०८ सागरोपाख्यानम्

॥ ९.८.१ ॥

श्री-शुक उवाच—

हरितो रोहित-सुतश् चम्पस् तस्माद् विनिर्मिता ।

चम्पा-पुरी सुदेवोऽतो विजयो यस्य चात्मजः ॥

श्रीधरः :

अष्टमे रोहितस्योक्तो वंशो यत्राभवन् नृपः ।

सगरः कपिलाक्षेपान् निर्दग्धा यस्य सूनवः ॥

चम्पस् तस्माद् अभूत् । येन चम्पा-पुरी निर्मिता । अतश् चम्पात् सुदेवः ।

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः :

अष्टमे सगरः सम्राट् तत्-पुत्राः कपिलागसा ।

दग्धास् तं तु प्रसाद्याश्वम् अंशुमान् अनयति पुरीम् ॥ओ॥

विनिर्मिता चम्पा-पुरी येनेति शेषः । अतश् चम्पात् सुदेवः ॥१॥

—ओ)०(ओ—

॥ ९.८.२ ॥

भरुकस् तत्-सुतस् तस्माद् वृकस् तस्यापि बाहुकः ।

सोऽरिभिर् हृत-भू राजा स-भार्यो वनम् आविशत् ॥

श्रीधरः : हृता भूर्यस्य ॥२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.८.३ ॥

वृद्धं तं पञ्चतां प्राप्तं महिष्य् अनुमरिष्यती ।

और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥

श्रीधरः : और्वेण ऋषिणा । आत्मानं देहम् । प्रजावन्तं स-गर्भम् ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : और्वेण ऋषिणा आत्मानं महिष्या देहं प्रजावन्तं स-गर्भम् ॥३॥

—ओ)०(ओ—

॥ ९.८.४ ॥

आज्ञायास्यै सपत्नीभिर् गरो दत्तोऽन्धसा सह ।

सह तेनैव सञ्जातः सगराख्यो महा-यशाः ॥

श्रीधरः : गरो विषम् । तेन गरेण सहैव जातः ॥४-५॥

क्रम-सन्दर्भः : सगर इति सार्ध-युग्मकम् ॥५॥

विश्वनाथः : अन्धसा अन्नेन सह ॥४॥ [महाभारतस्य वन-पर्वे १०४-१०८ अध्याया द्रष्टव्याः]

—ओ)०(ओ—

॥ ९.८.५-६ ॥

यस् तालजङ्घान् यवनान् छकान् हैहय-बर्बरान् ।

नावधीद्1 गुरु-वाक्येन चक्रे विकृत-वेषिणः ॥

मुण्डान् छ्मश्रु-धरान् कांश्चिन् मुक्त-केशार्ध-मुण्डितान् ।

अनन्तर्-वाससः कांश्चिद् अबहिर्-वाससोऽपरान् ॥

श्रीधरः : गुरु-वाक्येनौर्व-वचनेन । कांश्चिद् अहत्वैव विकृत-वेषिणश् चक्रे । तद् एवाह—मुण्डान् इति । मुक्त-केशान् अर्ध-मुण्डितांश् च ।

क्रम-सन्दर्भः : सगर इति सार्ध-युग्मकम् । अवधीद् इत्य् अत्र नावधीद् इति पाठस् तु स्वाम्य्-असम्मतः, कांश्चिद् अहत्वेति व्याख्यानात् । न च श्री-पराशरस्य तथा हि तद् गद्यं, प्रायशश् च हैहयं जघान [वि।पु। ४.३.१८] इत्य्-आदि । गुरु-वाक्येन वसिष्ठ-वचसेत्य् एव विष्णु-पुराण-मतम् ॥५-६॥

विश्वनाथः : ताल-जङ्घाद्या जाति-विशेषाः । गुरोर् और्वस्य वाक्येन विकृत-वेषेण एवाह मुण्डान् इत्यादि ॥५-६॥

—ओ)०(ओ—

॥ ९.८.७ ॥

सोऽश्वमेधैर् अयजत सर्व-वेद-सुरात्मकम् ।

और्वोपदिष्ट-योगेन हरिम् आत्मानम् ईश्वरम् ।

तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ॥

श्रीधरः : और्वेणोपदिष्टो योग उपायस् तेन ॥७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.८.८ ॥

सुमत्यास् तनया दृप्ताः पितुर् आदेश-कारिणः ।

हयम् अन्वेषमाणास् ते समन्तान् न्यखनन् महीम् ॥

श्रीधरः : तस्य द्वे भार्ये सुमतिः केशिनी च । तत्र सुमत्याः पुत्राणां पुत्राणां प्रभावं मृत्युं चाह—सुमत्या इति षड्भिः ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्य द्वे भार्ये सुमतिः केशिनी च । तत्र सुमत्याः पुत्राणां प्रभावं मृत्युं चाह षड्भिः ॥८॥

—ओ)०(ओ—

॥ ९.८.९-१० ॥

प्राग्-उदीच्यां दिशि हयं ददृशुः कपिलान्तिके ।

एष वाजि-हरश् चौर आस्ते मीलित-लोचनः ॥

हन्यतां हन्यतां पाप इति षष्टि-सहस्रिणः ।

उदायुधा अभिययुर् उन्मिमेष तदा मुनिः ॥

श्रीधरः : एष वाजि-हर इति ब्रुवन्तोऽभिययुः । षष्टि-सहस्राणि परिच्छेदकतया सन्ति येषाम् । उन्मिमेष लोचनोन्मीलनं चकार ॥९-१०॥

क्रम-सन्दर्भः : प्राग्-उदीच्याम् इत्य् अर्धकम् । तद्-देश-दक्षिणस्थ-समुद्र-रेखाया गङ्गा-सागर-देशे परिवृत्या युज्यते । श्री-कपिल-परिव्रज्यायां चैवम् एव वा समाधेयम् ॥९॥

**विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.८.११ ॥

स्व-शरीराग्निना तावन् महेन्द्र-हृत-चेतसः ।

महद्-व्यतिक्रम-हता भस्मसाद् अभवन् क्षणात् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : स्व-शरीरेष्व् एव योऽग्निस् तृतीयं महा-भूतं तेनैव महद्-अपराधाद् अतिवर्धमानेन दग्धाः । महेन्द्रेतीन्द्रेणैव एष चौर इति विज्ञापनात् ॥११॥

—ओ)०(ओ—

॥ ९.८.१२ ॥

न साधु-वादो मुनि-कोप-भर्जिता

नृपेन्द्र-पुत्रा इति सत्त्व-धामनि ।

कथं तमो रोषमयं विभाव्यते

जगत्-पवित्रात्मनि खे रजो भुवः ॥

श्रीधरः : केचित् तु कपिलस्य कोपाग्निना दग्धा इति वर्णयन्ति, तन् निराकरोति—नेति । कुत इत्य् अत आह—सत्त्व-धामनि शुद्ध-सत्त्व-मूर्तौ । जगतः पवित्रः शुद्धि-कर आत्मा यस्य तस्मिन् कथं विभाव्यते संभाव्यते ? असंभावनायां दृष्टान्तः—भुवो रजः खे कथं संभाव्यते ? इति ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तत्र कपिलस्य कोपं वदन्तोऽज्ञा एवेत्य् आह—नेति । मुनि-कोप-भर्जिता इति न साधूनां वादः किन्त्व् असाधूनाम् अज्ञानाम् इत्य् अर्थः । यतः सत्त्व-धामनि शुद्ध-सत्त्व-मूर्तौ जगद् अपि पवित्रं दर्शनादिना यतस् तथाभूते आत्मा देहो यस्य तस्मिन् । तमः कथं विभाव्यते सम्भाव्यते? असम्भावनायां दृष्टान्तः—भुवो रजः खे कथं सम्भाव्यते । खम् इदं रजस्वलम् इव मुनिर् अयं कोऽपीत्य् अज्ञानाम् एवोक्तिर् इत्य् अर्थः ॥१२॥

—ओ)०(ओ—

॥ ९.८.१३ ॥

यस्येरिता साङ्ख्यमयी दृढेह नौर्

यया मुमुक्षुस् तरते दुरत्ययम् ।

भवार्णवं मृत्यु-पथं विपश्चितः

परात्म-भूतस्य कथं पृथङ्-मतिः ॥

श्रीधरः : किं च यस्य येनेरिता प्रवर्तिता तस्य विपश्चितः सर्व-ज्ञस्य कथं पृथङ्-मतिर् अरि-मित्रादि-भेद-दृष्टिः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यस्य ईरिता येन प्रवर्तिता तस्य विपश्चितः सर्वज्ञस्य पृथङ्-मतिः प्राकृतीः मतिः परमात्मनो हि मतिः परमात्म-रूपैव स्याद् इत्य् अर्थः ॥१३॥

—ओ)०(ओ—

॥ ९.८.१४ ॥

योऽसमञ्जस इत्य् उक्तः स केशिन्या नृपात्मजः ।

तस्य पुत्रोऽंशुमान् नाम पितामह-हिते रतः ॥

श्रीधरः : तद् एवं सुमत्याः पुत्रेषु मृतेषु केशिन्याः पौत्रेणाश्वः समानीतः पितृ-व्योद्ध-रण-प्रयत्नश् च कृत इति दर्शयितुम् आह—योऽसमञ्जस इत्य् उक्तः केवलम् अज्ञैः, वस्तुतस् तु समञ्जस एव । स तु केशिन्याः सुतः । क्षेत्र-जत्वम् इव प्रतीतं वारयति, तस्यैव नृपस्यात्मनो देहाज् जातः ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नृपस्य सगरस्यात्मजो योऽन्योऽसमञ्जस इत्य् उक्ते स केशिन्याः पुत्रः ॥१४॥

—ओ)०(ओ—

॥ ९.८.१५-१६ ॥

असमञ्जस आत्मानं दर्शयन्न् असमञ्जसम् ।

जाति-स्मरः पुरा सङ्गाद् योगी योगाद् विचालितः ॥

आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् ।

सरय्वां क्रीडतो बालान् प्रास्यद् उद्वेजयन् जनम् ॥

श्रीधरः : तस्य कथाम् आह चतुर्भिः । असमञ्जसः पुरा पूर्व-जन्मनि योगी सन् सङ्गाद् धेतोर् योगाद् विचालितोऽत इदानीं जाति-स्मरः सन् सङ्ग-परिहाराय जनम् उद्वेजयन् । लोक-गर्हितं ज्ञातीनां च विप्रियं कर्माचरन् क्रीडतो बालान् सरय्वां प्रास्यत् प्राक्षिपद् इति द्वयोर् अन्वयः ॥१५-१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पुरा पूर्व-जन्मनि गर्हितम् अचरन्न् इति सङ्ग-परिहारायेत्य् अर्थः ॥१५-१६॥

—ओ)०(ओ—

॥ ९.८.१७ ॥

एवं वृत्तः परित्यक्तः पित्रा स्नेहम् अपोह्य वै ।

योगैश्वर्येण बालांस् तान् दर्शयित्वा ततो ययौ ॥

श्रीधरः : एवं-विधं वृत्तं कर्म यस्य सः ॥१७॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.८.१८ ॥

अयोध्या-वासिनः सर्वे बालकान् पुनर् आगतान् ।

दृष्ट्वा विसिस्मिरे राजन् राजा चाप्य् अन्वतप्यत ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.८.१९ ॥

अंशुमांश् चोदितो राज्ञा तुरगान्वेषणे ययौ ।

पितृव्य-खातानुपथं भस्मान्ति ददृशे हयम् ॥

श्रीधरः : पितृव्य-खातम् अनु यः पन्थास् तं ययौ । भस्मान्ति भस्म-समीपे ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : असमञ्जस-पुत्रोऽंशुमान् पितृ-व्याख्यातम् अनु यः पन्थास् तम् अन्ति अन्तिके ॥१९॥

—ओ)०(ओ—

॥ ९.८.२० ॥

तत्रासीनं मुनिं वीक्ष्य कपिलाख्यम् अधोक्षजम् ।

अस्तौत् समाहित-मनाः प्राञ्जलिः प्रणतो महान् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.८.२१॥

अंशुमान् उवाच—

न पश्यति त्वां परम् आत्मनोऽजनो

न बुध्यतेऽद्यापि समाधि-युक्तिभिः ।

कुतोऽपरे तस्य मनः-शरीर-धी-

विसर्ग-सृष्टा वयम् अप्रकाशाः ॥

श्रीधरः :

अजानन्तोऽवजानन्तोऽप्य् अनुकम्प्या वयं त्व् इति ।

तुष्टाव षड्भिर् ईशानम् अंशुमान् एवम् आशयः ॥ इति ।

अजनोऽजो ब्रह्मापि त्वाम् अद्यापि न पश्यति न च बुध्यते । कथम्-भूतम् ? आत्मनः स्वस्मात् परं परमेश्वरम् । कैर् हेतुभिः ? समाधि-युक्तिभिः । समाधिनाप्य् अपरोक्षं न पश्यति । युक्तिभिः परोक्षम् अपि सम्यङ् न बुध्यत इत्य् अर्थः । अपरेऽर्वाचीनास् तु कुतस् त्वां पश्येयुः । अर्वाचीनत्वे हेतुः—तस्य ब्रह्मणो मनश् च शरीरं च धीश् च सत्त्वत-मोर-जः कार्याणि तामिर्ये विविधा देव-तिर्यङ्-नराणां सर्गास् तेषु सृष्टास् तत्रापि वयम् अप्रकाशा अज्ञाः कुतः पश्यामेत्य् अर्थः ॥२१॥

क्रम-सन्दर्भः : अथ तत्-पूर्वकं विदुषां भक्त्यैव साक्षाद् अनुभवनीयत्वम् आह त्रिभिः—न पश्यतीति । अजनोऽजो ब्रह्मापि त्वाम् अद्यापि न पश्यति, न च बुध्यते । कथम्-भूतम् ? आत्मनः परं प्रत्यग्-रूपम् । कैर् हेतुभिर् अपि न बुध्यते न पश्यति च ? समाधि-युक्तिभिः ब्रह्म-समाधिनाप्य् अपरोक्षं न पश्यति । युक्तिभिः परोक्षम् अपि न सम्यग् बुध्यत इत्य् अर्थः ।

अपरेऽर्वाचीनास् तु कुतस् त्वां पश्येयुर् बुध्येरन् वा ? अर्वाचीनत्वे हेतुः—तस्य ब्रह्मणः । मनश् च शरीरं च धीश् च सत्त्व-तमो-रजः-कार्याणि ताभिर् विविधा ये देव-तिर्यङ्-नराणां सर्गास् तेषु2 सृष्टाः । तत्रापि वयम् अप्रकाशा अज्ञाः कुतः पश्येम ? इत्य् अर्थः ॥२१॥ [भगवत्-सन्दर्भ ९१]3

विश्वनाथः : त्वद्-अज्ञानाद् अपराधिनः पूर्वे दग्धा इति नाद्भुतम् इत्य् आह—नेति आत्मनो जीवात् परं ताम् अजनो ब्रह्मापि न पश्यति नापि बुद्ध्यते । अपरे अर्वाचीना वयं कुतो बुद्ध्यामहे मन-आदिभिर् ये विसर्गाः देवादि-सर्गान्तेषु सृष्टाः अप्रकाशा अज्ञाः ॥२१॥

—ओ)०(ओ—

॥ ९.८.२२ ॥

ये देह-भाजस् त्रि-गुण-प्रधाना

गुणान् विपश्यन्त्य् उत वा तमश् च ।

यन्-मायया मोहित-चेतसस् त्वां

विदुः स्व-संस्थं न बहिः-प्रकाशाः ॥

श्रीधरः : अपरे तर्हि किं पश्यन्ति ? तद् आह—ये देह-भाजस् ते स्वस्मिन् सम्यक् स्थितम् अपि त्वां न विदुः, किन्तु गुणान् एव विपश्यन्ति । अथवा न गुणान् अपि तु तम एव पश्यन्ति । यतस् त्रि-गुणा बुद्धिर् एव प्रधानं येषाम्, अतो बहिर् एव प्रकाशो ज्ञानं येषाम् । बुद्धि-परतन्त्रतया जाग्रत्-स्वप्नयोर् विषयान् पश्यन्ति, सुषुप्तौ तम एव केवलं न तु निर्गुणं त्वाम् । सर्वत्र हेतुः—यद् यतः, यस्य तव माययेति वा मोहितं चेतो येषां ते ॥२२॥

क्रम-सन्दर्भः : अपरे तर्हि किं पश्यन्ति ? तत्राह—ये देह-भाजस् ते स्वस्मिन् सम्यक्-स्थितम् अपि त्वां न विदुः, किन्तु गुणान् एव विपश्यन्ति । कदाचिच् च केवलं तम एव पश्यन्ति, यतस् त्रिगुणा बुद्धिर् एव प्रधानं येषाम् । बुद्धि-परतन्त्रतया जाग्रत्-स्वप्नयोर् विषयान् पश्यन्ति । सुषुप्तौ तु तम एव, न तु वस्तुतो निर्गुणानां सर्वेषाम् आत्मारामाणाम् आत्म-भूतं त्वाम् । सर्वत्र हेतुः—यत् यतः मायया यस्य तव मायया वा मोहितं चेतो येषां ते ॥२२॥ [भगवत्-सन्दर्भ ९१]

विश्वनाथः : गुणान् जागर-स्वप्नयोर् विषयान् पश्यन्ति सुषुप्तौ तम एव केवलं न तु निर्गुणं त्वां स्वस्मिन्न् एव सम्यक् तिष्ठतीति स्व-संस्थं बहिः-प्रकाशा बहिर् ज्ञानवन्तः ॥२२॥

—ओ)०(ओ—

॥ ९.८.२३ ॥

तं त्वाम् अहं ज्ञान-घनं स्वभाव-

प्रध्वस्त-माया-गुण-भेद-मोहैः ।

सनन्दनाद्यैर् मुनिभिर् विभाव्यं

कथं विमूढः परिभावयामि ॥

श्रीधरः : तथाप्य् अहं विचारेण ज्ञास्यामीति चेत् तत्राह—तं त्वाम् अहं विमूढः कथं परिभावयामि विचारयामि । कथं-भूतम् । ज्ञान-घनं शुद्ध-ज्ञान-मूर्तिम् । स्वत एव प्रध्वस्तौ माया-गुण-निमित्तौ भेद-मोहौ येषां तैर् विभाव्यं विचिन्त्यम् । अयं भावः, ज्ञान-घनत्वान् न तावज् ज्ञान-विषयत्वं विचार-विषयत्वेऽपि माया-गुणैर् अभिभूतोऽहं न विचारे समर्थ इति ॥२३॥

क्रम-सन्दर्भः : तथापि त्वं विचारेण ज्ञास्यसि ? इति चेत्, मैवम् । यतो नास्मद्-विधानां ज्ञान-गोचरस् त्वं, किन्तु भक्तानाम् एवेत्य् आह— तं त्वाम् इति । तं नानाश्चर्य-वृत्तिक-पर-शक्ति-निधानं त्वां कथं परिभावयामि ? किं-स्वरूपम् ? ज्ञान-घनं सत्य-ज्ञानानन्तानन्दैक-रस-मूर्तिम् अत एव अनिर्देश्य-वपुर् इति सहस्र-नाम-स्तवे ।

अयं भावः—ज्ञान-घनत्वान् न तावत् ज्ञान-विषयस् त्वं, विचार-विषयत्वेऽपि माया-गुणैर् अभिभूतोऽहं न विचारे समर्थ इति ।

ननु तर्हि मम तथाविधत्वे किं प्रमाणम् ? तत्राह—स्वेन त्वदीयेन भावेन भक्त्या स्वस्यात्मनो भावेनाविर्भावेनैव वा प्रध्वस्ता माया-गुण-प्रकार-कृत-मोहा येभ्यस् तैः सनन्दनाद्यैर् भगवत्-तत्त्व-विद्भिर् मुनिभिर् विभाव्यं विचार्यं साक्षाद् अनुभवनीयं चेत्य् अर्थः । तस्माद् उलूकैः प्रकाश-गुणकत्वेनासम्मतेऽपि रवौ यथान्यैर् उपलभ्यमान-तद्-गुणकत्वम् अस्त्य् एव, तथार्वाग्-दृष्टिभिर् असम्भाव्यमानम् अपि त्वयि तद्-गुणकत्वं तद्-भक्त-विद्वत्-प्रत्यक्ष-सिद्धम् अस्त्य् एवेति भावः ।

तथा च श्रुतिः—

पराञ्चि खानि व्यतृणत् स्वयम्भूस्

तस्मात् पराङ् पश्यति नान्तरात्मन् ।

कश्चिद् धीरः प्रत्यग्-आत्मानम् ऐक्षद्

आवृत्त-चक्षुर् अमृतत्वम् इच्छन् ॥ [कठ।उ। २.१.१]

भक्तिर् एवैनं नयति

भक्तिर् एवैनं दर्शयति ।

भक्ति-वशः पुरुषः

भक्तिर् एव भूयसी ॥ [माठर-श्रुति]

नायम् आत्मा प्रवचनेन लभ्यो

न मेधया न बहुना श्रुतेन ।

यम् एवैष वृणुते तेन लभ्यः

तस्यैष आत्मा विवृणुते तनूं स्वाम् [कठ।उ। १.२.२३] इत्य्-आद्या च ॥२३॥ [भगवत्-सन्दर्भः ९१]

विश्वनाथः : स्वभावत एव न तु साधनैः प्रध्वस्तौ माया-गुण-निमित्तौ भेद-मोहौ यैस् तैः ॥२३॥

—ओ)०(ओ—

॥ ९.८.२४ ॥

प्रशान्त माया-गुण-कर्म-लिङ्गम्

अनाम-रूपं सद्-असद्-विमुक्तम् ।

ज्ञानोपदेशाय गृहीत-देहं

नमामहे त्वां पुरुषं पुराणम् ॥

श्रीधरः : हे प्रशान्त, तस्मात् त्वां पुरुषं पुराणं केवलं नमामेत्य् अन्वयः । पुराण-पुरुषत्वे हेतुः—मायायाः गुणाः, कर्माणि च विश्व-सृष्ट्य्-आदीनि, लिङ्गानि च ब्रह्मादि-रूपाणि यस्य तम् । प्रशान्तत्वे हेतुः—सद्-असद्भ्यां कार्य-कारणाभ्यां पुण्य-पापाभ्यां वा विमुक्तम् । अतोऽनाम-रूपं तत् तत् कृत-नाम-रूप-शून्यं, किन्तु ज्ञानोपदेशाय गृहीतः प्रकटितो देहः शुद्ध-सत्त्व-मूर्तिर् येन तम् । यद् वा, हे प्रशान्त-मायेति हे अगुणेति च संबोध्य कर्मभिः सृष्ट्य्-आदि-कार्यैर् लिङ्गानि यस्येति योज्यम् । यद् वा, प्रशान्ता माया-गुणादयो यस्मिन्न् इत्य् एकम् एव पदम् ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रशान्तानि माया-सन्धीनि गुण-कर्मालिङ्गानि यतस् तम् । तथैव अनाम-रूपं मायिक-नाम-रूप-रहितम् ॥२४॥

—ओ)०(ओ—

॥ ९.८.२५ ॥

त्वन्-माया-रचिते लोके वस्तु-बुद्ध्या गृहादिषु ।

भ्रमन्ति काम-लोभेर्ष्या-मोह-विभ्रान्त-चेतसः ॥

श्रीधरः : स्व-भाग्यं श्लोघते—त्वन्-मायेति द्वाभ्याम् । कामादिभिर् विभ्रान्तानि चेतांसि येषां ते इमे सर्वे गृहादिषु भ्रमन्ति ॥२५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.८.२६ ॥

अद्य नः सर्व-भूतात्मन् काम-कर्मेन्द्रियाशयः ॥

मोह-पाशो दृढश् छिन्नो भगवंस् तव दर्शनात्

श्रीधरः : हे सर्व-भूतात्मन्, नोऽस्माकं त्वत्-कृपयैव घटितात् त्वद्-दर्शनाद् अति-दृढोऽपि मोह-मयः पाशश् छिन्नः । कथं-भूतः, कामादीनाम् आशय आश्रयः । त्वत्-प्रसादेन कृतार्थोऽस्मीत्य् अर्थः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कामादीनाम् आशयः आश्रयः ॥२६॥

—ओ)०(ओ—

॥ ९.८.२७ ॥

श्री-शुक उवाच

इत्थं गीतानुभावस् तं भगवान् कपिलो मुनिः ।

अंशुमन्तम् उवाचेदम् अनुग्राह्य धिया नृप ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.८.२९ ॥

श्री-भगवान् उवाच

अश्वोऽयं नीयतां वत्स पितामह-पशुस् तव ।

इमे च पितरो दग्धा गङ्गाम्भोऽर्हन्ति नेतरत् ॥

श्रीधरः : अश्वं लब्ध्वापि साकाङ्क्षं प्रत्याह—इमे चेति ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नेतरद् इति नान्यथा निस्तार इत्य् अर्थः ॥२८॥

—ओ)०(ओ—

॥ ९.८.२९ ॥

तं परिक्रम्य शिरसा प्रसाद्य हयम् आनयत् ।

सगरस् तेन पशुना यज्ञ-शेषं समापयत् ॥

श्रीधरः : तं परिक्रम्येति शुकोक्तिः ।।२९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.८.३० ॥

राज्यम् अंशुमते न्यस्य निःस्पृहो मुक्त-बन्धनः ।

और्वोपदिष्ट-मार्गेण लेभे गतिम् अनुत्तमाम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

नवमस्याष्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे

सगरोपाख्यानं नाम

अष्टमोऽध्यायः ।

॥ ९.८ ॥

(९.९)


  1. अवधीद् इति जीवस्येष्ट-पाठः। ↩︎

  2. तेषां इति यादवपुर-कानाइलाल-संस्करणयोः। ↩︎

  3. थिस् परग्रफ् इस् ओन्ल्य् प्रेसेन्त् इन् भगवत्-सन्दर्भ, नोत् इन् क्रम-सन्दर्भ ↩︎