॥ ९.७.१ ॥
श्री-शुक उवाच—
मान्धातुः पुत्र-प्रवरो योऽम्बरीषः प्रकीर्तितः ।
पितामहेन प्रवृतो यौवनाश्वस् तु तत्-सुतः ।
हारीतस् तस्य पुत्रोऽभून् मान्धातृ-प्रवरा इमे ॥
श्रीधरः :
मान्धातुर् अन्वयः प्रोक्तः सप्तमे यत्र गीयते ।
पुरुकुत्सस्य चाख्यानं हरिश्चन्द्रस्य चोत्तमम् ॥
पुत्र-प्रवरः पुत्र-श्रेष्ठः । स पितामहेन युवनाश्वेन प्रवृतः पुत्रत्वेन स्वीकृतः । अत एव तस्य मान्धातृ-प्रवर्ग्यत्वम्। तत्-सुतोऽम्बरीषस्य सुतः । इमे यौवनाश्वाम्बरीष-हारीता मान्धातृ-गोत्रस्य प्रवरा अवान्तर-विशेष-प्रवर्तकाः । यद् वा, यौवनाश्व-विशेषणम् । पितामहेन मान्धात्र सह आर्षेय-वरणे प्रवृतः । मान्धात प्रवरो येषां ते इमे अम्बरीष-यौवनाश्व-हारीताः । यथाहाश्वलायनः—हरित-कुत्स-पिङ्ग-दर्भ-भैम-गवानाम् आङ्गिरसाम्बरीष-यौवनाश्वेति मान्धातारं हैके ब्रुवते। अतीत्याङ्गिरसं मान्धात्र्-अम्बरीष-यौवनाश्वेति इति ॥१॥
क्रम-सन्दर्भः : मान्धातुर् इति सार्धकम् । पितामहेन प्रवृत्तो यौवनाश्वस् तु तत्-सुत इत्य् एव पाठः । दृश्यते चायं गौड-विदेहेषु । अर्थस् तु तस्याम्बरीषस्य सुतो यौवनाश्वः । अयम् अपि मान्धातृ-सनामेत्य् अर्थः । विष्णु-पुराणे तु युवनाश्व इति नाम यथा गर्भश् च युवनाश्वस्योदरेऽभवत् । ततो मान्धाताऽभवत् इति पूर्वम् उक्त्वा तत्रैव गद्यान्तरेणाह—अम्बरीषस्य मान्धातृ-तनयस्य युवनाश्वः पुत्रोऽभूत् । तस्माद् धारितः, यतोऽङ्गिरसा हारीत [वि।पु। ४.३.२-३] इति । टीकायाम् अर्थान्तरे—आर्षेय-प्रवरेण प्रवृत इति ऋषिभिः स्व-गोत्रत्वेन वृत इत्य् अर्थः । तेन सह तस्याम्बरीषस्य स्तो हारीतो युवनाश्वेन प्रवृत इति ॥१॥
विश्वनाथः :
सप्तमे तु हरिश्चन्द्रो मान्धार्त्र्-अन्वय-सम्भवः ।
वरुणं वञ्चयन् पुत्र-स्नेहाद् ईजे नृ-मेधतः ॥
पितामहेन युवनाश्वेन प्रवृतः पुत्र-द्वयेन स्वीकृतः । तत्-सुतः अम्बरीष-पुत्रो यौवनाश्वः । इमे अम्बरीष-युवनाश्व-हारीताः मान्धातृ-प्रवरा मान्धातैव प्रवरो येषां ते ॥१॥
—ओ)०(ओ—
॥ ९.७.२ ॥
नर्मदा भ्रातृभिर् दत्ता पुरुकुत्साय योरगैः ।
तया रसातलं नीतो भुजगेन्द्र-प्रयुक्तया ॥
श्रीधरः : पुरुकुत्सस्य वंशं कथयिष्यन्न् आदौ तावत् तस्य विवाहं प्रभावं चाह—
उरगैर् भ्रातृभिर् या दत्ता नर्मदा तया ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मान्धातृ-पुत्रस्य पुरुकुत्सस्य वंशं वदन् प्रथमं तस्य विवाहम् आह—मर्मदा खलु या उरुगैर् दत्ता तया स पुरुकुत्सो रसातलं नीताः ॥२॥
—ओ)०(ओ—
॥ ९.७.३ ॥
गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णु-शक्ति-धृक् ।
नागाल् लब्ध-वरः सर्पाद् अभयं स्मरताम् इदम् ॥
श्रीधरः : वध्यान् वधार्हान् । स च पुरुकुत्सो नागाल् लब्ध-वरोऽभूत् । वरम् आह—इदं नर्मदया रसातलानयनादिकं स्मरतां सर्पाद् अभयम् इति ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : वधार्हान् अवधीत् । इदं रसातलानयनादिकं स्मरतां जनानां सर्पाद् अभयम् स्यात् ॥३॥
—ओ)०(ओ—
॥ ९.७.४ ॥
त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देह-कृत् ।
हर्यश्वस् तत्-सुतस् तस्मात् प्रारुणोऽथ त्रिबन्धनः ॥
श्रीधरः : देह-कृत् पिता । त्रसद्-दस्योः सुतोऽनरण्य इत्य् अर्थः ॥४॥
क्रम-सन्दर्भः : त्रसद्दस्युर् इति अयम् अपि मान्धातृ-सनामेत्य् अर्थः ॥४॥
विश्वनाथः : देहकृत् पिता । त्रसद्दस्योः सुतोऽनरण्य इत्य् अर्थः ॥४॥
—ओ)०(ओ—
॥ ९.७.५ ॥
तस्य सत्यव्रतः पुत्रस् त्रिशङ्कुर् इति विश्रुतः ।
प्राप्तश् चाण्डालतां शापाद् गुरोः कौशिक-तेजसा ॥
श्रीधरः, विश्वनाथः : त्रयः शङ्कव इव दुःख-हेतवो दोषा यस्यासौ त्रिशङ्कुः । तद् उक्तं हरिवंशे—
पितुश् चापरितोषेण गुरोर् दोग्ध्री-वधेन च ।
अप्रोक्षितोपयोगाच् च त्रि-विधस् ते व्यतिक्रमः ॥ इति ।
परिणीयमान-विप्र-कन्यापहरणात् क्रुद्धस्य गुरोः पितुः शापात् । कौशिकस्य विश्वामित्रस्य तेजसा प्रभावेण ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.७.६ ॥
स-शरीरो गतः स्वर्गम् अद्यापि दिवि दृश्यते ।
पातितोऽवाक्-शिरा देवैस् तेनैव स्तम्भितो बलात् ॥
श्रीधरः : तेनैव कौशिकेन ॥६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.७.७ ॥
त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्र-वशिष्ठयोः ।
यन्-निमित्तम् अभूद् युद्धं पक्षिणोर् बहु-वार्षिकम् ॥
श्रीधरः : पक्षिणोर् आडी-बकयोः । विश्वामित्रो राजसूय-दक्षिणाच् छलेन हरिश्चन्द्र-सर्वस्वम् अपहृत्य यातयाम् आस, तच् छ्रुत्वा कुपितो वशिष्ठोऽपि विश्वामित्रं त्वम् आडी भवेति शशाप । सोऽपि त्वं बको भवेति वसिष्ठं शशाप । तयोश् च युद्धम् अभूद् इति प्रसिद्धम् ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : पक्षिणोर् इति विश्वामित्रो राजसूय-दक्षिणाच् छलेन हरिश्चन्द्रस्य सर्वस्वम् अपजहार । तच् छ्रुत्वा कुपितो वशिष्ठोऽपि विश्वामित्रं त्वम् आडी भवेति शशाप । सोऽपि त्वं बको भवेति वसिष्ठं शशाप । ततस् तयोर् युद्धम् अभूत् ॥७॥
—ओ)०(ओ—
॥ ९.७.८ ॥
सोऽनपत्यो विषण्णात्मा नारदस्योपदेशतः ।
वरुणं शरणं यातः पुत्रो मे जायतां प्रभो ॥
श्रीधरः : हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजा पुत्र आस इत्य्-आदि-श्रुति-प्रसिद्धं हरिश्चन्द्रस्य चरितम् आह—सोऽनपत्य इत्य्-आदि यावत्-समाप्ति । कथं शरणं यातः ? तद् आह—पुत्रो मे जायताम् ॥८॥
क्रम-सन्दर्भः : श्री-भगवद्-दैवतस्य श्री-भागवत एव समञ्जसत्वं बोधयितुं हरिश्चन्द्रस्य चरितम् आह—सोऽनपत्य इत्य् आदिना । एवम् अन्यत्रापि ज्ञेयम् । तत्र स इति युग्मकम् ॥८॥
विश्वनाथः : स हरिश्चन्द्रः ॥८॥
—ओ)०(ओ—
॥ ९.७.९ ॥
यदि वीरो महाराज तेनैव त्वां यजे इति ।
तथेति वरुणेनास्य पुत्रो जातस् तु रोहितः ॥
श्रीधरः : यदि वीरः पुत्रो मे जायेत, तर्हि तेनैव पुरुष-पशुना त्वां यजे । यजामीति भाषया तथेत्य् उक्तवता वरुणेन निमित्तेनास्य रोहितो नाम पुत्रो जातः ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तथेति वरं ददता वरुणेन हेतुना ॥९॥
—ओ)०(ओ—
॥ ९.७.१० ॥
जातः सुतो ह्य् अनेनाङ्ग मां यजस्वेति सोऽब्रवीत् ।
यदा पशुर् निर्दशः स्याद् अथ मेध्यो भवेद् इति ॥
श्रीधरः : जाते पुत्रे स वरुणो जातः सुतो माम् अनेन यजस्वेत्य् अब्रवीत् । यदा पशुर् निर्दशो निर्गत-दश-दिवसः स्याद् इत्य् अत्र स राजाऽब्रवीद् इत्य् अनुषङ्गः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ततश् च स वरुणः जात इत्य् आदि अब्रवीत् । ततश् च राजा पुत्र-स्नेहात् तं वञ्चयन् यदेत्य् आदि अब्रवीत् । निर्दशः निर्गत-दश-दिवसः स्यात् ॥१०॥
—ओ)०(ओ—
॥ ९.७.११-१३ ॥
निर्दशे च स आगत्य यजस्वेत्य् आह सोऽब्रवीत् ।
दन्ताः पशोर् यज् जायेरन्न् अथ मेध्यो भवेद् इति ॥
दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
यदा पतन्त्य् अस्य दन्ता अथ मेध्यो भवेद् इति ॥
पशोर् निपतिता दन्ता यजस्वेत्य् आह सोऽब्रवीत् ।
यदा पशोः पुनर् दन्ता जायन्तेऽथ पशुः शुचिः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.७.१४ ॥
पुनर् जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
सान्नाहिको यदा राजन् राजन्योऽथ पशुः शुचिः ॥
श्रीधरः : राजन् हे वरुण ! राजन्यः पशुर् यदा सान्नाहिकः कवच-सम्बन्धार्हः सङ्ग्राम-समर्थः । अथ तदा शुचिः ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : राजन् हे वरुण ! राजन्यः पशुर् यदा सान्नाहिकः कवच-बन्धार्हः स्यात् तदा शुचिः ॥१४॥
—ओ)०(ओ—
॥ ९.७.१५ ॥
इति पुत्रानुरागेण स्नेह-यन्त्रित-चेतसा ।
कालं वञ्चयता तं तम् उक्तो देवस् तम् ऐक्षत ॥
श्रीधरः : इत्य् एवं तं तं कालं वञ्चयता राज्ञोक्तः, प्रार्थितो देवो वरुणस् तं तं कालं प्रत्यैक्षतेत्य् अर्थः ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तं तं कालं वञ्चयतोक्तः प्रार्थितो देवो वरुणस् तं तं कालं प्रत्यैक्षतेत्य् अन्वयः ॥१५॥
—ओ)०(ओ—
॥ ९.७.१६ ॥
रोहितस् तद् अभिज्ञाय पितुः कर्म चिकीर्षितम् ।
प्राण-प्रेप्सुर् धनुष्-पाणिर् अरण्यं प्रत्यपद्यत ॥
श्रीधरः : चिकीर्षितम् आत्मना पशुना वरुण-यजनम् ॥१६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.७.१७ ॥
पितरं वरुण-ग्रस्तं श्रुत्वा जात-महोदरम् ।
रोहितो ग्रामम् एयाय तम् इन्द्रः प्रत्यषेधत ॥
श्रीधरः : ततश् च कुपितेन वरुणेन ग्रस्तम्, अत एव जातं महद्-उदरं यस्य तं पितरं श्रुत्वा ॥१७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.७.१८ ॥
भूमेः पर्यटनं पुण्यं तीर्थ-क्षेत्र-निषेवणैः ।
रोहितायादिशच् छक्रः सोऽप्य् अरण्येऽवसत् समाम् ॥
श्रीधरः, विश्वनाथः : समां वर्षम् ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.७.१९ ॥
एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा ।
अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्र-हा ॥
श्रीधरः : द्वितीये च वर्षे वृत्र-हा अभ्येत्याभ्येत्य तथैव तं प्रतिषेधन् किञ्चित् किञ्चिद् आह ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एवं द्वितीयेऽपि वर्षे पुनः कृपयैवागतं तं वृत्रहा पुनः प्रतिषेधन् तथैवाह ॥१९॥
—ओ)०(ओ—
॥ ९.७.२० ॥
षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् ।
उपव्रजन्न् अजीगर्ताद् अक्रीणान् मध्यमं सुतम् ।
शुनःशेफं पशुं पित्रे प्रदाय समवन्दत ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.७.२१ ॥
ततः पुरुष-मेधेन हरिश्चन्द्रो महा-यशाः ।
मुक्तोदरोऽयजद् देवान् वरुणादीन् महत्-कथः ॥
श्रीधरः : वरुणेन मुक्तम् उदरं यस्य । महत्सु कथा यस्य सः । आत्मवान् जमदग्निर् अध्वर्युर् अभूत् ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : महत्सु अयतिआत्म स्यात् ॥२१॥
—ओ)०(ओ—
॥ ९.७.२२ ॥
विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युर् आत्मवान् ।
जमदग्निर् अभूद् ब्रह्मा वसिष्ठोऽयास्यः साम-गः ॥
श्रीधरः, विश्वनाथः : अयास्यो मुनिः सामग उद्गाता अभूद् इत्य् अर्थः ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.७.२३ ॥
तस्मै तुष्टो ददाव् इन्द्रः शातकौम्भमयं रथम् ।
शुनःशेफस्य माहात्म्यम् उपरिष्टात् प्रचक्ष्यते ॥
श्रीधरः : उपरिष्टाद् विश्वामित्र-सुताख्यान-प्रसङ्गेन ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : उपरिष्टात् विश्वामित्र-सुताख्यान-कथा-प्रसङ्गे ॥२३॥
—ओ)०(ओ—
॥ ९.७.२४ ॥
सत्यं सारं धृतिं दृष्ट्वा स-भार्यस्य च भूपतेः ।
विश्वामित्रो भृशं प्रीतो ददाव् अविहतां गतिम् ॥
मनः पृथिव्यां ताम् अद्भिस् तेजसापोऽनिलेन तत् ॥
खे वायुं धारयंस् तच् च भूतादौ तं महात्मनि ।
तस्मिन् ज्ञान-कलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥
श्रीधरः : अविहतां गतिं ज्ञानम् । ताम् एव गतिम् आह सार्धाभ्यम् । मनः पृथिव्यां धारयन् ज्ञान-कलां ध्यात्वा तयाज्ञानं विनिर्दहंस् तां च हित्वा मुक्त्वा मुक्त-बन्धनस् तस्थाव् इत्य् अन्वयः । मनो-मूलो हि संसारः । मनश् चान्न-मयम्, अन्न-मयं हि सोम्य मनः इति श्रुतेः । अतोऽन्न-शब्द-वाच्यायां पृथिव्यां मनो धारयन्न् एकी-कुर्वन्, तां पृथिवीमद्भिर् एकी-कुर्वन्, अपस् तेजसा, तत् तेजोऽनिलेन ॥२४॥
तं च खे आकाशे, तच् च भूतादाव् अहङ्कारे, तं च भूतादिम् अहङ्कारं महात्मनि महत्-तत्त्वे तस्मिन् विषयाकारं व्यावर्त्य ज्ञान-कलां ज्ञानांशम् आत्मत्वेन ध्यात्वा तया ध्यान-वृत्ति-रूपयात्मावरकम् अज्ञानं विनिर्दहन् ॥२५॥
क्रम-सन्दर्भः : तादृशस्य चात्यन्त-वैदिक-कर्म-परत्वं चेत् कथं चिद् ब्रह्म कैवल्यम् एव स्यात्, न तु भगवत्-सम्बन्ध इत्य् आह—सत्यं सारम् इत्य् आदि ॥२४॥
विश्वनाथः : गतिं ज्ञानम् । गतिम् एवाह—मन इति । अन्न-मयं हि सोम्य मनः इति श्रुतेर् मनसोऽनुवर्तित्वाद् अन्न-शब्द-वाच्यायां पृथिव्यां धारयन् तां पृथ्वीम् अद्भिर् अप्सु धारयन्, ता आपस् तेजसा तेजसि, तत्-तेज अनिले ॥२४॥ तं वायुं खे । तच् च खं भूतादाव् अहङ्कारे, तं चाहङ्कारं महात्मनि, महत्-तत्त्वे तस्मिन् तं च महान्तं ज्ञान-कलां ज्ञान-कलायां विद्यायां ध्यात्वा, तयैव विद्यया अज्ञानम् अविद्यां विनिर्दहन् ॥२५॥
—ओ)०(ओ—
॥ ९.७.२६ ॥
हित्वा तां स्वेन भावेन निर्वाण-सुख-संविदा ।
अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्त-बन्धनः ॥
श्रीधरः : निर्वाण-सुख-संविदा तां च हित्वा मुक्त-बन्धः सन्न् अनिर्देश्येन अप्रतर्क्येण स्वेन भावेन स्व-स्वरूपेण तस्थौ ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तां विद्यां च हित्वा स्वेन भावेन स्व-स्वरूपेण तस्थौ । कीदृशेन निर्वाण-सुखस्य सम्पद्य् अत्र तेन ॥२६॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
नवमे सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
हरिश्चन्द्रोपाख्यानम् नाम
सप्तमोऽध्यायः ।
॥ ९.७ ॥
(९.८)