०२

॥ ९.२.१ ॥

श्री-शुक उवाच—

एवं गतेऽथ सुद्युम्ने मनुर् वैवस्वतः सुते ।
पुत्र-कामस् तपस् तेपे यमुनायां शतं समाः ॥**

श्रीधरः :

द्वितीये मनु-पुत्राणां द्वाव् अपुत्रौ विरागतः ।

करूषकादि-पञ्चानं वंशान् आह लघु-क्रमात् ॥

वैवस्वतो मनुः श्राद्धदेवः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

पृषध्रो गुरुणा त्यक्तोऽप्य् आप पारं तम् अत्यजन् ।

लघु-क्रमान् मनोर् वंश-वर्णनं च द्वितीयतः ॥

ओ)०(ओ

॥ ९.२.२ ॥

ततोऽयजन् मनुर् देवम् अपत्यार्थं हरिं प्रभुम् ।
इक्ष्वाकु-पूर्वजान् पुत्रान् लेभे स्व-सदृशान् दश ॥**

श्रीधरः : इक्ष्वाकुः पूर्व-जो येषां तान् दश पुत्रान् लेभे ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

ओ)०(ओ

॥ ९.२.३ ॥

पृषध्रस् तु मनोः पुत्रो गो-पालो गुरुणा कृतः ।
पालयाम् आस गा यत्तो रात्र्यां वीरासन-व्रतः ॥**

श्रीधरः : तत्र पृषध्रस्य वंशो नाभवद् इति स-हेतुकम् आह—पृषध्रस् त्व् [भा।पु। ९.२.३] इत्य्-आदिना कविः कनीयान् [भा।पु। ९.२.१५] इत्य् अतः प्राक्तनेन ग्रन्थेन । खड्ग-पाणेः सतस् तिष्ठतो जागरणं वीरासनं तद् एव व्रतं यस्य । यत्तोऽवहितः सन् । गाः पालयाम् आस ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तत्र पृषध्रस्य वंशो नाभवद् इति स-हेतुकम् आह—पृषध्र इत्य्-आदिना । खड्ग-पाणेः सतस् तिष्ठतो जागरणं वीरासनं तद् एव व्रतं यस्य सः । यत्तः सावधानः ॥३॥

ओ)०(ओ

॥ ९.२.४ ॥

एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति ।
शयाना गाव उत्थाय भीतास् ता बभ्रमुर् व्रजे ॥**

श्रीधरः : शार्दूलो व्याघ्रः ॥४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

ओ)०(ओ

॥ ९.२.५-६ ॥

एकां जग्राह बलवान् सा चुक्रोश भयातुरा ।
तस्यास् तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह ॥**

खड्गम् आदाय तरसा प्रलीनोडु-गणे निशि ।
अजानन्न् अच्छिनोद् बभ्रोः शिरः शार्दूल-शङ्कया ॥**

श्रीधरः : प्रलीना उडु-गना यस्मिंस् तस्मिन् समये । बभ्रोः कपिलाया गोः ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निशि रात्रौ तत्रापि मेघावृतत्वात् प्रलीने नक्षत्र-गणे सति अत एवाजानन् व्याघ्र-शङ्कया बभ्रोः कपिलाया गोः ॥५-६॥

ओ)०(ओ

॥ ९.२.७ ॥

व्याघ्रोऽपि वृक्ण-श्रवणो निस्त्रिंशाग्राहतस् ततः ।
निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥**

श्रीधरः : गां कामतो न जघानेति ख्यापयितुं वृक्ण-श्रवण इत्य्-आद्य्-उक्तम् ॥७॥

क्रम-सन्दर्भः : तेनात्यन्त-सम्मिश्रत्वाद् एव सहसा तत्त्वं निर्णेतुं न शक्त इत्य् आह—व्याघ्रोऽपीति ॥७॥

विश्वनाथः : वृक्न-श्रवणः छिन्न-कर्णः यतोर् निस्त्रिंशस्याग्रेण आहतः ॥७॥

ओ)०(ओ

॥ ९.२.८ ॥

मन्यमानो हतं व्याघ्रं पृषध्रः पर-वीर-हा ।
अद्राक्षीत् स्व-हतां बभ्रुं व्युष्टायां निशि दुःखितः ॥**

श्रीधरः : व्युष्टायां प्रभातायाम् ॥८॥

क्रम-सन्दर्भः : तस्य चानुतापो जात इत्य् आह—मन्यमान इति ॥८॥

विश्वनाथः : व्युष्टायां प्रभातायां निशि ॥८॥

ओ)०(ओ

॥ ९.२.९ ॥

तं शशाप कुलाचार्यः कृतागसम् अकामतः ।
न क्षत्र-बन्धुः शूद्रस् त्वं कर्मणा भवितामुना ॥**

श्रीधरः : क्षत्र-बन्धुर् अपि त्वं न भविता, अपि तु शूद्रो भवितेति ॥९॥

क्रम-सन्दर्भः : ततश् च तस्य स्वल्प-प्रायश्चित्तार्हस्यापि पातित्ये गोदयामात्र-गुरोः शाप एव कारणम् इत्य् आह—तम् इति त्रिकम् ॥९॥

विश्वनाथः : अकामतोऽनिच्छातो\ऽपि कृतापराधं तं शशाप, न तु कृपया प्रायश्चित्तम् उपदिदेश अतिकोपेन विचारापगमाद् इति भावः । यतः कुलाचार्यः कुल-पौरोहित्यस्य तमो बहुलत्वात् । कथं विगर्ह्यं नु करोम्य् अधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः [भा।पु। ६.७.३६] इति विश्वरूपोक्तेः शापम् आह—क्षत्र-बन्धुर् अपि त्वं न भविता अपि तु शूद्र एव ॥९॥

ओ)०(ओ

॥ ९.२.१० ॥

एवं शप्तस् तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः ।
अधारयद् व्रतं वीर ऊर्ध्व-रेता मुनि-प्रियम् ॥**

**श्रीधरः :**न व्याख्यातम्।

क्रम-सन्दर्भः : तथापि तस्य सौशील्यम् एवानुवृत्तम् इत्य् आह—एवम् इति ॥१०॥

विश्वनाथः : कृताञ्जलिः सन् शापं महा-प्रसादम् इव प्रत्यगृह्णाद् इति । गुरु-भक्ति-लक्षणं, न तु त्वम् अपरामृश्य मह्यं किम् इति वृथा शपसीति प्रत्युवाचेति भावः । तेन परित्यक्तो\ऽपि गुरौ भक्तिमान् निष्प्रत्यूहं निस्तरती प्राकरणिकः सिद्धान्तो द्योतितः । मुनि-प्रियं व्रतं ब्रह्मचर्यम् ॥१०॥

ओ)०(ओ

॥ ९.२.११-१३ ॥

वासुदेवे भगवति सर्वात्मनि परेऽमले ।
एकान्तित्वं गतो भक्त्या सर्व-भूत-सुहृत् समः ॥**

विमुक्त-सङ्गः शान्तात्मा संयताक्षोऽपरिग्रहः ।
यद्-ऋच्छयोपपन्नेन कल्पयन् वृत्तिम् आत्मनः ॥**

आत्मन्य् आत्मानम् आधाय ज्ञान-तृप्तः समाहितः ।
विचचार महीम् एतां जडान्ध-बधिराकृतिः ॥**

श्रीधरः : न व्याख्यातम्।

क्रम-सन्दर्भः : वासुदेव इति त्रिकम् । अस्य मुमुक्षोर् अप्य् एकान्तित्व-व्यपदेशो गौण एव बोद्धव्यः ॥११-१३॥

विश्वनाथः : आत्मनि मनसि आत्मानं भगवन्तम् । ज्ञाने तृप्तः किन्तु भक्ताव् अतृप्त इति भावः ॥११-१३॥

ओ)०(ओ

॥ ९.२.१४ ॥

एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निम् उत्थितम् ।
तेनोपयुक्त-करणो ब्रह्म प्राप परं मुनिः ॥**

श्रीधरः : उपयुक्त-करणो दग्ध-देहः ॥१४॥

क्रम-सन्दर्भः : वासुदेव-भक्तत्वाच् छूद्रत्वेऽपि मुक्तिम् आह—एवं वृत्त इति ॥१४॥

विश्वनाथः : उपयुक्त-करणो दग्ध-देहः परं ब्रह्म श्री-कृष्णः ॥१४॥

ओ)०(ओ

॥ ९.२.१५ ॥

कविः कनीयान् विषयेषु निःस्पृहो

विसृज्य राज्यं सह बन्धुभिर् वनम् ।

निवेश्य चित्ते पुरुषं स्व-रोचिषं

विवेश कैशोर-वयाः परं गतः ॥

श्रीधरः : कवेर् अपि वंशो नाभवद् इत्य् आह—कविर् इति । बन्धुभिः सह राज्यं विसृज्य ॥१५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

ओ)०(ओ

॥ ९.२.१६ ॥

करूषान् मानवाद् आसन् कारूषाः क्षत्र-जातयः ।
उत्तरा-पथ-गोप्तारो ब्रह्मण्या धर्म-वत्सलाः ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ९.२.१७ ॥

धृष्टाद् धार्ष्टम् अभूत् क्षत्रं ब्रह्म-भूयं गतं क्षितौ ।
नृगस्य वंशः सुमतिर् भूतज्योतिस् ततो वसुः ॥**

श्रीधरः : ब्रह्म-भूयं ब्राह्मणत्वम् । नृगस्य वंशः पुत्रः सुमतिस् ततो भूत-ज्योतिस् ततो वसुः ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ब्रह्म-भूयं ब्राह्मणत्वम् । वंशः पुत्रः ॥१७॥

ओ)०(ओ

॥ ९.२.१८ ॥

वसोः प्रतीकस् तत्-पुत्र ओघवान् ओघवत्-पिता ।
कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥**

श्रीधरः : ओघवतः पिता, तत्-पुत्रोऽप्य् ओघवान् एवेत्य् अर्थः ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ओघवतः पितेति । तत्-पुत्रोऽप्य् ओघवान् एवेत्य् अर्थः ॥१८॥

ओ)०(ओ

॥ ९.२.१९ ॥

चित्रसेनो नरिष्यन्ताद् ऋक्षस् तस्य सुतोऽभवत् ।
तस्य मीढ्वांस् ततः पूर्ण इन्द्रसेनस् तु तत्-सुतः ॥**

श्रीधरः : तद् एवं त्रिभिः शोकैः करूष-धृष्ट-नृगाणां वंशा उक्ताः, नरिष्यन्तस्य वंशम् आह—चित्रसेन इति सार्धैस् त्रिभिः, तत इत्य्-आदेर् यत्राधिक्यं स्यात् तत्रानन्तर्ये तत इत्य्-आदि-पदं व्याख्येयम् । यत्र तु न्यूनत्वं तत्र पूर्वस्य परस्य वानुषङ्गादिभिर् व्याख्येयम् ॥१९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

ओ)०(ओ

॥ ९.२.२० ॥

वीतिहोत्रस् त्व् इन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।
उरुश्रवाः सुतस् तस्य देवदत्तस् ततोऽभवत् ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ९.२.२१ ॥

ततोऽग्निवेश्यो भगवान् अग्निः स्वयम् अभूत् सुतः ।
कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः ॥**

श्रीधरः, विश्वनाथः : अग्निवेश्य एव कानीन इति जातूकर्ण्य इति च विख्यातः ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

ओ)०(ओ

॥ ९.२.२२ ॥

ततो ब्रह्म-कुलं जातम् आग्निवेश्यायनं नृप ।
नरिष्यन्तान्वयः प्रोक्तो दिष्ट-वंशम् अतः शृणु ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ९.२.२३-२४ ॥

नाभागो दिष्ट-पुत्रोऽन्यः कर्मणा वैश्यतां गतः ।
भलन्दनः सुतस् तस्य वत्सप्रीतिर् भलन्दनात् ॥**

वत्सप्रीतेः सुतः प्रांशुस् तत्-सुतं प्रमतिं विदुः ।
खनित्रः प्रमतेस् तस्माच् चाक्षुषोऽथ विविंशतिः ॥**

श्रीधरः : दिष्टस्य पुत्रो नाभागो वक्ष्यमाण-नाभागादन्य इति भ्रान्ति-व्युदासार्थमनुवाद-मात्रम् ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अन्य इति भ्रान्ति-वारणार्थं वक्ष्यमाणान् नाभागाद् भिन्न इत्य् अर्थः ॥२३॥

ओ)०(ओ

॥ ९.२.२५ ॥

विविंशतेः सुतो रम्भः खनीनेत्रोऽस्य धार्मिकः ।
करन्धमो महाराज तस्यासीद् आत्मजो नृप ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ९.२.२६ ॥

तस्यावीक्षित् सुतो यस्य मरुत्तश् चक्रवर्त्य् अभूत् ।
संवर्तोऽयाजयद् यं वै महा-योग्य् अङ्गिरः-सुतः ॥**

श्रीधरः : अङ्गिरसः सुतो महा-योगी संवर्तो यम् अयाजयत् स मरुत्तः ॥२६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

ओ)०(ओ

॥ ९.२.२७ ॥

मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन ।
सर्वं हिरण्मयं त्व् आसीद् यत् किञ्चिच् चास्य शोभनम् ॥**

श्रीधरः : अस्य यत् किञ्चित् पात्रादिकम् अस्ति, तत् तु सर्वं हिरण्मयं शोभनम् आसीत् ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अस्य यत् किञ्च किञ्चित् पात्रादिकम् अस्ति आसीत् तत् सर्वं हिरण्मयं शोभनम् आसीत् ॥२७॥

ओ)०(ओ

॥ ९.२.२८ ॥

अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः ।
मरुतः परिवेष्टारो विश्वेदेवाः सभा-सदः ॥**

श्रीधरः : अमाद्यद् अहृष्यत् ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : द्विजातयो विप्रा अपि अमाद्यन् अहृष्यन् ॥२८॥

ओ)०(ओ

॥ ९.२.२९ ॥

मरुत्तस्य दमः पुत्रस् तस्यासीद् राज्यवर्धनः ।
सुधृतिस् तत्-सुतो जज्ञे सौधृतेयो नरः सुतः ॥**

तत्-सुतः केवलस् तस्माद् धुन्धुमान् वेगवांस् ततः ।
बुधस् तस्याभवद् यस्य तृणबिन्दुर् महीपतिः ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ९.२.३१ ॥

तं भेजेऽलम्बुषा देवी भजनीय-गुणालयम् ।
वराप्सरा यतः पुत्राः कन्या चेलविलाभवत् ॥**

श्रीधरः : यतो यस्यां तृनबिन्दोः पुत्रा अभवन् ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यतो यस्यां तृनबिन्दोः पुत्रा विशालाद्याः ॥३१॥

ओ)०(ओ

॥ ९.२.३२ ॥

यस्याम् उत्पादयाम् आस विश्रवा धनदं सुतम् ।
प्रादाय विद्यां परमाम् ऋषिर् योगेश्वरः पितुः ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पितुः सकाशात् विद्यां प्रादाय प्राप्य ॥३२॥

ओ)०(ओ

॥ ९.२.३३ ॥

विशालः शून्यबन्धुश् च धूम्रकेतुश् च तत्-सुताः ।
विशालो वंश-कृद् राजा वैशालीं निर्ममे पुरीम् ॥**

श्रीधरः : तान् एवाह—विशाल इति । तस्य तृणबिन्दोः सुताः ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्य तृणबिन्दोः सुताः ॥३२॥

ओ)०(ओ

॥ ९.२.३४ ॥

हेमचन्द्रः सुतस् तस्य धूम्राक्षस् तस्य चात्मजः ।
तत्-पुत्रात् संयमाद् आसीत् कृशाश्वः सह-देवजः ॥**

श्रीधरः : सह-देवजः देवजेन सहितः । पाठान्तरे नामान्यत्व-मात्रम्, अर्थस् तु स एव ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

ओ)०(ओ

॥ ९.२.३५ ॥

कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैर् इडस्पतिम् ।
इष्ट्वा पुरुषम् आपाग्र्यां गतिं योगेश्वराश्रिताम् ॥**

सौमदत्तिस् तु सुमतिस् तत्-पुत्रो जनमेजयः ।
एते वैशाल-भूपालास् तृणबिन्दोर् यशोधराः ॥**

श्रीधरः : वैशाल-भूपाला विशालस्यान्वये जाताः ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

ओ)०(ओ

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वितीयो नवमस्याभूत् सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां नवम-स्कन्धे > नाम द्वितीयोऽध्यायः ।

॥ ९.२ ॥

(९.३)