२४ मत्स्यावतार-चरितम्

॥ ८.२४.१ ॥

श्री-राजोवाच—

भगवन् छ्रोतुम् इच्छामि हरेर् अद्भुत-कर्मणः ।

अवतार-कथाम् आद्यां माया-मत्स्य-विडम्बनम् ॥

श्रीधरः :

चतुर्विंशे प्रसङ्गेन मत्स्य-रूपस्य शर्ङ्गिणः ।

लीलोच्यते यतः सत्यव्रत-रक्षा महार्णवे ॥

तनुं तनुं विदर्श्यादौ निजैश्वर्य-निदर्शनात् ।

मत्स्यं पृच्छति पृथ्वीशो लीलया वामनोपमम् ॥

मायया मत्स्य-विडम्बनं मत्स्य-रूपानुकरणं यस्यां निरूप्यते ताम् ॥१॥

**क्रम-सन्दर्भः : **भगवन्न् इति तैः । तत्र निरूप्यत इत्य् अध्याहारेणैव व्याख्येयं, न तु विग्रहेण, यतो निरूप्यत इत्य् अधिकोक्तेः । सापेक्षत्वाद् बहुव्रीह्य्-असम्भवः ॥१॥

विश्वनाथः :

चतुर्विंशे मत्स्य-रूपी प्राह सत्यव्रतं हरिः ।

खेल्न-महार्णवे तेन स्तुतस् तत्त्वोपदेशकः ॥

वामनस्य वियद्-व्यापि वृद्धि-चरणारविन्दतः स्मृतिम् ।

आरूढो मत्स्य-रूपी स पृच्छ्यते भूभृता हरिः ॥

स्वीचक्रे लीलया याच्ञां कर्मस्व् अतिजुगुप्सितम् ।

तथा मत्स्यं वपुर् दध्रे जातिष्व् अतिजुगुप्सितम् ॥

अतः प्रासङ्गिकी मत्स्यावतारस्य कथा यथा ।

तथैवाग्रेतनी सत्यव्रतस्यैव प्रसङ्गतः ॥

माया-मत्स्यस्य मायिक-मत्स्यस्य विडम्बनम् अनुकरणं यस्यां तां स तु स्वयम् अमायिक-मत्स्यस्य एवेत्य् अर्थः । स्वस्यालौकिकैः प्रभावैः मायिक-मत्स्यस्य तिरस्कारो वा ॥१॥

—ओ)०(ओ**—**

॥ ८.२४.२-३ ॥

यद्-अर्थम् अदधाद् रूपं मात्स्यं लोक-जुगुप्सितम् ।

तमः-प्रकृति-दुर्मर्षं कर्म-ग्रस्त इवेश्वरः ॥

एतन् नो भगवन् सर्वं यथावद् वक्तुम् अर्हसि ।

उत्तमश्लोक-चरितं सर्व-लोक-सुखावहम् ॥

**श्रीधरः : **ननु कस्माद् अकस्माद् एव मत्स्यावतार-श्रवणेच्छा, श्री-वामन-सादृश्याद् इत्य् आह—तद् अर्थम् इति द्वाभ्याम् । दुर्मर्षं दुःसहम् । बलेर् अनुग्रहाय जुगुप्सितम् अपि याचक-रूपं धृतवान् इति युक्तम् उक्तम् । यद्-अर्थं तु लोक-जुगुप्सितं मात्स्यं रूपम् अधारयद् एतन् नो यथावद् वक्तुम् अर्हसीत्य् अर्थः ॥२-३॥

**क्रम-सन्दर्भः : **यद्-अर्थम् इति युग्मकम् । कर्म-ग्रस्त इव तमः-प्रकृतीव दुर्मर्ष इवेत्य् अन्वयः । अत एव लोकैः साधारणैर् जुगुप्सितं तादृश-वपुर्-धारणं तु न युक्तम् इत्य् आह—यत उत्तम-श्लोक-चरितं सर्वेषाम् अपि लोकानां सुखावहम् एव भवितुम् अर्हतीति ॥२-३॥

**विश्वनाथः : **तमः-प्रकृतीव दुर्मर्षं दुःसहम् इव इत्य् उभयत्रापि इव-शब्दस्यान्वयः । जुगुप्सितम् अपि याचक-रूपं भक्तस्य बलेर् अनुग्रहाय धृतवान् इति युक्तम् उक्तम् । मात्स्य-रूपं तु कस्य भक्तस्यानुग्रहायेति मे जिज्ञासेति भावः । उत्तम-श्लोकस्य चरित्रं तु श्रवण-कीर्तनाद्य्-अर्हत्वेन सर्व-लोक-सुखावहम् भवत्य् एव, मत्स्य-वपुर्-धारणं तु कस्य भक्तस्य सुखार्थम् तद् वदेति भावः ॥२-३॥

—ओ)०(ओ**—**

॥ ८.२४.४ ॥

श्री-सूत उवाच—

इत्य् उक्तो विष्णु-रातेन भगवान् बादरायणिः ।

उवाच चरितं विष्णोर् मत्स्य-रूपेण यत् कृतम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.२४.५ ॥

श्री-शुक उवाच—

गो-विप्र-सुर-साधूनां छन्दसाम् अपि चेश्वरः ।

रक्षाम् इच्छंस् तनूर् धत्ते धर्मस्यार्थस्य चैव हि ॥

**श्रीधरः, विश्वनाथः : **सामान्येनावतार-प्रयोजनम् आह—गो-विप्रेति ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.२४.६ ॥

उच्चावचेषु भूतेषु चरन् वायुर् इवेश्वरः ।

नोच्चावचत्वं भजते निर्गुणत्वाद् धियो गुणैः ॥

**श्रीधरः : **जुगुप्सित्वं परिहरति, धियो गुणैर् यान्य् उच्चावचानि भूतानि तेषु नियन्तृत्वेन चरन्न् अपीश्वरो नोच्चावचत्वं भजते, निर्गुणत्वात् । कुतः पुनः शुद्ध-सत्त्व-मयैर् मत्स्याद्य्-आकारैर् उच्चावचत्व-शङ्का ? इति भावः ॥६॥

**क्रम-सन्दर्भः : **उच्चावचेषु देव-मनुष्य-तिर्यग्-आदिषु भूतेषु चरन्न् अवतीर्य विहरन्न् अपि धियः साधारण-बुद्धेः गुणैर् उच्चावचत्व-स्फुरणैर् उच्चावचत्वं न भजते । तत्र हेतुः—निर्गुणत्वात् सत्त्वाद्य्-अतीत-सच्चिदानन्द-विग्रहत्वाद् इति ॥६॥

विश्वनाथः : जुगुप्सितत्वं सामान्यतः परिहरति—धियो गुणैर् यान्य् उच्चावचानि रूपाणि, तेषु नियन्तृत्वेन चरन्न् ईश्वरो नोच्चावचत्वं भजते, निर्गुणत्वात् । कुतः पुनः शुद्ध-सत्त्व-मयैर् मत्स्याद्य्-आकारैर् उच्चावचत्व-शङ्का ? इति भावःइति स्वामि-चरणैः ॥६॥

—ओ)०(ओ**—**

॥ ८.२४.७ ॥

आसीद् अतीत-कल्पान्ते ब्राह्मो नैमित्तिको लयः ।

समुद्रोपप्लुतास् तत्र लोका भूर्-आदयो नृप ॥

**श्रीधरः : **विशेषतो मत्स्यावतार-प्रयोजनम् आह—आसीद् इति त्रिभिः । ब्रह्मणो निद्रायां भवां भवो ब्राह्मस् तेनैव निमित्तेन जातो नैमित्तिकः समुद्रे उपप्लुता निमग्नाः ॥७॥

**क्रम-सन्दर्भः : **तत्र श्री-वराह-देववद् अयम् अपि वार-द्वयम् अवतीर्णवान् इति दर्शयितुम् आह—आसीद् इति । अतीत-कल्पस्य गत-ब्रह्म-दिनस्य ब्राह्मो ब्रह्म-शयन-निबन्धः, अत एव नैमित्तिकः ॥७॥

**विश्वनाथः : **श्री-वराह-देववद् अयम् अपि वार-द्वयम् अवतीर्णवान् इति दर्शयितुम् आह—आसीद् इति । ब्राह्मो ब्रह्म-शयन-निबन्धः, अत एव नैमित्तिकः ॥७॥

—ओ)०(ओ**—**

॥ ८.२४.८ ॥

कालेनागत-निद्रस्य धातुः शिशयिषोर् बली ।

मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥

**श्रीधरः : **अन्तिके निःसृतान् ॥८॥

**क्रम-सन्दर्भः : **मुखतो निःसृतान् शयन-समये आवर्त्यमानात् अन्तिके स्थित्वा योग-बलेनाहरत् । कल्पान्तरादौ पुनर् वेदोपदेश-लीलार्थम् ईश्वरेच्छा तु मूलम् इति ज्ञेयम् ॥८॥

**विश्वनाथः : **मुखतो निःसृतान् शयन-समये आवर्त्यमानान् समीपे स्थित्वा योग-बलेनाहरत् ॥८॥

—ओ)०(ओ**—**

॥ ८.२४.९ ॥

ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।

दधार शफरी-रूपं भगवान् हरिर् ईश्वरः ॥

**श्रीधरः : **शफरी-रूपं मत्स्य-रूपम् ॥९॥

**क्रम-सन्दर्भः : **शफरी-रूपं दधारेति । तत्-प्रलयान्ते तत्-प्रकटितवान् इत्य् अर्थः । अतीत-प्रलयापाय इत्य्-आदि-वक्ष्यमाणात् ॥९॥

**विश्वनाथः : **शफरी-रूपं दधारेति । तेनैव रूपेण हयग्रीवं हत्वा स्वायम्भुव-मन्वन्तरारम्भे वेदान् अहरद् इत्य् अग्रिमोक्तेर् ज्ञेयम् । तेन मत्स्य-रूपं विना वेदाहरणासम्भवाद् ब्रह्मादि-स्व-भक्त-हितार्थं मत्स्य-रूपं दधारेति प्रथमो मत्स्यावतार उक्तः ॥९॥

—ओ)०(ओ**—**

॥ ८.२४.१० ॥

तत्र राज ऋषिः कश्चिन् नाम्ना सत्यव्रतो महान् ।

नारायण-परोऽतपत् तपः स सलिलाशनः ॥

**श्रीधरः : **प्रयोजनान्तरं लीला-प्रकारं चाह—तत्र राज-ऋषिर् इत्य्-आदि यावत्-समाप्ति ॥१०॥

**क्रम-सन्दर्भः : **तद् एवम् अतीत-कल्पस्य वृत्तान्तम् उक्त्वा साम्प्रत-कल्पस्य वृत्तम् आह— तत्रेति । तत्र तस्मिन् वृत्तान्ते सतीत्य् अर्थः ॥१०॥

विश्वनाथः : पुनर् अपि मत्स्यः सत्यव्रताभिध-निज-भक्तानुग्रहार्थम् अवतीर्ण इत्य् आह—तत्र मत्स्य-स्वरूपे स्वेष्ट-देवे भक्तिमान् इति शेषः ॥१०॥

लघु-भागवतामृते-

मत्स्योऽपि प्रादुरभवद् द्विः कल्पेऽस्मिन् वराहवत् ।
आदौ स्वायम्भुवीयस्य दैत्यं घ्नन्न् आहरच् छ्रुतीः ।
अन्ते तु चाक्षुषीयस्य कृपां सत्यव्रतेऽकरोत् ॥ (१.३.३४)

—ओ)०(ओ**—**

॥ ८.२४.११ ॥

योऽसाव् अस्मिन् महा-कल्पे तनयः स विवस्वतः ।

श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥

**श्रीधरः : **स एव श्राद्धदेव इति ख्यातः ॥११॥

**क्रम-सन्दर्भः : **महा-कल्प इत्य् अनेनास्य ब्रह्म-दिन-रूपस्य कल्पस्यादर-विशेषो दर्शितः । तच् च मनोर् अस्य स्तुत्य्-अर्थम् इति ज्ञेयम् ॥११॥

**विश्वनाथः : **महा-कल्प इति दैनन्दिन-कल्पोऽप्य् अयं महा-कल्प-शब्देनोक्तस् तादात्विक-सत्यव्रत-मनोर् आदर-विशेषार्थ इति सन्दर्भः । एतत् महा-कल्पान्तर्गत एव ब्रह्म-दिने स विवस्वत्-तनयो मनुर् नान्यत्रेत्य् अन्ये ॥११॥

—ओ)०(ओ**—**

॥ ८.२४.१२-१३ ॥

एकदा कृतमालायां कुर्वतो जल-तर्पणम् ।

तस्याञ्जल्य्-उदके काचिच् छफर्य् एकाभ्यपद्यत ॥

सत्यव्रतोऽञ्जलि-गतां सह तोयेन भारत ।

उत्ससर्ज नदी-तोये शफरीं द्रविडेश्वरः ॥

**श्रीधरः : **कृतमालायां नद्याम् ॥१२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.२४.१४ ॥

तम् आह सा1तिकरुणं महा-कारुणिकं नृपम् ।

यादोभ्यो ज्ञाति-घातिभ्यो दीनां मां दीन-वत्सल ।

कथं विसृजसे राजन् भीताम् अस्मिन् सरिज्-जले ॥

मध्वः :

अनन्त-शक्तिर् भगवान् मत्स्य-रूपी जनार्दनः ।
क्रीडार्थं याचयामास स्वयं सत्यव्रतं नृपम् ॥ इति मात्स्ये ॥१४॥2

नान्येन।

—ओ)०(ओ**—**

॥ ८.२४.१५ ॥

तम् आत्मनोऽनुग्रहार्थं प्रीत्या मत्स्य-वपुर्-धरम् ।

अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तत् प्रसिद्धं स्वेष्ट-देवं विष्णुम् एव मत्स्य-वपुर्-धरम् अजानन् ॥१५॥

—ओ)०(ओ**—**

॥ ८.२४.१६-१८ ॥

तस्या दीनतरं वाक्यम् आश्रुत्य स महीपतिः ।

कलशाप्सु निधायैनां दयालुर् निन्य आश्रमम् ॥

सा तु तत्रैक-रात्रेण वर्धमाना कमण्डलौ ।

अलब्ध्वात्मावकाशं वा इदम् आह महीपतिम् ॥

नाहं कमण्डलाव् अस्मिन् कृच्छ्रं वस्तुम् इहोत्सहे ।

कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥

**श्रीधरः : **यत्राहं सुखं निवसामि तदोकः स्थानं कल्पय ॥१८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.२४.१९ ॥

स एनां तत आदाय न्यधाद् औदञ्चनोदके ।

तत्र क्षिप्ता मुहूर्तेन हस्त-त्रयम् अवर्धत ॥

**श्रीधरः : **औदञ्चनोदके मणिक-स्थे जले ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **औदञ्चनोदके कूप-जले ॥१९॥

—ओ)०(ओ**—**

॥ ८.२४.२० ॥

न म एतद् अलं राजन् सुखं वस्तुम् उदञ्चनम् ।

पृथु देहि पदं मह्यं यत् त्वाहं शरणं गता ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.२४.२१ ॥

तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।

तद् आवृत्यात्मना सोऽयं महा-मीनोऽन्ववर्धत ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तत् सरोवरम् आत्मना देहेन आवृत्य ॥२१॥

—ओ)०(ओ**—**

॥ ८.२४.२२ ॥

नैतन् मे स्वस्तये राजन्न् उदकं सलिलौकसः ।

निधेहि रक्षा-योगेन ह्रदे माम् अविदासिनि ॥

**श्रीधरः : **रक्षा-योगेन रक्षाया योगेनोपायेन । यथा महा-ह्रद-प्राप्तेर् अर्वाक् जलं विना न शुष्येयं तेनोपायेन निधेहि । अविदासिनि अनुपक्षये ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **रक्षा-योगेन जलं विना यथा न म्रियते, तथोपायेनेत्य् अर्थः । अविदासिनि अपक्षय-शून्ये ॥२२॥

—ओ)०(ओ**—**

॥ ८.२४.२३ ॥

इत्य् उक्तः सोऽनयन् मत्स्यं तत्र तत्राविदासिनि ।

जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज् झषम् ॥

**श्रीधरः : **संमितं तत्-तज्-जलाशय-परिमितम् ॥२३॥

**क्रम-सन्दर्भः : **तम् इति तस्या मनुष्यवद् वाक्यम् आश्रुत्याऽपि मत्स्यत्व-ज्ञानं तन्-माययैव विमोहितत्वात् ॥२३॥

विश्वनाथः : तत्र जलाशयेऽप्य् असम्मितममान्तम् इत्य् अर्थः ॥२३॥

—ओ)०(ओ**—**

॥ ८.२४.२४-२५ ॥

क्षिप्यमाणस् तम् आहेदम् इह मां मकरादयः ।

अदन्त्य् अतिबला वीर मां नेहोत्स्रष्टुम् अर्हसि ॥

एवं विमोहितस् तेन वदता वल्गु-भारतीम् ।

तम् आह को भवान् अस्मान् मत्स्य-रूपेण मोहयन् ॥

न कतमेनापि व्याख्यातम्॥

—ओ)०(ओ**—**

॥ ८.२४.२६ ॥

नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा ।

यो भवान् योजन-शतम् अह्नाभिव्यानशे सरः ॥

**श्रीधरः : **अभिव्यानशेऽभितो व्याप्तवान् ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अह्ना एकेनैव व्यानशे व्याप्तवान् ॥२६॥

—ओ)०(ओ**—**

॥ ८.२४.२७-२८ ॥

नूनं त्वं भगवान् साक्षाद् धरिर् नारायणोऽव्ययः ।

अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥

नमस् ते पुरुष-श्रेष्ठ स्थित्य्-उत्पत्त्य्-अप्ययेश्वर ।

भक्तानां नः प्रपन्नानां मुख्यो ह्य् आत्म-गतिर् विभो ॥

**श्रीधरः : **मुख्यः सत्य आत्मा च गतिश् चाश्रयः ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आत्मनां गतिर् यस्मात् स मुख्यः प्रभुर् इत्य् अर्थः ॥२८॥

—ओ)०(ओ**—**

॥ ८.२४.२९ ॥

सर्वे लीलावतारास् ते भूतानां भूति-हेतवः ।

ज्ञातुम् इच्छाम्य् अदो रूपं यद्-अर्थं भवता धृतम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.२४.३० ॥

न तेऽरविन्दाक्ष पदोपसर्पणं

मृषा भवेत् सर्व-सुहृत्-प्रियात्मनः ।

यथेतरेषां पृथग्-आत्मनां सताम्

अदीदृशो यद् वपुर् अद्भुतं हि नः ॥

**श्रीधरः : **हे अरविन्दाक्ष ! पृथग् आत्मनां देहाद्य्-अभिमानिनां सताम् इतरेषां पदोपसर्पणं यथा मृषा भवेत् तथा सर्व-सुहृत्-प्रियात्मनस् तव पदोपसर्पणं मृषा न भवेत् । यद् यस्मान् नो भक्तानाम् अद्भ्रुतं वपुर् अदीदृशो दर्शितवान् असि । पाठान्तरे पृथग् आत्मनो भेद-दर्शिनः पुंसः । असतां परिच्छिन्नानां पदोपसर्पणं यथा मृषेत्य् अर्थः ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : +++

—ओ)०(ओ**—**

॥ ८.२४.३१ ॥

श्री-शुक उवाच—

इति ब्रुवाणं नृपतिं जगत्-पतिः

सत्यव्रतं मत्स्य-वपुर् युग-क्षये ।

विहर्तु-कामः प्रलयार्णवेऽब्रवीच्

चिकीर्षुर् एकान्त-जन-प्रियः प्रियम् ॥

**श्रीधरः : **एकान्त-जना भक्ताः प्रिया यस्य ॥३१॥

क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_

—ओ)०(ओ**—**

॥ ८.२४.३२ ॥

श्री-भगवान् उवाच—

सप्तमे ह्य् अद्यतनाद् ऊर्ध्वम् अहन्य् एतद् अरिन्दम ।

निमङ्क्ष्यत्य् अप्ययाम्भोधौ त्रैलोक्यं भूर्-भुवादिकम् ॥

**श्रीधरः : **अप्ययाम्भोधौ प्रलयार्णवे । भूर् भुव-आदिकम् इत्य् अर्थः ॥३२॥

क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_

—ओ)०(ओ**—**

॥ ८.२४.३३ ॥

त्रि-लोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।

उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता ॥

**श्रीधरः : **संवर्ताम्भसि प्रलयोदके । त्वाम् उपस्थास्यति प्राप्स्यति ॥३३॥

क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_

—ओ)०(ओ**—**

॥ ८.२४.३४-३५ ॥

त्वं तावद् ओषधीः सर्वा बीजान्य् उच्चावचानि च ।

सप्तर्षिभिः परिवृतः सर्व-सत्त्वोपबृंहितः ॥

आरुह्य बृहतीं नावं विचरिष्यस्य् अविक्लवः ।

एकार्णवे निरालोके ऋषीणाम् एव वर्चसा ॥

**श्रीधरः : **ओषधीः आदायेति शेषः ॥३४॥ ऋषीणाम् एवालोकेन विचरिष्यसि ॥३५॥

**क्रम-सन्दर्भः : **त्वम् इति युग्मकम् । सर्व-सत्त्वैश् चान्यैः सृष्ट्य्-अपेक्षितैर् उपबृंहितः परिवृतः ॥३४॥

विश्वनाथः : ओषधीर् आदायेति शेषः । सर्वैः सत्त्वैर् मुख्य-मुख्य-प्राणिभिः स्परैकरम् अनुकश्यपादिभिर् उपबृंहितो वर्धित-महत्त्वः सन्, ऋषीणां वर्चसा तेजसैव विचरिष्यसि ॥३४-३५॥

—ओ)०(ओ**—**

॥ ८.२४.३६ ॥

दोधूयमानां तां नावं समीरेण बलीयसा ।

उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥

**श्रीधरः : **महाहिना वासुकिना ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मे मत्स्य-रूपस्येत्य् अर्थः । महाहिना वासुकिना ॥३६॥

—ओ)०(ओ**—**

॥ ८.२४.३७ ॥

अहं त्वाम् ऋषिभिः सार्धं सह-नावम् उदन्वति ।

विकर्षन् विचरिष्यामि यावद् ब्राह्मी निशा प्रभो ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ब्राह्मी निशेति यद्यप्य् अयं ब्रह्म-दिन-गत-चाक्षुष-मन्वन्तर-मध्य एव भगवद्-इच्छयैवाकस्मिक-प्रलयोऽभूत्, तद् अपि त्रैलोक्य-मज्जनात् दैनन्दिन-प्रलय-साम्य-दृष्ट्या भगवतः क्रीडेच्छम् अनुस्मृत्य निर्व्याकुलो ब्रह्मापि किञ्चित् कालं सुष्वाप, तद्-अनुसारेणैव गौण्या वृत्त्या ब्राह्मी निशेत्य् उत्कम् इति भागवत्मृत-व्याख्यानुसारी सन्दर्भः । तच् च भागवतामृतं, यथा—

मध्ये मन्वन्तरस्यैव मुनेः शापान् मनुं प्रति ।
प्रलयोऽसौ बभूवेति पुराणे क्वचिद् ईर्यते ॥
अयम् आकस्मिको जातश् चाक्षुषस्यान्तरे मनोः ।
प्रलयः पद्मनाभस्य लीलयेति च कुत्रचित् ॥[ल।भा। १.३.१८-१९]

किं च, दक्षस्य मानस-कायिक-प्रजा-सृष्ट्य्-अन्यथानुपपत्तेर् एव प्रलयोऽयम् अवश्य-मन्तव्य एव । यद् उक्तं चतुर्थे—

चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते ।
यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः ॥ [भा।पु। ४.३०.४९] इति ।

प्रलयस्य चातुर्विध्यम् अपि नानुपपन्नम् । तस्य क्षुद्रस्य प्रलयस्य नैमित्तिक एवान्तर्भावात् । अत एव पृथिव्य्-उद्धरण-हिरण्याक्ष-वधाव् अपि श्री-वराह-देवेन चाक्षुष-प्रलयान्त एव, स्वायम्भुव-मन्वन्तरारम्भे पृथिव्य्-उद्धरणे हिरण्याक्ष-सम्भवाभावात् । यद् उक्तं तत्रैव—

उत्तानपाद-वंश्यानां तनयस्य प्रचेतसाम् ।
दक्षस्यैव दितिः पुत्री हिरणाक्षो दितेः सुतः ॥
कल्पारम्भे तदा नास्ति सुतोत्पत्तिर् मनोर् अपि ।
क्वासौ प्राचेतसो दक्षः क्व दितिः क्व दितेः सुतः ॥
अतः काल-द्वयोद्भूतं श्री-वराहस्य चेष्टितम् ।
एकत्रैवाह मैत्रेयः क्षत्तुः प्रश्नानुसारतः ॥[ल।भा। १.३.१५-१७] इति ।

एवम् इहापि काल-द्वयोद्भूतं मत्स्य-चेष्टितं स्पष्टम् अविविच्य खल्व् एकीकृत्यैवाह श्रीमन्-मुनीन्द्रः । वस्तुतस् तु, आसीद् अतीत-कल्पान्ते [भा।पु। ८.२४.७] इत्य्-आदिनोक्ता या शफरी वेदानयनार्था, सान्या । सत्यव्रताञ्जलि-गता तु चाक्षुष-मन्वन्तरीया अन्यैवेति ज्ञेयम् । श्री-सूतस् तु चाक्षुषीय-मत्स्यम् एवावतार-गणना-मध्ये गणितवान् । तथा हि—

रूपं स जगृहे मात्स्यं चाक्षुषोदधि-सम्प्लवे ।
नाव्य् आरोप्य मही-मय्याम् अपाद् वैवस्वतं मनुम् ॥ [भा।पु। १.३.१५] इति ।

श्री-स्वामि-चरणास् तु अत्रेदं चिन्त्यम् इत्य् उक्त्वा ब्राह्मो लय इति योऽसाव् अस्मिन् महा-कल्पे इति चोक्तेर् अयं महा-प्रलये पृथिव्य्-आदीनाम् अवशेषासम्भवात् । यावद् ब्राह्मी निशेत्य् उक्तेर् अयं दैनन्दिन एवेति चेत्, न । सांवर्तकैर् अनावृष्ट्य्-आदिभिर् विना अकस्माद् एव सप्तमेऽहनि त्रैलोक्यं निमङ्क्ष्यतीति मत्स्योक्तेर् अनुपपत्तेः । तस्मात् सत्यव्रतस्य ज्ञानाद्य्-उपदेशार्थम् आविर्भूतो भगवान् वैराग्यार्थं माययैव मार्कण्डेयम् इव तं प्रलयं दर्शयामासेत्य् आहुः ॥३७॥

—ओ)०(ओ**—**

॥ ८.२४.३८ ॥

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।

वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥

श्रीधरः : मे मयाऽनुगृहीतं प्रसादी-कृतं हृदि अपरोक्षं वेत्स्यसि । त्वया कृतैः संप्रश्नैर् मया विवृतं प्रकाशितं सन्तम् ॥३८॥

चैतन्य-मत-मञ्जुषा : मदीयं महिमानं च पर-ब्रह्मेति शब्दितं यत् तत् परं मदीयो महिमेति ज्ञेयम् । तद्-अतिरिक्तो महिमा नान्यो नास्तीति भावः ॥३८॥

क्रम-सन्दर्भः : अचिन्त्यानन्त-शक्ति-युक्तस्य सर्वांशिनो भगवतोऽसम्यक्-प्रकाशत्वाद् विभूति-निर्विशेष एव तद् इत्य् अप्य् आह—मदीयम् इति । महिमानम् ऐश्वर्यम्, विभूतिर् निर्विशेषम् इति यावत्, ममैवासम्यक्-प्रकाशत्वात् । अत एव मे मया अनुगृहीतम् अनुग्रहेण प्रकाशितं हृद्य् अपरोक्षं वेत्स्यसि । त्वया कृतैः सम्प्रश्नैर् मया विवृतं सन्तम् इति । यद्यपि3 मद्-अनुभवान्तर्-भूत एव, स तु ब्रह्मानुभव इत्य् अतो नास्ति मत्तः पृथग्-अनुभवापेक्षा, तथापि भक्ति-प्रकाशित-साक्षान्-मद्-अनुभवेन4 तन्-मात्रानुभवो न स्फुटो भवति । यदि तदीय-स्फुटतायां तवेच्छा कथञ्चिद् वर्तते, तदा सापि भवेद् इति भावः । प्रसङ्गोऽयम् एकादशे विशिष्य दर्शयिष्यते ॥३८॥ [भगवत्-सन्दर्भः ७८]

विश्वनाथः : अथ प्रकृतम् अनुसरामः । किं च, आत्माराम-गण-सङ्गिनस् तव हृदि ब्रह्मानुबुभूषा जागर्ति, सापि मत्-कृपयैव सफला भविष्यतीत्य् आह—मदीयम् इति शब्दितं ब्रह्म-शब्द-सङ्केतितं मदीयं महिमानं महतो मम यो महिमा एको धर्मस् तं ममैव व्यापकं निर्विशेषं स्वरूपं वेत्स्यसि अनुभविष्यसि, मे मया अनुगृहीतं तुभ्यं प्रसादीकृत्य दत्तम् इत्य् अर्थः । ब्रह्म-स्वरूपस्य मदीयत्वेन मया दत्तं शक्यत्वाद् एव, तद्-अर्थं तव पृथक् ज्ञानादि-प्रयासेनालम् इति भावः ।

केन प्रकारेणानुग्रहीष्यसि ? इत्य् अत आह—सम्प्रश्नैस् त्वया कृतैस् तत्-प्रत्युत्तरत्वेन **तव हृदि **हृदये विवृतं विवृतीकृत्य मयैवानिर्दिश्यम् अपि तद् बलात् ग्राहितम् इत्य् अर्थः । विषय-ग्रहणार्थं जीवेभ्यो यथा बुद्धीन्द्रियादीनि सृष्ट्वा दत्तवान् अस्मि, तथैव ब्रह्म-स्वरूप-ग्रहणार्थम् अपि किम् अपि स्व-सामर्थ्यं तुभ्यं कृपया दास्यामीति भावः ॥३८॥

—ओ)०(ओ**—**

॥ ८.२४.३९ ॥

इत्थम् आदिश्य राजानं हरिर् अन्तरधीयत ।

सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.२४.४० ॥

आस्तीर्य दर्भान् प्राक्-कूलान् राजर्षिः प्राग्-उदङ्-मुखः ।

निषसाद हरेः पादौ चिन्तयन् मत्स्य-रूपिणः ॥

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **प्राक्-कुलान् प्राचीनाग्रान् ॥४०॥

**विश्वनाथः : **प्राग्-उत्तरयोर् अन्तराले मुखं यस्य सः ॥४०॥

—ओ)०(ओ**—**

॥ ८.२४.४१ ॥

ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् ।

वर्धमानो महा-मेघैर् वर्षद्भिः समदृश्यत ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **ततः समुद्रेति । चाक्षुष-मन्वन्तरन्ते च खल्व् आकस्मिक-प्रलयोऽयं, यथोक्तं—रूपं स जगृहे मात्स्यं चाक्षुषान्तर-सम्प्लवे [भा।पु। १.३.१५] इति प्रति-मन्वन्तरान्तम् अपि तच्-छ्रवणात् । अत्र प्रमाणानि तत्रैव दर्शितानि, किन्त्व् अस्य प्रलयस्य दैवेन षष्ठ-मन्वतर-मध्य एव निर्भर-जातत्वात्, न तद्-अन्ते पृथग्-जातत्वम् इत्य् एव विशेषः । स चायं मन्वन्तर-प्रलयो नैमित्तिक-विशेष एवेति । न च प्रलयस्य चतुर्-विधत्व-हानिः । तद् एव मन्वन्तर-प्रलये त्रैलोक्य-मज्जनाद् दैनन्दिन-साम्येन ब्रह्मापि कञ्चित् कालं सुष्वाप । तद्-अनुसारेण गौण्या वृत्त्या ब्राह्मी निशेत्य् उक्तम् इति । सति पुराणान्तरेणोपचिते श्री-भागवत-मते कल्पनान्तरं न कृतम् ॥४१॥

—ओ)०(ओ**—**

॥ ८.२४.४२-४४ ॥

ध्यायन् भगवद्-आदेशं ददृशे नावम् आगताम् ।

ताम् आरुरोह विप्रेन्द्रैर् आदायौषधि-वीरुधः ॥

तम् ऊचुर् मुनयः प्रीता राजन् ध्यायस्व केशवम् ।

स वै नः सङ्कटाद् अस्माद् अविता शं विधास्यति ॥

सोऽनुध्यातस् ततो राज्ञा प्रादुरासीन् महार्णवे ।

एक-शृङ्ग-धरो मत्स्यो हैमो नियुत-योजनः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.२४.४५ ॥

निबध्य नावं तच्-छृङ्गे यथोक्तो हरिणा पुरा ।

वरत्रेणाहिना तुष्टस् तुष्टाव मधुसूदनम् ॥

**श्रीधरः, विश्वनाथः : **वरत्रेण दोरक-रूपेण ॥४५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.२४.४६ ॥

श्री-राजोवाच—

अनाद्य्-अविद्योपहतात्म-संविदस्

तन्-मूल-संसार-परिश्रमातुराः ।

यदृच्छयोपसृता यम् आप्नुयुर्

विमुक्तिदो नः परमो गुरुर् भवान् ॥

श्रीधरः :

सागरं तऋअयिष्यन्तं तरिष्यन्न् इव सागरम् ।

सत्यव्रतो गुरुत्वेन तुष्टाव हरिम् अष्टभिः ॥

अत्रेदं चिन्त्यम्—किम् अयं महा-प्रलयो दैनन्दिनो वा ? इति । तत्र तावत् ब्राह्मो लय इति । योऽसाव् अस्मिन् महा-कल्पे [भा।पु। ८.२४.११] इति चोक्तेर् महा-प्रलय इति प्राप्तम् । नेति ब्रूमः, महा-प्रलये पृथिव्य्-आदीनाम् अवशेषासंभवात्, यावद् ब्राह्मी निशा [भा।पु। ८.२४.३७] इत्य्-आद्य्-उक्ति-विरोधाच् च । अतो दैनन्दिन इति युक्तम् । न चैतद् अपि सङ्गच्छते, सांवर्तकैर् अनावृष्ट्य्-आदिभिर् विना अकस्माद् एव सप्तमेऽहनि त्रैलोक्यं निमङ्क्ष्यति [भा।पु। ८.२४.३२] इति मत्स्योक्तेर् अनुपपत्तेः । यच् चोक्तं प्रथम-स्कन्धे—

रूपं स जगृहे मात्स्यं चाक्षुषान्तर-संप्लवे ।
नव्यारोप्य मही-मय्याम् अपाद् वैवस्वतं मनुम् ॥ [भा।पु। १.३.१५] इति ।

तद् अपि तदा दुर्घटम्, न हि प्रलय-द्वयेऽपि मही-मय्यां नाव्य् आरोहः संभवति, न च चाक्षुष-मन्वन्तरे प्रलयोऽस्ति, तथा च सति सप्तमो मनुर् वैवस्वत इत्य् अपि दुर्घटं स्यात् । त्वं तावद् ओषधीः सर्वाः [भा।पु। ८.२४.३४] इत्य्-आदि-निर्देशोऽपि न सङ्गच्छते । न हि तदा ओषध्य्-आदीनां सत्त्वानां चावशेषः संभवति ।

तस्माद् अन्यथा वर्ण्यते । नैवायं वास्तवः कोऽपि प्रलयः, किन्तु सत्यव्रतस्य ज्ञानोपदेशायाविर्भूतो भगवान् वैराग्यार्थम् अकस्मात् प्रलयम् इव दर्शयाम् आस । यथास्मिन्न् एव वैवस्वत-मन्वन्तरे मार्कण्डेयाय दर्शितवान् । तद् अपेक्षयैव महा-कल्पेऽस्मिन्न् इति विशेषणं सङ्गच्छते । तथा च, ततः समुद्र उद्वेलः सर्वतः समदृश्यत इति तस्यैव तथा दर्शनम् उक्तम् इत्य् एषा दिक् ।

प्रस्तुतं स्तोत्रं व्याख्यास्यामः । तत्र नाना-योनिषु संसरतः स्वस्य भगवत्-कृपयैव तत्-प्राप्तिं दृष्ट्वा मुक्तये तम् एव प्रऋथयते, अनादिर् याऽविद्या तयोपहता आवृतात्मनः संविद् येषां ते, अत एवाविद्या-मूलैः संसार-परिश्रमैर् आतुरा इह संसारे यदृच्छया यद्-अनुग्रहाद् एवोपसृता आश्रिताः सन्तो यम् आप्नुयुः प्राप्नुयुः प्राप्नुवन्ति, स भवान् एव साक्षान् नो गुरुः सन् ग्रन्थिं भिन्द्याद् इत्य् उत्तरेणान्वयः ॥४६॥

**क्रम-सन्दर्भः : **अनाद्य्-अविद्येति । अत्राविद्या तन्-माया ॥४६॥

**विश्वनाथः : **अनादिर् याविद्या, तयोपहता आवृतात-संविद् येषां ते । अत एवाविद्या-मूलैः संसार-परिश्रमैर् आतुराः । इह संसारे भ्रमन्त एव यदृच्छया यदृच्छिक्या भक्त-कृपयेत्य् अर्थः । उपसृता आश्रिता यम् आप्नुयुः, स भवान् ग्रन्थिं भिन्द्याद् इत्य् उत्तरेणान्वयः । परमो गुरुर् इति मद्-विषयक-यादृच्छिक-कृपावन्तो भक्त्य्-उपदेशकाः सप्तर्षयो मे गुरवस् तेषाम् अपि भक्त्य्-उपदेशकत्वं मत्-परम-गुरुर् इत्य् अर्थः ।

यद् वा, त्वम् अवतीर्य कदाचित् केषांचिद् गुरुः, केषांचित् परम-गुरुश् च भवसीति । कश्चिद् अवतार एव सूचितः । प्रतिश्लोकम् एव गुरु-पद-प्रयोगाद् अवसीयते ॥४६॥

—ओ)०(ओ**—**

॥ ८.२४.४७ ॥

जनोऽबुधोऽयं निज-कर्म-बन्धनः

सुखेच्छया कर्म समीहतेऽसुखम् ।

यत्-सेवया तां विधुनोत्य् असन्-मतिं

ग्रन्थिं स भिन्द्याद् धृदयं स नो गुरुः ॥

**श्रीधरः : **ननु वैराग्यं विना कुतो मुक्तिस् तर्हि तस्य त्वत्-सेवैक-फलत्वात् सेवाम् आदिशेत्य् आशयेनाह—जन इति । अबुधोऽयं जनः असुखं यथा भवति तथा कर्म समीहते । तां सुखेच्छाम् । नो हृदय-रूपं ग्रन्थिं स भिन्द्यात् । यतः स एव परमो गुरुः ॥४७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : न च त्वां विना प्रकारान्तरेण निस्तार इत्य् आह—जीवो न विद्यते वस्तुतः सुखं यतस् तत् । तां सुखेच्छाम् । हृदयं हृदय-स्थ-ग्रन्थिम् अज्ञानं स भिन्द्यात् ॥४७॥

—ओ)०(ओ**—**

॥ ८.२४.४८ ॥

यत्-सेवयाग्नेर् इव रुद्र-रोदनं

पुमान् विजह्यान् मलम् आत्मनस् तमः ।

भजेत वर्णं निजम् एष सोऽव्ययो

भूयात् स ईशः परमो गुरोर् गुरुः ॥

**श्रीधरः : **ननु यज्ञ-दानादिभिः सत्त्व-शुद्धिं विना कथं ग्रन्थि-भेदः स्यात् ? तत्राह—यत् सेवयेति । यस्य सेवयैव पुमान् आत्मनो मनसो मलं तमो विजह्यात् । एष हीन-मलो निजं वर्णं च स्वरूपं भजेत् । स ईशो नो गुरुर् भूयात् । यतः स एव गुरोर् अपि परमो गुरुः । मल-हाने दृष्टान्तः, रुद्र-रोदनं रुद्रस्य रोदनं रजतम् । यद् अरोदीत् तद् रुद्रस्य रुद्रत्वं, यद् अश्र्व् अवशीर्यत तद् रजतं हिरण्यम् अभवत् इति श्रुतेः । तद् यथाग्नेः संपर्कान् मलं जहाति स्वं वर्णं भजते न तु क्षालनादिभिस् तथा न यज्ञादिभिर् मल-त्यागः, किन्तु त्वत्-सेवयैव । तेषां तु सेवाङ्गत्वम् इति भावः ॥४८॥

**क्रम-सन्दर्भः : **गुरोर् अपि परमो गुरुर् इति साक्षात् त्वत्-प्राप्तौ नाऽन्योऽन्वेष्य इति भावः ॥४८॥

**विश्वनाथः : **न च ज्ञानेनैवाज्ञानं नश्येद् इति वाच्यम् इत्य् आह—यस्य सेवयैव पुमान् जीवः आत्मनः स्वस्य तमोऽज्ञान-रूपं मलं विजह्यात् । यथा रुद्र-रोदनं रजतम् स्वर्णं च । यद् अरोदीत् तद् रुद्रस्य रुद्रत्वं, यद् अश्र्व् अवशीर्यत तद् रजतं हिरण्यम् अभवत् इति श्रुतेः । तत् खल्व् अग्नेः संपर्काद् एव मलं जहाति, स्वं रूपं स्वरूपं च भजेत्, न तु क्षालनादिभिस् तथा, ज्ञानादिभिर् न मल-त्याग इत्य् अर्थः ॥४८॥

—ओ)०(ओ**—**

॥ ८.२४.४९ ॥

न यत्-प्रसादायुत-भाग-लेशम्

अन्ये च देवा गुरवो जनाः स्वयम् ।

कर्तुं समेताः प्रभवन्ति पुंसस्

तम् ईश्वरं त्वां शरणं प्रपद्ये ॥

**श्रीधरः : **परमेश्वरत्वं परम-गुरुत्वं च प्रपञ्चयन्न् आह—नेति । यत्-प्रसादस्यायुत-भागः, तस्य लेश-मात्रम् अप्य् अन्ये देवादयः सर्वे समेता अपि स्वयं तन्-निरपेक्षाः सन्तः कर्तुं न प्रभवन्ति ॥४९॥

**क्रम-सन्दर्भः : **अन्ये तु स्वतन्त्रं-मन्यास् त्व् अतीवाकिञ्चित्-करा5 इत्य् आह—न यद् इति ॥४९॥

विश्वनाथः : अतस् त्वां विहाय झटिति प्रसादा अपि देवादयो नैव सेव्या इत्य् आह—नेति । यत्-प्रसादस्यायुत-भागः, तस्य लेश-मात्रम् अप्य् अन्ये देवाः, गुरवः, पित्रादयो जनाः सुख-दित्सवो नृपादयश् च सर्वे समेता अपि स्वयं तन्-निरपेक्षाः सन्तः कर्तुं न प्रभवन्ति ॥४९॥

—ओ)०(ओ**—**

॥ ८.२४.५० ॥

अचक्षुर् अन्धस्य यथाग्रणीः कृतस्

तथा जनस्याविदुषोऽबुधो गुरुः ।

त्वम् अर्क-दृक् सर्व-दृशां समीक्षणो

वृतो गुरुर् नः स्व-गतिं बुभुत्सताम् ॥

**श्रीधरः : **तद् एव दृष्टण्तेन स्पष्टयन्न् आह—अचक्षुर् इति । अविदुषो जनस्याबुधोऽविद्वान् गुरुस् तथैव । अर्क-प्रकाशवत् स्वत एव दृग् ज्ञानं यस्य सोऽर्क-दृक् । अतः सर्व-दृशां सर्वेन्द्रियाणां समीक्षणः प्रकाशकः । अत एव सुगतिं बोद्धुम् इच्छद्भिर् नोऽस्माभिर् गुरुर् वृतोऽसि ॥५०॥

**क्रम-सन्दर्भः : **प्राग्-जन्मनि गुरु-प्राप्त-भक्तेस् तस्य क्षितीशितुः संस्काराद् भजतः श्रीशं स्तुवतः सोऽयम् आशयः । स्वयं चाविश्य कञ्चिद् वा भवान् एव गुरुर् भवेत् । अतो भवन्तम् आसाद्य भवन्तं गुरुम् अर्थये । तत्र त्वम् अर्क-दृक् तत्त्वाभिज्ञानां6 सर्वेषाम् अपि श्रेष्ठ इत्य् अर्थः ॥५०॥

विश्वनाथः : यतस् त्वत्-सेवया विना पुमान् न मलं विजह्याद् इत्य्-उक्तम् अतस् त्वत्-सेवानुपदेष्टा गुरुर् अपि न सेव्य इत्य् आह—अचक्षुर् इति । अविदुषो जनस्याबुधोऽपण्डितः पण्डितो बन्ध-मोक्ष-विद् इति, माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते[गीता ७.१४] इति त्वद्-उक्तेर् भक्त्य्-उपदेष्टैव बुधः, स एव गुरुर् अन्यस् त्व् अनर्थ-हेतुर् इत्य् अर्थः । अत एव नोऽस्माकं स्व-गतिं भक्तिं बुभुत्सतां गुरोर् वृतो यः, स तु त्वम् एव साक्षाद् इत्य् अर्थः । अर्क-दृक् अर्क इव दृश्य इत्य् अर्थः । सर्व-दृशां सर्व-नेत्राणां सर्वेन्द्रियाणां सर्व-ज्ञानानां च समीक्षणः प्रकाशक इति पक्ष-त्रये दृष्टवान् ॥५०॥

—ओ)०(ओ**—**

॥ ८.२४.५१ ॥

जनो जनस्यादिशतेऽसतीं गतिं

यया प्रपद्येत दुरत्ययं तमः ।

त्वं त्व् अव्ययं ज्ञानम् अमोघम् अञ्जसा

प्रपद्यते येन जनो निजं पदम् ॥

**श्रीधरः : **किं च, प्राकृतो गुरुर् अनर्थ-हेतुर् इत्य् आह—जन इति । आदिशते उपदिशति । असतीं मतिम् अर्थ-कामादि-मतिम् । तमः संसारम् ॥५१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दृष्टान्त-व्यञ्जितम् अर्थं स्पष्टम् आह—जन इति आदिशते उपदिशति, अतः प्राकृतो गुरुर् अनर्थ-हेतुर् दूरे परिहरणीय इत्य् अर्थः । त्वं तु गुरु-रूपावतीर्णः । अव्ययं ज्ञान-भक्त्य्-उत्थं ज्ञानम् एव उपदिशसि, न तु केवलं विद्यामयं यत्-फलम् उत्पाद्य वेतीत्य् अर्थः । निजं पदं त्वच्-चरणारविन्दं वैकुण्ठं वा ॥५१॥

—ओ)०(ओ**—**

॥ ८.२४.५२ ॥

त्वं सर्व-लोकस्य सुहृत् प्रियेश्वरो

ह्य् आत्मा गुरुर् ज्ञानम् अभीष्ट-सिद्धिः ।

तथापि लोको न भवन्तम् अन्ध-धीर्

जानाति सन्तं हृदि बद्ध-कामः ॥

**श्रीधरः : **ननु तर्हि सर्वोऽपि लोको माम् एव किं नोपसरति, अज्ञानात् ? इत्य् आह—त्वम् इति । प्रियश् चासाव् ईश्वरश् च ॥५२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**नन्व् एवं गुरु-भूतं मां किम् इति सर्वे न प्रपद्यन्ते, दुर्बुद्धित्वात् ? इत्य् आह—त्वम् इति । सुहृदादि-रूप इत्य् अन्ये सुहृद्-आदयो वस्तुतः सुहृद्-आदयो नैव भवन्तीत्य् अर्थः । यद् वा, सुहृत् सख्य-भाव-विषयः, प्रियः कान्त-भाव-विषयः, ईश्वरो दास्य-भाव-विषयः । आत्मा शान्त-भाव-विषयः । गुरुर् दास्य-भाव-विशेष-विषयः । यद् वा, अगुरुः सुतादिर् इति वात्सल्य-भाव-विषयः । ज्ञानं भाव-शून्यानां केवल-मोक्ष-प्रदः । अभीष्ट-सिद्धिः सकामानां सर्व-काम-प्रद इति । सन्तं साधु-रूपं त्वाम् अन्ध-धीर् असाधुर् यतो हृदि निबद्ध-दुर्वासनः ॥५२॥

—ओ)०(ओ**—**

॥ ८.२४.५३ ॥

तं त्वाम् अहं देव-वरं वरेण्यं

प्रपद्य ईशं प्रतिबोधनाय ।

छिन्ध्य् अर्थ-दीपैर् भगवन् वचोभिर्

ग्रन्थीन् हृदय्यान् विवृणु स्वम् ओकः ॥

**श्रीधरः : **अहं तु त्वाम् एव शरणं यामीत्य् आह—तं त्वाम् इति । प्रतिबोधनायोपदेषाय । अर्थ-दीपैः परमार्थ-प्रकाशकईः । हृदये भवान् ग्रन्थीन् अहङ्कारादीन् । स्वम् ओकः स्वं रूपं विवृणु प्रकाशय ॥५३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अहं तु त्वद्-भक्त-कृपा-सिद्ध-जन-विगतान्ध्यस् त्वाम् एव गतिं पश्यामीत्य् आह—तम् इति । प्रतिबोधनाय संसार-शय्यायां निद्राणं मां कृपया प्रतिबोधयेत्य् अर्थः । अर्थ-दीपैः परमार्थ-प्रकाशकईः । हृदये भवान् ग्रन्थीन् । स्वम् ओकः वैकुण्ठं विवृणु तत्-प्रापक-वर्त्म ब्रूहि ॥५३॥

—ओ)०(ओ**—**

॥ ८.२४.५४ ॥

श्री-शुक उवाच—

इत्य् उक्तवन्तं नृपतिं भगवान् आदि-पूरुषः ।

मत्स्य-रूपी महाम्भोधौ विहरंस् तत्त्वम् अब्रवीत् ॥

श्रीधरः : नृपतिं प्रति ॥५४ ॥

क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_

—ओ)०(ओ**—**

॥ ८.२४.५५ ॥

पुराण-संहितां दिव्यां साङ्ख्य-योग-क्रियावतीम् ।

सत्यव्रतस्य राजर्षेर् आत्म-गुह्यम् अशेषतः ॥

**श्रीधरः : **पुराण-संहितां मत्स्य-पुराणम् अशेषतोऽब्रवीद् इत्य् अनुषङ्गः ॥५५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पुराण-संहितां मत्स्य-पुराणम् ॥५५॥

—ओ)०(ओ**—**

॥ ८.२४.५६ ॥

अश्रौषीद् ऋषिभिः साकम् आत्म-तत्त्वम् असंशयम् ।

नाव्य् आसीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.२४.५७-५८ ॥

अतीत-प्रलयापाय उत्थिताय स वेधसे ।

हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद् धरिः ॥

स तु सत्यव्रतो राजा ज्ञान-विज्ञान-संयुतः ।

विष्णोः प्रसादात् कल्पेऽस्मिन्न् आसीद् वैवस्वतो मनुः ॥

**श्रीधरः : **अतीतः पूर्वो यः प्रलयः, तस्यापायेऽवसाने ॥५७॥

**क्रम-सन्दर्भः : **श्री-मत्स्य-देवस्य समय-द्वयेऽवतारं पुनर् दर्शयति—अतीतेति द्वाभ्याम् ॥५७॥ षष्ठे मन्वन्तरे विष्णोः प्रसादं लब्ध्वा, सप्तमे वैवस्वतो मनुर् आसीद् इत्य् अर्थः ॥५८॥

विश्वनाथः : मत्स्यावतार-द्वयस्य समय-द्वयं प्रयोजन-द्वयं चाह—अतीत-प्रलयस्य अपाये स्वायम्भुव-मन्वन्तरारम्भे इत्य् अर्थः । तु भिन्नोपक्रमे । सत्यव्रतस् तु चाक्षुष-मन्वन्तर-मध्य इति शेषः बोध्यः । चाक्षुषोदधि-सम्प्लवे… अपाद् वैवस्वतं मनुम्[भा।पु। १.३.१५] इति वाक्यानुरोधात् । विष्णोर् मत्स्य-रूपस्य प्रसादात् ज्ञान-विज्ञान-संयुत इति चाक्षुषीय-मत्स्यावतारस्य प्रयोजनम् उक्तम् ॥५८॥

—ओ)०(ओ**—**

॥ ८.२४.५९ ॥

सत्यव्रतस्य राजर्षेर् माया-मत्स्यस्य शार्ङ्गिणः ।

संवादं महद्-आख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥

श्रीधरः, विश्वनाथः :_ न व्याख्यातम्।_

क्रम-सन्दर्भः : माया कृपा ॥५९॥

—ओ)०(ओ**—**

॥ ८.२४.६० ॥

अवतारं हरेर् योऽयं कीर्तयेद् अन्वहं नरः ।

सङ्कल्पास् तस्य सिध्यन्ति स याति परमां गतिम् ॥

**श्रीधरः : **योऽयं हरेर् अवतारस् तं यः प्रकीर्तयेत् ॥६०॥

क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_

—ओ)०(ओ**—**

॥ ८.२४.६१ ॥

प्रलय-पयसि धातुः सुप्त-शक्तेर् मुखेभ्यः

श्रुति-गणम् अपनीतं प्रत्युपादत्त हत्वा ।

दितिजम् अकथयद् यो ब्रह्म सत्यव्रतानां

तम् अहम् अखिल-हेतुं जिह्म-मीनं नतोऽस्मि ॥

**श्रीधरः : **सत्य-व्रतानां सत्य-व्रतस्य ऋषीणां च छत्रिणो गच्छन्तीति-वल् लिङ्ग-समवायाद् बहुवचनम् । जिह्म-मीनं माया-मत्स्यम् ॥६१॥

**क्रम-सन्दर्भः : **जिह्मेषु कुटिल-हृदयेषु । सामान्य-मीनतया प्रकाशमानं, नाहं प्रकाशः सर्वस्य [गीता ७.१६] इत्य्-आदेः, विराड् अविदुषाम् [भा।पु। १०.४३.१७] इत्य्-आदेश् च ॥६१॥

**विश्वनाथः : **समासेन प्रयोजन-द्वयं पुनः स्पष्टम् आह—प्रलयेति । दितिजम् असुरं रूढिर् योगम् अपहरतीति न्यायात् । सत्यव्रतानाम् इति गौरवेण बहु-वचनम् । जिह्म-मीनं कुटिलाकारं मीनं यस्य शृङ्गे नौर् निबद्धा, स तु मीनः कुटिलाका आडि-संज्ञः प्रसिद्ध एव लोके इति तथोक्तम् ॥६१॥

—ओ)०(ओ**—**

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

अष्टमस्य चतुर्विंशः सङ्गतः सङ्गतः सताम् ॥*॥

न मे विरक्तिर् न च भक्ति-गन्धः

पाण्डित्य-लेशो न वा सुवृत्तम् ।

तरङ्ग-लोलां स्व-धियं निरोद्धुं

जालं सृजाम्य् एव न हन्त टीकाम् ॥

अष्टम-स्कन्ध-टीकेयं श्री-राधायाः सरस्-तटे ।

फाल्गुने शुक्ल-पक्षीय-षष्ठ्यां पूर्णा व्यराजत ॥

श्री-राधा-कुण्डाय नमः श्री-कृष्ण-कुण्डाय नमः ।

श्रीमद्-गोवर्धनाय नमः श्री-गुरवे नमः ॥

—ओ)०(ओ**—**

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
मत्स्यावतार-चरितं नाम
चतुर्विंशोऽध्यायः ।

॥ ८.२४ ॥

॥ इत्य् अष्टम-स्कन्धः समाप्तः ॥


  1. सा शफरी मत्स्य-रूपी भगवान्। ↩︎

  2. याचयामास ययाचे । परतन्त्रस्यैव हि याचनं युक्तम् । न भगवत इति द्योतयितुम् इव णिच्-प्रयोगः ॥ (गोविन्दाचार्यः) ↩︎

  3. विवृतं इति। स तु यद्यपि इति भगवत्-सन्दर्भे। ↩︎

  4. -अनुभवे इति भगवत्-सन्दर्भे। ↩︎

  5. अतो वाऽकिञ्चित्-करा इति पुरी-दास-सम्मत-पाठः। ↩︎

  6. त्वद्-अभिज्ञानां ↩︎