१६ श्री-परशुराम-चरितम्

॥ ९.१६.१ ॥

श्री-शुक उवाच—

पित्रोपशिक्षितो रामस् तथेति कुरु-नन्दन ।
संवत्सरं तीर्थ-यात्रां चरित्वाश्रमम् आव्रजत् ॥**

श्रीधरः :

षोडशे ऽथार्जुन-सुतैर् जमदग्नौ हते मुहुः

रामात् क्षत्र-वधः प्रोक्तो विश्वामित्रस्य चान्वयः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

जमदग्निर् हतो यैस् तान् रामो\ऽर्जुन-सुतान् अहन् ।

निःक्षत्र-कृत् षोडशे\ऽत्र विश्वामित्र-कथा ततः ॥

—ओ)०(ओ—

॥ ९.१६.२ ॥

कदाचिद् रेणुका याता गङ्गायां पद्म-मालिनम् ।
गन्धर्व-राजं क्रीडन्तम् अप्सरोभिर् अपश्यत ॥**

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

क्रम-सन्दर्भः : कदाचिद् इति कार्तवीर्य-वधात् पूर्वत्रेत्य् अर्थः । रेणुका-वधानन्तरं क्रोधे त्यक्ते च तस्य कामधेनु-हरणम् इति स्कन्दे प्रसिद्धः ॥२॥

—ओ)०(ओ—

॥ ९.१६.३ ॥

विलोकयन्ती क्रीडन्तम् उदकार्थं नदीं गता ।
होम-वेलां न सस्मार किञ्चिच् चित्ररथ-स्पृहा ॥**

श्रीधरः : किञ्चिद्-ईषच्-चित्ररथे गन्धर्व-राजे स्पृहा यस्याः सा । किञ्चिन् न सस्मारेति वा ॥३॥

क्रम-सन्दर्भः : किञ्चित् काचित् कौतुक-मय्य् एव न तु काम-मयी चित्ररथे स्पृहा तस्याः । अत्र ब्रह्माण्ड-पुराणं द्रष्टव्यम् ॥३॥

विश्वनाथः : किञ्चिद् इति न सस्मारेत्य् अस्य विशेषणं होम-वेलायाः किञ्चिन्-मात्रं विस्मरणम् अभूद् इत्य् अर्थः । तत्र हेतुः—चित्र-मये गन्धर्व-राजस्य रथे दर्शन-कौतुकार्थं स्पृहा यस्याः सा ॥३॥

—ओ)०(ओ—

॥ ९.१६.४ ॥

कालात्ययं तं विलोक्य मुनेः शाप-विशङ्किता ।
आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः ॥**

श्रीधरः : कलशं पुरोधायाग्ने निधाय ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : शाप-विशङ्किता हन्त हन्त किञ्चिन्-मात्र-विस्मरणत एव मे होम-वेलापीयती व्यतीतेति भय-विह्वला ॥४॥

—ओ)०(ओ—

॥ ९.१६.५ ॥

व्यभिचारं मुनिर् ज्ञात्वा पत्न्याः प्रकुपितोऽब्रवीत् ।
घ्नतैनां पुत्रकाः पापाम् इत्य् उक्तास् ते न चक्रिरे ॥**

श्रीधरः : व्यभिचारं मानसं ज्ञात्वा ।

क्रम-सन्दर्भः : अतः पति-परिचरण-व्यत्यय एवात्र व्यभिचारो ज्ञेयः ॥५॥

विश्वनाथः : होम-वेलाया प्राग् एव जलम् आनेष्यामीति तस्या वचनस्य व्यभिचारं ज्ञात्वा स्व-नित्य-कर्मासिद्ध्या च प्रकर्षेण कुपितः । हे पुत्रकाः ! एनां घ्नतेत्य् उक्तास् ते पुत्रा न चक्रिरे तस्या हननम् इति शेषः ॥५॥

—ओ)०(ओ—

॥ ९.१६.६ ॥

रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सहावधीत् ।
प्रभाव-ज्ञो मुनेः सम्यक् समाधेस् तपसश् च सः ॥**

श्रीधरः : आज्ञातिलङ्घिनां भ्रातॄणां मातुश् च वधे सञ्चोदितः सन् । मुनेर् यः समाधिस् तपश् च तयोः प्रभाव-ज्ञः । यदि न हन्यां, तर्हि माम् अपि शप्तुं समर्थः । यदि तु हन्यां, तर्हि मयि सन्तुष्टः संस् तान् अपि जीवयितुं समर्थ इति जानन्न् इत्य् अर्थः ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आज्ञा-लङ्घिनां भ्रातॄणां मातुश् च नियुक्तोऽवधीत् । नन्व् एवम् आज्ञा-पालनम् अपि जुगुप्सितम् ? तत्राह—प्रभावज्ञः अस्य वधस्योदर्कः एवं भविष्यतीति सर्वज्ञत्वेन जानन्न् इत्य् अर्थः ॥६॥

—ओ)०(ओ—

॥ ९.१६.७ ॥

वरेण च्छन्दयाम् आस प्रीतः सत्यवती-सुतः ।1

वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥

मध्वः :

जामदग्न्यो वरं वव्रेऽनन्त-शक्तिम् अपि स्वयम् ।

पितुर् मान्यत्व-सिद्ध्य्-अर्थं लोक-लोकेश्वरः प्रभुः ॥

अपापम् अपि देवेशं पितरः सन्न्यवारयन् ।

अजानन्तोऽस्य माहात्म्यं मोहितास् तस्य मायया ।

मोहयन् मायया लोकं चक्रे चापचितिं वधे ।

पुण्य-पापादि-निर्मातुः कुतः पापादि-सङ्गतिः ॥ इति च ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वरेणेति वरं वृण्व् इत्य् उक्तवान् इत्य् अर्थः । वव्रे इति मृता इमे जीवन्तु मत्-कर्तृकं वधं च न स्मरन्त्व् इत्य् अहं वृणे इत्य् उक्तवान् ॥७॥

—ओ)०(ओ—

॥ ९.१६.८ ॥

उत्तस्थुस् ते कुशलिनो निद्रापाय इवाञ्जसा ।
पितुर् विद्वांस् तपो-वीर्यं रामश् चक्रे सुहृद्-वधम् ॥**

श्रीधरः : नन्व् अतिनिन्दितं तत् कथं कृतवान् ? तत्राह—पितुर् विद्वान् इति । पूर्वोक्त एवाभिप्रायः ॥८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१६.९ ॥

येऽर्जुनस्य सुता राजन् स्मरन्तः स्व-पितुर् वधम् ।
राम-वीर्य-पराभूता लेभिरे शर्म न क्वचित् ॥**

श्रीधरः : सर्व-क्षत्रिय-वधे कारणं वक्तुम् आह—ये ऽर्जुनस्य सुता इत्य्-आदिना ॥९।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निरपराधाया पतिव्रता-शिरोमणे रेणुकाया वधम् आदिष्टवतो जमदग्नेर् अपि वध-रूपं तद्-अपराध-फलं दर्शयन्न् आह—येऽऋजुनस्येति ॥९॥

—ओ)०(ओ—

॥ ९.१६.१०-११ ॥

एकदाश्रमतो रामे सभ्रातरि वनं गते ।
वैरं सिषाधयिषवो लब्ध-च्छिद्रा उपागमन् ॥**

दृष्ट्वाग्न्य्-आगार आसीनम् आवेशित-धियं मुनिम् ।
भगवत्य् उत्तमश्लोके जघ्नुस् ते पाप-निश्चयाः ॥**

श्रीधरः : भगवत्य् अवेशिता धीर्येन तम् ॥१०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१६.१२ ॥

याच्यमानाः कृपणया राम-मात्रातिदारुणाः ।
प्रसह्य शिर उत्कृत्य निन्युस् ते क्षत्र-बन्धवः ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : स्व-भर्तुः प्राणान् याच्यमानाः ॥१२॥

—ओ)०(ओ—

॥ ९.१६.१३ ॥

रेणुका दुःख-शोकार्ता निघ्नन्त्य् आत्मानम् आत्मना ।
राम रामेति तातेति विचुक्रोशोच्चकैः सती ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१६.१४ ॥

तद् उपश्रुत्य दूरस्था हा रामेत्य् आर्तवत् स्वनम् ।
त्वरयाश्रमम् आसाद्य ददृशुः पितरं हतम् ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तत् तदा आर्तवत् । अन्यस्या आर्ताया इव तस्या मातुः स्वरम् उपश्रुत्य ददृशे ददर्श ॥१४॥

—ओ)०(ओ—

॥ ९.१६.१५ ॥

ते दुःख-रोषामर्षार्ति-शोक-वेग-विमोहिताः ।
हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्-गतो भवान् ॥**

श्रीधरः : दुःखादीनां वेगेन विमोहितः ॥१५॥

क्रम-सन्दर्भः : ते दुःखेत्य् अर्धकम् । अत्र तद्-दुःखेति पाठः स्वाम्य्-असम्मतः तच्-छब्दस्य समस्तत्वेऽप्य् अनुपादानात् ते सरामा जमदग्नि-पुत्रा इति सम्बन्धोक्तौ च ॥१५॥

विश्वनाथः : ते भ्रातरः विमूर्च्छिता बभूवुः ॥१५॥

—ओ)०(ओ—

॥ ९.१६.१६ ॥

विलप्यैवं पितुर् देहं निधाय भ्रातृषु स्वयम् ।
प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१६.१७ ॥

गत्वा माहिष्मतीं रामो ब्रह्म-घ्न-विहत-श्रियम् ।
तेषां स शीर्षभी राजन् मध्ये चक्रे महा-गिरिम् ॥**

श्रीधरः : ब्रह्म-घ्नैर् विहता श्रीर् यस्यास् ताम् । हे राजन् ! स रामस् तेषां शीर्षभिर् माहिष्मत्या मध्ये महान्तं गिरिं चक्रे ॥१७॥

क्रम-सन्दर्भः : गत्वेत्य् अर्धकम् । घोरां भयानकां स्वतः विशेषतस् त्व् अब्रह्मण्यानां भयावहाम् इत्य् अर्थः ॥१७॥

विश्वनाथः : ब्रह्म-घनिर् हेतुभिर् विहता श्रीर् यस्यास् तां, स रामः महा-गिरिं नदीं च चक्रे ॥१७॥

—ओ)०(ओ—

॥ ९.१६.१८ ॥

तद्-रक्तेन नदीं घोराम् अब्रह्मण्य-भयावहाम् ।
हेतुं कृत्वा पितृ-वधं क्षत्रेऽमङ्गल-कारिणि ॥**

श्रीधरः : तेषां रक्तेनाब्रह्मण्यानां भयावहां घोरां नदीं चक्रे । तथापि सर्व-क्षत्रिय-वधे किं कारणं तद् आह—हेतुं कृत्वेति सार्धेन । अमङ्गल-कारिण्य् अन्यायवर्तिनि सति ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अमङ्गल-कारिणि अन्याय-वर्तिनि सति पितृ-वधम् एव निमित्तीकृत्य त्रिः-सप्त-कृत्व इति रेणुकायास् तावत्-कृत्व एवोरस् ताडनाद् इति भावः ॥१८॥

—ओ)०(ओ—

॥ ९.१६.१९ ॥

त्रिः-सप्त-कृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।
समन्त-पञ्चके चक्रे शोणितोदान् ह्रदान् नव ॥**

श्रीधरः : त्रिः-सप्त-कृत्वो रेणुकया दुःखावेशाद् उरस् ताडनं कृतम्, ततो रामस् तावत् कृत्वः क्षत्रम् उत्सादितवान् इति प्रसिद्धिः ॥१९॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१६.२०-२२ ॥

पितुः कायेन सन्धाय शिर आदाय बर्हिषि ।
सर्व-देव-मयं देवम् आत्मानम् अयजन् मखैः ॥**

ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् ।
अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् ॥**

अन्येभ्योऽवान्तर-दिशः कश्यपाय च मध्यतः ।
आर्यावर्तम् उपद्रष्ट्रे सदस्येभ्यस् ततः परम् ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१६.२३ ॥

ततश् चावभृथ-स्नान-विधूताशेष-किल्बिषः ।2

सरस्वत्यां महा-नद्यां रेजे व्यब्भ्र इवांशुमान् ॥

मध्वः : १६श-साङ्ख्यक-श्लोकस्य टीका द्रष्टव्या।

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अवभृथ-स्नानेन विधूतम् अशेषं किल्बिषं यस्मात् सः । इति सरस्वत्या एव निरघत्वं गङ्गाया इव जातम् इति भावः ॥२३॥

—ओ)०(ओ—

॥ ९.१६.२४ ॥

स्व-देहं जमदग्निस् तु लब्ध्वा संज्ञान-लक्षणम् ।
ऋषीणां मण्डले सोऽभूत् सप्तमो राम-पूजितः ॥**

श्रीधरः : संज्ञानं स्मृतिस् तद् एव लक्षणं चिह्नं यस्य, तं स्व-देहं लब्ध्वा स ऋषीणां मण्डले सप्तम ऋषिर् अभूत् ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : संज्ञानं स्मृतिस् तद् एव लक्षणं यस्य, तादृशं देहं लब्ध्वा ऋषीणां मण्डले—

कश्यपोऽत्रिर् वसिष्ठश् च विश्वामित्रोऽथ गौतमः ।

जमदग्निर् भरद्वाज इति सप्तर्षयः स्मृताः ॥ [भा।पु। ८.१३.५] इति


तत्र जमदग्निर् एव सप्तम ऋषिर् अभूत् ॥२४॥

—ओ)०(ओ—

॥ ९.१६.२५ ॥

जामदग्न्योऽपि भगवान् रामः कमल-लोचनः ।
आगामिन्य् अन्तरे राजन् वर्तयिष्यति वै बृहत् ॥**

श्रीधरः : बृहद् ब्रह्म वेदम् । वेद-प्रवर्तकेषु सप्तार्षिष्व् एकतमो भविष्यतीत्य् अर्थः ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : बृहद् ब्रह्म वेद-प्रवर्तकेषु सप्तार्षिष्व् एकतमो भविष्यतीत्य् अर्थः ॥२५॥

—ओ)०(ओ—

॥ ९.१६.२६-२७ ॥

आस्तेऽद्यापि महेन्द्राद्रौ न्यस्त-दण्डः प्रशान्त-धीः ।
उपगीयमान-चरितः सिद्ध-गन्धर्व-चारणैः ॥**

एवं भृगुषु विश्वात्मा भगवान् हरिर् ईश्वरः ।
अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान् ॥**

श्रीधरः : भूवो भारम् अहन् । भारम् एवाह—नृपान् इति ॥२६-२७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१६.२८ ॥

गाधेर् अभून् महा-तेजाः समिद्ध इव पावकः ।
तपसा क्षात्रम् उत्सृज्य यो लेभे ब्रह्म-वर्चसम् ॥**

श्रीधरः : तद् एवं प्रसक्तानुप्रसक्तं समाप्य प्रस्तुतम् आह—गाधेर् इति । महा-तेजा विश्वामित्रः ॥२८॥

क्रम-सन्दर्भः : तद् एवं मध्ये मध्येऽपि निज-निजाभीष्टां भगवद्-अवतार-कथां गीत्वा झटिति निजाभीष्टतम-भगवद्-आविर्भावास्पद-यदु-वंश-वर्णनाय प्रसक्त-वंशं समापयितुम् आह—गाधेरिति ॥२८॥

विश्वनाथः : प्रसङ्गिकीं कथा समाप्य प्रस्तुतम् आह गाधेर् इति ॥२८॥

—ओ)०(ओ—

॥ ९.१६.२९ ॥

विश्वामित्रस्य चैवासन् पुत्रा एक-शतं नृप ।
मध्यमस् तु मधुच्छन्दा मधुच्छन्दस एव ते ॥**

श्रीधरः : ते सर्वे लिङ्ग-समवाय-न्यायेन, प्राण-भृत उपदधाति इतिवन् मधु-च्छन्दस एवोच्यन्ते । तथा च श्रुतिः—तस्य ह विश्वामित्रस्यैक-शतं पुत्रा आसुः पञ्चाशद् एव ज्यायांसो मधु-च्छन्दसः पञ्चाशत् कनीयांसः इत्य्-आदि । तत्र च विश्वामित्र-पुत्रेषु भार्गवस्याजीगर्तस्य देवरातस्य ज्येष्ठत्वम् अवगम्यते । तथा आश्वलायन-बौधायनादिभिः कौशिकानां देवरात-प्रवरत्वम् उक्तम् । प्रवरश् च तस्मिन्न् एव वंशेऽवान्तर-भेदो, न तु वंशान्तरम् । तथा च स्मृतिः—

एक एव ऋषिर् यावत् प्रवरेष्व् अनुवर्तते ।

तावत् समान-गोत्रत्वं विना भृग्व्-अङ्गिरोगणात् ॥ इति ।

क्रम-सन्दर्भः : एक-शतम् एकाधिक-शतम् । टीकायां प्राण-भृत इति तत्र प्राण-भृत्-पद-प्रसिद्ध-मन्त्रेण संस्कृतैकैवेष्टाका प्राण-भृद् उच्यते । तत्-प्राधान्येनान्या अपि तथोच्यन्त इत्य् अवगन्तव्यम् ॥२९॥

विश्वनाथः :एक-शतम् एकाधिकं शतं, तथा च श्रुतिः—तस्य ह विश्वामित्रस्यैक-शतं पुत्रा आसुः । पञ्चाशद् एव ज्यायांसो मधु-च्छन्दसः, पञ्चाशत् कनीयांसः इत्य्-आदि । ते सर्वे लिङ्ग-समवाय-न्यायेन प्राण-भृत उपदधातीतिउवन् मधुच्छन्दस एवोच्यन्ते । इष्टका-चयेन यागे प्राण-भृत्-प्रसिद्ध-मन्त्रेण संस्कृता एकैवेष्टका प्राण-भृद् उच्यते । तत्र पुनस् तत् प्राधान्येनान्यापि इष्टका यथा प्राण-भृत उच्यन्ते तथैवेत्य् अर्थः ॥२९॥

—ओ)०(ओ—

॥ ९.१६.३० ॥

पुत्रं कृत्वा शुनःशेफं देवरातं च भार्गवम् ।
आजीगर्तं सुतान् आह ज्येष्ठ एष प्रकल्प्यताम् ॥**

श्रीधरः : तत् कुतो भृगु-वंश-संभवस्य देवरातस्य कौशिक-प्रवरत्वम् ? इत्य् आशङ्क्य तद् उपपादयन्न् आह—पुत्रं कृत्वेत्य्-आदि यावत् समाप्ति । पूर्वम् अजीगर्त-सुतत्वे मध्यमत्वेन पितृभ्यां ममतां विहाय विक्रीतत्वात् तस्य कृपया सुतान् आह—ज्येष्ठ एष प्रकल्प्यताम् इति ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : स च विश्वामित्रः भार्गवं भृगु-वंशोद्भवम् आजीगर्त-सुतं शुनःशेफं कृपयैव पुत्रं कृत्वा सुतान् औरसान् प्रत्य् आह—ज्येष्ठ इत्य्-आदि ॥३०॥

—ओ)०(ओ—

॥ ९.१६.३१ ॥

यो वै हरिश्चन्द्र-मखे विक्रीतः पुरुषः पशुः ।
स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाश-बन्धनात् ॥**

श्रीधरः : एतद् एव स्पष्टयितुं विशिनष्टि—य इति द्वाभ्याम् । मुमुचे अमुच्यत ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु शुनःशेफ एव कः ? तत्राह—इति हरिश्चन्द्रस्य मखे पुत्र-मेधे कर्तव्ये पुत्रेण रोहितेनैव यः पुरुषः पशुर् आनीतः कनिष्ठ-ज्येष्ठयोः स्नेहवद्भ्यां शुनःशेफ-नामा मध्यमः पुत्रो विक्रीतः । स च प्रजेशादीन् देवान् स्तुत्वा पशु-पाशव-बन्धनात् मुमुचे मुक्तः ॥३१॥

—ओ)०(ओ—

॥ ९.१६.३२ ॥

यो रातो देव-यजने देवैर् गाधिषु तापसः ।
देव-रात इति ख्यातः शुनःशेफस् तु भार्गवः ॥**

श्रीधरः : भार्गवो ऽपि गाधिषु गाधेर् वंश-जेषु देवरात इति ख्यातः ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अतो भार्गवोऽपि विश्वामित्र-कृपा-पात्री भवन् गाधिषु गाधेर् वंशेषु देवरात इति ख्यातस् तापसोऽभूत् ॥३२॥

—ओ)०(ओ—

॥ ९.१६.३३ ॥

ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् ।
अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः ॥**

श्रीधरः : तत् तस्य ज्येष्ठत्वं कुशलं न मेनिरे मध्यमस्यानर्थावहत्वं दृष्ट्वा नाङ्गीकृतवन्तः । मुनिर् विश्वामित्रः ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ये ज्येष्ठाः पञ्चाशत् शुनःशेफस्य ज्येष्ठत्वं कुशलं भद्रं न मेनिरे । मुनिर् विश्वामित्रः ॥३३॥

—ओ)०(ओ—

॥ ९.१६.३४ ॥

स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः ।
यन् नो भवान् सञ्जानीते तस्मिंस् तिष्ठामहे वयम् ॥**

श्रीधरः : पञ्चाशता कनिष्ठैः साकं स मध्यमो मधुच्छन्दा उवाच । नो ऽस्माकं यज् ज्येष्ठत्वं कनिष्ठत्वं वा भवान् पिता सञ्जानीते मन्यते, तस्मिन् वयं तिष्ठामेति ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पञ्चाशता कनिष्ठैः साकं स मध्यमो मधुच्छन्दा ह स्पष्टम् उवाच । नो ऽस्माकं पिता भवान् यज् ज्येष्ठत्वं कनिष्ठत्वं वा सञ्जानीते मन्यते, तस्मिन्न् एव वयं तिष्ठामेति ॥३४॥

—ओ)०(ओ—

॥ ९.१६.३५ ॥

ज्येष्ठं मन्त्र-दृशं चक्रुस् त्वाम् अन्वञ्चो वयं स्म हि ।

विश्वामित्रः सुतान् आह वीरवन्तो भविष्यथ ।
ये मानं मेऽनुगृह्णन्तो वीरवन्तम् अकर्त माम् ॥**

श्रीधरः : एवम् उक्त्वा मन्त्र-दृशं कस्य नूनं कतमस्यामृतानाम्[ऋ।वे। १.२४.१३] इत्य्-आदि-मन्त्राणां द्रष्टारं शुनःशेपं ज्येष्ठं चक्रुः । तद् आह—वयं सर्वे त्वाम् अन्वञ्चः स्म हि अनुगन्तारः । कनिष्ठाः स्म इत्य् अर्थः । ततः प्रसन्नो विश्वामित्रस् तान् सुतान् आह—वीरवन्तः पुत्रवन्तो भविष्यथ । ये यूयं मे मानं पूज्यत्वम् अनुगृह्णन्तो ऽनुवर्तमानाः सन्तो मां वीरवन्तं पुत्रवन्तम् अकर्त । कृतवन्त इत्य् अर्थः ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ततश् च शुनःशेपं ज्येष्ठं चक्रुः । मन्त्र-दृशं कस्य नूनं कतमस्यामृतानाम्[ऋ।वे। १.२४.१३] इत्य्-आदि-मन्त्राणां द्रष्टारम् । तद् आह—वयं सर्वे त्वाम् अन्वञ्चोऽनुगन्तारः कनिष्ठाः स्म इत्य् ऊचुर् इत्य् अर्थः । ततः प्रसन्नो विश्वामित्रस् तान् सुतान् आह उवाच—वीरवन्तः पुत्रवन्तो भविष्यथ । ये यूयं मे मानं पूज्यत्वम् अनु मद्-आज्ञानन्तरं गृह्णन्तो ऽङ्गीकुर्वन्तः, अन्यथा युष्मासु अपुत्रक एवाभविष्यम् इति भावः ॥३५॥

—ओ)०(ओ—

॥ ९.१६.३६ ॥

एष वः कुशिका3 वीरो देवरातस् तम् अन्वित ।

अन्ये चाष्टक-हारीत-जय-क्रतुमद्-आदयः ॥

श्रीधरः : हे कुशिकाः, एष देवरातो वो युष्मदीयः कौशिक एव । यतो वीरो मत्-पुत्रस् तम् एनम् अन्वितानुगच्छत । अन्ये चाष्टकादयस् तस्य सुता आसन् ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हे कुशिकाः ! वो युष्मदीयः कौशिक एव । यतो वीरो मत्-पुत्रः । तम् एनम् अन्वितानुगच्छत । अन्ये चाष्टकादयस् तस्य सुता आसन् ॥३६॥

—ओ)०(ओ—

॥ ९.१६.३७ ॥

एवं कौशिक-गोत्रं तु विश्वामित्रैः पृथग्-विधम् ।
प्रवरान्तरम् आपन्नं तद् धि चैवं प्रकल्पितम् ॥**

श्रीधरः : उपसंहरति—एवम् इति । एके शप्ता एके ऽनुगृहीता अन्यस् तु पुत्रत्वेन स्वी-कृत इत्य् एवं कौशिक-गोत्रं पृथग् विधं नाना-प्रकारं जातं, तच् च प्रवरान्तरम् आपन्नं प्राप्तम् । हि यस्माद् एवं देवरात-ज्येष्ठत्वेन तत् प्रकल्पितम् ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : उपसंहरति—एवम् इति । एके शप्ता एके ऽनुगृहीताः । अन्यस् तु पुत्रत्वेन गृहीत इत्य् एवं कौशिक-गोत्रं विश्वामित्रैः विश्वामित्रेण हेतुना पृथग्-विधं नाना-प्रकारं जातम् । तच् च प्रवरान्तरम् आपन्नम् । हि यस्माद् एवं देवरात-ज्येष्ठत्वेन तद् देवरात-प्रवरं प्रकल्पितम् ॥३७॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

नवमे षोडशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां नवम-स्कन्धे > श्री-परशुराम-चरितम् नाम > षोडशोऽध्यायः ।

॥ ९.१६ ॥

(९.१७)


  1. सत्यवती-सुतो जमदग्निर् वरेण च्छन्दयामास वरं वृण्व् इति चोदयामास । स च, मया हता माता भ्रातरश् च पुनर् जीवन्तु, मत्-कृतं च हननं मा स्मार्षुः इति वरं वव्रे ॥ (गोविन्दाचार्यः) ↩︎

  2. -कल्मषः इति तत्त्ववादि-पाठः। अवभृथ-स्नानेन विधूताशेष-कल्मष इवाज्ञ-लोकं मोहयन् दर्शयामास । यथा पूर्वं तामस-जन-मोहायैव पितुर् वरं वव्रे । प्रायश्चित्ताचरणेन पितुश् छन्दोऽनुवर्तनेन च जनस्य श्रेयो भवतीति लोक-शिक्षार्थं च ॥ (गोविन्दाचार्यः) ↩︎

  3. कुशिक इति गौडीय-मठ-संस्करणे। ↩︎