॥ ९.१७.१-३ ॥
श्री-बादरायणिर् उवाच
यः पुरूरवसः पुत्र आयुस् तस्याभवन् सुताः ।
नहुषः क्षत्रवृद्धश् च रजी राभश् च वीर्यवान् ॥**
अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम् ।
क्षत्रवृद्ध-सुतस्यासन् सुहोत्रस्यात्मजास् त्रयः ॥**
काश्यः कुशो गृत्समद इति गृत्समदाद् अभूत् ।
शुनकः शौनको यस्य बह्वृच-प्रवरो मुनिः ॥**
श्रीधरः :
आयोः सप्तदशे त्व् ऐल-ज्येष्ठ-पुत्रस्य पञ्चसु ।
सुत्र्षु क्षत्र-वृद्धादि-चतुर्णां वंश-वर्णनम् ॥
इह श्री-कृष्णावतार-प्रस्तावाय वंशानुक्रमणम् ऐलादि-क्रमेण प्रक्रान्तम् इति यस्य वंशे कृष्णावतारस् तस्य वंशोऽति-विततत्वाद् अन्ते निरूप्यते । अतः पुरूरवसः पुत्राणां पञ्चानां कनिष्ट्ःअनां वंशानुक्त्वेदानीं प्रथमस्य वंशम् आह—य इति । एवं नहुष-ययाति-यदु-प्रभृतिष्व् अपि द्रष्टव्यम् । क्षत्र-वृधः क्षत्र-वृद्धस्य ॥१-३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
आयोर् ऐल-सुतस्यात्र प्रोक्ताः सप्तदश्रीए सुताः ।
क्षत्र-वृद्धादयः ख्याता अलर्काद्या यद्-अन्वये ॥
क्षत्र-वृधः क्षत्र-वृद्धस्य ॥१॥
—ओ)०(ओ—
॥ ९.१७.४ ॥
काश्यस्य काशिस् तत्-पुत्रो राष्ट्रो दीर्घतमः-पिता ।
धन्वन्तरिर् दीर्घतमस आयुर्-वेद-प्रवर्तकः ॥**
श्रीधरः : दीर्घतमसः पिता ।
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१७.५ ॥
यज्ञ-भुग् वासुदेवांशः स्मृत-मात्रार्ति-नाशनः ।
तत्-पुत्रः केतुमान् अस्य जज्ञे भीमरथस् ततः ॥**
श्रीधरः : स्मृत-मात्र एवार्तिं रोग-दुःस्वं नाशयतीति तथा ।
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१७.६-७ ॥
दिवोदासो द्युमांस् तस्मात् प्रतर्दन इति स्मृतः ।
स एव शत्रुजिद् वत्स ऋतध्वज इतीरितः ।
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस् ततः ॥**
षष्टिं वर्ष-सहस्राणि षष्टिं वर्ष-शतानि च ।
नालर्काद् अपरो राजन् बुभुजे मेदिनीं युवा ॥**
श्रीधरः, विश्वनाथः : ततः प्रतर् दनादि-शब्द-वाच्याद् द्युमतः सकाशाद् अलर्कादयः ।
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१७.८ ॥
अलर्कात् सन्ततिस् तस्मात् सुनीथोऽथ निकेतनः ।
धर्मकेतुः सुतस् तस्मात् सत्यकेतुर् अजायत ॥**
श्रीधरः : अलर्कात् सन्तति-संज्ञः ।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
—ओ)०(ओ—
॥ ९.१७.९ ॥
धृष्टकेतुस् ततस् तस्मात् सुकुमारः क्षितीश्वरः ।
वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिर् अभून् नृप ॥**
श्रीधरः : सत्यकेतोर् धृष्टकेतुस् तस्मात् सुकुमारस् तस्माद् वीतिहोत्रस् तस्य भर्गः । अतो भर्गाद् भार्गभूमिः ।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
—ओ)०(ओ—
॥ ९.१७.१० ॥
इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः ।
राभस्य रभसः पुत्रो गम्भीरश् चाक्रियस् ततः ॥**
श्रीधरः : काशयः काशेर् वंश्याः । काशेः प्रपितामहस्य क्षत्र-वृद्धस्यान्वयम् अयन्ते यान्तीति तथा ।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : काशयः काशेर् वंश्याः । काशेः प्रपितामहस्य क्षत्र-वृद्धस्यान्वयम् अनु प्राप्नुवन्तीति ते तथा ॥१०-१३॥
—ओ)०(ओ—
॥ ९.१७.११ ॥
तद्-गोत्रं ब्रह्मविज्1 जज्ञे शृणु वंशम् अनेनसः ।
शुद्धस् ततः शुचिस् तस्माच् चित्रकृद् धर्मसारथिः ॥
श्रीधरः : ततोऽनेनसः शुद्धो जज्ञे ।
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१७.१२ ॥
ततः शान्तरजो जज्ञे कृत-कृत्यः स आत्मवान् ।
रजेः पञ्च-शतान्य् आसन् पुत्राणाम् अमितौजसाम् ॥**
श्रीधरः : कृत-कृत्यः सः । यत आत्मवान् ज्ञानी । अतः पुत्रोत्पादनं न कृतवान् इत्य् अर्थः ।
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१७.१३ ॥
देवैर् अभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद् दिवम् ।
इन्द्रस् तस्मै पुनर् दत्त्वा गृहीत्वा चरणौ रजेः ॥**
न कतमेनापि व्याख्यातम्
—ओ)०(ओ—
॥ ९.१७.१४ ॥
आत्मानम् अर्पयाम् आस प्रह्रादाद्य्-अरि-शङ्कितः ।
पितर्य् उपरते पुत्रा याचमानाय नो ददुः ॥**
विश्वनाथः : +++
—ओ)०(ओ—
॥ ९.१७.१५ ॥
त्रिविष्टपं महेन्द्राय यज्ञ-भागान् समाददुः ।
गुरुणा हूयमानेऽग्नौ बलभित् तनयान् रजेः ॥**
श्रीधरः : तेषां मति-भ्रंशाय गुरुणा बृहस्पतिनाभिचार-विधानेनाग्नौ हूयमाने सति ।
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१७.१६ ॥
अवधीद् भ्रंशितान् मार्गान् न कश्चिद् अवशेषितः ।
कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयस् तत्-सुतो जयः ॥**
श्रीधरः : सिंहावलोकनेनाह—क्षात्र-वृद्धात् क्षत्र-वृद्ध-पौत्रात् कुशात् प्रति । प्रतेः सञ्जयः ॥१६-१८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१७.१७ ॥
ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः ।
सहदेवस् ततो हीनो जयसेनस् तु तत्-सुतः ॥**
न कतमेनापि व्याख्यातम्
—ओ)०(ओ—
॥ ९.१७.१८ ॥
सङ्कृतिस् तस्य च जयः क्षत्र-धर्मा महा-रथः ।
क्षत्रवृद्धान्वया भूपा इमे शृण्व् अथ नाहुषान् ॥**
न कतमेनापि व्याख्यातम्
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
नवमेऽसौ सप्तदशः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां नवम-स्कन्धे > आयु-वंशो नाम > सप्तदशोऽध्यायः ।
॥ ९.१७ ॥
(९.१८)
-
तस्य क्षेत्रे ब्रह्म इति पाथान्तरम् (भाव्नगर्, गीत प्रेस्स्) ↩︎