१३ सूर्य-वंशानुकीर्तनम्

॥ ९.१३.१ ॥

श्री-शुक उवाच—

निमिर् इक्ष्वाकु-तनयो वसिष्ठम् अवृतर्त्विजम् ।

आरभ्य सत्रं सोऽप्य् आह शक्रेण प्राग् वृतोऽस्मि भोः ॥

श्रीधरः :

इक्ष्वाकोर् एव पुत्रस्य निमेर् वंशस् त्रयोदशे ।

वर्ण्यते जज्ञिरे यत्र ब्रह्म-ज्ञा जनकादयः ॥

निमेर् औरसः पुत्रो नाभूद् इति दर्शयन् कथाम् आह**—**निमिर् इत्य् एकादशभिः । सत्रम् आरभ्य वसिष्ठम् ऋत्विजम् अवृत वव्रे ॥१॥

क्रम-सन्दर्भः : अथ त्रयोदशे निमिः प्राहेति योग-बलेन लिङ्ग-शरीरम् अवलम्ब्यैवेति ज्नेयम् ॥१॥

विश्वनाथः :

निमेर् इक्ष्वाकु-पुत्रस्य वंशम् उक्त्वा त्रयोदशे ।

समार्पितः सूर्य-वंशो विष्णु-वैष्णव-सङ्कथ ॥

—ओ)०(ओ—

॥ ९.१३.२ ॥

तं निर्वर्त्यागमिष्यामि तावन् मां प्रतिपालय ।

तूष्णीम् आसीद् गृह-पतिः सोऽपीन्द्रस्याकरोन् मखम् ॥

श्रीधरः : तं शक्रस्य मखं निर्वर्त्य । प्रतिपालय प्रतीक्षस्वेति गृह-पतिर् निमिः ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रतिपालय प्रतीक्षस्वेति गृह-पतिर् निमिः ॥२॥

—ओ)०(ओ—

॥ ९.१३.३ ॥

निमित्तश् चलम् इदं विद्वान् सत्रम् आरभताम् आत्मवान् ।

ऋत्विग्भिर् अपरैस् तावन् नागमद् यावता गुरुः ॥

श्रीधरः : इदं जीवितं चलम् अस्थिरं विद्वान् ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : इदं जीवितं चलम् अस्थिरं विद्वान् यत आत्मवान् सुबुद्धिः ॥३॥

—ओ)०(ओ—

॥ ९.१३.४ ॥

शिष्य-व्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरुः ।

अशपत् पतताद् देहो निमेः पण्डित-मानिनः ॥

श्रीधरः : इन्द्रस्य मखं निर्वर्त्यागतो गुरुः शिष्यस्य व्यतिक्रमम् अन्यायं वीक्ष्य निमेर् देहः पतत्व् इत्य् अशपत् ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निर्वर्त्य शक्रस्य मखं निष्पाद्य आगतः शिष्यस्य निमेर् व्यतिक्रमम् स्वस्यानपेक्षाम् ॥४॥

—ओ)०(ओ—

॥ ९.१३.५ ॥

निमिः प्रतिददौ शापं गुरवेऽधर्म-वर्तिने ।

तवापि पतताद् देहो लोभाद् धर्मम् अजानतः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अधर्म-वर्तिने लोभात् इन्द्रतो मत्तोऽपि दक्षिणाकाङ्क्षा-रूपात् ॥५॥

—ओ)०(ओ—

॥ ९.१३.६ ॥

इत्य् उत्ससर्ज स्वं देहं निमिर् अध्यात्म-कोविदः ।

मित्रा-वरुणयोर् जज्ञे उर्वश्यां प्रपितामहः ॥

श्रीधरः : उर्वशी-दर्शनात् स्कन्नं रेतस् ताभ्यां कुम्भे निषिक्तं तस्मात् प्रपितामहो वसिष्ठो जज्ञे । तद् आह—मित्रा-वरुणयोर् इति । तथा च श्रुतिः—कुम्भे रेतः सिषिचतुः समानम्[ऋ।वे। ७.३३.२४] इति ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रपितामहो वशिष्ठः देहं त्यक्त्वा, मित्रावरुणयोर् जज्ञे इति ऊर्वशी-दर्शनतस् तदीय-रेतसः कुम्भ-निहिताद् इत्य् अर्थः । तथा च श्रुतिः—कुम्भे रेतः सिषिचतुः समानम्[ऋ।वे। ७.३३.२४] इति ॥६॥

—ओ)०(ओ—

॥ ९.१३.७ ॥

गन्ध-वस्तुषु तद्-देहं निधाय मुनि-सत्तमाः ।

समाप्ते सत्र-यागे च देवान् ऊचुः समागतान् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तद्-देहं निमि-शरीरम् ॥७॥

—ओ)०(ओ—

॥ ९.१३.८ ॥

राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि ।

तथेत्य् उक्ते निमिः प्राह मा भून् मे देह-बन्धनम् ॥

श्रीधरः : यदि प्रसन्नाः प्रभवः समर्थाश् चेत्, तर्हि जीवत्व् इत्य् ऊचुः ॥८॥

क्रम-सन्दर्भः : निमिः प्राहेति । योग-बलेन लिङ्ग-शरीरम् अवलम्ब्यैवेति ज्ञेयम् ॥८॥

विश्वनाथः : यदि प्रसन्नाः प्रभवः समर्थाश् च, तर्हि जीवत्व् इत्य् ऊचुः । तथेति देवैर् उक्ते सति ॥८॥

—ओ)०(ओ—

॥ ९.१३.९-१० ॥

यस्य योगं न वाञ्छन्ति वियोग-भय-कातराः ।

भजन्ति चरणाम्भोजं मुनयो हरि-मेधसः ॥

देहं नावरुरुत्सेऽहं दुःख-शोक-भयावहम् ।

सर्वत्रास्य यतो मृत्युर् मत्स्यानाम् उदके यथा ॥

श्रीधरः : यस्य देहस्य योगं न वाञ्छन्ति, अपि तु मोक्षायैव भजन्ति ॥९॥

क्रम-सन्दर्भः : अस्य वियोगो भविष्यतीति भयेन कातरा विक्लवात्मानः सन्तो यस्य योग-मात्रं, किम् उत तत्-सम्बन्धिना जन्मना1 नाना-जातीय-सुखं न वाञ्छन्ति, किन्तु भजन्ति केवलम् । ननु, चरणाम्भोजं भजन्तीति सेवा सुखेच्छा दर्शिता । सेवा च देहं विना न सम्भवति, तर्हि कथं तद् उपयुक्तं देहम् अपि न वाञ्छन्ति ? नेत्य् आह—देहम् इति । दुःखावहम् एव न कामये तदीय-परम-सेवोपयुक्त-देहस् तु पार्षद-रूप एव । स च नित्य-सुखात्मक एवेति भावः । आश्रयाद् इति पाठेऽपि स एवार्थः ॥९-१०॥

विश्वनाथः : भजन्तीति देहाभावे चरणाम्भोज-भजनासम्भवान् मम भगवत्-पार्षद-देहोऽस्त्व् इति प्रार्था-रूपो गूढो ध्वनिः ॥९॥ नावरुरुत्से न धर्तुम् इच्छामि । उदके उदकेऽपि । उदके जल-चराद् अन्यस्मात् अन्यत्र स्थले स्वभावाच् च मृत्युर् इत्य् अर्थः ॥१०॥

—ओ)०(ओ—

॥ ९.१३.११ ॥

देवा ऊचुः—

विदेह उष्यतां कामं लोचनेषु शरीरिणाम् ।

उन्मेषण-निमेषाभ्यां लक्षितोऽध्यात्म-संस्थितः ॥

श्रीधरः : निमिर् विदेह एव सन्न् उष्यतां वसतु । कामं यथेच्छम् । एवं सति युष्माभिः प्रार्थितं जीवितम् अस्य भविष्यति न च देह-बन्ध इति भावः । स चाध्यात्म-संस्थितो लोचनयोः स्थितः सन्न् उन्मेषण-निमेषाभ्यां तत् प्रवर्तकत्वेन लक्षितो वर्तत इति शेषः ॥११॥

क्रम-सन्दर्भः : देवा ऊचुर् इति । देवास् तु यत् किञ्चिद् एव समादधत् ऊचुर् इत्य् अमर-कोषात् । राज्ञो जीवतु देहोऽयम् इति मुन्य्-अर्थितस्य राज्ञा तन्-निषेधस्य च करणे सङ्कटत्वापातात् तदीय-परमाभीष्टस्य च दातुं शक्यत्वाद् इति भावः ॥११॥

विश्वनाथः : देवा ऊचुर् इति । देहो जीवत्व् इति मुनीनां प्रार्थितं न जीवत्व् इति राज्ञः पार्षद-देहो भवत्व् इति तृतीय-प्रार्थितस्य दातुम् अशक्यत्वाद् उभयम् एव दित्सन्त ऊचुर् इत्य् अर्थः । निमिर् विदेह एव उष्यतां वसतु, लक्षितो ज्ञातः सन् लोचनेषु अध्यात्म-संस्थित इत्य् आभ्याम् जीवितं देह-बन्धाभावश् चेत्य् उभय-प्रार्थितं सेत्स्यतीति भावः ॥११॥

—ओ)०(ओ—

॥ ९.१३.१२ ॥

अराजक-भयं नॄणां मन्यमाना महर्षयः ।

देहं ममन्थुः स्म निमेः कुमारः समजायत ॥

श्रीधरः : तद् एव मृताद् अपि निमेर् देहाद् वंश-प्रवृत्तिं दर्शयति—अराजक-भयम् इति ॥१२॥

क्रम-सन्दर्भः : अराजक इति । ततः स्व-वाक्यं चाव्यर्थं ते चक्रुर् इति भावः ॥१२॥

**विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१३.१३ ॥

जन्मना जनकः सोऽभूद् वैदेहस् तु विदेहजः ।

मिथिलो मथनाज् जातो मिथिला येन निर्मिता ॥

श्रीधरः : तस्यान्वर्थानि त्रीणि नामान्य् आह—जन्मनासाधारणेन । जन एव जनकः । यद् वा, स्व-देह-द्वारा जनकत्वात् स निमिर् जनकोऽभूद् इत्य् अर्थः । मिथिला येन निर्मिता इत्य् अनेन व्युत्पत्त्य् अन्तरम् अर्थाद् उक्तम् ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : जन्मना असाधारणेन जायत इति जनकः ॥१३॥

—ओ)०(ओ—

॥ ९.१३.१४ ॥

तस्माद् उदावसुस् तस्य पुत्रोऽभून् नन्दिवर्धनः ।

ततः सुकेतुस् तस्यापि देवरातो महीपते ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१३.१५ ॥

तस्माद् बृहद्रथस् तस्य महावीर्यः सुधृत्-पिता ।

सुधृतेर् धृष्टकेतुर् वै हर्यश्वोऽथ मरुस् ततः ॥

श्रीधरः : सुधृत् सुधृतिस् तस्य पिता ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सुधृतेः पिता सुधृत्-पिता ॥१५॥

—ओ)०(ओ—

॥ ९.१३.१६-१७ ॥

मरोः प्रतीपकस् तस्माज् जातः कृतरथो यतः ।

देवमीढस् तस्य पुत्रो विश्रुतोऽथ महाधृतिः ॥

कृतिरातस् ततस् तस्मान् महारोमा च तत्-सुतः ।

स्वर्णरोमा सुतस् तस्य ह्रस्वरोमा व्यजायत ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१३.१८ ॥

ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् ।

सीता शीराग्रतो जाता तस्मात् शीरध्वजः स्मृतः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कर्षतो यस्य सीता राम-पत्नी शीराग्रतो लाङ्गलाग्रतो जाता तस्माद् एव हेतोः शीर एव ध्वजः कीर्ति-व्यञ्जको यस्य सः ॥१८॥

—ओ)०(ओ—

॥ ९.१३.१९ ॥

कुशध्वजस् तस्य पुत्रस् ततो धर्मध्वजो नृपः ।

धर्मध्वजस्य द्वौ पुत्रौ कृतध्वज-मितध्वजौ ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१३.२०-२१ ॥

कृतध्वजात् केशिध्वजः खाण्डिक्यस् तु मितध्वजात् ।

कृतध्वज-सुतो राजन्न् आत्म-विद्या-विशारदः ॥

खाण्डिक्यः कर्म-तत्त्व-ज्ञो भीतः केशिध्वजाद् द्रुतः ।

भानुमांस् तस्य पुत्रोऽभूच् छतद्युम्नस् तु तत्-सुतः ॥

श्रीधरः : तस्य केशिध्वजस्य भानुमान् ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : द्रुतः पलायितः । तस्य केशिध्वजस्य भानुमान् । तत् तस्य ॥२१॥

—ओ)०(ओ—

॥ ९.१३.२२-२३ ॥

शुचिस् तु तनयस् तस्मात् सनद्वाजः सुतोऽभवत् ।

ऊर्जकेतुः सनद्वाजाद् अजोऽथ पुरुजित् सुतः ॥

अरिष्टनेमिस् तस्यापि श्रुतायुस् तत् सुपार्श्वकः ।

ततश् चित्ररथो यस्य क्षेमाधिर् मिथिलाधिपः ॥

श्रीधरः : तत् तस्मात् सुपार्श्वकः ॥२२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१३.२४ ॥

तस्मात् समरथस् तस्य सुतः सत्यरथस् ततः ।

आसीद् उपगुरुस् तस्माद् उपगुप्तोऽग्नि-सम्भवः ॥

श्रीधरः : अग्नि-संभवोऽग्नेर् अंशात् संभूतः ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अग्नि-संभवोऽग्न्य्-अंश-संभूतः ॥२४॥

—ओ)०(ओ—

॥ ९.१३.२५ ॥

वस्वनन्तोऽथ तत्-पुत्रो युयुधो यत् सुभाषणः ।

श्रुतस् ततो जयस् तस्माद् विजयोऽस्माद् ऋतः सुतः ॥

श्रीधरः : यद् यस्मात् सुभाषणः ॥२५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१३.२६ ॥

शुनकस् तत्-सुतो जज्ञे वीतहव्यो धृतिस् ततः ।

बहुलाश्वो धृतेस् तस्य कृतिर् अस्य महावशी ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१३.२७ ॥

एते वै मैथिला राजन्न् आत्म-विद्या-विशारदाः ।

योगेश्वर-प्रसादेन द्वन्द्वैर् मुक्ता गृहेष्व् अपि ॥

श्रीधरः : योगेश्वरा याज्ञवल्क्यादयस् तेषां प्रसादेन ॥२७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रयोदशोऽयं नवमे सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे

सूर्य-वंशानुकीर्तनं नाम

त्रयोदशोऽध्यायः ।

॥ ९.१३ ॥

(९.१४)


  1. तत्-सम्बन्धि-नाना-जन्मना (ङ) ↩︎