१८ ययात्य्-उपाख्यानम्

॥ ९.१८.१ ॥

श्री-शुक उवाच—

यतिर् ययातिः संयातिर् आयतिर् वियतिः कृतिः ।

षड् इमे नहुषस्यासन्न् इन्द्रियाणीव देहिनः ॥

श्रीधरः :

अष्टादशे ययातेस् तु नःउषस्य कथोच्यते ।

यस्य पञ्चसु पुत्रेषु कनीयान् अग्रहीज् जराम् ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

अष्टादशे देवयानी शर्मिष्ठा कलहादिकाः ।

यथा यत्र जराम् पुरुर् ययातेर् अग्रहीत् पितुः ॥१॥

—ओ)०(ओ—

॥ ९.१८.२ ॥

राज्यं नैच्छद् यतिः पित्रा दत्तं तत्-परिणामवित् ।

यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ॥

श्रीधरः : तस्य राज्यस्य परिणामम् अनर्थावहत्वं वेत्तीति तथा । तत्र हेतुः—यत्रेति ॥२॥

क्रम-सन्दर्भः , विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.३ ॥

पितरि भ्रंशिते स्थानाद् इन्द्राण्या धर्षणाद् द्विजैः ।

प्रापितेऽजगरत्वं वै ययातिर् अभवन् नृपः ॥

श्रीधरः, विश्वनाथः : स्थानात् स्वर्गात् । द्विजैर् अगस्त्यादिभिः ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.४ ॥

चतसृष्व् आदिशद् दिक्षु भ्रातॄन् भ्राता यवीयसः ।

कृत-दारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ॥

श्रीधरः : यवीयसो भ्रातॄन् आदिशत् । काव्यस्य शुक्रस्य वृषपर्वणश् च कन्याभ्यां कृतदारः सन् ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : काव्यस्य शुक्रस्य कन्यया वृषपर्वणश् कन्यया कृत-दारः ॥४॥

—ओ)०(ओ—

॥ ९.१८.५ ॥

श्री-राजोवाच—

ब्रह्मर्षिर् भगवान् काव्यः क्षत्र-बन्धुश् च नाहुषः ।

राजन्य-विप्रयोः कस्माद् विवाहः प्रतिलोमकः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ब्राह्मण-कन्याग्रहण-श्रवणात् ययातिः क्षत्र-बन्धु-पदेन निर्दिष्टो राज्ञा अज्ञात-चरत्वेनैवेति ज्ञेयम् ॥५॥

—ओ)०(ओ—

॥ ९.१८.६ ॥

श्री-शुक उवाच—

एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका ।

सखी-सहस्र-संयुक्ता गुरु-पुत्र्या च भामिनी ॥

श्रीधरः : नात्र प्रतिलोमता-दोष ईश्वर-घटनाद् इति दर्शयन् कथाम् आह—एकदेत्य्-आदिना प्रतिजग्राह तद् वच इत्य् अन्तेन । गुरोः शुक्रस्य पुत्र्या देवयान्या च व्यचरद् इति द्वयोर् अन्वयः ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : दानवेन्द्रस्य वृषपर्वणः । कल-गीतालयो येषु तथा-विधानि नलिनी पुलिनानि यस्मिंस् तत्र ॥६॥

—ओ)०(ओ—

॥ ९.१८.७ ॥

देवयान्या पुरोद्याने पुष्पित-द्रुम-सङ्कुले ।

व्यचरत् कल-गीतालि-नलिनी-पुलिनेऽबला ॥

श्रीधरः : कल-गीता अलयो येषु तानि नलिनी-पुलिनानि यस्मिंस् तस्मिन् पुरोद्याने । अबला शर्मिष्ठा ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.८ ॥

ता जलाशयम् आसाद्य कन्याः कमल-लोचनाः ।

तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर् मिथः ॥

श्रीधरः, विश्वनाथः : सिञ्चतीः सिञ्चन्त्यः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.९ ॥

वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृष-स्थितम् ।

सहसोत्तीर्य वासांसि पर्यधुर् व्रीडिताः स्त्रियः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.१० ॥

शर्मिष्ठाजानती वासो गुरु-पुत्र्याः समव्ययत् ।

स्वीयं मत्वा प्रकुपिता देवयानीदम् अब्रवीत् ॥

श्रीधरः, विश्वनाथः : अजानती स्वीयं मत्वा गुरु-पुत्र्या वासः समव्ययत् पर्यधात् ।

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.११ ॥

अहो निरीक्ष्यताम् अस्या दास्याः कर्म ह्य् असाम्प्रतम् ।

अस्मद्-धार्यं धृतवती शुनीव हविर् अध्वरे ॥

श्रीधरः : असांप्रतम् अन्याय्यम् ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : असांप्रतम् अनुचितम् । ब्राह्मणैर् धार्यं हरिः शुनीव ॥११॥

—ओ)०(ओ—

॥ ९.१८.१२ ॥

यैर् इदं तपसा सृष्टं मुखं पुंसः परस्य ये ।

धार्यते यैर् इह ज्योतिः शिवः पन्थाः प्रदर्शितः ॥

श्रीधरः : अन्यायम् एव ब्राह्मणोत्कर्ष-वर्णनेन व्यनक्ति—यैर् इति त्रिभिः । ये ब्राह्मणाः परस्य पुंसो मुखम्, मुखाद् उत्पन्नत्वेन तृप्ति-द्वारत्वेन श्रेष्ठा इत्य् अर्थः । ज्योतिर् ब्रह्म । पन्था वेद-मार्गः ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अनौचित्यम् एवाह त्रिभिः । यैर् दक्षादिभिः । ज्योतिर् ब्रह्म । तद् एवं ब्राह्मण-मात्रम् एव तावत् पूज्यं तत्रापि, वयं भृगवः, तत्राप्य् अस्याः पिता नः शिष्यः ॥१२॥

—ओ)०(ओ—

॥ ९.१८.१३ ॥

यान् वन्दन्त्य् उपतिष्ठन्ते लोक-नाथाः सुरेश्वराः ।

भगवान् अपि विश्वात्मा पावनः श्री-निकेतनः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.१४ ॥

वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः ।

अस्मद्-धार्यं धृतवती शूद्रो वेदम् इवासती ॥

श्रीधरः : तद् एवं ब्राह्मण-मात्रम् एव तावत् पूज्यं तत्रापि भृगवः । अस्याश् च पिता नः शिष्यः । एवं सत्य् अप्य् अस्माभिर् धार्यं वास इयम् असती धृतवती ॥१४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.१५ ॥

एवं क्षिपन्तीं शर्मिष्ठा गुरु-पुत्रीम् अभाषत ।

रुषा श्वसन्त्य् उरङ्गीव धर्षिता दष्ट-दच्छदा ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.१६ ॥

आत्म-वृत्तम् अविज्ञाय कत्थसे बहु भिक्षुकि ।

किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : बलिभुजः काकाः ॥१६॥

—ओ)०(ओ—

॥ ९.१८.१७-१९ ॥

एवं-विधैः सुपरुषैः क्षिप्त्वाचार्य-सुतां सतीम् ।

शर्मिष्ठा प्राक्षिपत् कूपे वासश् चादाय मन्युना ॥

तस्यां गतायां स्व-गृहं ययातिर् मृगयां चरन् ।

प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥

दत्त्वा स्वम् उत्तरं वासस् तस्यै राजा विवाससे ।

गृहीत्वा पाणिना पाणिम् उज्जहार दया-परः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.२०-२१ ॥

तं वीरम् आहौशनसी प्रेम-निर्भरया गिरा ।

राजंस् त्वया गृहीतो मे पाणिः पर-पुरञ्जय ॥

हस्त-ग्राहोऽपरो मा भूद् गृहीतायास् त्वया हि मे ।

एष ईश-कृतो वीर सम्बन्धो नौ न पौरुषः ।

यद् इदं कूप-मग्नाया भवतो दर्शनं मम ॥

श्रीधरः : निषिद्धोऽयं प्रतिलोम-संबन्ध इति चेत् तत्राह—एष इति ॥२१॥

क्रम-सन्दर्भः : एष ईश-कृत इति तद्-वाक्य-द्वा[रा]{।मर्क्} श्री-शुक-देवेन सिद्धान्तितम् ॥२१॥

विश्वनाथः : किं जातिस् त्वम् इत्य् उक्त्वा सा राजन्न् औशनसी भवामीति प्रोवाचेति ज्ञेयम् ॥२१॥

—ओ)०(ओ—

॥ ९.१८.२२ ॥

न ब्राह्मणो मे भविता हस्त-ग्राहो महा-भुज ।

कचस्य बार्हस्पत्यस्य शापाद् यम् अशपं पुरा ॥

श्रीधरः : ब्राह्मणम् एव त्वं वृणीहि किम् अनेनाग्रहेणेति चेत् तत्राह—न ब्राह्मण इति । बृहस्पतेः सुतः कचः शुक्रान् मृत-सञ्जीवनीं विद्याम् अध्यगात्, तदा च देवयानी तं पतिं चकमे, स च गुरु-पुत्री मम पूज्येति न ताम् उदवहत्, ततश् च कुपिता सती तवेयं विद्या निष्फला भवत्व् इति तं शशाप, स च तव ब्राह्मणः पतिर् न भवेद् इति तां शशाप । तद् एतद् आह—यम् अहम् अशपं तस्य शापात् ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यम् अशपं पुरेति बृहस्पतेः पुत्रः कचः शुक्रान् मृत-सञ्जीवनीः विद्याम् अध्यगात् । तदा च देवयानी तं पतिं चकमे, स च गुरु-पुत्री मम पूज्येति, न ताम् उदवहत्, ततश् च कुपिता सती तवेयं विद्या निष्फला भवत्व् इति तं शशापेति ॥२२॥

—ओ)०(ओ—

॥ ९.१८.२३ ॥

ययातिर् अनभिप्रेतं दैवोपहृतम् आत्मनः ।

मनस् तु तद्-गतं बुद्ध्वा प्रतिजग्राह तद्-वचः ॥

श्रीधरः : अशास्त्रीयत्वाद् अनभिप्रेतम् अपि दैवेनोपहृतं प्रापितं बुद्ध्वा तद् गतं तस्यां स-कामं स्वं मनश् च बुद्ध्वा न ह्य् अधर्मे मदीयं मनः प्रविशेद् इति तस्य वचः प्रतिजग्राहाङ्गी-कृतवान् ॥२३॥

क्रम-सन्दर्भः : तत्राशङ्कते—नन्व् ईश्वर-घटना सर्वत्रैवेति तस्यां सिद्धान्तितायां न कस्यापि पापं स्यात् ? कच-शापश् च नाधर्म-निवारणे कारणम्, विरोधाभावात्, प्रत्युतानर्थ-बीजस्य तस्य तत्र साहाय्यावगमात् । ततो नाऽधर्मो वा कथं जातः? कथं वा, तस्य तत्र प्रवृत्तिर् अभूत्? इत्य् आशङ्क्य तादृशानाम् ईश्वराश्रय-धर्माणाम् अत एव तत्र विशेषावबोधकम् इत्य् अभिप्रेत्य, तद् एव दर्शयति—ययातिर् इति ।

दैवम् ईश्वरः तस्यायम् अभिप्रायः—मम ययातेस् तावद् दृष्ट-फले कर्मणि कर्तव्य-बुद्धिर् न जायेत । तद्-एकाश्रयस्य मम चेश्वरोऽपि न तद् घटयेत् । मनश् च न तत्र प्रवेशयेद् इत्य् औत्पत्तिकाऽनुभवेन मुहुर् निर्णीतवान् अस्मि । तथापि यद् एवं तत्-तद्-आपतितम्, तत् तु, न कर्म बन्धनं जन्म वैष्णवानां च विद्यते इति पाद्म-कार्तिक-माहात्म्य-वचनवद् ईश्वरस्यैव स्वैर-लीलानुसारिणी कापीयम् इच्छा गुणायैव कल्पते । तद्-अतिक्रमस् तु दोषाय—

जानामि धर्मं न च मे प्रवृत्तिर्

जानाम्य् अधर्मं न च मे निवृत्तिः ।

केनापि देवेन हृदि-स्थितेन

यथा नियुक्तोऽस्मि तथा करोमि ॥

इति गौतमीय-वचनवत् मद्-विधस्य निष्ठितत्वात् ततो नान्येषाम् इव तत्र तस्य दोष इति भावः ॥२३॥

विश्वनाथः : ब्राह्मण-कन्या-परिणयस्याधर्म-साधनत्वाद् अनभिप्रेतं दैवेन परमेश्वरेणैव आत्मने उपहृतम् इत्य् अत्र हेतुं तद्-गतं स्व-मनश् च बुद्ध्वा बाल्यम् आरभ्य मदीयं मनः क्वचिद् अपि नाधर्मेहरमत नापि मत्-प्रभुस् तच्-चरणैक-शरणस्य मम मनो ह्य् अधर्मे रमयेद् इति धर्मस्य सूक्ष्मा गतिर् इत्य् अतो नायम् अधर्मो भविष्यतीति निश्चित्य तस्या वचः प्रतिजग्राह ॥२३॥

—ओ)०(ओ—

॥ ९.१८.२४ ॥

गते राजनि सा धीरे तत्र स्म रुदती पितुः ।

न्यवेदयत् ततः सर्वम् उक्तं शर्मिष्ठया कृतम् ॥

श्रीधरः : शर्मिष्ठा-संबन्धोऽपि दैव-वशाद् एवाभवद् इति दर्शयन्न् आह—गते राजनीति नवभिः उक्तं भिक्षुकीत्य्-आदि । कृतं कूपे प्रक्षेपादि ॥२४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.२५ ॥

दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् ।

स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥

श्रीधरः : कापोतीम् उञ्छ-वृत्तिम् ॥२५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.२६ ॥

वृषपर्वा तम् आज्ञाय प्रत्यनीक-विवक्षितम् ।

गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥

श्रीधरः : प्रत्यनीका देवास् ते विवक्षिता जयं प्रापणीया इत्य् अभिप्रेतं यस्य तथा-भूतं ज्ञात्वा । प्रत्यनीकानाम् विवक्षितम् इति वा ॥२६॥

क्रम-सन्दर्भः : प्रत्यनीकं प्रतिकूलं शाप-मयं विवक्षितं यस्य, तादृशम् ज्ञात्वा1 ॥२६॥

विश्वनाथः : प्रत्यनीकेषु देवेषु विवक्षितम् असुरान् परित्यज्य युष्मान् एव जयं प्रापयामीत्य्-आदिकं वक्तुम् इष्टं यस्य तथा-भूतं तम् आज्ञाय ॥२६॥

—ओ)०(ओ—

॥ ९.१८.२७ ॥

क्षणार्ध-मन्युर् भगवान् शिष्यं व्याचष्ट भार्गवः ।

कामोऽस्याः क्रियतां राजन् नैनां त्यक्तुम् इहोत्सहे ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.२८ ॥

तथेत्य् अवस्थिते प्राह देवयानी मनोगतम् ।

पित्रा दत्ता यतो यास्ये सानुगा यातु माम् अनु ॥

श्रीधरः : सानुगा सखी-सहिता शर्मिष्ठा माम् अनु यात्व् इति ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तथेति देवयान्याः पादयोः पतित्वा वृष-पर्वण्य् अवस्थिते सति । मनो-गतम् एव प्राह प्रकटम् उवाच । सानुगा सखी-सहिता शर्मिष्ठा माम् अनुयात्व् इति ॥२८॥

—ओ)०(ओ—

॥ ९.१८.२९ ॥

पित्रा दत्ता देवयान्यै शर्मिष्ठा सानुगा तदा ।

स्वानां तत् सङ्कटं वीक्ष्य तद्-अर्थस्य च गौरवम् ।

देवयानीं पर्यचरत् स्त्री-सहस्रेण दासवत् ॥

श्रीधरः : तत् तस्मान् निर्गताच् छुक्रात् सङ्कटं वीक्ष्य । तत् तस्माद् अवस्थिताद् अर्थस्य प्रयोजनस्य गौरवं च वीक्ष्य ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तत् ततः शुक्रात् कुपितात् स्थानाम् असुराणां सङ्कटं वीक्ष्य, तथैव, तत् ततः प्रसन्नात् अर्थस्य स्व-प्रयोजनस्य गौरवं च वीक्ष्य दासवद् दास इव वृषपर्वा पर्याचरत् ॥२९॥

—ओ)०(ओ—

॥ ९.१८.३० ॥

नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना ।

तम् आह राजन् छर्मिष्ठाम् आधास् तल्पे न कर्हिचित् ॥

श्रीधरः : तल्पे नाधाः । नोपगच्छेर् इत्य् अर्थः ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कर्हिचिद् अपि तल्पे न अधाः न धेहि न धास्यसीत्य् अर्थः ॥३०॥

—ओ)०(ओ—

॥ ९.१८.३१ ॥

विलोक्यौशनसीं राजञ् छर्मिष्ठा सुप्रजां क्वचित् ।

तम् एव वव्रे रहसि सख्याः पतिम् ऋतौ सती ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.३२ ॥

राज-पुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् ।

स्मरन् छुक्र-वचः काले दिष्टम् एवाभ्यपद्यत ॥

श्रीधरः : अपत्यार्थम् ऋतु-काले प्रार्थनात् तस्याः काम-पूरणं धर्मम् अवेक्ष्य शुक्रस्य वचश् च स्मरन् दिष्टं दैव-प्रापितम् एव, तत्-सङ्गम् अभ्यपद्यत, न तु कामत इत्य् अर्थः ॥३२॥

क्रम-सन्दर्भः : दिष्टम् ईश्वरेणादिष्टं प्रेरितम् एवाभ्यपद्यत विचारितवान् ॥३२॥

विश्वनाथः : धर्मवद् इति अपत्यथार्थम् ऋतु-काले प्रार्थयमानायास् तस्याः काम-पूरणं धर्म एवेति जानन् शुक्र-वचश् च शर्मिष्ठासङ्ग-प्रतिषेधकं स्मरन् दोलायमान-चित्तोऽपि दिष्टं दैव-प्रापितं सङ्गम् एव प्राप ॥३२॥

—ओ)०(ओ—

॥ ९.१८.३३ ॥

यदुं च तुर्वसुं चैव देवयानी व्यजायत ।

द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : व्यजायत व्यजानयत् ॥३३॥

—ओ)०(ओ—

॥ ९.१८.३४ ॥

गर्भ-सम्भवम् आसुर्या भर्तुर् विज्ञाय मानिनी ।

देवयानी पितुर् गेहं ययौ क्रोध-विमूर्छिता ॥

श्रीधरः : आसुर्याः शर्मिष्ठायाः । भर्तुः सकाशात् ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भर्तुः सकाशाद् गर्भ-सम्भवम् आज्ञायेति पूर्व-पूर्वम् अन्यास्माद् ब्राह्मणादिकाद् एव जानत्य् आसीद् इति भावः ॥३४॥

—ओ)०(ओ—

॥ ९.१८.३५ ॥

प्रियाम् अनुगतः कामी वचोभिर् उपमन्त्रयन् ।

न प्रसादयितुं शेके पाद-संवाहनादिभिः ॥

श्रीधरः : उपमन्त्रयन् प्रसादयन् ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : उपमन्त्रयन् सान्त्वयन् ॥३५॥

—ओ)०(ओ—

॥ ९.१८.३६ ॥

शुक्रस् तम् आह कुपितः स्त्री-कामानृत-पूरुष ।

त्वां जरा विशतां मन्द विरूप-करणी नृणाम् ॥

श्रीधरः : विकृतं रूपं करोतीति तथा ॥३६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.३७ ॥

श्री-ययातिर् उवाच—

अतृप्तोऽस्म्य् अद्य कामानां ब्रह्मन् दुहितरि स्म ते ।

व्यत्यस्यतां यथा-कामं वयसा योऽभिधास्यति ॥

श्रीधरः : ते दुहितरि कामैर् अद्याप्य् अतृप्तोऽस्मि, कामानां भोगैर् इति वा । शुक्र आह—तर्हि योऽभिधास्यत्य् अभितो धारयिष्यति तस्य वयसा यथा-कामं व्यत्यस्यतां यथेच्छं जरा व्यत्ययं यातु । व्यत्ययं नीयताम् इति वा । यद् वा, व्यत्यस्येति छेदः । तां जरां व्यत्यस्य व्यत्यासं गमयेत्य् अर्थः ॥३७॥

क्रम-सन्दर्भः : कामानाम् इति तृप्त्य्-अर्थानां करणे षष्ठी चेति वार्तिकात् ॥३७॥

विश्वनाथः : कामानाम् इति । नाग्निस् तृप्यति काष्ठानाम् इतिवत् षष्ठी ते दुहितरीति भङ्ग्या त्वं शापोऽयं तव दुहितर्य् अपि फलित इति व्यञ्जितम् । शुक्रोऽपि विमृश्य प्रसीदन्न् उवाच—यथेष्टं जरा वयसा यौवनेन व्यत्यस्यतां विनिमीयताम् ।

ननु जरां गृहीत्वा विनिमयेन यौवनं कः खलु दास्यति ? तत्राह—योऽभिधास्यति यः पुत्रादिकः त्वयि स्नेहेन अभितो धास्यति जरां स धारयिष्यति । यद् वा, त्वम् एवं विनिमयं सर्वान् ज्ञापय तेषु मध्ये योऽभिधास्यति यौवनं दत्त्वा जराम् एषोऽहं गृह्णामीति वदिष्यतीत्य् अर्थः ॥३७॥

—ओ)०(ओ—

॥ ९.१८.३८ ॥

इति लब्ध-व्यवस्थानः पुत्रं ज्येष्ठम् अवोचत ।

यदो तात प्रतीच्छेमां जरां देहि निजं वयः ॥

श्रीधरः : इति लब्धं व्यवस्थानं जराया व्यवस्थितिर् येन सः ॥३८॥

क्रम-सन्दर्भः : इतीति युग्मकम् ॥३८॥

**विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.३९ ॥

मातामह-कृतां वत्स न तृप्तो विषयेष्व् अहम् ।

वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.४० ॥

श्री-यदुर् उवाच—

नोत्सहे जरसा स्थातुम् अन्तरा प्राप्तया तव ।

अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अन्तरा यौवन-मध्ये एव । कुतः अविदित्वेत्य्-आदि । अयम् अस्याशयो मम विधित्सित-भगवद्-भक्त्य्-अनुकूलं विषय-वैतृष्ण्यम् अपेक्षितं वर्तते, तच् च भोग-बाहुल्यं विना प्रायो न भवेत् । अत्र यद्यपि काल-विलम्बे सति त्वं स्वीयां जरां गृहीत्वा मद्-यौवनं दास्यसीति जानामि । तद् अपि निरन्तराय हरि-भजनस्यौत्कण्ठस्य मम काल-विलम्बस्यासह्यत्वात् पितुर् अपि तवेमाम् आज्ञां पालयाम्य् अत्र यद् भवेत्, तद् भवत्व् इति । अत एव यदोश् च धर्म-शीलस्येति राज्ञा दशमे वक्ष्यते परम-धर्मापेक्षयापि तु राज्ञा पालन-लक्षण-धर्मस्य प्राकृतस्य सनकादिभिर् इव तेन त्यागाद्, यत एव सन्तुष्यंस् तद्-वंशे भगवान् स्वयम् अवततार । यदोः प्रियस्यान्ववाय [भा।पु। १.८.३२] इति कुन्ती-स्तुतिश् च । या तूत्तर-श्लोकेऽधर्मज्ञा इति शुकोक्तिः । सा तु तुर्वस्वादीन् प्रत्येवेति ॥४०॥

—ओ)०(ओ—

॥ ९.१८.४१ ॥

तुर्वसुश् चोदितः पित्रा द्रुह्युश् चानुश् च भारत ।

प्रत्याचख्युर् अधर्मज्ञा ह्य् अनित्ये नित्य-बुद्धयः ॥

श्रीधरः : यतो न धर्म-ज्ञाः अनित्ये च यौवने नित्य-बुद्धयः ॥४१॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.४२ ॥

अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् ।

न त्वम् अग्रजवद् वत्स मां प्रत्याख्यातुम् अर्हसि ॥

श्रीधरः : त्वं जरां किं ग्रहीष्यसीत्य् अपृच्छत् । प्रत्याख्यानं मा कृथा इत्य् आह—न त्वम् इति ॥४२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.४३ ॥

श्री-पूरुर् उवाच—

को नु लोके मनुष्येन्द्र पितुर् आत्म-कृतः पुमान् ।

प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् ॥

श्रीधरः : आत्म-कृतः स्व-देह-कर्तुः प्रत्य् उपकारं कर्तुं को नु क्षमः ॥४३॥

क्रम-सन्दर्भः : यस्य प्रसादात् प्रसादेन प्राप्तात् मनुष्य-देहात् परं परमेश्वरम् अपि विन्दते लभते । [इतिहास-समुच्चय-वर्णित-] पुण्डरीकवद् यस्य प्रसादाद् एव वा ॥४३॥

विश्वनाथः : आत्म-कृतोः देहोत्पादयितुः परं स्वर्गादिम् ॥४३॥

—ओ)०(ओ—

॥ ९.१८.४४ ॥

उत्तमश् चिन्तितं कुर्यात् प्रोक्त-कारी तु मध्यमः ।

अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितं पितुः ॥

श्रीधरः : तथापि पितुर् यच् चिन्तितं कुर्यात् स उत्तमः । यस् तु प्रोक्त-कारी स मध्यमः । यस् त्व् अश्रद्धया कुर्यात् सोऽधमः । अकर्ता पितुर् उच्चरितं पुरीष-प्रायः ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तद् अपि तवाज्ञां पालयन्न् अप्य् अहम् उत्तम-पुत्रो न किन्तु मध्यम् एवेत्य् आह—उत्तम इति । उच्चारितं मूत्र-मल-सदृश इति ॥४४॥

—ओ)०(ओ—

॥ ९.१८.४५ ॥

इति प्रमुदितः पूरुः प्रत्यगृह्णाज् जरां पितुः ।

सोऽपि तद्-वयसा कामान् यथावज् जुजुषे नृप ॥

श्रीधरः : जुजुषे सेवितवान् ॥४५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.४६ ॥

सप्त-द्वीप-पतिः संयक् पितृवत् पालयन् प्रजाः ।

यथोपजोषं विषयाञ् जुजुषेऽव्याहतेन्द्रियः ॥

श्रीधरः : यथोपजोषं यथा-प्रीति जुजुषे ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सप्त-द्वीप-पतिः भारतवर्ष-वर्तिनो ये नव द्वीपास् तेषाम् आदिमान्तिमौ द्वीपौ विना ये सप्त-सङ्ख्या द्वीपास् तेषां पतिर् इत्य् एव व्याख्येयम् अग्रिम-ग्रन्थ-व्याख्यानुरोधात् । यथोपजोषं यथा-प्रीति ॥४६॥

—ओ)०(ओ—

॥ ९.१८.४७ ॥

देवयान्य् अप्य् अनुदिनं मनो-वाग्-देह-वस्तुभिः ।

प्रेयसः परमां प्रीतिम् उवाह प्रेयसी रहः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१८.४८ ॥

अयजद् यज्ञ-पुरुषं क्रतुभिर् भूरि-दक्षिणैः ।

सर्व-देवमयं देवं सर्व-वेदमयं हरिम् ॥

**श्रीधरः, विश्वनाथः :**न व्याख्यातम्।

क्रम-सन्दर्भः : अयजद् इति । सर्वे वेदाः सर्वे देवाश् च स्व-स्व-कारणे शक्ति-रूपेण प्रचुरतया यत्र, तम् इत्य् अर्थः ॥४८॥

—ओ)०(ओ—

॥ ९.१८.४९ ॥

यस्मिन्न् इदं विरचितं व्योम्नीव जलदावलिः ।

नानेव भाति नाभाति स्वप्न-माया-मनोरथः ॥

श्रीधरः : नानेव भाति यावद् इन्द्रिय-प्रवृत्तिः । तद् उपरमे नाभाति । स्वप्नम् आयाभ्यां सहितो मनो-रथ इवेत्य् अर्थः ॥४९॥

क्रम-सन्दर्भः : इदं जगत् यस्मिन्न् एव सर्वाश्रये विरचितं, येनैव सृष्टं स्थितौ नानेव भाति, न तु नानैव कारण-रूपेणैक्यात्, प्रलये तु तत्रैव कारण-रूपेण प्रविष्टत्वात् । नाभाति बहिर् न व्यक्तं भवति । यथा जगत् तथैव स्वप्नो माया-मनोरथश् चेत्य् अर्थः, सर्वस्यैव तद्-आश्रयत्वात् । तत्र सर्वोऽपि द्वन्द्वो विभाषयैकवद् भवतीत्य् एक-वचनं समाहारत्वेनाविवक्षितत्वात् न क्लीबत्वं च, ऊकालोऽज्-झ्रस्व-दीर्घ-प्लुतः [पा। १.२.२७] इतिवत् ॥४९॥

विश्वनाथः : यस्मिन्न् अधिष्ठाने इदं जगन् नानेव कारण-रूपेण तेनैवैक्यात् न तु वस्तुतो नानेत्य् अर्थः । अत एव प्रलये तत्र प्रविष्टत्वान् नाभाति, न बहिर् व्यक्तीभवति स्वप्न-माया-मनोरथ इत्य् अस्थैर्ये दृष्टान्त-त्रयं सर्वो द्वन्द्वो विभाषयकवद् भवतीत्य् एक-वचनम् ॥४९॥

—ओ)०(ओ—

॥ ९.१८.५० ॥

तम् एव हृदि विन्यस्य वासुदेवं गुहाशयम् ।

नारायणम् अणीयांसं निराशीर् अयजत् प्रभुम् ॥

**श्रीधरः :**न व्याख्यातम्।

चैतन्य-मत-मञ्जुषा : तम् एवेत्य्-आदि । नारायणं गुहाशयम् अणीयांसं ब्रह्म च विन्यस्य विशेषेण त्यक्त्वा वासुदेवं प्रभुं श्री-कृष्णं निराशीः सन्न् अयजद् इत्य् अन्वयः ॥५०॥

क्रम-सन्दर्भः : वासुदेवं सर्वावासम् । एवम् अपि गुहाशयं सर्व-ज्ञानागोचरम् । किं च, नारायणं सर्व-जीव-प्रवर्तकं, तथाप्य् अणीयांसं दुर्ज्ञेयम् । तथा-भूतम् अपि भक्त्या हृदि विन्यस्य मनस्य् आविर्भाव्यायजत् । प्रभुस् तादृशोपासनया क्रमात् सामर्थ्यं प्राप्तः । तादृशत्वे हेतुम् आह—निराशीः निष्काम इति ॥५०॥

विश्वनाथः : वासुदेवम् इति सर्वत्रैवासौ वसतीत्य् अतः प्रयासाभावः । यतो गुहायाम् अन्तःकरणे शेते, न चान्य शयान इव यतो नारं जीव-समूहम् अयते जानाति । न च जीव-समूहस् तं जानातीत्य् आह । अणीयांसं दुर्ज्ञेयम् । स च बहिर् विषय-लम्पटोऽपि ययातिर् न मनसा विषय-लम्पट इत्य् आह—निराशीः प्रभुम् इति दास्य-भावाकाङ्क्षी ॥५०॥

—ओ)०(ओ—

॥ ९.१८.५१ ॥

एवं वर्ष-सहस्राणि मनः-षष्ठैर् मनः-सुखम् ।

विदधानोऽपि नातृप्यत् सार्व-भौमः कद्-इन्द्रियैः ॥

श्रीधरः : मनः-सुखं काम-भोगम् । कदिन्द्रियैः कुत्सितैः पराङ् मुखैर् इन्द्रियैः ॥५१॥

क्रम-सन्दर्भः : एवम् अपि झटिति वैराग्योत्पत्तौ प्रतिबन्धम् आह—एवम् इति ।*।*५१॥

**विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

नवमेऽष्टादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे

यायाते अष्टादशोऽध्यायः ।

॥ ९.१८ ॥

(९.१९)


  1. ज्ञात्वा इति भ-पुस्तके नास्ति ↩︎