॥ ९.६.१ ॥
श्री-शुक उवाच—
विरूपः केतुमान् छम्भुर् अम्बरीष-सुतास् त्रयः ।
विरूपात् पृषदश्वोऽभूत् तत्-पुत्रस् तु रथीतरः ॥
श्रीधरः :
षष्ठारम्भेऽम्बरीषस्य वंशम् उक्त्वा ततः परम् ।
षष्ठाद्य्-अष्टभिर् अध्यायैर् इक्ष्वकोर् वंश उच्यते ॥
तत्र षष्ठे शशादादिर् मान्धात्रन्तो निरूप्यते ।
प्रसङ्गात् सौभरेर् आख्या मान्धातृ-तनयापतेः ॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
षष्ठे शशादेन्द्र-वाह-युवनाश्व-कथोच्यते ।
मान्धातुश् च चरित्रान्तः सौभर्याख्यानम् अद्भुतम् ॥१॥
—ओ)०(ओ—
॥ ९.६.२ ॥
रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः ।
अङ्गिरा जनयाम् आस ब्रह्म-वर्चस्विनः सुतान् ॥
श्रीधरः, विश्वनाथः : तन्तवे सन्तानार्थम् ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.३ ॥
एते क्षेत्र-प्रसूता वै पुनस् त्व् आङ्गिरसाः स्मृताः ।
रथीतराणां प्रवराः क्षेत्रोपेता द्वि-जातयः ॥
श्रीधरः : ये अङ्गिरसा जनिता एते रथीतरस्य क्षेत्रे प्रसूतत्वेन रथीतर-गोत्राः सन्तोऽङ्गिरसो वीर्येण प्रसूतत्वाद् आङ्गिरसाश् च पुनर् अपि रथीतराणाम् अन्येषां जातानां प्रवरा मुख्याः स्मृताः । यतः क्षत्रोपेता ब्राह्मणा इत्य् अर्थः ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : रथीतरस्य क्षेत्रे भार्यायां प्रसूतत्वाद् अङ्गिरसो वीर्य-जातत्वाद् एते रथीतर-प्रवर-पत्रत्वेन प्रसिद्धाः क्षत्रोपेताः । द्विजातयो विप्राः द्वे जाती येषां ते इत्य् अन्वर्थ-संज्ञाः ॥३॥
—ओ)०(ओ—
॥ ९.६.४ ॥
क्षुवतस् तु मनोर् जज्ञे इक्ष्वाकुर् घ्राणतः सुतः ।
तस्य पुत्र-शत-ज्येष्ठा विकुक्षि-निमि-दण्डकाः ॥
श्रीधरः : तद् एवं मनोर् दशसु पुत्रेषु पृषध्रश् च कविश् च विरक्तत्वान् न वंश-प्रवर्तकौ । करूषादीनां च सप्तानां वंशास् तारतम्य-क्रमेणोक्ताः । इदानीम् अतिविततम् इक्ष्वाकोर् वंशम् आह—क्षुवतस् त्व् इत्य्-आदिना यावत् सोम-वंश-प्रस्तावः । क्षुतं कुर्वतो मनोर् घ्रानतो जज्ञे । श्रद्धायां जनयाम् आस दश-पुत्रान् इति पूर्वोक्तं बाहुल्याभि-प्रायेणेति द्रष्टव्यम् । पुत्राणां शते ज्येष्ठाः ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मनोर् ज्येष्ठ-पुत्रस्यातिविततम् इक्ष्वाकोर् वंशम् आह—क्षुवतस् त्व् इत्य्-आदिना । क्षुतं कुर्वतो मनोर् घ्रानतो जज्ञे । श्रद्धायां जनयाम् आस दश-पुत्रान् इति बाहुल्याभि-प्रायेणेति स्वामि-चरणाः ॥४॥
—ओ)०(ओ—
॥ ९.६.५ ॥
तेषां पुरस्ताद् अभवन्न् आर्यावर्ते नृपा नृप ।
पञ्च-विंशतिः पश्चाच् च त्रयो मध्येऽपरेऽन्यतः ॥
श्रीधरः : “आर्यावर्तः पुण्य-भूमिर् मध्यं विन्ध्य-हिमालयोः” तस्मिन् पुरस्तात् समुद्र-पर्यन्तं मण्डल-विभागेन पञ्च-विंशतिर् नृपा अभवन् । हे नृप, तथैव पश्चाच् च पञ्च-विंशतिः । मध्ये तु ज्येष्ठास् त्रयः । अपरे त्व् अन्यते दक्षिणोत्तरादिषु ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : आर्यवर्तः पुण्य-भूमिर् मध्यं विन्ध्य-हिमालयोः । तस्मिन् पुरस्तात् समुद्र-पर्यन्तं पृथक् पृथङ् मण्डलेषु पञ्चविंशतिर् नृपा अभवन् । पश्चाच् च तथैव पञ्चविंशतिः, मध्ये ज्येष्ठास् त्रयः । अपरे तु अन्यतः अन्यत्र दक्षिणोत्तरादिषु ॥५॥
—ओ)०(ओ—
॥ ९.६.६ ॥
स एकदाष्टका-श्राद्धे इक्ष्वाकुः सुतम् आदिशत् ।
मांसम् आनीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥
श्रीधरः : विकुक्षिर् एव शशाद इति विश्रुत इति वक्ष्यति । तत्र हेतुम् आह—स एकदेति चतुर्भिः ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विकुक्षिः शशाद संज्ञो\ऽभूत् । तत्र हेतुम् आह—स इति चतुर्भिः ॥६॥
—ओ)०(ओ—
॥ ९.६.७ ॥
तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् ।
श्रान्तो बुभुक्षितो वीरः शशं चादद् अपस्मृतिः ॥
श्रीधरः : क्रियार्हणान् श्राद्धार्हान् । आदद् अभक्षयत् ॥७॥
**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.८ ॥
शेषं निवेदयाम् आस पित्रे तेन च तद्-गुरुः ।
चोदितः प्रोक्षणायाह दुष्टम् एतद् अकर्मकम् ॥
श्रीधरः : तद् गुरुर् वसिष्ठः । प्रोक्षणाय श्राद्धोचित-संस्काराय ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तद् गुरुर् वसिष्ठः । दुष्टम् इत्य् अग्र-भागस्थं विकुक्षिणा भुक्तत्वात् ॥८॥
—ओ)०(ओ—
॥ ९.६.९ ॥
ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृपः ।
देशान् निःसारयाम् आस सुतं त्यक्त-विधिं रुषा ॥
श्रीधरः : त्यक्तो विधिः सद्-आचारो येन तम् ॥९॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.१० ॥
स तु विप्रेण संवादं ज्ञापकेन1 समाचरन् ।
त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥
श्रीधरः : स त्व् इक्ष्वाकुः । ज्ञापकेन वसिष्ठेन । राज्य-भोगेन विरक्तो योगी संस्तेन कलेवरं त्यक्त्वा स यत् परं तत्त्वं तद् अवाप ॥१०॥
क्रम-सन्दर्भः : समाचरन् बभूवेति शेषः । समाचरद् इति पाठे तु द्वितीयं स इति पदं सार्थकम् एव । क्वचिच् च टीका-पाठः । स यत् परं तत्त्वं तद् अवापेति ॥१०॥
विश्वनाथः :स त्व् इक्ष्वाकुः । ज्ञापकेन ज्ञान-दायिना वसिष्ठेन ॥१०॥
—ओ)०(ओ—
॥ ९.६.११ ॥
पितर्य् उपरतेऽभ्येत्य विकुक्षिः पृथिवीम् इमाम् ।
शासद् ईजे हरिं यज्ञैः शशाद इति विश्रुतः ॥
श्रीधरः : शासत् पालयन् हरिम् ईजे ॥११॥
क्रम-सन्दर्भः : तेनैव पर-दत्त-ज्ञान-प्रभावेन जीवद्-दशायाम् अपि दोषातिक्रमम् आह—पितरीति । ईजे हरिम् इति हरि-यजन-प्रभावेणैव पितृ-त्याग-दोषं चातिक्रान्तवान् इति ज्ञेयम् *॥*११॥
विश्वनाथः : शासत् पालयन् सन् ॥११॥
—ओ)०(ओ—
॥ ९.६.१२ ॥
पुरञ्जयस् तस्य सुत इन्द्रवाह इतीरितः ।
ककुत्स्थ इति चाप्य् उक्तः शृणु नामानि कर्मभिः ॥
श्रीधरः : दैत्य-पुरस्य जयात् पुरञ्जयः, इन्द्रो वाहो यस्येति इन्द्र-वाहः, ककुदि स्थितत्वात् ककुत्-स्थ इति च, शशाद-सुतस्य त्रीणि नामानि तत्-तत्-कर्म-निमित्तानि ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दैत्य-पुरस्य जयात् पुरञ्जयः, इन्द्रो वाहो यस्येति इन्द्र-वाहः, ककुदि स्थितत्वात् ककुत्-स्थ इति कर्मभिर् इति यैः कर्मभिस् त्रीणि नामानि तत्-तत्-कर्म-निमित्तानि शृण्व् इत्य् अर्थः ॥१२॥
—ओ)०(ओ—
॥ ९.६.१३ ॥
कृतान्त आसीत् समरो देवानां सह दानवैः ।
पार्ष्णिग्राहो वृतो वीरो देवैर् दैत्य-पराजितैः ॥
श्रीधरः : तान्य् एव व्याचक्षाण आह—कृतान्त इति सप्तभिः । कृतं विश्वम् अन्तयतीति तथा पार्ष्णि-ग्राहः सहायः ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कृतस्य विश्वस्य अन्तो नाशो यस्मात् तादृशः समर आसीत् । तत्र देवैः पार्ष्णि-ग्राहो वृतः ॥१३॥
—ओ)०(ओ—
॥ ९.६.१४ ॥
वचनाद् देव-देवस्य विष्णोर् विश्वात्मनः प्रभोः ।
वाहनत्वे वृतस् तस्य बभूवेन्द्रो महा-वृषः ॥
श्रीधरः : इन्द्रो यदि मम वाहनं स्यात्, तर्हि दैत्यान् हनिष्यामीति । तेन वाहनत्वेन वृतः सन्न् इन्द्रो लज्जया तद् अनङ्गीकुर्वन् विष्णोर् वचनात् तस्य वाहनत्वाय महान् वृषोबभूव्एत्य् अर्थः ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : इन्द्रो यदि मम वाहनं स्यात्, तदा दैत्यान् हनिष्यामीति । तेन वाहनत्वेनवृतः सन्न् इन्द्रो लज्जया तद् अनङ्गी-कुर्वन् विष्णोर् वचनात् तस्य वाहनत्वाय महान् वृषोबभूव्एत्य् अर्थः ॥१४॥
—ओ)०(ओ—
॥ ९.६.१५ ॥
स सन्नद्धो धनुर् दिव्यम् आदाय विशिखान् छितान् ।
स्तूयमानस् तम् आरुह्य युयुत्सुः ककुदि स्थितः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :स पुरञ्जयः वृषं समारुह्येतीन्द्रवाहः ककुदि स्थित इति ककुत्स्थश् चाभूत् ॥१५॥
—ओ)०(ओ—
॥ ९.६.१६ ॥
तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः2 ।
प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :त्रिदशैः सहितः पुरं न्यरुणत् ॥१६॥
—ओ)०(ओ—
॥ ९.६.१७ ॥
तैस् तस्य चाभूत् प्रधनं तुमुलं लोम-हर्षणम् ।
यमाय भल्लैर् अनयद् दैत्यान् अभिययुर् मृधे ॥
श्रीधरः : येऽभिमुखं ययुस् तान् यमं दर्शयितुं स-देहान् एव भल्लैर् अनयद् इत्य् अर्थः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :यमाय अनयत् यमं मृत्युं प्रापयामास गत्य्-अर्थ-कर्मणीति चतुर्थी [पा। २.३.१२] ॥१७॥
—ओ)०(ओ—
॥ ९.६.१८ ॥
तस्येषु-पाताभिमुखं युगान्ताग्निम् इवोल्बणम् ।
विसृज्य दुद्रुवुर् दैत्या हन्यमानाः स्वम् आलयम् ॥
श्रीधरः : तच् च दृष्ट्वाऽन्ये दुद्रुवुः । स्वम् आलयं पातालम् ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :दैत्या अवशिष्टाः । आलयं पातालम् ॥१८॥
—ओ)०(ओ—
॥ ९.६.१९ ॥
जित्वा पुरं धनं सर्वं स-स्त्रीकं वज्र-पाणये ।
प्रत्ययच्छत् स राजर्षिर् इति नामभिर् आहृतः3 ॥
श्रीधरः : इति एतैः कर्मभिः पुरञ्जयादि-नामभिः । आहृतो व्यःऋतः । पाठान्तरे आहूत इत्य् अर्थः ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :जित्वा पुरम् इति पुरञ्जयः । स वज्र-पाणिः प्रतयच्छत्, पुनस् तस्य राजर्षे राजर्षये ददौ । अत एव सराजर्षिः नामभिः पुरञ्जयादिभिर् आहृतः व्याहृतः । आहूय इति पाठे आहूत इत्य् अर्थः ॥१९॥
—ओ)०(ओ—
॥ ९.६.२० ॥
पुरञ्जयस्य पुत्रोऽभूद् अनेनास् तत्-सुतः पृथुः ।
विश्वगन्धिस् ततश् चन्द्रो युवनाश्वस् तु तत्-सुतः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.२१ ॥
शावस्तस् तत्-सुतो येन शावस्ती निर्ममे पुरी ।
बृहदश्वस् तु श्रावस्तिस् ततः कुवलयाश्वकः ॥
श्रीधरः : शावस्तिः शावस्तस्य पुत्रः । कुवलयाश्वक एव धुन्धुमार इति ख्यातः ॥२०॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.२२ ॥
यः प्रियार्थम् उतङ्कस्य धुन्धु-नामासुरं बली ।
सुतानाम् एक-विंशत्या सहस्रैर् अहनद् वृतः ॥
श्रीधरः : तत्र कारणम् आह—य इति । सुतानाम् एक-विंशत्या सहस्रैर् वृतः सन् हतवान् ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सुतानाम् एक-विंशत्या सहस्रैर् युक्तः सन्न् अहनन् ॥२२॥
—ओ)०(ओ—
॥ ९.६.२३ ॥
धुन्धुमार इति ख्यातस् तत्-सुतास् ते च जज्वलुः ।
धुन्धोर् मुखाग्निना सर्वे त्रय एवावशेषिताः ॥
श्रीधरः : धुन्धु-मार इति चेति च-कारस्यान्वयः ॥२३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.२४ ॥
दृढाश्वः कपिलाश्वश् च भद्राश्व इति भारत ।
दृढाश्व-पुत्रो हर्यश्वो निकुम्भस् तत्-सुतः स्मृतः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.२५ ॥
बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।
युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गतः ॥
श्रीधरः : अथ तस्मान् निकुम्भात् कृशाश्वः ॥२५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.२६ ॥
भार्या-शतेन निर्विण्ण ऋषयोऽस्य कृपालवः ।
इष्टिं स्म वर्तयां चक्रुर् ऐन्द्रीं ते सुसमाहिताः ॥
श्रीधरः : भार्याणां शतेन सह । अस्य पुत्रार्थम् इन्द्र-देवत्याम् इष्टिं वर्तयाम् आसुः । स्मेत्य् आश्चर्ये ॥२६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.२७ ॥
राजा तद्-यज्ञ-सदनं प्रविष्टो निशि तर्षितः ।
दृष्ट्वा शयानान् विप्रांस् तान् पपौ मन्त्र-जलं स्वयम् ॥
श्रीधरः : तद् एवाह—राजेति षड्भिः । तर्षितस् तृषितः सन् जलार्थं प्रविष्टो मन्त्राभिमन्त्रितं जलं पत्न्यै देयं स्वयं पपौ ॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तर्षितः तृषार्तः । मन्त्रादिभिर् मन्त्रितं पत्न्यै देयं पपौ ॥२७॥
—ओ)०(ओ—
॥ ९.६.२८ ॥
उत्थितास् ते निशम्याथ व्युदकं कलशं प्रभो ।
पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् ॥
श्रीधरः : व्युदकं निरुदकम् । पुंस-वनं पुत्रोत्पत्ति-कारणम् ॥२८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.२९ ॥
राज्ञा पीतं विदित्वा वै ईश्वर-प्रहितेन ते ।
ईश्वराय नमश् चक्रुर् अहो दैव-बलं बलम् ॥
श्रीधरः : अहो दैव-बलम् एव मुख्यं बलं पुरुष-बलं तु न किञ्चिद् इति वदन्त ईश्वराय नमस्कारं चक्रुः ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दैव-बलम् एव बलम् इति वदन्तः ॥२९॥
—ओ)०(ओ—
॥ ९.६.३० ॥
ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।
युवनाश्वस्य तनयश् चक्रवर्ती जजान ह ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.३१ ॥
कं धास्यति कुमारोऽयं स्तन्ये रोरूयते भृशम् ।
मां धाता वत्स मा रोदीर् इतीन्द्रो देशिनीम् अदात् ॥
श्रीधरः : अयं कं धास्यति पास्यतीति दुःखितैर् विप्रैर् उक्ते सति तस्याम् इष्ट्याम् आराधित इन्द्रोमां धाता पाता । हे वत्स ! मा रोदीर् इति ब्रुवन् देशिनीं तर्जनीम् अदाद् इत्य् अर्थः ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अयं कं धास्यति पास्यतीति विप्रैर् उक्ते सति तस्याम् इष्ट्याम् आराधित इन्द्रो मां धाता पाता । हे वत्स ! मा रोदीर् इति ब्रुवन् देशिनीं तर्जनीम् अदात् ॥३१॥
—ओ)०(ओ—
॥ ९.६.३२ ॥
न ममार पिता तस्य विप्र-देव-प्रसादतः ।
युवनाश्वोऽथ तत्रैव तपसा सिद्धिम् अन्वगात् ॥
श्रीधरः : तस्य पितायुवनाश्वो भिन्न-कुक्षिर् अपि नममार किन्तु कालान्तरे तपसासिद्धिम् अन्वगात् ॥३२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.३३ ॥
त्रसद्दस्युर् इतीन्द्रोऽङ्ग विदधे नाम यस्य वै ।
यस्मात् त्रसन्ति ह्य् उद्विग्ना दस्यवो रावणादयः ॥
श्रीधरः : मान्धातुर् महिमानम् आह—त्रसद्दस्युर् इति षड्भिः । अङ्ग ! हे राजन् ! यस्मान् मान्धातुर् दस्यव उद्विग्नाः कम्पिताः सन्तस् त्रसन्त्य् अत इन्द्रो यस्य त्रसद्दस्युर् इति नाम विदधे । स मान्धातावनीम् एकः शशासेत्य् उत्तरेणान्वयः ॥३३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.३४ ॥
यौवनाश्वोऽथ मान्धाता चक्रवर्त्य् अवनीं प्रभुः ।
सप्त-द्वीपवतीम् एकः शशासाच्युत-तेजसा ॥
श्रीधरः : अच्युतस्य तेजसा । अप्रच्युत-तेजसेति वा ॥३४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.३५ ॥
ईजे च यज्ञं क्रतुभिर् आत्म-विद् भूरि-दक्षिणैः ।
सर्व-देवमयं देवं सर्वात्मकम् अतीन्द्रियम् ॥
श्रीधरः : आत्म-विद् अपि स यज्ञं विष्णुम् ईजे । तम् एव विशिनष्टि—सर्व-देव-मयम् इति सार्धेन ॥३५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.३६ ॥
द्रव्यं मन्त्रो विधिर् यज्ञो यजमानस् तथर्त्विजः ।
धर्मो देशश् च कालश् च सर्वम् एतद् यद् आत्मकम् ॥
न केनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.३७ ॥
यावत् सूर्य उदेति स्म यावच् च प्रतितिष्ठति ।
तत् सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते ॥
श्रीधरः, विश्वनाथः : प्रतितिष्ठत्य् अस्तं गच्छति ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.३८ ॥
शशबिन्दोर् दुहितरि बिन्दुमत्याम् अधान् नृपः ।
पुरुकुत्सम् अम्बरीषं मुचुकुन्दं च योगिनम् ।
तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥
श्रीधरः : प्रसङ्गात् सौभरेश् चरितम् आह, तेषाम् इति यावत् समाप्ति । तेषां स्वसारो मान्धातुः कन्याः ॥३८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.३९ ॥
यमुनान्तर्-जले मग्नस् तप्यमानः परं तपः ॥
निर्वृतिं मीन-राजस्य दृष्ट्वा मैथुन-धर्मिणः ।
श्रीधरः : ननु महा-तापसस्य कुतो विवाह-प्रसङ्गः ? कथं वा जरा-जर्जरं तं राज-कन्या वव्रिरे ? तद् आह—यमुनान्तर्-जल इति षड्भिः ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु महा-तापस्विना सौभरिणा कथं ता व्यूढाः कथं वा जरा-जर्जरितं ता राज-कन्या वव्रिरे ? तत्राह—यमुनेति ॥३९॥
—ओ)०(ओ—
॥ ९.६.४० ॥
जात-स्पृहो नृपं विप्रः कन्याम् एकाम् अयाचत ।
सोऽप्य् आह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥
श्रीधरः : नृपं मान्धातारम् । सोऽपि मान्धाता स्वयंवरे कामं गृह्यताम् इत्य् आह ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ततो जलाद् उत्थाय मथुराम् आगत्य नृपं मान्धातारम् ॥४०॥
—ओ)०(ओ—
॥ ९.६.४१ ॥
स विचिन्त्याप्रियं स्त्रीणां जरठोऽहम् असन्-मतः ।
वली-पलित एजत्क इत्य् अहं प्रत्युदाहृतः ॥
श्रीधरः : स विप्रः स्त्रीणाम् अप्रियं मां विचिन्त्यानेनाहं प्रत्युक्तः, अत आत्मानं तथा साधयिष्यामीति व्यवसितो निश्चितवान् इति द्वयोर् अन्वयः । अप्रियत्वे हेतुः—जरठो वृद्धः । वलीभिर् युक्तः पलितश् च । एजत्-कः कम्पमान-शिराः । तापसत्वादिना वाऽसम्मतोऽहम् इति कृत्वा ॥४१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एजत्कः कम्पमान-शिराः । प्रत्युदाहृतः प्रत्याख्यात इति ॥४१॥
—ओ)०(ओ—
॥ ९.६.४२ ॥
साधयिष्ये तथात्मानं सुर-स्त्रीणाम् अभीप्सितम् ।
किं पुनर् मनुजेन्द्राणाम् इति व्यवसितः प्रभुः ॥
श्रीधरः : तथेत्य् अस्य प्रपञ्चः, सुर-स्त्रीणाम् अपीप्सितं, किं पुनर् मनुजेन्द्राणां । याः स्त्रियस् तासाम् इति ॥४२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : व्यवसितो निश्चितवान् ॥४२॥
—ओ)०(ओ—
॥ ९.६.४३ ॥
मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरम् ऋद्धिमत् ।
वृतः स राज-कन्याभिर् एकं पञ्चाशता वरः ॥
श्रीधरः : ततः किं वृत्तं ? तद् आह—मुनिर् इति द्वाभ्याम् । क्षत्रा प्रतीहारेण । पञ्चा-शतापि राज-कन्याभिः स एक एव वरो वृतः ॥४३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.४४ ॥
तासां कलिर् अभूद् भूयांस् तद्-अर्थेऽपोह्य सौहृदम् ।
ममानुरूपो नायं व इति तद्-गत-चेतसाम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.४५ ॥
स बह्व्-ऋचस् ताभिर् अपारणीय-
तपः-श्रियानर्घ्य-परिच्छदेषु ।
गृहेषु नानोपवनामलाम्भः-
सरःसु सौगन्धिक-काननेषु ॥
श्रीधरः : तस्य गार्हस्थ्यं वर्णयति—स इति चतुर्भिः । बह्व्-ऋच इति मन्त्र-सामर्थ्यम् उक्तम् । ताभिः सह रेमे इत्य् उत्तरेणान्वयः । क्व रेमे ? अपारणीयं दुरन्तं यत् तपः, तस्य श्रिया समृद्ध्या अनर्घ्याःपरिच्छदा येषु, तेषु गृहेषु तथा नाना-विधेषु उपवनेषु च । अमलान्यम्भांसि येषां तेषु सरःसु च । कथं-भूतेषु ? सौगन्धिकानां कह्लाराणां च काननानि स्तोमा येषु ॥४५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : बह्व्-ऋच इत्य् मन्त्र-सामर्थ्यम् उक्तम् । ताभिः सह रेमे इत्य् उत्तरेणान्वयः । क्व रेमे ? अपारणीयं दुरन्तं यत् तपस् तस्य श्रिया समृद्ध्या अनर्घ्याःपरिच्छदा येषु, तेषु गृहेषु तथा नाना-विधेषु उपवनेषु च । अमलान्यम्भांसि येषां तेषु सरस्सु च । कथं-भूतेषु ? सौगन्धिकानां कह्लाराणां च काननानि स्तोमा येषु ॥४५॥
—ओ)०(ओ—
॥ ९.६.४६ ॥
महार्ह-शय्यासन-वस्त्र-भूषण-
स्नानानुलेपाभ्यवहार-माल्यकैः ।
स्वलङ्कृत-स्त्री-पुरुषेषु नित्यदा
रेमेऽनुगायद्-द्विज-भृङ्ग-वन्दिषु ॥
श्रीधरः : कथं-भूतेषु गृहादिषु ? स्वलङ्कृटाः स्त्रियः पुरुषाश् च येषु । अनु गायन्तो द्विजाश् च पक्षिणो भृङ्गाश् च वन्दिनश् च येषु । कथं-भूतः ? महार्ह-शय्यादिभिर् उपलक्षितः सन् ॥४६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : महार्ह-शय्यादिभिर् उपलक्षितो रेमे ॥४६॥
—ओ)०(ओ—
॥ ९.६.४७ ॥
यद्-गार्हस्थ्यं तु संवीक्ष्य सप्त-द्वीपवती-पतिः ।
विस्मितः स्तम्भम् अजहात् सार्वभौम-श्रियान्वितम् ॥
श्रीधरः, विश्वनाथः : स्तम्भं गर्वम् ॥४७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.६.४८ ॥
एवं गृहेष्व् अभिरतो विषयान् विविधैः सुखैः ।
सेवमानो न चातुष्यद् आज्य-स्तोकैर् इवानलः ॥
श्रीधरः : आज्य-स्तोकैर् घृत-बिन्दुभिः ॥४८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : आज्यस्य स्तोकैर् बिन्दुभिः ॥४८॥
—ओ)०(ओ—
॥ ९.६.४९ ॥
स कदाचिद् उपासीन आत्मापह्नवम् आत्मनः ।
ददर्श बह्व्-ऋचाचार्यो मीन-सङ्ग-समुत्थितम् ॥
श्रीधरः : इदानीं तस्यानुताप-पूर्वकं वानप्रस्थाश्रमम् आह—स कदाचिद् इति सप्तभिः । आत्मनो मनसो हेतोर् आत्मनोऽपह्नवं तपो-हाणिं ददर्श ॥४९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एवं तस्य गरुडापराधस्य गृहावेश-प्रापकस्य भोगास् ते पुनर् विवेकोदयम् आह—स इति सप्तभिः । आत्मनः स्वस्माद् एव हेतोर् आत्मन आत्मानन्दस्य अपह्नवं वञ्चनं मीन-सङ्ग-समुत्थितम् इति मीन-सङ्गस्य कारणं तु मीन-रक्षार्थं गरुड-निवारण-रूपोऽपराध एव ज्ञेयः ॥४९॥
—ओ)०(ओ—
॥ ९.६.५० ॥
अहो इमं पश्यत मे विनाशं
तपस्विनः सच्-चरित-व्रतस्य ।
अन्तर्जले वारि-चर-प्रसङ्गात्
प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥
श्रीधरः : संश् चासौ चरित-व्रतश् च योऽहं तस्य । ब्रह्म तपः ॥५०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ब्रह्म तपः ॥५०॥
—ओ)०(ओ—
॥ ९.६.५१ ॥
सङ्गं त्यजेत मिथुन-व्रतीनां मुमुक्षुः
सर्वात्मना न विसृजेद् बहिर्-इन्द्रियाणि ।
एकश् चरन् रहसि चित्तम् अनन्त ईशे
युञ्जीत तद्-व्रतिषु साधुषु चेत् प्रसङ्गः ॥
श्रीधरः : मिथुन-व्रतिनां दाम्पत्य-धर्म-वतां चेद् यदि प्रसङ्गः, तर्हि तद्-व्रतिषु ईश्वरार्थ-धर्म-परेष्व् एव कार्य इति शेषः ॥५१॥
क्रम-सन्दर्भः : कदा तादृशः सन् चित्तं युञ्जीत ? तत्राह—तद्-व्रतिष्व् इति ॥५१॥
विश्वनाथः : तस्माद् अन्यो मादृशो मा भवत्व् इति सनिर्वेदम् आह—सङ्गम् इति द्वाभ्याम् । बहिर्-इन्द्रियाणि न विसृजेद् इत्य् अन्तर्-इन्द्रियाणि न विसृजेद् इति विधातुम् अशक्तेः । अशक्यानुष्ठानकस्य विधेर् अप्रामाण्याद् इति भावः । तद्-व्रतिषु अनन्त-भक्ति-निष्ठेषु साधुषु यदि प्रकृष्टः सङ्गः स्याद् इति मम तु तद्-अभावाद् एव गरुडे दोष-दर्शन-जनितो मिथुन-व्रतिनो मीनस्य सङ्गोऽभूद् इति भावः । चेत् प्रसङ्ग इत्य् अत्र नञ् अध्याहार्यः ॥५१॥
—ओ)०(ओ—
॥ ९.६.५२ ॥
एकस् तपस्व्य् अहम् अथाम्भसि मत्स्य-सङ्गात्
पञ्चाशद् आसम् उत पञ्च-सहस्र-सर्गः ।
नान्तं व्रजाम्य् उभय-कृत्य-मनोरथानां
माया-गुणैर् हृत-मतिर् विषयेऽर्थ-भावः ॥
श्रीधरः : सङ्गाज् जातं दोषं प्रपञ्चयति, एक इति । पञ्चा-शता भार्याभिः संबन्धात् पञ्चाशद् आसम् । अभूवम् इत्य् अर्थः । ततश् च सुतैः पञ्च-सहस्र-सर्ग आसम् । प्रत्य् एकं तासु पुत्र-शत-रूपेणोत्पत्तेः । उभय-कृत्यान्यैहिक-पार-त्रिकाणि कर्माणि तद् विषयाणां मनो-रथानाम् । अर्थ-भावः पुरुषार्थ-बुद्धिमान् ॥५२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सङ्गाज् जातं दोषं प्रपञ्चयति—एक इति । पञ्चा-शता भार्याभिः संबन्धात् पञ्चाशद् आसम् । ततश् च सुतैः पञ्च-सहस्र-सर्ग आसम् इति प्रत्येकं तासु पुत्र-शत-रूपेणोत्पत्तेः । उभय-कृत्यान्य् ऐहिक-पारत्रिकाणि कर्माणि । तद्-विषयाणां मनो-रथानाम् । अर्थ-भावः पुरुषार्थ-बुद्धिः ॥५२॥
—ओ)०(ओ—
॥ ९.६.५३ ॥
एवं वसन् गृहे कालं विरक्तो न्यासम् आस्थितः ।
वनं जगामानुययुस् तत्-पत्न्यः पति-देवताः ॥
श्रीधरः : न्यासोऽत्र सङ्ग-त्याग एव । वानप्रस्थ-धर्म इत्य् अर्थः ॥५३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : न्यासं सङ्ग-त्याग-रूपं वानप्रस्थ-धर्मम् इत्य् अर्थः ॥५३॥
—ओ)०(ओ—
॥ ९.६.५४ ॥
तत्र तप्त्वा तपस् तीक्ष्णम् आत्म-दर्शनम् आत्मवान् ।
सहैवाग्निभिर् आत्मानं युयोज परमात्मनि ॥
श्रीधरः : न व्याख्यातम्।
क्रम-सन्दर्भः : सहैवाग्निभिर् आत्मानं योजयति । आत्मात्मीयं सर्वम् एव तद्-अनुगतत्वेन विभावोत्क्रान्तवान्4 इत्य् अर्थः ॥५४॥
विश्वनाथः : सहैवाग्निभिर् इत्य् अग्निभिः सहैव देहं त्यक्त्वैवेति शेषः ॥५४॥
—ओ)०(ओ—
॥ ९.६.५५ ॥
ताः स्व-पत्युर् महाराज निरीक्ष्याध्यात्मिकीं गतिम् ।
अन्वीयुस् तत्-प्रभावेण अग्निं शान्तम् इवार्चिषः ॥
श्रीधरः : आध्यात्मिकीं गतिं ब्रह्मणि लयम् ॥५५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अन्वीयुर् अनुसृताः ॥५५॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठोऽयं नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
सौभर्याख्याने षष्ठोऽध्यायः ।
॥ ९.६ ॥
(९.७)