॥ ९.१२.१ ॥
श्री-शुक उवाच—
कुशस्य चातिथिस् तस्मान् निषधस् तत्-सुतो नभः ।
पुण्डरीकोऽथ तत्-पुत्रः क्षेमधन्वाभवत् ततः ॥
श्रीधरः :
द्वादशे राम-पुत्रस्य कुशस्यान्वय उच्यते ।
एवम् इक्ष्वाकु-पुत्रस्य शशादस्येरितोऽन्वयः ॥
कुशस्य राम-पुत्रस्यातिथिः सुतोऽभवत् ।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
द्वादशे कुश-वंशस्य सुमित्रान्तस्य कीर्तनम् ।
समाप्तश् चेक्ष्वाकु-सूनोर् विकुक्षेर् अयम् अन्वयः ॥१॥
—ओ)०(ओ—
॥ ९.१२.२ ॥
देवानीकस् ततोऽनीहः पारियात्रोऽथ तत्-सुतः ।
ततो बलस्थलस् तस्माद् वज्रनाभोऽर्क-सम्भवः ॥
श्रीधरः : अर्क-संभवोऽर्कस्यांशात् संभूतः ।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अर्क-सम्भवः अर्कस्यांशात् सम्भूतः ॥२॥
—ओ)०(ओ—
॥ ९.१२.३-४ ॥
सगणस् तत्-सुतस् तस्माद् विधृतिश् चाभवत् सुतः ।
ततो हिरण्यनाभोऽभूद् योगाचार्यस् तु जैमिनेः ॥
शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः ।
योगं महोदयम् ऋषिर् हृदय-ग्रन्थि-भेदकम् ॥
श्रीधरः : ततो विधृतेर् हिरण्य-नाभः । कथं-भूतः, जैमिनेः शिष्यो योगाचार्यः ॥३॥
तद् आह—यतः सकाशात् कौशल्यो याज्ञवल्क्य-ऋषिर् आध्यात्मं योगम् अध्यगात् । महान्त उदया सिद्धयो यस्मिंस् तम् । हृदय-ग्रन्थेर् भेदकं च ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : हिरण्यनाभस् तु जैमिनेः शिष्यः सन् योगाश्चार्योऽभूद् इत्य् अन्वयः । यतो हिरण्यनाभात् । कौशल्यो याज्ञवल्क्य ऋषिः आध्यात्मं योगम् अध्यगात् ॥३-४॥
—ओ)०(ओ—
॥ ९.१२.५ ॥
पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस् ततोऽभवत् ।
सुदर्शनोऽथाग्निवर्णः शीघ्रस् तस्य मरुः सुतः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१२.६ ॥
सोऽसाव् आस्ते योग-सिद्धः कलाप-ग्रामम् आस्थितः ।
कलेर् अन्ते सूर्य-वंशं नष्टं भावयिता पुनः ॥
श्रीधरः : मरुं विशिनष्टि—योऽसाव् इति । पुनर् भावयिता भावयिष्यति ।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यो मरुः प्रसू-श्रुतं पुत्रम् उत्पाद्य कलाप-ग्रामम् आश्रितोऽद्याप्य् आस्ते । भावयिता पुनः पुत्रम् उत्पाद्य प्रवर्तयिष्यते इत्य् अर्थः ॥६॥
—ओ)०(ओ—
॥ ९.१२.७ ॥
तस्मात् प्रसुश्रुतस् तस्य सन्धिस् तस्याप्य् अमर्षणः ।
महस्वांस् तत्-सुतस् तस्माद् विश्वबाहुर् अजायत ॥
**श्रीधरः, क्रम-सन्दर्भः :**न व्याख्यातम्।
विश्वनाथः : तस्मान् मरोः ॥७॥
—ओ)०(ओ—
॥ ९.१२.८ ॥
ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः ।
ततो बृहद्बलो यस् तु पित्रा ते समरे हतः ॥
श्रीधरः, विश्वनाथः : पित्राऽभिमन्युना ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१२.९-१२ ॥
एते हीक्ष्वाकु-भूपाला अतीताः शृण्व् अनागतान् ।
बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः ॥
ऊरुक्रियः सुतस् तस्य वत्सवृद्धो भविष्यति ।
प्रतिव्योमस् ततो भानुर् दिवाको वाहिनी-पतिः ॥
सहदेवस् ततो वीरो बृहदश्वोऽथ भानुमान् ।
प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्-सुतः ॥
भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः ।
तस्यान्तरिक्षस् तत्-पुत्रः सुतपास् तद् अमित्रजित् ॥
श्रीधरः : तत् तस्माद् अमित्रजित् ॥१२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१२.१३-१४ ॥
बृहद्राजस् तु तस्यापि बर्हिस् तस्मात् कृतञ्जयः ।
रणञ्जयस् तस्य सुतः सञ्जयो भविता ततः ॥
तस्माच् छाक्योऽथ शुद्धोदो लाङ्गलस् तत्-सुतः स्मृतः ।
ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१२.१५ ॥
रणको भविता तस्मात् सुरथस् तनयस् ततः ।
सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः ॥
श्रीधरः : निष्ठा वंशस्य स्थितिस् तस्या अन्तः ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : नाम-निष्ठयोर् वाचक-वाच्ययोर् अन्तो नाशो यस्मात् सः । तस्माद् अन्यो न भविष्यतीत्य् अर्थः । यद् वा, नाम्नैव, न तु कयाचन कीर्त्या नितरां तिष्ठन्तीति नाम-निष्ठा बृहद्-बल-सुतादयस् तेषाम् अपि अन्तः-प्रवाहः समाप्तिर् यस्मात् सः ॥१५॥
—ओ)०(ओ—
॥ ९.१२.१६ ॥
इक्ष्वाकूणाम् अयं वंशः सुमित्रान्तो भविष्यति ।
यतस् तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥
श्रीधरः : तद् एवाह—इक्ष्वाकूणाम् इति ॥१६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
नवमे द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
राम-वंशानुचरितं नाम
द्वादशोऽध्यायः ।
॥ ९.१२ ॥
—ओ)०(ओ—
(९.१३)