०४

॥ ९.४.१ ॥

श्री-शुक उवाच—

नाभागो नभगापत्यं यं ततं भ्रातरः कविम् ।

यविष्ठं व्यभजन् दायं ब्रह्मचारिणम् आगतम् ॥

श्रीधरः :

चतुर्थे मनु-पुत्रस्य नभगस्य कथोच्यते

तत् सुनोश् चाम्बरीषस्य कृत्या प्रतिहता यतः

नभगस्य वंशम् आह—नभगस्यापत्यं नाभागः । नाभागाद् अम्बरीषो महा-भागवतोऽभूद् इति वक्ष्यंस् तद्-धेतुत्वेन वंश-प्रवर्तकस्य नभगस्य निष्कपटं चरितं तेन तु श्री-रुद्र-प्रसादम् आह—यं ततम् इत्य्-आदिना । ब्रह्म-चारिणं बहु-कालं गुरु-कुले वसन्तं नैष्ठिकोऽसाव् इति मत्वा विभाग-समये तस्मै भागम् अप्रकल्प्यैव भ्रातरः सर्वं दायं विभज्य गृहीत्वा पश्चाद् गुरु-कुलाद् आगतं यं भागार्थिनं कविं विद्वांसं यविष्ठं प्रति ततं तातं पितरं दायं व्यभजन्न् इत्य् अर्थः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

चतुर्थे नभगाख्यानम् अम्बरीष-कथा तथा ।

दुर्वाससो जटोत्क्षेपस् तापश्-चक्रेण चोच्यते ॥

मनु-पुत्रस्य नभगस्यापत्यं नाभागः । यं गुरु-कुलाद् अधीत्य आगतं कविं विद्वांसं यविष्टम् अनुजं भागार्थिनं प्रति ततं तातम् एव दायं व्यभजन् ददुः, न तु पैतृकं किम् अपि धनं तद्-आगमनात् पूर्वम् एव स नैष्ठिकोऽभून् नागमिष्यतीति मत्वा सर्व-धनस्य स्वैर् विभज्य गृहीतत्वाद् इत्य् अर्थः ॥१॥

—ओ)०(ओ—

॥ ९.४.२ ॥

भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव ।

त्वां ममार्यास् तताभाङ्क्षुर् मा पुत्रक तद् आदृथाः ॥

श्रीधरः : एतद् एव प्रश्नोत्तराभ्यां दर्शयति । तत्र नभगः पृच्छति—हे भ्रातरः ! मह्यं किम् अभाङ्क्त व्यभजत ? कं भागं मद्-अर्थं यूयं प्रकल्पितवन्तः । भ्रातर आहुः—तदा विस्मृतम् अस्माभिर् इदानीं तु तव पितरं विभजाम्, त्वं पितरं गृहाणेत्य् अर्थः । स च पितरं गत्वाह—तत हे तात, आर्याः श्रेष्ठाः, मे मम त्वाम् अभाक्षु-भागं चक्रुः । मदीयो भागस् त्वम् इत्य् अर्थः ।

पाठान्तरे हे तात, किम् इदं ममाभाङ्क्षुः भजाम पितरं तवेत्य् उक्तवन्तः आर्यास् त्वां मह्यं किम् अर्थं ददुर् इत्य् अर्थः । पिताह, हे पुत्रक, तत् तैर् उक्तं मादृथाः प्रतारण-मात्रं तैः कृतं तस्मिन्न् आदरं मा कार्षीः, न ह्य् अहं दाय इव भोग-साधनम् इत्य् अर्थः ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तत् कथाम् एव प्रश्नोत्तराभ्याम् आह । तत्र नभगः पृच्छति—हे भ्रातरः ! मह्यं किम् अभाङ्क्त व्यभजत ? कं भागं मद्-अर्थं यूयं प्रकल्पितवन्तः ? भ्रातर आहुस् तदानीं तव वैराग्यं श्रुत्वा भागो न प्रकल्पितः । इदानीं तु तव पितरम् एव भजामः । त्वद्-भागत्वेन पितरं प्रकल्पयामः त्वं सर्व-धनोपार्जकं पितरं गृहाणेत्य् अर्थः । ततश् च स च पितरम् आगत्याह—हे तात, आर्याः ज्येष्ठाः, मम भागं त्वाम् अभाङ्क्षुः । मदीयो भागस् त्वम् अभूर् इत्य् अर्थः । किं ममार्यास् तताभाङ्क्षुर् इति पाठे । हे तात ! किम् इदं ममाभाङ्क्षुः भजाम पितरं तवेत्य् उक्तवन्तः । आर्यास् त्वां मह्यं किम्-अर्थं ददुर् इत्य् अर्थः । पिताह—हे पुत्रक, मद्-अनुकम्प्य-सूनो तैर् उक्तं, तत् मा आदृथाः, न ह्य् अहं दाय इव भोग-साधनम् इत्य् अर्थः ॥२॥

—ओ)०(ओ—

॥ ९.४.३ ॥

इमे अङ्गिरसः सत्रम् आसतेऽद्य सुमेधसः ।

षष्ठं षष्ठम् उपेत्याहः1 कवे मुह्यन्ति कर्मणि ॥

श्रीधरः : तथापि तैर् भागत्वेन दत्तोऽहं तव जीवनोपायम् उपदेक्ष्यामीत्य् आह, इमे इति सपादाभ्यां द्वाभ्याम् । अभिप्लवः षड् अहो भवति, पृष्ठ्यः षड् अहो भवति इति विहितेषु षड्-अहेष्व् आवर्त्यमानेषु षष्ठं षष्ठम् अहः कर्मोपेत्य प्राप्य कर्मणि तद्-अनुष्ठाने सुमेधसोऽपि ते सूक्त-विशेषाज्ञानेन मुह्यन्ति । कवे ! हे विद्वन् ! ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सरल-बुद्धिना मया न पुनस् तेषां पार्श्वं गन्तव्यम् इति चेत्, तर्हि स्नेहेन तव जीवनोपायम् अहम् एवोपदेक्ष्यामीत्य् आह—इमे इति सपदाभ्यां द्वाभ्याम् । अभिप्लवः षड् अहो भवति इति,विहितेषु षड् अहेष्व् आवर्त्यमानेषु षष्ठं षष्ठम् अहः कर्मोपेत्य प्राप्य कर्मणि तद्-अनुष्ठाने सुमेधसोऽपि ते सूक्त-विशेषणाज्ञानेन मुह्यन्ति । हे कवे ! विद्वन् ! ॥३॥

—ओ)०(ओ—

॥ ९.४.४-५ ॥

तांस् त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः ।

ते स्वर् यन्तो धनं सत्र-परिशेषितम् आत्मनः ॥

दास्यन्ति तेऽथ तान् अर्च्छ तथा स कृतवान् यथा ।

तस्मै दत्त्वा ययुः स्वर्गं ते सत्र-परिशेषणम् ॥

श्रीधरः : तान् महात्मनोऽपि त्वं “इदम् इत्था रौद्रम्” इति च, “ये यज्ञेन दक्षिणया” इति च वैश्वदेवे द्वे सूक्ते शंसय पाठय । ततः कर्मणि समाप्ते सति ते स्वर् यन्तः स्वर्गं गच्छन्तः स्व-सत्रे परिशेषितम् अवशिष्टम् आत्मनो धनं तुभ्यं दास्यन्ति । अथ तस्मात् तान् गच्छेति । तथेत्य्-आदि शुक-वाक्यम् । यथावत् कृतवान् । सत्र-परिशेषितं सत्रावशिष्टं धनम् ॥४-५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तान् महात्मनोऽपि त्वं “इदम् इत्था रौद्रम्” इति च, “ये यज्ञेन दक्षिणया” इति त्वं वैश्वदेवे द्वे सूक्ते शंसय पाठय । ततश् च ते स्वर् यन्तः स्वर्गं गच्छन्तः । तथेति शुक-वाक्यम् ॥४-५॥

—ओ)०(ओ—

॥ ९.४.६ ॥

तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्ण-दर्शनः ।

उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु ॥

श्रीधरः : पुरुषः श्री-रुद्रः । दृश्यत इति दर्शनं शरीरम्, कृष्णं दऋशनं यस्य सः । वास्तुकं यज्ञ-भूमि-गतं वसु धनं ममेत्य् उवश ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पुरुषः श्री-रुद्रः कृष्ण-दऋशनः श्याम-वर्णः । यद् वा, स्फूर्ति-प्राप्तं कृष्णं सदा पश्यतीति । स वास्तुकं यज्ञ-वास्तु-गतम् ॥६॥

—ओ)०(ओ—

॥ ९.४.७ ॥

ममेदम् ऋषिभिर् दत्तम् इति तर्हि स्म मानवः ।

स्यान् नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा ॥

श्रीधरः : तर्हि स्म तदैव ममेदम् इति मानवो नाभाग उवाच । पुनश् च रुद्र उवाच । नौ आवयोर् अस्मिन् विवादे ते पितरि प्रश्नः स्याद् इति । पृष्टवान् इति शुकोक्तिः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तर्हि तदैव ममेदम् इति मानवो नाभाग उवाच । नौ आवयोर् अस्मिन् विवादे ते पितरि प्रश्नः स्यात् पृष्टवान् इति शुकोक्तिः ॥७॥

—ओ)०(ओ—

॥ ९.४.८ ॥

यज्ञ-वास्तु-गतं सर्वम् उच्छिष्टम् ऋषयः क्वचित् ।

चक्रुर् हि भागं रुद्राय स देवः सर्वम् अर्हति ॥

श्रीधरः : पृष्टस्य मनोर् वाक्यं यज्ञ-वास्तु-गतम् इति । उच्छिष्टम् उर्वरितम् । क्वचिद् इति दक्षाध्वरे । उच्छेषण-भागो वै रुद्रः इति श्रुतेश् च । किं च, स देव ईश्वरः सर्वम् अप्य् अर्हति, किं पुनर् यज्ञावशिष्टम् ? इत्य् अर्थः ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पिता उवाच—यज्ञेति ।क्वचिद् इति दक्षाध्वरे, उच्छेषण-भागो वै रुद्रः इति श्रुतेश् च । किं च, स देव ईश्वरः सर्वम् अप्य् अर्हति, किं पुनर् यज्ञावशिष्टम् ? इत्य् अर्थः ॥८॥

—ओ)०(ओ—

॥ ९.४.९ ॥

नाभागस् तं प्रणम्याह तवेश किल वास्तुकम् ।

इत्य् आह मे पिता ब्रह्मञ् छिरसा त्वां प्रसादये ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : शिरसा प्रणम्य ॥९॥

—ओ)०(ओ—

॥ ९.४.१० ॥

यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे ।

ददामि ते मन्त्र-दृशो ज्ञानं ब्रह्म सनातनम् ॥

श्रीधरः, विश्वनाथः : श्री-रुद्र आह—यत् ते इति ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.११ ॥ 2

गृहाण द्रविणं दत्तं मत्-सत्र-परिशेषितम् ।

इत्य् उक्त्वान्तर्हितो रुद्रो भगवान् धर्म-वत्सलः ॥

श्रीधरः : इदम् आख्यानं श्रुति-प्रसिद्धम् । तथा हि बह्व्-ऋच-ब्राह्मणम्—नाभा-नेदिष्ठं3 शंसति नाभा-नेदिष्ठं वै मानवं ब्रह्म-चर्यं वसन्तं भ्रातरो निरभजन् सोऽब्रवीत् ॥ इत्य्-आदि ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : इदं चाख्यानं श्रुति-प्रसिद्धम् । तथा च बह्वृच-ब्राह्मणः—नाभानेदिष्ठं शंसति इत्य्-आदि ॥११॥

—ओ)०(ओ—

॥ ९.४.१२ ॥

य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः ।

कविर् भवति मन्त्र-ज्ञो गतिं चैव तथात्मनः ॥

श्रीधरः : अस्याख्यानस्य स्मरणे फलम् आह—य एतद् इति । आत्मनो गतिं च प्राप्नोतीति शेषः ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : गतिं च प्राप्नोतीति शेषः ॥१२॥

—ओ)०(ओ—

॥ ९.४.१३ ॥

नाभागाद् अम्बरीषोऽभून् महा-भागवतः कृती ।

नास्पृशद् ब्रह्म-शापोऽपि यं न प्रतिहतः क्वचित् ॥

श्रीधरः : क्वचिद् अपि न प्रतिहतो ब्रह्म-शापोऽपि ब्राह्मणेन दुर्वाससा निर्मितः कृत्यानलोऽपि यं नास्पृशत् । अतोऽसौ महा-भागवतोऽत एव कृती पुण्यवान् ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यो ब्रह्म-शापः क्वचिद् अपि न प्रतिहतः, अमोघत्वात् । सो\ऽत्र त्वाम् असौ दहत्व् इति वाग्-वज्र-सहित-कृत्यानल-प्रक्षेप-रूपे ज्ञेयः ॥१३॥

—ओ)०(ओ—

॥ ९.४.१४ ॥

श्री-राजोवाच—

भगवन् छ्रोतुम् इच्छामि राजर्षेस् तस्य धीमतः ।

न प्राभूद् यत्र निर्मुक्तो ब्रह्म-दण्डो दुरत्ययः ॥

श्रीधरः : तस्य श्रोतुम् इच्छामि । चरितम् इति शेषः । ब्रह्म-दण्डः कृत्य् आनलो न प्राभून् न समर्थो बभूव ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : श्रोतुम् चरितम् इति शेषः ॥१४॥

—ओ)०(ओ—

॥ ९.४.१५ ॥

श्री-शुक उवाच—

अम्बरीषो महा-भागः सप्त-द्वीपवतीं महीम् ।

अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥

श्रीधरः : श्रियं संपदम् । विभवम् ऐश्वर्यम् । अतुलं निरुपमम् ॥१५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.१६ ॥

मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्न-संस्तुतम् ।

विद्वान् विभव-निर्वाणं तमो विशति यत् पुमान् ॥

श्रीधरः : पुंसाम् अतिदुर्लभम् अपि तत् सर्वं स्वप्नवत्-संस्तुतं निरूपितम् अनुपादेयं मेने । तत्र हेतुः—विभवस्य निर्वाणं नाशं विद्वान् । यद् येन विभवेन तन्-नाशेन वा पुमांस् तमो विशति मोहे निमज्जति ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पुंसाम् अतिदुर्लभम् विभवं च लब्ध्वा तत् सर्वं स्वप्ने संस्तुतम् इव मेने, यतो विभवस्य निर्वाणं नाशं विद्वान् यद् यतो विभवासक्तेः ॥१६॥

—ओ)०(ओ—

॥ ९.४.१७ ॥

वासुदेवे भगवति तद्-भक्तेषु च साधुषु ।

प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् ॥

श्रीधरः : नन्व् एवं जानन्तोऽपि विभवैषिणो दृश्यन्ते तत्राह, वासुदेव इति । भावं भक्तिं प्राप्तः । येन भावेनेदं विश्वं लोष्टवद् अतितुच्छं स्मृतम् ॥१७॥

चैतन्य-मत-मञ्जुषा : वासुदेवे भगवति श्री-कृष्णे परं भावं प्राप्तः, तद्-भक्तेषु च ज्ञानिषु च सर्वत्रामत्सर इत्य् अर्थः ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : येन परम-भावेन प्रेम्णा इदं विश्वं लोष्ट्रवत् स्मृतं परामृष्टं भवेत् ॥१७॥

—ओ)०(ओ—

॥ ९.४.१८-२० ॥

स वै मनः कृष्ण-पदारविन्दयोर्

वचांसि वैकुण्ठ-गुणानुवर्णने ।

करौ हरेर् मन्दिर-मार्जनादिषु

श्रुतिं चकाराच्युत-सत्-कथोदये ॥

मुकुन्द-लिङ्गालय-दर्शने दृशौ

तद्-भृत्य-गात्र-स्पर्शेऽङ्ग-सङ्गमम् ।

घ्राणं च तत्-पाद-सरोज-सौरभे

श्रीमत्-तुलस्या रसनां तद्-अर्पिते ॥

पादौ हरेः क्षेत्र-पदानुसर्पणे

शिरो हृषीकेश-पदाभिवन्दने ।

कामं च दास्ये न तु काम-काम्यया

यथोत्तमश्लोक-जनाश्रया रतिः ॥

श्रीधरः : भक्तिम् एव सर्वेन्द्रियाणां भगवत्-परत्व-कथनेन प्रपञ्चयति—स वा इति त्रिभिः । श्रुतिं श्रोत्रम् अच्युतस्य सत्-कथानाम् उदये4 श्रवणे चकारेत्य् अस्य सर्वत्रान्वयः ॥१८॥

मुकुन्दस्य लिङ्गानाम् आलयानि स्थानानि तेषां दर्शने दृशौ नेत्रे । श्रीमत्यास् तुलस्यास् तत्-पाद-सरोजेन यत् सौरभं तस्मिन् । तद् अर्पिते तस्मै निवेदितान् नादौ ॥१९॥

कामं स्रक् चन्दनादि-सेवां दास्ये निमित्ते तत् प्रसाद-स्वी-काराय न तु काम-काम्यया विषयेच्छया । कथं चकार । उत्तम-श्लोक-जनाश्रया रतिर् यथा भवेत् तथा । अनेन तद् भक्तेषु च परं भावं प्राप्त इत्य् एतत् स्फुटी-कृतम् ॥२०॥

चैतन्य-मत-मञ्जुषा : स वै मन इत्य्-आदि । कृष्ण-पदारविन्दयोर् एव मनश् चक्रे, न तु ब्रह्मणि । वचांसि वैकुण्ठ-गुणानुवर्णने, न तु ब्रह्मास्मीति-प्रभृतिषु वचनेषु । करौ हरेर् मन्दिर-मार्जनादिषु चकार, न तु ज्ञान-कर्म-काण्ड-प्रतिपाद्य-कर्मसु । अच्युत-सत्-कथोदये श्रुतिं चकार, न त्व् अध्यात्म-कथायाम् । सत्-कथेति सत्-शब्दः श्री-कृष्णस्य गोकुल-लीला-कथा-परः । पृथक् पृथक् नाम-प्रतिपादनात् सर्वेषां नाम्नां श्री-कृष्ण-परत्वं प्रतिपादितम् ॥१८॥

क्रम-सन्दर्भः १5: स वै इति त्रिकम् दास्ये निमित्ते । साक्षात्-तद्-दास-भाव-प्राप्त्य्-अर्थम् एव कामम् अभिलाषं चकार । च-काराद् दासोऽहं तद्-दास्यम् एतत् करोमीत्य् एवं सङ्कल्पितवान् इत्य् अर्थः । न तु तद्-व्यतिरेकेण तेनैव वा काम-काम्यया स्वर्गादि-विषय-भोगेच्छया चकारेति वासनान्तर-व्यवच्छेदः ।

कथं चकार ? तत्राह—यथा येन प्रकारेणोत्तमः-श्लोक-जना ये श्री-प्रह्लादादयस् तद्-आश्रया तद्-आधारा या भगवद्-विषया रतिः सा भवेत्, तथेत्य् अर्थः । अत्र सर्वथा तत्रैव सङ्ख्यातात्म-निक्षेपः कृत इति वैशिष्ट्यापत्त्या स्मरणादि-मयोपासनस्यैवात्मार्पणत्वम् ।

क्रम-सन्दर्भः : सर्वात्मक-सकार्यम् आत्म-निवेदनं, यथा—स वै इति त्रिकम् । चकार अर्पयामास । कृष्ण-पदारविन्दयोर् इत्य् आदिकम् उपलक्षणं तत्-सेवादीनाम् । लिङ्गं श्री-मूर्तिः । आलयस् तद्-भक्तस् तन्-मन्दिरादिः । श्रीमत्-तुलस्यास् तत्-पाद-सरोज-सम्बन्धि यत् सौरभं तस्मिन् । तद्-अर्पिते महा-प्रसादान् नादौ । कामं सङ्कल्पं च दास्ये निमित्ते कथं चकार । यथा येन प्रकारेण उत्तमः-श्लोक-जनाश्रया रतिः सा भवेद् इति । अत्र सर्वथा तत्रैव सङ्ख्यातात्म-निक्षेपः कृत इति वैशिष्ट्यापत्त्या स्मरणादि-मयोपासनस्यैवात्मार्पणत्वम् ।

एवम् एवोक्तम्—श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् [भा।पु। ११.१९.१९] इत्य् आरभ्य एवं धर्मे मनुष्याणां [भा।पु। ११.१९.२२] इति । यथा स्मरण-कीर्तन-पाद-सेवन-मयम् उपासनम् एव आगमोक्त-विधिमयत्व-वैशिष्ट्यापत्त्यार्चनम् इत्य् अभिधीयते । ततो नाविविक्तत्वम् । स्नान-परिधानादि-क्रिया चास्य भगवत्-सेवा-योग्यत्वायैवेति तत्रापि नात्मार्पण-भक्ति-हानिर् इत्य् अनुसन्धेयम् ।

एतद् आत्मार्पणं श्री-बलाव् अपि स्फुटं दृश्यते । उदाहृतं चेदम् आत्मार्पणं धर्मार्थ-कामः [भा।पु। ७.६.२४] इत्य् आदिना श्री-प्रह्लाद-मते । मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा [भा।पु। ११.२९.३२] इत्य् आदिना श्री-भगवन्-मतेऽपि ।

तद् एतद् आत्म-निवेदनं भावं विना भाव-वैशिष्ट्येन च दृश्यते । पूर्वं यथा, मर्त्यो यदा [भा।पु। ११.२९.३२] इत्य् आदि । उत्तरं यथैकादश एव दास्येनात्म-निवेदनम् [भा।पु। ११.११.३५] इति । यथा च रुक्मिणी-वाक्ये मात्मार्पितश् च भवतः [भा।पु। १०.५२.१] इति ॥१८-२०॥ [भक्ति-सन्दर्भ ३०९]

विश्वनाथः : तस्य प्रेम्णः साधनं भक्ति-योगम् आह—स वै इति त्रिभिः । मन-आदीनां चकारेत्य् अनेनान्वयः । राज्ये स्व-पुरुषान् इव मन-आदीन्द्रियाण्य् अपि स यत्र यत्र न्ययुङ्क्ष, तत्र तत्रैव तानि तद्-आज्ञां शिरसा निधायैवासन्न् इति असाधारणं तस्य राज्ञः साम्राज्यम् इति भावः । श्रुतिं श्रोत्रम् अच्युतस्य विष्णोः सतां तद्-भक्तानां च कथोदये कतकेन्होपकर्षे, न तु ज्ञान-कर्माद्य्-उत्कर्षे इत्य् अर्थः । मुकुन्दस्य लिङ्गानां प्रतिमानां च आलयानां मन्दिराणां च मथुरादि-नित्य-सिद्ध-धाम्नां च वैष्णवानां च दर्शने । श्रीमत्यास् तुलस्यास् तत्-पाद-सरोज-सम्पर्केण यत् सौरभं तस्मिन् भगवच्-चरणार्पित-तुलसी-गन्धे इत्य् अर्थः । तद्-अर्पिते महा-प्रसादान्ने रसनां जिह्वाम् । हरेः क्षेत्रं मथुरादि-पदम् अन्यत्रापि तन्-मन्दिरादि । तद्-अनुसर्पणे तत्र तत्र पुनः पुनर् गमने । हृषीकेशस्य पदयोश् चरणयोः पदानां भक्तानां चापि वन्दने, कामम् अभिलाषं दास्ये हरेर् अहं दासो भूयासम् इत्य् एवं, न तु काम-काम्यया विषय-भोगेच्छायां सप्तम्य्-अर्थे तृतीया ।

कथं चकार ? उत्तमः-श्लोक-जनाः प्रह्लादादय आश्रयो यस्यास् तथा-भूता निष्कामैव रतिर् यथा येन प्रकारेण स्याद् अभवद् वा तथा चकारेत्य् एतत् स वै मन इत्य्-आदिषु सर्वत्रैवान्वितं ज्ञेयम् ॥१८-२०॥

—ओ)०(ओ—

॥ ९.४.२१ ॥

एवं सदा कर्म-कलापम् आत्मनः

परेऽधियज्ञे भगवत्य् अधोक्षजे ।

सर्वात्म-भावं विदधन् महीम् इमां

तन्-निष्ठ-विप्राभिहितः शशास ह ॥

श्रीधरः : सर्वत्रात्मेति भावो भावना यस्मिंस् तम् आत्मनः स्वस्य कर्मणां कलापं समूहं भगवति विदधत् समर्पयंस् तन् निष्ठैर् भागवतैर् विप्रैर् अभिहितः शिक्षितः सन् महीं शशास पालयाम् आस । अनेनाधिकृतो धर्मोऽपि यथावद् दर्शितः ॥२१॥

क्रम-सन्दर्भः : एवं पूर्वोक्त-प्रकारेणात्म-कर्तृक-कर्म-कलापं परे भगवति विदधत् । कीदृशम् ? तं सर्वात्मना भावो भक्तिर् यत्र तादृशम् ॥२१॥

विश्वनाथः : तस्य तादृश-साम्राज्य-सम्पत्ताव् अपि भक्त-वात्सल्यं प्रतिनिध्य्-अर्पणं च नाभूद् इत्य् आह—एवम् इति । सदा प्रतिदिनम् एव । आत्मनः स्वस्य । एवं कर्म-कलापं स्मरण-कीर्तन-मन्दिर-मार्जनादिकं विदधत् स्वयम् एव कुर्वन् महीं शशास, कर्म-कलापं कीदृशम् ? अधोक्षजे कृष्णे सर्वेण श्रोत्रादीन्द्रिय-वृत्ति-सहितेनैवात्मना मनसा भावो रतिर् यतस् तम् अधियज्ञे तपो-ज्ञानादिभ्यो\ऽप्य् अधिको यज्ञः पूजा यस्य तस्मिन् हरि-भक्ति-निष्ठ-ब्राह्मणेन अभिहितः त्वम् अष्टाव् एव यामान् निर्विक्षेपम् एव सर्वात्मना हरिं भज राज्य-कर्मणि स्व-नियुक्तैर् योग्य-पुरुषैर् एव महीं शाधि चेति शिक्षितः सन्न् इत्य् अर्थः ॥२१॥

—ओ)०(ओ—

॥ ९.४.२२ ॥

ईजेऽश्वमेधैर् अधियज्ञम् ईश्वरं

महा-विभूत्योपचिताङ्ग-दक्षिणैः ।

ततैर् वसिष्ठासित-गौतमादिभिर्

धन्वन्य् अभिस्रोतम् असौ सरस्वतीम् ॥

श्रीधरः : किं च, यज्ञाधिष्ठातारम् ईश्वरम् अश्व-मेधैर् ईजे आराधयाम् आस । महा-विभूत्योपचितान्य् अङ्गानि दक्षिणाश् च येषु तैः । वसिष्ठादिभिर् हेतु-भूतैस् ततैर् विस्तृतैः । धन्वनि धन्व-देशे निरुदके सरस्वतीम् अभिस्रोतम् । तस्याः प्रतिलोमम् इत्य् अर्थः ॥२२॥

क्रम-सन्दर्भः : ननु, कथं स वै मनः [भा।पु। ९.४.१८] इत्य् आदौ सति यज्ञ-क्रिया स्याद् एकात्मत्वाद् इत्य् आशङ्क्याह—वशिष्ठादिभिस् तैर् इति । वशिष्ठादि-द्वारा कृतैर् इत्य् अर्थः । सरस्वतीम् इति कर्म-मार्गे तस्याम् आदरो दर्शितः । अभिस्रोतम् इति क्रमात् तत्-तीर्थ-क्रमेणेति भावः । धन्वनीति धन्व-देशान्तर्-गतेष्व् अपि तत्-तीर्थेष्व् इत्य् अर्थः । एतेन तत्रापि पुण्यत्वं ज्ञापितम् ॥२२।

विश्वनाथः : तथैव राज्याधिकारोचिताश्वमेधादि यज्ञ-करणं च आदि-भरतवन् निरभिमानस्य तस्य प्रतिनिधि-द्वारैवेत्य् आह ईजे इति । महा-सम्पत्त्यैव हेतुना उपचितानि सम्यग् एव निर्व्यूढानि अङ्गानि दक्षिणाश् च येषु तैः वशिष्टादि स्वप्रतिनिधिभिस् ततैर् विस्तृतैः । धन्वनि धन्व-देशे सरस्वतीं सरस्वत्याम् अभिस्रोतं स्रोतोऽभिमुखम् अभिलक्ष्य तेन स्वयं तु ततो विदूरे स्वराज-धान्यं निर्विक्षेपं परिचर्यां कुर्वन्न् एवातितिष्ठति व्यञ्जितः ॥२२॥

—ओ)०(ओ—

॥ ९.४.२३ ॥

यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः ।

तुल्य-रूपाश् चानिमिषा व्यदृश्यन्त सुवाससः ॥

श्रीधरः : किं च, यस्य क्रतुषु सदस्यादयो गीर्वाणैः सह भूषणादिभिस् तुल्य-रूपा व्यदृश्यन्त स इत्थम् इति चतुर्थेनान्वयः । न च देवानां निमेषाभावाद् वैलक्षण्यम् । यतोऽनिमिषाश् च व्यदृश्यन्त । न निमिषन्तीति तथा । आश्चर्य-दर्शनौत्सुक्येन तेषां निमेषोपरमाद् इति भावः ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : गीर्वाणैर्ः सह तुल्य-रूपाः न चानिमिषत्वेन देवानां वैलक्षण्यम् वाच्यम् । यतो मनुष्या अपि अद्भुत-यज्ञ-दर्शनाद् अनिमिषा व्यदृश्यन्त दृष्टाः ॥२३॥

—ओ)०(ओ—

॥ ९.४.२४ ॥

स्वर्गो न प्रार्थितो यस्य मनुजैर् अमर-प्रियः ।

शृण्वद्भिर् उपगायद्भिर् उत्तमश्लोक-चेष्टितम् ॥

श्रीधरः : यस्य यदीयैर् मनुजैर् अपि स्वर्गो न प्रार्थितस् तस्य तु का वार्ता ? ॥२४॥

**क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : यस्य मनुजैर् यत् पाल्यमान-लोकैः स्वर्गो न प्रार्थितः किं स्वर्गीय-भोगाद् अधिक-भोग-प्राप्त्या नेत्य् आह—शृण्वद्भिर् इत्य्-आदि ॥२४॥

—ओ)०(ओ—

॥ ९.४.२५ ॥

संवर्धयन्ति6 यत् कामाः स्वाराज्य-परिभाविताः ।

दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः ॥

श्रीधरः : आस्तां स्वर्ग-प्रार्थन-शङ्कापि । यद् यतः मुकुन्दं हृदि पश्यतस् ताञ् जनान् कामा विषया न समर्धयन्ति न हर्षयन्ति । कथं-भूताः ? स्वाराज्येन स्वरूप-सुखेन परिभाविता अतिशायिताः । अत एव सिद्धानाम् अपि दुर्लभाः । यान् इति पाठे यान् मनुजान् । स्वाराज्येत्य् अत्रापि द्वितीयान्त-पाठे मनुजानां विशेषणम् । यम् इति पाठे यम् अम्बरीषम् । पश्यताम् इति पाठे सिद्धानां विशेषणम् ॥२५॥

क्रम-सन्दर्भः : समर्धयन्तीत्य् अत्र स्वरूप-सुखेन सार्ष्ट्य्-आदि-रूपाणां कामानाम् अतिशायिता । तस्य तैः सह यौगपद्यात् । तच् च भगवद्-उपासनाया अचिन्त्य-प्रभावत्वं दर्शयति । एवं सर्व-मुख्यस्य च निष्कर्षणा दर्शिता । स्वाराज्यम् इन्द्र-पद-तुल्यता ॥२५॥

विश्वनाथः : किं च, स्वर्गीय-भोगाद् अधिके भोगे स्वतः सिद्धे\ऽपि यदीया मनुजास् तत्र नासज्जन्तेत्य् आह—समर्धयन्तीति । यान् मनुजान् कामान् भोगान् न समर्धयन्ति न हर्षेण वर्धयन्ति, ऋधु वृद्धौ । कीदृशाः स्वाराज्यम् इन्द्र-पद-तुल्यं सुखं तेन परि सर्वतो-भावेन वासितः । यद् वा, स्वाराज्येन स्वरूप-सुखेन मुक्त्य्-आनन्देन वासिता युक्ता । अत एव सिद्धानाम् अपि दुर्लभाः । तत्र हेतु-गर्भं मनुजान् विशिनष्टि—मुकुन्दम् इत्य्-आदिना । अम्बरीष-प्रसङ्गाद् इति भावः । यद् इति पाठे यद्य् अस्मान् मुकुन्दं हृदि पश्यतः परिभावितान् इति पाठे मनुज-विशेषणं यम् इति पाठे यम् अम्बरीषम् ॥२५॥

—ओ)०(ओ—

॥ ९.४.२६ ॥

स इत्थं भक्ति-योगेन तपो-युक्तेन पार्थिवः ।

स्व-धर्मेण हरिं प्रीणन् सर्वान् कामान् शनैर् जहौ ॥

श्रीधरः : एवं भगवद्-आराधन-परस्य कामाद्य्-उपेक्षा नैव चित्रम् इत्य् उपसंहरति—स इत्थम् इति द्वाभ्याम् ॥२६॥

क्रम-सन्दर्भः : तपोऽत्र द्वादशी-व्रतादि ॥२६॥

विश्वनाथः : मन्दिर-मार्जन-जल-कलश-वहन-वैष्णव-शुश्रूषणादिना शरीर-कष्टं भोग-त्यागश् च तपस् तद्-युक्तेन स्व-धर्मेणेति भक्ति-योगेनेत्य् अस्य विशेषणं, च-काराभावात्, अम्बरीषस्य शुद्ध-भक्तत्वाच् च, एकान्त-भक्ति-भावेनेत्य् अग्रिमोक्तेश् च ॥२६॥

—ओ)०(ओ—

॥ ९.४.२७ ॥

गृहेषु दारेषु सुतेषु बन्धुषु

द्विपोत्तम-स्यन्दन-वाजि-वस्तुषु ।

अक्षय्य-रत्नाभरणाम्बरादिष्व्

अनन्त-कोशेष्व् अकरोद् असन्-मतिम् ॥

**श्रीधरः :**न व्याख्यातम्।

क्रम-सन्दर्भः : गृहादिषु भगवत्-सेवानुपयोगिष्व् इति ज्ञेयम् ।२७॥

विश्वनाथः : पूर्व-श्लोको द्रष्टव्यः।

—ओ)०(ओ—

॥ ९.४.२८ ॥

तस्मा अदाद् धरिश् चक्रं प्रत्यनीक-भयावहम् ।

एकान्त-भक्ति-भावेन प्रीतो भक्ताभिरक्षणम् ॥

श्रीधरः : नन्व् एवं-भूतोऽसौ कथं प्रतिपक्षान् जयेत् ? तत्राह—तस्मा इति ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नन्व् एवं-भूतोऽसौ कथं प्रतिपक्षान् जयेत् ? तत्राह—तस्मा इति । प्रीत इति तस्यैकान्तिक-भक्तौ विक्षेपाभावार्थम् इत्य् अर्थः ॥२८॥

—ओ)०(ओ—

॥ ९.४.२९ ॥

आरिराधयिषुः कृष्णं महिष्या तुल्य-शीलया ।

युक्तः सांवत्सरं वीरो दधार द्वादशी-व्रतम् ॥

श्रीधरः : तद् एवं तस्य वैराग्यादिकं हरि-भक्तिं चोक्त्वा ब्रह्म-दण्डो यत्र न प्राभूद् इति । यद् उक्तं तद् एव द्वादशी-व्रत-निष्ठां कथयन्न् आह—आरिराधयिषुर् इत्य्-आदिना यावद् अध्याय-समाप्ति ॥२९॥

क्रम-सन्दर्भः : द्वादशी-व्रतम् । अभीष्ट-विशेष-सिद्ध्य्-अर्थं तद् विशेषम् ॥२९॥

विश्वनाथः : तस्यैकादशी-व्रत-निष्ठया दर्शितयैव सर्व-भक्ति-निष्ठां ज्ञापयन्न् आह—आरिराधयिषुर् इत्य्-आदि ॥२९॥

—ओ)०(ओ—

॥ ९.४.३० ॥

व्रतान्ते कार्तिके मासि त्रि-रात्रं समुपोषितः ।

स्नातः कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् ॥

श्रीधरः : अर्चयत् । अडागमाभाव आर्षः ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्य स्वायुः-पर्यन्तम् एकादशी-व्रत-निष्ठत्वे\ऽपि संवत्सर-मात्रं तु मथुरायाम् एकादशी-व्रतं कर्तव्यम् इत्य् अभिलाष आसीद् अतस् तत्-पूर्तौ सत्यां व्रतान्त इति । दशमी-द्वादश्योर् विहितेतर-भोजनाभावेन एकादश्यां निराहारत्वेन त्रि-रात्रम् उपोषितः ॥३०॥

—ओ)०(ओ—

॥ ९.४.३१ ॥

महाभिषेक-विधिना सर्वोपस्कर-सम्पदा ।

अभिषिच्याम्बराकल्पैर् गन्ध-माल्यार्हणादिभिः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सर्वेषाम् उपस्कराणां सर्वौषध्य्-आदीनां आकल्पैर् विभूषणैः ॥३१॥

—ओ)०(ओ—

॥ ९.४.३२ ॥

तद्-गतान्तर-भावेन पूजयाम् आस केशवम् ।

ब्राह्मणांश् च महा-भागान् सिद्धार्थान् अपि भक्तितः ॥

श्रीधरः : ब्राह्मणांश् च पूजयाम् आस । सिद्धार्थान् आप्त-कामान् पूजानपेक्षान् अपि ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तद्-गतान्तर-भावेन तद्-एक-मनस्त्वेन ॥३२॥

—ओ)०(ओ—

॥ ९.४.३३ ॥

गवां रुक्म-विषाणीनां रूप्याङ्घ्रीणां सुवाससाम् ।

पयःशील-वयो-रूप-वत्सोपस्कर-सम्पदाम् ॥

श्रीधरः : रूप्याङ्घ्रीणां रूप्य-खुराणाम् । पयः-शीलादि-संपदो यासां तासाम् ॥३३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.३४ ॥

प्राहिणोत् साधु-विप्रेभ्यो गृहेषु न्यर्बुदानि षट् ।

भोजयित्वा द्विजान् अग्रे स्वाद्व् अन्नं गुणवत्तमम् ॥

श्रीधरः : न्यर्बुदानि षट् षष्टि-कोटीः ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : षट् न्यर्बुदानि षष्टि-कोटीः ॥३४॥

—ओ)०(ओ—

॥ ९.४.३५ ॥

लब्ध-कामैर् अनुज्ञातः पारणायोपचक्रमे ।

तस्य तर्ह्य् अतिथिः साक्षाद् दुर्वासा भगवान् अभूत् ॥

श्रीधरः : तर्हि तदैव दुर्वासा अतिथिः साक्षात् प्रत्यक्षोऽभूत् ॥३५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.३६ ॥

तम् आनर्चातिथिं भूपः प्रत्युत्थानासनार्हणैः ।

ययाचेऽभ्यवहाराय पाद-मूलम् उपागतः ॥

श्रीधरः : आनर्चार्चितवान् । अभ्यवहाराय भोजनाय ॥३६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.३७ ॥

प्रतिनन्द्य स तां याच्ञां कर्तुम् आवश्यकं गतः ।

निममज्ज बृहद् ध्यायन् कालिन्दी-सलिले शुभे ॥

श्रीधरः : आवश्यकं नैयमिकं माध्याह्निकं कर्म कर्तुं गतः । बृहद्-ब्रह्म ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : बृहद्-ब्रह्म ॥३७॥

—ओ)०(ओ—

॥ ९.४.३८ ॥

मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति ।

चिन्तयाम् आस धर्म-ज्ञो द्विजैस् तद्-धर्म-सङ्कटे ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.३९ ॥

ब्राह्मणातिक्रमे दोषो द्वादश्यां यद् अपारणे ।

यत् कृत्वा साधु मे भूयाद् अधर्मो वा न मां स्पृशेत् ॥

श्रीधरः : धर्म-सङ्कटम् एवाह, यद् यतो ब्राह्मणातिक्रमे दोषोऽधर्मः । द्वादश्याम् अपारणेऽपि दोषो व्रत-वैगुण्यम् । यत् कृत्वा यस्मिन् कृते ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यद् यस्मात् ब्राह्मणातिक्रमे द्वादश्याम् अपारणे च दोषः, तस्माद् अत्र धर्म-सङ्कटे यत् कृत्वेत्य्-आदि भूयात् भवेत् ॥३९॥

—ओ)०(ओ—

॥ ९.४.४० ॥

अम्भसा केवलेनाथ करिष्ये व्रत-पारणम् ।

आहुर् अब्-भक्षणं विप्रा ह्य् अशितं नाशितं च तत् ॥

श्रीधरः : एवं द्विजैः सह विचार्य निश्चिनोति—अम्भसेति । व्रतस्य पारणं समाप्तिम् । तद् अशितम् आहुर् अशितं नेति चाहुः । श्रुतिश् च—अपोऽश्नाति तन् नैवाशितं नैवानशितम् इति ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ततश् च, विप्रांस् तूष्णीं स्थितान् समाधातुम् अशक्नुवतो\ऽभिलक्ष्य स्वयम् एव विचार्य सनिश्चयम् आह—अम्भसेति । हे विप्राः ! तत् अशितम् इति द्वादश्या अनतिक्रमः नाशितम् इति ब्राह्मणस्याप्य् अनतिक्रम इति । अत्र श्रुतिश् च—अपोऽश्नाति तन् नैवाशितं नैवानशितम् इति ॥४०॥

—ओ)०(ओ—

॥ ९.४.४१ ॥

इत्य् अपः प्राश्य राजर्षिश् चिन्तयन् मनसाच्युतम् ।

प्रत्यचष्ट कुरु-श्रेष्ठ द्विजागमनम् एव सः ॥

श्रीधरः, विश्वनाथः : प्रत्यचष्ट प्रत्यैक्षत ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.४२ ॥

दुर्वासा यमुना-कूलात् कृतावश्यक आगतः ।

राज्ञाभिनन्दितस् तस्य बुबुधे चेष्टितं धिया ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.४३ ॥

मन्युना प्रचलद्-गात्रो भ्रु-कुटी-कुटिलाननः ।

बुभुक्षितश् च सुतरां कृताञ्जलिम् अभाषत ॥

श्रीधरः : प्रचलत् कम्पमानं गात्रं यस्य । भ्रु-कुटीभ्यां कुटिलम् आननं यस्य ॥४३॥

क्रम-सन्दर्भः, विश्वनाथः- न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.४४ ॥

अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत ।

धर्म-व्यतिक्रमं विष्णोर् अभक्तस्येश7-मानिनः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वस्त्व्-अर्थश् च नृभिः सर्व-लोकैः शंसः स्तुतिर् यस्य, श्रियापि उन्मत्तस्य मत्तं मद-स्तम्भाद् उत्तीर्णस्य, न विद्यते भक्तो यस्मात् तस्य, ईशे स्वेष्ट-देवे मानिनः द्वादश्य्-अनतिक्रमाद् आदरवतः, ईशैर् इन्द्राद्यैर् अपि माननीयस्येति वा, धर्मस्य व्यतिक्रमं विष्ण्व्-अर्थे\ऽनतिक्रमं पश्यत ॥४४॥

—ओ)०(ओ—

॥ ९.४.४५ ॥

यो माम् अतिथिम् आयातम् आतिथ्येन निमन्त्र्य च ।

अदत्त्वा भुक्तवांस् तस्य सद्यस् ते दर्शये फलम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अतीति । अदः पचाद्य् अच्, अदत्वेन भुक्तत्वेनापि न भुक्तवान् तस्य द्वादशी-ब्राह्मणयोर् अनतिक्रमस्य फलं मद-मोघ-जटानलस्य वैयर्थ्यं महा-तेजीयसो\ऽपि मम चक्रानल-दह्यमानत्वं त्वद्-अन्यतः कुतो\ऽप्य् अनिस्तारं ब्रह्मण्येनापि भगवता ब्रह्म-वादिनो\ऽपि मम तिरस्कारादिकं दर्शयामि ॥४५॥

—ओ)०(ओ—

॥ ९.४.४६ ॥

एवं ब्रुवाण उत्कृत्य जटां रोष-प्रदीपितः ।

तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्मै तं हन्तुम् ॥४६॥

—ओ)०(ओ—

॥ ९.४.४७ ॥

ताम् आपतन्तीं ज्वलतीम् असि-हस्तां पदा भुवम् ।

वेपयन्तीं समुद्वीक्ष्य न चचाल पदान् नृपः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

चैतन्य-मत-मञ्जुषा : न चचाल पदान् नृप इति । भगवान् एव रक्षिष्यतीति विश्वासात्, न त्व् अहङ्कारात् ॥४७॥

विश्वनाथः : पदान् न चचालेति—ब्रह्म-तेजसः प्रतिकर्तुम् अनर्हत्वं, सर्वथा सहनार्हत्वं च विभाव्येति भावः ॥४७॥

—ओ)०(ओ—

॥ ९.४.४८ ॥

प्राग् दिष्टं भृत्य-रक्षायां पुरुषेण महात्मना ।

ददाह कृत्यां तां चक्रं क्रुद्धाहिम् इव पावकः ॥

श्रीधरः : क्रुद्धम् अहिं पावको दावाग्निर् इव ॥४८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :चक्रं कर्तृ कृत्यां ददाह । ननु किं राज्ञा स्व-रक्षार्थं निवेदितं सद् ददाह ? न हि न हि, प्राक् अम्बरीषस्य भजन-प्रारम्भ-दशाम् आरभ्यैव क्वापि स्वापकारि-लोके\ऽप्य् अनपकरण-स्वभावं तस्यालक्ष्य पुरुषेण भक्त-वत्सलेनैव भगवतादिष्टम्—"हे चक्र ! यदास्य प्राण-सङ्कटम् आपतति, तदा त्वम् एव स्वयम् एवास्याभिहन्तारं जहि" इत्य् आदिष्टम् । पावको दावाग्निः ॥४८॥

—ओ)०(ओ—

॥ ९.४.४९ ॥

तद् अभिद्रवद् उद्वीक्ष्य स्व-प्रयासं च निष्फलम् ।

दुर्वासा दुद्रुवे भीतो दिक्षु प्राण-परीप्सया ॥

श्रीधरः : निष्फलम् उद्वीक्ष्य ॥४९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तच् चक्रं कृत्यां दग्ध्वापि अभि अभिमुखं स्वम् अपि दग्धुं द्रवद् धावत् वीक्ष्य ॥४९॥

—ओ)०(ओ—

॥ ९.४.५० ॥

तम् अन्वधावद् भगवद्-रथाङ्गं

दावाग्निर् उद्धूत-शिखो यथाहिम् ।

तथानुषक्तं मुनिर् ईक्षमाणो

गुहां विविक्षुः प्रससार मेरोः ॥

श्रीधरः : अनुषक्तं पृष्ठतः संसक्तम् । मेरोर् गुहां विविक्षुर् अधावत् ॥५०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अनुषक्तं पृष्ठतः संलग्नम् इवेत्य् अर्थः ॥५०॥

—ओ)०(ओ—

॥ ९.४.५१ ॥

दिशो नभः क्ष्मां विवरान् समुद्रान्

लोकान् स-पालांस् त्रिदिवं गतः सः ।

यतो यतो धावति तत्र तत्र

सुदर्शनं दुष्प्रसहं ददर्श ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.५२ ॥

अलब्ध-नाथः स सदा कुतश्चित्

सन्त्रस्त-चित्तोऽरणम् एषमाणः ।

देवं विरिञ्चं समगाद् विधातस्

त्राह्य् आत्म-योनेऽजित-तेजसो माम् ॥

श्रीधरः : अरणम् एषमाणः शरणम् इच्छन् । अजित-तेजसो हरेश् चक्रात् ॥५२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :अरणं शरणम् एषमाणः अन्विष्यन् ॥५२॥

—ओ)०(ओ—

॥ ९.४.५३-५४ ॥

श्री-ब्रह्मोवाच—

स्थानं मदीयं सह-विश्वम् एतत्

क्रीडावसाने द्वि-परार्ध-संज्ञे ।

भ्रू-भङ्ग-मात्रेण हि सन्दिधक्षोः

कालात्मनो यस्य तिरोभविष्यति ॥

अहं भवो दक्ष-भृगु-प्रधानाः

प्रजेश-भूतेश-सुरेश-मुख्याः ।

सर्वे वयं यन्-नियमं प्रपन्ना

मूर्ध्न्य् अर्पितं लोक-हितं वहामः ॥

श्रीधरः : एतत् सर्वं यस्य भ्रू-भङ्ग-मात्रेण तिरोभविष्यति । कदा ? क्रीडाया अवसाने । तद् अपि कदा ? द्वि-परार्ध-संज्ञे काले । अतो वयं सर्वे यस्य नियमम् आज्ञां प्रपन्नाः प्राप्ताः सन्तो लोक-हितं यथा भवत्य् एवं तन् नियमंमूर्ध्न्य् अर्पितं वहामः । अतस् "तद्-भक्त-द्रोहिणं त्वां रक्षितुं न समर्थोऽहम्" इति शेषः, यत्-तदोर् नित्य-संबन्धात् ॥५४-५५॥

चैतन्य-मत-मञ्जुषा : ब्रह्म-वाक्यं—अये दुर्वासः ! कथम् अत्रागतोऽसि ? अहं त्राता न भवामि, यतोऽहं तद्-वश एव । तस्माद् इतो गच्छेत्य् आह—स्थानं मदीयम् इत्य्-आदि ॥५३॥

क्रम-सन्दर्भः : सर्वे वयम् इति स्वस्य गुणावतारत्वेऽप्य् आवेशावतारत्वम् एव पूर्ववत् ॥५४॥

विश्वनाथः : द्विपरार्ध-संज्ञे काले यस्य कालात्मनः काल-रूपं यत् स्वरूपं तस्मात् । प्रपन्ना वयं लोक-हितं यथा स्यात् तथा यद्-आज्ञां वहामः । अतस् "तद्-भक्त-द्रोहिणं त्वां रक्षितुं न समर्थोऽहम्" इति शेषः, यत्-तदोर् नित्य-सम्बन्धात् ॥५३-५४॥

—ओ)०(ओ—

॥ ९.४.५५ ॥

प्रत्याख्यातो विरिञ्चेन विष्णु-चक्रोपतापितः ।

दुर्वासाः शरणं यातः शर्वं कैलास-वासिनम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.४.५६ ॥

श्री-रुद्र उवाच—

वयं न तात प्रभवाम भूम्नि

यस्मिन् परेऽन्येऽप्य् अज-जीव-कोशाः ।

भवन्ति काले न भवन्ति हीदृशाः

सहस्रशो यत्र वयं भ्रमामः ॥

श्रीधरः : श्री-रुद्रोऽपि प्रत्याचष्टे—वयम् इति चतुर्भिः । भूम्नि महति । महत्त्वम् एवाह—यस्मिन् परमेश्वरे । अजा ब्रह्माणस् त एव जीवाः, तेषां कोशा उपाधि-भूता ब्रह्माण्ड-विग्रहा ईदृशा दृश्यमान-ब्रह्माण्ड-प्रमाणा अन्येऽपि भवन्ति जायन्ते नश्यन्ति च । यत्र येषु ब्रह्माण्डेषु लोकेशाभिमानिनो वयं भ्रमामः ॥५६॥

चैतन्य-मत-मञ्जुषा : वयं न तातेति । तात-शब्द आक्रोश-परः । वयम् ईदृशाः सहस्रशो यस्मिन् भूम्नि भ्रमाम एव ॥५६॥

क्रम-सन्दर्भः : वयं नेति चतुष्कम् ॥५६॥

विश्वनाथः : यस्मिन् परमेश्वरे अजा ब्रह्माण एव जीवाः, तेषां कोषा उपाधि-भूताः ब्रह्माण्डानि, अन्येऽपि भवन्ति जायन्ते नश्यन्ति च । यत्र येषु ब्रह्माण्डेषु लोकेशाभिमानिनो वयं भ्रमामः ॥५६॥

—ओ)०(ओ—

॥ ९.४.५७-५९ ॥

अहं सनत्-कुमारश् च नारदो भगवान् अजः ।

कपिलोऽपान्तरतमो देवलो धर्म आसुरिः ॥

मरीचि-प्रमुखाश् चान्ये सिद्धेशाः पार-दर्शनाः ।

विदाम न वयं सर्वे यन्-मायां माययावृताः ॥

तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः ।

तम् एवं शरणं याहि हरिस् ते शं विधास्यति ॥

श्रीधरः : ननु सर्वज्ञस्य तव भ्रमः कुतः ? तत्राह—अहम् इति ॥५९॥

क्रम-सन्दर्भः : तस्येत्य् आदि पूर्ववत् ॥५९॥

विश्वनाथः : ननु सर्वज्ञस्य तव कुतो भ्रमः ? तत्राह—अहम् इति । पारदर्शिनः सर्वज्ञा अपि यस्यमायां न विद्मः ॥५७-५९॥

—ओ)०(ओ—

॥ ९.४.६० ॥

ततो निराशो दुर्वासाः पदं भगवतो ययौ ।

वैकुण्ठाख्यं यद् अध्यास्ते श्रीनिवासः श्रिया सह ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निराश इति । शिव शिव ! मद्-ब्रह्म-तेजस्वित्वाभिमानो रसातलं गतः, अन्येनापि ब्रह्मादिना केनाप्य् अहं न त्रातः । मद्-इष्ट-देवः शम्भुर् मां रक्षिष्यतीत्य् आशा आसीत्, सापि व्यर्था बभूव । सम्प्रति यस्य भक्तेन एतां दुरवस्थाम् अहं प्रापितः, तस्यैव विष्णोः सन्निधिर् मम स्व-प्राण-रक्षार्थं गन्तव्यो बभूव । धिङ् मे ! लज्जां प्राणांश् चेति निर्वेदो ध्वनितः ॥६०॥

—ओ)०(ओ—

॥ ९.४.६१ ॥

सन्दह्यमानोऽजित-शस्त्र-वह्निना

तत्-पाद-मूले पतितः स-वेपथुः ।

आहाच्युतानन्त सद्-ईप्सित प्रभो

कृतागसं मावहि विश्व-भावन ॥

श्रीधरः : हे सताम् ईप्सित ! मा माम् अव पाहि ॥६१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मा माम् अव पाहि ॥६१॥

—ओ)०(ओ—

॥ ९.४.६२ ॥

अजानता ते परमानुभावं

कृतं मयाघं भवतः प्रियाणाम् ।

विधेहि तस्यापचितिं विधातर्

मुच्येत यन्-नाम्न्य् उदिते नारकोऽपि ॥

श्रीधरः : अपराधं निवेदयन् प्रार्थयते—अजानतेति । अघं दुःखम् । अपचितिं निष्कृतिम् । मद्-भक्त-द्रोहे निष्कृतिं न पश्यामीति चेत्, तत्राह—यस्य तव नाम्नि कीर्तिते नरकस् तोऽपि मुच्यते, तस्य तव किम् अशक्यम् ? इति भावः ॥६२॥

क्रम-सन्दर्भः : नारको नरकस्थोऽपि । किं पुनस् तवाग्रत एव शरणागतः ? इत्य् अर्थः । यथोक्तं नारसिंहे—

यथा यथा हरेर् नाम कीर्तयन्ति स्म नारकाः ।

तथा तथा हरौ भक्तिम् उद्वहन्तो दिवं ययुः ॥ इति ॥६२॥

विश्वनाथः : अघम् अपराधः अपचितिं निष्कृतिम् ॥६२॥

—ओ)०(ओ—

॥ ९.४.६३ ॥

श्री-भगवान् उवाच—

अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज ।

साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः ॥

**श्रीधरः :**न व्याख्यातम्।

क्रम-सन्दर्भः : आत्मनः सर्वथा भक्त-वशत्वं स्थापयति षड्भिः । तत्र तत् प्रतिजानीते—अहम् इति । यथा ह्य् अस्वतन्त्रो जीवः पराधीनो भवति, तथैवाहं भक्त-पराधीन इत्य् अर्थः । तत्र हेतुः—भक्ताख्यैः साधुभिः प्रोज्झित-कैतवैर् मुमुक्षा-पर्यन्त-कामना-रहितैर् ग्रस्तं भक्त्या परम-वशीकृतं हृदयं यस्य सः । तत्र हेतुः—भक्त-जनेषु प्रियः, तत्-प्रीति-लाभेनातिप्रीतिमान् । यद् वा, भक्तानां ये जनास् तेऽपि प्रिया यस्य, सोऽहम् इति कैमुत्यं दर्शितम् ॥६३॥[प्रीति-सन्दर्भः ६२]

विश्वनाथः : यथा मद्-अधीनत्वेनास्वातन्त्र्यात् ब्रह्म-रुद्रादयस् त्वां त्रातुं नाशक्नुवंस् तथैवाहम् अपि पराधीनस् त्वां त्रातुं न शक्नोमीत्य् आह—अहम् इति । ननु त्वं स्वयम् एव भक्त-पराधीनी-भवसि, न तु भक्तैस् त्वं पराधिनीकृतुम् इष्टोऽतस् त्वं स्वतन्त्र एवासि ? सत्यं, स्वतन्त्रोऽप्य् अहं स्वेच्छयैव भक्त-परतन्त्री भवामीति । स्व-स्वभावस्य प्रायो दुस्त्यजत्वाद् इव-शब्दः ।\

एतादृश-मद्-दुःख-दर्शनेऽपि तव करुणा नोदयते ? इति चेत्, सत्यम् । करुणा खलु यस्य धर्मस् तन्-मन एव मम नास्तीत्य् आह—साधुभिर् मोक्ष-पर्यन्त-कामना-शून्यत्वाद् उत्तमैर् भक्तैर्ग्रस्तम् आत्म-वशीकृतं हृदयं यस्य सः । दित्सितं मोक्षादिकं तेषाम् अरोचकत्वाद् अयोग्यम् आलक्ष्य मया स्व-हृदयम् एव बलाद् दत्तम् । तैर् अपि तद् गृहीत्वा स्व-हृदयेनैकीकृत्य सादरं स्थापितम् इति ध्वनिः । अत एव तेषाम् अनुकम्प्ये एव ममानुकम्पेति भक्त-कृपानुगामिनी भगवत्-कृपेति सर्व-लोक-प्रसिद्धः । त्वया ज्ञायत एवेत्य् अनुध्वनिः । भक्तानां जना अपि प्रिया यस्य किम् उत ते इति । हे द्विज ! विप्र-बटो ! इदम् अपि न किम् अपि परामृशसीति भावः ॥६३॥

—ओ)०(ओ—

॥ ९.४.६४ ॥

नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना ।

श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिर् अहं परा ॥

श्रीधरः : नाशासे न स्पृहयामि ॥६४॥

चैतन्य-मत-मञ्जुषा : भगवान् वदति—यद्यप्य् अहं ब्रह्मण्य एवास्मि, तथापि अहं प्रियो न भवामि इत्य् उपेक्षा-सूचनम् ॥६४॥

क्रम-सन्दर्भः : तद् एव स्थापयति पञ्चभिः । भगवद्-आनन्दः खलु द्विधा—स्वरूपानन्दः, स्वरूप-शक्त्य्-आनन्दश् च । अन्तिमश् च द्विधा—मानसानन्द ऐश्वर्यानन्दश् च । तत्रानेन तदीयेषु मानसानन्देषु भक्त्य्-आनन्दस्य साम्राज्यं दर्शितम् । स्वरूपानन्देष्व् ऐश्वर्यानन्देषु चाह पद्याभ्याम् । तत्र स्वानुभवेन प्रमाणयन् स्वरूपानन्दानुभवस्य तच्-छक्त्य्-आनन्दानुभवस्य च भक्त-भावानन्दानुभवाद् गौणत्वं दर्शयति । तेन च भक्त-भावस्याह्लादिनी-सारत्वम् अभिप्रैति—नाहम् इति । नाशासे न स्पृहयामि ॥६४॥ [प्रीति-सन्दर्भः ६३]

विश्वनाथः : भक्तास् ते कियत् प्रीति-विषयाः ? इति चेत्, शृणु तत्त्वम् इत्य् आह—नाहम् इति । यत्र आत्मनि रमणाद् अहम् आत्माराम इति प्रसिद्धस् तम् आत्मानम् अपि भक्तैर् विना नाशासे न काङ्क्षे, इति मत्-स्वरूप-भूतानन्दाद् अपि मद्-भक्त-स्वरूपानन्दोऽतिस्पृहणीय इति द्वयोर् अपि चिद्-रूपत्वेऽपि भक्त-वर्तिन्या भक्तेर् अनुग्रहाख्य-चिद्-वृत्ति-विपाक-रूपायाः सर्व-चित्-सार-भूतत्वान् ममानन्द-स्वरूपस्याप्य् आनन्दकत्वाद् आकर्षकत्वाच् च । श्रियं षड्-ऐश्वर्य-सम्पत्तिम् आत्यन्तिकीं नित्याम् अपि यैर् विना बन्ध्याम् इव वेद्मीति भावः । येषां भक्तानाम् अहम् एव गतिर् एक उपादेय इत्य् अर्थः ॥६४॥

—ओ)०(ओ—

॥ ९.४.६५ ॥

ये दारागार-पुत्राप्त-प्राणान् वित्तम् इमं परम् ।

हित्वा मां शरणं याताः कथं तांस् त्यक्तुम् उत्सहे ॥

श्रीधरः : इमं परं च लोकं हित्वा ॥६५॥

चैतन्य-मत-मञ्जुषा : सर्व-भूत-समस्य ते कुतो भक्तेष्व् अधिक-पक्षपात इत्य् आह—ये दारागार-पुत्रा इत्य्-आदि । तान् कथं त्यक्तुम् उत्सहे ? ॥६५॥

क्रम-सन्दर्भः : तेषु कारुण्येष्व् अपि कारणं दर्शयन्न् अन्यथा स्वस्मिन् कृतघ्न-त्वापातं योजयति—ये दारेति । परं सालोक्यादि-प्राप्ति-पर्यन्तम् । [अत्रानुरूप-पद्यार्थः ३.२५.२२ श्लोके द्रष्टव्यः।] ॥६५॥

विश्वनाथः :"भो ब्रह्मण्य-देव ! ब्राह्मणं मां नोपेक्षस्व" इति चेत्, "सत्यं, तर्हि किं भक्तान् उपेक्षे ? भक्तापकारकस्य तव रक्षणेन स्वत एव भक्तास् त्यक्ता भवेयुः, तत् तु नोपपद्यत एव" इत्य् आह—ये इति । "भक्ताः खलु ते मद्-अर्थे परम-प्रेमास्पद-दुस्त्यज-दाराद्य्-आसक्तिम् अत्यजन् । ब्राह्मणस् त्वं मद्-अर्थं किम् अत्यजः ? तद् ब्रूहि" इति भावः । "न चाम्बरीषेण किम् अपि त्यक्तम् ?" इति वक्तव्यम् । "यदा त्वयाम्बरीष-वधार्थं कृत्या विनियुक्ता, तदा तेन स्व-देह-रक्षापेक्षया पद-मात्रम् अपि नाभिद्रुतम्, त्वयात्मारामेण महा-विरक्तेन स्व-देह-रक्षार्थं, जगद् एव परिक्राम्यता ब्रह्म-रुद्रादयो\ऽपि प्रार्थिताः । एतेनैव स्वस्य तस्य च मूल्यं जानीहि । किम् अधिकं त्वम् अबोधो बोधयितव्यः ?" इति ॥६५॥

[अत्रानुरूप-पद्यार्थः ३.२५.२२ श्लोके द्रष्टव्यः ]

—ओ)०(ओ—

॥ ९.४.६६ ॥

मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः ।

वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा ॥

**श्रीधरः :**न व्याख्यातम्।

चैतन्य-मत-मञ्जुषा : न ते त्यज्यन्तां नाम, कथं तद्-वशो भवसि ? तत्राह—ते मां वशे कुर्वन्ति, मया किं कर्तव्यम् ? कः कम् इव ? सत्-स्त्रियः सत्-पतिम् यथा । तयोः सत्त्वं कामाद्य्-उपाधि-शून्यत्वम् । अतः सत्-स्त्रिय इव सत्-पतिं मां ये भजन्ति, तेषाम् अहं वशः स्याम्, इति तथा भजने विधिः ॥६६॥

क्रम-सन्दर्भः : तद् उभयं दृष्टान्तेन च स्थापयति—मयीति । यतो मयि निर्बद्ध-हृदयाः, अतः साधवः प्रोज्झित-कैतवाः, अत एव सम-दर्शनाः, अन्यत्र राग-द्वेष-रहिताश् च । अत्र दृष्टान्तेनांशतः सख्यात्मिका भक्तिर् लक्ष्यते ॥६६॥

विश्वनाथः : युष्माभिर् ब्रह्म-वादिभिर् अप्य् अहं दुर्वश एव । तैस् तु वशीकृत एवाहम् अस्मीत्य् आह—मयीति । मय्य् एव हृदयस्य निर्बद्धत्वात् साधवः निष्कामाः, सम-दर्शनाः स्वस्य परेषां च दुःखादिकं समं पश्यन्तः ॥६६॥

—ओ)०(ओ—

॥ ९.४.६७ ॥

मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।

नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥

श्रीधरः :प्रतीतं प्राप्तम् अपि ॥६७॥

सनातन-गोस्वामी : वशे कुर्वन्ति मां भक्त्या [भा।पु। ९.४.६६] इति दुर्वाससं प्रति श्री-भगवता पूर्व-श्लोकत उक्तम् । ननु तेषाम् अपेक्षितं किञ्चिद् अन्यत् प्रदायात्मानं स्वतन्त्रयति चेत्, तत्राह—मत्-सेवयेति । प्रतीतं स्वतः प्राप्तम् अपि । आदि-शब्देन सारूप्य-सामीप्य-सायुज्यानि । सेवया मद्-भक्त्यैव पूर्णाः परिपूर्ण-कामाः । परमानन्द-रस-भूता वा । सेवां विना नान्यत् किम् अपि वाञ्छन्तीत्य् अर्थः, भक्तेर् एव स्वतः परम-फलत्वात् । सदा भक्त्यैकासक्तत्वात् तेषाम् अहं वश्य एवेति दुर्वाससं प्रति वाक्य-तात्पर्यम् ॥६७॥ (ह।भ।वि। ११.६०४)

क्रम-सन्दर्भः : सालोक्यादि-पञ्च-विध-मुक्तीनाम् अविच्युतत्वं दर्शयन् कैमुत्येन तां प्रीति-भक्तिम् अतिशयेन दर्शयति—मत्-सेवयेति । अत्रान्यस्य काल-विप्लुतत्वम् इति मत्-सेवायास् तद्-अभाव-प्राप्तेर् निर्गुणत्वं सिद्धम् । कुतोऽन्यद् ? इति सालोक्यादीनां कालेनाविप्लुतत्वम् । तस्मात् सालोक्यादिभ्योऽतिशये तु किम् उतेति ॥६७॥

विश्वनाथः : तेषां निष्कामत्वस्य परम-काष्ठाम् आह—मत्-सेवयेति । प्रतीतं स्वतः प्राप्तम् अपि कुतो\ऽन्यत् ? इति सालोक्यादीनां कालेनाविप्लुतत्वं दर्शयति । काल-विप्लुतत्वं पारमेष्ठ्यादि ॥६७॥

—ओ)०(ओ—

॥ ९.४.६८ ॥

साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् ।

मद् अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥

**श्रीधरः :**न व्याख्यातम्।

क्रम-सन्दर्भः : भक्तिर् एवैनं नयति, भक्तिर् एवैनं दर्शयति, भक्ति-वशः पुरुषो, भक्तिर् एव भूयसी [माठर-श्रुतिः] इति श्रुयते । तस्माद् एवं विविच्यते—या चैवं भगवन्तं स्वानन्देन मादयति, सा किं-लक्षणा स्यात् ? इति । न तावत् साङ्ख्यानाम् इव प्राकृत-सत्त्व-मय-मायिकानन्द-रूपा, भगवतो मायानभिभाव्यत्व-श्रुतेः स्वतस् तृप्तत्वाच् च । न च निर्विशेष-वादिनाम् इव भगवत्-स्वरूपानन्द-रूपा, अतिशयानुपपत्तेः । अतो नतरां जीवस्य स्वरूपानन्द-रूपा, अत्यन्त क्षुद्रत्वात् तस्य ।

ह्लादिनी सन्धिनी सम्वित् त्वय्य् एका सर्व-संस्थितौ ।

ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्ज्जिते ॥ [वि।पु। १.१२.६९]

इति विष्णु-पुराणानुसारेण ह्लादिन्य्-आख्य-तदीय-स्वरूप-शक्त्य्-आनन्द-रूपैवेत्य् अवशिष्यते, यया खलु भगवान् स्वरूपानन्दम् अनुभवति, यद्-आनन्देनानन्द-विशेषी-भवति, ययैव तं तम् आनन्दम् अन्यान् अप्य् अनुभावयतीति ।

अथ तस्या अपि भगवति सदैव वर्तमानतयातिशयानुपपत्तेस् त्व् एवं विवेचनीयम्, श्रुतार्थान्यथानुपपत्त्य्-अर्थापत्ति-प्रमाण-सिद्धत्वात् । तस्या ह्लादिन्या एव कापि सर्वानन्दातिशायिनी वृत्तिर् नित्यं भक्त-वृन्देष्व् एव निक्षिप्यमाणा भगवत्-प्रीत्य्-आख्यया वर्तते । अतस् तद्-अनुभवेन श्री-भगवान् अपि श्रीमद्-भक्तेषु प्रीत्य्-अतिशयं भजत इति । अत एव तत्-सुखेन भक्त-भगवतोः परस्परम् आवेशम् आह—साधव इति । मह्यं मम। हृदयेन स्वस्य सामानाधिकरण्ये बीजम् आह—मद् अन्यद् इति । अत्यन्तावेशेनैकतापत्त्या ज्वलल्-लोहादाव् अग्नि-व्यपदेशवद् अत्राप्य् अभेद-निर्देश इत्य् अर्थः ॥६८॥ [प्रीति-सन्दर्भ ६५]

विश्वनाथः : किं च, मां सन्तापयते तुभ्यं समुचितं फलं दित्सन्न् अपि यन् न ददामि, एताम् एव मे परां ब्रह्मण्यताम् अवेहीत्य् आह—साधव इति । मह्यं मम अम्बरीषं ज्वालयितुम् इच्छंस् त्वं मद्-धृदयम् एव ज्वालयितुं प्रवृत्तो\ऽभूर् इत्य् अर्थः ।

तर्हि त्वद्-अपराध एवायं चेत् "त्वच्-चरणे पतामि प्रसीद" इत्य् अत आह—साधूनां हृदयं त्व् अहं साधूनां हृदय-प्रसादे सत्य् एव मत्-प्रसाद इत्य् अतो याहि तम् अम्बरीषम् एव प्रसादयेति भावः ।

ननु "अम्बरीषो मां निमन्त्र्याभोजयित्वैव भुक्तवान् । अतस् तद्-दोषम् अपि किं न पश्यसि?" इति । तत्राह—मद् अन्यत् ते न जानन्ति इति मच्-चिकीर्षितम् एवाम्बरीषेण कृतम् इति भावः ।\

"तर्हि त्वाम् एवाहं पृच्छामि, ब्रूहि, ब्राह्मण-द्वादश्योर् मध्ये कस्यादरो धर्मः ?" इति चेत्, "याहि, तम् अम्बरीषम् एव पृच्छ । स एव त्वां धर्म-शास्त्र-तत्त्वानभिज्ञं बोधयिष्यति । मात्र लज्जां काम् अपि कार्षीः । तादृशो नाहम् अपि विद्मः" इत्य् आह—नाहं तेभ्यः सकाशात् मनाग् अपि अधिकं जानामि इत्य् अर्थः ।

तेन श्रुतौ पानीयस्याशितत्वानशितत्वयोस् तुल्य-दर्शनात् द्वादशी-ब्राह्मणयोस् तुल्य एवादरः कृतो मद्-भक्तेनाम्बरीषेण, त्वं त्व् अनभिज्ञस् तन् नाज्ञासीर् इति ध्वनिः । दुर्वासास् तु फल-दर्शनेन द्वादश्या एव भक्तित्वात् सर्व-धर्माधिक्यं निर्धारयन्न् अम्बरीषं किम् अपि न पृष्टवान् इत्य् अनुध्वनिः ॥६८॥

—ओ)०(ओ—

॥ ९.४.६९ ॥

उपायं कथयिष्यामि तव विप्र शृणुष्व तत् ।

अयं ह्य् आत्माभिचारस् ते यतस् तं याहि मा चिरम् ।

साधुषु प्रहितं तेजः प्रहर्तुः कुरुतेऽशिवम् ॥

श्रीधरः : आत्मनस् तवैव अभिचारो हिंसा यतोऽभूत् तम् एव यातु । अशिवम् अनर्थम् ॥६९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : किं च, तद् अपि तव निस्तारोपायं स्पष्टम् एव ब्रवीमि शृण्व् इत्य् आह—अयम् इति । यस्य वधार्थं त्वया अभिचारः कृतः, तम् अम्बरीषम् एव याहि । स एव कृपालुस् त्वां त्रास्यते नान्य इति भावः । न चाम्बरीषं त्वं स्व-दुःखदं मन्येथा इत्य् आह—साधुष्व् इति ॥६९॥

—ओ)०(ओ—

॥ ९.४.७० ॥

तपो विद्या च विप्राणां निःश्रेयस-करे उभे ।

ते एव दुर्विनीतस्य कल्पेते कर्तुर् अन्यथा ॥

श्रीधरः : तपो-विद्या-सम्पन्नस्य मम कथम् अनर्थः समजनि ? इति मा स्म विस्मयं कार्षीर् इत्य् आह—तप इति ॥७०॥

चैतन्य-मत-मञ्जुषा : भवान् दुर्विनीत एवेत्य् आह—ते एव दुर्विनीतस्येत्य्-आदि ॥७०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तपो-विद्या-सम्पन्नस्य मम कुतस्तराम् अम्बरीषात् क्षत्रियात् परित्राणं युज्यते ? इति चेद् अपात्रस्य तव तपो-विद्ये नैव स्तः, प्रत्युत ते विपरीते एवेत्य् आह—तप इति । दुर्विनीतस्यकर्तुस् तद्-आश्रयस्य । अन्यथा कल्पेते विपरीत-फले भवतः ॥७०॥

—ओ)०(ओ—

॥ ९.४.७१ ॥

ब्रह्मंस् तद् गच्छ भद्रं ते नाभाग-तनयं नृपम् ।

क्षमापय महा-भागं ततः शान्तिर् भविष्यति ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रयोदशोऽयं नवमे सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां

नवम-स्कन्धे चतुर्थोऽध्यायः ।

॥ ९.४ ॥

(९.५)


  1. षष्ठं षष्ठम् इति द्विर्-वचनेन षड् अहस्य पुनः पुनः प्रयोगोऽपि वैध इति प्रतीयते । अत एव हि पूर्व-तन्त्रे—अभ्यासे च तद्-अभ्यासः कर्मणः पुनः पुनः प्रयोगात् आवृत्तिस् तु व्यवाये काल-भेदात् स्यात् इत्य् अधिकरण-द्वये षडहस्य पुनः पुनः प्रयोगम् आस्थाय मध्वशनस्यावृत्तिः कर्तव्या न वेत्य् आशङ्क्य कर्मान्तराव्यवहित-षड्-आवृत्तौ न कर्तव्या गवाम् अयनाद् आवभिप्लवादिभिर् व्यपेतावृत्तौ तु कतव्येत्य् उक्तं तत्र इति ॥ (वीरराघवः) ↩︎

  2. तस्माद् असत्यं न ब्रूयात् परस्वं चापदि क्वचित् । सत्येन परिसन्तुष्टो भवामीष्टः स मे भवेत् ॥ इति वीरराघवस्य पाठेऽधिकं पद्यम्। (रा।ते।) ↩︎

  3. नाभानेदिष्ठ इति नाभागस्यैव नामानन्तरम् (रा।ते।) ↩︎

  4. उदये उत्कर्षे लक्षणया तच्-छ्रवणे ॥ (रा।ते।) ↩︎

  5. थिस् अप्पेअर्स् तो बे अन् एअर्लिएर् वेर्सिओन् ओफ़् थे क्रम-सन्दर्भ तकेन् फ़्रोम् अनोथेर् सोउर्चे। थे भव्नगर् एदितिओन् इस् च्लोसेर् तो थिस् एअर्लिएर् वेर्सिओन् बुत् चोन्तैन्स् लेस्स् इन्फ़ोर्मतिओन्। थे ओरिगिनल् सोउर्चेस् नेएद्स् तो बे सेअर्छेद् ओउत्। थे पुरिदास् एदितिओन् दोएस् नोत् गिवे थे फ़ोल्लोwइन्ग् अस् अ वरिअन्त् रेअदिन्ग्। ↩︎

  6. समर्धयन्तीति पाठः सर्वत्र दृश्यते। न वर्धयन्ति यान् कामाः इति वीरराघव-पाठः। ↩︎

  7. अभक्तस्येष्ट-इति तत्त्ववादि-पाठः। ↩︎