॥ ९.१०.१ ॥
श्री-शुक उवाच—
खट्वाङ्गाद् दीर्घबाहुश् च रघुस् तस्मात् पृथु-श्रवाः ।
अजस् ततो महा-राजस् तस्माद् दशरथोऽभवत् ॥**
श्रीधरः :
दशमे प्राह खट्वाङ्ग-वंशे श्री-राम-संभवम् ।
तच् चरित्रं च लङ्केशं हत्वायोध्या-गम् आवधि ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
दशमे रघुनाथस्य जन्म-कर्म-यशोऽमृतम् ।
सर्वं नॄन् पारयामास सङ्क्षेपेण महा-मुनिः ॥१॥
—ओ)०(ओ—
॥ ९.१०.२ ॥
तस्यापि भगवान् एष साक्षाद् ब्रह्ममयो हरिः ।
अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः ।
राम-लक्ष्मण-भरत-शत्रुघ्ना इति संज्ञया ॥**
श्रीधरः : खट्वाङ्गाच् च दीर्घबाहुः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एष त्वया स्व-मातृ-गर्भे दृष्ट इत्य् अर्थः । अंशांशेन अंशश् च आंशम् अंश-समूहश् च अंशांशं, तेन अंशांशेन तस्यापि यथा वासुदेवस्य इत्य् अर्थः ॥२॥
—ओ)०(ओ—
॥ ९.१०.३ ॥
तस्यानुचरितं राजन्न् ऋषिभिस् तत्त्व-दर्शिभिः ।
श्रुतं हि वर्णितं भूरि त्वया सीता-पतेर् मुहुः ॥**
श्रीधरः : ऋषिभिर् वाल्मीकि-मुख्यैर् भूरि वर्णितं त्वया मुहुः श्रुतं, तथापि सङ्क्षेपतः कथ्यमानं शृणु ॥३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.४ ॥
गुर्व्-अर्थे त्यक्त-राज्यो व्यचरद् अनुवनं पद्म-पद्भ्यां प्रियायाः
पाणि-स्पर्शाक्षमाभ्यां मृजित-पथ-रुजो यो हरीन्द्रानुजाभ्याम् ।
वैरूप्याच् छूर्पणख्याः प्रिय-विरह-रुषारोपित-भ्रू-विजृम्भ-
**त्रस्ताब्धिर् बद्ध-सेतुः खल-दव-दहनः कोसलेन्द्रोऽवतान् नः
श्रीधरः :
ग्रन्थ-कोटिभिर् आकीर्णम् अद्भुतं राम-विक्रमम् ।
अध्याय-द्वयतो वक्ष्यन्न् एक-श्लोके समस्यति ॥ इति ।
स कोशलेन्द्रः श्री-रामो नोऽस्मान् अवतात् पातु । कथं-भूतः ? यो गुर्व्-अर्थे पितुः सत्यस्य पालनार्थं त्यक्त-राज्यः सन् पद्मवद् अतिसुकुमाराभ्यां पद्भ्याम् । तद् एवाह—प्रिययाः पाणिनापि स्पर्शे नास्ति क्षमा ययोस् ताभ्यां प्रतिवनं व्यचरत् । हरीन्द्रो हनुमान् सुग्रीवो वाऽनुजो लक्ष्मणस् ताभ्यां मृजितापनीता पथ-रुजा मार्ग-श्रमो यस्य । शूर्पणख्या वैरूप्यात् कर्ण-नासिका-च्छेदाद् धेतोः तया प्रलोभितेन रावणेनापहारात् प्रियेण कलत्रेण विरहस् तेन रुट् तयारोपितयोर् भ्रुवोर् विजृम्भेणैव त्रस्तोऽब्धिर् यस्मात् । ततस् तद्-विज्ञापनेन बद्धः सेतुर् येन । ततः खला रावणादय एव दवो वनं तस्य दहनः ॥४॥
क्रम-सन्दर्भः : पथ-रुजा इत्य् अनेन पथ-शब्दोऽकारान्तोऽप्य् अस्तीति लक्ष्यते । ब्रह्म-मय इत्य् अत्र तत्-प्रकृत-वचने मयट्, ब्रह्म-स्वरूप इत्य् अर्थः ॥४॥
विश्वनाथः :
कार्त्स्यान् न वक्तुं लिखितुं शक्या शेष-गणेशयोः ।
या राम-लीलाध्यायाभ्याम् श्लोकेनापि कीर्त्यते ॥
गुरोः पितुः सत्य-पालनार्थं त्यक्त-राज्यः सन् पद्मवद्-अतिसुकुमाराभ्यां पद्भ्याम् अनुवनं वने वने व्यचरत् । अतिसौकुमार्याम् एवाह—प्रिययाः पाण्योः परम-सुकुमारयोर् अपि स्पर्शं न क्षमेते इति ताभ्याम् । हरीन्द्रो हनुमान् सुग्रीवो वा, अनुजो लक्ष्मणः, ताभ्यां मृजितापनीता पथि-रुजा मार्ग-श्रमो यस्य सः । शूर्पणख्या वैरूप्यात् कर्ण-नासा-च्छेदाद् धेतोः रावणेनापहारात् । प्रियेण कलत्रेण विरहः, तेन या रुट् वर्त्मनः समुद्रेणाप्रदानात् कोपस् तयारोपितयोर् भ्रुवोर् विजृम्भेणैव त्रस्तोऽब्धिर् यस्मात् सः । खला रावणादय एव दवो वनं, तस्य दहनः ॥४॥
—ओ)०(ओ—
॥ ९.१०.५ ॥
विश्वामित्राध्वरे येन मारीचाद्या निशाचराः ।
पश्यतो लक्ष्मणस्यैव हता नैरृत-पुङ्गवाः ॥**
श्रीधरः : सङ्क्षेपतो वर्णितं राम-चरितम् आदित आरभ्य विस्तरेणाह—विश्वामित्राध्वर इत्य्-आदिना यावद् उत्तराध्याय-समाप्ति । पश्यत एव लक्ष्मणस्य । तम् अप्य् अनपेक्ष्यैव हता इत्य् अर्थः । यच् छब्दानां स कोशलेन्द्रोऽवताद् इत्य् अनेनैवान्वयः ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अतिसङ्क्षेपेण वर्णितं राम-चरितम् आदित आरभ्य किञ्चिद् विस्तरेणाह—विश्वामित्रेत्य्-आदिना अध्याय-द्वयेन । निशा मायया चरन्तीति ते नैरृत-पुङ्गवा राक्षस-श्रेष्ठाः ॥५॥
—ओ)०(ओ—
॥ ९.१०.६ ॥
यो लोक-वीर-समितौ धनुर् ऐशम् उग्रं
सीता-स्वयंवर-गृहे त्रिशतोपनीतम् ।
आदाय बाल-गज-लील इवेक्षु-यष्टिं
सज्ज्यी-कृतं नृप विकृष्य बभञ्ज मध्ये ॥
श्रीधरः : लोके ये वीरास् तेषां समितौ समाजे ऐशं त्रैयम्बकं धनुर् इक्षु-यष्टिम् इव लीलयैवादाय सज्ज्यीकृतम् आरोपितं विकृष्य मध्ये बभञ्ज । हे नृप ! उग्रं कठिनं गरिष्ठम् । तद् आह—वाहकानां त्रिभिः शतैर् उपनीतम् । बाल-गजस्य लीलेव लीला यस्य सः ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : लोके ये वीरास् तेषां समितौ समाजे । ऐशं माहेशं धनुर् इक्षु-यष्टिम् इव लीलयैवादाय सज्ज्यीकृतम् सत् विकृष्य मध्ये बभञ्ज । कीदृशम् ? वाहकानां त्रिभिः शतैर् उपनीतम् ॥६॥
—ओ)०(ओ—
॥ ९.१०.७ ॥
जित्वानुरूप-गुण-शील-वयोऽङ्ग-रूपाम् ।
सीताभिधां श्रियम् उरस्य् अभिलब्धमानाम् ॥**
मार्गे व्रजन् भृगुपतेर् व्यनयत् प्ररूढम् ।
दर्पं महीम् अकृत यस् त्रिर् अराज-बीजाम् ॥**
श्रीधरः : अनुरूपाणि स्व-योग्यानि गुण-शीलादीनि यस्यास् तां सीता-संज्ञां पूर्वम् उरस्य् अभिलब्धो मानो यया तां श्रियं जित्वा धनुर् भङ्ग-महा-नाद-श्रवण-क्षुभितस्य भृगुपतेर् दर्पं व्यनयद् अपनीतवान् । कथं-भूतस्य ? त्रिः सप्त-कृत्वो राज-बीज-शून्यां महीं योऽकरोत्, तस्य ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : जित्वा प्राप्य उरस्य् अभिलब्धो मान आदरः पूर्वम् एव यया ताम् । भृगुपतेः परशुरामस्य दर्पं व्यनयद् विगतीचक्रे । त्रिः त्रिसप्त-कृत्वो महीं यो राज-बीज-शून्यां चक्रे ॥७॥
—ओ)०(ओ—
॥ ९.१०.८ ॥
यः सत्य-पाश-परिवीत-पितुर् निदेशं
स्त्रैणस्य चापि शिरसा जगृहे स-भार्यः ।
राज्यं श्रियं प्रणयिनः सुहृदो निवासं
त्यक्त्वा ययौ वनम् असून् इव मुक्त-सङ्गः ॥
श्रीधरः : इदानीं गुर्व्-अर्थ इति श्लोकं विवृण्वन्न् आह—य इति । कदाचित् कैकेय्यास् तुष्टेन राज्ञा त्वद्-अपेक्षितं दास्यामीति प्रतिश्रुतम्, ततः श्री-रामस्य यौवराज्याभिषेक-समये तया भरतस्य राज्यं रामस्य च वने वासः प्रार्थितः, तदा सत्य-पाशेन परिवीतस्य पितुर् निदेशम् आज्ञां शिरसा जगृहे । ततो राज्यादिकं त्यक्त्वा स-भार्यो वनं ययौ । दुस्त्यजस्यापि सहर्ष-त्यागे दृष्टान्तः—मुक्त-सङ्गो योगी असून् प्राणान् इवेति ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : य इति । कदाचित् पूर्वं कैकेय्यां तुष्टेन राज्ञा त्वद्-अपेक्षितं दास्यामीति प्रतिश्रुतम्, ततः श्री-रामस्य यौवराज्याभिषेक-समये तया भरतस्य राज्यं, रामस्य च वने वासः प्रार्थितः । अतः सत्य-पाशेन परिवीतस्य पितुः स्त्रैणस्य स्त्रियै कैकेय्यै सत्यानुरोध-वशात् हि तस्य निदेशं स-भार्योऽपि जग्राह । दुस्त्यजस्यापि सहर्ष-त्यागे दृष्टान्तः—मुक्त-सङ्गो योगी असून् प्राणान् इवेति ॥८॥
—ओ)०(ओ—
॥ ९.१०.९ ॥
रक्षः-स्वसुर् व्यकृत रूपम् अशुद्ध-बुद्धेस्
तस्याः खर-त्रिशिर-दूषण-मुख्य-बन्धून् ।
जघ्ने चतुर्दश-सहस्रम् अपारणीय-
कोदण्ड-पाणिर् अटमान उवास कृच्छ्रम् ॥
श्रीधरः : रक्षसो रावणस्य स्वसुः शूर्पणखाया अशुद्ध-बुद्धेः सीतां जिघृक्षोः कामातुराया इति वा रूपं व्यकृत विकारम् अनयत् । तस्याः खर-त्रिशिर-दूषण-मुख्या बन्धवो येषु तांश् चतुर्दश-सहस्रम् जघान । अपारणीयम् अलङ्घ्यम् असह्यं कोदण्डं पाणौ यस्य सः ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : रक्षसो रावणस्य स्वसुः शूर्पणखाया रूपं व्यकृत कर्ण-नासा-च्छेदेन विकारम् अनयत् । जघ्ने जघान । अपारणीयम् अन्यैर् असह्यं कोदण्डं पाणौ यस्य सः । ततश् च अटमानः वने भ्रमन् कृच्छ्रं स-कष्टम् उवास ॥९॥
—ओ)०(ओ—
॥ ९.१०.१० ॥
सीता-कथा-श्रवण-दीपित-हृच्-छयेन
सृष्टं विलोक्य नृपते दश-कन्धरेण ।
जघ्नेऽद्भुतैण-वपुषाश्रमतोऽपकृष्टो
मारीचम् आशु विशिखेन यथा कम् उग्रः ॥
श्रीधरः : सीतायाः कथा-श्रवणेन दीपितो हृच्-छयो यस्य, तेन सीतां हरिष्यता स्वस्माद् भीतेन स्वस्याश्रमाद् अपकर्षणार्थं सृष्टं निसृष्टं मारीचं विलोक्य जघान । कथं-भूतम् ? अद्भुतैण-वपुषा स्वर्ण-हरिण-देहेनोपलक्षितम् । अत एव प्रलोभनेनाश्रमतस् तेनापकृष्टः सन् । कं दक्षं यथा उग्रः श्री-रुद्रः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ततश् च सूर्पणखा-मुखात् श्रुत्वा सीतां हरिष्यता रावणेन स्वस्माद् भीतेन स्वस्याश्रमाद् अपकर्षणार्थं सृष्टं विसृष्टं प्रेषितं मारीचं विलोक्य जघान । कथं-भूतम् ? अद्भुतैण-वपुषा स्वर्ण-हरिण-शरीरेणोपलक्षितं स्वयं कथं-भूतः ? आश्रमतोऽपकृष्टः दूरं गतः । कं दक्षं यथा उग्रः श्री-रुद्रः ॥१०॥
—ओ)०(ओ—
॥ ९.१०.११ ॥
रक्षो-ऽधमेन वृकवद् विपिनेऽसमक्षं
वैदेह-राज-दुहितर्य् अपयापितायाम् ।
भ्रात्रा वने कृपणवत् प्रियया वियुक्तः
स्त्री-सङ्गिनां गतिम् इति प्रथयंश् चचार ॥
श्रीधरः : ततश् च रक्षोऽधमेन रावणेनासमक्षम् अपनीतायाम् । प्रियया वियुक्तो भ्रात्रा लक्ष्मणेन सह कृपणवद् वने चचार । किम्-अभिप्रायः सन् ? इत्य् अनेन प्रकारेण स्त्री-सङ्गिनां दुःखोदर्कां गतिं प्रख्यापयन् ॥११॥
क्रम-सन्दर्भः : इति अथ श्री-रघुनात-चरिते स्त्री-सङ्गिनाम् इत्य्-आदि-वाक्येष्व् अन्तस् तत्-प्रेम-वश एव स्त्री-सङ्गिनां कामिनां गतिं प्रथयन्—क्रिया साम्येन बहिर्-विख्यापयन्न् इत्य् एवाभिप्रायः । यद् वा1, अनेन प्रकारेण परम-भक्तानुकम्पोद्दीपन-प्रकारेण स्त्री-सङ्गिनां या गतिश् चेष्टा विलापाद्या, ताम् एव प्रथयन् विस्तारयन् चचार, इतस् ततो बब्राम इदम् एवोक्तं प्रिययेति । वक्ष्यते च दयिता-गतिम् [भा।पु। ९.१०.१२] इत्य्-आदि ॥११॥
विश्वनाथः : अधमेन रावणेन वृकवत् वृकेणव असमक्ष्यं परोक्षत एवापयापितायाम् अपहृतायां सत्यां प्रियया प्रेमवत्या सीतया वियुक्तः विप्रलम्भ-शृङ्गार-रसाश्रयालम्बनी-भूतः प्रेमाणम् एव विप्रलम्भ-रस-मयी-भूतम् आस्वादयन् तद्-अनुभाव-सात्त्विक-सञ्चार्यादिकं विलाप-मूर्च्छोन्मादादिकं प्रकटयन्न् एव चचार । कथं-भूतः ? इतीत्य् अनेनैव प्रकारेण स्त्री-सङ्गिनां गतिं विलापादि-दुःखोदर्कां प्रययन् बहिर् दर्शिनो जनान् प्रख्यापयन्न् इति प्रथा-मात्रम् एतन् न तु वस्तुत इत्य् अर्थः । अन्तर्-दर्शिनस् तु, चिन्-मयेऽस्मिन् महा-विष्णौ जाते दशरथे हरौ [रा।ता।उ। १.१.१] इति राम-तापनी-श्रुत्य्-आदि-प्रमाणेन चिद्-आनन्द-मय-मनो-बुद्धीन्द्रिय-शरीरस्य पर-ब्रह्मणस् तस्य दुःख-सम्भावनापि शास्त्र-युक्ति-प्रतिकूलेति पञ्चम-स्कन्धीय-किम्पुरुष-वर्ष-राम-प्रसङ्ग-व्याख्यात-युक्त्या जानन्त्य् एव ॥११॥
—ओ)०(ओ—
॥ ९.१०.१२ ॥
दग्ध्वात्म-कृत्य-हत-कृत्यम् अहन् कबन्धं
सख्यं विधाय कपिभिर् दयिता-गतिं तैः ।
बुद्ध्वाथ वालिनि हते प्लवगेन्द्र-सैन्यैर्
वेलाम् अगात् स मनुजोऽज-भवार्चिताङ्घ्रिः ॥
श्रीधरः : आत्मार्थेन कृत्येन कर्मणा रावणेन सह युद्धेन हतं कृत्यं शास्त्रीयं दहनादिकं यस्य तं जटायुषं पुत्र इव दग्ध्वा कबन्धं स्व-ग्रहणाय प्रसारित-बाहुं राक्षसम् अहन् । अथ वालिनि हते तैः कपिभिर् दयिताया गतिं बुद्ध्वा अज-भवाभ्याम् अर्चिताव् अङ्घ्री यस्य स मनुजो वेलां समुद्र-तीरम् अगात् ॥१२॥
क्रम-सन्दर्भः : सङ्गतोऽनुजः श्री-लक्ष्मणो यत्र तादृशः ॥१२॥
विश्वनाथः : आत्मार्थेन कृत्येन कर्मणा रावणेन सह युद्धेन हतं कृत्यं शास्त्रीयं दहनादिकं यस्य तं जटायुषं पुत्र इव दग्ध्वा कबन्धं स्व-ग्रहणाय प्रसारित-बाहुं राक्षसम् अहन् । अथ वालिनि हते सति तैः कपिभिर् दयिता-गतिं बुद्ध्वा वेलां समुद्र-तीरम् । मनुजो रामः ॥१२॥
—ओ)०(ओ—
॥ ९.१०.१३ ॥
यद्-रोष-विभ्रम-विवृत्त-कटाक्ष-पात-
सम्भ्रान्त-नक्र-मकरो भय-गीर्ण-घोषः ।
सिन्धुः शिरस्य् अर्हणं परिगृह्य रूपी
पादारविन्दम् उपगम्य बभाष एतत् ॥
श्रीधरः : तत्र त्रि-रात्रम् उपवासेन प्रतीक्षितोऽपि सिन्धुर् यदा नोपस्थितस् तदा यस्य रोष-विभ्रमेण क्रोध-लीलया विवृत्तो यः कटाक्षस् तस्य पातेन संभ्रान्ता नक्रा मकराश् च यस्मिन् । भयेन गीर्णो ग्रस्तः स्तम्भितो घोषो येन स सिन्धुर् एतद् वक्ष्यमाणं बभाषे । अर्हणम् अर्घादिकम् । रूपी मूर्तिमान् ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तत्र त्रि-रात्रोपवासेन प्रतीक्षितोऽपि सिन्धुर् यदा नोपतस्थे, तदा स्वैश्वर्यं सस्मारेत्य् आह—यस्य रोष-विभ्रमेण क्रोध-विलासेन विवृत्तो विकटो यः कटाक्ष-पातस् तेन संभ्रान्ता नक्रा मकराश् च यस्य सः । भयेन गीर्णो ग्रस्तः स्तम्भितो घोषो येन सः । अर्हणम् अर्घ्यादि पूजोपहारम् ॥१३॥
—ओ)०(ओ—
॥ ९.१०.१४ ॥
न त्वां वयं जड-धियो नु विदाम भूमन्
कूट-स्थम् आदि-पुरुषं जगताम् अधीशम् ।
यत् सत्त्वतः सुर-गणा रजसः प्रजेशा
मन्योश् च भूत-पतयः स भवान् गुणेशः ॥
श्रीधरः : भाषणम् एवाह—न त्वाम् इति द्वाभ्याम् । एतावत् पर्यन्तं नु निश्चितं त्वां न विदाम, न जानीम इत्य् अर्थः । इदानीं तु ज्ञातोऽसीत्य् आह—यद् इति पृथक् पदम् । यस्येत्य् अर्थः। यद्-वशेभ्यः सत्त्वादिभ्यः सुर-गणादयो भवन्ति स भवान् इति ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : जड-धियो जड-धित्वाद् अज्ञाः स्व-शास्तिम् अप्राप्य त्वां न विदामः पशवो हि लगुड-प्रहारम् अनवाप्य मनुष्यं यथा न गणयन्ति, तथेति भावः । नन्व् अधुना परिचितोऽस्मि न वा ? तत्राह—यद् इति पृथक् पदं, यस्येत्य् अर्थः । मन्योस् तमसः । तस्य गुणस्य गुण-रूप-प्रधानस्य ईशः नियन्ता ॥१४॥
—ओ)०(ओ—
॥ ९.१०.१५ ॥
कामं प्रयाहि जहि विश्रवसोऽवमेहम्
त्रैलोक्य-रावणम् अवाप्नुहि वीर पत्नीम् ।
बध्नीहि सेतुम् इह ते यशसो वितत्यै
गायन्ति दिग्-विजयिनो यम् उपेत्य भूपाः ॥
श्रीधरः : कामं यथेच्छं जलम् आक्रम्यापि प्रयाहि । अवमेहं2 पुरीष-प्रायम् । त्रै-लोक्यं रावयत्याक्रन्दयतीति तथा तं जहि । हे वीर, यद्य् अपि त्व जलं प्रतिबन्धकं न भवति तथापीह सेतुं बन्धीहि । तर्हि किम् अर्थम् । ते यशसो विस्ताराय । तद् एवाह—यं सेतुम् उपेत्य दुष्करं कर्मावेक्ष्य त्वद्-यशो गास्यन्ति भूपास् तम् ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विश्रवसोऽवमेहम् मूत्र-तुल्यं त्रैलोक्यं रावयति क्रन्दयतीति तथा तम् । यं सेतुम् उपेत्य गायन्ति त्वद्-यशो गास्यन्ति ॥१५॥
—ओ)०(ओ—
॥ ९.१०.१६ ॥
बद्ध्वोदधौ रघु-पतिर् विविधाद्रि-कूटैः
सेतुं कपीन्द्र-कर-कम्पित-भूरुहाङ्गैः ।
सुग्रीव-नील-हनुमत्-प्रमुखैर् अनीकैर्
लङ्कां विभीषण-दृशाविशद् अग्र-दग्धाम् ॥
श्रीधरः : तद्-वक्यम् अभिनन्द्य यत् कृतं तद् आह—बद्ध्वेति । विविधैर् अद्रीणां कूटैः शृङ्गैः सेतुं बद्ध्वाग्रे सीतान्वेषणे हनुमतैव दग्धां लङ्काम् आविशत् । कथं-भूतैः शृङ्गैः । कपीन्द्राणां करैः कम्पितानि भूरुहाणाम् अङ्गानि शाखादीनि येषु तैः । विभीषणस्य दृशा बुद्ध्या । कैः सहाविशत् ? सुग्रीवादयः प्रमुखा येषां तैर् अनीकैः ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अद्रि-शृङ्गैः कीदृशैः कपीन्द्राणां करैः कम्पितानि भूरुहाणाम् अङ्गानि शाखादीनि येषु तैः । विभीषणस्य दृशा बुद्ध्या ॥१६॥
—ओ)०(ओ—
॥ ९.१०.१७ ॥
सा वानरेन्द्र-बल-रुद्ध-विहार-कोष्ठ-
श्री-द्वार-गोपुर-सदो-वलभी-विटङ्का ।
निर्भज्यमान-धिषण-ध्वज-हेम-कुम्भ-
शृङ्गाटका गज-कुलैर् ह्रदिनीव घूर्णा ॥
श्रीधरः : ततश् च सा लङ्का धूर्णा प्रचलिता बभूव । कथं-भूता ? वानरेन्द्राणां बलै रुद्धा विहारादयो यस्याम् । निर्भज्यमाना धिषणादयो यस्यां सा । तत्र विहारः क्रीडा-स्थानम्, कोष्ठं धान्यागारादि, श्रीः कोशः, द्वारं गृहादीनाम्, गोपुरं पुरद्वारम्, सदः सभा, वलभी प्रासादादि-पुरो-भागच्छादिनी, विटङ्कः कपोत-पालिका । धिषणं वेदिकादि, शृङ्गाटकं चतुष्-पथम् ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : वानरेन्द्राणां बलै रुद्धा विहारादयो यस्यां, विहारः क्रीडा-स्थानम् । कोष्ठं धान्यागारादि श्रीः कोशः । द्वारं गृह-द्वारं, गोपुरं पुर-द्वारं, सदः सभा, वलभी प्रासादोर्ध्व-शिखर-गृहम् । विटङ्कः कपोत-पालिका । ततश् च निर्भज्यमाना धिषणाद्या यस्याम् । धिषणं वेदिकादि, शृङ्गाटकं चतुष्पथं, घूर्णा घूर्णिता ॥१७॥
—ओ)०(ओ—
॥ ९.१०.१८ ॥
रक्षः-पतिस् तद् अवलोक्य निकुम्भ-कुम्भ-।
धूम्राक्ष-दुर्मुख-सुरान्तक-नरान्तकादीन् ॥**
पुत्रं प्रहस्तम् अतिकाय-विकम्पनादीन् ।
सर्वानुगान् समहिनोद् अथ कुम्भकर्णम् ॥**
श्रीधरः : रक्षः-पती रावणः पुत्रम् इन्द्रजितं प्रहस्तादींश् च समहिनोत् प्रायुङ्क्त ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : पुत्रम् इन्द्रजितं समहिनोत् युद्धार्थं प्रायुङ्क्ते ॥१८॥
—ओ)०(ओ—
॥ ९.१०.१९ ॥
तां यातुधान-पृतनाम् असि-शूल-चाप-।
प्रासर्ष्टि-शक्तिशर-तोमर-खड्ग-दुर्गाम् ॥**
सुग्रीव-लक्ष्मण-मरुत्सुत-गन्धमाद-।
नीलाङ्गदर्क्ष-पनसादिभिर् अन्वितोऽगात् ॥**
श्रीधरः : असि-शूलादिभिर् दुर्गमां तां यातुधान-पृतनां सुग्रीवादिभिर् अन्वितः श्री-रामोऽभ्यगात् । मरुत्-सुतो हनुमान् । ऋक्षो जाम्बवान् ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अन्वितः श्री-रामः ॥१९॥
—ओ)०(ओ—
॥ ९.१०.२० ॥
तेऽनीकपा रघुपतेर् अभिपत्य सर्वे ।
द्वन्द्वं वरूथम् इभ-पत्ति-रथाश्व-योधैः ॥**
जघ्नुर् द्रुमैर् गिरि-गदेषुभिर् अङ्गदाद्याः ।
सीताभिमर्ष-हत-मङ्गल-रावणेशान् ॥**
श्रीधरः : ते रघु-पतेर् अनीकपा अङ्गदाद्याः सर्वे रावणस्येभादिभिर् यद् वरूथं सैन्यं तत्र द्वन्द्वं यथा भवति, तथाभिपत्य सङ्गम्य द्रुमादिभिर् जघ्नुः । कान् ? सीताया अभिमर्षेण हतं मङ्गलं यस्य, स रावण ईशो येषां, तान् ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ते रघु-पतेर् अनीकपा अङ्गदाद्याः सर्वे रावणस्येभादिभिर् यद् वरूथं सैन्यं तत्र द्वन्द्वं यथा भवति, तथाभिपत्य सङ्गम्य द्रुमादिभिर् जघ्नुः । कान् ? सीताया अभिमर्षेण हतं मङ्गलं यस्य तथा-भूतो रावण एव ईशो येषां तान् ॥२०॥
—ओ)०(ओ—
॥ ९.१०.२१ ॥
रक्षः-पतिः स्व-बल-नष्टिम् अवेक्ष्य रुष्ट ।
आरुह्य यानकम् अथाभिससार रामम् ॥**
स्वः-स्यन्दने द्युमति मातलिनोपनीते ।
विभ्राजमानम् अहनन् निशितैः क्षुरप्रैः ॥**
श्रीधरः : स्व-बलस्य नष्टिं नाशम् अवेक्ष्य रुष्टः क्रुद्धः सन् यानकं पुष्पकं विमानं रथं वारुह्य श्री-रामम् अभिससार । अथ तं स्वः-स्यन्दने स्वर्ग-स्थे इन्द्रस्य रथे मातलिनेन्द्र-सारथिनोपनीते द्युमति दीप्ति-युक्ते विभ्राजमानम् अहनद् अहन् ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यानकं पुष्पकं विमानं रथं वा । स्वः-स्यन्दने स्वर्गीय-रथे दीप्तिमति मातलिना इन्द्र-सारथिना उपनीते भ्राजमानं रामम् अहनत् अहन्, क्षुरप्रैः शरैः ॥२१॥
—ओ)०(ओ—
॥ ९.१०.२२ ॥
रामस् तम् आह पुरुषाद-पुरीष यन् नः
कान्तासमक्षम् असतापहृता श्ववत् ते ।
त्यक्त-त्रपस्य फलम् अद्य जुगुप्सितस्य
यच्छामि काल इव कर्तुर् अलङ्घ्य-वीर्यः ॥
श्रीधरः : हे पुरुषाद-पुरीष ! राक्षस-पुरीष-प्राय ! यद् यस्माद् अपहृता । श्ववत् श्वा यथा असमक्षं गृहं प्रविश्य किम् अपि हरति, तद्वत् । तस्माज् जुगुप्सितस्य कर्मणः कर्तुस् तेऽद्य काल इवालङ्घ्य-वीर्योऽहं फलं यच्छामि । अधर्म-कर्तुः पुंसः कालो यथा यच्छतीति वा ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : हे पुरुषाद ! राक्षसानां पुरीष-तुल्य यद् यस्माद् अपहृता श्ववत् शुना यथा असमक्षं गृहं प्रविश्य घृतम् अपह्रियते, तद्वत् । अद्य जुगुप्सितस्य कर्मणः कर्तुः कालो यम इव अहं ते फलं यच्छामि ॥२२॥
—ओ)०(ओ—
॥ ९.१०.२३ ॥
एवं क्षिपन् धनुषि सन्धितम् उत्ससर्ज ।
बाणं स वज्रम् इव तद्-धृदयं बिभेद ॥**
सोऽसृग् वमन् दश-मुखैर् न्यपतद् विमानाद् ।
धाहेति जल्पति जने सुकृतीव रिक्तः ॥**
श्रीधरः : रिक्तः क्षीण-पुण्यः सुकृती विमानाद् इव विमानात् पुष्पकान् न्यपतद् इति वा ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : स बाणः तस्य रावणस्य । स रावणः । रिक्तः क्षीण-पुण्यः सुकृती विमानाद् इव न्यपतत् ॥२३॥
—ओ)०(ओ—
॥ ९.१०.२४ ॥
ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्रशः ।
मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् ॥**
श्रीधरः : राक्षस-स्त्रीणां विलापम् आह—तत इति पञ्चभिः । मन्दं स्वल्पम् उदरं यस्यास् तया रावण-भार्यया सह ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मन्दोदार्या रावण-भार्यया ॥२४॥
—ओ)०(ओ—
॥ ९.१०.२५ ॥
स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिर् अर्दितान् ।
रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानम् आत्मना ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.२६ ॥
हा हताः स्म वयं नाथ लोक-रावण रावण ।
कं यायाच् छरणं लङ्का त्वद्-विहीना परार्दिता ॥**
श्रीधरः : परैर् अर्दिता पीडिता ॥२६॥
**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.२७ ॥
न वै वेद महा-भाग भवान् काम-वशं गतः ।
तेजोऽनुभावं सीताया येन नीतो दशाम् इमाम् ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.२८ ॥
कृतैषा विधवा लङ्का वयं च कुल-नन्दन ।
देहः कृतोऽन्नं गृध्राणाम् आत्मा नरक-हेतवे ॥**
श्रीधरः : गृध्राणाम् अन्नं भक्ष्यः । नरक-हेतवे नरक-भोगाय ॥२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अन्नं भक्ष्यः । नरक-हेतवे नरक-भोगाय ॥२८॥
—ओ)०(ओ—
॥ ९.१०.२९ ॥
श्री-शुक उवाच—
स्वानां विभीषणश् चक्रे कोसलेन्द्रानुमोदितः ।
पितृ-मेध-विधानेन यद् उक्तं साम्परायिकम् ॥**
श्रीधरः, विश्वनाथः : साम्परायिकम् और्ध्व-देहिकम् ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.३० ॥
ततो ददर्श भगवान् अशोक-वनिकाश्रमे ।
क्षामां स्व-विरह-व्याधिं शिंशपा-मूलम्-आश्रिताम् ॥**
**श्रीधरः, विश्वनाथः :**न व्याख्यातम्।
क्रम-सन्दर्भः : ततो ददर्श सीताम् इति शेषः ॥३०॥
—ओ)०(ओ—
॥ ९.१०.३१ ॥
रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत ।
आत्म-सन्दर्शनाह्लाद-विकसन्-मुख-पङ्कजाम् ॥**
श्रीधरः : आत्मनः स्वस्य सन्दर्शनेन य आह्लादः, तेन विकसन्-मुख-पङ्कजं यस्यास् ताम् ॥३१॥
**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.३२ ॥
आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्-युतः ।
विभीषणाय भगवान् दत्त्वा रक्षो-गणेशताम् ॥**
श्रीधरः : यानं पुष्पकम् । भ्रातृभ्यां लक्ष्मण-सुग्रीवाभ्याम् ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सीताम् आरोप्य भ्रातृभ्यां राम-लक्ष्मणाभ्याम् आरुरुहे यानं पुष्पकम् । हनूमद्-युतः हनूमता सह युत् साहित्यं प्राप्य, यु मिश्रणे भाव-क्विब्-अन्ताल् ल्यब्-लोपे ॥३२॥
—ओ)०(ओ—
॥ ९.१०.३३ ॥
लङ्काम् आयुश् च कल्पान्तं ययौ चीर्ण-व्रतः पुरीम् ।
अवकीर्यमाणः सुकुसुमैर् लोकपालार्पितैः पथि ॥**
श्रीधरः : आयुश् च दत्त्वा तेनापि सहैव ययौ ॥३३॥
**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.३४ ॥
उपगीयमान-चरितः शतधृत्य्-आदिभिर् मुदा ।
गो-मूत्र-यावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ॥**
श्रीधरः : गो-मूत्र-पक्व-यवान् न भोजनम् । भ्रातरं भरतम् ॥३४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : गो-मूत्र-यवान् । गो-मूत्र-पक्व-यवान् न भोजिनम् ॥३४॥
—ओ)०(ओ—
॥ ९.१०.३५ ॥
महा-कारुणिकोऽतप्यज् जटिलं स्थण्डिले-शयम् ।
भरतः प्राप्तम् आकर्ण्य पौरामात्य-पुरोहितैः ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.३६ ॥
पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ।
नन्दिग्रामात् स्व-शिबिराद् गीत-वादित्र-निःस्वनैः ॥**
श्रीधरः : स्व-शिबिराद् रामं विनायोध्याम् अप्रविशन् । स्वस्य वासं यत्र निर्मितवांस् तस्मात् सकाशाद् गीतादिभिर् युक्तो रामं प्रत्युद्यतोऽभिमुखं ययौ ॥३६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : स्व-शिबिरात् स्वीय-सैन्य-स्थानात् । गीतादिभिर् युक्तः पठतां ब्रह्म-वादिनां वेद-घोषेण च । स्वर्ण-रसाक्ताः कक्षाः प्रान्ता यासां ताभिः पताकाभिः । पुरट-वर्मभिः स्वर्ण-कवच-युक्तैः । पारमेष्ठ्यानि छत्र-चामरादि-राज-चिह्नानि । पण्यानि बहु-मूल्यानि रत्नादीनि च ॥३६॥
—ओ)०(ओ—
॥ ९.१०.३७-३८ ॥
ब्रह्म-घोषेण च मुहुः पठद्भिर् ब्रह्मवादिभिः ।
स्वर्ण-कक्ष-पताकाभिर् हैमैश् चित्र-ध्वजै रथैः ॥**
सद्-अश्वै रुक्म-सन्नाहैर् भटैः पुरट-वर्मभिः ।
श्रेणीभिर् वार-मुख्याभिर् भृत्यैश् चैव पदानुगैः ॥**
श्रीधरः : ब्रह्म-घोषेण महता घोषेण पठद्भिः । स्वर्ण-रसाक्ताः कक्षाः प्रान्ता यासां ताभिः पताकाभिः । हैमैर् इति चत्वारि रथ-विशेषणानि ॥३७-३८॥
**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.३९ ॥
पारमेष्ठ्यान्य् उपादाय पण्यान्य् उच्चावचानि च ।
पादयोर् न्यपतत् प्रेम्णा प्रक्लिन्न-हृदयेक्षणः ॥**
श्रीधरः : पारमेष्ठ्यानि राजार्हाणि छत्र-चामरादीनि । प्रेम्णा प्रक्लिन्नं हृदयम् ईक्षणे च नेत्रे यस्य ॥३९॥
**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.४० ॥
पादुके न्यस्य पुरतः प्राञ्जलिर् बाष्प-लोचनः ।
तम् आश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर् जलैः ॥**
श्रीधरः : नेत्र-जैर् जलैः स्नापयन्न् आश्लिष्य ॥४०॥
**क्रम-सन्दर्भः :**पादुकेत्य् अर्धकम् । बाष्प-लोचनोऽभूद् इति शेषः ॥४०॥
**विश्वनाथः :**न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.४१ ॥
रामो लक्ष्मण-सीताभ्यां विप्रेभ्यो येऽर्ह-सत्तमाः ।
तेभ्यः स्वयं नमश्चक्रे प्रजाभिश् च नमस्कृतः ॥**
श्रीधरः : येऽर्ह-सत्तमाः कुल-वृद्धास् तेभ्योऽपि नमनं चक्रे
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.४२ ॥
धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् ।
उत्तराः कोसला माल्यैः किरन्तो ननृतुर् मुदा ॥**
**श्रीधरः, क्रम-सन्दर्भः :**न व्याख्यातम्।
विश्वनाथः : उत्तराः कोशला अयोध्या-वासिनः । उत्तरासङ्गान् उत्तरीयान् धुन्वन्तः कम्पयन्तो ननृतुः ॥४२॥
—ओ)०(ओ—
॥ ९.१०.४३ ॥
पादुके भरतोऽगृह्णाच् चामर-व्यजनोत्तमे ।
विभीषणः स-सुग्रीवः श्वेत-च्छत्रं मरुत्-सुतः ॥**
श्रीधरः : अयोध्या-प्रवेश-प्रकारम् आह—पादुके इति सार्धैस् त्रिभिः ॥४३॥
क्रम-सन्दर्भः : पादुकेत्य् अर्धकं बाष्प-लोचनोऽभूद् इति शेषः ।*।*४३॥
विश्वनाथः : अयोध्या-प्रवेश-प्रकारम् आह—पादुके अगृह्णात् भरतोऽग्र-वर्ती । विभीषण-सुग्रीवौ पार्श्व-द्वय-वर्तिनौ चामर-व्यजन-हस्तौ, श्वेत-च्छत्र-धारी हनुमान् पृष्ठ-वर्ती ॥४३॥
—ओ)०(ओ—
॥ ९.१०.४४ ॥
धनुर्-निषङ्गान् छत्रुघ्नः सीता तीर्थ-कमण्डलुम् ।
अबिभ्रद् अङ्गदः खड्गं हैमं चर्मर्क्ष-राण् नृप ॥**
श्रीधरः : धनुश् च निषङ्गौ च तान् । ऋक्ष-राट् जाम्बवान् ॥४४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.४५ ॥
पुष्पक-स्थो नुतः3 स्त्रीभिः स्तूयमानश् च वन्दिभिः ।
विरेजे भगवान् राजन् ग्रहैश् चन्द्र इवोदितः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.४६ ॥
भ्रात्राभिनन्दितः सोऽथ4 सोत्सवां प्राविशत् पुरीम् ।
प्रविश्य राज-भवनं गुरु-पत्नीः स्व-मातरम् ॥
श्रीधरः : गुरु-पत्नीः कैकेय्याद्याः ॥४६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : गुरु-पत्नीः कैकेय्याद्याः स्व-मातरं कौशल्यां च ॥४६॥
—ओ)०(ओ—
॥ ९.१०.४७ ॥
गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् ।
वैदेही लक्ष्मणश् चैव यथावत् समुपेयतुः ॥**
श्रीधरः : वयस्यान् अवरजांश् च । यथावद् अनुक्रमेण समुपेयतुः ॥४७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : गुरून् अन्यांश् च गुरु-लोकान् वन्दित्वा वयस्यान् अवरजांश् च प्रत्यपूजयत् तैः पूजितः सन्, यथावत् यथोचितं वन्दनादिभिः सम्यग् उपेयतुः ॥४७॥
—ओ)०(ओ—
॥ ९.१०.४८ ॥
पुत्रान् स्व-मातरस् तास् तु प्राणांस् तन्व इवोत्थिताः ।
आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर् विजहुः शुचः ॥**
श्रीधरः : बाष्पौघैर् अभिषिञ्चन्त्यः शुचः शोकान् विजहुः । शेषं स्पष्टम् ॥४८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१०.४९-५६ ॥
जटा निर्मुच्य विधिवत् कुल-वृद्धैः समं गुरुः ।
अभ्यषिञ्चद् यथैवेन्द्रं चतुः-सिन्धु-जलादिभिः ॥**
एवं कृत-शिरः-स्नानः सुवासाः स्रग्व्य्-अलङ्कृतः ।
स्वलङ्कृतैः सुवासोभिर् भ्रातृभिर् भार्यया बभौ ॥**
अग्रहीद् आसनं भ्रात्रा प्रणिपत्य प्रसादितः ।
प्रजाः स्व-धर्म-निरता वर्णाश्रम-गुणान्विताः ।
जुगोप पितृवद् रामो मेनिरे पितरं च तम् ॥**
त्रेतायां वर्तमानायां कालः कृत-समोऽभवत् ।
रामे राजनि धर्म-ज्ञे सर्व-भूत-सुखावहे ॥**
वनानि नद्यो गिरयो वर्षाणि द्वीप-सिन्धवः ।
सर्वे काम-दुघा आसन् प्रजानां भरतर्षभ ॥**
नाधि-व्याधि-जरा-ग्लानि-दुःख-शोक-भय-क्लमाः ।
मृत्युश् चानिच्छतां नासीद् रामे राजन्य् अधोक्षजे ॥**
एक-पत्नी-व्रत-धरो राजर्षि-चरितः शुचिः ।
स्व-धर्मं गृह-मेधीयं शिक्षयन् स्वयम् आचरत् ॥**
प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
भिया ह्रिया च भाव-ज्ञा भर्तुः सीताहरन् मनः ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
नवमे दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
श्री-राम-चरितं नाम
दशमोऽध्यायः ।
॥ ९.१० ॥
(९.११)