादिकम् उद्धृत्य तीर्थं निर्गम-मार्गं व्यधत्त ॥४॥
—ओ)०(ओ—
॥ ९.१९.५ ॥
सोत्तीर्य कूपात् सुश्रोणी तम् एव चकमे किल ।
तया वृतं समुद्वीक्ष्य बह्व्योऽजाः कान्त-कामिनीः ॥**
श्रीधरः : बह्व्य इति शर्मिष्ठा-प्रमुखाः कामयाम् आसुः । कान्ताम् प्रति कामिनीः कामवत्यः ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अजाः शर्मिष्ठाद्याः कान्तं कामयितुम् शीलं यासां ताः कान्त-कामिन्यः तम् एव कामयामासुः ॥५॥
—ओ)०(ओ—
॥ ९.१९.६ ॥
पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभ-कोविदम् ।
स एकोऽजवृषस् तासां बह्वीनां रति-वर्धनः ।
रेमे काम-ग्रह-ग्रस्त आत्मानं नावबुध्यत ॥**
श्रीधरः : पीवानं पुष्टम् । श्मश्रुलं श्मश्रु-बहुलम्, रति-समर्थम् इत्य् अर्थः । मीढ्वांसं रेतः-सेक्तारम् । याभे कोविदम् अभिज्ञम् । अत एव प्रेष्ठम् । नावबुध्यत नान्व् अबुध्यत ॥६॥
क्रम-सन्दर्भः : याभे मैथुने कोविदम् ।
विश्वनाथः : मीढ्वांसं रेतः-सेक्तारं याभे मैथुने कोविदं पण्डितम् ॥६॥
—ओ)०(ओ—
॥ ९.१९.७ ॥
तम् एव प्रेष्ठतमया रममाणम् अजान्यया ।
विलोक्य कूप-संविग्ना नामृष्यद् बस्त-कर्म तत् ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अन्यया अजयेत्य् आहिताग्न्य्-आदित्वात् पर-निपातः। कूप-संविग्ना देवयानी ॥७॥
—ओ)०(ओ—
॥ ९.१९.८ ॥
तं दुर्हृदं सुहृद्-रूपं कामिनं क्षण-सौहृदम् ।
इन्द्रियारामम् उत्सृज्य स्वामिनं दुःखिता ययौ ॥**
श्रीधरः : स्वामिनम् इति शुक्राभिप्रायेणाह ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : स्वामिनम् इति शुक्राभिप्रायेणोक्तौ विरुद्ध-मति-कृद्-दोष आर्षत्वात् सोढव्यः। स्वामिनैश्वार्ये इति पाणिनि स्मरणात् स्वामि-शब्दोऽपि न केवलं पति-पर्यायो दृष्टः । यद् वा, स्वामिनं तं ययातिम् उत्सृज्य ययौ ॥८॥
—ओ)०(ओ—
॥ ९.१९.९ ॥
सोऽपि चानुगतः स्त्रैणः कृपणस् तां प्रसादितुम् ।
कुर्वन्न् इडविडा-कारं नाशक्नोत् पथि सन्धितुम् ॥**
श्रीधरः, विश्वनाथः : इडविड्-आकाराम् बस्त-जाति-शब्दम् । सन्धितुं प्रसादयितुम् ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१९.१० ॥
तस्य तत्र द्विजः कश्चिद् अजा-स्वाम्य् अच्छिनद् रुषा ।
लम्बन्तं वृषणं भूयः सन्दधेऽर्थाय योगवित् ॥**
श्रीधरः : वृषणम् अच्छिनज् जरया संभोगासमर्थम् अकरोत् । अर्थाय स्व-पुत्र्याः कामोपभोगाय । योगविद् उपायज्ञः । जरा-व्यत्ययेन रति-शक्तिं ददाव् इत्य् अर्थः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : द्विजः शुक्राचार्यः । अजा शुक्रस्य स्त्री, तस्या स्वामी स एव वृषणम् अच्छिनत् । जरया संभोगासमर्थम् अकरोत् । भूयः प्रसन्नः समर्थाय काम-भोगाय सन्दधे वृषणं यथा-स्थितम् अकरोद् जरा-व्यत्ययेन यौवन-युक्तः चकार । योगविद् उपायज्ञः ॥१०॥
—ओ)०(ओ—
॥ ९.१९.११ ॥
सम्बद्ध-वृषणः सोऽपि ह्य् अजया कूप-लब्धया ।
कालं बहु-तिथं भद्रे कामैर् नाद्यापि तुष्यति ॥**
श्रीधरः : कूप-लब्धया सह कामैः सेव्यमानैर् न तुष्यति ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कूप-लब्धया काम-लब्धया पाठ-द्वयम् । बहुतिथं कालं व्याप्यापि सेव्यमानैर् अद्यापि न तुष्यति न तृप्यति ॥११॥
—ओ)०(ओ—
॥ ९.१९.१२ ॥
तथाहं कृपणः सुभ्रु भवत्याः प्रेम-यन्त्रितः ।
आत्मानं नाभिजानामि मोहितस् तव मायया ॥**
**श्रीधरः :**न व्याख्यातम्।
क्रम-सन्दर्भः : मायया मोहन-शक्त्या ॥१२॥
विश्वनाथः : मोहितस् तव माययेति मम जीवस्य त्वम् एव मूर्तिमत्य्-अविद्येति भावः ॥१२॥
—ओ)०(ओ—
॥ ९.१९.१३ ॥
यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः ।
न दुह्यन्ति मनः-प्रीतिं पुंसः काम-हतस्य ते ॥**
श्रीधरः : ननु तर्हि पुनर् अपि बहवो विषयाः सेव्यन्ताम्, ततो मनसि प्रीते सति कामोपशान्त्या मोहो निवर्तेत ? इति चेत्, तत्राह—यद् इति द्वाभ्याम् । न दुह्यन्ति न पूरयन्ति ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु त्वं सम्राट् पूर्ण-कामोऽसि विषयानन्दात्मानं रमयतस् तव कथम् एतावद् दैन्यं सम्भवेत् ? तत्राह—यद् इति । न दुह्यन्ति न पूरयन्ति कामहतस्येति काम-हतत्वम् एवापूर्ण-कामत्वे कारणम् इति भावः ॥१३॥
—ओ)०(ओ—
॥ ९.१९.१४ ॥
न जातु कामः कामानाम् उपभोगेन शांयति ।
हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते ॥**
श्रीधरः : हविषा घृतेन कृष्ण-वर्त्माग्निर् इव ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु यावांस् ते कामस् तावान् एव ततोऽप्य् अधिक-प्रमाणो वा विषय उपभुज्यतां महा-सम्पन्नस्य तव स्रक्-चन्दन-वनितादि-विषयाणां किम् अल्पत्वम् इत्य् अत आह—न जात्व् इति । कृष्णवर्त्मा अग्निः । तस्माद् अशान्त-कामस्य सदा दुःखम् एवेत्य् अतः शान्त-काम एव सुखीति भावः ॥१४॥
—ओ)०(ओ—
॥ ९.१९.१५ ॥
यदा न कुरुते भावं सर्व-भूतेष्व् अमङ्गलम् ।
सम-दृष्टेस् तदा पुंसः सर्वाः सुखमया दिशः ॥**
श्रीधरः : तर्हि कदा केनोपायेन वा मनसः संपूर्णा प्रीतिः स्याद् यया कामोपशमः स्यात्? इत्य् अत आह—यदेति षड्भिः, अमङ्गलं भावं राग-द्वेषादि-वैषम्यम् ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : शान्त-कामस्यासाधारणं लक्षणम् आह—यदेति । सर्व-भूतेषु स्व-द्वेष्टृष्व् अपि अमङ्गलं द्वेषं न कुरुत इति स्व-सम्मानादि-काम-सत्त्वे एवावमानादि-कर्तरि द्वेषः सम्भवेद् इति भावः । सम-दृष्टेः व्यवहारिक-निन्दा स्तुत्य्-आदिषु तुल्य-बुद्धेः सुख-मयाः सुख-मय्यः ॥१५॥
—ओ)०(ओ—
॥ ९.१९.१६ ॥
या दुस्त्यजा दुर्मतिभिर् जीर्यतो या न जीर्यते ।
तां तृष्णां दुःख-निवहां शर्म-कामो द्रुतं त्यजेत् ॥**
श्रीधरः : दुःखानि नितरां वहतीति तथा ताम् ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सर्व-संहर्ता कालोऽपि कामनायाः संहारे न हेतुर् इत्य् आह—येति । यद् वा, दुरुपशमाया अपि कामनाया उपशमे साधनम् आह—येति जीर्यतो जरां प्राप्नुवतोऽपि लोकस्य शर्म-कामः स्व-शत्रूणाम् अपि यो मङ्गलं कामयते सः ॥१६॥
—ओ)०(ओ—
॥ ९.१९.१७ ॥
मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् ।
बलवान् इन्द्रिय-ग्रामो विद्वांसम् अपि कर्षति ॥**
श्रीधरः : स्त्री-सन्निधानं तु सर्वथा त्याज्यम् इत्य् आह—मात्रेति । अविविक्तं सङ्कीर्णम् आसनं यस्य सः । कर्षत्य् आकर्षति ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : किं च,स्त्री-विषयः कामस् तु सदाचारेणैव शाम्यतीति सदाचारं दर्शयति मात्रेति अविविक्तम् अपृथग्-भूतम् आसनं यस्य सः । विद्वांसम् अप्य् आकर्षति ॥१७॥
—ओ)०(ओ—
॥ ९.१९.१८ ॥
पूर्णं वर्ष-सहस्रं मे विषयान् सेवतोऽसकृत् ।
तथापि चानुसवनं तृष्णा तेषूपजायते ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विषयाभिनिवेशस्य काल-दुर्जयत्वेऽहम् एव दृष्टान्त इत्य् आह—पूर्णम् इति ॥१८॥
—ओ)०(ओ—
॥ ९.१९.१९ ॥
तस्माद् एताम् अहं त्यक्त्वा ब्रह्मण्य् अध्याय मानसम् ।
निर्द्वन्द्वो निरहङ्कारश् चरिष्यामि मृगैः सह ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु तर्हि कस्मात् तस्या उपशमस् तत्र भगवद्-रूप-गुणादौ मनो निधानाद् इत्य् आह—मानसम् आधायेति निराकारस्य ध्यानं न सम्भवतीति साकारे ब्रह्मणीत्य् अर्थः । भागवतीं गतिं लेभे इत्य् अग्रेतनोक्तेश् च । मृगैः सहेति एतावन्तं कालं भवत्याः क्रीडा-मृगः सन् गृहाङ्गने नृत्यम् अकरवम् अतः परं तु वने मृगैः कृष्णसारैः सहैवं कृष्ण-लीला-मग्नो नर्तिष्यामीति भावः ॥१९॥
—ओ)०(ओ—
॥ ९.१९.२० ॥
दृष्टं श्रुतम् असद् बुद्ध्वा नानुध्यायेन् न सन्दिशेत् ।
संसृतिं चात्म-नाशं च तत्र विद्वान् स आत्म-दृक् ॥**
श्रीधरः : ननु तृष्णा-त्यागस्याति-दुष्करत्वात् कथं ब्रह्मणि मनस आधानं स्यात् तत्राह—दृष्टम् इति । यो नानुध्यायेन् न संविशेन्न चोपभुञ्जीत । तत्र दृष्ट-श्रुतयोर् अनुध्यानादौ स आत्म-दृक् भवति ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तत्त्व-विचारेणापि विषय-ध्यानं त्यक्तुं भगवद्-ध्यान-परिपाके सत्य् एव शक्नुयाद् इत्य् आह—दृष्टम् इति । य आत्म-दृक् ध्यानेनात्मानं भगवन्तं पश्यति स एवं दृष्टं श्रुतं च विषय-सुखम् असद् असाधुत्वाद् अरोचकं बुद्ध्या न पुनः पुनर् ध्यायेद् न चोपभुञ्जीत । किं च, तत्र दृष्ट-श्रुत-ध्याने एव संसृतिम् आत्म-नाशम् आत्म-घातं च विद्वान् जानन् ॥२०॥
—ओ)०(ओ—
॥ ९.१९.२१-२२ ॥
इत्य् उक्त्वा नाहुषो जायां तदीयं पूरवे वयः ।
दत्त्वा स्व-जरसं तस्माद् आददे विगत-स्पृहः ॥**
दिशि दक्षिण-पूर्वस्यां द्रुह्युं दक्षिणतो यदुम् ।
प्रतीच्यां तुर्वसुं चक्र उदीच्याम् अनुम् ईश्वरम् ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१९.२३ ॥
भू-मण्डलस्य सर्वस्य पूरुम् अर्हत्तमं विशाम् ।
अभिषिच्याग्रजांस् तस्य वशे स्थाप्य वनं ययौ ॥**
श्रीधरः : तस्य पूरोर् वंशे स्थापयित्वा ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विशां सर्व-भू-मण्डल-सम्बन्धि-धनानाम् अर्हत्तमम् अतिशयेनार्हतीति तम् ॥२३॥
—ओ)०(ओ—
॥ ९.१९.२४ ॥
आसेवितं वर्ष-पूगान् षड्-वर्गं विषयेषु सः ।
क्षणेन मुमुचे नीडं जात-पक्ष इव द्विजः ॥**
श्रीधरः : विषयेषु शब्दादिष्व् आसेवितं षड्-वर्गं षड्-इन्द्रिय-सुखं मुमुचे तत्याज । यद् वा, विषयेष्व् आसेवितं सेवां कारितं षण्णाम् इन्द्रियाणां वर्गं मुमुचे उपैक्षतेत्य् अर्थः ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : वर्ष-पूगान् अपि व्याप्य विषयेषु आ सम्यक् सेवितम् आसक्तिर् यस्य तयाभावम् अपि षड् इन्द्रिय-वर्गं क्षणेनैव मुमुचे उपैक्षत इन्द्रियाधीनो न बभूवेत्य् अर्थः । नीडं मुमुचे नीडाधीनो यथा न भवतीत्य् अर्थः ॥२४॥
—ओ)०(ओ—
॥ ९.१९.२५ ॥
स तत्र निर्मुक्त-समस्त-सङ्ग आत्मानुभूत्या विधुत-त्रिलिङ्गः ।
परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः ॥**
श्रीधरः : विधुतं निरस्तं त्रि-गुणात्मकं लिङ्गं येन । प्रतीतः प्रख्यातः ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विधूतं त्रिगुणात्मकं लिङ्गं येन सः । भागवतीं भगवद्-धाम्नि प्रेमवत् पार्षदत्वं प्रतीतः ख्यातः ॥२५॥
—ओ)०(ओ—
॥ ९.१९.२६ ॥
श्रुत्वा गाथां देवयानी मेने प्रस्तोभम् आत्मनः ।
स्त्री-पुंसोः स्नेह-वैक्लव्यात् परिहासम् इवेरितम् ॥**
श्रीधरः : प्रस्तोभम् एवाह—परिहासम् इवेति । यद् वा, प्रस्तोभं निवृत्ति-मार्गे प्रोत्साहनं मेने ॥२६॥
क्रम-सन्दर्भः : श्रुत्वेति । तैः तत्र प्रथम-पक्षे परिहासम् इवेरितम् अप्य् आत्मनः प्रस्तोभम् उपालम्भम् एव मेने । तत्र हेतुः—स्त्री-पुंसयोर् यत् स्नेहस् तत्र यद् वैक्लव्यं ग्लानिस् तद्-भावनयेत्य् अर्थः । द्वितीयं पक्षेऽप्य् एवम् एव इति ॥२६॥
विश्वनाथः : गाथां छागेतिहासम् आत्मनः स्वस्य प्रस्तोभम् उपालम्भनम् एव वस्तुतो मेने स्नेह-वैक्लव्याद् एव हेतोः स्त्री-पुंसोः परिहास-तुल्यम् उक्तम् तेन । हे देवयानि ! मया यत् त्वं कृपया पानीय-कूपाद् उद्धृताभूः । तत् परिशोधनं त्वया सम्यक् कृतं यद् अहम् एतावन्तं कालं विषय-महान्ध-कूपे1 निपतित इति मति-पतिर् ययातिर् याम् अवोचद् इति देवयानी जानाति स्मेति ॥२६॥
—ओ)०(ओ—
॥ ९.१९.२७-२८ ॥
सा सन्निवासं सुहृदां प्रपायाम् इव गच्छताम् ।
विज्ञायेश्वर-तन्त्राणां माया-विरचितं प्रभोः ॥**
सर्वत्र सङ्गम् उत्सृज्य स्वप्नौपम्येन भार्गवी ।
कृष्णे मनः समावेश्य व्यधुनोल् लिङ्गम् आत्मनः ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्रभोर् हरेः ॥२८॥
—ओ)०(ओ—
॥ ९.१९.२९ ॥
नमस् तुभ्यं भगवते वासुदेवाय वेधसे ।
सर्व-भूताधिवासाय शान्ताय बृहते नमः ॥**
श्रीधरः : कथं समावेश्य ? तद् आह—नम इति । नमनादिभिः समावेश्येत्य् अर्थः । शुको वा नमस्करोति ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : केन साधनेन कृष्णे मन आवेशितम् इति चेन् नमस्कार-ध्यान-कीर्तनादिभिर् इत्य् आह—नम इति । अत्र यदा अम्बरीषः सप्त-द्वीपाधिपतिश् चक्रवर्ती बभूव, तदैव ययातिस् तन्-मण्डलाध्यक्षः प्रायो भारत्वर्ष-भूपतिर्2 इत्य् अवसीयते । ब्रह्म मरीचि-कश्यप-विवस्वत्-श्राद्धदेव-नभग-नाभागाम्बरीषास् तथा ब्रह्मात्रि-चन्द्र-बुध-पुरूरव-आयु-नहुष-ययातय इति ब्रह्माणस् तयोर् अष्टम-पुरुषत्वात् । अत एवाम्बरीष-सङ्ग-प्रभावाद् एव तादृश-विषय-लम्पटस्यापि ययातेस् तादृशी भक्तिर् ययातेश् च सङ्गाद् देवयान्याश् च ।
किं च, एवम् एव सूर्य-वंश-चन्द्र-वंशयोर् युगपत् प्रवृत्तयोर् यदा सूर्य-वंश्यः सप्त-द्वीपाधिपतिश् चक्रवर्ती स्यात्, तदा चन्द्रवंश्यस् तन्-मण्डलाध्यक्षो राजा, यदा चन्द्रवंश्यश् चक्रवर्ती, तदा सूर्य-वंश्यो राजेत्य् उभय-वंश्यानां व्यवस्थया चक्रवर्तीत्य्व-राजत्वे ज्ञेये ॥२९॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकोनविंशो नवमे सङ्गतः सङ्गतः सताम् ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये > पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे > यायातं नाम > एकोनविंशोऽध्यायः ।
॥ ९.१९ ॥
(९.२०)