१४ ऐलोपाख्यानं

॥ ९.१४.१ ॥

श्री-शुक उवाच—

अथातः श्रूयतां राजन् वंशः सोमस्य पावनः ।

यस्मिन्न् ऐलादयो भूपाः कीर्त्यन्ते पुण्य-कीर्तयः ॥

श्रीधरः :

चतुर्दशादिभिः सोम-वंशमाहासमाप्तितः ।

यस्मिन्न् ऐलादयो भूपाः कीर्त्यन्ते पुण्य-कीर्तयः ॥

चतुर्दशे गुरोः पत्न्यां तारायां सोम-जाद् गुधात् ।

जातश् चैलः षड् उर्वश्याम् आयु-मुख्यान् अजीजनत् ॥

क्रम-सन्दर्भः : अथात इति । श्रुत-पूर्व-मीमांसान् प्रति अथातो ब्रह्म जिज्ञासा [वे।सू। १.१.१] इतिवत् स्वयं भगवद्-आविर्भावास्पद-वंश-कथनारम्भे माङ्गल्यायानन्तर्य-हेतु-विशेषयोर् बोधनाय च सोमस्य तद्-वंश-धरस्यापि पावनो वंशः । यद् वा, सोमस्य उमा-सहचरस्य शिवस्यापि, यत्-पाद-निःसृत-सरित्-प्रवरोदकेन तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत् [भा।पु। ३.२८.२२] इतिवत् स्वयं भगवद्-आविर्भावात् । अस्तु तावत् तत्-सम्बन्धेन तादृशत्वं स्वतोऽप्य् अन्तः प्रशस्तम् इत्य्-आह—यस्मिन्न् इति ॥१॥

विश्वनाथः :

तारायां स्व-गुरोः पत्न्याम् इन्दुना जनिताद् बुधात् ।

जात ऐलः षड् उर्वश्यां पुत्रान् प्राप चतुर्दशे ॥१॥

—ओ)०(ओ—

॥ ९.१४.२ ॥

सहस्र-शिरसः पुंसो नाभि-ह्रद-सरोरुहात् ।

जातस्यासीत् सुतो धातुर् अत्रिः पितृ-समो गुणैः ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

क्रम-सन्दर्भः : तद् एतत् परमानन्द-विलसितं तथैव मुहुर् घोषितम् अपि श्री नारायणम् आरभ्य संशितुम् आरभते—सहस्रेति ॥२॥

—ओ)०(ओ—

॥ ९.१४.३ ॥

तस्य दृग्भ्योऽभवत् पुत्रः सोमोऽमृतमयः किल ।

विप्रौषध्य्-उडु-गणानां ब्रह्मणा कल्पितः पतिः ॥

श्रीधरः : दृग्भ्य आनन्दाश्रुभ्यः । अत एवामृत-मयः । किलेत्य् आश्चर्ये । पाठान्तरे दृशो नेत्रात् । वक्ष्यमाण-दर्प-कारणम् आह—विप्रेति ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : दृग्भ्य आनन्दाश्रुभ्यः, अत एवामृत-मयः, दृश इति च पाठः ।

अत्रेः पत्न्य् अनसूया त्रीन् जज्ञे सुयशसः सुतान् ।

सोमं दुर्वाससं दत्तम् आत्मेश-ब्रह्म-सम्भवान् ॥ [भा।पु। ४.१.१५] इति चतुर्थोक्तेः ।

सा पुनस् तं स्व-गर्भे दधारेति केचित् । सङ्ग-काले आनन्दाश्रूण्य् अपि तस्याम् आधत्तेत्य् अन्ये, पत्युः पुत्रत्वेन तस्या एव सुत इत्य् अपरे ॥३॥

—ओ)०(ओ—

॥ ९.१४.४ ॥

सोऽयजद् राजसूयेन विजित्य भुवन-त्रयम् ।

पत्नीं बृहस्पतेर् दर्पात् तारां नामाहरद् बलात् ॥

श्रीधरः : सोमस्य पुत्रो बुध इति कथा-द्वारेणाह—पत्नीम् इति सार्धैर् नवभिः ॥४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.५ ॥

यदा स देव-गुरुणा याचितोऽभीक्ष्णशो मदात् ।

नात्यजत् तत्-कृते जज्ञे सुर-दानव-विग्रहः ॥

श्रीधरः : तत्-कृते तन्-निमित्तम् ॥५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.६-७॥

शुक्रो बृहस्पतेर् द्वेषाद् अग्रहीत् सासुरोडुपम् ।

हरो गुरु-सुतं स्नेहात् सर्व-भूत-गणावृतः ॥

सर्व-देव-गणोपेतो महेन्द्रो गुरुम् अन्वयात् ।

सुरासुर-विनाशोऽभूत् समरस् तारकामयः ॥

श्रीधरः : सुराणां दानवानां च विग्रहे कारणम् आह—शुक्र इति । असुरैः सहितः । उडुपम् अग्रहीद् इत्य् अर्थः । सन्धिर् आर्षः । गुरोः सुतं बृहस्पतिम् अग्रहीत् । अङ्गिरसः सकाशात् प्राप्त-विद्यो हर इति प्रसिद्धिः ॥६-७॥

क्रम-सन्दर्भः : सुरासुरयोर् विनाशो यस्मात् तादृशः तारका-मयस् तारका-कारण इत्य् अमर-कोषात् ॥७॥

विश्वनाथः : सासुरः असुरैः सहितः उडुपं चन्द्रम् अग्रहीत् । तस्यैव पक्षो बभूव । सन्धिर् आर्षः । गुरु-सुतम् इति अङ्गिरसः सकाशात् प्राप्त-विद्यो हर इति प्रसिद्धिर् इति स्वामि-चरणाः ॥६-७॥

—ओ)०(ओ—

॥ ९.१४.८ ॥

निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्व-कृत् ।

तारां स्व-भर्त्रे प्रायच्छद् अन्तर्वत्नीम् अवैत् पतिः ॥

श्रीधरः : निवेदितो विज्ञापितः । विश्व-कृद् ब्रह्मा । अवैद् अबुध्यत ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अजो ब्रह्मा सोमं निर्भर्त्स्य तस्मात् सकाशात् तारां निष्काश्य स्व-भर्त्रे बृहस्पतये, स च पतिस् ताम् अन्तर्वत्नीं गर्भवतीम् अवैत् ज्ञातवान् ॥८॥

—ओ)०(ओ—

॥ ९.१४.९ ॥

त्यज त्यजाशु दुष्प्रज्ञे मत्-क्षेत्राद् आहितं परैः ।

नाहं त्वां भस्मसात् कुर्यां स्त्रियं सान्तानिकेऽसति ॥

श्रीधरः : बृहस्पतिर् आह—त्यज त्यजेति । परैर् आहितं गर्भम् । गर्भे त्यक्ते भस्मी-करिष्यतीति बिभ्यतीं प्रत्य् आह—नाहम् इति । सान्तानिकः सन्तानार्थी । सान्तानिके इति पाठे हे सत्-पुत्रे इत्य् अर्थः ॥९॥

क्रम-सन्दर्भः : त्यज त्यजेति गृहागमनानन्तरं गुरु-वचनम् ॥९॥

विश्वनाथः : बृहस्पतिर् उवाच—त्यजेति । परैर् आहितं गर्भम् मत्-क्षेत्राद् अस्मात् त्यज दूरीकुरु । गर्भे त्यक्ते भस्मी-करिष्यतीति बिभ्यतीम् आश्वासयन्न् आह—नाहम् इति । सान्तानिकः सन्तानार्थी । त्वयि सन्तानम् उत्पादयितु-मना अस्मीत्य् अर्थः । सान्तानिके इति पाठे हे सत्-पुत्रे इत्य् अर्थः ॥९॥

—ओ)०(ओ—

॥ ९.१४.१० ॥

तत्याज व्रीडिता तारा कुमारं कनक-प्रभम् ।

स्पृहाम् आङ्गिरसश् चक्रे कुमारे सोम एव च ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.११ ॥

ममायं न तवेत्य् उच्चैस् तस्मिन् विवदमानयोः ।

पप्रच्छुर् ऋषयो देवा नैवोचे व्रीडिता तु सा ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

क्रम-सन्दर्भः : ममायं न च तवेति तु पुनः सभा-गमने द्वयोर् विवादः । तस्मिन् पुनर् जाते सदसि ॥११॥

—ओ)०(ओ—

॥ ९.१४.१२ ॥

कुमारो मातरं प्राह कुपितोऽलीक-लज्जया ।

किं न वचस्य् असद्-वृत्ते आत्मावद्यं वदाशु मे ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आत्मनोऽवद्यं दोषं किं न वदसि ॥१२॥

—ओ)०(ओ—

॥ ९.१४.१३ ॥

ब्रह्मा तां रह आहूय समप्राक्षीच् च सान्त्वयन् ।

सोमस्येत्य् आह शनकैः सोमस् तं तावद् अग्रहीत् ॥

श्रीधरः, विश्वनाथः : रह एकान्ते ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.१४ ॥

तस्यात्म-योनिर् अकृत बुध इत्य् अभिधां नृप ।

बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण् मुदम् ॥

श्रीधरः : पुरूरवस उर्वश्याम् आयु-प्रमुखाः षट् पुत्रा जाता इति वक्तुं कथाम् आह—तस्येत्य्-आदिना यावत् समाप्ति ॥१४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.१५-१६ ॥

ततः पुरूरवा जज्ञे इलायां य उदाहृतः ।

तस्य रूप-गुणौदार्य-शील-द्रविण-विक्रमान् ॥

श्रुत्वोर्वशीन्द्र-भवने गीयमानान् सुरर्षिणा ।

तद्-अन्तिकम् उपेयाय देवी स्मर-शरार्दिता ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.१७ ॥

मित्रा-वरुणयोः शापाद् आपन्ना नर-लोकताम् ।

निशम्य पुरुष-श्रेष्ठं कन्दर्पम् इव रूपिणम् ॥

धृतिं विष्टभ्य ललना उपतस्थे तद्-अन्तिके ।

स तां विलोक्य नृपतिर् हर्षेणोत्फुल्ल-लोचनः ।

उवाच श्लक्ष्णया वाचा देवीं हृष्ट-तनूरुहः ॥

श्रीधरः : ननु देवी मनुष्यस्यान्तिकम् उपागच्छेत् तत्राह, मित्रा-वरुणयोः शापान् नर-लोकतां मनुष्य-भावम् आपन्ना सती ॥१७-१८॥

क्रम-सन्दर्भः : धृतिं विष्टभ्य तद्-दर्शनेन जात-स्तम्भादि-विकार-स्तम्भनाय धैर्यम् अवलम्ब्य ॥१७-१८॥

विश्वनाथः : मित्रावरुणयोस् तद्-दर्शन-जनित-काम-विकारयोर् उर्वशी त्वं मानुषीव मनुष्य-भुक्ता भवेत्य् अभिशापात् नरलोक-गतां नर-लोकम् ॥१७-१८॥

—ओ)०(ओ—

॥ ९.१४.१९ ॥

श्री-राजोवाच—

स्वागतं ते वरारोहे आस्यतां करवाम किम् ।

संरमस्व मया साकं रतिर् नौ शाश्वतीः समाः ॥

श्रीधरः : नौ आवयोः रतिर् अस्त्व् इति ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नौ रतिर् अस्तु ॥१९॥

—ओ)०(ओ—

॥ ९.१४.२० ॥

उर्वश्य् उवाच—

कस्यास् त्वयि न सज्जेत मनो दृष्टिश् च सुन्दर ।

यद्-अङ्गान्तरम् आसाद्य च्यवते ह रिरंसया ॥

श्रीधरः : यस्य तवाङ्गान्तरं वक्ष आसाद्य रिरंसया रन्तुम् इच्छया ह स्फुटं न च्यवते नापयाति । यद् यस्माद् इति वा ॥२०॥

क्रम-सन्दर्भः : मनो दृष्टिश् च न च्यवत इति पूर्वेणैवान्वयः ॥२०॥

विश्वनाथः : यद् यस्मात् अङ्ग, हे राजन्, अन्तरं रहसि अवकाशम् आसाद्य प्राप्य रिरंसया मनश् च्यवते विकृतीभवति ॥२०॥

—ओ)०(ओ—

॥ ९.१४.२१ ॥

एताव् उरणकौ राजन् न्यासौ रक्षस्व मानद ।

संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः ॥

श्रीधरः : शापावसाने भाषा-भङ्ग-मिषेण जिगमिषोस् तस्या भाषा-बन्धम् आह—एताव् इति द्वाभ्याम् । उरणकौ मेषौ न्यासौ निक्षेप-रूपौ रक्षस्व । यः श्लाघ्यः स एव स्त्रीणां वरः स्मृतः । अतो विजातीयत्वं न दोष इति भावः ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : शापावसान-मिषेण स्वर्गं जिगमिषोस् तस्या भाषा-बन्धम् आह—एताव् इति द्वाभ्याम् । उरणकौ मेषौ न्यासौ निक्षेप-रूपौ रक्ष । यः श्लाघ्यः स एव स्त्रीणां वरः स्मृतः । इति विजातीयत्वं स्त्रीणाम् अस्माकं न दोष इति भावः ॥२१॥

—ओ)०(ओ—

॥ ९.१४.२२ ॥

घृतं मे वीर भक्ष्यं स्यान् नेक्षे त्वान्यत्र मैथुनात् ।

विवाससं तत् तथेति प्रतिपेदे महामनाः ॥

श्रीधरः : हे वीर, घृतं मे भक्ष्यं स्यात् । अमृतं वा आज्यम् इति श्रुतेः । देवानां चामृताशित्वात् । मैथुनाद् अन्यत्र विवाससं त्वां नेक्षिष्ये । इति प्रतिपेदेऽङ्गी-कृतवान् ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : घृतं मे भक्ष्यम् इति । अमृतं वा आज्यम् इति श्रुतेः । देवानां चामृताशित्वात् । त्वा त्वाम् । तत् तस्या वचनं तथास्त्व् इति प्रतिपेदे अङ्गीकृतवान् ॥२२॥

—ओ)०(ओ—

॥ ९.१४.२३ ॥

अहो रूपम् अहो भावो नर-लोक-विमोहनम् ।

को न सेवेत मनुजो देवीं त्वां स्वयम् आगताम् ॥

श्रीधरः : तद् एवाह—अहो इति ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भावो भाव-हावादि ॥२३॥

—ओ)०(ओ—

॥ ९.१४.२४ ॥

तया स पुरुष-श्रेष्ठो रमयन्त्या यथार्हतः ।

रेमे सुर-विहारेषु कामं चैत्ररथादिषु ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.२५ ॥

रममाणस् तया देव्या पद्म-किञ्जल्क-गन्धया ।

तन्-मुखामोद-मुषितो मुमुदेऽहर्-गणान् बहून् ॥

श्रीधरः : पद्म-किञ्जल्कस्य गन्ध इव गन्धो यस्यास् तस्या मुखामोदेन पुषितः प्रलोभितः सन् ॥२५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.२६ ॥

अपश्यन्न् उर्वशीम् इन्द्रो गन्धर्वान् समचोदयत् ।

उर्वशी-रहितं मह्यम् आस्थानं नातिशोभते ॥

श्रीधरः : मह्यं मम ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मह्यम् आस्थानं मम सभा ॥२६॥

—ओ)०(ओ—

॥ ९.१४.२७ ॥

ते उपेत्य महा-रात्रे तमसि प्रत्युपस्थिते ।

उर्वश्या उरणौ जह्रुर् न्यस्तौ राजनि जायया ॥

श्रीधरः, विश्वनाथः : महा-रात्रे मध्य-रात्रे । महा-निशा द्वे घटिके रात्रौ मध्यम-यामयोः इति स्मृतेः ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.२८ ॥

निशम्याक्रन्दितं देवी पुत्रयोर् नीयमानयोः ।

हतास्म्य् अहं कुनाथेन नपुंसा वीर-मानिना ॥

श्रीधरः : जिगमिषोस् तस्याः परुषोक्तिम् आह—हतास्मीति सार्धेन । नपुंसा नपुंसकेन ॥२८॥

क्रम-सन्दर्भः : निशम्येति त्रिकम् । देवी आहेति शेषः । यद् वा, निशम्योवाचेति शेषः । यद् वा, देवीत्य् अत्र छान्दसास् तृतीयाया लुक्, तेन देव्या इति वाक् सायकैर् विद्ध इति तृतीयेनान्वयः । यो दिवा दिवसे पुमान् पुंभावज्ञापकोऽपि निशि रात्रौ तु नारीव सन्त्रस्तः केवलं शेते गृहान्तर्द्वारं पिधाय स्वपिति न चेतस्ततो रक्षार्थं भ्रमति चेत्यर्थः ।1॥२८॥

विश्वनाथः : पुत्रयोर् मेषयोः । नपुंसा नपुंसकेन । यत्र विस्रम्भात् वीरोऽयम् इति विश्वासात् ॥२८॥

—ओ)०(ओ—

॥ ९.१४.२९ ॥

यद्-विश्रम्भाद् अहं नष्टा हृतापत्या च दस्युभिः ।

यः शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् ॥

श्रीधरः : यथा नारी तथा सन्त्रस्तः शेते ॥२९॥

क्रम-सन्दर्भः : यो दिवा दिवसे पुमान् पुं-भाव-ज्ञापकोऽपि निशि रात्रौ तु नारीव सन्त्रस्तः केवलं शेते, गृहान्तर्-द्वारं पिधाय स्वपिति, न चेतस्-ततो रक्षार्थं भ्रमति चेत्य् अर्थः ॥२९॥

विश्वनाथः : निशि नारी यथा तथा शेते सन्त्रस्तः । चौरान् मेषावानेतुम् असमर्थः । तस्माद् दिवैव यः पुमान् ॥२९॥

—ओ)०(ओ—

॥ ९.१४.३० ॥

इति वाक्-सायकैर् बिद्धः प्रतोत्त्रैर् इव कुञ्जरः ।

निशि निस्त्रिंशम् आदाय विवस्त्रोऽभ्यद्रवद् रुषा ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निस्त्रिंशम् खड्गम् ॥३०॥

—ओ)०(ओ—

॥ ९.१४.३१ ॥

ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः ।

आदाय मेषाव् आयान्तं नग्नम् ऐक्षत सा पतिम् ॥

श्रीधरः : विद्युतो विशिष्ट-द्युतिमन्तो व्यद्योतन्त दीप्तिम् अकुर्वत । यद् वा, तदैव तडितः प्राकाशन्तेत्य् अर्थः । नग्नम् ऐक्षत । अतो भाषा-भङ्गान् निर्जगमेति ज्ञेयम् ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : विद्युतो विशिष्ट-द्युतिमन्तो वाद्योतन्त दीप्तिम् अकुर्वत । तदैव नग्नम् ऐक्षतेति भाषा-भङ्गान् निर्जगमेति ज्ञेयम् ॥३१॥

—ओ)०(ओ—

॥ ९.१४.३२ ॥

ऐलोऽपि शयने जायाम् अपश्यन् विमना इव ।

तच्-चित्तो विह्वलः शोचन् बभ्रामोन्मत्तवन् महीम् ॥

**श्रीधरः, विश्वनाथः :**न व्याख्यातम्।

क्रम-सन्दर्भः : तच्-चित्तो विक्लव इति पाठे सम्बन्धोक्ति-मतः विक्लवोविह्वलैति व्याख्यानात् ॥३२॥

—ओ)०(ओ—

॥ ९.१४.३३ ॥

स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्-सखीः ।

पञ्च प्रहृष्ट-वदनः प्राह सूक्तं पुरूरवाः ॥

श्रीधरः : तस्याः सखीश् च पञ्च वीक्ष्य । सूक्तं शोभनं वचनम् “हये जाये” इत्य्-आदि ॥३३॥

क्रम-सन्दर्भः : सूक्तं वेद-स्थं यत् सूक्ताख्यं तदीयं वचनं, तदेव प्राह ॥३३॥

**विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.३४ ॥

अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुम् अर्हसि ।

मां त्वम् अद्याप्य् अनिर्वृत्य वचांसि कृणवावहै ॥

श्रीधरः : तद् एवार्थत आह—अहो इति द्वाभ्याम् । अनिर्वृत्य मत्-कृतां निर्वृतिम् अप्राप्य । पाठान्तरे मां निर्वृतिम् अगमयित्व मन्त्रान् अनुक्त्वेति वा । वचांसि कृणवावहै गोष्टीः करवावहै ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अद्यापि अनिर्वृत्य न निर्वृता भूत्वा मद्-दत्तां निर्वृतिम् अप्राप्य माम् त्यक्तुं नार्हसि । अनिर्वत्येति पाठे मां निःशेषेण आवर्तयित्वा अजीवयित्वेत्य् अर्थः । यदि वा त्यक्ष्यसि, तद् अपि क्षणं तावद् वचांसि कृणवावहै गोष्ठीं करवावहै ॥३४॥

—ओ)०(ओ—

॥ ९.१४.३५ ॥

सुदेहोऽयं पतत्य् अत्र देवि दूरं हृतस् त्वया ।

खादन्त्य् एनं वृका गृध्रास् त्वत्-प्रसादस्य नास्पदम् ॥

श्रीधरः : सुदेहोऽतिकमनीयोऽयं मम देहः ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पश्यन्त्यास् तस्या दयाम् उत्पादयति सुदेह इति ॥३५॥

—ओ)०(ओ—

॥ ९.१४.३६ ॥

उर्वश्य् उवाच—

मा मृथाः पुरुषोऽसि त्वं मा स्म त्वाद्युर् वृका इमे ।

क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥

**श्रीधरः :**पुरूरवो मा मृथा इत्य्-आदि तस्याः सूक्तं तद् अप्य् अर्थत आह—मा मृथा इति चतुर्भिः, मा म्रियस्व । पुरुषोऽसि । अतो धैर्यम् आवहेति भावः । इमे वृकाः प्रसिद्धा इन्द्रियाणि वा त्वा इति त्वां मा स्व अद्युर् भक्षयेयुः । इन्द्रिय-वशो मा भवेत्य् अर्थः ।

क्रम-सन्दर्भः : कुतः ? इति तत्राह—वृकाणां हृदयं यथा तथैव स्त्रीणाम् इत्य् अर्थः ॥३६॥

विश्वनाथः : मा मृथाः न म्रियस्व पुरुषोऽसीति नपुंसक-लक्षणम् अधैर्यं त्यजेति भावः । इमे वृका इति । वृकाः खलु न वृकाः किन्त्व् इन्द्रियाण्य् एव वृका दुर्वारास् त्वां मा स्म अद्युः भक्षयेयुः अजितेन्द्रियो मा भूर् इत्य् अर्थः ॥३६॥

—ओ)०(ओ—

॥ ९.१४.३७ ॥

स्त्रियो ह्य् अकरुणाः क्रूरा दुर्मर्षाः प्रिय-साहसाः ।

घ्नन्त्य् अल्पार्थेऽपि विश्रब्धं पतिं भ्रातरम् अप्य् उत ॥

श्रीधरः : प्रिये निमित्ते साहसं यासाम् ॥३७॥

क्रम-सन्दर्भः : स्त्रिय इति युग्मकम् । प्रिये निजाभिरुचिते साहसं यासां ताः ।*।*३७॥

विश्वनाथः : यत्र त्वं विस्रभ्य दुर्लभं मानुष्यं विफलयसि, तासाम् अस्माकं स्त्री-जातीनां स्वभावं शृणु, इत्य् आह—स्त्रिय इति द्वाभ्याम् । दुर्मर्षा अपराधासहिष्णवः प्रियथार्थम् अधर्मादाव् अपि साहसं यासां ताः ॥३७॥

—ओ)०(ओ—

॥ ९.१४.३८ ॥

विधायालीक-विश्रम्भम् अज्ञेषु त्यक्त-सौहृदाः ।

नवं नवम् अभीप्सन्त्यः पुंश्चल्यः स्वैर-वृत्तयः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.३९ ॥

संवत्सरान्ते हि भवान् एक-रात्रं मयेश्वरः ।

रंस्यत्य् अपत्यानि च ते भविष्यन्त्य् अपराणि भोः ॥

श्रीधरः : तं सान्त्वयति—संवत्सरान्त इति ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रबोधयितुम् अशक्यं पुनः सान्त्वयति—संवत्सरान्ते इति ॥३९॥

—ओ)०(ओ—

॥ ९.१४.४० ॥

अन्तर्वत्नीम् उपालक्ष्य देवीं स प्रययौ पुरीम् ।

पुनस् तत्र गतोऽब्दान्ते उर्वशीं वीर-मातरम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.४१ ॥

उपलभ्य मुदा युक्तः समुवास तया निशाम् ।

अथैनम् उर्वशी प्राह कृपणं विरहातुरम् ॥

श्रीधरः : अपराणीति वचनाद् अन्तर्वत्नीम् उपालक्ष्य ज्ञात्वा ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अन्तर्वत्नीम् उपालक्ष्येति तस्या अपराणीति वचनात् ॥४१॥

—ओ)०(ओ—

॥ ९.१४.४२ ॥

गन्धर्वान् उपधावेमांस् तुभ्यं दास्यन्ति माम् इति ।

तस्य संस्तुवतस् तुष्टा अग्नि-स्थालीं ददुर् नृप ।

उर्वशीं मन्यमानस् तां सोऽबुध्यत चरन् वने ॥

श्रीधरः : अनेनाग्निना कर्म कृत्वा तद्-वशाद् उर्वशीं प्राप्स्यतीत्य् अभिप्रायेणाग्नि-स्थालीं ददुः । स तु तां स्थालीम् एवोर्वशीं मन्यमानस् तया सहितो वने विचरन्न् एयम् उर्वशी किन्त्व् अग्नि-स्थालीत्य् अबुध्यत ॥४२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्य तस्मिन् गन्धर्वान् स्तुवति सति तुष्टा गन्धर्वा अनेनाग्निना कर्म कृत्वा तद्-वशाद् उर्वशीं प्राप्स्यसीत्य् अभिप्रायेणाग्नि-स्थालीं ददुः । स तु उर्वश्याम् अत्यावेशात् कामान्धस् तां स्थालीम् एवोर्वशीं मन्यमानस् तया सहितो वने विचरन् सङ्ग-समये नेयम् उर्वशी किन्त्व् अग्नि-स्थालीत्य् अबुध्यत ॥४२॥

—ओ)०(ओ—

॥ ९.१४.४३ ॥

स्थालीं न्यस्य वने गत्वा गृहान् आध्यायतो निशि ।

त्रेतायां सम्प्रवृत्तायां मनसि त्रय्य् अवर्तत ॥

श्रीधरः : ततश् च तां स्थालीं वने स्थापयित्वा गृहान् गत्वा निशि नित्यं ताम् एवाध्यायतस् तस्य मनसि त्रेतायां त्रयी अवर्तत कर्म-बोधकं वेद-त्रयं प्रादुरभूत् ॥४३॥

क्रम-सन्दर्भः : स्थाल्याम् उर्वशी-मननं तत्-प्राप्त्या तत्-प्राप्तिर् एव जातेति मननावेशात् बोधश् चातिपरिचये सतीति ज्ञेयम् ॥४३॥

विश्वनाथः : निशि आ सम्यक् ताम् उर्वशीम् ध्यायतस् तस्य त्रेतारम्भ त्रयी अवर्तत कर्म-बोधकं वेद-त्रयं प्रादुरभूद् इति कामिन एव कर्म कार्यम् इत्य् अभिव्यञ्जितम् ॥४३॥

—ओ)०(ओ—

॥ ९.१४.४४ ॥

स्थाली-स्थानं गतोऽश्वत्थं शमी-गर्भं विलक्ष्य सः ।

तेन द्वे अरणी कृत्वा उर्वशी-लोक-काम्यया ॥

श्रीधरः : ततः स्थाली-स्थानं गतः सन् शम्या गर्भे जातम् अश्वत्थं विलक्ष्य अस्मिन्न् असाव् अग्निर् अस्तीति विशेषेण लक्षयित्वा तेनाश्वत्थेन द्वे अरणी कृत्वाऽग्निं ममन्थेति शेषः । शमी-गर्भाद् अग्निं ममन्थ इति श्रुतिः ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ततश् च स्थाली यत्र न्यस्ता, तत्-स्थानं गतः सन् छोकर इति ख्याते । शम्या गर्भे जातम् अश्वत्थं विलक्ष्य तेनैवाश्वत्थेन द्वे अरणी कृत्वाऽग्निं ममन्थेति शेषः । शमी-गर्भाद् अग्निं ममन्थ इति श्रुतिः ॥४४॥

—ओ)०(ओ—

॥ ९.१४.४५ ॥

उर्वशीं मन्त्रतो ध्यायन्न् अधरारणिम् उत्तराम् ।

आत्मानम् उभयोर् मध्ये यत् तत् प्रजननं प्रभुः ॥

श्रीधरः, विश्वनाथः : मन्थन-प्रकारम् आह—अधरारणिम् उर्वशीं ध्यायन्न् उत्तरारणिम् आत्मानं ध्यायन्न् उभयोर् मध्ये यत् काष्ठं तत् प्रजननं पुत्रं ध्यायन् । तथा च मन्त्रः—उर्वश्य् अस्यायुर् असि पुरूरवाः इति ॥४५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१४.४६ ॥

तस्य निर्मन्थनाज् जातो जात-वेदा विभावसुः ।

त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस् त्रि-वृत् ॥

श्रीधरः : तस्य तेन कृतान् निर्मन्थनाद् विभावसुर् अग्निर् जातः । कथं-भूतः ? जातं वेदो धनं भोग्यं यस्मात् । स च त्रय्या विद्यया विहितेनाधान-संस्कारेण त्रि-वृदाहवनीयादि-रूपः, सन् राज्ञा पूरूरवसा पुत्रत्वे कल्पितः, पुण्य-लोक-प्रापकत्वात् ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्य तत्-कर्तृकान् निर्मथनाद् विभावसुर् अग्निर् जातः । जातं वेदो धनं भोग्यं यस्मात् । स च त्रय्या विद्यया संस्कृतो राज्ञा पुत्रत्वेन कल्पितः, पुण्य-लोक-प्रापकत्वात् । त्रिवृत् आह्वनीयादि-रूपम् ॥४६॥

—ओ)०(ओ—

॥ ९.१४.४७ ॥

तेनायजत यज्ञेशं भगवन्तम् अधोक्षजम् ।

उर्वशी-लोकम् अन्विच्छन् सर्व-देवमयं हरिम् ॥

श्रीधरः : तद् आह—तेनेति ॥४७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तेनाग्निना ॥४७॥

—ओ)०(ओ—

॥ ९.१४.४८ ॥

एक एव पुरा वेदः प्रणवः सर्व-वाङ्मयः ।

देवो नारायणो नान्य एकोऽग्निर् वर्ण एव च ॥

श्रीधरः : नन्व् अनादिर् वेद-त्रय-बोधितो ब्राह्मणादीनाम् इन्द्राद्य्-अनेक-देव-यजनेन स्वर्ग-प्राप्ति-हेतुः कर्म-मार्गः कथं सादिर् इव वर्ण्यते तत्राह—एक एवेति द्वाभ्याम् । पुरा कृत-युगे सर्व-वाङ्-मयः सर्वासां वाचां बीज-भूतः प्रणव एक एव वेदः । देवश् च नारायण एक एव । अग्निश् चैक एव लौकिकः । वर्णश् चैक एव हंसो नाम ॥४८॥

क्रम-सन्दर्भः : पुरा ब्राह्म-कल्पस्य प्रथम-सत्य-युग इत्य् एवार्थः । स्वायम्भुवम् आरभ्य वेदादि-वर्णानां भेद-व्यवहार-श्रवणात् ॥४८॥

विश्वनाथः : ननु वेद-त्रय-बोधितः कर्म-मार्गः प्राङ् नासीत्, सत्यं प्रकटो नासीद् एवेत्य् आह—एक एवेति द्वाभ्याम् । पुरा कृत-युगे सर्व-वाङ्-मयः सर्वासां वाचां बीज-भूतः प्रणव एक एव वेदः । देवश् च नारायण एक एव । अग्निश् चैक एव लौकिकः । वर्णश् चैक एव हंसो नाम, यतः कृत-युगे सत्त्व-प्रधाना प्रायशः सर्वेऽपि ध्यान-निष्ठा एवेति ॥४८॥

—ओ)०(ओ—

॥ ९.१४.४९ ॥

पुरूरवस एवासीत् त्रयी त्रेता-मुखे नृप ।

अग्निना प्रजया राजा लोकं गान्धर्वम् एयिवान् ॥

श्रीधरः : वेद-त्रयी तु पुरूरवसः सकाशाद् आसीत् । एयिवान् प्राप । अयं भावः—कृत-युगे सत्त्व-प्रधानाः प्रायशः सर्वेऽपि ध्यान-निष्ठाः । रजः-प्रधाने तु त्रेता-युगे वेदादि-विभागेन कर्म-मार्गः प्रकटो बभूवेति ॥४९॥

क्रम-सन्दर्भः : पुरूरवस एवेति तु तद्-यज्ञारम्भस्य तत्र त्रेता-मुखे तस्माद् एव तत्-तत्-प्रवर्तनं तद्वत् पूर्व-पूर्वम् अन्यतोऽन्यत इत्य् अभिप्रायात् । अत एव पुरुषाद् वर्ण-चतुष्टयोत्पत्तिश् च किञ्चित् किञ्चित् काल-व्यवधानतो ज्ञेया ॥४९॥

विश्वनाथः : त्रेतारम्भे पुरूरवसः सकाशाद् एव कर्म-मार्ग-प्रादुर्भावः । एवं स्वायम्भुव-मन्वन्तरादाव् अपि । बहु-चतुर्युग-व्यापक-राजत्ववद्भ्यः प्रियव्रतादिभ्य एव । तत्र तत्र त्रेतारम्भे कर्म-प्रादुर्भाव इत्य् अपि ज्ञेयम् ॥४९॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्दशोऽयं नवमे सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे

ऐलोपाख्यानं नाम

चतुर्दशोऽध्यायः ।

॥ ९.१४ ॥

(९.१५)

पञ्चदशोऽध्यायः


  1. यद् वा\॥। इत्य् आदि पुरिदास-संस्करणे नास्ति। ↩︎