१५ परशुराम-चरिते

॥ ९.१५.१ ॥

श्री-बादरायणिर् उवाच—

ऐलस्य चोर्वशी-गर्भात् षड् आसन्न् आत्मजा नृप ।

आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥

श्रीधरः :

ततः पञ्चदशे गाधिर् ऐल-पुत्रान्वयोऽजनि ।

यद् दौहित्र-सुतो रामः कार्त-वीर्यम् अहन् रुषा

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

ऐल-वंश-भुवो गाधेर् दौहित्रात्मज ईश्वरम् ।

अर्जुनं धेनु-हर्तारं रामः पञ्चदशेऽवधीत् ॥

—ओ)०(ओ—

॥ ९.१५.२ ॥

श्रुतायोर् वसुमान् पुत्रः सत्यायोश् च श्रुतञ्जयः ।

रयस्य सुत एकश् च जयस्य तनयोऽमितः ॥

श्रीधरः : सु-ग्रहत्वायाल्पादि-क्रमेण श्रुतायु-प्रभृति-षण्णां वंशान् आह, श्रुतायोर् इत्य्-आदिना । एक एक-संज्ञः अमितस् तत् संज्ञः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आयोर् वंशं विस्तृतम् उपरिष्टाद् वक्ष्यन् प्रथमं श्रुतायोर् इति एकश् चेत्येक-संज्ञः । तनयस् तत्-संज्ञः ॥२॥

—ओ)०(ओ—

॥ ९.१५.३ ॥

भीमस् तु विजयस्याथ काञ्चनो होत्रकस् ततः ।

तस्य जह्नुः सुतो गङ्गां गण्डूषी-कृत्य योऽपिबत् ॥

जह्नोस् तु पुरुस् तस्याथ बलाकश् चात्मजोऽजकः ॥

श्रीधरः : जह्नोः पूरुस् तस्य बलाकस् तस्याजकः ।

क्रम-सन्दर्भः : जह्नोर् इति सार्धकम् । जह्नोस् तु पुरुः । तस्याथ बलाकश् चात्मजोऽजक इत्य् एव पाठः सर्वत्र । पाठान्तरं तु कुत्रापि न दृश्यते । टीका तु निगलितार्थत्वेन सङ्गच्छते॥३॥1

विश्वनाथः :

—ओ)०(ओ—

॥ ९.१५.४ ॥

ततः कुशः कुशस्यापि कुशाम्बुस् तनयो वसुः ।

कुशनाभश् च चत्वारो गाधिर् आसीत् कुशाम्बुजः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.५ ॥

तस्य सत्यवतीं कन्याम् ऋचीकोऽयाचत द्विजः ।

वरं विसदृशं मत्वा गाधिर् भार्गवम् अब्रवीत् ॥

श्रीधरः : गढेः पुत्रो विश्वामित्रो ब्रह्मर्षिर् अभूद् इत्य् उत्तराध्यायान्ते वक्ष्यति, “गाधेर् अभून् महा-तेजाः” [भा।पु। ९.१६.२८] इत्य्-आदिना, तत्र तावत् तद् उपोद्धातत्वेन भृगु-वंश-संभवस्य ऋचीकस्य चरित्रं प्रसक्तानुप्रसक्तेन च परशुरामावतार-चरितम् आह, तस्य सत्यवतीम् इत्य्-आदिना । विसदृशम् अननुरूपम् । भार्गवम् ऋचीकम् ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : गढेः पुत्रो विश्वामित्रो ब्रह्मर्षिर् अभूद् इत्य् उत्तराध्याये वक्ष्यते । तस्य कन्या-वंश-प्रसङ्गेनैव परशुरामावतारं वक्ष्यन् ऋचीक-ऋषि-चरितम् आह—तस्येति ॥५॥

—ओ)०(ओ—

॥ ९.१५.६ ॥

एकतः श्याम-कर्णानां हयानां चन्द्र-वर्चसाम् ।

सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् ॥

श्रीधरः : दक्षिण-वामयोर् एकतः श्यामः कर्णो येषाम् । सर्वस्मिन्न् अङ्गे चन्द्रस्येव वर्चो येषाम् । न चेदम् अपि पर्याप्तम् अस्मत् कन्यायाः । यतः कुशिकाः कौशिका वयम् ।।६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कुशिका इति कुशस्य वंशा वयं क्षत्रिया अपि सर्वतोऽपि कुलीना इति भावः । दक्षिण-वामयोर् मध्ये एकतः श्यामः कर्णो येषां तेषाम् ॥६॥

—ओ)०(ओ—

॥ ९.१५.७ ॥

इत्य् उक्तस् तन्-मतं ज्ञात्वा गतः स वरुणान्तिकम् ।

आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.८ ॥

स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा चापत्य-काम्यया ।

श्रपयित्वोभयैर् मन्त्रैश् चरुं स्नातुं गतो मुनिः ॥

श्रीधरः : उभयैर् मन्त्रैः, पत्न्यै ब्राह्मैर् मन्त्रैः, श्वश्र्वे तु क्षात्रैर् इत्य् अर्थः ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : उभयैर् मन्त्रैः, ब्राह्मैर् मन्त्रैः, पत्न्यै चरुं दत्त्वा श्वश्र्वै तु क्षात्रैर् मन्त्रैर् इत्य् अर्थः ॥८॥

—ओ)०(ओ—

॥ ९.१५.९ ॥

तावत् सत्यवती मात्रा स्व-चरुं याचिता सती ।

श्रेष्ठं मत्वा तयायच्छन् मात्रे मातुर् अदत् स्वयम् ॥

श्रीधरः, विश्वनाथः : यावत् स्नात्वा मुनिर् नागतः, तावद् भार्यायां भर्तृ-स्नेहाधिक्यात् पुत्र्याः सत्यवत्याश् चरुं श्रेष्ठं मत्वा, तया2मात्रासत्यवतीयाचिता सती ब्राह्म-मन्त्राभिमन्त्रितं स्व-चरुंमात्रेअयच्छत् प्रादात् । मातुश् चरुं क्षात्र-मन्त्राभिमन्त्रितं स्वयम् अदद् आदत् ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.१० ॥

तद् विदित्वा मुनिः प्राह पत्नीं कष्टम् अकारषीः ।

घोरो दण्ड-धरः पुत्रो भ्राता ते ब्रह्म-वित्तमः ॥

श्रीधरः : कष्टं जुगुप्सितम् । तद् एवाह—तेपुत्रोघोरो भविष्यति । भ्राता तु ब्रह्म-वित्तमो भविष्यतीति ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :कष्टं जुगुप्सितम् । दण्डधरः क्षत्रियो भविष्यति, ब्रह्म-वित्तमो ब्राह्मणः स च विश्वामित्र उत्तराध्याये वक्ष्यते ॥१०॥

—ओ)०(ओ—

॥ ९.१५.११ ॥

प्रसादितः सत्यवत्या मैवं भूर् इति भार्गवः ।

अथ तर्हि भवेत् पौत्रोजमदग्निस् ततोऽभवत् ॥

श्रीधरः : एवं मा भूद् इति प्रसादितोभार्गव आह—अथ तर्हि पौत्रो घोरो भविष्यति । जमदग्निः पुत्रोऽभवद् इत्य् अर्थः ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : एवं मा भूर् इति प्रसादित ऋचीक उवाच—अथेति । तर्हि पौत्रो दण्डधरो भविष्यति । स च परशुराम एव ततो हेतोः पुत्रो जमदग्निर् मुनिर् अभूत् ॥११॥

—ओ)०(ओ—

॥ ९.१५.१२ ॥

सा चाभूत् सुमहत्-पुण्या कौशिकी लोक-पावनी ।

रेणोः सुतां रेणुकां वै जमदग्निर् उवाह याम् ॥

श्रीधरः, विश्वनाथः : सा च सत्यवती कौशिकी नद्य् अभूत् ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.१३ ॥

तस्यां वै भार्गव-ऋषेः सुता वसुमद्-आदयः ।

यवीयान् जज्ञ एतेषां राम इत्य् अभिविश्रुतः ॥

श्रीधरः : भार्गव-ऋषेर् जमदग्नेः सुताः ॥१३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.१४ ॥

यम् आहुर् वासुदेवांशं हैहयानां कुलान्तकम् ।

त्रिः-सप्त-कृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.१५ ॥

दुष्टं क्षत्रं भुवो भारम् अब्रह्मण्यम् अनीनशत् ।

रजस्-तमो-वृतम् अहन् फल्गुन्य् अपि कृतेऽंहसि ॥

श्रीधरः : अनीनशन् नाशयाम् आस तद् एवाह—रजस्-तमो-वृतम् इति । पाठान्तरे सुगमम् ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अनीनशद् भुवो भारम् अब्रह्मण्यम् अधार्मिकम् इति । दृप्त-क्षत्रं भुवो भारम् अब्रह्मण्यम् अनीनशद् इति च पाठ-द्वयम् ॥१५॥

—ओ)०(ओ—

॥ ९.१५.१६ ॥

श्री-राजोवाच—

किं तद् अंहो भगवतो राजन्यैर् अजितात्मभिः ।

कृतं येन कुलं नष्टं क्षत्रियाणाम् अभीक्ष्णशः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.१७ ॥

श्री-बादरायणिर् उवाच—

हैहयानाम् अधिपतिर् अर्जुनः क्षत्रियर्षभः ।

दत्तं नारायणांशांशम् आराध्य परिकर्मभिः ॥

श्रीधरः : कार्तवीर्यार्जुनेन कृतम् अपराधं वक्तुं तस्य दर्प-हेतुम् ऐश्वर्यादिकम् आह—हैहयानाम् इति षड्भिः, परिकर्मभिः परिचर्याभिर् दत्तं दत्तात्रेयम् आराध्य ॥१७॥

क्रम-सन्दर्भः, विश्वनाथः- न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.१८ ॥

बाहून् दश-शतं लेभे दुर्धर्षत्वम् अरातिषु ।

अव्याहतेन्द्रियौजः श्री-तेजो-वीर्य-यशो-बलम् ॥

श्रीधरः : अव्याहतम् इन्द्रियादिकं च लेभे ॥१८॥

**क्रम-सन्दर्भः, विश्वनाथः-**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.१९ ॥

योगेश्वरत्वम् ऐश्वर्यं गुणा यत्राणिमादयः ।

चचाराव्याहत-गतिर् लोकेषु पवनो यथा ॥

श्रीधरः : यत्र यस्मिन्न् ऐश्वर्येऽणिमादयो गुणाः ॥१९॥

**क्रम-सन्दर्भः, विश्वनाथः-**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.२० ॥

स्त्री-रत्नैर् आवृतः क्रीडन् रेवाम्भसि मदोत्कटः ।

वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजैः ॥

श्रीधरः : रेवाम्भसि नर्मदा-जले । सरितं नर्मदाम् ॥२०॥

**क्रम-सन्दर्भः, विश्वनाथः-**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.२१ ॥

विप्लावितं स्व-शिबिरं प्रतिस्रोतः-सरिज्-जलैः ।

नामृष्यत् तस्य तद् वीर्यं वीरमानी दशाननः ॥

श्रीधरः : रावणो दिग्-विजये माहिष्मत्याः समीपे नर्मदायां देव-पूजां कुर्वंस् तेन प्रवाहस्यावरोधात् प्रतिस्रोतसः सत्यास् तस्याः सरितो जलैर् विप्लावितं स्व-शिबिरम् आलक्ष्य तस्य तद् वीर्यं न सेहे ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : रावणो दिग्-विजये माहिष्मत्याः समीपे देव-पूजां कुर्वंस् तेन प्रवाहस्यावरोधाद् धेतोः प्रतिस्रोताः प्रतिकूल-प्रवाहा सरिद् रेवा, तस्या जलैः प्लावितं स्व-शिबिरम् आलोक्य तस्य तद् वीर्यं न सेहे । तेन साकं योद्धुम् अगमद् इत्य् अर्थः ॥२१॥

—ओ)०(ओ—

॥ ९.१५.२२ ॥

गृहीतो लीलया स्त्रीणां समक्षं कृत-किल्बिषः ।

माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर् यथा ॥

श्रीधरः : ततश् च कृत-किल्बिषः क्रीडन्तम् अभिभवितुं प्रवृत्तः सन्गृहीतो माहिष्मत्यां स्व-पुर्यां कपिर् इव सन्निरुद्धश् च पुनश् चावज्ञया येन मुक्तः ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ततश् च रावणस् तेन पराजितः गृहीतः ॥२२॥

—ओ)०(ओ—

॥ ९.१५.२३ ॥

स एकदा तु मृगयां विचरन् विजने वने ।

यदृच्छयाश्रम-पदं जमदग्नेर् उपाविशत् ॥

श्रीधरः : इदानीं तत् कृतम् अपराधं दर्शयन्न् आह—स एकदेत्य्-आदिना ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : एवं वीर्योऽपि सोऽर्जुनः परशुरामेण हत इति वक्तुं तत्-कृतम् अपराधं दर्शयति—स इति ॥२३॥

—ओ)०(ओ—

॥ ९.१५.२४ ॥

तस्मै स नरदेवाय मुनिर् अर्हणम् आहरत् ।

ससैन्यामात्य-वाहाय हविष्मत्या तपो-धनः ॥

श्रीधरः : अर्हणम् आतिथ्यादि । हविष्मत्या कामधेन्वा ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हविष्मत्या कामधेन्वा ॥२४॥

—ओ)०(ओ—

॥ ९.१५.२५ ॥

स वै रत्नं तु तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् ।

तन् नाद्रियताग्निहोत्र्यां साभिलाषः सहैहयः ॥

श्रीधरः : तद्-अर्हणं नाद्रियत तस्मिन् नातुष्यत् । यतोऽग्निहोत्र्यां होम-धेनौ साभिलाषः । स-हैहयो हैहयैः सह वर्तमानः ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तद्-अर्हण-साधनम् ऐश्वर्यं दृष्ट्वा तद्-अर्हणं नाद्रियत । यतोऽग्निहोत्र्यां काम-धेनौ ॥२५॥

—ओ)०(ओ—

॥ ९.१५.२६ ॥

हविर्धानीम् ऋषेर् दर्पान् नरान् हर्तुम् अचोदयत् ।

ते च माहिष्मतीं निन्युः स-वत्सां क्रन्दतीं बलात् ॥

श्रीधरः : दर्पाद् धेतोः ऋषेर् हविर्धानीम् अग्निहोत्र-धेनुं हर्तुं नरान् अचोदयत् प्रेरितवान् ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हविर्धानीं कामधेनुं हर्तुम् ॥२६॥

—ओ)०(ओ—

॥ ९.१५.२७-२८ ॥

अथ राजनि निर्याते राम आश्रम आगतः ।

श्रुत्वा तत् तस्य दौरात्म्यं3 चुक्रोधाहिर् इवाहतः ॥

घोरम् आदाय परशुं सतूणं चर्म कार्मुकम् ।

अन्वधावत दुर्धर्षो4 मृगेन्द्र इव यूथपम् ॥

श्रीधरः : सतूणं कार्मुकं चर्म चादाय ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.२९ ॥

तम् आपतन्तं भृगु-वर्यम् ओजसा

धनुर्-धरं बाण-परश्वधायुधम् ।

ऐणेय-चर्माम्बरम् अर्क-धामभिर्

युतं जटाभिर् ददृशे पुरीं विशन् ॥

श्रीधरः : ऐणेयं चर्म कृष्ण-जिनम् अम्बरं यस्य ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पुरीं प्रविशन्न् एवार्जुनो ददर्श ॥२९॥

—ओ)०(ओ—

॥ ९.१५.३० ॥

अचोदयद् धस्ति-रथाश्व-पत्तिभिर्

गदासि-बाणर्ष्टि-शतघ्नि-शक्तिभिः ।

अक्षौहिणीः सप्त-दशातिभीषणास्

ता राम एको भगवान् असूदयत् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हस्त्य्-आदिभिर् गदादिभिश् च भीषणा अक्षौहिणीर् अचोदयत् प्रेषयामास ॥३०॥

—ओ)०(ओ—

॥ ९.१५.३१ ॥

यतो यतोऽसौ प्रहरत्-परश्वधो

मनो-ऽनिलौजाः पर-चक्र-सूदनः ।

ततश् ततस् छिन्न-भुजोरु-कन्धरा

निपेतुर् उर्व्यां हत-सूत-वाहनाः ॥

श्रीधरः : प्रहरन् परश्वधो यस्य । मनश् चानिलश् च तयोर् इवौजो वीर्यं यस्य । परेषां चक्रं सैन्यं सूदयतीति तथा । छिन्ना भूजा ऊरवः कन्धराश् च येषाम् । हताः सूता वाहनानि च येषां ते वीरा निपेतुः ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रहरन् परश्वधो यस्य सः । मनोऽनिलयोर् इवौजो वेगो यस्य सः । प्रथमं सैन्यस्यातिबाहुल्ये दृष्टे मनस इव आत्मनो वेगः कृतः । तस्मिन् नष्ट-प्राये सति किञ्चिद् विश्रमणार्थम् अनिलस्येवेत्य् अर्थः । तत्र तत्र वीरा निपेतुः ॥३१॥

—ओ)०(ओ—

॥ ९.१५.३२ ॥

दृष्ट्वा स्व-सैन्यं रुधिरौघ-कर्दमे

रणाजिरे राम-कुठार-सायकैः ।

विवृक्ण-वर्म-ध्वज-चाप-विग्रहं

निपातितं हैहय आपतद् रुषा ॥

श्रीधरः : विवृक्णाश् चर्मादयो यस्य ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हैहयोऽर्जुनः ॥३२॥

—ओ)०(ओ—

॥ ९.१५.३३ ॥

अथार्जुनः पञ्च-शतेषु बाहुभिर्

धनुःषु बाणान् युगपत् स सन्दधे ।

रामाय रामोऽस्त्र-भृतां समग्रणीस्

तान्य् एक-धन्वेषुभिर् आच्छिनत् समम् ॥

श्रीधरः : पञ्च-शतेषु धनुःषु सोऽर्जुनो रामाय सन्दधे । एकम् एव धनुर् यस्य सः । पाठान्तरे एक एव बन्धः सन्धानं येषां तैर् इषुभिः । तानि धनूंषि समं सह तत्-क्षणम् एवाच्छिनत् ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : रामाय रामं हन्तुं, रामस् तु तानि धनूंषि समं बाणैः सहैतान्य् एवाच्छिनत् ॥३३॥

—ओ)०(ओ—

॥ ९.१५.३४ ॥

पुनः स्व-हस्तैर् अचलान् मृधेऽङ्घ्रिपान्

उत्क्षिप्य वेगाद् अभिधावतो युधि ।

भुजान् कुठारेण कठोर-नेमिना

चिच्छेद रामः प्रसभं त्व् अहेर् इव ॥

श्रीधरः : मृधे साधन-भूतान् अचलान् अङ्घ्रिपांश् चोत्क्षिप्याभिधावतस् तस्य भूजांश् चिच्छेद । अहेः फणा इवेत्य् अर्थः ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अचलान् पर्वतान् अभिधावतस् तस्य अहेः फणान् इवेत्य् अर्थः ॥३४॥

—ओ)०(ओ—

॥ ९.१५.३५-३७ ॥

कृत्त-बाहोः शिरस् तस्य गिरेः शृङ्गम् इवाहरत् ।

हते पितरि तत्-पुत्रा अयुतं दुद्रुवुर् भयात् ॥

अग्निहोत्रीम् उपावर्त्य सवत्सां पर-वीर-हा ।

समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥

स्व-कर्म तत् कृतं रामः पित्रे भ्रातृभ्य एव च ।

वर्णयाम् आस तच् छ्रुत्वाजमदग्निर् अभाषत ॥

श्रीधरः :समर्पयत् समार्पयत् ॥३६॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.३८-३९ ॥

राम राम महाबाहो भवान् पापम् अकारषीत् ।

अवधीन् नरदेवं यत् सर्व-देवमयं वृथा ॥

वयं हि ब्राह्मणास् तात क्षमयार्हणतां गताः ।

यया लोक-गुरुर् देवः पारमेष्ठ्यम् अगात् पदम् ॥

श्रीधरः, विश्वनाथः : अर्हणतां पूज्यताम् ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१५.४० ॥

क्षमया रोचते लक्ष्मीर् ब्राह्मी सौरी यथा प्रभा ।

क्षमिणाम् आशु भगवांस् तुष्यते हरिर् ईश्वरः ॥

श्रीधरः : सौरी सूर्यस्य प्रभेव ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ब्राह्मी ब्राह्मण-सम्बन्धिनी लक्ष्मीः शोभा क्षमयैव रोचते द्योतते सौरी सूर्य-प्रभेव ॥४०॥

—ओ)०(ओ—

॥ ९.१५.४१ ॥

राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्म-वधाद् गुरुः ।

तीर्थ-संसेवया चांहो जह्य् अङ्गाच्युत-चेतनः ॥

श्रीधरः : तीर्थ-संसेवया । चकाराद्यम् अनियमैश् च । अच्युते चेतना चित्तं यस्य सः ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : चकाराद् यम-नियमादिभ्यश् च । श्लेषेण न च्युत चेतना चिच्-छक्तिर् यस्य तथा-भूते ईश्वरोऽपि लोक-सङ्ग्रहार्थम् इत्य् अर्थः ॥४१॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

पञ्चदशोऽयं नवमे सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे

परशुराम-चरिते पञ्चदशोऽध्यायः ।

॥९.१५॥

—ओ)०(ओ—

(९.१६)


  1. थिस् इस् थे ओन्ल्य् वेर्से जिव चोम्मेन्त्स् ओन् इन् थिस् छप्तेर्। ↩︎

  2. अनया इति विश्वनाथः। ↩︎

  3. तद् दौरात्म्यं हविष्मती-हरणरूपम् इति श-पुस्तके ↩︎

  4. दुर्मर्षः इति पाठान्तरम् श पुस्तके, दुर्मर्षः इति ब-पुस्तके ↩︎