॥ ८.२२.१ ॥
श्री-शुक उवाच—
एवं विप्रकृतो राजन् बलिर् भगवतासुरः ।
भिद्यमानोऽप्य् अभिन्नात्मा प्रत्याहाविक्लवं वचः ॥
श्रीधरः :
द्वाविंशे तु प्रसन्नः सन् प्रस्थाप्य सुतलं बलिम् ।
दत्त्वा वरान् हरिर् न्यूनं मत्वा तद्-द्वारपोऽभवत् ॥
समर्पित-तनू-वित्त निर्मलाचल-भक्तितः ।
छलितो बलिना चित्रं स्वम् एवार्पयद् अच्युतः ॥
विप्रकृतोऽपकृतः भिद्यमणः सत्त्वाच् चाल्यमानः ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
बलि-प्रह्लादयोर् विन्द्यावलि-पद्मजयोर् अपि ।
सूक्तिर् वरान् अदाद् अस्मै द्वाविंशे वरुणाम्बुधिः ॥
बबन्ध कपटी यस्माद् बलिं निरघम् ईश्वरः ।
ततस् तद्-द्वारि तत्-प्रेम-पशैर् बद्धः सदावसत् ॥
एवम् अनेन प्रकारेण विप्रकृतोऽपकृतः भिद्यमणः सत्त्वाच् चाल्यमानः ॥१॥
—ओ)०(ओ—
॥ ८.२२.२ ॥
श्री-बलिर् उवाच—
यद्य् उत्तमश्लोक भवान् ममेरितं
वचो व्यलीकं सुर-वर्य मन्यते ।
करोम्य् ऋतं तन् न भवेत् प्रलम्भनं
पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥
**श्रीधरः : **हे उत्तम-श्लोकेति कटाक्षः । मम वच ईरितं प्रतिश्रुतं न तावद् व्यलीकम् । त्वय कपटेन वामनतया भिक्षित्वा रूपान्तरस्याविष्कृतत्वात् । एवम् अपि यदि भवान् व्यलीकं मन्यते, तथापि ऋतम् एवाहं करोमि । मद्-उक्तं विप्रलम्भनं न भवतु । मे शीर्ष्णि निजं तृतीयं पदं कुरु । न च द्वाभ्यां विश्वं क्रान्तवतो मे तव शिरः पाद-पर्याप्तं न भवतीति मन्येथाः । वित्तेन चेत् पद-द्वयं जातं तर्हीदम् अधिकम् एव स्यात् । वित्ताद् अपि वित्तवतोऽधिकत्वाद् इति भावः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : उत्तम-श्लोकेति स्व-प्रभौ स-नर्मोक्तिः । स्वस्य वामनस्य त्रिभिः पदैः परिमितां भूमिं भिक्षित्वा, स्वरूपान्तरस्य त्रिविक्रमस्य त्रिभिः पदैः प्रतिग्रहीतुं प्रयतमानस्य निर्लोभस्य विप्र-बटोस् तव निस्पृहत्वं व्यक्तीभूतम् इत्य् एतां कीर्ति-सुधाम् एव निरपायां पायं पायम् एव भक्ता वयम् आनन्द-मत्ता भवाम, यद् अहो लक्ष्मी-कान्तोऽपि मां तावद् अतिरङ्कम् अपि भूमिं भिक्षसे । तत्रापि छलेनाधिक-जिघृक्षा । तत्रापि बटु-वेशत्वेन बटु-जनानां कपटम् अर्थ-स्पृहाम् अशान्तिम् अप्राप्त्या कोपं दातरि दण्डं च स्वाभाविकं धर्मम् अभिव्यज्य तेषां विडम्बनम् । शास्त्राभिज्ञानां मद्-गुरूणाम् अपि बुद्धि-लोपः । स्व-कृपा-परमाणु-मात्र-स्पृष्टेष्व् इन्द्रादिषु स्व-पक्षत्व-व्यञ्जना । स्व-कृपामृत-महोदधि-मध्य-मग्ने मयि विपक्षत्व-व्यञ्जनेत्य् एवम् आदाय एव तवोत्तमाः श्लोकाः कविभिः श्लोकैर् गास्यन्त इति भावः ।
यदि भवान् मद्-वचो व्यलीकं मिथ्या मन्यते इति स्व-भक्तम् अन्यायेनापि जिगीषुणा त्वया, तत् स्व-भक्त-वचो मिथ्या कर्तुम् अशक्यम् एवेति भावः । हे सुर-वर्य ! सुरैर् वरणीय ! त्रैलोक्यं भिक्षित्वा बलेः सकाशाद् आनीय अस्मभ्यं भोगार्थं देहीति सुरैर् मन्ये वरं प्रार्थितो भवान् अभूद् इति भावः । तद्-वच ऋतं सत्यं करोमि । मद्-उक्तं हि प्रलम्भनं न भवेत् । यथा स्व-चरण-प्रेमामृतम् अददानस्य सुरैः स्तुतस्य तव वचस् त्रिवर्ग-मात्र-प्रदायकत्वात् सुर-प्रलम्भकम् इति भावः ।
मे शीर्ष्णि निजं तृतीयं पदं कुरु । न च «द्वाभ्यां विश्वं क्रान्तवतो मम तव शिरः पाद-पर्याप्तं न भवति» इति मन्येथाः । वित्तेन चेत् पद-द्वयं जातं, तर्हीदम् अधिकम् एव स्यात् । वित्ताद् अपि वित्त-स्वामिनोऽधिकत्वाद् इति भावः ॥२॥
—ओ)०(ओ—
॥ ८.२२.३ ॥
बिभेमि नाहं निरयात् पद-च्युतो
न पाश-बन्धाद् व्यसनाद् दुरत्ययात् ।
नैवार्थ-कृच्छ्राद् भवतो विनिग्रहाद्
असाधु-वादाद् भृशम् उद्विजे यथा ॥
**श्रीधरः : **ननु च,
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥
इत्य्-आदि-वचनाद् आत्म-भय-परिहाराय सर्वस्वं त्यज्यते, त्वं तु कुतो भीतः सन्न् आत्मानम् अर्पयस्यसे ? आह—बिभेमीति । असाधु-वादाद् अपकीर्तेर् यथाऽहं भृशम् उद्विजे, निरयादिभ्यो न तथा बिभेमि ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु किं वारुण-पाश-बन्ध-भयात् नरक-भयाद् वा आत्मानं दातुम् इच्छसि ? इति, तत्राह—बिभेमीति । अर्थ-कृच्छ्रात् द्रव्योपार्जन-कष्टात् । असाधु-वादाद् भगवद्-भक्ता ब्राह्मण-वञ्चका भवन्ति यथा बलिर् इति वैष्णव-लोक-दुष्कीर्ति-वादात् ॥३॥
—ओ)०(ओ—
॥ ८.२२.४ ॥
पुंसां श्लाघ्यतमं मन्ये दण्डम् अर्हत्तमार्पितम् ।
यं न माता पिता भ्राता सुहृदश् चादिशन्ति हि ॥
**श्रीधरः : **ननु मया निगृहीतत्वात् तवापकीर्तिर् जातैव ? नैवेत्य् आह—पुंसाम् इति । अर्हत्तमैर् अर्पितम् । यं दण्डं मात्रादयोऽपि न ह्य् आदिशन्ति नैवार्पयन्ति । हितैषिणा त्वया निगृहीतोऽहं श्लाध्य एवास्मीति भावः ॥४॥
**क्रम-सन्दर्भः : **पुंसाम् इति । नादिशन्ति न कुर्वन्ति । मात्रादयो हि केवलम् ऐहिक-स्नेहा इति भावः । यद् वा, शिरश्-चालने नञ् । नादिशन्ति आ-दिशन्त्य् एवेत्य् अर्थः1 ॥४॥
विश्वनाथः : ननु मया निग्रहात् तव दुष्कीर्तिर् जायते वा ? इति, तत्राह—पुंसाम् इति । हितैषित्वात् दण्डयन्तोऽपि मात्रादयो यं दण्डम् आ सम्यक् प्रकारेण न दिशन्ति न ददति, मात्रादयो ऐहिक-हितैषिणोऽर्हत्तमास् तु पारलौकिक-हितैषिणो मातृ-कोटिभ्योऽप्य् अतिवत्सला इति भावः ॥४॥
—ओ)०(ओ—
॥ ८.२२.५ ॥
त्वं नूनम् असुराणां नः परोक्षः परमो गुरुः ।
यो नोऽनेक-मदान्धानां विभ्रंशं चक्षुर् आदिशत् ॥
**श्रीधरः : **नन्व् अहं देवानां हितैषी, नासुराणाम् ? तत्राह—त्वं नूनम् इति । पारोक्ष्यः शत्रु-च्छलेन वर्तमानः ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नन्व् अहं देवानां हितैषी प्रसिद्धो, नासुराणाम् ? तत्राह—त्वम् इति । गुरु-हित-कारी परोक्षः । शत्रु-च्छलेन वर्तमानत्वाद् इति भावः । प्रत्यक्ष-हित-कारित्वाद् अपि परोक्ष-हित-कारित्वं प्रत्यधिक-सूचकम्, अत एव परमो देवानाम् अन्त्व् अपरमः, तत्-कामितैश्वर्य-प्रदत्तेन वास्तव-हितैषित्वाभावाद् इति भावः । अस्माकं तु त्वं वास्त्व-हित-कृद् एवेत्य् आह—य इति चक्षुर् इति देवानां त्व् आध्याम् इति भावः । आदिशद् इति प्रथम-पुरुष आर्षः ॥५॥
—ओ)०(ओ—
॥ ८.२२.६-७ ॥
यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः ।
बहवो लेभिरे सिद्धिं याम् उ हैकान्त-योगिनः ॥
तेनाहं निगृहीतोऽस्मि भवता भूरि-कर्मणा ।
बद्धश् च वारुणैः पाशैर् नातिव्रीडे न च व्यथे ॥
**श्रीधरः : **शत्रुत्वं पुनर् भक्तान् इवास्मान् अनुग्रहीतुम् एवेत्य् आह—यस्मिन्न् इति । उ अहो । ह प्रसिद्धम् ॥६॥ अतो नात्र मम उज्जा, नापि दुःखम् इत्य् आह—तेन गुरुणा भवता ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मादृशानां त्वद्-एकान्त-भक्तानां खलु का वार्ता ? ये पुनर् असुरास् त्वयि वैरम् अनुबध्नन्ति, तेष्व् अपि तव तावद् अलौकिक्य् एव दया, इत्य् आह—यस्मिन्न् इति । तेन गुरुणा भूरि-कर्मणेति मन्-निग्रहस् ते बहु-कार्यथार्थः । तथा हि—किञ्चिन्-मात्री मे व्रीडा उत्पद्यते सा खलु मे चित्त-शुद्ध्य्-अभावाद् एवेति भावः ॥६-७॥
—ओ)०(ओ—
॥ ८.२२.८ ॥
पितामहो मे भवदीय-सम्मतः
प्रह्राद आविष्कृत-साधु-वादः ।
भवद्-विपक्षेण विचित्र-वैशसं
सम्प्रापितस् त्वं परमः स्व-पित्रा ॥
**श्रीधरः : **किं च, योऽयं दण्ड-रूपो ममानुग्रहस् त्वया कृतः स तु त्वद्-भक्त-पौत्रत्वेन, न त्व् अहम् अनुग्रहस्य पात्रम् इत्य्-आशयेनाह—पितामह इति । भवदीयानां संमतः । यत आविष्कृतः साधु-वादो यस्य । त्वम् एव परम आश्रयो यस्य सः । अतो भवतो विपक्षेण विद्विषा हिरान्यकशिपुना विचित्रं वैशसं हिंसां संप्रापितोऽपि देहादीनाम् असारतां निश्चित्य, अकुतो-भयं ध्रुवं च भवतः पाद-पद्मम् एव प्रपेदे । अथ तस्माद् अहम् अपि दैवेन तस्यैव भाग्येन तवान्तिकं नीत इति चतुर्णाम् अन्वयः ॥८॥
**क्रम-सन्दर्भः : **पितामह इति चतुष्कम् ॥८॥
विश्वनाथः : अस्मत्-कुल-दैवतत्वेनैव त्वद्-दण्डो ममावश्यः सह्य एव त्वम् अपि मद्-भक्त-पौत्रोऽयम् इति बुद्ध्यैव मयि स्निह्यसीत्य् आह—पितामह इति । भवद्-विपक्षेण हिरण्यकशिपुणा विचित्रं विपत्तिं प्रापितः प्रापितोऽपि ॥८॥
—ओ)०(ओ—
॥ ८.२२.९ ॥
किम् आत्मनानेन जहाति योऽन्ततः
किं रिक्थ-हारैः स्वजनाख्य-दस्युभिः ।
किं जायया संसृति-हेतु-भूतया
मर्त्यस्य गेहैः किम् इहायुषो व्ययः ॥
**श्रीधरः : **अन्तत आयुषोऽन्ते । रिक्थ-हारैः पुत्रैः । इह गेहेषु केवलम् आयुषो व्यय एव न तु सुखं किञ्चित् ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु सोऽपि पितरम् अनुपेक्ष्य किम् इति मां प्रपेदे, तत्राह—किम् इति द्वाभ्याम् । आत्मना देहेन । रिक्थं त्वत्-सेवार्थकम् अपि धनं हरन्तीति तैः ॥९॥
—ओ)०(ओ—
॥ ८.२२.१० ॥
इत्थं स निश्चित्य पितामहो महान्
अगाध-बोधो भवतः पाद-पद्मम् ।
ध्रुवं प्रपेदे ह्य् अकुतोभयं जनाद्
भीतः स्वपक्ष-क्षपणस्य सत्तम ॥
**श्रीधरः : **स प्रसिद्धो महान् । स्व-पक्षं दैत्य-कुलं क्षपयतीति तस्यापि ॥१०॥
**क्रम-सन्दर्भः : **जनाद् दैत्यादि-दुर्जन-सङ्गाद् भीतः । आत्म-रिपोः आत्म-रिपुत्वेन भ्रान्त्या प्रतीयमानस्यापीत्य् अर्थः । दैवेन श्री-प्रह्लाद-पौत्रत्व-प्रापकेण भाग्येन ॥१०॥
**विश्वनाथः : **स्व-पक्षं दैत्य-कुलं क्षपयतीति तस्य ॥१०॥
—ओ)०(ओ—
॥ ८.२२.११ ॥
अथाहम् अप्य् आत्म-रिपोस् तवान्तिकं
दैवेन नीतः प्रसभं त्याजित-श्रीः ।
इदं कृतान्तान्तिक-वर्ति जीवितं
ययाध्रुवं स्तब्ध-मतिर् न बुध्यते ॥
**श्रीधरः : **प्रसभं बलात् त्यजितां श्रीर् यस्य । यया श्रिया स्तब्ध-मतिः सन् पुमान् इदं जीवितम् अध्रुवं न बुध्यते । कथं-भूतम् ? कृतान्तस्यान्तिक-वर्ति मृत्योः सन्निहितम् ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : आत्म-रिपोर् इति व्याज-स्तुत्यैवोक्तिः । वस्तुतस् तु आत्मनः परम-प्रिय-सुहृदः । यद् वा, आत्मनः स्थूल-सूक्ष्म-देह-द्वयस्य रिपोर् नाशकस्य मोक्ष-प्रदस्य इत्य् अर्थः । यद् वा, आत्मनो मद्-अहङ्कारस्य शत्रोस् त्वयाद्य मम त्रिभुवनाधीशत्वाहङ्कार-महा-रोगः साधु नाशित इत्य् अर्थः । दैवेन प्रह्लाद-पौत्रत्व-प्रापकेन भाग्येन यया श्रिया ध्वस्त-बुद्धिर् अयं मल्-लक्षणो जन इदं जीवितम् अध्रुवं न बुध्यत इत्य् अतो धन्वन्तरिम् इव मत्-सर्व-रोग-चिकित्सकं त्वाम् अहं भाग्येन प्राप्त इति भावः ॥११॥
—ओ)०(ओ—
॥ ८.२२.१२ ॥
श्री-शुक उवाच—
तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्-प्रियः ।
आजगाम कुरु-श्रेष्ठ राका-पतिर् इवोत्थितः ॥
**श्रीधरः : **राका-पतिः पूर्णेन्दुः ॥१२॥
क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_
—ओ)०(ओ—
॥ ८.२२.१३ ॥
तम् इन्द्रसेनः स्व-पितामहं श्रिया
विराजमानं नलिनायतेक्षणम् ।
प्रांशुं पिशङ्गाम्बरम् अञ्जन-त्विषं
प्रलम्ब-बाहुं शुभगर्षभम् ऐक्षत ॥
**श्रीधरः : **अञ्जन-त्विषं श्यामम् ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सुभग-र्षभं सर्व-लोक-प्रियम् ॥१३॥
—ओ)०(ओ—
॥ ८.२२.१४ ॥
तस्मै बलिर् वारुण-पाश-यन्त्रितः
समर्हणं नोपजहार पूर्ववत् ।
ननाम मूर्ध्नाश्रु-विलोल-लोचनः
स-व्रीड-नीचीन-मुखो बभूव ह ॥
**श्रीधरः : **स्व-कृताहङ्कारादि-रूपापराध-स्मरणेन स-व्रीडं नीचीनम् अधो-मुखं यस्य सः ॥१४॥
**क्रम-सन्दर्भः : **स-व्रीडेति । महद्-दर्शने सति तद्-अज्ञातस्यापि निज-कुवृत्तस्य मनसि सङ्कोचावहत्वात् ॥१४॥
विश्वनाथः : अपराधं विना कथं बन्धनम् इत्य् अपराध-लक्षणस्य प्रह्लाद-दृष्टत्वात् स-व्रीडम् । यद् वा, प्रह्लादात् सदैव शिक्षितस्य निरभिमानत्व-लक्षणस्य धर्मस्य भूमि-दान-प्रस्तावे सहसा विस्मरणात् तद्-दर्शने सति स-व्रीडम् । स-व्रीडत्वाद् एव नीचीनं मुखं यस्य सः ॥१४॥
—ओ)०(ओ—
॥ ८.२२.१५ ॥
स तत्र हासीनम् उदीक्ष्य सत्-पतिं
हरिं सुनन्दाद्य्-अनुगैर् उपासितम् ।
उपेत्य भूमौ शिरसा महा-मना
ननाम मूर्ध्ना पुलकाश्रु-विक्लवः ॥
**श्रीधरः : **शिरसा नमन्न् एवोपेत्य मूर्ध्ना ननाम । बलेस् तत्-कृतम् अनुग्रहं दृष्ट्वा पुलकैर् अश्रुभिश् च विक्लवो विह्वलः ॥१५॥
**क्रम-सन्दर्भः : **स तत्र हासीनम् इति वामन-रूपेण पुनर् अवशिष्ट-तत्-सङ्कल्प-प्राप्तये न्याये प्रवृत्तत्वात् ॥१५॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२२.१६ ॥
श्री-प्रह्राद उवाच—
त्वयैव दत्तं पदम् ऐन्द्रम् ऊर्जितं
हृतं तद् एवाद्य तथैव शोभनम् ।
मन्ये महान् अस्य कृतो ह्य् अनुग्रहो
विभ्रंशितो यच् छ्रिय आत्म-मोहनात् ॥
**श्रीधरः : **त्वयैवेति । न ह्य् ऐन्द्रं पदम् एतदीयं त्वयापहृतं, किन्तु स्वीयम् एव पुनः स्वी-कृतं, तच् च शोभनम् एव कृतम् । तत्र हेतुः, मन्य इति । यद् यस्माच् छ्रीर् एव यद् आत्म-मोहनं तस्माद् विभ्रंशितः ॥१६॥
**क्रम-सन्दर्भः : **त्वयैवेति । यद्य् अस्मान् महानुग्रहाद् आत्मना सुभग-रूप-गुण-युक्तेन स्वेन यन् मोहनं वशीकारः, तस्माद् एव हेतोः श्रियो विभ्रंशितः, न तु बलात्, न च दोष-मय-श्री-निहरेण पूर्वक-क्रमेणेत्य् अर्थः ॥१६॥
**विश्वनाथः :**त्वयैवेति । न ह्य् ऐन्द्रं पदम् एतदीयं त्वयापहृतं, किन्तु स्वीयम् एव पुनः स्वीकृतं, तच् च शोभनम् एव कृतम् । यतः संयतोऽपि जनः, तत् तस्यां सम्पदि सत्यां क आत्मनो गतिस् तत्त्वं यथावद् विचष्टे ? नो कोऽपीत्य् अर्थः । न च अत्र तव दत्तापहार-लक्षणो दोषोऽपि स्नेहेन पुत्र-हस्ते दत्तस्यापि मोदकादेर् अहिताशङ्कया पुनर् अच्छिद्य नीतवतः पितुर् यथा तथेत्य् अर्थः ॥१६॥
—ओ)०(ओ—
॥ ८.२२.१७ ॥
यया हि विद्वान् अपि मुह्यते यतस्
तत् को विचष्टे गतिम् आत्मनो यथा ।
तस्मै नमस् ते जगद्-ईश्वराय वै
नारायणायाखिल-लोक-साक्षिणे ॥
**श्रीधरः : **मोहनत्वम् एवाह—यया श्रिया विद्वान् अपि यतः संयतोऽपि मुह्यति, तत् तस्यां सत्यां कोऽन्यः पुमान् आत्मनो गतिं तत्त्वं यथावद् विचष्टे पश्यति । तस्मै महा-कारुणिकाय ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :पूर्व-श्लोकस्य टीका द्रष्टव्या।
—ओ)०(ओ—
॥ ८.२२.१८ ॥
श्री-शुक उवाच—
तस्यानुशृण्वतो राजन् प्रह्रादस्य कृताञ्जलेः ।
हिरण्यगर्भो भगवान् उवाच मधुसूदनम् ॥
**श्रीधरः : **तस्य प्रह्रादस्यानुशृण्वत उवाचेति । किञ्चिद् वक्तुं प्रवृत्त इत्य् अर्थः ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उवाचेति । किञ्चिद् वक्तुं प्रवृत्त इत्य् अर्थः ॥१८॥
—ओ)०(ओ—
॥ ८.२२.१९ ॥
बद्धं वीक्ष्य पतिं साध्वी तत्-पत्नी भय-विह्वला ।
प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवाङ्-मुखी नृप ॥
**श्रीधरः : **तदैव विन्ध्यावलिर् अपि वक्तुं प्रवृत्ता, तां च संमानयन् हिरण्यगर्भः क्षणं तूष्णीं स्थितः । अतस् तस्या एव वाक्यं प्रथमम् अवतारयति—बद्धं वीक्ष्येति ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तदैव विन्ध्यावलिर् अपि वक्तुं प्रवृत्ता, तां च संमानयन् हिरण्यगर्भः क्षणं तूष्णीं स्थितः । अतस् तस्या एव वाक्यं प्रथमम् अवतारयति—बद्धं वीक्ष्येति । भय-विह्वला भगवत्य् अपराध-भय-व्यग्रा अवाङ्-मुखी स्त्री-स्वभावान् नीचीन-वदना ॥१९॥
—ओ)०(ओ—
॥ ८.२२.२० ॥
श्री-विन्ध्यावलिर् उवाच—
क्रीडार्थम् आत्मन इदं त्रि-जगत् कृतं ते
स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः ।
कर्तुः प्रभोस् तव किम् अस्यत आवहन्ति
त्यक्त-ह्रियस् त्वद्-अवरोपित-कर्तृ-वादाः ॥
**श्रीधरः : **त्रि-जगतः कर्तुः प्रभोः पालकस्य अस्यतः संहर्तुश् चेश्वरस्य तवान्ये किम् आवहन्ति, किं समर्पयन्ति ? त्वयावरोपितः कर्तृ-वादः कर्तारः स्वतन्त्रा वयम् इति वाद-मात्रम् अपि येषां ते ।
अयं भावः—लोक-त्रयं मयार्पितं तृतीय-पादाय देहं समर्प्य प्रतिश्रुतम् ऋतं करोमीति देहादेषु स्वाम्य्-आविष्कारेण ब्रुवन्न् अयं कुबुद्धिर् निर्लज्जश् च, यतस् त्वम् एव सर्वस्यापि स्वामी, अतो मन्द-बुद्धिम् एनं केवलं कृपया विमुच्य पालयेति ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ते त्वया, कुधियो बलि-प्रभृतयः । कर्तुः स्रष्टुः प्रभोः पालयितुः अस्यतः संहर्तुश् च तवेति चतुर्थ्य्-अर्थे षष्ठ्यः । एति भावःआय तुभ्यं किं वस्तु आवहन्ति ददति । अहन्तास्पद-ममतास्पद-वस्तूनां मध्ये कस्मिन् वस्तुनि स्वाम्यं वर्तते यत् तृतीय-पादाय प्रतिश्रुतम् अमृतं करोमीति उक्त्वा स्व-देहं दातुम् इच्छन्ति, त्यक्त-ह्रियः त्रिभुवनस्य देहस्य च त्वत्-सृष्टत्वात् त्वदीयम् एवेदं सर्वं तुभ्यं दत्त्वा स्वकीर्ति-चिकीर्षवो लज्जाम् अपि किं त्यक्तवन्तः ? इत्य् अर्थः । अत एवैते महोन्माद-रोग-ग्रस्तास् त्वया सद्-वैद्येन कृपया साधु चिकित्सिता इत्य् आह—अवरोपितोऽत्यूर्ध्वम् आरोहन्न् अपि सहसैवावरोहितः त्रिभुवन-पालन-कर्तारो वयम् इति मिथ्याहङ्कार-मूलकः कर्तृ-वादो येषां तेषां ते तस्माद् अपराधिनोऽस्य बन्धनम् उचितम् एवेति भावः ॥२०॥
—ओ)०(ओ—
॥ ८.२२.२१ ॥
श्री-ब्रह्मोवाच—
भूत-भावन भूतेश देव-देव जगन्मय ।
मुञ्चैनं हृत-सर्वस्वं नायम् अर्हति निग्रहम् ॥
**श्रीधरः : **तद् एवं प्रह्रादस्य विन्ध्यावलेश् च परमार्थोक्त्या प्रसन्नो हरिः, ब्रह्मा तु लोक-दृष्ट्यैव विज्ञापयति—भूत-भावनेति त्रिभिः ॥२१॥
**क्रम-सन्दर्भः : **आत्मीयत्वेन श्री-प्रह्लाद-विन्ध्यावल्यौ तावत् तद्-अवज्ञा-गर्भम् एव निवेदितवत्यौ । श्री-ब्रह्मा तु तद्-भक्त-पक्षपातेन बलि-पक्षम् एव गृहीत्वा स-विनोदं निवेदयति—भूतेति ॥२१॥
विश्वनाथः : तद् एवं प्रह्लादस्य विन्ध्यावलेश् च परमार्थोक्त्या प्रसादितम् एव भगवन्तं ब्रह्मा लोक-तत्त्व-दृष्ट्यैव प्रसादयति—भूतेति ॥२१॥
[अत्रानुरूपार्थकं ६.११.२३, १०.८८.८ पद्य-द्वयं द्रष्टव्यम्।]
—ओ)०(ओ—
॥ ८.२२.२२ ॥
कृत्स्ना तेऽनेन दत्ता भूर् लोकाः कर्मार्जिताश् च ये ।
निवेदितं च सर्वस्वम् आत्माविक्लवया धिया ॥
**श्रीधरः : **निग्रहान् अर्हत्वे हेतुः—कृत्स्नेति । सर्वस्वम् एवाह—आत्मेति ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ते तुभ्यम् आत्मा स्व-देहश् च निवेदितः ॥२२॥
—ओ)०(ओ—
॥ ८.२२.२३ ॥
यत्-पादयोर् अशठ-धीः सलिलं प्रदाय
दूर्वाङ्कुरैर् अपि विधाय सतीं सपर्याम् ।
अप्य् उत्तमां गतिम् असौ भजते त्रि-लोकीम्
दाश्वान् अविक्लव-मनाः कथम् आर्तिम् ऋच्छेत् ॥
**श्रीधरः : **तद् एव कैमुत्य-न्यायेनाह । यस्य तव पादयोः सलिल-मात्रम् अपि प्रदाय सर्वोऽपि जन उत्तमां गतिं प्राप्नोति, तस्मै तुभ्यम् असौ बलिस् त्रि-लोकीं दाश्वान् दत्तवान् स आर्तिं कथं प्राप्नुयात् ? ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **निग्रहानर्हत्वं कैमुत्य-न्यायेनाह—यद् इति । असौ सर्वोऽपि जन उत्तमां गतिं वैकुण्ठ-प्राप्तिं भजति । बलिस् तु त्रि-लोकीं दाश्वान् दत्तवान् कथम् आर्तिं प्राप्नुयात्? ॥२३॥
—ओ)०(ओ—
॥ ८.२२.२४ ॥
श्री-भगवान् उवाच—
ब्रह्मन् यम् अनुगृह्णामि तद्-विशो विधुनोम्य् अहम् ।
यन्-मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥
श्रीधरः : तस्य विशोऽर्थान् । नन्व् अर्थापहारः कोऽयम् अनुग्रहः ? तत्राह—यन्-मदः यैर् अर्थैर् मदो यस्य सः । अत एव स्तब्धोऽनम्रः सन् । मद-स्तम्भ-हेतूनाम् अर्थानाम् अपहार एवानुग्रह इत्य् अर्थः ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तस्य विशो धनानि । नन्व् धनापहारः कोऽयम् अनुग्रहः ? तत्राह—**यन्-मदः **यैर् अर्थैर् मदो यस्य सः ॥२४॥
—ओ)०(ओ—
॥ ८.२२.२५ ॥
यदा कदाचिज् जीवात्मा संसरन् निज-कर्मभिः ।
नाना-योनिष्व् अनीशोऽयं पौरुषीं गतिम् आव्रजेत् ॥
**श्रीधरः : **दुर्लभं पुरुष-जन्म कथञ्चिल् लब्धवतो जीवस्य जन्मादि-निमित्तो गर्वो महा-हानि-करः, तस्य च नाशो मद्-अनुग्रहाद् एवेत्य् आह, यदेति द्वाभ्याम् । अनीशः पर-तन्त्रः सन्निजैः कर्मभिर् नाना-योनिषु कृमि-कीटकादिषु संसरन् ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **न च सर्वस्यैवानुग्राह-जीवस्य धनानि हरामि कस्यचिन् न हरामि च कस्मैचिद् अतिशयेन ददामि च मद्-अनुग्रहस्य लोकैर् अतर्क्यत्वाद् विविध-जातीयत्वाद् अतो जीवेषु मद्-अनुग्रह-लक्षणं शृण्व् इत्य् आह—यदेति नाना-योनिषु कृमि-कीटादिष्व् अपि अनीशः पर-तन्त्रः संसरन्न् एव यदा कदाचिद् एव पौरुषीं गतिं मनुष्य-जन्म प्राप्नुयात् ॥२५॥
—ओ)०(ओ—
॥ ८.२२.२६ ॥
जन्म-कर्म-वयो-रूप-विद्यैश्वर्य-धनादिभिः ।
यद्य् अस्य न भवेत् स्तम्भस् तत्रायं मद्-अनुग्रहः ॥
**श्रीधरः : **तत्र पौरुष्यां गतौ जन्मादिभिर् अपि यस्य यदि स्तम्भो न भवेत्, तर्ह्य् अयं मद्-अनुग्रह एव ॥२६॥
**क्रम-सन्दर्भः : **श्री-प्राप्तिर् द्विधा—कर्मादिना, भगवद्-अनुग्रहेण च । तत्र ब्रह्मन्न् इत्य्-आदिना कर्म-प्राप्ताया एव श्रियो दोषो वर्णितः । मद्-दत्तायास् तु नास्त्य् एव स इत्य् आह—जन्मेति । अतः सुतलाधिपत्येन पुनः स्वर्गाधिपत्येन च न मदो भवितेति भावः ॥२६॥
विश्वनाथः : तत्र पौरुष्याङ्गतौ जन्मादिभिर् यदि भ्रंशोऽवहेलनादि-हेतुर् गर्वो न भवेत् तदा तत्र पुंसि मद्-अनुग्रहोऽयं पूर्वोक्तात् धन-हरण-लक्षणाद् अन्योऽनुमेय इत्य् अर्थः । तस्य धनादिकं नापि हरामि अपहारकत्वाभावाद् इति भावः ॥२६॥
—ओ)०(ओ—
॥ ८.२२.२७ ॥
मान-स्तम्भ-निमित्तानां जन्मादीनां समन्ततः ।
सर्व-श्रेयः-प्रतीपानां हन्त मुह्येन् न मत्-परः ॥
**श्रीधरः : **कथं तर्हि ध्रुवादिभ्योऽर्थ-संपदो ददासि ? इति चेत्, तत्राह—मान एव स्तम्भोऽनम्रता, तस्य निमित्त-भूतानां समन्ततः सर्वशः सर्व-श्रेयः प्रतिकूलानं जन्मादीनां सत्त्वेऽपि, जन्मादिभिर् इति वा । हन्तेति खेदे । हे ब्रह्मन्, मत्-परो न मुह्येत् । अतो भक्तस्येच्छया सम्पदोऽपि ददामि । अभक्तस् तु मुह्येद् इति तद्-अपहार-रूपम् एव तस्यानुग्रहं करोमीति भावः ॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : किं च, मानो गर्वस् तद्-विशेषः स्तम्भोऽनम्रता, तयोर् निमित्त-भूतानां जन्मादीनां न मुह्येत् । नाग्निस् त्व् अप्यति काष्ठानाम् इतिवत् षष्ठी** । **तैर् जन्मादिभिर् न मुह्येद् इत्य् अर्थः । समन्ततः सर्वथैव हन्त आश्चर्यम् एतद् इति पद-द्वय-प्रयोगात् पूर्ववत् यदि शब्द-प्रयोगाच् च कदाचिद् अपि न मुह्येद् इति स च मत्-परो मद्-एकान्त-भक्त एवात्यन्तिको मद्-अनुग्रहवान् एव पूर्वोक्ताद् अपि शिष्यत एव तादृग्भ्यो ध्रुवादि-भक्तेभ्यः सम्पदो ददाम्य् एवेति भावः । कर्म-जन्या हि सम्पद् अनर्थ-कारिणी ताम् एव प्रथमानुकम्प्य भक्तस्य भगवान् हरति, न तु स्व-दत्ताम् इति केचित् । स्व-भक्त-प्रेम-वर्धन-चतुरस्य हरेर् नायम् अपि नियमः । पाण्डवादाव् अपि सम्पद्-अपहार-दर्शनाद् इत्य् अपरे ॥२७॥
—ओ)०(ओ—
॥ ८.२२.२८ ॥
एष दानव-दैत्यानाम् अग्रनीः कीर्ति-वर्धनः ।
अजैषीद् अजयां मायां सीदन्न् अपि न मुह्यति ॥
**श्रीधरः : **अस्य चेदानीं मत्-परत्वाद् अन्यैर् दुष्प्रापम् अपि दास्यामीति वक्तुं तस्य मोहाभावम् आह, एष त्रिभिः ॥२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नन्व् आस्ताम् एतत् प्रस्तुतो बलिर् अयं तव कीदृशानुग्रहवान् भक्तो यस्य सम्पदो हरसि ? इति तत्राह—एष इति । अजैषीत् न तु जेष्यति जयतीति वा प्रयुक्तम् । तेन पूर्वम् एव मायां जितवतोऽस्य स्तम्भादयो मायिकाः कुतः सम्भवेयुर् यन् निवर्तनार्थं मया धनैश्वर्य-हरणं कार्यम् इति द्योतितम् । सीदन्न् अपि न मुह्यतीति सम्पद्भिर् अमुह्यन्न् अपि जनो विपत्-प्राप्ति-क्षणे वैक्लव्यान् मुह्यन्न् एव दृष्ट इति भावः ॥२८॥
—ओ)०(ओ—
॥ ८.२२.२९-३० ॥
क्षीण-रिक्थश् च्युतः स्थानात् क्षिप्तो बद्धश् च शत्रुभिः ।
ज्ञातिभिश् च परित्यक्तो यातनाम् अनुयापितः ॥
गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः ।
छलैर् उक्तो मया धर्मो नायं त्यजति सत्य-वाक् ॥
**श्रीधरः : **न ह्य् एतस्मिन् कुले कश्चिन् निःसत्त्वः कृपणः पुमान् [भा।पु। ८.१९.३] इत्य्-आदिना छलैर् एव मया धर्म उक्तः, तथापि तं धर्म-मयं न त्यजति, अतः सत्य-वाक् ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अयं तु मयापि विपत्-सिन्धु-मध्ये निक्षिप्तोऽपि न मुह्यतीति किं वक्तव्यं स्व-निष्ठा-लेशम् अपि न त्यजतीत्य् आह—क्षीणेति । न ह्य् एतस्मिन् कुले कश्चिन् निःसत्त्वः कृपणः पुमान् [भा।पु। ८.१९.३] इत्य्-आदिना मया प्रथमतश् छन्नैर् एव प्रायेणाधर्मोऽपि धर्म उक्तः, तथैवान्ते,
विप्रलब्धो ददामीति त्वयाहं चाढ्य-मानिना ।
तद् व्यलीक-फलं भुङ्क्ष्व निरयं कतिचित् समाः ॥ [भा।पु। ८.२०.३४]
इत्य् अनेन धर्मोऽप्य् अधर्म उक्तः । तद् अप्य् अयं सत्य-वाक् सत्यं न त्यजति । अन्यस् त्व् एवंविधेऽर्थे शठे शाठ्यं प्रकुर्वीतेति नीत्या शाठ्यम् एव कुर्यात् । तस्मान् मया भक्त-वत्सलेनापि कृतम् एतस्यैतादृश-कदर्थनं स्व-भक्ति-निष्ठा-निःसीम-धैर्यादि-गुण-प्रख्यापनार्थम् एवेति भावः ॥३०॥
—ओ)०(ओ—
॥ ८.२२.३१ ॥
एष मे प्रापितः स्थानं दुष्प्रापम् अमरैर् अपि ।
सावर्णेर् अन्तरस्यायं भवितेन्द्रो मद्-आश्रयः ॥
**श्रीधरः : **मे मय । अहम् एवाश्रयः पालको यस्य सः ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : न चास्य सम्पदो हरामीति त्वया ज्ञेयम् इत्य् आह—एष इति । अमरैर् दुष्प्रापम् इति इन्द्र-पदात् स्वर्गाद् अपि सुतलस्याधिक्यं तदानीम् एवाद्भुतं श्री-कृष्ण-दत्त-श्रीदाम-धामवद् इति ज्ञेयम् । न चेन्द्रं पदं त्व् अस्य गतम् इति मन्तव्यम् इत्य् आह—सावर्णेर् इति । न च तद् अपि तत्रापि देवा इमं कदर्थयिष्यन्तीति वाच्यम् । मद्-आश्रयः अहम् अस्य द्वार-पालो भूत्वा जाग्रद् एव स्थास्यामीति भावः ॥३१॥
—ओ)०(ओ—
॥ ८.२२.३२ ॥
तावत् सुतलम् अध्यास्तां विश्वकर्म-विनिर्मितम् ।
यद् आधयो व्याधयश् च क्लमस् तन्द्रा पराभवः ।
नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥
**श्रीधरः : **“स्थानं प्रापितः” इति यद् उक्तं तद् एव स्थानम् आह—तावत् सावर्णि-मन्व्-अन्तर-पर्यन्तं सुतलमध्यास्ताम्, अधिवसत्व् इत्य् अर्थः । यद् यस्मिन् वसताम् आध्य्-आदयो ममेक्षया न संभवन्ति ॥३२॥
**क्रम-सन्दर्भः : **तन्द्रेत्य् अत्र तन्त्रीति क्वचित् । उणादाव् ई-प्रत्ययोऽयम् ॥३२॥
विश्वनाथः : विश्वकर्मणो विशेषेण स्वर्गीयामरावती-पुराद् अतिवैशिष्ट्येन निर्मितम् इति भगवद्-अभिप्रायेण तत्-क्षणाद् एव तत् ततोऽधिकं जातम् इति भावः । यत् यत्र ॥३२॥
—ओ)०(ओ—
॥ ८.२२.३३ ॥
इन्द्रसेन महाराज याहि भो भद्रम् अस्तु ते ।
सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥
**श्रीधरः : **एवं ब्रह्माणं प्रत्युक्त्वा करुणा-पर-वशः साक्षाद् बलिं प्रत्याह—इन्द्रसेनेति चतुर्भिः ॥३३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **एवं ब्रह्माणं प्रत्युक्त्वा साक्षाद् बलिम् आह—इन्द्रसेनेति । महाराजेति तव महाराजत्वं नापयाति, यतः स्वर्गिभिः प्रार्थ्यम् एव, न तु लभ्यम् ॥३३॥
—ओ)०(ओ—
॥ ८.२२.३४ ॥
न त्वाम् अभिभविष्यन्ति लोकेशाः किम् उतापरे ।
त्वच्-छासनातिगान् दैत्यांश् चक्रं मे सूदयिष्यति ॥
**श्रीधरः : **त्वच्-छषनम् अतिगच्छन्त्य् अतिवर्तन्त इति तथा तान् ॥३४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सूदयिष्यति खण्डयिष्यति ॥३४॥
—ओ)०(ओ—
॥ ८.२२.३५ ॥
रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् ।
सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥
**श्रीधरः : **तथापि भगवद्-वियोगात् तद् अनिच्छन्तं प्रत्याह—सदेति ॥३५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : न च मद्-विरह-दुःखम् इत्य् आह—सदा सन्निहितम् इति ॥३५॥
—ओ)०(ओ—
॥ ८.२२.३६ ॥
तत्र दानव-दैत्यानां सङ्गात् ते भाव आसुरः ।
दृष्ट्वा मद्-अनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति ॥
**श्रीधरः : **सङ्गात् य आसुरो भावः, स विनङ्क्ष्यति ॥३६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **दुःसङ्गाच् च मा भैषीर् इत्य् आह—तत्रेति । त्वादृश-भक्त-सङ्गाद् दुष्टा अपि शिष्टा भवन्तीति भावः ॥३६॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वाविंशश् चाष्टम-स्कन्धे सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
बलि-मोक्षणं नाम
द्वाविंशोऽध्यायः ।
॥ ८.२२ ॥
(८.२३)
-
दिशन्त्य् एवेत्य् अर्थः (ग, घ) ↩︎