०९ खट्वाङ्ग-चरितं

॥ ९.९.१ ॥

श्री-शुक उवाच

अंशुमांश् च तपस् तेपे गङ्गानयन-काम्यया ।

कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः ॥

श्रीधरः :

नवमेऽंशुमतो वंशः खट्वाङ्गावधि वर्ण्यते ।

गङ्गां भूतलमानिन्ये यस्य पौत्रो भगीरथः ॥

यथा सगरः पौत्राय राज्यं दत्त्वा तपस् तेपे तथांशुमांश् च स्व-पुत्राय राज्यं दत्त्वा महान्तं कालं तपस् तेपे इति च-कारस्यार्थः । नाशक्नोत्, गङ्गाम् आनेतुम् इति शेषः । संस्थितो मृतः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

भगीरथोऽनयद् गङ्गां सौदासो राक्षसोऽभवत् ।

हरिं मुहूर्तात् खट्वाङ्गः प्रापेति नवमे कथा ॥

यथा सगरः पौत्रे राज्यं न्यस्य तपस् तेपे । तथैवांशुमांश् च दिलीपे स्व-पुत्रे राज्यं न्यस्य तपस् तेपे इत्य् अर्थे च-कारः ॥१॥

—ओ)०(ओ—

॥ ९.९.२ ॥

दिलीपस् तत्-सुतस् तद्वद् अशक्तः कालम् एयिवान् ।

भगीरथस् तस्य सुतस् तेपे स सुमहत् तपः ॥

श्रीधरः : कालं मृत्युम् एयिवान् प्राप्तः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यथांशुमान् तद्वत् ॥२॥

—ओ)०(ओ—

॥ ९.९.३ ॥

दर्शयामास तं देवी प्रसन्ना वरदास्मि ते ।

इत्य् उक्तः स्वम् अभिप्रायं शशंसावनतो नृपः ॥

श्रीधरः : तं प्रत्य् आत्मानं दर्शयाम् आस । ते वरदास्मीति गङ्गयोक्तः सन् स्वम् अभिप्रायं पूर्व-जोद्धरणं शशंस कथयाम् आस ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : देवी गङ्गा स्वम् अभिप्रायं पूर्वजोऽद्धरणम् ॥३॥

—ओ)०(ओ—

॥ ९.९.४ ॥

कोऽपि धारयिता वेगं पतन्त्या मे मही-तले ।

अन्यथा भू-तलं भित्त्वा नृप यास्ये रसातलम् ॥

श्रीधरः : आह गङ्गा । कोऽपि गगनात् पतन्त्या मे वेगं धारयिता धारयिष्यति ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कोऽपीति गङ्गोक्तिः ॥४॥

—ओ)०(ओ—

॥ ९.९.५ ॥

किं चाहं न भुवं यास्ये नरा मय्य्1 आमृजन्त्य् अघम् ।

मृजामि तद् अघं क्वाहं राजंस् तत्र विचिन्त्यताम् ॥

श्रीधरः : किं च आमृजन्ति क्षालयिष्यन्ति तत्रोपायो विचिन्त्यताम् ॥५॥

क्रम-सन्दर्भः : किं चेति । मयि निमित्त-भूताया2 अघं पापं मृजन्ति नाशयन्ति । तद् अघं तत्-सङ्गानभिरुचेर् जातं मनसो दुःखम् इत्य् अर्थः । गङ्गा-प्रसङ्गे पापात्यन्त-नाश्यस्य कोटिधा पुराणादि-प्रसिद्धेः । अंहो दुःख-व्यसनेष्व् अघम् इत्य् अमर-कोषात् ।

विश्वनाथः : आमृजन्ति क्षालयिष्यन्ति तत्रोपायं विचिन्त्यताम् ॥५॥

—ओ)०(ओ—

॥ ९.९.६ ॥

श्री-भगीरथ उवाच—

साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोक-पावनाः ।

हरन्त्य् अघं तेऽङ्ग-सङ्गात् तेष्व् आस्ते ह्य् अघ-भिद् धरिः ॥

श्रीधरः : अघं हरन्ति हरिष्यन्ति । अघं भिनत्तीत्य् अघ-भित् ॥६॥

क्रम-सन्दर्भः : साधवः स्वाधिकार-प्राप्त-शास्त्रीयाचार-निरताः न्यासिनः कर्म तत्-फलाऽनासक्ताः, शान्ताः शुद्धान्तः-करणाः, ब्रह्मिष्ठा वेद-विचार-दक्षाः । सर्वत्र हेतुः—तेष्व् आस्त इति । अघानि अघ आदीनि भिनत्तीति तथा । सदा साधूनां सङ्गात्, तत्-सङ्गात् तत्-स्फूर्तेस् तद् दुःखं न भवितेति भावः ॥६॥

विश्वनाथः : अङ्ग-सङ्गात् स्नानात् । हरन्ति हरिष्यन्ति । तेषाम् तद्-अघं को हरिष्यतीति चेत् हरिर् एव अघभित् । तेन हरिं विना तीर्थ-तपः-प्रायश्चित्तादिभिः पापं वस्तुतो न नश्यतीत्य् अजामिलोपाख्यानोक्तः सिद्धान्तो दृढीकृतः ॥६॥

—ओ)०(ओ—

॥ ९.९.७ ॥

धारयिष्यति ते वेगं रुद्रस् त्व् आत्मा शरीरिणाम् ।

यस्मिन्न् ओतम् इदं प्रोतं विश्वं शाटीव तन्तुषु ॥

श्रीधरः : आत्मा कथं-भूतः ? यस्मिन्न् इदं विश्वम् ओतं ग्रथितम् ऊर्ध्व-तन्तुषु शाटीव पट इव । प्रोतं च तिर्यक् तन्तुषु पट इव । असौ सर्वाधारस् त्वद्-वेगं धारयिष्यतीत्य् अर्थः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : रुद्र इत्य् अधुनापि त्वं यस्य शिरसि तिष्ठस्य् एवेति भावः । यस्मिन्न् इदं विशम् ओतं ग्रथितम् ऊर्ध्वतन्तुषु शाटीवत् प्रोतं च तिर्यक्-तन्तुषु शाटीवेति तस्येश्वरत्वं दर्शितम् ॥७॥

—ओ)०(ओ—

॥ ९.९.८ ॥

इत्य् उक्त्वा स नृपो देवं तपसातोषयच् छिवम् ।

कालेनाल्पीयसा राजंस् तस्येशश् चाश्व् अतुष्यत ॥

श्रीधरः : इत्य् एवं गङ्गाम् उक्त्वा । तच् छ्रुत्वेति पाठे श्रावयित्वेत्य् अर्थाह् ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.९ ॥

तथेति राज्ञाभिहितं सर्व-लोक-हितः शिवः ।

दधारावहितो गङ्गां पाद-पूत-जलां हरेः ॥

श्रीधरः : राज्ञाभिहितं तथेत्य् अङ्गी-कृत्य । हरेः पादेन पूतं जलं यस्याः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तथेति यत्र तत्र गङ्गा यास्यति तत्-तलेऽहम् एवेति मच्-छिरस्य् एव सा सुखेन यात्व् इत्य् अर्थः ॥९॥

—ओ)०(ओ—

॥ ९.९.१०-११ ॥

भगीरथः स राजर्षिर् निन्ये भुवन-पावनीम् ।

यत्र स्व-पितॄणां देहा भस्मीभूताः स्म शेरते ॥

रथेन वायु-वेगेन प्रयान्तम् अनुधावती ।

देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.१२ ॥

यज्-जल-स्पर्श-मात्रेण ब्रह्म-दण्ड-हता अपि ।

सगरात्मजा दिवं जग्मुः केवलं देह-भस्मभिः ॥

श्रीधरः : प्रसङ्गाद् गङ्गा-माहात्म्यम् आह चतुर्भिः, यस्या जल-स्पर्श-मात्रेण तच् च केवलं देह-भस्मभिर् एव न साक्षात् । ब्रह्मणि स्व-कृतेन दण्डेन हता अपि । तां श्रद्धया ये सेवन्ते इति शेषः ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.१३ ॥

भस्मीभूताङ्ग-सङ्गेन स्वर् याताः सगरात्मजाः ।

किं पुनः श्रद्धया देवीं सेवन्ते ये धृत-व्रताः ॥

श्रीधरः : तत् प्रपञ्चयति—भस्मी-भूतेनाङ्गेन यः सङ्गस् तेन तां श्रद्धया ये सेवन्ते ते इति शेषः3

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.१४ ॥

न ह्य् एतत् परम् आश्चर्यं स्वर्धुन्या यद् इहोदितम् ।

अनन्त-चरणाम्भोज-प्रसूताया भव-च्छिदः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : इह यद् उदितं सगरात्मजोद्धरणं परम् अत्याश्चर्यं न भवति ॥१४॥

—ओ)०(ओ—

॥ ९.९.१५॥

सन्निवेश्य मनो यस्मिञ् छ्रद्धया मुनयोऽमलाः ।

त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास् तद्-आत्मताम् ॥

श्रीधरः : अनन्तस्य विशेषणं सन्निवेश्येति । त्रै-गुण्यं देह-संबन्धम् ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यस्मिन्न् अनन्ते ॥१५॥

—ओ)०(ओ—

॥ ९.९.१६-१७॥

श्रुतो भगीरथाज् जज्ञे तस्य नाभोऽपरोऽभवत् ।

सिन्धुद्वीपस् ततस् तस्माद् अयुतायुस् ततोऽभवत् ॥

श्रीधरः : नलस्य सखा अयात् प्राप्तः । तत् सुतः ऋतुपर्णस्य सुतः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अयात् या प्रापणे प्राप्त इत्य् अर्थः । अक्ष-हृदयं द्यूत-विद्या-रहस्यम् अस्मै नलाय ॥१६-१७॥

—ओ)०(ओ—

॥ ९.९.१८॥

ततः सुदासस् तत्-पुत्रो दमयन्ती-पतिर् नृपः ।

आहुर् मित्रसहं यं वै कल्माषाङ्घ्रिम् उत क्वचित् ।

वसिष्ठ-शापाद् रक्षोऽभूद् अनपत्यः स्व-कर्मणा ।

श्रीधरः : तत् पुत्रः सौदासः ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.१९ ॥

श्री-राजोवाच—

किं-निमित्तो गुरोः शापः सौदासस्य महात्मनः ।

एतद् वेदितुम् इच्छामः कथ्यतां न रहो यदि ॥

श्रीधरः : न रहो न रहस्यम् ।

क्रम-सन्दर्भः : न रहो यदीति श्रीमद्-वसिष्ठस्यैव तत्र दोषवत् प्रतीतिश् चेत् तदा नोद्घाटनीयम् इत्य् अर्थः ॥१९॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.२०-२१ ॥

श्री-शुक उवाच

सौदासो मृगयां किञ्चिच् चरन् रक्षो जघान ह ।

मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया ॥

सञ्चिन्तयन्न् अघं राज्ञः सूद-रूप-धरो गृहे ।

गुरवे भोक्तु-कामाय पक्त्वा निन्ये नरामिषम् ॥

श्रीधरः : मृगयां चरन् कञ्चिद् राक्षसं जघान, तस्य भ्रातरं मुमोच, स भ्राता पलाय्य गतः । अघम् अनिष्टम् । सूदः पाचकस् तद्-रूप-धरः सन् राज्ञो गृहे वर्तमणः ॥२०-२१॥

क्रम-सन्दर्भः : सूद-रूप-धरः तम् आविष्टः सन्न् इत्य् अमर-कोषात् । अपरिचितस्य पाकानधिकारात् ॥२१॥

विश्वनाथः : किञ्चिद् रक्षः किञ्चिद् राक्षसं जघान तस्य भ्रातरं मुमोच । स भ्राता राज्ञो यः सूदः पाचकस् तद्-रूप-धरः ॥२०-२१॥

—ओ)०(ओ—

॥ ९.९.२२ ॥

परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यम् अञ्जसा ।

राजानम् अशपत् क्रुद्धो रक्षो ह्य् एवं भविष्यसि ॥

श्रीधरः : अभक्ष्यम् अञ्जसा विलोक्य । एवं नर-मांस-व्यवहारेण

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अभक्ष्यं नर-मांसम् ॥२२॥

—ओ)०(ओ—

॥ ९.९.२३-२४ ॥

रक्षः-कृतं तद् विदित्वा चक्रे द्वादश-वार्षिकम् ।

सोऽप्य् अपो-ऽञ्जलिम् आदाय गुरुं शप्तुं समुद्यतः ॥

वारितो मदयन्त्यापो रुशतीः पादयोर् जहौ ।

दिशः खम् अवनीं सर्वं पश्यन् जीवमयं नृपः ॥

श्रीधरः : वसिष्ठ एवं तं शापं द्वादश-वार्षिकं चक्रे । रुशतीस् तीक्ष्णा अपः स्व-पादयोर् जहौ नान्यत्र । तत्र हेतुः—दिश इति । एवम् अनेन मित्र-सहत्वम् अपि दर्शितम् । मित्रस्य कलत्रस्य वाचः-सहनात् ॥२३-२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सर्वज्ञतया रक्षसैव कृतं न तु राज्ञेति विमृश्य तत् शपनं द्वादश-वार्षिकं चक्रे । सोऽपि सौदासोऽपि । रुषतीः क्रोधाग्नि-रूपाः स्वपादयोर् एव नान्यत्र दिगादीनां दाह-प्रसङ्गात् । एतेन कमाषपादत्वं मित्र-सहत्वं च दर्शितं मित्रस्य कलत्रस्य वाचः सहनात् ॥२३-२४॥

—ओ)०(ओ—

॥ ९.९.२५ ॥

राक्षसं भावम् आपन्नः पादे कल्माषतां गतः ।

व्यवाय-काले ददृशे वनौको-दम्पती द्विजौ ॥

श्रीधरः : तद् एवं राक्षसत्वे कल्माषाङ्घ्रित्वे च कारणम् उक्त्व स्व-कर्मणानपत्य इति यद् उक्तं तत् प्रपञ्चयति—व्यवाय-काल इत्य्-आदिन कर्मणा अप्रजा इत्य् अन्तेन । वनम् ओको निवासो ययोस् तौ वनौकसौ च तौ दम्पती च । पृथक् पदत्वे सकार-लोप आर्षः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वनौकसौ च तौ दम्पती चेति तौ पृथक् पद-पाठे सलोप आर्षः ॥२५॥

—ओ)०(ओ—

॥ ९.९.२६-२७ ॥

क्षुधार्तो जगृहे विप्रं तत्-पत्न्य् आहाकृतार्थवत् ।

न भवान् राक्षसः साक्षाद् इक्ष्वाकूणां महा-रथः ॥

मदयन्त्याः पतिर् वीर नाधर्मं कर्तुम् अर्हसि ।

देहि मेऽपत्य-कामाया अकृतार्थं पतिं द्विजम् ॥

श्रीधरः : अकृतार्थवद् दीन-वत् । अकृतार्थम् असमाप्त-रतिम् ॥२६-२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अकृतार्थम् असमाप्त-रतिम् ॥२६-२७॥

—ओ)०(ओ—

॥ ९.९.२८ ॥

देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थदः ।

तस्माद् अस्य वधो वीर सर्वार्थ-वध उच्यते ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.२९ ॥

एष हि ब्राह्मणो विद्वांस् तपः-शील-गुणान्वितः ।

आरिराधयिषुर् ब्रह्म महा-पुरुष-संज्ञितम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : गुणैर् दृष्ट-निष्ठैः सत्त्वादिभिर् हेतुभिः अन्तर्हितम् अदृश्यम् ॥२९॥

—ओ)०(ओ—

॥ ९.९.३० ॥

सर्व-भूतात्म-भावेन भूतेष्व् अन्तर्हितं गुणैः ।

सोऽयं ब्रह्मर्षि-वर्यस् ते राजर्षि-प्रवराद् विभो ।

कथम् अर्हति धर्म-ज्ञ वधं पितुर् इवात्मजः ॥

श्रीधरः : सर्व-भूतानाम् आत्मेति भावनयाराधयितुम् इच्छुः । यद् वा, सर्व-भूतानाम् आत्म-भावेन भूतेषु स्थितम् अपि गुणैर् अन्तर्हितं ब्रह्मेति संबन्धः । पाठान्तरे अन्तर्हितः सोऽयम् इत्य् उत्तरेणान्वयः ।३०॥।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ते त्वत्तः ॥३०॥

—ओ)०(ओ—

॥ ९.९.३१॥

तस्य साधोर् अपापस्य भ्रूणस्य ब्रह्म-वादिनः ।

कथं वधं यथा बभ्रोर् मन्यते सन्-मतो भवान् ॥

श्रीधरः : भ्रूणस्य श्रोत्रियस्य गर्भस्य सत इति वा । बभ्रोर् गोः । सतां मतो भवान् वधं कथं साधु मन्यत इत्य् अर्थः ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.३२ ॥

यद्य् अयं क्रियते भक्ष्यस् तर्हि मां खाद पूर्वतः ।

न जीविष्ये विना येन क्षणं च मृतकं यथा ॥

श्रीधरः : क्षणम् अपि येन विना न जीविष्यामि सोऽयं यदि भक्षः क्रियते तर्हि मृतकं यथा मृत-प्रायां मां पूर्वं भक्षय ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ब्रह्म-वादिनो भ्रूणस्य पुत्रस्य अस्य पितापि ब्रह्मवादीत्य् अर्थः । भ्रूणोऽर्भके बाल-गर्भे इत्य् अमरः बभ्रोर् गोः ॥३२॥

—ओ)०(ओ—

॥ ९.९.३४ ॥

एवं करुण-भाषिण्या विलपन्त्या अनाथवत् ।

व्याघ्रः पशुम् इवाखादत् सौदासः शाप-मोहितः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : करुण-भाषिणीम् अनादृत्य ॥३४॥

—ओ)०(ओ—

॥ ९.९.३५ ॥

ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् ।

शोचन्त्य् आत्मानम् उर्वीशम् अशपत् कुपिता सती ॥

श्रीधरः, विश्वनाथः- दिधिषुं गर्भाधान-कर्तारम् ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.३६ ॥

यस्मान् मे भक्षितः पाप कामार्तायाः पतिस् त्वया ।

तवापि मृत्युर् आधानाद् अकृत-प्रज्ञ दर्शितः ॥

श्रीधरः : आधानान् मैथुनात् । हे अकृत-प्रज्ञ, मृत्युर् मया दर्शितः ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आधानात् मैथुनात् । मृत्युर् मया दर्शितो भविष्यति ॥३६॥

—ओ)०(ओ—

॥ ९.९.३७ ॥

एवं मित्रसहं शप्त्वा पति-लोक-परायणा ।

तद्-अस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर् गतिं गता ॥

श्रीधरः : तद् एवं कर्मणा अप्रजाः ॥३७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.३८ ॥

विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः ।

विज्ञाप्य ब्राह्मणी-शापं महिष्या स निवारितः ॥

न कतमेन व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.३९ ॥

अत4 ऊर्ध्वं स तत्याज स्त्री-सुखं कर्मणाप्रजाः ।

वसिष्ठस् तद्-अनुज्ञातो मदयन्त्यां प्रजाम् अधात् ॥

श्रीधरः : तद् एवं कर्मणा अप्रजाः ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.४० ॥

सा वै सप्त समा गर्भम् अबिभ्रन् न व्यजायत ।

जघ्नेऽश्मनोदरं तस्याः सोऽश्मकस् तेन कथ्यते ॥

श्रीधरः : अबिभ्रद् दधारेत्य् अर्थः । न व्यजायत न प्रासूत । अतो वसिष्ठ एव तस्या उदरम् अश्मना जघान । स उत्पन्नः सुतोऽश्मकः ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अबिभ्रद् दधार । न व्यजायतः प्रासूत । वशिष्ठ एवाश्मना जघान । ततः स सुतः ॥४०॥

—ओ)०(ओ—

॥ ९.९.४१॥

अश्मकाद् बालिको5 जज्ञे यः स्त्रीभिः परिरक्षितः ।

नारी-कवच इत्य् उक्तो निःक्षत्रे मूलकोऽभवत् ॥

श्रीधरः : स्त्रीभिः संवेष्ट्य परशुरामात् परिरक्षितः, अतो नारी-कवच इत्य् उक्तः । निःक्षत्रे सति क्षत्र-वंशस्य मूलम् अभवद् अतो मूलक इति चोक्तः ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : स्त्रीभिर् आवृत्त्य परशुरामात् रक्षितः पुनः क्षत्र-वंशस्य मूलत्वान् मूलकः ॥४१॥

—ओ)०(ओ—

॥ ९.९.४२ ॥

ततो दशरथस् तस्मात् पुत्र ऐडविडिस् ततः ।

राजा विश्वसहो यस्य खट्वाङ्गश् चक्रवर्त्य् अभूत् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.९.४३ ॥

यो देवैर् अर्थितो दैत्यान् अवधीद् युधि दुर्जयः ।

मुहूर्तम् आयुर् ज्ञात्वैत्य स्व-पुरं सन्दधे मनः ॥

श्रीधरः : प्रसन्नैर् देवैर् वरं वृणीष्वेत्य् उक्ते खट्वाङ्गेनोक्तं प्रथमं तावन् ममायुः कथ्यताम् इति । देवैश् चोक्तं मुहूर्त-मात्रम् इति । तज् ज्ञात्वा देवैर् दत्तेन विमानेन शीघ्रं स्व-पुरम् एत्य मनः परमेश्वरे सन्दधे ॥४३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रसन्नैर् देवैर् वरं वृणुष्वेत्य् उक्ते खट्वाङ्ग उवाच—प्रथमं तावन् ममायुर् ब्रूतेति । देवैश् चोक्तं मुहूर्त-मात्रम् इति । तज् ज्ञात्वा देवैर् दत्तेन विमानेन शीघ्रं स्व-पुरम् एत्य मनः परमेश्वरे सन्दधे ॥४३॥

—ओ)०(ओ—

॥ ९.९.४४ ॥

न मे ब्रह्म-कुलात् प्राणाः कुल-दैवान् न चात्मजाः ।

न श्रियो न मही राज्यं न दाराश् चातिवल्लभाः ॥

श्रीधरः : एतद् एव स्व-साधु-वृत्तानुस्मरण-पूर्वकं तत् कृतेन निश्चयेन दर्शयति—नेति सप्तभिः । कुल-दैवाद् ब्रह्म-कुलात् सकाशान् मे प्राणादयो नाति-वल्लभा नाति-प्रियाः ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मुहूर्त-मध्य एव प्रथमं खट्वाङ्गः स्व-गतम् आह—नेति पञ्चभिः । ब्रह्म-कुलात् कीदृशात् ? कुलस्य मदीयस्य देवात् ॥४४॥

—ओ)०(ओ—

॥ ९.९.४५ ॥

न बाल्येऽपि मतिर् मह्यम् अधर्मे रमते क्वचित् ।

नापश्यम् उत्तमश्लोकाद् अन्यत् किञ्चन वस्त्व् अहम् ॥

श्रीधरः : मह्यं मम ॥४५॥

क्रम-सन्दर्भः : नापश्यम् उत्तम-श्लोकाद् अन्य-देवेत्य् एवार्थः । न चिन्तयामीति सुर-नर-पालन-विक्षेपस्य पूर्वं स्थितत्वात् ॥४५॥

विश्वनाथः : मह्यं मम वस्तु स्वस्योपादेयम् इत्य् अर्थः ॥४५॥

—ओ)०(ओ—

॥ ९.९.४६ ॥

देवैः काम-वरो दत्तो मह्यं त्रि-भुवनेश्वरैः ।

न वृणे तम् अहं कामं भूतभावन-भावनः ॥

श्रीधरः : भूत-भावनो हरिस् तस्मिन्न् एव भवना यस्य, सोऽहं तं कामं न वृणे ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वृणे वृतवान् । यतो भूत-भावने हराव् एव भावना यस्य सः ॥४६॥

—ओ)०(ओ—

॥ ९.९.४७ ॥

ये विक्षिप्तेन्द्रिय-धियो देवास् ते स्व-हृदि स्थितम् ।

न विन्दन्ति प्रियं शश्वद् आत्मानं किम् उतापरे ॥

श्रीधरः : तत्र हेतुः—य इति । विक्षिप्तानीन्द्रियानि धीश् च येषां ते देवा अपि ॥४७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अवरणे हेतुम् आह य इति ॥४७॥

—ओ)०(ओ—

॥ ९.९.४८ ॥

अथेश-माया-रचितेषु सङ्गं

गुणेषु गन्धर्व-पुरोपमेषु ।

रूढं प्रकृत्यात्मनि विश्व-कर्तुर्

भावेन हित्वा तम् अहं प्रपद्ये ॥

श्रीधरः : अथ तस्मात् प्रकृत्या स्वभावेनात्मनि रूढं गुणेषु सङ्गं विश्व-कर्तुर् भावेन हित्वा तम् एवाहं प्रपद्ये ॥४८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अस्थिरत्वेन गन्धर्व-पुर-तुल्येषु रूढं सङ्गं हित्वा प्रकृत्या स्वभावेनैव आत्मनि मन्-मनसि विश्वकर्तुर् भगवतो यो भक्तिस् तेनैव तं प्रपद्ये ॥४८॥

—ओ)०(ओ—

॥ ९.९.४९ ॥

इति व्यवसितो बुद्ध्या नारायण-गृहीतया ।

हित्वान्य-भावम् अज्ञानं ततः स्वं भावम् आस्थितः ॥

श्रीधरः : अन्य-भावं देहाद्य्-अभिमान-रूपम् अज्ञानं हित्वा ॥४९॥

क्रम-सन्दर्भः : नारायण-गृहीतयेति नारायणाविष्टयेत्य् अर्थः । अत एव, मुहूर्तेन ब्रह्म-लोकं खट्वाङ्गः समसाधयत् [भा।पु। ११.२३.३०] इत्य् उक्तम् ॥४९॥

विश्वनाथः : नारायणेनैव कर्त्रा गृहीतया यत्र बुद्धौ नान्यस्याधिकार इत्य् अर्थः । तया बुद्ध्यैव ततोऽज्ञान-त्यागानन्तरं स्वभावं पूर्व-श्लोक-निश्चितं प्रपत्ति-रूपं दास्यम् इत्य् अर्थः ॥४९॥

—ओ)०(ओ—

॥ ९.९.५० ॥

यत् तद् ब्रह्म परं सूक्ष्मम् अशून्यं शून्य-कल्पितम् ।

भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः ॥

श्रीधरः : स्वं भावम् एवाह—यत् तद् इति । शून्यवत् कल्पितं वाग्-आद्य्-अविषयत्वात् । वासुदेव इति यं गृणन्ति । ब्रह्मण एव भक्तानुग्रहार्थम् आविष्कृत-तनोर् वासुदेवत्वात् ॥५०॥

चैतन्य-मत-मञ्जुषा : सात्वता विष्णा यद् यं भगवान् वासुदेवेति गृणन्ति वदन्ति, तत् स भगवान् वासुदेवः परं ब्रह्म—ब्रह्मणोऽपि परत्वात्, परं ब्रह्मेति ब्रह्म-संज्ञकः स इति भावः । कुतः ? अशून्यं, श्री-विग्रहत्वात्, शून्य-कल्पितं कल्पना तर्कादिर् यत्र तर्काद्य्-अगोचर इत्य् अर्थः । यद् वा, शून्यम् इति कल्पितम् एव यत्, अत एव सूक्ष्मं दुर्बोधम् अज्ञानां दुरापम् ॥५०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : स एव को यस्मिन् दास्यम् इत्य् अपेक्षायाम् आह—यत् तद् ब्रह्मेति । यस्य तत्-प्रसिद्धं ब्रह्म परम् अतिशयेन सूक्ष्मं निर्विशेषं स्वरूपम् इत्य् अर्थः । शून्यवत् कल्पितं रागाद्य्-अविषयत्वात् यं च वासुदेव इति गृणन्ति तस्मिन्न् इत्य् अर्थः । देहं त्यक्त्वा तं प्राप्नोति ज्ञेयम् ।

खट्वाङ्गो नाम राजर्षिर् ज्ञात्वेयत्ताम् इहायुषः ।

मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम् ॥ इति पूर्वोक्तेः ॥५०॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

नवमे नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे

खट्वाङ्ग-चरितं नाम

नवमोऽध्यायः ।

॥९॥

(९.१०)


  1. मया इति श्री-जीवस्येष्ट-पाठः। ↩︎

  2. मया निमित्त-भूतया (ङ) ↩︎

  3. तां श्रद्धया ये सेवन्ते ते इति शेषः इति जगदीशलाल शास्त्री सङ्स्कारणे नास्ति ↩︎

  4. तत इति श-पुस्तके ↩︎

  5. अश्मकान् मूलको इति श-पुस्तके ↩︎