॥ ८.२३.१ ॥
श्री-शुक उवाच—
इत्य् उक्तवन्तं पुरुषं पुरातनं
महानुभावोऽखिल-साधु-सम्मतः ।
बद्धाञ्जलिर् बाष्प-कलाकुलेक्षणो
भक्त्य्-उत्कलो गद्गदया गिराब्रवीत् ॥
श्रीधरः :
त्रयोविंशे बलौ याते सुतलं स-पितामहे ।
उपेन्द्रेण दिवं गत्वा पूर्ववन् मोदते हरिः ॥
बाष्पस्य कलाभिर् बिन्दुभिर् आकुले ईक्षणे यस्य । भक्त्या उद्गल उत्कण्ठः ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
प्रवेशितस्य सुतलं द्वार-पालोऽभवद् बलेः ।
त्रयोविंशे दिवीन्द्रं चोपेन्द्रः सन् पर्यपालयत् ॥
तद् एव हि त्वन्-मूर्ध्नि तृतीयं पदं विन्यस्य त्रिभुवनेन सह त्वाम् अपि प्रतिगृह्णामि, सर्व एते लोकास् त्वां दत्त-प्रतिश्रुतं जानन्त्व् इत्य् उक्तवन्तम् अत एव श्रुतिर् अपि—इदं विष्णुर् विचक्रमे त्रेधा निदधे पदम् इति । उद्गल उद्बाष्पो गलो यस्य सः ॥१॥
—ओ)०(ओ**—**
॥ ८.२३.२ ॥
श्री-बलिर् उवाच—
अहो प्रणामाय कृतः समुद्यमः
प्रपन्न-भक्तार्थ-विधौ समाहितः ।
यल् लोक-पालैस् त्वद्-अनुग्रहोऽमरैर्
अलब्ध-पूर्वोऽपसदेऽसुरेऽर्पितः ॥
श्रीधरः : अहो त्वत्-प्रणाम-महिमा, यद्-अर्थं कृतः समुद्यम एव प्रपन्नानांभक्तानां योऽर्थस् तस्य विधाव् अभक्तेऽपि तस्य संपादने समाहितोऽप्रमत्तः स्थितः । कुतः? यद् येनोद्यमेन लोक-पालैर् अमरैः सत्त्व-प्रधानैर् अप्य् अलब्ध-पूर्वस्त्वद्-अनुग्रहोपसदे नीचे राजसे मय्य् अर्पितः । अयं भावः—परमेश्वराय तुभ्यम् अहं वराकस् त्रि-लोकीं दत्तवान् इत्य् एतद् आस्ताम्, प्रणामोऽपि न सम्यक् कृतः । किन्तु तद्-अर्थम् उद्यम-मात्रं कृतं, तेन च कर्म-तपो-दानादि-कोटिभिर् अप्य् अलभ्यस् त्वद्-अनुग्रहः सम्पादितः अहो त्वत्-प्रणाम-प्रभवाश्चर्यम् इति ॥२॥
**क्रम-सन्दर्भः : बद्धाञ्जलित्वानन्तरं, पदं तृतीयं कुरु शीर्ष्णि मे निजम् [भा।पु। ८.२२.२] इति प्राचीन-तन्-निवेदनानुसारेण तच्-छीर्ष्णि पदे कृते परमानन्देन निवेदयति—**अहो इति । अत एव श्रुतौ, इदं विष्णुर् विचक्रमे त्रेधा निदधे पदम् [ऋ।वे। १.२२.१७] इति । येन केनचित् प्रणामाय कृतः समुद्यमोऽपि प्रपन्नानां परमानन्द-युक्तानां भक्तानां भजतां यः पुरुषार्थः, तस्य विधाने निमित्ते समाहितः सावधानो भवति । तद् एव क्रमात् पर्यवसाययतीत्य् अर्थः ।
तद् एतद् अहो इत्य् आश्चर्ये । इदं तु ततोऽप्य् आश्चर्यम् इत्य् आह—यद् यत् त्व् अनुग्रहस् तत् त्वया मय्य् अपसदे स्व-यशो-लिप्सया तादृश-प्रतिज्ञादि-धार्ष्ट्याद् अतिनीचे जात्याप्य् असुरेऽर्पितः । स खल्व् अमरैर् मृत्युम् अतिक्रान्तैर् जीवन्मुक्तैर् अप्य् अलब्ध-पूर्व इत्य् अर्थः । यद् इत्य् अत्र तद् इति च, सुपां सुलुक् [पा। १.१.३९] इत्य् आदिना सुब्-लुक् छान्दसः ॥२॥
**विश्वनाथः : **प्रणामार्थं कृत उद्यमोऽपि प्रपन्न-भक्तानां वाञ्छित-पूरणे समाहितः समर्थो भवेद् इत्य् अद्यैवावगतम् । त्वत्-सर्वस्वम् अपहर्तुं विष्णुर् अयम् आगतः इति गुरोर् मुखात् यदैव त्वाम् अहम् अज्ञासिषं, तदैव त्वत्-प्रणमार्थम् उद्यम एव कृतः, किन्तु असुराणां तस्य च गुरोर् भयाद् एव प्रणामो न कृतः । हन्त हन्त स एवोद्यम इदं फलं फलति स्म, किम् इत्य् आह—यद् यस्माल् लोक-पालैर् अमरैः सत्त्व-प्रधानैर् अपि अलब्ध-पूर्वस् त्वद्-अनुग्रहः मूर्ध्नि चरणार्पण-लक्षणो अपसदे नीचे राजसे मय्य् अर्पितः ॥२॥
—ओ)०(ओ**—**
॥ ८.२३.३ ॥
श्री-शुक उवाच—
इत्य् उक्त्वा हरिम् आनत्य ब्रह्माणं सभवं ततः ।
विवेश सुतलं प्रीतो बलिर् मुक्तः सहासुरैः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मुक्तो नाग-पाशात् ॥३॥
—ओ)०(ओ**—**
॥ ८.२३.४ ॥
एवम् इन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् ।
पूरयित्वादितेः कामम् अशासत् सकलं जगत् ॥
**श्रीधरः : **अशासद् उपेन्द्रः सन् पालयायास ॥४॥
क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_
—ओ)०(ओ**—**
॥ ८.२३.५ ॥
लब्ध-प्रसादं निर्मुक्तं पौत्रं वंश-धरं बलिम् ।
निशाम्य भक्ति-प्रवणः प्रह्राद इदम् अब्रवीत् ॥
श्रीधरः, क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : समासेन बलि-शक्रयोः सुतल-स्वर्ग-प्रवेशम् उक्त्वा व्यासेनाह लब्धेति । बन्धान् मुक्तम् ॥५॥
—ओ)०(ओ**—**
॥ ८.२३.६ ॥
श्री-प्रह्राद उवाच—
नेमं विरिञ्चो लभते प्रसादं
न श्रीर् न शर्वः किम् उतापरेऽन्ये ।
यन् नोऽसुराणाम् असि दुर्ग-पालो
विश्वाभिवन्द्यैर् अभिवन्दिताङ्घ्रिः ॥
**श्रीधरः : **दुर्ग-पालोऽसि, रक्षिष्ये सर्वतोऽहं त्वाम् [भा।पु। ८.२२.३५] इत्य् उक्तत्वात् ॥६॥
**क्रम-सन्दर्भः : **अयोग्येऽपि मादृशे योऽयं प्रसादः, तस्य कारणं नाम भवतः करुणा-मयत्वम् एव नान्यद् इति वक्तुं तस्य परमत्वं दर्शयति । तत्र यथा कश्चिन् निजेश्वरं प्रति वदति पुत्राद् अपि मयि तव वात्सल्यम् इति, तथैव परम-भक्तान् अप्य् उल्लिख्य निवेदयति—नेमम् इति । इमम् अर्थं स्पष्टयति—यन् न इति । अत एव परम-भक्ति-तत्त्वं निर्णेष्यमाणेन1 श्री-शुक-देवेन नेमं विरिञ्च[भा।पु। १०.९.२०] इत्य्-आदिकं यद् वक्ष्यते, तत्-तुल्यता नात्र मन्तव्या । योऽयं भगवान् अत्र बन्धकः, स तु तत्र स्वयम् एव बद्ध इति हि तद्-वशीकारे महान् एव भेदः ॥६॥ [प्रीति-सन्दर्भ १७५]
**विश्वनाथः :**दुर्ग-पालोऽसि, रक्षिष्ये सर्वतोऽहं त्वाम् [भा।पु। ८.२२.३५] इत्य् उक्तेः ॥६॥
—ओ)०(ओ**—**
॥ ८.२३.७ ॥
यत्-पाद-पद्म-मकरन्द-निषेवणेन
ब्रह्मादयः शरणदाश्नुवते विभूतीः ।
कस्माद् वयं कुसृतयः खल-योनयस् ते
दाक्षिण्य-दृष्टि-पदवीं भवतः प्रणीताः ॥
**श्रीधरः : **हे शरणद ! आश्रय-प्रद ! ये कुसृतयो दुर्वृत्ताः खल-योनय उग्र-जातयश् च, ते वयं तस्य भवतो दाक्षिण्य-दृष्टेः पदवीं कस्माद् धेतोः प्रणीताः ? बहु-मानेन चित्तानुवर्तनं दाक्षिण्यं, तेन या दृष्टिस् तद्-विषयतां प्रापिताः ॥७॥
**क्रम-सन्दर्भः : **अथ कारणान्तराभावं दर्शयति—यत्-पादेति । विभूतीः प्राधान्येन ता एव, न त्व् एतादृशं2 प्रसादम् ॥७॥
**विश्वनाथः :**हे शरणद ! आश्रय-प्रद ! विभूतीः सम्पद एव, न त्व् एतावन्तं प्रसादम् । कुसृतयो दुर्वृत्ताः । बहु-मानेन चित्तानुवर्तनं दाक्षिण्यं, तेन या दृष्टिस् तद्-विषयतां प्रापिताः । जात्यैव ते प्रसिद्धा वयं निग्राह्याः कथम् एतावद् अनुग्रह-भाजनान्य् अभूमेत्य् अर्थः ॥७॥
—ओ)०(ओ**—**
॥ ८.२३.८ ॥
चित्रं तवेहितम् अहोऽमित-योगमाया-
लीला-विसृष्ट-भुवनस्य विशारदस्य ।
सर्वात्मनः सम-दृशोऽविषमः स्वभावो
भक्त-प्रियो यद् असि कल्पतरु-स्वभावः ॥
**श्रीधरः : **भक्त-प्रियत्वाद् इति चेत्, तर्ह्य् एवं तवेहितम् । अहो चित्रम् ! किं तत् ? सर्वात्मनः सम-दृशश् च स्व-भावो विषम् इति यत् । सर्वात्मत्वे चित्र-चरितत्वे हेतुः, अमिताचिन्त्य योग-माया तस्या लीला तया विसृष्टानि विरचितानि भुवनानि येन तस्य । अहो इत्य् अत्र सन्धिर् आर्षः । सम-दृक्त्वे हेतुः, विशारदस्य सर्व-ज्ञस्य । अथ वा भक्त-प्रियत्वेऽपि तव वैषम्यं नास्त्य् एव । यतः कल्पतरु-स्वभावः सन् भक्त-प्रियोऽसि । न हि कल्पतरुर् आश्रितानाम् एव कामान् पूरयन्न् अपि विषमो भवतीत्य् अर्थः ॥८॥
**क्रम-सन्दर्भः : **न केवलं मादृश-भक्त एव तवैतादृशत्वं युक्त्य्-अतीतं, किन्तु भक्त-जनेऽपि तथैवेति । तद् एव स्थापयति—चित्रम् इति । यत् त्वं भक्त-प्रियोऽसि, सोऽपि सम-दृशस् तव स्वभावोऽविषमः, विषमो न भवति । तत्र हेतु-गर्भं विशेषणं—कल्प-तरु-स्वभाव इति। तस्माद् विषम-स्वभावतया प्रतीतेऽपि त्वय्य् अवैषम्यम् इत्य् अतीव चित्रम् इति।
यद् वा, परत्रापि कल्प-वृक्षादि-लक्षणे समान एवाश्रयणीये वस्तुनि भक्त-पक्षपात-रूप-वैषम्य-दर्शनात् तद् वैषम्यम् अपि समस्यैव स्वभाव इति लब्धे, तद् अपरिहार्यम् एवेति सिद्धान्तयितव्यम् । ततश् च विषम-स्वभाव इत्य् एव व्याख्येयम् । तथा पूर्वत्रापि न तस्य [भा।पु। १०.३८.२२] इत्य् आदौ, भक्तान् भजत इति वैषम्य एव योजनीयम् इति । वस्तुतस् तु श्री-भगवत्य् अचिन्त्यैश्वर्यम् एव मुख्यः तद्-अविरोधे हेतुः । यद् उक्तं यद् उक्तम्—नमो नमस् तेऽस्त्व् ऋषभाय सात्वताम् [भा।पु। २.४.१४] इत्य् आदौ द्वितीयस्य चतुर्थेटीकायाम् । तद् एवं वैषम्य-प्रतीताव् अप्य् अदोषत्वायाचिन्त्यम् ऐश्वर्यम् आहेति । तद् उक्तं श्री-भीष्मेण—
सर्वात्मनः समदृशो ह्य् अद्वयस्यानहङ्कृतेः ।
तत्-कृतं मति-वैषम्यं निरवद्यस्य न क्वचित् ॥
तथाप्य् एकान्त-भक्तेषु पश्य भूपानुकम्पितम् ।
यन् मेऽसूंस् त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ [भा।पु। १.९.२१-२२] इति ।
स्वयं श्री-भगवता च समोऽहं सर्व-भूतेषु [गीता ९.२९] इति । अथवा सम-दृशस् तव विषम-स्वभावो यस् तद् अहो चित्रम् अतीवाश्चर्यम् इत्य् अर्थः । वैषम्यम् एवाह—“भक्त-प्रियो यद् असि” इति । सम-दृक्त्वे हेतुत्वेन त्रिधा पूर्णत्वं वदन् क्रिया-शक्तौ तावद् आह—अमिता अनन्ता या योगमाया स्वरूप-शक्तिस् तस्या या लीला यादृच्छिक-क्रिया-वृत्तिस् तादृश-वृत्त्य्-आभास-रूपा माया-शक्तिस् तया विशेषेण सृष्टानि भुवनानि अनन्तानि ब्रह्माण्डानि येन तस्य ।
ज्ञान-शक्ताव् आह—विशारदस्येति । स्वरूपेऽप्य् आह—सर्वात्मन इति सर्व-मूल-स्वरूपस्य । नन्व् एवं स्वभावः कल्प-तरुर् अपि दृश्यते ? तत्राह—कल्प-तरोर् अपि स्वभावो यस्मात् तथा-विध इत्य् अहो चित्रम् एवेत्य् अर्थः ॥८॥ [परमात्म-सन्दर्भ ९३]
विश्वनाथः : न केवलं मादृश-भक्तेष्व् एव तवैतावान् अनुग्रहः, किन्तु भक्त-मात्रेषु येषु केष्व् अपीत्य् आह—चित्रम् इति हे अमित-योग अपरिमित-योगैश्वर्य, तवेहितं चरित्रम् अहो चित्रम् अत्याश्चर्यं युक्त्य्-अतीतम् इत्य् अर्थः । किं तच् चित्रम् ? समदृशोऽपि तव विषम-स्वभाव इति यत्, किं मे समदृक्त्व-लक्षणम् ? तत्राह—मायायाः स्वीय-माया-शक्तेर् लीलया विसृष्टानि भुवनानि येन तस्य सर्व-स्रष्टुर् इत्य् अर्थः । विशारदस्य सर्वाभिज्ञस्य सर्वात्मनः सर्वेषां चेतयितुम्, तेन सर्वेषां तव सृज्यत्वात् अभिज्ञेयत्वात् चेतयितव्यत्वाच् च सर्वेषु तव समदृक्त्वम् एव दृष्टम् इत्य् अर्थः ।
किं मे वैषम्यं दृष्टम् ? तत्राह—भक्त-प्रियो यद् असीति । तेषु सृष्टेषु मध्ये ये भक्ताः, तेष्व् एव प्रीणासि, नान्येष्व् इति यत्, एतद् एव वैषम्यम् इत्य् अर्थः । तर्हि किं ममैष दोष एव स्थाप्यते ? न हि न हि, किन्तु महा-गुण एवेत्य् आह—कल्प-तरु-स्वभाव इति । कल्प-तरुर् यथा आश्रितानाम् एव कामं पूरयति, न त्व् अनाश्रितानां, तथैव त्वं भक्तेष्व् इति भजनवत्त्व-मात्र एव तव प्रीतिर् इति । वस्तुतस् ते साम्यम् एवायातम् । यद् उक्तं—
समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९] इति ॥८॥
—ओ)०(ओ**—**
॥ ८.२३.९ ॥
श्री-भगवान् उवाच—
वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् ।
मोदमानः स्व-पौत्रेण ज्ञातीनां सुखम् आवह ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ**—**
॥ ८.२३.१० ॥
नित्यं द्रष्टासि मां तत्र गदा-पाणिम् अवस्थितम् ।
मद्-दर्शन-महाह्लाद- ध्वस्त-कर्म-निबन्धनः ॥
श्रीधरः : मद्-दर्शनेन यो महाह्लादः, तेन ध्वस्तं कर्म-निबन्धनम् अज्ञानं यस्य ॥१०॥
**क्रम-सन्दर्भः : **पूर्वम् एव मद्-दर्शनेत्य्-आदि स्वरूपस् त्वम्, इतस् तु तत्र नित्यम् एव मां द्रष्टासीत्य् अर्थः ।_।_१०॥
**विश्वनाथः : **कर्म-बन्धन-लक्षणः संसारस् तु मत्-प्रथम-दर्शनाह्लादातिशय-क्षण एव पूर्वम् एव ध्वस्त इत्य् आह—मद्-दर्शनेति ॥१०॥
—ओ)०(ओ**—**
॥ ८.२३.११-१२ ॥
श्री-शुक उवाच—
आज्ञां भगवतो राजन् प्रह्रादो बलिना सह ।
बाढम् इत्य् अमल-प्रज्ञो मूर्ध्न्य् आधाय कृताञ्जलिः ॥
परिक्रम्यादि-पुरुषं सर्वासुर-चमूपतिः ।
प्रणतस् तद्-अनुज्ञातः प्रविवेश महा-बिलम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
॥ ८.२३.१३ ॥
अथाहोशनसं राजन् हरिर् नारायणोऽन्तिके ।
आसीनम् ऋत्विजां मध्ये सदसि ब्रह्म-वादिनाम् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **हरिः बलेः सम्बन्धेन तस्यापराध-दोषं हरतीति हरिः ॥१३॥
—ओ)०(ओ**—**
॥ ८.२३.१४ ॥
ब्रह्मन् सन्तनु शिष्यस्य कर्म-च्छिद्रं वितन्वतः ।
यत् तत् कर्मसु वैषम्यं ब्रह्म-दृष्टं समं भवेत् ॥
**श्रीधरः : **कर्म वितन्वतः शिष्यस्य यच् छिद्रम् अन्तरं न्यूनं जातं, तत् सन्तनु विस्तारय सन्धत्स्व । यजमानं विना कथं सन्धातव्यम् इति न वाच्यम् इत्य् आह—यत् तद् इति । ब्रह्म-दृष्टं ब्राह्मणैर् दृष्टम् एव समं भवेत् । किं पुनर् अनुष्ठितम् ? इत्य् अर्थः ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**कर्म वितन्वतः शिष्यस्य यच् छिद्रम् अन्तरं शून्यं जातं, तत् सन्तनु विस्तारय सन्धत्स्व । यजमानं विना कथं सन्धातव्यम् इति न वाच्यम् इत्य् आह—यत् तद् इति । ब्रह्म-दृष्टं ब्राह्मणैर् दृष्टम् एव स्वयं भवेत्, किं पुनर् अनुष्ठितम् ? इत्य् अर्थः ॥१४॥
—ओ)०(ओ**—**
॥ ८.२३.१५ ॥
श्री-शुक्र उवाच—
कुतस् तत्-कर्म-वैषम्यं यस्य कर्मेश्वरो भवान् ।
यज्ञेशो यज्ञ-पुरुषः सर्व-भावेन पूजितः ॥
**श्रीधरः : **भवान् यस्य सर्वेणापि भावेन वस्तु-मात्रेण पूजितस् तस्य कर्मसु कुतो वैषम्यम् ? कथं-भूतः ? कर्मणाम् ईश्वरः प्रवर्तकः । यज्ञेशो यज्ञ-फल-दः यज्ञ-मयश् च पुरुषः ॥१५॥
क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_
—ओ)०(ओ**—**
॥ ८.२३.१६ ॥
मन्त्रतस् तन्त्रतश् छिद्रं देश-कालार्ह-वस्तुतः ।
सर्वं करोति निश्छिद्रं नामानुकीर्तनं3** तव ॥**
**श्रीधरः : **आस्तां तावत् पूजा । यस्मान् मन्त्रतः स्वरादि-भ्रंशेन, तन्त्रतो व्युत्क्रमादिना, देशतः कालतश् च, अर्हतः पात्रतः, वस्तुतश् च दक्षिणादिना यच् छिद्रं न्यूनं, तत् सर्वं तव नामानुकीर्तन-मात्रम् एव निश्छिद्रं करोतीति ॥१६॥
**सनातनः [हरि-भक्ति-विलास ११.३७६]: **मन्त्रतः स्वर्-आदि-भ्रंशेन, तन्त्रतः व्युत्क्रमादिना, देशतः कालतश् च, अर्हतः पात्रतः अशौचादिना, वस्तुतश् च दक्षिणादिना यच् छिद्रं न्यूनं, तत् सर्वं तव नाम-सङ्कीर्तनम् एव निश्छिद्रं करोति, रिक्तं पूरयति, अधिक-फलं च जनयतीत्य् अर्थः ॥१६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
॥ ८.२३.१७ ॥
तथापि वदतो भूमन् करिष्याम्य् अनुशासनम् ।
एतच् छ्रेयः परं पुंसां यत् तवाज्ञानुपालनम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
॥ ८.२३.१८ ॥
श्री-शुक उवाच—
प्रतिनन्द्य हरेर् आज्ञाम् उशना भगवान् इति ।
यज्ञ-च्छिद्रं समाधत्त बलेर् विप्रर्षिभिः सह ॥
**श्रीधरः : **हरेर् आज्ञां प्रतिनन्द्य बलेर् यज्ञ-च्छिद्रं समाधत्त सन्दधे । पाठान्तरे समाधाय तद्-आज्ञां संपादितवान् इति शेषः ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **समाधत्त सन्दधे । समाधायेति पाठे ताम् आज्ञां संपादितवान् इति शेषः ॥१८॥
—ओ)०(ओ**—**
॥ ८.२३.१९-२१ ॥
एवं बलेर् महीं राजन् भिक्षित्वा वामनो हरिः ।
ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत् परैर् हृतम् ॥
प्रजापति-पतिर् ब्रह्मा देवर्षि-पितृ-भूमिपैः ।
दक्ष-भृग्व्-अङ्गिरो-मुख्यैः कुमारेण भवेन च ॥
कश्यपस्यादितेः प्रीत्यै सर्व-भूत-भवाय च ।
लोकानां लोक-पालानाम् अकरोद् वामनं पतिम् ॥
**श्रीधरः : **देवाश् च ऋषयश् च भूमिपाश् च मनवस् तैः सहितः ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : भूमिपा मनवः ॥२०॥
—ओ)०(ओ**—**
॥ ८.२३.२२-२३ ॥
वेदानां सर्व-देवानां धर्मस्य यशसः श्रियः ।
मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥
उपेन्द्रं कल्पयां चक्रे पतिं सर्व-विभूतये ।
तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥
**श्रीधरः : **ननु लोकादीनां पतिर् इन्द्रोऽस्त्य् एव, सत्यम्, तथापि वेदादीनां कल्पं पालने दक्षं वामनम् उपेन्द्रं कल्पयां चक्रे ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कल्पं पालने समर्थम् ॥२२॥
—ओ)०(ओ**—**
॥ ८.२३.२४ ॥
ततस् त्व् इन्द्रः पुरस्कृत्य देव-यानेन वामनम् ।
लोक-पालैर् दिवं निन्ये ब्रह्मणा चानुमोदितः ॥
**श्रीधरः : **देव-यानेन मार्गेण, विमानेनेति वा ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : पुरस्कृत्यानर्घ्य-वस्त्रालङ्कारादिभिः संमान्य । देव-यानेन विमानेन देव-मार्गेण वा ॥२४॥
—ओ)०(ओ**—**
॥ ८.२३.२५-२७ ॥
प्राप्य त्रि-भुवनं चेन्द्र उपेन्द्र-भुज-पालितः ।
श्रिया परमया जुष्टो मुमुदे गत-साध्वसः ॥
ब्रह्मा शर्वः कुमारश् च भृग्व्-आद्या मुनयो नृप ।
पितरः सर्व-भूतानि सिद्धा वैमानिकाश् च ये ॥
सुमहत् कर्म तद् विष्णोर् गायन्तः परम् अद्भुतम् ।
धिष्ण्यानि स्वानि ते जग्मुर् अदितिं च शशंसिरे ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
॥ ८.२३.२८ ॥
सर्वम् एतन् मयाख्यातं भवतः कुल-नन्दन ।
उरुक्रमस्य चरितं श्रोतॄणाम् अघ-मोचनम् ॥
**श्रीधरः : **एतच् चरितम् आख्यातम् इति विशेषोक्त्याऽन्यान्य् अपि सन्तीत्य् उक्तम् ॥२८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
॥ ८.२३.२९ ॥
पारं महिम्न उरु-विक्रमतो गृणानो
यः पार्थिवानि विममे स रजांसि मर्त्यः ।
किं जायमान उत जात उपैति मर्त्य
इत्य् आह मन्त्र-दृग् ऋषिः पुरुषस्य यस्य ॥
**श्रीधरः : **तानि तर्हि निःशेषाणि वर्णनीयानीत्य् अपेक्षायाम् आह—पारम् इति । उरु बहुधा विक्रमतो विष्णोर् महिम्नः पारं यो गृणानो भवति, स मर्त्यः पार्थिवानि रजांस्य् अपि विममे गणितवान् । यथा पार्थिव-परमाणु-गणनम् अशक्यं, तथा विष्णोर् गुण-गणनम् अप्य् अशक्यम् इत्य् अर्थः । तथा च मन्त्रः—विष्णोर् नु कं वीर्यणि [ना।ता।उ। १.४.४] इति । एतद् एव मन्त्रान्तरार्थं सूचयन्न् आह—यस्य पुरुषस्य पूर्ण-महिम्नः पारं मन्त्र-दृग् ऋषिर् वसिष्ठ इति । एवम् आह—कथम् ? किं जायमानो वा उपैति ? न कोऽपीति वदन्न् अनन्तत्वेनैवाहेत्य् अर्थः । तथा च मन्त्रः—न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप [ऋ।वे। ७.९९.२] इति ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **एतत् उरुक्रमस्य चरितं सर्वं मया आ ईषद् एव आख्यातं, सर्वस्यैवाद्य्-अन्त-मध्य-भागस्याल्पम्, अल्पम् उक्तम् इत्य् अर्थः । नन्व् एतत् कृतष्टमृतं निःशेषम् एव वर्णयितुम् अर्हसीति, अत आह—पारम् इति । उरुक्रमस्य महिम्नः पारं गृणानो भवति, स मर्त्यः पार्थिवानि रजांसि विममे । यथैव पार्थिव-परमाणु-गणनम् अशक्यं, तथैव विष्णोर् गुण-गणनम् अपीत्य् अर्थः । यस्य पुरुषस्य पूर्णस्य महिम्नः पारं किं जायमानो मर्त्यः, उत जातो वा उपैति, न कोऽपीत्य् अर्थः । इति मन्त्र-दृग्-वशिष्ठ-ऋषिर् आह, तथा च मन्त्रः—विष्णोर् नु कं वीर्यणि प्रावोचम् [ना।ता।उ। १.४.४] इत्य्-आदि । मन्त्रान्तरं च—न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप [ऋ।वे। ७.९९.२] इति ॥२९॥
—ओ)०(ओ**—**
॥ ८.२३.३० ॥
य इदं देव-देवस्य हरेर् अद्भुत-कर्मणः ।
अवतारानुचरितं शृण्वन् याति परां गतिम् ॥
**श्रीधरः, विश्वनाथः- **य इदं शृण्वन् भवति, स परां गतिं याति ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ**—**
॥ ८.२३.३१ ॥
क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे ।
यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदुः ॥
**श्रीधरः : **सुकृतं यथावत् कृतं विदुः ॥३१॥
क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_
—ओ)०(ओ**—**
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टमस्य त्रयोविंशः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
बलि-वामन-चरितं
त्रयोविंशोऽध्यायः ।
॥ ८.२३ ॥
(८.२४)