॥ ९.५.१ ॥
श्री-शुक उवाच—
एवं भगवतादिष्टो दुर्वासाश् चक्र-तापितः ।
अम्बरीषम् उपावृत्य तत्-पादौ दुःखितोऽग्रहीत् ॥**
श्रीधरः :
पञ्चमे विष्णु-चक्रं तु प्रसाद्य प्राण-सङ्कटात् ।
दुर्वासा रक्षितस् तेन तथा तद् वृत्तम् ईर्यते ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
पादौ स्पृशन् मुनिश् चक्रे प्रासाद्यैवावितः स्तुवन् ।
भोजितं चाम्बरीषेण पञ्चमेऽन्ते वनं गतम् ॥१॥
—ओ)०(ओ—
॥ ९.५.२ ॥
तस्य सोद्यमम् आवीक्ष्य1 पाद-स्पर्श-विलज्जितः ।
अस्तावीत् तद् धरेर् अस्त्रं कृपया पीडितो भृशम् ॥
श्रीधरः : स उद्यमनम् इति छेदः । सु-लोपः पाद-पूरणार्थः ॥२॥
क्रम-सन्दर्भः : तस्येति । तैः तत्र सु-लोपः पाद-पूरण इत्य् अस्य भावः, सोचि लोपे चेत् पाद-पूरणं [६.१.२३४] इति षष्ठाध्याय-प्रथम-पाद-गत-सूत्रेणेत्य् अर्थः । अन्यथा लोपः शाकल्यस्य [८.३.१९] इति तत्-स्थानीयस्य लोपे त्रि-पादी-गतत्वात्, पूर्वत्रासिद्धं [८.२.१] इति न्यायेन सन्धिर् न स्यात् ॥२॥
विश्वनाथः : तस्य दुर्वाससः सोऽम्बरीषः उद्यमं स्तुवाद्य्-अर्थम् उद्यमम् । सोचि लोपे चेत् पाद-पूरणं [६.१.२३४] इति स-लोपे सन्धिः ॥२॥
—ओ)०(ओ—
॥ ९.५.३ ॥
अम्बरीष उवाच—
त्वम् अग्निर् भगवान् सूर्यस् त्वं सोमो ज्योतिषां पतिः ।
त्वम् आपस् त्वं क्षितिर् व्योम वायुर् मात्रेन्द्रियाणि च ॥**
श्रीधरः : ज्योतिषां नक्षत्राणां पतिः सोमस् त्वम् । मात्राणीन्द्रियाणि च । त्वच्-छक्त्यैवाग्न्य्-आदयः स्वं स्वं कार्यं कुर्वन्तीत्य् अर्थः ॥३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.५.४ ॥
सुदर्शन नमस् तुभ्यं सहस्राराच्युत-प्रिय ।
सर्वास्त्र-घातिन् विप्राय स्वस्ति भूया इडस्पते ॥**
श्रीधरः : सहस्रम् अरा यस्य हे सहस्रार ! स्वस्ति शरणं भूयाः । इडस्पते पृथ्वीपते ! ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : हे सहस्रार ! हे इडस्पते ! पृथ्वी-पते !! ॥४॥
—ओ)०(ओ—
॥ ९.५.५ ॥
त्वं धर्मस् त्वम् ऋतं सत्यं त्वं यज्ञोऽखिल-यज्ञ-भुक् ।
त्वं लोक-पालः सर्वात्मा त्वं तेजः पौरुषं परम् ॥**
श्रीधरः : ब्राह्मण-रक्षणं तव युक्तम् एवेत्य् आह—त्वं धर्म इति । न च तवेयम् अतिस्तुतिर् इत्य् आह—पौरुषं पुरुषस्येश्वरस्य परं तेजः सामर्थ्यं त्वम् । अयं भावः—स ऐक्षत [ऐतरेय १.१.१] इत्य्-आदि-श्रुति-प्रसिद्धं भगवतः शोभनं दर्शनं सुदर्शनं, तत एव सर्वं जातम् । अतस् त्वम् एव सर्वात्मेति ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ऋतं च सुनृता वाणी, सत्यं च सम-दर्शनम् । पौरुषं वैष्णवं तेजः
॥५॥
—ओ)०(ओ—
॥ ९.५.६ ॥
नमः सुनाभाखिल-धर्म-सेतवे
ह्य् अधर्म-शीलासुर-धूम-केतवे ।
त्रैलोक्य-गोपाय विशुद्ध-वर्चसे
मनो-जवायाद्भुत-कर्मणे गृणे ॥
श्रीधरः : हे सुनभ ! अद्भुत-कर्माणं त्वां कः स्तोतुं समर्थः ? अतस् तुभ्यं केवलं नमो गृण इत्य् अन्वयः । अद्भुत-कर्मत्वम् एवाह—अखिलानां धर्माणां सेतवे मर्यादा-रूपाय । अत एवाधर्म-शीलानाम् असुराणां धूम-केतवे दाहकाय । त्रैलोक्यं गोपायतीति तथा । विशुद्धम् अत्युज्ज्वलं वर्चस् तेजो यस्य तस्मै ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तर्हि भक्ति-धर्म-सेतु-पालाय तुभ्यं द्रुयन्तम् एतम् अधार्मिकं विप्रम् अवश्यम् आह—अधर्म-शीला ये असुरास् तेषां धूम-केतवे इति धर्म-शीला असुरा अधर्म-शीला विप्राश् च व्यावृत्ताः । हे सुनाभ ! तुभ्यं नमो गृणे स्तोतुं सामर्थ्याभावाद् इति भावः ॥६॥
—ओ)०(ओ—
॥ ९.५.७ ॥
त्वत्-तेजसा धर्म-मयेन संहृतं
तमः प्रकाशश् च दृशो महात्मनाम् ।
दुरत्ययस् ते महिमा गिरां पते
त्वद्-रूपम् एतत् सद्-असत् परावरम् ॥
श्रीधरः : तद् एव प्रपञ्चयति—त्वत्-तेजसेति द्वाभ्याम् । सूर्यादीनां प्रकाशश् च । त्वयैव रूप्यते प्रकाश्यत इति त्वद्-रूपम् ॥७॥
क्रम-सन्दर्भः : धर्म-मयेन त्वत्-तेजसाऽदस् तमः संहतं महात्मनां सूर्यादीनां प्रकाशश् च त्वत्-तेजसैव भवति अत एव ते तव महिमा दुरत्ययः यत एतत् सद् अपि त्वद्-रूपं त्वत्-प्रकाश्यम् एव ॥७॥
विश्वनाथः : ननु तेजस्वि-मानिनोऽस्य विप्रस्य चिकित्सा अवश्य-कर्तव्येत्य् अत आह—त्वत्-तेजसा त्वत्-तेजो विभूति-रूपेण सूर्यादिना दृशः सर्व-चक्षुषस् तथा महात्मनां दृशो ज्ञानस्य च प्रकाशस् त्वत्-तेजसैव भवति । तद्-रूपम् एतत् तवैव परमेश्वरत्वान् न हीश्वरः स्व-तेजोऽन्यस्मिन् तेजस्विनि दर्शयेद् इति भावः ॥७॥
—ओ)०(ओ—
॥ ९.५.८ ॥
यदा विसृष्टस् त्वम् अनञ्जनेन वै
बलं प्रविष्टोऽजित दैत्य-दानवम् ।
बाहूदरोर्व्-अङ्घ्रि-शिरो-धराणि
वृश्चन्न् अजस्रं प्रधने विराजसे ॥
श्रीधरः : हे अजित ! अनञ्जनेन श्री-हरिणा यदा विसृष्टस् त्वं तदा दैत्य-दानवानां बलं प्रविष्टः सन्, तेषां बाह्व्-आदीन् भिन्दन् विराजसे । पाठान्तरे ऊर्जिता दैत्य-दानवा यस्मिंस् तद्-बलम् । पूर्व-पदेन सन्धिर् आर्षः ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु तद् अप्य् अनेन सह विहर्तु-कामोऽस्मीति चेन् मैवं तवासुर-सङ्ग्राम एव विहार-रङ्ग-भूमिर् इत्य् आह—यदेति । अनञ्जनेन श्री-हरिणा हे अजित ! प्रविष्टोर्जित-दैत्य-दानवम् इति पाठे ऊर्जिता दैत्य-दानवा यत्र तद्-बलं सन्धिर् आर्षः । वृश्चन् छिन्दन् प्रधने सङ्ग्रामे ॥८॥
—ओ)०(ओ—
॥ ९.५.९ ॥
स त्वं जगत्-त्राण खल-प्रहाणये
निरूपितः सर्व-सहो गदा-भृता ।
विप्रस्य चास्मत्-कुल-दैव-हेतवे
विधेहि भद्रं तद् अनुग्रहो हि नः ॥
श्रीधरः : किं च, त्वया भगवन्-नियुक्तेन खलानाम् एव दण्डः कार्यः, साधवस् तु रक्षणीयाः, अतो विप्रस्य रक्षणेनास्मान् अनुगृहाणेत्य् आह—स त्वम् इति । हे जगत्-त्राण ! स एवं-भूतस् त्वं खलानाम् एव प्रहारार्थं निरूपितो नियुक्तः । अतोऽस्मत्-कुलस्यदैव-हेतवे भाग्य-लाभाय विप्रस्यभद्रं विधेहि,तद् एव नोऽनुग्रहः ॥९॥
क्रम-सन्दर्भः : प्रहाणये प्रकृष्ट-हान्य्-अर्थम् ॥९॥
विश्वनाथः : नन्व् अहं त्वद्-विद्वेषि-संहाराय भगवता नियुक्तस् तत्र न केवलम् एवम् एवेत्य् आह—हे जगत्-त्राण ! खलानां प्रहाणये संहाराय, सर्वं-सहः सर्व-बल-स्वरूपः । यद् वा, वात्सल्यात् सर्वम् अप्य् अपराधम् अस्माकं सहसे इति सर्व-सहः । अस्य विप्रस्य अपराधः क्षम्यताम् इति भावः । च चास्य मद्-विद्वेषित्वम् इत्य् आह । अस्मत्-कुलस्य दैव-हेतवे भाग्य-लाभाय विप्रस्य भद्रं विधेहि ॥९॥
—ओ)०(ओ—
॥ ९.५.१० ॥
यद्य् अस्ति दत्तम् इष्टं वा स्व-धर्मो वा स्वनुष्ठितः ।
कुलं नो विप्र-दैवं चेद् द्विजो भवतु विज्वरः ॥**
श्रीधरः : सर्व-सुकृतार्पणेन विप्र-रक्षां प्रार्थयते—यद्य् अस्तीति द्वाभ्याम् । विप्रो दैवं देवता यस्मिंस् तत् ॥१०॥
क्रम-सन्दर्भः : तत्र भगवत्-प्रीति-मात्रार्थं यद् यत् कृतं, तत् तच् छुद्धिं परीक्षते—यद्य् अस्तीति द्वाभ्याम् । द्विज इति । द्विजस्य विजरीभावं कुर्वीथा इत्य् अर्थः । अन्यथायं महान् अत्ययः स्याद् इति भावः ॥१०-११॥
विश्वनाथः : तद् अपि विप्रम् अत्यजच् चक्रम् आलक्ष्य शपथं कुर्वन्न् आह—यद्य् अस्तीति विप्र-देवताकम् ॥१०॥
—ओ)०(ओ—
॥ ९.५.११ ॥
यदि नो भगवान् प्रीत एकः सर्व-गुणाश्रयः ।
सर्व-भूतात्म-भावेन द्विजो भवतु विज्वरः ॥**
श्रीधरः : तत्र भगवत्-प्रीति-मात्रार्थं यद् यत् कृतं, तत्-तद्-बुद्धिं परीक्ष्यते—द्विज इति । द्विजस्य विज्वरी-भावं कुर्वीथा इत्य् अर्थः । अन्यथाऽयं महान् अत्ययः स्याद् इति भावः ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तं शपथम् अमानयच् चक्रम् आलोक्यासाधारणं शपथम् आह—यदीति सर्वेषु भूतेषु आत्मन इव यो भावस् तेन यदि प्रीतः ॥११॥
—ओ)०(ओ—
॥ ९.५.१२ ॥
श्री-शुक उवाच—
इति संस्तुवतो राज्ञो विष्णु-चक्रं सुदर्शनम् ।
अशाम्यत् सर्वतो विप्रं प्रदहद् राज-याच्ञया ॥**
श्रीधरः : राज्ञस् तस्यैव याच्ञया ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विप्रं सर्वतः प्रदहद् अप्य् अशाम्यत् ॥१२॥
—ओ)०(ओ—
॥ ९.५.१३ ॥
स मुक्तोऽस्त्राग्नि-तापेन दुर्वासाः स्वस्तिमांस् ततः ।
प्रशशंस तम् उर्वीशं युञ्जानः परमाशिषः ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.५.१४ ॥
दुर्वासा उवाच—
अहो अनन्त-दासानां महत्त्वं दृष्टम् अद्य मे ।
कृतागसोऽपि यद् राजन् मङ्गलानि समीहसे ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कृतागसोऽपि त्वद्-अमङ्गलम् ईहमानस्यापीत्य् अर्थः ॥१४॥
—ओ)०(ओ—
॥ ९.५.१५ ॥
दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् ।
यैः सङ्गृहीतो भगवान् सात्वताम् ऋषभो हरिः ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दुष्करोऽनुग्रहः दुस्त्यजोऽपराधः । सङ्गृहीत इति यथान्यैर् धनानि सङ्गृह्यन्ते तथेत्य् अर्थः । हरिः सङ्गृहीतोऽपि तदीयं चेतस्श् चारयतीत्य् अर्थः ॥१५॥
—ओ)०(ओ—
॥ ९.५.१६-१७ ॥
यन्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः ।
तस्य तीर्थ-पदः किं वा दासानाम् अवशिष्यते ॥**
राजन्न् अनुगृहीतोऽहं त्वयातिकरुणात्मना ।
मद्-अघं पृष्ठतः कृत्वा प्राणा यन् मेऽभिरक्षिताः ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.५.१८ ॥
राजा तम् अकृताहारः प्रत्यागमन-काङ्क्षया ।
चरणाव् उपसङ्गृह्य प्रसाद्य समभोजयत् ॥**
श्रीधरः : राजेत्य्-आदि-श्लोक-द्वयं शुकोक्तिः ॥१८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.५.१९ ॥
सोऽशित्वादृतम् आनीतम् आतिथ्यं सार्व-कामिकम् ।
तृप्तात्मा नृपतिं प्राह भुज्यताम् इति सादरम् ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : स दुर्वासा आदृतं यथा स्यात् तथा आनीतम् आतिथ्यार्थम् अन्नादिकम् ॥१९॥
—ओ)०(ओ—
॥ ९.५.२० ॥
प्रीतोऽस्म्य् अनुगृहीतोऽस्मि तव भागवतस्य वै ।
दर्शन-स्पर्शनालापैर् आतिथ्येनात्म-मेधसा ॥**
श्रीधरः : प्रीतोऽस्मीति श्लोक-द्वयं पुनश् च विप्रोक्तिः । आत्मनि मेधा येन तेनातिथ्येन ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :तव दर्शनादिभिः कर्तृभिर् अनुगृहीतः, अत एव प्रीतः । अस्मीति वर्तमान-निर्देशात् पूर्वस् त्व् अदर्शनादिभिर् नैवानुगृहीतोऽहम् अप्रीत एवाभुवं, यतस् त्वां निरागसम् अपि ज्वलयितुं महा-क्रोधान्धः कृत्याम् असृजम् । तेन भक्त-कर्मकाण्य् एव तद्-विषयक-भक्त्य्-उत्थान्य् एव दर्शनादीनि यदि स्युः, तदैव तानि तपस्वि-ज्ञानि-विप्रान् अनुगृह्णन्ति नान्यथेत्य् अत्राहम् एव दृष्टान्त इति सिद्धान्तो ध्वनितः । तथा आत्म-मेधसा आत्मनो मम मेधसा ईदृश्या बुद्ध्या यद्य् अम्बरीष-वचन-ग्रहण-प्रतिपादनीयं मे बुद्धिर् नाभविष्यत्, तदा कथम् अतरिष्यं, तेन चक्र-दत्त-महा-तापोऽपि मम परमोपकारकः संसार-तारक-भक्ति-मार्ग-ज्ञापकोऽभूद् इति भावः ॥२०॥
—ओ)०(ओ—
॥ ९.५.२१ ॥
कर्मावदातम् एतत् ते गायन्ति स्वः-स्त्रियो मुहुः ।
कीर्तिं परम-पुण्यां च कीर्तयिष्यति भूर् इयम् ॥**
श्रीधरः : भूर् इयं तत्र-स्थो जनः कीर्तयिष्यति ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अवदातं शुद्धम् ॥२१॥
—ओ)०(ओ—
॥ ९.५.२२ ॥
श्री-शुक उवाच—
एवं सङ्कीर्त्य राजानं दुर्वासाः परितोषितः ।
ययौ विहायसामन्त्र्य ब्रह्म-लोकम् अहैतुकम् ॥**
श्रीधरः : न व्याख्यातम्।
क्रम-सन्दर्भः : अहैतुकम् इति । न विद्यन्ते हैतुकाः शुष्क-तर्क-निष्ठ-वेद-बहिर्-मुखा यत्र तम् इत्य् अर्थः ॥२२॥
विश्वनाथः : ब्रह्म-लोकम् इति तत्रत्य-ब्रह्मानुभविनः स्व-बन्धून् प्रति स्वीय-स्वास्थ्यं हरेर् भक्त-वश्यतां भक्तानां भक्तेश् महा-प्रभावं वक्तुम् इति भावः । न विद्यन्ते हैतुकाः शुष्क-तर्क-निष्ठा यत्र तम् ॥२२॥
—ओ)०(ओ—
॥ ९.५.२३ ॥
संवत्सरोऽत्यगात् तावद् यावता नागतो गतः ।
मुनिस् तद्-दर्शनाकाङ्क्षो राजाब्-भक्षो बभूव ह ॥**
श्रीधरः : तस्य धैर्यातिशयम् आह—गतोमुनिर्यावता नागतस्तावत् संवत्सरोऽतिक्रान्त इति ॥२३॥
क्रम-सन्दर्भः : अब्-भक्षः पूर्वम् अब्-मात्रं भक्षितवान् राजातद्-दर्शनाकाङ्क्ष एव बभूव, न तु तावन्-मात्रम् अपि भक्षितवान् इत्य् अर्थः । द्विजोपयोगाद् इति पवित्रम् इति द्विजानां भगवत्-प्रधानानाम् उपयोगेन श्री-भगवतः प्रीत्य्-अतिशयात् ॥२३॥
विश्वनाथः : गतो मुनिर् यावता कालेन नागतस् तावत् संवत्सरोऽत्यगात् निष्क्रान्तः ॥२३॥
—ओ)०(ओ—
॥ ९.५.२४ ॥
गतेऽथ दुर्वाससि सोऽम्बरीषो
द्विजोपयोगातिपवित्रम् आहरत् ।
ऋषेर् विमोक्षं व्यसनं च वीक्ष्य
मेने स्व-वीर्यं च परानुभावम् ॥
श्रीधरः : द्विजस्योपयोगेन भोजनेनाति-पवित्रम् आहरद् बुभुजे । स्व-वीर्यं च धैर्यादि-लक्षणं परानुभावं भगवतः प्रभावं मेने ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : द्विजस्य उपयोगेन अतिपवित्रम् आहरत् आहारं कृतवान् । स्व-वीर्यं च धैर्यादि-लक्षणं परस्य भगवत एवानुभावं प्रभावं, न तु स्वस्य ॥२४॥
—ओ)०(ओ—
॥ ९.५.२५ ॥
एवं विधानेक-गुणः स राजा
परात्मनि ब्रह्मणि वासुदेवे ।
क्रिया-कलापैः समुवाह भक्तिं
ययाविरिञ्च्यान् निरयांश् चकार ॥2
मध्वः3 :
ब्रह्मादि-भक्ति-कोट्य्-अंशाद् अंशो नैवाम्बरीषके ।
नैवान्यस्य च कस्यापि तथापि हरिर् ईश्वरः ॥
तात्कालिकोपचेयत्वात् तेषां यशस आदिराट् ।
ब्रह्मादयश् च तत्-कीर्तिं व्यञ्जयामासुर् उत्तमाः ॥
मोहनाय च दैत्यानां ब्रह्मादेर् निन्दनाय च ।
अन्यार्थं च स्वयं विष्णुर् ब्रह्माद्याश् च निराशिषः ॥
मानुषेषूत्तमत्वाच् च तेषां भक्त्य्-आदिभिर् गुणैः ॥
ब्रह्मादेर् विष्ण्व्-अधीनत्व-ज्ञापनाय च केवलम् ।
दुर्वासाश् च स्वयं रुद्रस् तथाप्य् अन्याय्यम् उक्तवान् ॥
तस्याप्य् अनुग्रहार्थाय दर्प-नाशार्थम् एव च ॥ इति गारुडे ॥२५॥4
श्रीधरः :एवं-विधाअनेके गुणा यस्य सः । आ-विरिञ्चान् विरिञ्च-पद-सहितान् भोगान् निरय-प्रायान् अपश्यद् इत्य् अर्थः ॥२५॥
चैतन्य-मत-मञ्जुषा : परात्मनि ब्रह्मणि वासुदेव इत्य्-आदि । वासुदेवे वसुदेवात्मजे श्री-कृष्णे ब्रह्मणि अधिष्ठाने परमात्मणि परः परात्परः परम-नित्यः परमोत्तमे आत्मा श्री-विग्रहोऽस्य ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : परात्मनीति परमात्मा ब्रह्म भगवान् इत्य् एक-तत्त्वो यो वासुदेवस् तस्मिन् । क्रिया-कलापैर् मन्दिर-मार्जनाद्यैर् यया भक्त्या आविरिञ्च्यात् भोगान् नरक-तुल्यान् ॥२५॥
—ओ)०(ओ—
॥ ९.५.२६ ॥
श्री-शुक उवाच—
अथाम्बरीषस् तनयेषु राज्यं
समान-शीलेषु विसृज्य धीरः ।
वनं विवेशात्मनि वासुदेवे
मनो दधद् ध्वस्त-गुण-प्रवाहः ॥
**श्रीधरः :**न व्याख्यातम्।
क्रम-सन्दर्भः : तादृशोपद्रवान्तरम् आशङ्क्य पुत्रस्य योग्यतां दृष्ट्वा च तत्र स्थितिं विहाय वने मानस-सेवायाम् एव मनश् चकारेत्य् आह—अथेति ॥२६॥
विश्वनाथः : मनो दधत् मनो धातुं वनं विवेश ॥२६॥
—ओ)०(ओ—
॥ ९.५.२७ ॥
इत्य् एतत् पुण्यम् आख्यानम् अम्बरीषस्य भूपते ।
सङ्कीर्तयन्न् अनुध्यायन् भक्तो भगवतो भवेत् ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु स वै मनः कृष्ण-पदारविन्दयोर् इत्य् उक्तेर्गार्हस्थ्येऽपि सम्पूर्णं मनो भगवत्य् आसीद् एव सत्यं भक्ताव् अनुरागिणः खलु महा-धन-गृध्नोर् वणिज इव स्वभावो भवेत् । कोटीश्वरोऽपि वणिग् आत्मानम् अल्प-धनं मन्यमानो धनम् उपार्जयितुं यथा समुद्रान्तम् अपि गच्छति तथैव भक्तोऽपि भक्तिम् उपार्जयितुम् इति ॥२७॥
—ओ)०(ओ—
॥ *९.५.२८ ॥
अम्बरीषस्य चरितं ये शृण्वन्ति महात्मनः ।\ मुक्तिं प्रयान्ति ते सर्वे भक्त्या विष्णोः प्रसादतः ॥
न कतमेनापि व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
नवमे पञ्चमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां नवम-स्कन्धे > सौभर्याख्याने पञ्चमोऽध्यायः ।
॥ ९.५ ॥
(९.६)
-
सोद्यमनम् वीक्ष्य ↩︎
-
यया विरिञ्च्यादिम् अधश् चकार इत्य् तत्त्व-वादि-पाट्ःअः। स राजाम्बरीषो वासुदेवे भक्तिं समुवाह—यया भक्त्या विरिञ्चादीन् अप्य् अधश् चकार । अर्थ-वादोऽयम् । ब्रह्मादिभ्योऽप्य् अधिक-भक्तिमान् अम्बरीष इति यथापाततः प्रतीतिः स्यात्, तथा-विधम् अनुग्रह-विशेषं भगवांस् तस्मिंश् चकारेति हृदयम् । ब्रह्मादयोऽपि हि तद्-अनुगुणं एवाधःकृता इव वर्तयामासुः । अथ च, विर्ञ्चादिर् इत्य् अतद्-गुण-संविज्ञानः । विरिञ्च आदिः कारणं यस्येति वा विरिञ्चादिं रुद्रावतारं दुर्वाससम् अधश् चकार । दुर्वासा अपि भगवद्-इच्छयानुग्रह-विशेषाय चाधः-कृतम् इवात्मानं दर्शयामास । अथ च, विर्ञ्च-मूलं मनुष्य-वर्गं भक्त्याधश् चकार । मानुषेषूत्तमत्वाद् इति ॥२५॥ (गोविन्दाचार्यः) ↩︎
-
तत्त्ववादि-रीत्यायं षष्ठाध्यायस्य चतुराशीतितमः श्लोकः। ↩︎
-
एतत्-पद्य-व्याजेन समग्राधाय-तात्पर्यं गारुड-वचनेनाह—ब्रह्मादीत्य्-आदि । अम्बरीषके मनुष्य-मात्रेऽम्बरीष इति कुत्सयामास । नैव्;अन्यस्य च कस्यापि मनुष्यस्य । तथापि तेषाम् अम्बरीष-व्याजेन पूर्व-प्रस्तुतानां मनुष्य-भक्तानां यशसः तात्कालिकोपचेयत्वात् तत्-काले विशिष्योपचय-योग्यत्वात् आदि-राट् हरिर् ईश्वरः तद्-अभिप्रायज्ञा ब्रह्मादयश् च नित्योपचित-यशसः तेषाम् अम्बरीषादीनां कीर्तिम् उत्तमां व्यञ्जयामासुः, स्वतस् तेभ्य उत्तमाः । स-प्रयोजनं चैतद् देव-कार्यम् इत्य् आह—मोहनाय च । अम्बरीष-निसृष्टाच् चक्राद् दुर्वाससं मोचयितुम् ब्रह्मादयोऽपि न प्राभवन्, स्वयं विष्णुर् अपि नाशक्नोद् इति विभ्रमं जनयित्वा दैत्यानां मोहनाय तत्-कीर्तिं प्रकटयामासुः । न केवलं दैत्य-मोहनं, सतां ज्ञापनं च प्रयोजनम् अस्तीत्य् आह—ब्रह्मादेर् निन्दनाय च । विष्णु-महिम्नः पुरत इमे ब्रह्मादयोऽपि कियन्त इति ब्रह्मादेर् निन्द्यत्व-ज्ञापनाय च, अवरत्व-ज्ञापनायेति यावत् । उक्तं हि—आ-ब्रह्म-स्तम्ब-पर्यन्तम् असारं चाप्य् अनित्यकम् इत्य्-आदि ।
ननु स्व-कीर्तिम् अविगणय्यापि पर-कीर्ति-व्यञ्जने तेषां कोइ भरः ? आह—अव्यथार्थं च । स्वयं विष्णुस् तावद् अन्यथार्थम् एव प्रावर्तन्त । न स्व-प्रयोजनापेक्षया । तद् एवाह—निराशिषो मानुषेष्व् इति । मानुषेषु विषये निराशिषः । न हि मनुष्य-मात्रैर् अम्बरीषादिभिर् ब्रह्मादीनां देवोत्तमानां किम् अप्य् आशासनीयम् अस्ति । तेषां ब्रह्मादीनां भक्त्य्-आदिभिर् गुणैर् उत्तमत्वाद् इति । तथा च तेषाम् अम्बरीषादिषु वात्सल्याद् एव तत् कीर्तितव्यं जनम् । तद् यथा शिष्य-वत्सलो गुरु स्व-शिष्य-कीर्तिम् उल्लाघयति । न तेन गुरोः कीर्ति-भङ्गः ।
ननु सर्वेष्व् अपि मानुषेषु किम् इति न वात्सल्यं वर्षण्ति ? किइम् इत्य् अम्बरीषादिष्व् एव कतिषुचित् ? तत्रापीदम् एवोत्तरम्—मानुषेषूत्तमत्वाच् च तेषाम् अम्बरीषादीनां भक्त्य्-आदिभिर् गुणैर् इति । सर्व-प्रयोजनं निगमयन्न् आह—ब्रह्मादेः । अम्बरीष-द्वारैव दुर्वासो-मोचनं हि विष्ण्व्-अभिमतम् । नहि तद्-विरोधे ब्रह्मादयोऽपि क्षमा इति ब्रह्मादेर् विष्ण्व्-अधीनत्व-ज्ञापनायैव केवम् इयं कथा प्रवृत्ता, न त्व् अम्बरीषस्य ब्रह्माद्य्-उत्तमत्व-ज्ञापनायेति भ्रमितव्यम् इति ।
ननु कथं तर्हि दुर्वासा अम्बरीषेण पराभूतः ? सोऽपि स्वतो रुद्रावतारतयाम्बरीषाद् उत्तमो हि ? आह—दुर्वाषाश् च । सत्यं दुर्वासाः स्वयं रुद्र इति । तथापि स किलान्याय्यम् एव विष्णु-भक्तम् अम्बरीषम् अभक्त्स्थितम् उक्तवान् असुरावेशात्—अहो अस्य नृशंसस्य श्रिया मत्तस्य पश्यत । धर्म-व्यतिक्रमं विष्णोर् अभक्तस्येष्ट-मानिनः ॥ [भा।पु। ९.४.४४] इत्य्-आदि । अतस् तस्याप्य् अनुग्रहार्थम् एव तम् अम्बरीषेण पराभाव्य तत्-कीर्तिं व्यञ्जयामास भगवान् । अनुग्रहोऽयं दुर्वाससो यत्-पराभवो नाम । भगवद्-अभिमतेऽम्बरीष-कीर्ति-व्यञ्जन-कर्मणि मुख्यतोऽयं निरूढ-पात्र इति विशेषतोऽनुग्रह-पात्रत्वाद् दुर्वाससः । असुरावेश-निमित्तो योऽहङ्कारः येन विष्णु-भक्तम् अनादृत्य तद्-धननाय कृत्याम् उत्पादयामास तद्-दोष-नाशार्थं च तम् अम्बरीषेण पराभाव्याम्बरीष-कीर्तिं व्यञ्जयामास भगवान् इति । तेन गलित-दर्पो दुर्वासाः प्रीयमानश् चेत्थं राजानं व्याजहार हि—प्रीतोऽस्म्य् अनुगृहीतोऽस्मि तव भागवतस्य वै ।दर्शन-स्पर्शनालापैर् आतिथ्येनात्म-मेधसा ॥ [भा।पु। ९.५.२०] इति । तवातिथ्यादिना प्रीतोऽस्मि, यतो भगवतानुगृहीतोऽस्मि दर्प-नाशेनेति ॥ (गोविन्दाचार्यः) ↩︎