०३

॥ ९.३.१ ॥

श्री-शुक उवाच—

शर्यातिर् मानवो राजा ब्रह्मिष्ठः सम्बभूव ह ।
यो वा अङ्गिरसां सत्रे द्वितीयम् अहर् ऊचिवान् ॥**

श्रीधरः :

तृतीये मनु-पुत्रस्य शर्यातेः किर्त्यते वयः ।

यत्र सौकन्यम् आख्यानं रैवतं च महाद् भुतम् ॥

ब्रह्मिष्ठो वेदार्थ-तत्त्व-ज्ञः । तद् एवाह—यो वा इति । द्वितीयम् अहो द्वितीयेऽह्नि क्रियमाणं कर्म ऊचिवान् उवाच । तस्य वंशं—उत्तानबर्हिर् आनर्तः [भा।पु। ९.३.२७] इत्य्-आदिना वक्ष्यति॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

शर्यातेर् मनु-पुत्रस्य सुकन्या च्यवनं पतिम् ।

लेभे तृतीये शर्याति-वंश्या श्री-रेवती बलम् ॥

ब्रह्मिष्ठो वेदार्थ-तत्त्वज्ञः, तद् एवाह—यो वा इति द्वितीय-महः द्वितीयेऽह्नि क्रियमानं कर्म ऊचिवान् तत्र व्यवस्थाम् उवाच ॥१॥

—ओ)०(ओ—

॥ ९.३.२ ॥

सुकन्या नाम तस्यासीत् कन्या कमल-लोचना ।
तया सार्धं वन-गतो ह्य् अगमच् च्यवनाश्रमम् ॥**

श्रीधरः : आदौ तावत् तत् कन्यावृत्तान्तम् आह—सुकन्या नामेत्य्-आदिना ॥२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.३-५ ॥

सा सखीभिः परिवृता विचिन्वन्त्य् अङ्घ्रिपान् वने ।
वल्मीक-रन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥**

ते दैव-चोदिता बाला ज्योतिषी कण्टकेन वै ।
अविध्यन् मुग्ध-भावेन सुस्रावासृक् ततो बहिः ॥**

शकृन्-मूत्र-निरोधोऽभूत् सैनिकानां च तत्-क्षणात् ।
राजर्षिस् तम् उपालक्ष्य पुरुषान् विस्मितोऽब्रवीत् ॥**

**श्रीधरः, विश्वनाथः :**न व्याख्यातम्।

क्रम-सन्दर्भः : शकृन्-मूत्रस्यैव निरोधोऽभूत्, न तूपप्लवान्तरम् इत्य् अत्र कारणं प्राङ्-निजाश्रमम् आलिन्यहानेच्छा या जाता ताम् अनुसृत्यैव कन्येच्छाया मुनि-कृतः क्षुद्रोपद्रव-विशेष इति ज्ञेयम् ॥५॥

—ओ)०(ओ—

॥ ९.३.६ ॥

अप्य् अभद्रं न युष्माभिर् भार्गवस्य विचेष्टितम् ।
व्यक्तं केनापि नस् तस्य कृतम् आश्रम-दूषणम् ॥**

श्रीधरः : भार्गवस्य च्यवनस्य । अभद्रम् अपराधः ॥६॥

क्रम-सन्दर्भः : अपि तु विचेष्टितम् एव । किं वा व्यक्तं यथा भवति, तथा किं भार्गवस्य आश्रम-दूषणंकेनापिकृतम् इत्य् अर्थः ॥६॥

विश्वनाथः : विचेष्टितं कृतं नोऽस्माकं मध्ये केनापि वा न कृतम् ॥६॥

—ओ)०(ओ—

॥ ९.३.७-८ ॥

सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया ।
द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥**

दुहितुस् तद् वचः श्रुत्वा शर्यातिर् जात-साध्वसः ।
मुनिं प्रसादयाम् आस वल्मीकान्तर्हितं शनैः ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.९ ॥

तद्-अभिप्रायम् आज्ञाय प्रादाद् दुहितरं मुनेः ।
कृच्छ्रान् मुक्तस् तम् आमन्त्र्य पुरं प्रायात् समाहितः ॥**

श्रीधरः : मुग्धेयं मम कन्या क्षन्तव्यं त्वयेत्य् उच्यमाने कति वर्षान्यया विवाहः कृतो न वेत्य् आदि-वाक्यैस् तद् अभिप्रायं ज्ञात्वा तस्मै तां दुहितरं प्रादात् ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मुग्धेयं मम कन्या क्षम्यताम् इत्य् उच्यमाने कीदृशी ते कन्या तस्याः विवाहोऽभून् न वेति वक्तुस् तस्याभिप्रायं ज्ञात्वा तस्मै दुहितरं प्रादात् ॥९॥

—ओ)०(ओ—

॥ ९.३.१० ॥

सुकन्या च्यवनं प्राप्य पतिं परम-कोपनम् ।
प्रीणयाम् आस चित्त-ज्ञा अप्रमत्तानुवृत्तिभिः ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.११ ॥

कस्यचित् त्व् अथ कालस्य नासत्याव् आश्रमागतौ ।
तौ पूजयित्वा प्रोवाच वयो मे दत्तम् ईश्वरौ ॥**

श्रीधरः : हे ईश्वरौ सद्-वैद्यौ ! युवां मह्यं वयस् तारुण्यं दत्तं संपादयतम् ॥११॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.१२ ॥

ग्रहं ग्रहीष्ये सोमस्य यज्ञे वाम् अप्य् असोम-पोः ।
क्रियतां मे वयो-रूपं प्रमदानां यद् ईप्सितम् ॥**

श्रीधरः : असोम-पोः सोम-पान-रहितयोर् अपि वां युवयोः सोमस्य ग्रहं सोम-पूर्णं पात्रं ग्रहीष्ये दास्यामीति । युवां सोमेन यक्ष्य इत्य् अर्थः । ऐन्द्र-वायवं गृह्णाति इत्य्-आदिषु द्रव्य-देवता-संबन्धानुपपत्त्या गृह्णातेर् याग-पर्यवसायित्वात् ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सोमस्य ग्रहं सोम-पूर्ण-पात्रं ग्रहीष्ये दास्यामीति । युवां सोमेन यक्ष्य इत्य् अर्थः ॥१२॥

—ओ)०(ओ—

॥ ९.३.१३ ॥

बाढम् इत्य् ऊचतुर् विप्रम् अभिनन्द्य भिषक्तमौ ।
निमज्जतां भवान् अस्मिन् ह्रदे सिद्ध-विनिर्मिते ॥**

श्रीधरः : बाढम् इत्य् अभिनन्द्य भवान् अस्मिन् निमज्जताम् इत्य् ऊचतुः ॥१३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.१४ ॥

इत्य् उक्तो जरया ग्रस्त-देहो धमनि-सन्ततः ।
ह्रदं प्रवेशितोऽश्विभ्यां वली-पलित-विग्रहः ॥**

श्रीधरः : ह्रदं प्रवेशितः । ताव् अपि तम् अपि गृहीत्वा प्रविष्टाव् इत्य् अर्थः ॥१४॥

वंशीधरः : धमनि-सन्ततः शिरा-व्याप्तः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अश्विभ्यां प्रवेशित इति तम् अभिवृद्धं गृहीत्वा ताव् अपि प्रविष्टाव् इत्य् अर्थः ॥१४॥

—ओ)०(ओ—

॥ ९.३.१५ ॥

पुरुषास् त्रय उत्तस्थुर् अपीच्या1 वनिता-प्रियाः ।

पद्म-स्रजः कुण्डलिनस् तुल्य-रूपाः सुवाससः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अपीच्या अतिसुन्दराः ॥१५॥

—ओ)०(ओ—

॥ ९.३.१६ ॥

तान् निरीक्ष्य वरारोहा सरूपान् सूर्य-वर्चसः ।
अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥**

श्रीधरः : अश्विनौ शरणं ययौ । पृथक् स्थित्वा मत्-पतिं दर्शयतम् इति प्रार्थयामासेत्य् अर्थः ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :"अस्मासु मध्ये स्व-पतिं परिचित्य गृहाण" इति तैर् उक्ते, "युष्मासु मध्ये याव् अश्विनौ तौ मां कृपयतां, मत्-पतिं ज्ञापयताम्" इत्य् अश्विनौ शरणं ययौ ॥१६॥

—ओ)०(ओ—

॥ ९.३.१७-१९ ॥

दर्शयित्वा पतिं तस्यै पाति-व्रत्येन तोषितौ ।
ऋषिम् आमन्त्र्य ययतुर् विमानेन त्रिविष्टपम् ॥**

यक्ष्यमाणोऽथ शर्यातिश् च्यवनस्याश्रमं गतः ।
ददर्श दुहितुः पार्श्वे पुरुषं सूर्य-वर्चसम् ॥**

राजा दुहितरं प्राह कृत-पादाभिवन्दनाम् ।
आशिषश् चाप्रयुञ्जानो नातिप्रीति-मना इव ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.२० ॥

चिकीर्षितं ते किम् इदं पतिस् त्वया

प्रलम्भितो लोक-नमस्कृतो मुनिः ।

यत् त्वं जरा-ग्रस्तम् असत्य् असम्मतं

विहाय जारं भजसेऽमुम् अध्वगम् ॥

श्रीधरः : प्रलम्भितो वञ्चितः । हे असति ! असम्मतम् अनभीष्टम् ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रलम्भितो वञ्चितः । यत् त्वं जरा-ग्रस्तं पतिं विहाय असत्य-संमतम् अमुं जारं भजसे ॥२०॥

—ओ)०(ओ—

॥ ९.३.२१ ॥

कथं मतिस् तेऽवगतान्यथा सतां

कुल-प्रसूते कुल-दूषणं त्व् इदम् ।

बिभर्षि जारं यद् अपत्रपा कुलं

पितुश् च भर्तुश् च नयस्य् अधस् तमः ॥

श्रीधरः : हे सतां कुल-प्रसूते ! तव मतिर् अन्यथा तद् विपर्ययेण कथम् अवगताऽवसन्नाध्यवसितेति वा । तद् एवाह—कुल-दूषणं त्व् इदम् इत्य्-आदि ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हे सतां कुल-प्रसूते ! तव मतिर् अन्यथा भूता सती अवगताऽधः पतिता । अपत्रपा अतिनिर्लज्जा तमो नरकम् ॥२१॥

—ओ)०(ओ—

॥ ९.३.२२ ॥

एवं ब्रुवाणं पितरं स्मयमाना शुचि-स्मिता ।
उवाच तात जामाता तवैष भृगु-नन्दनः ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :स्मयेन साध्वीत्व-गर्वेण मानश् चित्त-समुन्नतिर् यस्याः सा ॥२२॥

—ओ)०(ओ—

॥ ९.३.२३ ॥

शशंस पित्रे तत् सर्वं वयो-रूपाभिलम्भनम् ।
विस्मितः परम-प्रीतस् तनयां परिषस्वजे ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.२४ ॥

सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् ।
असोम-पोर् अप्य् अश्विनोश् च्यवनः स्वेन तेजसा ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सोमेन सोम-संज्ञक-यज्ञेन वीरं शर्यातिम् ॥२४॥

—ओ)०(ओ—

॥ ९.३.२५ ॥

हन्तुं तम् आददे वज्रं सद्यो मन्युर् अमर्षितः ।
स-वज्रं स्तम्भयाम् आस भुजम् इन्द्रस्य भार्गवः ॥**

श्रीधरः : सद्यस् तत्-क्षणम् एव मन्युर् यस्य स इन्द्रः ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सद्योमन्युर् अविचारात् तत्-क्षण-जात-कोपः ॥२५॥

—ओ)०(ओ—

॥ ९.३.२६ ॥

अन्वजानंस् ततः सर्वे ग्रहं सोमस्य चाश्विनोः ।
भिषजाव् इति यत् पूर्वं सोमाहुत्या बहिष्-कृतौ ॥**

उत्तानबर्हिर् आनर्तो भूरिषेण इति त्रयः ।
शर्यातेर् अभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.२८ ॥

सोऽन्तः-समुद्रे नगरीं विनिर्माय कुशस्थलीम् ।
आस्थितोऽभुङ्क्त विषयान् आनर्तादीन् अरिन्दम ॥**

तस्य पुत्र-शतं जज्ञे ककुद्मि-ज्येष्ठम् उत्तमम् ॥

श्रीधरः : विषयान् देशान् आनर्तादीन् अभुङ्क्त अपालयत् ॥२८॥

**क्रम-सन्दर्भः, विश्वनाथः :**न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.२९ ॥

ककुद्मी रेवतीं कन्यां स्वाम् आदाय विभुं गतः ।
पुत्र्या वरं परिप्रष्टुं ब्रह्म-लोकम् अपावृतम् ॥**

श्रीधरः : ककुद्मी जेष्टो यस्मिंस् तत् । विभुं ब्रह्माणम् ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : विभुं ब्रह्माणम् । अपावृतं रजस्-तमो-गुणावरण-शून्यम् ॥२९॥

—ओ)०(ओ—

॥ ९.३.३० ॥

आवर्तमाने गान्धर्वे स्थितोऽलब्ध-क्षणः क्षणम् ।
तद्-अन्त आद्यम् आनम्य स्वाभिप्रायं न्यवेदयत् ॥**

श्रीधरः : न लब्धः क्षणोऽवसरे येन । आद्यं ब्रह्माणम् ॥३०॥

क्रम-सन्दर्भः : आवर्तेत्य् अत्र क्षणम् इति तस्य पश्चाद् एव तस्य तत्र गमनात् ॥३०॥

विश्वनाथः : न लब्धः क्षणोऽवसरे येन सः । तद्-अन्ते गान्धर्व-समाप्तौ आद्यं ब्रह्माणम् ॥३०॥

—ओ)०(ओ—

॥ ९.३.३१ ॥

तच् छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तम् उवाच ह ।
अहो राजन् निरुद्धास् ते कालेन हृदि ये कृताः ॥**

श्रीधरः : ते त्वया हृदये ये कृतास् ते सर्वे कालेन निरुद्धाः संहृताः ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हृदये कृतां जामात्र्-अर्थं मनसि विचारिताः । निरुद्धः संहृताः ॥३१॥

—ओ)०(ओ—

॥ ९.३.३२ ॥

तत् पुत्र-पौत्र-नप्तॄणां गोत्राणि च न शृण्महे ।
कालोऽभियातस् त्रि-णव-चतुर्-युग-विकल्पितः ॥३२॥**

श्रीधरः : त्रिणव सप्त-विंशति चतुर्-युगानि तैर् विकल्पितो विभक्तः । यो देव-देवस्यांशोऽस्ति तस्मै नर-रत्नाय देहि ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : त्रिनव-सप्तविंशति-चतुर्युगानि तैर् विशेषतः कल्पितो गणितः ॥३२॥

—ओ)०(ओ—

॥ ९.३.३३ ॥

तद् गच्छ देव-देवांशो बलदेवो महा-बलः ।
कन्या-रत्नम् इदं राजन् नर-रत्नाय देहि भोः ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.३४ ॥

भुवो भारावताराय भगवान् भूत-भावनः ।
अवतीर्णो निजांशेन पुण्य-श्रवण-कीर्तनः ॥**

श्रीधरः : तद् एवाह—भुव इति ॥३४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.३५ ॥

इत्य् आदिष्टोऽभिवन्द्याजं नृपः स्व-पुरम् आगतः ॥

त्यक्तं पुण्य-जन-त्रासाद् भ्रातृभिर् दिक्ष्व् अवस्थितैः ।

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.३.३६

सुतां दत्त्वानवद्याङ्गीं बलाय बल-शालिने ।
बदर्य्-आख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥**

श्रीधरः : पुण्य-जन-त्रासाद्यक्षमयात् पूर्वम् एव चिरं पुरं तद् भ्रातृबिस् त्यक्तम् ॥३६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

नवमे तृतीयोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां नवम-स्कन्धे > तृतीयोऽध्यायः ।

॥ ९.३ ॥

(९.४)


  1. अपीव्य इति भ्रान्त-पाठान्तरम्। ↩︎