॥ ९.१.१-२ ॥
श्री-राजोवाच—
मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे ।
वीर्याण्य् अनन्त-वीर्यस्य हरेस् तत्र कृतानि च ॥
योऽसौ सत्यव्रतो नाम राजर्षिर् द्रविडेश्वरः ।
ज्ञानं योऽतीत-कल्पान्ते लेभे पुरुष-सेवया ॥
श्रीधरः : अथ भागवत-नवम-स्कन्ध-प्रारंभः । श्री-गणेशाय नमः ।
गुणा यं गुणतावाप्त्यै वृणते करुणा-निधिम् ।
तम् अहं शरणं यामि परमानन्द-माधवम् ॥
त्रि-गुणाष्टभिर् अध्यायैर् वैवस्वत-सुतान्वयः ।
नवमे कृष्ण-सत्-कीर्ति-प्रसङ्गाय वितन्यते ॥
एवम् उक्तोऽष्टम-स्कन्धे सद्-धर्मः सत्त्व-शोधकः ।
कर्तृ-पालक-वक्त्रादि-मन्व्-आदीनां निरूपणैः ॥
सद्-धर्म-शुद्ध-सत्त्वानाम् अन्तरङ्गेश-सत्-कथा ।
सूर्य-सोमान्वयाख्यानैर् अधुना सङ्गतोच्यते ॥
तत्र च,
त्रयोदशभिर् अध्यायैः सूर्य-वंशोऽनुवर्ण्यते ।
एकादशभिर् अध्यायैः सोम-वंशस् ततः परैः ॥
तत्र तु प्रथमेऽध्याये वैवस्वत-सुतान्वये ।
सोम-वंश-प्रवेशोक्त्यै सुद्युम्न-स्त्रीत्वम् उच्यते ॥
उक्तानुवाद-पूर्वकं वैवस्वत-मनोर् वंशं पृच्छति, मन्व्-अन्तराणीति पञ्चभिः ॥१॥
क्रम-सन्दर्भः : ॐ नमः श्री-कृष्णाय ।
नवल-क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।
क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥
योऽसाव् इति त्रिकम् ॥२॥
विश्वनाथः : श्री-गोकुलानन्दो जयति ।
प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।
लोकनाथं जगच्चक्षुः श्री-शुकं तम् उपाश्रये ॥
गोप-रामा-जन-प्राण-प्रियसेऽतिप्रभुष्णवे ।
तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥
उक्त्वा सद्-धर्मम् ईशानुवर्तिनां कथ्यते कथा ।
नवमे भक्ति-विज्ञान-वैराग्याद्य्-अभिधित्सया ॥
अम्बरीषादिभिर् इव भाव्यं भक्तैर् विचक्षणैः ।
विषयाभिनिविष्टोऽपि विरक्तः स्याद् ययातिवत् ॥
इत्य् एवम् अर्थ-युक्तास् ते सूर्य-सोमान्वयान्विताः ।
स्व-नाम्नैव पुनन्तोऽपि स्वाचारैर् लोक-शिक्षकाः ॥
अत्र त्रयोदशाध्यायाः सूर्य-वंश-निरूपकाः ।
एकाधिका दश स्युस् ते सोम्ज-वंशाभिधायिकाः ॥
तद् एवं नवम-स्कन्धो राजते त्रिगुणाष्टभिः ।
अध्यायैर् विविधाश् चर्य-कथः कृष्ण-कथा-रथः ॥
तत्र तु प्रथमेऽध्याये सुद्युम्नो मृगयां गतः ।
स्त्री भूत्वाथ बुधात् पुत्रं पुरूरवसम् आप्तवान् ॥
मत्स्य-देव-प्रसादात् सत्यव्रतस्य भवत-श्रेष्ठस्य मनुत्वं श्रुत्वा तद्-वंश्यानाम् अपि वैष्णवत्वम् अतिप्रेत्य तत्-कथासु जात-श्रद्धः पृच्छति योऽसाव् इति चतुर्भिः । अतीत-कल्पान्ते अतीत-मन्वन्तरान्ते ॥१-२॥
—ओ)०(ओ—
॥ ९.१.३-५ ॥
स वै विवस्वतः पुत्रो मनुर् आसीद् इति श्रुतम् ।
त्वत्तस् तस्य सुताः प्रोक्ता इक्ष्वाकु-प्रमुखा नृपाः ॥
तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च ।
कीर्तयस्व महा-भाग नित्यं शुश्रूषतां हि नः ॥
ये भूता ये भविष्याश् च भवन्त्य् अद्यतनाश् च ये ।
तेषां नः पुण्य-कीर्तीनां सर्वेषां वद विक्रमान् ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.६ ॥
श्री-सूत उवाच—
एवं परीक्षिता राज्ञा सदसि ब्रह्म-वादिनाम् ।
पृष्टः प्रोवाच भगवाञ् छुकः परम-धर्म-वित् ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.७ ॥
श्री-शुक उवाच—
श्रूयतां मानवो वंशः प्राचुर्येण परन्तप ।
न शक्यते विस्तरतो वक्तुं वर्ष-शतैर् अपि ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.८ ॥
परावरेषां भूतानाम् आत्मा यः पुरुषः परः ।
स एवासीद् इदं विश्वं कल्पान्तेऽन्यन् न किञ्चन ॥
श्रीधरः : अनुक्तं वंशं वक्तुं पूर्वोक्तम् एव तावद् वंशं तत् प्रवर्तकं श्री-नारायणम् आरभ्यानुस्मारयति—परावरेषाम् इति पञ्चभिः ॥८॥
चैतन्य-मत-मञ्जुषा : परावरेषां भूतानाम् इत्य्-आदि । यः परः पुरुषः श्री-कृष्णः, स एव कल्पान्ते एक एवासीत्, भूतानाम् आत्मा परावरेषां परं ब्रह्म अवरे नारायणादयस् तेषाम् आत्मा नियामकः, भूतानां च आत्मेति पृथङ् नेतव्यम् ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कथा-सौष्टवार्थं तं च मानवं वंशं सृष्टिम् आरभ्यैव प्रवृत्तया पूर्वम् उक्तयैव कथया सह गुम्फन्न् आह परावरेषाम् इति पञ्चभिः ॥८॥
—ओ)०(ओ—
॥ ९.१.९-१२ ॥
तस्य नाभेः समभवत् पद्म-कोषो हिरण्मयः ।
तस्मिन् जज्ञे महाराज स्वयम्भूश् चतुर्-आननः ॥
मरीचिर् मनसस् तस्य जज्ञे तस्यापि कश्यपः ।
दाक्षायण्यां ततोऽदित्यां विवस्वान् अभवत् सुतः ॥
ततो मनुः श्राद्धदेवः संज्ञायाम् आस भारत ।
श्रद्धायां जनयाम् आस दश पुत्रान् स आत्मवान् ॥
इक्ष्वाकु-नृग-शर्याति-दिष्ट-धृष्ट-करूषकान् ।
नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ॥
श्रीधरः : नाभागं चेति पाठेऽपि नभग एव नाभागः ॥१२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.१३ ॥
अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल ।
मित्रा-वरुणयोर् इष्टिं प्रजार्थम् अकरोद् विभुः ॥
श्रीधरः : सूर्य-पौत्रस्य सुद्युम्नस्य स्त्रीत्वे सति बुधात् पुरूरवः-प्रभृति-सोम-वंश-सञ्चारं वक्तुं स-प्रस्तावम् इलोपाख्यानम् आह—अप्रजस्य मनोः पूर्वम् इत्य्-आदिना यावद् अध्याय-समाप्ति । पूर्वम् इक्ष्वाकु-प्रभृतीनाम् उत्पत्तेः प्राक् ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : पूर्वम् इक्ष्वाकु-प्रभृति-पुत्रोत्पत्तेः प्राक् ॥१३॥
—ओ)०(ओ—
॥ ९.१.१४ ॥
तत्र श्रद्धा मनोः पत्नी होतारं समयाचत ।
दुहित्र्-अर्थम् उपागम्य प्रणिपत्य पयोव्रता ॥
श्रीधरः : दुहित्र्-अर्थं मम कन्या यथा भवेत् तथा यजेति होतारं सम्यग् अयाचत । पय एव व्रतम् आहारो नियतो यस्याः ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दुहित्र्-अर्थं मम कन्या यथा भवेत् तथा यजेति ॥१४॥
—ओ)०(ओ—
॥ ९.१.१५ ॥
प्रेषितोऽध्वर्युणा होता व्यचरत् तत् समाहितः ।
गृहीते हविषि वाचा वषट्-कारं गृणन् द्विजः ॥
श्रीधरः : अध्वर्युणा होतर् यजेति प्रेषितो होता तेन गृहीते हविषि सति तत् तया प्रार्थितं ध्यायन् व्यचरद् अयजत् । पाठान्तरे तत् आध्यायत् वाचा वषट्-कारां गृणन् वौषड् इत्य् उच्चारयन् ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अध्वर्युणा हे होतर् यजेति प्रेषितः । होता तेन गृहीते हविषि सति तत् तया प्रार्थितं ध्यायन् व्यचरद् अयजत् । पाठान्तरे तत् आध्यायत् वाचा वषट्-कारां गृणन् वौषड् इत्य् उच्चारयन् ॥१५॥
—ओ)०(ओ—
॥ ९.१.१६ ॥
होतुस् तद्-व्यभिचारेण कन्येला नाम साभवत् ।
तां विलोक्य मनुः प्राह नातितुष्टमना गुरुम् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : इलेति राज्ञैव हर्षेण तत्-क्षण एव नाम कृतम् इत्य् अवसीयते । नातीत्य-प्रजस्त्वापगमात् सामान्यतो हर्षोत्पत्तेः ॥१६॥
—ओ)०(ओ—
॥ ९.१.१७ ॥
भगवन् किम् इदं जातं कर्म वो ब्रह्म-वादिनाम् ।
विपर्ययम् अहो कष्टं मैवं स्याद् ब्रह्म-विक्रिया ॥
श्रीधरः, विश्वनाथः : ब्रह्म-विक्रिया मन्त्रान्यथात्वम् ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.१८ ॥
यूयं ब्रह्म-विदो युक्तास् तपसा दग्ध-किल्बिषाः ।
कुतः सङ्कल्प-वैषम्यम् अनृतं विबुधेष्व् इव ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.१९ ॥
निशम्य तद् वचस् तस्य भगवान् प्रपितामहः ।
होतुर् व्यतिक्रमं ज्ञात्वा बभाषे रवि-नन्दनम् ॥
श्रीधरः, विश्वनाथः : प्रपितामहो वसिष्ठः ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.२०-२७ ॥
एतत् सङ्कल्प-वैषम्यं होतुस् ते व्यभिचारतः ।
तथापि साधयिष्ये ते सुप्रजास्त्वं स्व-तेजसा ॥
एवं व्यवसितो राजन् भगवान् स महा-यशाः ।
अस्तौषीद् आदि-पुरुषम् इलायाः पुंस्त्व-काम्यया ॥
तस्मै काम-वरं तुष्टो भगवान् हरिर् ईश्वरः ।
ददाव् इलाभवत् तेन सुद्युम्नः पुरुषर्षभः ॥
स एकदा महाराज विचरन् मृगयां वने ।
वृतः कतिपयामात्यैर् अश्वम् आरुह्य सैन्धवम् ॥
प्रगृह्य रुचिरं चापं शरांश् च परमाद्भुतान् ।
दंशितोऽनुमृगं वीरो जगाम दिशम् उत्तराम् ॥
सुकुमार-वनं मेरोर् अधस्तात् प्रविवेश ह ।
यत्रास्ते भगवान् छर्वो रममाणः सहोमया ॥
तस्मिन् प्रविष्ट एवासौ सुद्युम्नः पर-वीर-हा ।
अपश्यत् स्त्रियम् आत्मानम् अश्वं च वडवां नृप ॥
तथा तद्-अनुगाः सर्वे आत्म-लिङ्ग-विपर्ययम् ।
दृष्ट्वा विमनसोऽभूवन् वीक्षमाणाः परस्परम् ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.२८ ॥
श्री-राजोवाच—
कथम् एवं गुणो देशः केन वा भगवन् कृतः ।
प्रश्नम् एनं समाचक्ष्व परं कौतूहलं हि नः ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.२९ ॥
श्री-शुक उवाच—
एकदा गिरिशं द्रष्टुम् ऋषयस् तत्र सुव्रताः ।
दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥
श्रीधरः : विगतं तिमिरम् आभासः प्रकाशश् चान्यस्य यासु तथा-भूता दिशः कुर्वन्तः ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विगत-तिमिरस्याभासः प्रत्ययोऽपि यासु ताः ॥२९॥
—ओ)०(ओ—
॥ ९.१.३० ॥
तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् ।
भर्तुर् अङ्कात् समुत्थाय नीवीम् आश्व् अथ पर्यधात् ।
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.३ ॥
ऋषयोऽपि तयोर् वीक्ष्य प्रसङ्गं रममाणयोः ।
निवृत्ताः प्रययुस् तस्मान् नर-नारायणाश्रमम् ॥
श्रीधरः : प्रसङ्गं रत्य्-अभिनिवेशम् । स्त्री-प्रसङ्ग-दर्शन-कलुषित-मनसः सन्तस् तत् प्रसङ्ग-शून्यं नर-नारायणाश्रमं ययुः ॥३१॥
क्रम-सन्दर्भः : ऋषयोऽपीति तत्र लज्जित-मनसोऽन्यत्रापि तद् आशङ्क्य नितरां तत्-प्रसङ्ग-शून्यं नर-नारायणाश्रमं ययुः ॥३१॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.३२ ॥
तद् इदं भगवान् आह प्रियायाः प्रिय-काम्यया ।
स्थानं यः प्रविशेद् एतत् स वै योषिद् भवेद् इति ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.३३ ॥
तत ऊर्ध्वं वनं तद् वै पुरुषा वर्जयन्ति हि ।
सा चानुचर-संयुक्ता विचचार वनाद् वनम् ॥
श्रीधरः : प्रासङ्गिकम् उक्त्वा प्रस्तुतम् अनुवर्णयति, अनुचरी-संयुक्तेति वक्तव्ये भूत-पूर्व-गत्या पुंस्त्व-निर्देशः ॥३३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्रासङ्गिकम् उक्त्वा प्रस्तुतम् आह—सा चेति । अनुचरी-संयुक्तेति वक्तव्ये भूत-पूर्व-गत्या पुंस्त्व-निर्देशः ॥३३॥
—ओ)०(ओ—
॥ ९.१.३४-३६ ॥
अथ ताम् आश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् ।
स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः ॥
सापि तं चकमे सुभ्रूः सोमराज-सुतं पतिम् ।
स तस्यां जनयाम् आस पुरूरवसम् आत्मजम् ॥
एवं स्त्रीत्वम् अनुप्राप्तः सुद्युम्नो मानवो नृपः ।
सस्मार स कुलाचार्यं वसिष्ठम् इति शुश्रुम ॥
न कतमेन व्याख्यातम्।:
—ओ)०(ओ—
॥ ९.१.३७ ॥
स तस्य तां दशां दृष्ट्वा कृपया भृश-पीडितः ।
सुद्युम्नस्याशयन् पुंस्त्वम् उपाधावत शङ्करम् ॥
श्रीधरः, विश्वनाथः : आशयन्न् इच्छन् ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१.३८-३९ ॥
तुष्टस् तस्मै स भगवान् ऋषये प्रियम् आवहन् ।
स्वां च वाचम् ऋतां कुर्वन्न् इदम् आह विशाम्पते ॥
मासं पुमान् स भविता मासं स्त्री तव गोत्रजः ।
इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्रियम् आवहन् प्रीतिं दधानः ॥३८-३९॥
—ओ)०(ओ—
॥ ९.१.४० ॥
आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया ।
पालयाम् आस जगतीं नाभ्यनन्दन् स्म तं प्रजाः ॥
श्रीधरः : नाभ्यनन्दन्, स्त्रीत्वे लज्जया मासं मासं निलीयावस्थानात् ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : नाभ्यनन्दन्, स्त्रीत्वे सति मासं निलीयावस्थानात् ॥४०॥
—ओ)०(ओ—
॥ ९.१.४१ ॥
तस्योत्कलो गयो राजन् विमलश् च त्रयः सुताः ।
दक्षिणा-पथ-राजानो बभूवुर् धर्म-वत्सलाः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तस्य सुद्युम्नस्य ॥४१॥
—ओ)०(ओ—
॥ ९.१.४२ ॥
ततः परिणते काले प्रतिष्ठान-पतिः प्रभुः ।
पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्रतिष्ठानस्य पतिर् इति तत्रैव तस्य राजधानीम् । गाम् उत्सृज्य पृथ्वीं दत्त्वा ॥४२॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
नवमे प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
इलोपाख्याने प्रथमोऽध्यायः ।
॥ ९.१ ॥
(९.२)