११ श्री-रामचन्द्र-चरितम्

॥ ९.११.१ ॥

श्री-शुक उवाच—

भगवान् आत्मनात्मानं राम उत्तम-कल्पकैः ।

सर्व-देवमयं देवम् ईजेऽथाचार्यवान् मखैः ॥

श्रीधरः :

ततश् चैकादशेऽयोध्याम् आवसन्न् अनुजैः सह ।

यज्ञादि यच् चकारेशो रामस् तद् अनुवर्ण्यते ॥१॥

अस्मिन् अध्याये मध्व-कृत-भागवत-तात्पर्यस्य चैतन्य-मत-मञ्जुषायाश् च न कापि व्याख्या।

क्रम-सन्दर्भः : भगवान् आत्मनात्मानम् ईज इति लोक-सङ्ग्रहार्थम् इत्य् अर्थः ॥१॥

विश्वनाथः :

मखांश् चकार तत्याज सीतां सा विवरं गता ।

भ्रातॄन् दिग्-विजयेऽयुङ्क्त राम एकादशे विभुः ॥

आत्मनात्मानम् इति यज्ञ-साधनस्य यजनीयस्य च स्वभिन्नत्वाभावात् ॥१॥

—ओ)०(ओ—

॥ ९.११.२ ॥

होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः ।

अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.११.३ ॥

आचार्याय ददौ शेषां यावती भूस् तद्-अन्तरा ।

मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः ॥

श्रीधरः : तद्-अन्तरा तासां दिशां मध्ये यावती भूस् तां ब्राह्मण एवार्हतीति मन्यमानः ॥३॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : तद्-अन्तरा तासां दिशां मध्ये यावती भूस् तां शेष-भूतां ब्राह्मण-जातिम् एव यद्-दान-पात्रीकरोति । तत्र हेतुः—इदं कृत्स्नम् एव भू-तलं ब्राह्मण एवार्हतीति यतो निःस्पृह इति मन्यमानः ॥३॥

—ओ)०(ओ—

॥ ९.११.४ ॥

इत्य् अयं तद्-अलङ्कार-वासोभ्याम् अवशेषितः ।

तथा राज्ञ्य् अपि वैदेही सौमङ्गल्यावशेषिता ॥

श्रीधरः : अयं श्री-रामः । तत् तदा । सौमङ्गल्यम् आभरणादिकं तावन् मात्रम् अवशेषितं यस्याः । तद् व्यतिरिक्तं हिरण्यादि सर्वं ददाव् इत्य् अर्थः ॥४॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : तद् अलङ्करोति देहस्थालङ्कार-वस्त्र-व्यतिरिक्तानांअन्येषाम् अलङ्कारादीनाम् अपि दत्तत्वात् । सीता तु देहाद् अप्य् उत्तार्यालङ्कारादिकं ददाव् इत्य् आह—सौमङ्गल्यं नासाभरण-चूडादि-मात्रम् अवशेषितं यस्याः सा ॥४॥

—ओ)०(ओ—

॥ ९.११.५ ॥

ते तु ब्राह्मण-देवस्य वात्सल्यं वीक्ष्य संस्तुतम् ।

प्रीताः क्लिन्न-धियस् तस्मै प्रत्यर्प्येदं बभाषिरे ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.११.६ ॥

अप्रत्तं नस् त्वया किं नु भगवन् भुवनेश्वर ।

यन् नोऽन्तर्-हृदयं विश्य तमो हंसि स्व-रोचिषा ॥

श्रीधरः : किम् अप्रत्तं किम् अदत्तम् । सर्वं दत्तम् इत्य् अर्थः । विश्य प्रविश्य ॥६॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : किम् अप्रत्तम् ? अपि तु सर्वम् एव प्रदत्तम्, यद् यस्माद् विश्य ततोऽनेन पृथ्वीराज्येनालम् इति भावः ॥६॥

—ओ)०(ओ—

॥ ९.११.७ ॥

नमो ब्रह्मण्य-देवाय रामायाकुण्ठ-मेधसे ।

उत्तमश्लोक-धुर्याय न्यस्त-दण्डार्पिताङ्घ्रये ॥

श्रीधरः : न्यस्त-दण्डैर् मुनिभिर् अर्पितौ चित्ते न्यस्ताव् अङ्घ्री यस्य तस्मै । तेष्व् अर्पितावङ्घ्री येनेति वा ॥७॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : न्यस्त-दण्डेभ्यो निर्वैर-भक्तेभ्योऽर्पिताव् अङ्घ्री येन तस्मै ॥७॥

—ओ)०(ओ—

॥ ९.११.८ ॥

कदाचिल् लोक-जिज्ञासुर् गूढो रात्र्याम् अलक्षितः ।

चरन् वाचोऽशृणोद् रामो भार्याम् उद्दिश्य कस्यचित् ॥

श्रीधरः, विश्वनाथः : +

क्रम-सन्दर्भः : अथ वैराग्य-लीला-व्यञ्जकं मर्त्य-लोक-परित्याग-लीलारम्भं कर्तुं लक्ष्यम् आह—कदाचिद् इति । कस्यचिद् इति कस्यचित् कुतश्चिद् अकस्माद् आगतस्य तत्र वसतोऽसुर-सत्त्वस्य ॥८॥

—ओ)०(ओ—

॥ ९.११.९ ॥

नाहं बिभर्मि त्वां दुष्टाम् असतीं पर-वेश्म-गाम् ।

स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.११.१० ॥

इति लोकाद् बहु-मुखाद् दुराराध्याद् असंविदः ।

पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥

श्रीधरः : असंविदोऽज्ञात् । प्राचेतसो वाल्मीकिस् तस्याश्रमं प्राप्ता ॥१०॥

क्रम-सन्दर्भः : लोकात् राष्ट्रान्तर-स्थात् भीतेन शङ्कमानेन ॥१०॥

विश्वनाथः : असंविदः ज्ञान-शून्यात् । प्राचेतसो वाल्मीकिः ॥१०॥

—ओ)०(ओ—

॥ ९.११.११ ॥

अन्तर्वत्न्य् आगते काले यमौ सा सुषुवे सुतौ ।

कुशो लव इति ख्यातौ तयोश् चक्रे क्रिया मुनिः ॥

श्रीधरः : अन्तर्वत्नी गर्भिणी क्रिया जात-कर्माद्याः ॥११॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : अन्तर्वत्नी गर्भवती ॥११॥

—ओ)०(ओ—

॥ ९.११.१२-१४ ॥

अङ्गदश् चित्रकेतुश् च लक्ष्मणस्यात्मजौ स्मृतौ ।
तक्षः पुष्कल इत्य् आस्तां भरतस्य महीपते ॥**

सुबाहुः श्रुतसेनश् च शत्रुघ्नस्य बभूवतुः ।
गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥**

तदीयं धनम् आनीय सर्वं राज्ञे न्यवेदयत् ।
शत्रुघ्नश् च मधोः पुत्रं लवणं नाम राक्षसम् ॥**

हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.११.१५ ॥

मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।
ध्यायन्ती राम-चरणौ विवरं प्रविवेश ह ॥**

**श्रीधरः, क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : भर्तृ-विच्छेद-दुःखम् असहिष्णुर् भुवो विवरं प्राविशत् ॥१५॥

—ओ)०(ओ—

॥ ९.११.१६ ॥

तच् छ्रुत्वा भगवान् रामो रुन्धन्न् अपि धिया शुचः ।
स्मरंस् तस्या गुणांस् तांस् तान् नाशक्नोद् रोद्धुम् ईश्वरः ॥**

श्रीधरः : ईश्वरोऽपि शुचो रोद्धुं नाशक्नोत् ।

**क्रम-सन्दर्भः :**स्त्री-सङ्गिनां गतिम् [भा।पु। ९.१०.११] इत्य्-आदि पूर्वम् उक्तं यथार्थत्वे1 दृढयंस् तदीयम् अन्तःकरणं दर्शयति—तच् छ्रुत्वेति । ईश्वरोऽपीत्य् अपरत्राप्य् अन्वयः । अहो तस्या भक्ति-गुणानां महिमेति भावः2 ॥१६॥

विश्वनाथः : ईश्वरोऽपि रोद्धुं नाशक्नोद् इति तस्य प्रेम-वश्यत्व-स्वभावाद् इति भावः ॥१६॥

—ओ)०(ओ—

॥ ९.११.१७ ॥

स्त्री-पुं-प्रसङ्ग एतादृक् सर्वत्र त्रासम् आवहः3

अपीश्वराणां किम् उत ग्राम्यस्य गृह-चेतसः ॥4

मध्वः5:

नित्य-पूर्ण-सुख-ज्ञप्ति-स्वरूपोऽसौ यतो विभुः ।

अतोऽस्य राम इत्य् आख्या तस्य दुःखं कुतोऽण्व् अपि ।

तथापि लोक-शिक्षार्थम् अदुःखो दुःख-वर्तिवत् ।

अन्तर्हितां लोक-दृष्ट्या सीताम् आसीत् स्मरन्न् इव ॥

ज्ञापनार्थं पुनर् नित्यं सम्बन्धं स्वात्मनः श्रिया ।

अयोध्याया विनिर्गच्छन् सर्व-लोकस्य चेश्वरः ।

प्रत्यक्षं तु श्रिया सार्धं जगामानादिर् अव्ययः ।

नाक्षत्र-मास-गणितं त्रयोदश-सहस्रकम् ।6

ब्रह्म-लोक-समं चक्रे समस्तं क्षिति-मण्डलम् ॥

रामो रामो राम इति सर्वेषाम् अभवत् तदा ।7

सर्वो राम-मयो लोको यदा रामस् त्व् अपालयत् ॥ इति स्कान्दे ॥१७-१९॥

श्रीधरः : न चातिचित्रम् एतत् । स्त्री-पुंसोः प्रसङ्ग आसक्तिः त्रासम् आवहतीति तथा । विभक्तेर् अलुग् आर्षः । पाठान्तरं सुगमम् । किम् उतेति प्रासङ्गिकोक्तिः ॥१७॥

क्रम-सन्दर्भः : अनेन पद्येनन्तस् तत् [सीता-]प्रेम-वशतां भक्ति-विशेष-सौख्याय व्यज्य बहिः-कामुक-क्रिया-साम्य-दर्शनया साधारण-जन-वृन्दावन-जननायोक्तं—स्त्री-पुं-प्रसङ्ग इति । युक्तं चोभय-विधत्वं—भगवच्-चरितस्य चतुरस्र-हितत्वात् । तस्मात् तत्-कामस्य प्रेयसी-विषयक-प्रीति-विशेष-मात्र-शरीरत्वम् । ततो न दोषश् च ।

नन्व् अन्यत्रापि स्त्री-पुंसयोर् मिथः प्रसङ्गे तादृशत्वं दृश्यते ? तत्राह—स्त्रीति । एतादृक् किन्तु नेति काक्व्-अर्थः । कुतः ? स हीश्वराणां कर्म-योगादि-सिद्धानाम् अपि सर्वत्र परत्र चेह च त्रासं संसार-भयम् आवहति । ग्राम्यस्य तु सुतराम् एवेत्य् अर्थः । तयोस् त्व् एष भावः । सर्व-पुरुषार्थाधिक-प्रेम-सार-मय एवेति भावः ।

यद् वा, काकुं विनैवायम् अर्थः । एतादृक् एतत्-तुल्यत्वेन सम्भाव्यमानो यः स्त्री-पुं-प्रसङ्गः, स तु सर्वत्र त्रासम्-आवह इति । अत्र स्त्री-पुम् इति समासान्त-कार्याभाव आर्षः । त्रासम् इति पुं-भावश् चानुकूलम् उद्वहतीतिवत् अलुकि तु कृद्-योगे षष्ठ्य् एव स्याद् इति तद्-अभावोऽप्य् आर्षः कल्प्यः8 ॥१७॥

विश्वनाथः : अन्ये कामासक्ताः स्त्रियं स्मरन्तस् तु संसार एव मज्जन्तीत्य् आह—स्त्री-पुंसयोः प्रसङ्गः समासान्ताभाव आर्षः । ईश्वराणां ब्रह्मादीनाम् अपि सर्वत्र इह-लोके पर-लोके च त्रासं संसारम् आवहतीति स षष्ठ्य्-अभाव आर्षः । प्रसङ्गस्य प्राकृतत्वात् काम-मूलकत्वाच् चेति भावः । एतद् एवाह—एतादृक् एतयो राम-सीतयोर् इव दृष्टः केनचिद् अंशेन व्यवहारिकेणैव, न तु तात्त्विकेन न त्व् एतयोर् अपीत्य् अर्थः । प्रसङ्गस्याप्राकृतत्वात् प्रेम-मूलकत्वाच् चेति भावः । एत एवेश्वराणाम् इति न त्व् ईश्वरस्यापीत्य् उक्तम् ॥१७॥

—ओ)०(ओ—

॥ ९.११.१८ ॥

तत ऊर्ध्वं ब्रह्मचर्यं धारयन्न् अजुहोत् प्रभुः ।
त्रयोदशाब्द-साहस्रम् अग्निहोत्रम् अखण्डितम् ॥**9

श्रीधरः : अग्निहोत्रम् अजुहोत् । प्रभुः रामः ॥१८॥

क्रम-सन्दर्भः : श्री-रामस्यानुरागं बहिर् ईहयापि दर्शयति—तत ऊर्ध्वम् इति । तत ऊर्ध्वम् अखण्डितं ब्रह्मचर्यं धारयन्न् अजुहोत् । तां विना निर्वेदाद् इति भावः । त्रयोदशाब्द-साहस्रं त्व् अग्निहोत्रम् अखण्डितम् अजुहोत् ॥१८॥

विश्वनाथः : ततश् च तदानीन्तनान् स्व-पुर-स्थान् नीत्वैवान्तर्धान-लीलां चकार ॥१८॥

—ओ)०(ओ—

॥ ९.११.१९ ॥

स्मरतां हृदि विन्यस्य विद्धं दण्डक-कण्टकैः10

स्व-पाद-पल्लवं राम आत्म-ज्योतिर् अगात् ततः ॥

श्रीधरः : आत्म-ज्योतिर् निजं धाम ॥१९॥

क्रम-सन्दर्भः : तद्-अनन्तरश तद्-वियोग-हेतु-लोक-प्रवाद-मयं नर-लोकं त्यक्त्वा नित्यत्व-संयोग-मयं निज-लोकम् आरूढवान् इत्य् आह—ये लोक-रक्षेच्छया केचित् त्यक्तास् तेषां च सन्ततं स्वयम् एवासौ महा-प्रेम्णा स्फुरति स्मेति चाह—स्मरताम् इति विद्धं विद्धत्वेन प्रेम्णैव प्रतीतम् इत्य् अर्थः । शिल-तृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति [भा।पु। १०.३१.११] इतिवत् । इति पित्र्-आज्ञा-पालन-मर्यादा-स्मरणम् आत्मनो ज्योती-रूपं स्व-वैकुण्ठम् ॥१९॥

विश्वनाथः : किन्त्व् अन्य-देश-स्थितानाम् अनुरागि-भक्तानां हृदि दण्डक-कण्टक-विद्धं पादम् इति ते कण्टकास् तेषां हृद्य् एव सहस्र-गुणं लसन्तस्11 तान् मूर्च्छितान् कुर्वन्त्व् इति सौभाग्यैवेति तेषु रामस्य दया नाभूद् इति व्याज-स्तुतिः । आत्मन एव, न तु मायाया ज्योतिर् यत्र तत्-परं प्रपञ्चागोचरं स्व-धाम्नः प्रकाशम् अगाद् इत्य् अर्थः ॥१९॥

—ओ)०(ओ—

॥ ९.११.२० ॥

नेदं यशो रघुपतेः सुर-याच्ञयात्त-

लीला-तनोर् अधिक-साम्य-विमुक्त-धाम्नः ।

रक्षो-वधो जलधि-बन्धनम् अस्त्र-पूगैः

किं तस्य शत्रु-हनने कपयः सहायाः ॥

श्रीधरः : जलधि-बन्धनम् अस्त्र-पूगैश् च रक्षसां वध इतीदं कविभिर् आश्चर्यम् इव वर्णितम् अपि यशः स्तुतिर् न भवति । तत्र हेतुः—अधिक-साम्याभ्यां विमुक्तं धाम प्रभावो यस्य तस्य किं कपयः सहायाः । अतः सुग्रीवाद्य्-आश्रयणं यथा लिला-मात्रं तथैवेदम् अपि । युक्तं चैतद् इत्य् आह—सुराणं याञ्जया आत्ता स्वी-कृता लीलार्था तनुर् येन तस्य ।

क्रम-सन्दर्भः : तद् एवम् उत्तरोत्तरं गुण-विशेषं स्मरति नेदम् इति चतुर्भिः । स्वयं-पदाभिधेयान्य् अनिरपेक्ष-स्वरूपस्यैव साम्यातिशय-राहित्य-सम्भवेऽप्य् अस्य एतादृश्य् उक्तिस् तु स्वयं-पदाभिधेय-तादृश-स्वरूप-श्री-कृष्णेनैक्याभिप्रायात् । अत्र स्वयं-पदाभावात् तेनैकं चास्य नर-लीलादि-साधर्म्येण तत्-प्रेष्ठ-रूपत्वात् । तथा च ब्रह्मा-पुराणे श्री-कृष्ण-वाक्यं—

अन्तरङ्ग-स्वरूपा ये मत्स्य-कूर्मादयस् त्व् अमी ।

सर्वात्मनायम् अत्रापि श्रीमद्-दशरथात्मजः ॥ इति ॥२०॥

विश्वनाथः : नर-लीलत्वेनैव चमत्कारं तस्य यशो-माधुर्यम् आस्वाद्यते, न त्व् ऐश्वर्य-दृष्ट्येत्य् आह—नेदम् इति आ सम्यग् एव आत्त-तनोर् नित्य-गृहीत-लीला-विग्रहस्य रक्षसो रावणस्य वध इतीदं यशः-स्तुतिर् न भवति । तत्र हेतुः—अधिक-साम्याभ्याम् विमुक्तं धाम प्रभावो यस्य तस्य किं कपयः सहायाः ? तेन नर-लीलत्व-माधुर्येणैव सर्वम् एतद् उपपद्यते इति भावः ॥२०॥

—ओ)०(ओ—

॥ ९.११.२१ ॥

यस्यामलं नृप-सदःसु यशोऽधुनापि

गायन्त्य् अघ-घ्नम् ऋषयो दिग्-इभेन्द्र-पट्टम् ।

तं नाकपाल-वसुपाल-किरीट-जुष्ट-

पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥

श्रीधरः : एवं-विध-लीला-प्रयोजनं दर्शयन् प्रणमति—यस्य यशो नृपाणां युधिष्ठिरादीनां सदःसु ऋषयो मार्कण्डेयादयो गायन्ति । दिग्-इभेन्द्राणां पट्टवद् आभरण-रूपम् । तत्-पर्यन्तं व्याप्तम् इत्य् अर्थः । नाक-पाला देवाः । वसु-पाला वसुधा-पालाश् च तेषां किरीटैर् जुष्टं पादाम्बुजं यस्य तं रघु-पतिम् । पाठान्तरे तत् तस्य रघु-पतेर् नाक-पालादिभिर् जुष्टं पादाम्बुजं प्रपद्य इत्य् अर्थः ॥२१॥

क्रम-सन्दर्भः : तथापि तस्य लौकिक-लीला-माधुर्यावेशम् अनुस्मृत्य जीवन्-मुक्ताद्या अपि परम-सुखावेशाद् गायन्तीत्याह—यस्येति । तथा च वक्ष्यते श्री-कृष्ण-लीलयां स्थित्य्-उद्भवान्तम् [भा।पु। १०.५०.२९] इत्य्-आदौ, तथापि मर्त्यानुविधस्य वर्ण्यत इति ॥२१॥

विश्वनाथः : रामं प्रपद्यमानस्य सर्वोत्कर्षम् आह—यस्य निर्मलं यशः नृपाणां युधिष्ठिरादीनां सदःसु ऋषयो मार्कण्डेयादयो गायन्ति, दिगिभेन्द्र-पट्टं पट्ट-शब्दस्यासद्-वाचित्वात् दिग्-गजेन्द्रारूढम् इत्य् अर्थः । तेन यशसः सर्व-दिग्-विजयि-सेनानीत्वम् उक्तम् । नाकपाला देवेन्द्राद्याः, वसुपालाः नरेन्द्राश् च, तेषां किरीटैर् जुष्टं पादाम्बुजं यस्य तम् । जुष्टम् इति रघुपतेर् इति पाठे तत् तस्येत्य् अर्थः ॥२१॥

—ओ)०(ओ—

॥ ९.११.२२ ॥

स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा ।
कोसलास् ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥**

श्रीधरः : स रामः संविष्ट उपवेशितोऽनुगतो वा यैस् ते कोशल-देश-वासिनः सर्वेऽपि यत्र योगिनो गच्छन्ति तत् स्थानं ययुः ॥२२॥

क्रम-सन्दर्भः : अथ श्री-सीतादीनां पुनस् तन्-मिलनं कैमुत्येनाह—स यैवेति । कोसला इत्य् उपलक्षणम् एव । योगिनस् तद्-भक्ति-सिद्धाः ॥२२॥

विश्वनाथः : संविष्टः सख्यात् यैः सहोपविष्टः शयितो वा, ते कोशल-देश-वासिनो योगिनो भक्ति-योगवन्तः स्थानं वैकुण्ठम् ॥२२॥

—ओ)०(ओ—

॥ ९.११.२३ ॥

पुरुषो राम-चरितं श्रवणैर् उपधारयन् ।
आनृशंस्य-परो राजन् कर्म-बन्धैर् विमुच्यते ॥**

श्रीधरः : आनृशंस्य-पर उपशम-निष्ठः सन् विमुच्यते ॥२३॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : आनृशंस्य-परः क्रौर्य-शून्योऽमत्सर इत्य् अर्थः ॥२३॥

—ओ)०(ओ—

॥ ९.११.२४ ॥

श्री-राजोवाच—

कथं स भगवान् रामो भ्रातॄन् वा स्वयम् आत्मनः ।
तस्मिन् वा तेऽन्ववर्तन्त प्रजाः पौराश् च ईश्वरे ॥**

श्रीधरः : स रामः स्वयं कथम् अवर्तत ? भातॄन् प्रति वा कथम् अवर्तत ? कथं-भूतान् ? आत्मन आत्मांश-भूतान् । तस्मिन् वा ईश्वरे ते भ्रात्र्-आदयोऽनु अनन्तरं कथम् अवर्तन्त ? इति प्रश्न-त्रयम् ॥२४॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : आत्मनोभ्रातॄन् प्रति कथम् अवर्तत ? स्वयम् वा कथम् अवर्तत ? तस्मिन् भ्रात्र्-आदयः कथम् अवर्तन्त ? इति प्रश्न-त्रयम् ॥२४॥

—ओ)०(ओ—

॥ ९.११.२५ ॥

श्री-बादरायणिर् उवाच—

अथादिशद् दिग्-विजये भ्रातॄंस् त्रि-भुवनेश्वरः ।
आत्मानं दर्शयन् स्वानां पुरीम् ऐक्षत सानुगः ॥**

श्रीधरः : तत्र श्री-रामस्य भ्रट्र्-आदिषु प्रवृत्ति-प्रकारम् आह—अथेति । अनेनैव भ्रातॄणाम् अपि तद्-आज्ञानुसारितया प्रवृत्तिर् उक्ता । अथ सिंहासन-स्वीकारानन्तरम् ॥२५॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : भ्रातॄन् दिग्-विजये आदिशद् इति भ्रातॄणां तद्-दर्शन-रूपं स्व-सुखम् अपि परिहाय तद्-आज्ञा-पालन-रूपा तस्मिन्न् अनुवृत्तिर् उक्ता । रामस्यापि तेषु स्नेहात् तद्-देशाधिकार-दान-रूपा वृत्तिर् उक्ता । स्वानां स्व-प्रजा-पौरांश् चेति । प्रजासु पौरेषु च स्व-दर्शन-कृपावलोकादि-दान-रूपा तस्य वृत्तिर् उक्ता । पुरीम् ऐक्षतेति स्वयं कृत्? अवर्ततेत्य् अस्योत्तरम् ॥२५॥

—ओ)०(ओ—

॥ ९.११.२६ ॥

आसिक्त-मार्गां गन्धोदैः करिणां मद-शीकरैः ।
स्वामिनं प्राप्तम् आलोक्य मत्तां वा सुतराम् इव ॥**

श्रीधरः : पुरीं वर्णयति त्रिभिः, गन्धोदकैर् मद-बिन्दुभिश् चासिक्ता मार्गा यस्याम् । सुतरां मत्ताम् इव समृद्धम् । वा इति वितर्के । पाठान्तरे वासित-गां वासितां कामोन्मत्तां गाम् इवेत्य् अर्थः ॥२६॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : अतस् तस्येक्षणीयां पुरीं वर्णयति—आसिक्तेत्य्-आदि । सुतरां मत्ताम् इव समृद्धां वेति वितर्के । वासितगाम् इवेति पाठे वासितां कामोन्मत्तां गम् इवेत्य् अर्थः । समासान्ताभाव आर्षः ॥२६॥

—ओ)०(ओ—

॥ ९.११.२७-२८ ॥

प्रासाद-गोपुर-सभा-चैत्य-देव-गृहादिषु ।
विन्यस्त-हेम-कलशैः पताकाभिश् च मण्डिताम् ॥**

पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् ।
आदर्शैर् अंशुकैः स्रग्भिः कृत-कौतुक-तोरणाम् ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.११.२९ ॥

तम् उपेयुस् तत्र तत्र पौरा अर्हण-पाणयः ।
आशिषो युयुजुर् देव पाहीमां प्राक् त्वयोद्धृताम् ॥**

श्रीधरः : पौराणां तस्मिन् वृत्तिम् आह—तम् उपेयुर् इति । वराह-रूपेण त्वयोद्धृताम् इमां पृथ्वीं पाहीति ॥२९॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : पौराणां तस्मिन्न् अनुवृत्तिम् आह—तम् इति । इमां पृथ्वीं प्राक् वराह-रूपेण ॥२९॥

—ओ)०(ओ—

॥ ९.११.३० ॥

ततः प्रजा वीक्ष्य पतिं चिरागतं

दिदृक्षयोत्सृष्ट-गृहाः स्त्रियो नराः ।

आरुह्य हर्म्याण्य् अरविन्द-लोचनम्

अतृप्त-नेत्राः कुसुमैर् अवाकिरन् ॥

श्रीधरः : प्रजानां तस्मिन् वृत्तिम् आह—ततः प्रजा इति ॥३०॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : प्रजानां तस्मिन् वृत्तिम् आह—तत इति । चिरागतम् इति वन-वासाद् आगमन-समय-भव-दर्शनम् इदं ज्ञेयम् ॥३०॥

—ओ)०(ओ—

॥ ९.११.३१ ॥

अथ प्रविष्टः स्व-गृहं जुष्टं स्वैः पूर्व-राजभिः ।
अनन्ताखिल-कोषाढ्यम् अनर्घ्योरुपरिच्छदम् ॥**

श्रीधरः : स्वयं कथम् अवर्तत ? इत्य् अस्योत्तरम् आह—अथेति यावत् समाप्ति । स्व-गृहं प्रविष्टः संस् तस्मिन् रेम इति पञ्चमेनान्वयः । गृहं वर्णयति सार्धैस् त्रिभिः—अनन्ता येऽखिलानां रत्नादीनां कोशास् तैर् आढ्यम् । अनर्घ्या उरवः परिच्छदा यस्मिन् ॥३१॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : स्वयं कथम् अवर्तत ? इत्य् अस्योत्तरम् विस्तारेण पुनर् आह—अथेत्य्-आदिना ॥३१॥

—ओ)०(ओ—

॥ ९.११.३२ ॥

विद्रुमोदुम्बर-द्वारैर् वैदूर्य-स्तम्भ-पङ्क्तिभिः ।
स्थलैर् मारकतैः स्वच्छैर् भ्राजत्-स्फटिक-भित्तिभिः ॥**

श्रीधरः : विद्रुम-मया उदुम्बरा देहल्यो येषु तैर् द्वारैः । स्वच्छैः स्थलैः । तृतीयान्तानां मण्डितम् इति तृतीयेनान्वयः ॥३२॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : विद्रुम-मया उदुम्बरा देहल्यो येषु तैर् द्वारैः । तृतीयान्तानां मण्डितम् इति तृतीयेनान्वयः ॥३२॥

—ओ)०(ओ—

॥ ९.११.३३ ॥

चित्र-स्रग्भिः पट्टिकाभिर् वासो-मणि-गणांशुकैः ।
मुक्ता-फलैश् चिद्-उल्लासैः कान्त-कामोपपत्तिभिः ॥**

श्रीधरः : वाससां मणि-गणानां चांशुकैर् दीप्तिभिः चित् चैतन्यं तद्वद् उल्लासैर् उज्ज्वलैः । यद् वा, चिद् इति क्वचित् । वैदूर्य-स्तम्भादिषु यथाशोभनम् उज्ज्वलैर् मुक्ता-फलैर् मण्दितम् इत्य् अर्थः । कान्ताः कमनीयाः कामोपपत्तयो भोग-साधनानि ताभिः ॥३३॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : वाससां मणि-गणानां चांशुकैः । चितश् चिच्-छक्तेर् उल्लासैश् चिन्-मयैर् इति सर्वेषां विशेषणम् इदं पुर्या अप्राकृतत्वात् । कान्ताः कमनीया भोगानाम् उपपत्तिः सिद्धिर् यतस् तैर् इत्य् अपि सर्वेषां विशेषणम् ॥३३॥

—ओ)०(ओ—

॥ ९.११.३४ ॥

धूप-दीपैः सुरभिभिर् मण्डितं पुष्प-मण्डनैः ।
स्त्री-पुम्भिः सुर-सङ्काशैर् जुष्टं भूषण-भूषणैः ॥**

श्रीधरः : भूषणानां भूषण-भूतैः ॥३४॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.११.३५ ॥

तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया ।
रेमे स्वाराम-धीराणाम् ऋषभः सीतया किल ॥**

**श्रीधरः, क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : तस्मिन् स्व-गृहे ॥३५॥

—ओ)०(ओ—

॥ ९.११.३६ ॥

बुभुजे च यथा-कालं कामान् धर्मम् अपीडयन् ।

वर्ष-पूगान् बहून् नॄणाम् अभिध्याताङ्घ्रि-पल्लवः ॥ ।

श्रीधरः : नॄणां मध्ये । यद् वा, नॄणां नृभिर् अभिद्यातम् अङ्घ्रि-पल्लवं यस्येति ॥३६॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : नॄणां नृभिः ॥३६॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

नवमैकादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे

श्री-रामचन्द्र-चरितम् नाम

एकादशोऽध्यायः ।

॥ ९.११ ॥

(९.१२)


  1. यथोक्तार्थत्वेनैव इति ग-पुस्तके। ↩︎

  2. “अहो तस्या॥। भावः” इत्य् अत्र “ईश्वरत्वेनैव सर्वोत्तम-गुण-परम-भक्तानुकम्पामयत्वाद् इति भावः” इति ग-करलिपेः पाठान्तरम्। ↩︎

  3. सर्वत्र च भयावहः, सर्वत्रापि भयावहः, सर्वत्रैव भयावहः इति तत्त्ववादिनां पाठा दृश्यन्ते। ↩︎

  4. स्त्री-पुंसयोः प्रसङ्गः ईश्वराणाम् अपि भयावहो दुःखावहश् च किम् उत ग्रामीणस्य स्त्रैणस्येति लोकान् शिक्षयितुम् दुःखिवद् आत्मानं दर्शयामास । अत एव ह्य् उक्तं पूर्वाध्याये—स्त्री-सङ्गिनाम् इति गतिं प्रथयंश् चचार [भा।पु। ९.१०.११] इति ॥ (गोविन्दाचार्यः) ↩︎

  5. तत्त्ववादि-रीत्या चायम् नवमाध्यायस्य षोडशः श्लोकः। (९.९.१६) ↩︎

  6. अयम् अर्थः—ननु रामायणे एकादश-वर्ष-सहस्राणि रामो राज्यम् उपास्तेति श्रूयते—दश-वर्ष-सहस्राणि दश-वर्ष-शतानि च । भ्रातृभिः सहितः श्रीमान् रामो राज्यम् अकारयत् ॥ [रा। १.१.७६] इति । विष्णु-पुराणे च—सिंहासन-गत एकादशाब्द-सहस्रं राज्यम् अकरोत् [वि।पु। ४.४.९९] इति । तत् कथम् अत्र त्रयोदशाब्द-साहस्रम् इत्य् उच्यते ? आह—नाक्षत्र-मास-गणितम् । यथा पक्ष-द्वयात्मकश् चान्द्रो मासः, तथा सप्तविंशति-दिनात्मको नाक्षत्रो मासः शास्त्रेषु पठ्यते । तत्र नाक्षत्र-मास-रीत्या त्रयोदश-वर्ष-सहस्राणि रामो राज्यम् अपालयत् । चान्द्रमास-रीत्या तु एकादश वर्ष-सहस्राणीति परमार्थः ।

    नन्व् अथापि न विरोध-परिहारः । नाक्षत्र-मानेन त्रयोदश-वर्ष-सहस्राणि नाम चान्द्र-मानेन सप्त-शताधिकान्य् एकादश-वर्ष-सहस्राणि भवन्ति । तथा हि—नाक्षत्र-मानेन २७ श्रुत् १२ = ३२४ दिनान्य् एकं वर्षम् । त्रयोदश-सहस्र-वर्षेषु ४२,१२,००० दिनानि भवन्ति । चान्द्र-मानेन च ३६० दिनान्य् एकं वर्षम् । तथा चेयं गणना—४२,१२,००० ÷ ३६० = ११,७००। ततश् चैकादश-वर्ष-सहस्राणीति चान्द्र-मानेनाप्य् अनुपपन्नम् इति चेत्, नैतद् एवम् । बहु-ग्रन्थ-दृशां सर्वम् उपपन्नम् । तथा हि, ११,७०० चान्द्र-वर्षाण्य् एव राम-राज्य-कालः । तत्रैकादश सहस्राणि सीतया सह साम्राज्य-पालन-कालः । सीतान्तर्धानानन्तरं सप्त-शत-वर्षाणीति विवेकः । तथा हि महाभारत-तात्पर्य-निर्णये भगवत्-पाद एवाह—रामस्य दृश्या त्व् अन्येषाम् अदृश्या जनकात्मजा । भूमि-प्रवेशाद् ऊएर्ध्वं सा रेमे सप्त-शतं समाः ॥ इति । नाक्षत्र-मानेन तु भूमि-प्रवेशाद् ऊर्ध्वं ७७७ ७.९ वर्षाणि । तथा च सीता-विरहितं कालम् अपहायैकादश-वर्ष-सहस्राणि राम-राज्य-काल इति रामायणे पुराणान्तरेषु चोक्तम् इति सर्वाविरोधः ॥ (गोविन्दाचार्यः) ↩︎

  7. एतेन न केवलं निर्गमन-काले स्व-पाद-पल्लवं स्मरतां हृदि विन्यस्य निरगात्, किन्तु पालन-कालेऽपि हृदि विन्यस्त एवासीद् इति मूल-भावं स्फुटम् आह ॥ (गोविन्दाचार्यः) ↩︎

  8. साप्य् आर्षीय-कल्पा इति ङ-पुस्तके। ↩︎

  9. सीता-त्यागं यावद् गृह-मेधेन, तत ऊर्ध्वं ब्रह्मचर्येण, एवम् आहत्य सज्याभिषेकाद् भूत्याग-पर्यन्तं त्रयोदशाब्द-साहस्रम् अग्निहोत्रम् अजुहोत् ॥ (गोविन्दाचार्यः) ↩︎

  10. बुद्धं पद्मम् इवांशुकैः इति तत्त्ववादि-पाठः। ↩︎

  11. लपन्तस् इति भावनगर् मध्ये। होwएवेर्, wए थिन्क् लसन्तस् मकेस् मोरे सेन्से ↩︎